लक्षणं महदादीनां प्रकृतेः पुरुषस्य च
अथ त्रिंशोऽध्यायः
देवहूतिरुवाच–
लक्षणं महदादीनां प्रकृतेः पुरुषस्य च ।
स्वरूपं लक्ष्यतेऽमीषां येन तत् पारमार्थिकम् ॥ १ ॥
यथा साङ्ख्येषु कथितं यन्मूलं तत् प्रचक्षते ।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरशः प्रभो ॥ २ ॥
तात्पर्यम्
यथा साङ्ख्येषूक्तं तथा कथितम् । यत्साङ्ख्यमूलं तल्लक्षणं प्रचक्षते ॥ १,२ ॥
पदरत्नावली
एवं तावज्ज्ञानान् मोक्षो, ज्ञानं चाष्टाङ्गयोगेन प्रचितया भगवदुपासनया जायत इत्यभिहितम् । अधुना भक्तियोगस्य तारतम्यमभिधीयतेऽस्मिन्नध्याये । तत् प्रसञ्जयितुं सामान्यतो ज्ञानमपि विविच्य ज्ञातुं महदादिलक्षणं पृच्छति देवहूतिः– लक्षणमित्यादिना ॥ येन लक्षणेन अमीषां महदादीनां पारमार्थिकं स्वरूपं लक्ष्यते ज्ञायते ॥
वक्तव्यार्थे नियममाह– यथेति ॥ यथा साङ्ख्येषूक्तं तथा कथितं, महदादिलक्षणज्ञानं पुरुषार्थोप-योगि स्यादिति शेषः । अन्यशास्त्रोक्तं किं न स्यादिति तत्राह– यन्मूलमिति ॥ यत्साङ्ख्यमूलं तल्लक्षणं प्रचक्षते, प्राज्ञा इति शेषः, तल्लक्षणं मम ब्रूहीत्यन्वयः । साङ्ख्यमूलत्वाल्लक्षणस्येत्यर्थ इति । उक्तम-पीममर्थं विस्तरेण ब्रूहीत्याह– भक्तियोगस्येति ॥ मार्गं प्रकारम् ॥ १,२ ॥
प्रकाशिका
इदानीं भक्तियोगस्य तारतम्यादिकं ज्ञातुं तत्प्रसञ्जनाय देवहूतिरुक्तं प्रशस्य भक्तिमार्गादिकथनं प्रार्थयते ॥ लक्षणमिति । येन लक्षणेनामीषां महदादीनां पारमार्थिकस्वरूपं लक्ष्यते ज्ञायते ।
अत्र यथा साङ्ख्येषु कथितमित्यस्यान्वयाप्रतीतेरपेक्षितमध्याहृत्य योजयति ॥ यथेति । तथा चोक्त-शब्दस्य तथाशब्दस्य चाध्याहार इति भावः । साङ्ख्येषु शास्त्रेषु यथोक्तं तथैव कुतः कथनीयमित्यतः प्राप्तं यन्मूलं तत्प्रचक्षत इत्येतद्व्याख्याति ॥ यत्साङ्ख्यमूलमिति । तथा च यत्साङ्ख्यं मूलं प्रतिपादकं यस्येति मूलार्थ इति भावः । तल्लक्षणं महदादीनां लक्षणं प्रचक्षते प्राज्ञाः । तथा च साङ्ख्यशास्त्रस्य प्राचुर्येण महदादिलक्षणप्रतिपादनाय प्रवृत्तत्वात्तदनुसारेणैव त्वया मम कथितमित्याशयेनोक्तस्य प्रशंसाऽनेन कृतेति ज्ञातव्यम् ॥ ततश्चायं मूलार्थः ॥ महदादीनां प्रकृतेः पुरुषस्य च लक्षणं यथा साङ्ख्येषु शास्त्रेषूक्तं तथा त्वया कथितम् । नाहमत्र त्वया प्रलोभितेत्याशयः । कीदृशं लक्षणं येन लक्षणेनामीषां महदादीनां पारमार्थिकं यथावस्थितस्वरूपं लक्ष्यते इतरव्यावृत्ततया ज्ञायते तत् । साङ्ख्योक्तप्रकारेणैव कस्मात्कथनीयमित्यत उक्तम् ॥ यन्मूलमिति । यत्साङ्ख्यं मूलं प्रतिपादकं यस्य तत्तथा । तन्महदादिलक्षणं प्रचक्षते प्राज्ञाः । तथा च तन्महदादिलक्षणं यन्मूलं प्रचक्षते तेषु साङ्ख्येषु यथोक्तं तथा त्वया कथितमिति योजना । एवमुक्तं प्रशस्य स्वजिज्ञासितकथनं प्रार्थयते ॥ भक्ति-योगस्येति । पूर्वमुक्तेः पुनः किमर्थं प्रश्न इत्यत उक्तम् ॥ विस्तरश इति ॥ १,२ ॥
विरागो येन पुरुषो भगवन् सर्वतो भवेत् ।
आचक्ष्व जीवलोकस्य विविधाः कर्मसंसृतीः ॥ ३ ॥
पदरत्नावली
न केवलं भक्तियोगमार्गेणालं, वैराग्याभवे तस्य चञ्चलत्वसम्भवात् । अतो विरक्तिमता भाव्यम् । अतस् तत्प्रकारोऽपि वक्तव्य इत्याह– विराग इति ॥ पुरुषः सर्वतो विरागो विगतरागो भवेदिति येनातो जीवलोकस्य गर्भवासादिलक्षणः विविधाः कर्मसंसृतीर्मम आचक्ष्वेत्यन्वयः । यद्वा येन संसृतीनां ज्ञानेन विरागो भवेत् तादृज्ज्ञानोत्पत्तिम् आचक्ष्वेति ॥ ३ ॥
प्रकाशिका
भक्तिदार्ढ्याय वैराग्यस्यापेक्षितत्वात्तत्साधनमपि कथयेति प्रार्थयते ॥ विराग इति । कर्मानुसारिणीः संसृतीः । येन संसृतीनामाख्यानेन सर्वतः सर्वत्र देहगेहादौ विरागो विगतरागो भवेत् ॥ ३ ॥
कालस्येश्वररूपस्य परेषां च परस्य ते ।
स्वरूपं बत कुर्वन्ति यद्धेतोः कुशलं जनाः ॥ ४ ॥
पदरत्नावली
कालस्वरूपज्ञानमपि पुरुषार्थोपयोगीति तद्विषयप्रश्नं करोति– कालस्येति ॥ जना यद्धेतोर्यस्य कालनाम्नस्तव भयनिमित्तात् कुशलं कुर्वन्ति, परेषामुत्तमानां सकाशादपि परस्योत्त-मस्य तस्य ते तव ईश्वररूपस्य ऐश्वर्यमूर्तेः कालस्य स्वरूपमाचक्ष्वेत्यन्वयः । बत अद्भुतम् । स्त्रीत्वादिदं बोद्धुमाक्यम् । तथापि त्वत्प्रसादात् शक्ता स्यामित्यामन्त्रयामि । ‘बत त्वामन्त्रणेऽद्भूते’ इति यादवः ॥ ४ ॥
प्रकाशिका
जना यद्धेतोर्यस्य कालनाम्नस्तव भयात्कुशलं कर्म कुर्वन्ति, परेषामुत्तमानां सकाशादपि परस्योत्तमस्य तस्य ते तवेश्वररूपस्यैश्वर्यमूर्तेः कालस्य स्वरूपमाचक्ष्वेत्यन्वयः । बताद्भुतम् । स्त्रीत्वाद्बोद्धुमशक्यं तथापि त्वत्प्रसादाच्छक्ता स्यामित्यामन्त्रयामीति ॥ ४ ॥
लोकस्य मिथ्याभिमतेरचक्षुषश्चिरं प्रसुप्तस्य तमस्यनाश्रये ।
श्रान्तस्य कर्मस्वनुविद्धया धिया त्वमाविरासीः किल योगभास्करः ॥ ५ ॥
पदरत्नावली
ऋषिदेवादिष्वेकं प्रति अयं प्रश्नः किं न स्यात् ? किमिति मां प्रति ? इत्याशङ्क्य तस्य तादृशप्रश्नवचनप्रभुत्वाभावादिह लोके तव ज्ञानप्रवर्तनायावतीर्णत्वाच्च त्वमेव समर्थ इति भावेनाह– लोकस्येति ॥ लुक् प्रकाशने इति धातोः प्रकाशो ज्ञानं लोकस्य परमात्मज्ञानप्राप्तियोग्यस्य जनस्य । संसारान्मुमुक्षोरित्यर्थः । हिताय योगभास्करः ज्ञानयोगादित्यस् त्वमाविरासीः । किल लोक-वेदादिवार्ता, अन्यस्येदृक्सामर्थ्याभावादिदं संभावितं च, ‘वार्तासम्भावयोः किल’ इति च । अवतार-साफल्यमेवोपपादयति– अचक्षुष इत्यादिना ॥ प्रत्यक्षतो दृश्यमानत्वाच्चक्षुर्हीनत्ववचनं व्याहतमिवेत्यत उक्तम्– चिरं प्रसुप्तस्येति ॥ अनाश्रयेऽपारे तमस्यविद्यालक्षणेऽनादिव तव प्रसुप्तस्य शयानस्य । तत्फलमाह– मिथ्याभिमतेरिति ॥ बोधकाभावादन्यथाज्ञानिनो देहाद्यभिमानित्वात् । एतत्फलमाह– श्रान्तस्येति ॥ कर्मसु पुण्यपापलक्षणेषु अनुविद्धयानुरक्तया धिया श्रान्तस्यानवस्थितेरिति ॥ ५ ॥
प्रकाशिका
त्वदवतारस्य ज्ञानप्रवर्तनार्थत्वात्त्वमेवेदं वक्तुं समर्थ इत्याशयेनाह ॥ लोकस्येति । अचक्षुषो ज्ञानदृष्टिशून्यस्यातो मिथ्याभिमतेर्मिथ्याभूतस्वातन्त्र्याभिमानयुक्तस्यातः कर्मसु पुण्यपाप-रूपेष्वनुविद्धयाऽऽसक्तया धिया श्रान्तस्यात एवानाश्रयेऽपारे तमसि संसारे चिरमनादित एव प्रसुप्तस्य शयानस्य लोकस्य मोक्षयोग्यजनस्य । तादर्थ्ये षष्ठी । तदर्थम् । तद्धितार्थमिति यावत् । योगभास्करो ज्ञानयोगप्रकाशने भास्कर इव स्थितस्त्वमाविरासीः । किलेति प्रमाणप्रसिद्धिं दर्शयति ॥ ५ ॥
मैत्रेय उवाच–
इति मातुर्वचः श्लक्ष्णं प्रतिनन्द्य महामुनिः ।
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दितः ॥ ६ ॥
पदरत्नावली
मातुर्वचः श्रुत्वा कपिलेन भगवता किमुत्तरं प्रत्यूचे इतीतरचोद्यं परिहरति– मैत्रेय उवाच । अर्द गताविति धातोः करुणामर्दितो गतः । अनेन करुणैव वक्तव्यत्वे कारणमित्यसूचि ॥६॥
प्रकाशिका
श्लक्ष्णं मृदु । करुणार्दितः कृपांगतः प्राप्तः । अर्द गताविति धातोः ॥ ६ ॥
भगवानुवाच–
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥
पदरत्नावली
पुरुषार्थसाधनेषु भक्तियोगस्य प्राधान्यादत्र प्रथमतस् तत्प्रकारं निरूपयति– भक्तियोग इति ॥ भामिनि सौन्दर्यादिगुणपूर्णे मन्मातः । शास्त्रमार्गैर्भाव्यते निरूप्यते । बाहुविध्ये निमित्तमाह– स्वभावेति ॥ तामसादिस्वभावोद्बोधकसत्त्वादिगुणभेदेन भावो भक्तिर्विभिद्यते तामसादि-भेदेन नाना भवतीत्यर्थः ॥ ७ ॥
प्रकाशिका
भो भामिनि । संसाराख्ये वैरिणि कोपयुक्ते सुन्दरि मातः । मार्गैः शास्त्रमार्गै-र्भाव्यते निरूप्यते । बाहुविध्ये निमित्तमाह ॥ स्वभावेति ॥ स्वभावो योग्यता तदुद्वोधका गुणाः सत्त्वादयस्तेषां मार्गेण भेदेनेत्यर्थः । भावो भक्तिः ॥ ७ ॥
अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव च ।
संरम्भी भिन्नदृग् भावं मयि कुर्यात् स तामसः ॥ ८ ॥
पदरत्नावली
बाहुविध्यं दर्शयति– अभिसन्धायेति ॥ यो हिंसां परोपद्रवं दम्भं धर्मध्वजवृत्तिं मात्सर्यं चाभिसन्धाय मनसि कृत्वा हरिभक्तेषु संरम्भी गूढद्वेषो भिन्नदृक् वस्त्वयथार्थदर्शी मयि भावं कुर्यात् स तामसभक्त इत्युच्यत इत्यन्वयः ॥ ८ ॥
प्रकाशिका
बाहुविध्यमेवाह ॥ अभिसन्धायेति । यो हिंसां परोपद्रवम् अभिसन्धाय मनसि कृत्वा संरम्भी हरिभक्तेषु द्वेषी भिन्नदृक् वस्त्वपेक्षयाऽन्यथादर्शी । भावं भक्तिम् ॥ ८ ॥
विषयानभिसन्धाय यश ऐश्वर्यमेव च ।
अर्चादावर्चयेद् यो मां पृथग्भावः स राजसः ॥ ९ ॥
तात्पर्यम्
तद्रूपाणां पृथग्भावः ॥ ९ ॥
पदरत्नावली
शब्दादिविषयान् दिक्षु व्याप्तं यशश् छत्रचामराद्यैश्वर्यं वा मनसाभिसन्धाय सङ्कल्प्य योऽर्चादौ प्रतिमादौ मामर्चयेत् स पृथग्भावस् तद्रूपाणां भेददर्शी । अर्चादिस्थितानां तेषां रूपाणां भेदं पश्यन् राजसो भक्तः ॥ ९ ॥
प्रकाशिका
अर्चादौ प्रतिमादौ । आदिपदात्स्थण्डिलपरिग्रहः । पृथग्भाव इत्यत्र राजसभक्त-धर्मत्वसिध्यर्थमपेक्षितमध्याहृत्यार्थमाह ॥ तद्रूपाणामिति । तथा चार्चादिस्थितभगवद्रूपाणां पृथग्भावः, पृथग्भक्तिमानित्यर्थः । कृष्णादिर्न मदिष्टदाने समर्थः । किन्तु रामादिरेवेति मत्वा । तत्रैव सम्यग्भक्ति-मानिति यावत् ॥ ९ ॥
कर्मनिर्हारमुद्दिश्य परस्मिन् वा तदर्पणम् ।
यजेद् यष्टव्यमिति वाऽपृथग्भावः स सात्त्विकः ॥ १० ॥
तात्पर्यम्
अपृथग्भावः स सात्विकः ॥ १० ॥
पदरत्नावली
यः कर्मनिर्हारं पापक्षयमुद्दिश्य मां यजेत् परस्मिन् सर्वोत्तमे मयि तदर्पणं कर्मार्पणं चोद्दिश्य यजेत्, यष्टव्यं विहितत्वान् ममेदं कर्तव्यमिति वा मां यजेत्, अपृथग्भावः मद्रूपाणामभेददर्शी स सात्विको भक्तः । राजससात्त्विकयोर्भेदे पृथगपृथग्भावावेव निमित्तं न त्वर्चादा-वर्चनम् । अज्ञस्य विहितत्वात् तज्ज्ञस्य गुणहेतुत्वात् । तदुक्तम्– ‘अज्ञोऽर्चयेदेवार्चायामन्यथा दोषवान् भवेत् । ज्ञस्त्वर्चयन् सुगुणवानन्यथा दोषवान् न तु ॥’ इति ॥ १० ॥
प्रकाशिका
कर्मनिर्हारं पापक्षयं, परस्मिन्सर्वोत्तमे मयि, तस्य कर्मणोऽर्पणं समर्पणं चोद्दिश्य यजेत् । यष्टव्यं विहितत्वादेवेदं कर्म कर्तव्यम् । न फलकांक्षयेति वा यजेत् । अत्रापि पृथग्भाव इति छेदभ्रान्तिं वारणायाह ॥ अपृथग्भाव इति । तद्रूपेषु सर्वेषु साम्येनैव भक्तिमानित्यर्थः । ननु कुत एवं छेदप्रदर्शनमित्यत उत्तरवाक्यबलादित्याशयेन तदनुवदति ॥ स सात्त्विक इति । तथा च सात्त्विक-भक्तधर्मत्वसिद्धये तथैव छेदः कार्यः । अन्यथा राजसधर्माद्भेदो न स्यादित्याशयः ॥ १० ॥
मद्गुणश्रुतमात्रेण मयि सर्वगुणाश्रये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।
औतुक्यव्यवहिता या भक्तिः पुरुषोत्तमे ॥ १२ ॥
पदरत्नावली
निर्गुणभक्तिलक्षणं वक्ति– मद्गुणेति ॥ यथाम्बुधौ गङ्गाम्भसो गतिरविच्छिन्ना तथा मद्गुणश्रवणमात्रेण यस्य सर्वगुणाश्रये सर्वगुणानामाश्रयो निषेवणं यस्मिन् स तथा, सर्वगुण-मूर्तिरित्यर्थः, तस्मिन् मयि मनोगतिरविच्छिन्ना निरन्तरा ॥ तेन क्रियमाणस्य निर्गुणस्य भक्तियोगस्य लक्षणमुदाहृतं हीत्यन्वयः । आत्यन्तिकभक्तिलक्षणं ब्रूते– औतुकीति ॥ ११,१२ ॥
प्रकाशिका
एवं गुणकार्यभक्तियोगलक्षणमुक्त्वेदानीमुत्तमभक्तानां यः स्वाभाविक इन्दुप्रथमता-शून्यो भक्तियोगस्तस्य लक्षणमाह ॥ मद्गुणेति । मद्गुणश्रुतमात्रेण मद्गुणानां श्रवणमात्रेणापि मयि मनोगतिर्मनसः प्रावण्यरूपा या भक्तिः सा निर्गुणस्य स्वाभाविकस्य भक्तियोगस्य लक्षणं स्वरूपमुदाहृतं हीत्यन्वयः । कथंभूते मयि । सर्वगुणाश्रये ज्ञानानन्दादिकल्याणगुणपूर्णे । पुरुषोत्तमे क्षराक्षरचेतनोत्तमे । कथंभूता मनोगतिः । यथा गङ्गांभसोऽविच्छिन्नाऽम्बुधौ गतिस्तथाऽव्यवहिता निरन्तरा । औतुकी फलानुसन्धानशून्या ॥ ११,१२ ॥
सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमित्युत ।
दीयमानान् न गृह्णन्ति विना मत्सेवनं जनाः ॥ १३ ॥
पदरत्नावली
सार्ष्टिः समानैश्वर्यम् ॥ १३ ॥
प्रकाशिका
तेषां निष्कामतां कैमुत्येनोपपादयति ॥ सालोक्यमिति । सार्ष्टिः समानैश्वर्यम् । एकत्वं सायुज्यम् । उतशब्दोऽप्यर्थः । इति प्रसिद्धान्मोक्षानपि दीयमानान् फलत्वेन न गृह्णन्ति । तदा तेषामितरपुरुषार्थकामना नास्तीति किं वक्तव्यमित्याशयः । तर्हि किमिच्छन्तस्ते भक्तिं कुर्वन्तीत्यत आह ॥ विनेति । मत्सेवामेवेच्छन्तीत्यर्थः ॥ १३ ॥
स एव भक्तियोगाख्य आत्यन्तिक उदाहृतः ।
येनातिव्रज्य त्रिगुणान् मद्भावायोपपद्यते ॥ १४ ॥
पदरत्नावली
तद्भक्तिफलमाह– येनेति ॥ येन आत्यन्तिकभक्तियोगेन त्रिगुणान् लिङ्ग-शरीरेन्द्रियाणि अतिव्रज्यातिक्रम्य सन्त्यज्येत्यर्थः, मद्भावाय चिदानन्ददेहेन मयि सत्तायै औन्नत्यस्थित्यै उपपद्यते योग्यो भवतीत्यर्थः ॥ १४ ॥
प्रकाशिका
नन्विदमात्यन्तिकभक्तियोगलक्षणत्वेन शास्त्रेषूच्यतेऽतः कथं स्वाभाविकभक्तियोग-लक्षणत्वेनोक्तमित्यत आह ॥ स एवेति । य उक्तरीत्या स्वाभाविको भक्तियोगो स एवेत्यर्थः । अतो न विरोध इति भावः । कुतोऽयमात्यन्तिकभक्तियोगाख्य इत्यतस्तत्फलस्यानेन जायमानत्वादित्याशयेनाह ॥ येनेति । येन स्वाभाविकेन भक्तियोगेन त्रिगुणान्सत्वादिभक्तान् अतिव्रज्यातिक्रम्य मद्भावाय मयि स्थित्यै । सायुज्यायेति यावत् । उपपद्यते योग्यो भवति ॥ १४ ॥
निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यशः ॥ १५ ॥
पदरत्नावली
एतादृशभक्त्युत्पत्तौ किं साधनम् ? अत आह– निषेवितेनेति ॥ निषेवितेना-निमित्तेन निष्कामेन नितरां सेवितेन । अनिमित्तमिति पाठे यथा फलाभिसन्धिरहितो भवति तथा निषेवितेनेत्यर्थः । अष्टवर्षं ब्राह्मणमुपनयीतेत्यादिवेदविहितेन स्वधर्मेण क्रियायोगेन भगवत्पूजालक्षणयोगेन कर्मयोगेन वा । नातिहिंस्रेण प्राण्युपद्रवरहितेन ॥ १५ ॥
प्रकाशिका
एवम्भूताया भक्तेरभिवृद्धौ कारणान्याह ॥ निषेवितेनेति । अनिमित्तेन विष्णू-द्देश्यकेन । अनिमित्तमिति पाठे अः विष्णुरेव निमित्तमुद्देश्यो यथा स्यात्तथा नितरां सेवितेनेत्यर्थः । महीयसा श्रद्धातिशययुक्तेन क्रियायोगेन तन्त्रसारोक्तभगवदर्चनरूपेण । नातिहिंस्रेण हिंसारहितेन ॥१५॥
मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनैः ।
भूतेषु मद्भावनया सत्येनासङ्गमेन च ॥ १६ ॥
पदरत्नावली
मद्धिष्ण्यानां दर्शनादिभिर्भूतेषु जीवेष्वन्तर्यामित्वेन मद्भावनया मम स्मरणलक्षणो-पासनया, सत्येन भूतहितेन वचसा, असङ्गमेन दुर्जनसङ्गराहित्येन ॥ १६ ॥
प्रकाशिका
मद्धिष्ण्यानां मत्प्रतिमानां दर्शनादिभिः । भूतेषु जीवेषु मद्भावनयाऽन्तर्यामित्वेन मदुपासनया सत्येन सज्जनहितवचनेन । असङ्गमेन दुर्जनसङ्गराहित्येन ॥ १६ ॥
महतां बहुमानेन हीनानामनुकम्पया ।
मैत्र्या वा चात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥
पदरत्नावली
महतां स्वोत्तमानां बहुमानेनार्चनेन, हीनानां स्वाधमानामनुकम्पया, तुल्येषु स्वसमेषु मैत्र्या मित्रभावेन ज्ञात्वा तद्रक्षणाभावेनेत्यर्थः ॥ १७ ॥
आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।
आर्जवेनार्यसङ्गेन निरहंक्रियया तथा ॥ १८ ॥
पदरत्नावली
आध्यात्मिकानुश्रवणाद् वेदान्तशास्त्रश्रवणात्, आर्जवेनाऽवक्रबुद्धित्वेन, आर्याणां पण्डितानां सङ्गेन, निरहंक्रियया देहादावहंममतावर्जनेन ॥ १८ ॥
प्रकाशिका
आध्यात्मिकं वेदान्तशास्त्रं तस्य निरन्तरश्रवणात् । आर्जवेन विष्णुवैष्णवेषु मनोवाक्कायवृत्तीनामवैपरीत्येन ॥ १८ ॥
मद्धर्मेणापि यर्ह्येतैः परिसंशुद्ध आशयः ।
पुरुषस्याञ्जसाऽभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥
पदरत्नावली
मद्धर्मेणोर्ध्वपुण्ड्रादिधारणादिना । स्वधर्माद्यनुष्ठानफलमाह– यर्हीति ॥ पुरुष-स्योपासकस्य यर्हि यदा कथितैरेतैर् धर्मादिभिरनुष्ठितेर् अन्तःकरणमाशयः परितः शुद्धः स्यात् तदाञ्जसा कालक्षेपमन्तरेण,श्रुतमात्रगुणं केवलं गुण एव श्रुता न दोषा यस्य स श्रुतमात्रगुणस्तमञ्जसा तत्त्वं मामभ्येतीत्यन्वयः । ‘गुणाः श्रुताः सुविरुद्धाश्च देवे’ इत्यादिवाक्यं हिशब्दगृहीतम् ॥ १९ ॥
प्रकाशिका
मद्धर्मेण विष्णुपञ्चकोपवासादिरूपेणेत्येतैः साधनैर्यर्हि यदा पुरुषस्याधिकारिण आशयोऽन्तःकरणं परिसंशुद्धोऽत्यन्तं निर्मलस्तदा श्रुतमात्रगुणं केवलं गुणा एव श्रुता न दोषा यस्य सः श्रुतमात्रगुणः, तं मामञ्जसाऽभ्येति । मद्गुणश्रवणमात्रेण प्रतिदिनं मय्येव वर्धमानं सद् एतीत्यर्थः
॥ १९ ॥
यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् ।
एवं योगरतं चेत आत्मानमविकारि यत् ॥ २० ॥
पदरत्नावली
परिशुद्धाशयस्य हरौ मनःप्रसादप्रकारं वक्ति– यथेति ॥ यथाऽशयात् पुष्पादागत्य वातरथः वात एव रथो यस्य स तथा गन्धो घ्राणमावृङ्क्ते आवृणोति वशीकरोति एवमुक्तसाधनाख्य-योगेन हरौ रतं यदविकारि विषयविकाररहितं तच्चेत आत्मानं हरिप्रसादाभिमुखं करोतीत्यन्वयः । अनेन निर्गुणभक्तियोगवान् आत्यन्तिकभक्तियोगवान् भूत्वा परमात्मापरोक्षवान् भवतीत्युक्तम् ॥ २० ॥
प्रकाशिका
उक्तसाधनसम्पत्त्यनन्तरं यत्नाभावेऽपि मनसो भगवत्प्राप्तौ दृष्टान्तमाह ॥ यथेति । वातो रथः प्रापको यस्य गन्धस्य स तथा । आवृंक्ते आवृणोति । वशीकरोतीति यावत् । आशयात्पुरुषाख्यस्थानादागत्य योगरतमुक्तसाधनसहितम् । अत एवाविकारि विषयविकारशून्यं यच्चेतस्तदात्मानं परमात्मानम् आवृंक्ते ॥ २० ॥
अहं सर्वेषु भूतेषु भूतात्माऽवस्थितः सदा ।
तमवज्ञाय मां मर्त्यः कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥
पदरत्नावली
एवंविधैर्योगिभिः कुत्र ध्येय इति तत्राह– अहं सर्वेष्विति ॥ भूतानामादानादि-कर्तृत्वाद् भूतानामात्मान्तर्यामित्वेन ध्येय इति भावः । तामसराजसभक्तयोरधमत्वे कारणमेकोक्त्याह– तमिति ॥ सर्वेष्वेतदित्यनुवर्तते योऽहं सर्वभूतेष्ववस्थितस्तं मामवज्ञाय मर्त्यस्तामसो राजसश्चार्चायामर्चया विडम्बनं कुरुत इति यस्मादतस्तामसो राजसश्चाधम इत्यर्थः ॥ २१ ॥
प्रकाशिका
यदुक्तं पूर्वाध्याये सर्वभूतेषु चात्मानमित्यनेन सर्वभूतनिष्ठस्य भगवतोऽभिन्नत्वं भूतादानादिकर्तृत्वं च तदवश्यं ज्ञात्वा सर्वत्र भगवदनुसन्धानेन पूजा कार्येति वक्तुं तावदनुसन्धाना-भाववतो निन्दति ॥ अहं सर्वेष्विति । तं मामवज्ञाय हित्वा प्रतिमादिकमेव देव इति ज्ञात्वा यत्पूजादिकं कुरुते तदर्चा विडम्बनं वास्तवपूजाया अनुकरणं न वास्तवपूजेत्यर्थः ॥ २१ ॥
यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वार्चां भजते मौढ्याद् भस्मन्येव जुहोति सः ॥ २२ ॥
द्विषतः परकाये मां मानिनो भिन्नदर्शिनः ।
भूतेषु बद्धवैरस्य न मनः शान्तिमृच्छति ॥ २३ ॥
पदरत्नावली
एतदेव विवृणोति– यो मामिति ॥ भस्मनीत्युक्त्या तामसात् किञ्चिदुत्तमत्व-मवबोद्धव्यम् । मन्त्रावृत्त्या फलसम्भवात् ॥ तामसस्य न किञ्चित् फलमित्याह– द्विषत इति ॥ परकाये मां द्विषत इत्यस्य विवरणम्– भिन्नदर्शिन इति ॥ शान्तिर्मन्निष्ठा, भूतेषु वैष्णवेषु बद्धवैरस्य
॥ २२,२३ ॥
प्रकाशिका
एतदेव विवृणोति ॥ यो मामिति । मौढ्यादयमेव देव इति बुद्ध्या । एवं भूतेषु भगवानस्तीति ज्ञानाभावे (निन्दामुक्त्वा तद्रूपाणामभेदज्ञानाभावेऽपि) निन्दामाह ॥ द्विषत इति । परकाये मां द्विषत इत्यस्य विवरणं भिन्नदर्शिन इति । अन्तर्यामिभेददर्शिन इत्यर्थः । भूतेषु बद्धवैरस्य हरिप्रतिमात्वानुसन्धानेन तेषु दानमानादिरूपपूजाशून्यस्य । शान्तिं भगवन्निष्ठाम् ॥ २२,२३ ॥
अहमुच्चावचैर्द्रव्यैः क्रिययोत्पन्नयाऽनघे ।
नैव तृप्येऽर्चितोऽर्चायां भूतग्रामावमानिनः ॥ २४ ॥
पदरत्नावली
मत्प्रीत्यभावादर्चादिविडम्बनत्वं स्पष्टमाह– अहमिति ॥ भूतग्रामे भूतसमूहे स्थितं मामवमन्तुं शीलमस्यास्तीति भूतग्रामावमानी तस्य ॥ २४ ॥
प्रकाशिका
ननु किमेतेषां पूजया सालग्रामादिरूपार्चायामेव सम्यगर्चितो भगवांस्तृप्तो भविष्य-तीत्यत आह ॥ अहमिति । अर्चायां सालग्रामादिरूपायां विद्यमानत्वेनाहमर्चितोऽप्युच्चावचैर्द्रव्यैरुत्पन्नया क्रिययाऽन्नजलदानादिरूपया भूतग्रामावमानिनो भगवत्प्रतिमात्वेन भूतसमूहापूजकस्य नैव तृप्ये तृप्तो न भवामि । अतो मत्प्रतिमात्वेन तेषामपि पूजा कार्येत्याशयः ॥ २४ ॥
अर्चादावर्चयेत् तावदीश्वरं मां स्वकर्मकृत् ।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥
तात्पर्यम्
‘अज्ञोऽर्चयेदेवार्चायामन्यथा दोषवान् भवेत् । ज्ञस्त्वर्चयन्स गुणवानन्यथा दोषवान् न तु’ इति कापिलेये ॥ २५ ॥
पदरत्नावली
तर्ह्यर्चादिपूजाविधायकशास्त्रं व्यर्थमिति तत्राह– अर्चादाविति ॥ आदिशब्दात् स्थण्डिले । स्वकर्मकृद् विहितं कुर्वन् निषिद्धं परित्यजन् स्वहृदि स्थितं देवदत्तादिसर्वभूतेष्ववस्थितं मामभेदतो न वेद, सर्वभूतान्तर्यामिरूपेषु भेददर्शनस्यानर्थफलत्वमिति च ॥ २५ ॥
प्रकाशिका
ननु तर्ह्यर्चादावर्चनं किं न कार्यं? नेत्याह ॥ अर्चादाविति । आदिपदेन स्थण्डिलपरिग्रहः । स्वविहितनिष्कामकर्मकृज् जिज्ञासुः सर्वभूतनियामकतया स्थितं परमात्मानं यावन्न स्वहृद्यपरोक्षतो वेद तावत् तावत्पर्यन्तमेव अर्चादावर्चयेदित्युक्त्याऽपरोक्षज्ञानिनोऽर्चादावर्चनं नापेक्षित-मिति प्रतीयते । न चैतद्युक्तम् । अपरोक्षज्ञानिनामप्यर्चादावर्चनस्य श्रुत्यादिसिद्धत्वादतोऽस्याभिप्रायं प्रमाणेनैवाह ॥ अज्ञ इति । जिज्ञासुरित्यर्थः । ज्ञोऽपरोक्षज्ञानी । अर्चायामर्चयन् । तुशब्दोऽवधारणे । गुणवानेवानन्दाभिवृद्धिमानेव । एवकारव्यावर्त्यमाह ॥ अन्यथेति । सोऽपरोक्षज्ञानी । अन्यथाऽ-र्चादावर्चनाभावे जिज्ञासुवद्दोषवान्नैव भवेदित्यर्थः । अनेन दोषभीत्याऽर्चादावर्चनमपरोक्षज्ञानपर्यन्तं तदनन्तरं तु न दोषभीत्या तत्रार्चनमिति मूलाभिप्राय उक्त इति ज्ञातव्यम् ॥ २५ ॥
आत्मनश्च परस्यापि यः करोत्यन्तरोदरम् ।
तस्य भिन्नदृशो मृत्युर्विधत्ते भयमुल्बणम् ॥ २६ ॥
तात्पर्यम्
अन्तरोदरं भिन्नं ब्रह्म । आत्मस्थमन्यस्थं च ब्रह्म यो भेदेन पश्यति । ‘उदरं ब्रह्मे’ति श्रुतेः ॥ २६ ॥
पदरत्नावली
अन्तर्यामिरूपाणि भिन्नानि पश्यतीति भिन्नदृक्, तमाह– आत्मनश्चेति ॥ य आत्मनः स्वस्य हृदि स्थितं परस्य देवदत्तादेर्हृदि गतमन्तरेण भेदेन युक्तमुदरं ब्रह्म करोति स्वतस्त्वभिन्नं ब्रह्म भिन्नं पश्यतीत्यर्थः, उदरं ब्रह्मेति श्रुतेः, उदरमन्तरं कुरुत इति च । अन्तर्यामि-रूपाणि भिन्नानि पश्यतीति भिन्नदृक्, तस्य मृत्युः संसाराख्यदुर्जनमारयिता श्रीनृसिंहस्वरूप उल्बणं भयं नित्यदुःखलक्षणमन्धन्तमो विधत्त इत्यन्वयः ॥ २६ ॥
प्रकाशिका
अन्तर्यामिभेददर्शिनो न शान्त्यभाव एव फलं किन्तु तमःप्राप्तिश्च भवतीत्याह ॥ आत्मनश्चेति । अत्रान्तरोदरमित्यस्य प्रकृतोपयुक्तमर्थं तावदाह ॥ अन्तरोदरमिति । अन्तराशब्दो भेदवाची । उदरशब्दो ब्रह्मवाची । अन्तराऽन्तरेण युक्तमुदरमिति युक्तपदाध्याहारमित्यभिप्रेत्य भिन्नं ब्रह्मेत्युक्तम् । इदानीमात्मनश्चेति पूर्वार्धतात्पर्यं दर्शयति ॥ आत्मस्थमिति । ब्रह्मवाचिन उदर-शब्दस्यात्मनः परस्येत्येताभ्यां प्रत्येकं सम्बन्धः । उभयत्र षष्ठ्यर्थः । तत्स्थत्वमित्यभिप्रेत्य तदुभय-तात्पर्यमाह ॥ आत्मस्थमिति । अन्तरेत्यस्यार्थः ॥ भेदेनेति । करोतीत्यस्यार्थः ॥ पश्यतीति । उदर-शब्दस्य ब्रह्मवाचकत्वे प्रमाणमाह ॥ उदरमिति ॥ ततश्चायं श्लोकार्थः ॥ य आत्मनः स्वस्य सम्बन्ध्युदरं ब्रह्म स्वस्थितं ब्रह्मेति यावत् । परस्य स्वभिन्नस्य देवदत्तादेः सम्बध्युदरं तत्स्थं ब्रह्म अन्तराऽन्तरेण भेदेन करोति पश्यति तस्य भिन्नदृशो भूतान्तर्यामिभेदज्ञानिनो मृत्युः सर्वदुर्जनमारकः श्रीनृसिंह उल्बणं भयं तमोरूपं भयं विधत्ते ददाति ॥ २६ ॥
अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।
अर्हयेद् दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥
पदरत्नावली
उक्तार्थोपसंहारमुखेन सर्वान्तर्यामिपूजाप्रकारं वक्ति– अथेति ॥ अन्तर्यामिरूपाणांं भिन्नत्वज्ञानमनर्थकमिति यस्मादथ तस्मात् सर्वेषु भूतेषु कृतालयं हरेरन्तर्यामिरूपं भूतात्मानं मां द्रव्यादिदानमानाभ्यां मैत्र्या स्वस्मादयमेव ममार्हः सुहृदिति भावेन निमित्तेनाभिन्नेन चक्षुषा अभेद-दर्शनेन अर्हयेदर्चयेदित्यर्थः ॥ २७ ॥
प्रकाशिका
एवमन्तर्यामिभेदज्ञानिनोऽनर्थमुक्त्वेदानीं सर्वभूतस्थं परमात्मानमभेदेन पूज्यं ज्ञात्वा तदधिष्ठानत्वेन सर्वभूतान्यपि पूजयेदित्याह ॥ अथेति । यत एवं भेदज्ञानमनर्थकरमथ तस्मात्सर्वभूतेषु कृतालयं कृतावासं भूतात्मानं भूतानामादानादिकर्तारं मामभिन्नेन चक्षुषा मद्रूपाणामभेदज्ञानेन । मदधिष्ठानभूतेषु सर्वभूतेषु भिन्नेन चक्षुषा मत्तः परस्परं च भेदज्ञानेन, मैत्र्या मित्रभावेन च दानमानाभ्यां तान्यर्हयेदर्चयेदित्यर्थः ॥ २७ ॥
जीवाः श्रेष्ठा ह्यजीवानां ततः प्राणभृतः शुभे ।
ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥ २८ ॥
तात्पर्यम्
प्राणभृतश्चलनयुक्ताः । ‘पशुवृक्षादिभेदेन जीवा एव स्वतः स्थिताः । संसृतौ व्यत्ययस्तेषां मुक्तौ तत्तत्स्वरूपता । तत्र स्थावरमुक्तेभ्यो वरा जङ्गममुक्तकाः । तेभ्यो मानुष-मुक्ताश्च विप्रमुक्तास्ततोऽधिकाः । तत्रोपदेशमात्रेण मुक्तेभ्यो वेदवेदिनः । अर्थज्ञा ऋषय-स्तेभ्योऽतो देवाः संशयच्छिदः । पूर्णधर्मा ततस्त्विन्द्रो निःसङ्गो गरुडस्ततः । भक्तिपूर्णो हरेर्ब्रह्मा तस्मान्नान्योऽधिकस्ततः । मुक्तौ वा संसृतौ वाऽपि सम्यगेषु हि ते गुणाः’’ इति कापिलेये
॥ २८ ॥
पदरत्नावली
हरेरन्तर्यामिरूपाणां तत्र तत्र सन्निधानविशेषात् तत्क्लृप्तत्वाच्च चेतनानां तारतम्यं तज्ज्ञानं च पुरुषार्थसाधनमिति द्योतयन् तत्तारतम्यं वक्ति– जीवा इत्यादिना ॥ संसारावस्थायां व्यत्ययेऽपि पशुवृक्षादिभेदेन स्थितानां जीवानां मुक्तौ निजमेव रूपमपेक्ष्य तारतम्यमत्रोच्यते । तदुक्तम्– ‘पशुवृक्षादिभेदेन जीवा एव स्वतः स्थिताः । संसृतौ व्यत्ययस्तेषां मुक्तौ तत्तत्स्वरूपता । तत्र स्थावर-मुक्तेभ्यो वरा जङ्गममुक्तकाः ॥ तेभ्यो मानुषमुक्ताश्च विप्रा मुक्तास्ततोऽधिकाः । तत्रोपदेशमात्रेण मुक्तेभ्यो वेदवादिनः ॥ अर्थज्ञा ऋषयस्तेभ्यो देवताः संशयच्छिदः । पूर्णधर्मस्ततस्त्विन्द्रो निःसङ्गो गरुडस्ततः ॥ भक्तिपूर्णो हरेर्ब्रह्मा तस्मान्नान्योऽधिकस्ततः । मुक्तो वा संसृतौ वापि सम्यगेषु हि ते गुणाः ॥’ इति । अजीवाश्चलनरहिताः स्थावरमुक्तास्तेषां सकाशाज्जीवा जङ्गममुक्ताः श्रेष्ठाः, अत्रापि विशेषद्योतनार्थम् इष्ठन्प्रत्ययः, हिशब्देनेश्वरशक्तेरचिन्त्यत्वं सूचयति । प्राणं प्रकृष्टचेष्टां बिभ्रतीति प्राणभृतः, श्रेष्ठा इत्यनुवर्तते । सचित्ता मनोव्यापारयुक्ता । इन्द्रियवृत्तयश् चक्षुरादीन्द्रियैः प्रवर्तमानाः
॥ २८ ॥
प्रकाशिका
दानमानाभ्यामर्चनं च हरिभक्तेषु तारतम्यानुसारेणैव कर्तव्यमिति वक्तुं तावत्सर्व-भक्ततारतम्यं दर्शयति ॥ जीवा इत्यादिना । अत्र ततो जीवेभ्यः प्राणभृतो जीवाः श्रेष्ठा इत्युच्यत इति प्रतीयते । न चैतत्सम्भवति । जीवेभ्यो जीवानामुत्तमत्वस्य बाधितत्वादतोऽत्र विवक्षितं प्राणभृच्छब्दार्थं दर्शयति ॥ प्राणभृत इति । तथा च चलजीवाः स्थावराश्च जीवपदेन ग्राह्याः । प्राणभृच्छब्देन तु चलनयुक्ताः पश्वादयो जङ्गमा अतो नानुपपत्तिरिति भावः । नन्विदं तारतम्यं न जीवस्वरूपेषु । तेषां स्वतश्चिद्रूपत्वेन पशुवृक्षत्वादिरूपत्वाभावात् । नापि देहावच्छिन्नेषु । तत्र कर्मवशादुच्चानामपि मनुष्यादीनां स्थावरादित्वप्राप्त्योक्ततारतम्यासम्भवादित्याशङ्कापरिहाराय मूलव्याख्यानरूपां स्मृतिं पठति ॥ पशुवृक्षादीति । जीवाः स्वत एव स्थिताः । तथा च केषाञ्चिज्जीवानां पशुपक्ष्यादिरूपो यो देहश्चिन्मात्रकोऽस्ति अतो नोक्तशङ्काऽवकाश इति भावः । ननु तेषामपि कर्मवशाद्व्यत्ययोऽस्त्येवेत्यत आह ॥ संसृताविति । तत्तत्स्वरूपता पशुपक्ष्यादिस्वरूपता । एकप्रकारेति शेषः । तथा चेदं तारतम्यकथनं मुक्तजीवस्वरूपविवक्षयैवेति भावः । एवमनुपपत्तिं परिहृत्येदानीं ततः प्राणभृत इत्यारभ्य व्याख्याति ॥ तत्र स्थावरेति । तत इत्यस्यार्थः स्थावरमुक्तेभ्य इति । प्राणभृत इत्यस्यार्थः जङ्गम-मुक्तिगा इति । प्राणभृत्स्ववान्तरतारतम्यकथनाय ततः सचित्ता इत्यादिको ग्रन्थः । तत्र चतुष्पाद इत्यन्तस्य जङ्गममुक्तिगा इत्यनेन ग्रहणमिति ज्ञातव्यम् । ततो द्विपादित्यस्य व्याख्यानं तेभ्यो मानुष-मुक्ताश्चेति । तेभ्यो मुक्ताश्चत्वारो वर्णा इति ग्राह्यम् । ततस्तेषु विप्रमुक्ता अधिका इत्यनेन तेषां ब्राह्मण उत्तम इत्येतदुक्तार्थम् । तत्र विप्रमुक्तेष्वपि केचिदनधीतवेदा वैदिकमन्त्रार्थोपदेशेन तदुपासनामात्र-जातेनाऽपरोक्षज्ञानेन मुक्ता इति ग्राह्यम् । उपदेशमात्रेण मुक्तेभ्य इत्यनुवादात् । वेदवेदिनो यथाशक्त्याऽधीतऋगादिवेदाः । अनेन वेदज्ञ इत्येतदुक्तार्थम् । ते के इत्याशङ्कायामुक्तम् ॥ ऋषय इति । अर्थज्ञा वेदार्थज्ञानिनः । मानुषेषु संप्रदायपूर्वकवेदार्थज्ञानमसम्भावितमिति भावः । अनेनार्थज्ञ इत्येतदुक्तार्थम् । ये संशयच्छिदः कथितास्ते देवा बृहस्पत्यादय इत्यर्थः । अनेन संशयच्छेत्तेत्ये-तदुक्तार्थम् । अनेन वेदवेदिन इत्यादिवचनाद्वेदज्ञ इत्याद्येकवचनानि समुदायाभिप्रायाणीति सूचयति । स्वधर्मकृदित्यस्य तात्पर्यम् पूर्णधर्म इति । संपूर्णस्वधर्मकृदित्यर्थः । सः क इत्यपेक्षायामिन्द्र एवात्र विवक्षित इत्याह ॥ इन्द्र इति । मुक्तसङ्ग इत्यस्यार्थः ॥ निःसङ्ग इति । सः कोऽत्र विवक्षित इत्यपेक्षायां गरुड इत्युक्तम् । मय्यर्पिताशेषक्रियार्थात्मरतिरित्यस्य तात्पर्यं हरेर्भक्तिपूर्ण इति । सः क इत्यपेक्षायामुक्तं ब्रह्मेति । मय्यर्पितात्मन इति श्लोकतात्पर्यं तस्मान्नान्योऽधिक इति । नन्वर्थ-ज्ञानादिशब्दैर्ऋष्यादयो व्याख्याताः । तत्र किं नियामकमित्यपेक्षायामाह ॥ सम्यगेष्विति । हि यस्मात्तेऽर्थज्ञत्वादयो गुणा एषु ऋष्यादिषु मनुष्याद्यपेक्षया सम्यक् संत्यतस्तद्वाचकैः शब्दैस्त एव व्याख्येया इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ अजीवा मोक्षयोग्यजीवविरुद्धजीवा नित्यसंसारिण-स्तमोयोग्याश्च तेषां सकाशाज्जीवाः स्थावरमुक्ता श्रेष्ठाः । हीति तत्र प्रमाणप्रसिद्धिं द्योतयति । ततः स्थावरमुक्तेभ्यः प्राणभृतः प्रकर्षेणाणम् अणनं चेष्टा तद्भृतो जङ्गममुक्ता इत्यर्थः । हे शुभे मातः । जङ्गमेष्वपि तारतम्यमाह ॥ सचित्ता इत्यादिना । सचित्ता मनोव्यापारमात्रयुक्ता इन्द्रियवृत्तयश्चक्षु-रादीन्द्रियाणां वृत्तयो येषु ते तथा ॥ २८ ॥
अत्रापि स्पर्शवेदिभ्यः प्रवरा रसवेदिनः ।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ २९ ॥
पदरत्नावली
अत्रापि इन्द्रियवृत्तिष्वपि स्पर्शज्ञाः प्रवरास्तेभ्यो माधुर्यादिरसज्ञाः, गन्धविदः गन्धगुणज्ञाः, शब्दविदः शब्दज्ञाः ॥ २९ ॥
प्रकाशिका
अत्रापीन्द्रियवृत्तिष्वपि स्पर्शवेदिनः प्रवरा इति ग्राह्यम् । तेभ्यो, रसवेदिनः माधुर्यादिरसज्ञा मत्स्यादयस्तेषां सकाशाद्गन्धविदो भ्रमरादयः शब्दविदः सर्पादयः ॥ २९ ॥
रूपभेदविदस्तत्र ततश्चोभयतोदतः ।
तेषां बहुपदः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥
पदरत्नावली
रूपभेदविदः शुक्लादिरूपविशेषज्ञाः, उभयतोदत उत्तराधरदन्तयुक्ताः, बहुपदः शरभादयः, चतुष्पादो गवादयः, द्विपान्मनुष्यो वर्णहीनः ॥ ३० ॥
प्रकाशिका
रूपभेदविदः शुक्लादिरूपविशेषज्ञाः । उभयतो दन्ता येषां ते तथा । उत्तराधर-दन्तयुक्ताः । अपादेभ्यस्तेभ्यो बहुपदास्तेभ्यश्चतुष्पादो द्विपान् मनुष्यो वर्णहीनः ॥ ३० ॥
ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ॥ ३१ ॥
पदरत्नावली
ब्राह्मणादिलक्षणाश्चत्वारो वर्णाः, ब्राह्मणो वेदसम्बन्धयोग्यः, तत्र ब्राह्मणेष्वपि उपदेशमात्रानुष्ठानेन जातापरोक्षज्ञानेन वेदज्ञो विप्र उच्यते, अर्थज्ञो वेदार्थज्ञ ऋषिरुक्तः ॥ ३१ ॥
प्रकाशिका
ब्राह्मणादिलक्षणाश्चत्वारो वर्णाः । तेषामज्ञानिनां सकाशाद्ब्राह्मणोऽनधीतवेदो गुरूपदिष्टवैदिकमन्त्रार्थोपासनामात्रजनितापरोक्षज्ञानेन मुक्त उत्तमः । वेदज्ञो यथाशक्त्यधीताखिलवेदः । अर्थज्ञो यथाशक्त्यधीताखिलवेदार्थज्ञः स ऋषिरुक्तः ॥ ३१ ॥
अर्थज्ञात् संशयच्छेत्ता ततः श्रेयान् स्वधर्मकृत् ।
मुक्तसङ्गस्ततो भूयान् न दोग्धा धर्ममात्मनः ॥ ३२ ॥
पदरत्नावली
वेदार्थसंशयच्छेत्ता देवः, जातवेकवचनम् । स्वस्य स्वतन्त्रस्य हरेर्धर्मं करोतीति स्वधर्मकृत् । त्रैलोक्यरक्षणलक्षणपूर्णधर्मकर्तृत्वादिन्द्रः । मुक्तसङ्गो गरुडः, अस्य विवरणम्– न दोग्धेति ॥ आत्मनः स्वस्य धर्मं न दोग्धा भगवत्प्रसादमन्तरेण कर्मफलमनाकाङ्क्षमाणो भूयानुत्तरः ॥ ३२ ॥
प्रकाशिका
संशयच्छेत्ता बृहस्पत्यादिदेवः । अत्र पूर्वत्र चैकवचनं समुदायापेक्षम् । स्वधर्म-कृदुक्तदेवापेक्षया स्वविहितपूर्णधर्मकृदिन्द्रः । मुक्तसङ्गो गरुडः । मुक्तसङ्गत्वमेव विवृणोति ॥ न दोग्धेति । आत्मनः स्वस्य धर्मं न दोग्धा भगवत्प्रीतिं विना इतरपुरुषार्थार्थं स्वधर्मव्ययमकुर्वाणः ॥३२॥
तस्मान्मय्यर्पिताशेषक्रियार्थात्मरतिर्नरः ।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः ।
न पश्यामि परं भूतमकर्तुः समदर्शनात् ॥ ३३ ॥
पदरत्नावली
तस्माद् गरुडान् मय्यर्पिताशेषक्रियार्थश्च मय्यर्पितसमस्तक्रियाफलश्च आत्मरतिश्च मय्येव मनोरतिश्च स मय्यर्पिताशेषक्रियार्थात्मरतिर् भक्त्या, न रीयते न क्षीयत इति नरः पूर्णभक्तिः, ब्रह्मा श्रेष्ठः । पूर्वोक्तेभ्य इव चतुर्मुखब्रह्मणोऽपि उत्तमोऽस्ति किम् ? नेत्याह– मयीति ॥ परमुत्तमम् । अः हरिः कर्ता स्रष्टा जनको यस्य सोऽकर्ता तस्मात् समदर्शनान् निर्दोषब्रह्मज्ञानवतः । यद्वा परं मुक्तौ संसारावस्थायां भूतमुत्पन्नं पुरुषं ब्रह्मणः समम् अधिकं वा न पश्यामीति । समदर्शनाच्छास्त्रेषु सम्यग्दर्शिनः ॥ ३३ ॥
प्रकाशिका
तस्माद्गरुडान्मय्यर्पिता अशेषक्रियार्था अशेषक्रियाफलानि येन स तथा । स चासावात्मरतिरितरापेक्षया पूर्णपरमात्मभक्तश्चेति कर्मधारयः । स च ब्रह्मैव । नरः परान्तकालात्पूर्वं न क्षीयत इत्यर्थः । ब्रह्मणोऽप्यधिकोऽस्ति किं नेत्याह ॥ मय्यर्पितेति । परमुत्तमं भूतम् अकर्तुर् अः परमात्मा कर्ता यस्य स, तथा तस्मात् समं सर्ववेदोक्तं परं ब्रह्म तस्य दर्शनं यस्य स तथा तस्मात्
॥ ३३ ॥
मनसैतानि भूतानि प्रणमेद् बहुमानयन् ।
ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥
तात्पर्यम्
जीवकलया सह भूतानि बहुमानयंस्तदालयत्वेनेश्वरं प्रणमेत् ॥ ३४ ॥
पदरत्नावली
एवं तारतम्यज्ञानवता किं कर्तव्यमित्याह– मनसेति ॥ अत्र जीवकलयेति द्विरावृत्या व्याख्येयं, जीवकलया सहैतानि स्थावरादिब्रह्मान्तानि भूतानि मनसा बहुमानयन्नीश्वरो भगवान् जीवकलया अनिरुद्धाख्यांशेन एषु प्रविष्टस् तदालयत्वेन स्थित इति तमीश्वरं प्रणमेत् । इयमुपास्तिर् योग्यस्येति शास्त्रान्तरसिद्धमिति ज्ञातव्यम् ॥ ३४ ॥
प्रकाशिका
एवं हरिभक्ततारतम्यमुक्त्वेदानीं तदनुसारेणैव तेषु हर्यधिष्ठानत्वबुद्ध्या दान-मानाभ्यामर्चनं कुर्वंस्तैः सह तदधिष्ठितं परमात्मानमपि प्रणमेदित्याह ॥ मनसेति । अत्र जीवकलया जीवस्वरूपेणेत्यन्यथाप्रतीतिवारणाय तदर्थमाह ॥ जीवकलया सहेति । तथा च जीवाख्यभिन्नांशेन सहेत्यर्थः । भूतानि प्रणमेदिति भूतानामेव नम्यत्वमुच्यत इति प्रतीयतेऽतोऽत्रान्वयं दर्शयन्नपेक्षित-मध्याहृत्य योजनां दर्शयति ॥ भूतानीति । बहुमानयन्दानमानाभ्यामर्चयंस्तदालयत्वेन तानि भूतान्यालयो यस्य स तथा तस्य भावस्तत्वं तेन विशिष्टं तदन्तर्यामिणमित्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ एतानि तारतम्योपेतानि पूर्वोक्तानि भूतानि बहुमानयंस्तारतम्येनैव दानमानाभ्यामर्चयन् जीवकलयोक्तरीत्या जीवरूपांशैः सह तदाश्रितमीश्वरं प्रणमेत् । कुत एवं भूतानां तारतम्येनार्चनमित्यतोऽत्र कारणमाह । भगवानीश्वर एतानि भूतानि तारतम्येनैव प्रविष्ट इति मनसा बुद्ध्या जीवकलया सह तदाश्रितमीश्वरं प्रणमेदिति । ईश्वराधिष्ठानजीवानां स्वापेक्षयोत्तमत्व एवैतत् । अन्यथा केवलमीश्वरं प्रणमेदिति ज्ञातव्यम्
॥ ३४ ॥
भक्तियोगश्च योगश्च मया मानव्युदीरितः ।
ययोरेकतरेणैव पुरुषः पुरुषं व्रजेत् ॥ ३५ ॥
तात्पर्यम्
एकतरभावेऽन्यतरस्य नियतत्वादेकतरेणैव ॥ ३५ ॥
पदरत्नावली
उक्तार्थमुपसंहरति– भक्तियोगश्चेति ॥ हे मानवि मया तव भक्तियोगश्च ज्ञानयोगश्च, चशब्दादर्चादावित्यादिना कथितकर्मयोगश्च गृह्यते, स च कथित इत्यन्वयः । एतद् द्वयमेव पुरुषार्थसाधनं नान्यदिति निर्धारयति– ययोरिति ॥ ययोर्ज्ञानभक्त्योरेकतरणैव ज्ञानयोगेनैव पुरुषः पुरुषं परमात्मानं व्रजेदित्यन्वयः । एकतरोऽलं चेदितरविधानं व्यर्थं न स्यात् । एकतरभावेऽन्यतरस्य नियतत्वाद् एकतरेणैवेत्युक्तं, धूमाग्न्योरिवाविनाभावात् ॥ ३५ ॥
प्रकाशिका
उपसंहरति ॥ भक्तियोगश्चेति । हे मानवि । योगो ज्ञानयोगः । नन्वनयोर्मध्ये एकैकस्यापि मोक्षहेतुत्वं ‘‘तरति शोकमात्मवित्’’ ‘‘भक्त्या त्वनन्यया शक्यः’’ इत्यादावुच्यते । तत्कुत उभयोक्तिरित्यत आह ॥ ययोरिति । अनेन कथमुक्तशङ्कानिवृत्तिरित्यतोऽवधारणाभिप्रायमाह ॥ एकतरभाव इति । नियतत्वान् नियतत्वमभिप्रेत्यैकतरेणैव । इत्युक्तमिति शेषः । तथा चाविनाभाव-रूपायोगव्यवच्छेदार्थ एवैवकारो न त्वन्ययोगव्यवच्छेदार्थ इति भावः ॥ ततश्चायं श्लोकार्थः ॥ ययोर्भक्ति-ज्ञानयोरेकतरेणैवैकतरस्यैकतराविनाभावेनैकतरेण पुरुषोऽधिकारी पुरुषमीश्वरं व्रजेदित्युच्यते । श्रुत्यादा-विति शेषः । अत उभयोक्तिर्युक्तेत्याशयः ॥ ३५ ॥
यत् तद् भगवतो रूपं ब्रह्मणः परमात्मनः ।
परं प्रधानात् पुरुषाद् दैवं कर्मविचेष्टितम् ॥ ३६ ॥
तात्पर्यम्
सर्वकर्माणि यस्य विचेष्टानिमित्तानि तत्कर्मविचेष्टितम् ॥ ३६ ॥
पदरत्नावली
भक्तियोगप्रश्नानन्तरं पृष्टजीवसंसृतेर् वक्तव्यत्वेऽपि बाहुल्यात् तदुल्लंध्य सूची-कटाहन्यायेन कालस्वरूपं वक्ति– यत् तदित्यादिना ॥ ब्रह्मणः पूर्णस्य परमात्मनः सर्वान्तर्यामिणो भगवतो भाग्यनिधेर् यत् प्रधानात् प्रकृतेः पुरुषाद् विरिञ्चात् परम् उत्तमं, दैवं सर्वदेवोत्तमं, यच्च कर्मविचेष्टितं सर्वकर्माणि यस्य विशिष्टचेष्टानिमित्तानि तद् यथोक्तम् ॥ ३६ ॥
प्रकाशिका
यदन्यत्पृष्टं जीवस्य संसृतिः कालस्य स्वरूपं च ममाचक्ष्वेति तत्र जीव-संसृतेर्बहुत्वादादौ तावत्सूचीकटाहन्यायेन कालस्य स्वरूपं वक्ति ॥ यत्तदिति । प्रधानात्प्रकृतेः पुरुषा-द्ब्रह्मणः परमुत्तमं दैवं सर्वदेवोत्तमम् । कर्मविचेष्टितमित्येतदप्रतीत्या व्याख्याति ॥ सर्वकर्माणीति । सर्वेषां कर्माणीत्यर्थः । यस्येत्यन्यपदार्थप्रदर्शनेन बहुव्रीहिरयमिति सूचयति । विचेष्टानिमित्तानीत्यनेन विचेष्टितं विचेष्टाविषयीभूतं तज्जन्यमिति यावदिति विचेष्टितशब्दार्थः प्रदर्शितः । तथा च सर्वेषां कर्माणि यस्य विचेष्टितानि प्रेरणाजन्यानि तदिति मूलार्थः ॥ ३६ ॥
रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।
भूतानां महदादीनां यतो भिन्नदृशां भयम् ॥ ३७ ॥
तात्पर्यम्
भिन्नदृशाम् ईश्वरापेक्षयाऽल्पदृशाम् । ‘भिन्नमल्पं विजानीयादभिन्नं पूर्णमिष्यते’ इति शब्दनिर्णये ॥ ३७ ॥
पदरत्नावली
यच्च रूनभेदास्पदं शुक्लादिरूपभेदानां ब्रह्माण्डादिपदार्थभेदानां चास्पदं, दिव्यम-प्राकृतं, यतो यस्मात् कालाद् भिन्नदृशामल्पज्ञानिनां भयं भवति, तद् वस्तु काल इत्याभिधीयते । ‘भिन्नमल्पं विजानीयादभिन्नं पूर्णमिष्यते’ इति वचनाद् ईश्वरापेक्षया अत्र भिन्नशब्दोऽल्पवाची ॥३७॥
प्रकाशिका
रूपभेदाः प्रतिमाविशेषाः । त एवास्पदमाश्रयो यस्य तत् । कालशब्दवाच्य-वाय्वादिरूपप्रतिमाविशेषसन्निहितमित्यर्थः । अतीतवर्तमानादिकालविशेषरूपप्रतिमासन्निहितमिति वा । अभिधीयते । परममुख्यया वृत्त्येति शेषः । यतो यस्मात्कालाख्यान्महदादीनां भूतानां ब्रह्मादिजीवानां भयं भवति स इत्युत्तरेणान्वयः । कथम्भूतानां महदादीनाम् । भिन्नदृशामिति भेदज्ञानिनां भयमित्य-न्यथाप्रतीतिवारणाय विवक्षितमर्थं दर्शयति ॥ भिन्नदृशामिति । ननु सर्वज्ञानां ब्रह्मादीनां कथमल्प-ज्ञत्वमुच्यत इत्यत उक्तम् ॥ ईश्वरापेक्षयेति । तथा चेश्वरापेक्षया तेऽल्पज्ञा एवेति भावः । भिन्नशब्दस्याल्पवाचित्वमेव कुत इत्यतस्तत्र प्रमाणमाह ॥ भिन्नमिति ॥ ३७ ॥
योऽन्तः प्रविश्य भूतानि भूतैरत्त्यखिलाश्रयः ।
स विष्ण्वाख्यो धिया ज्ञेयः कालः कलयतां प्रभुः ॥ ३८ ॥
पदरत्नावली
केचित् पूर्वापरकलाविकलः क्षण काल इत्यादिलक्षणमाचक्षते, तन्नेति भावेनाह– योऽन्तरिति ॥ यो भूतानामन्तः प्रविश्य भूतैर्भूतान्यत्ति संहरति, यश्चाखिलानामाश्रयः, यश्च कलयतां संहरतां रुद्रादीनां प्रभुः संहारसमर्थः, स विष्ण्वाख्यः कालो धिया साक्षिज्ञानेन ज्ञेय इत्यन्वयः । यमादिव्यवच्छेदार्थं विष्ण्वाख्य इति ॥ ३८ ॥
प्रकाशिका
यो भूतानामन्तः प्रविश्य तैर्भूतैर्भूतान्यत्ति संहरति यश्चाखिलानामाश्रयः । कलयतां संहरतां रुद्रादीनां प्रभुः संहरणसमर्थः स विष्ण्वाख्यः कालः धिया साक्षिज्ञानेन ज्ञेय इत्यन्वयः ॥३८॥
न चास्य कश्चिद् दयितो न द्वेष्यो न च बान्धवः ।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥
तात्पर्यम्
‘यथायोग्यातिरेकेण न द्वेष्यश्च प्रियो हरेरि’ति कापिलेये ॥ ३९ ॥ इति तृतीयतात्पर्ये त्रिंशोऽध्यायः ॥ ३० ॥
पदरत्नावली
चेतनत्वाच्च नोक्तलक्षणः कालोऽत्रोच्यत इति भावेनाह– न चास्येति ॥ ‘यथायोग्यातिरेकेण न द्वेष्यश्च प्रियो हरेः’ इति वचनाद् योग्यतातिरेकेण दयितो द्वेष्यश्च नास्तीत्यर्थः । अन्तकृत् संहारकर्ता ॥ ३९ ॥
प्रकाशिका
इतरपुरुषवत्स्वद्वेषिण एवात्ति न स्वदयितानिति किं नेत्याह ॥ न चास्येति । दयितः प्रियः । ननु भगवतोऽपि ब्रह्मरुद्रादीनां दयितानां कल्यादीनां द्वेष्याणां च सत्वात्कथ-मेतदित्यतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ यथायोग्येति । यथेति भिन्नं पदम् । योग्यशब्दो योग्यतापरः । तथा च यथा यावती यस्य द्वेषयोग्यता प्रीतियोग्यता वा । तदतिरेकेण तदाधिक्येन स हरेर्द्वेष्यः प्रियश्च न भवतीत्यर्थः । न च बान्धव इति मूलम् । नापि शरीरसम्बन्धीत्यर्थः । प्रमत्तं विषयासक्तम् । अन्तकृत्संहर्ता सन् ॥ ३९ ॥
यद्भयाद् वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
यद्भयाद् वर्षते देवो भगणो भाति यद्भयात् ॥ ४० ॥
पदरत्नावली
इतरेषां तदाज्ञानियतकर्तृत्वाच्च विष्णुरेवायं काल इति भावेनाह– यद्भयादिति ॥ भगणो नक्षत्रगणः ॥ ४० ॥
प्रकाशिका
यतो भयमित्युक्तं विवृणोति ॥ यद्भयादिति । अयं भूतवायुः प्रवहः । देव इन्द्रः । भगणो नक्षत्रगणः ॥ ४० ॥
यद् वनस्पतयो भीता लताश्चौषधिभिः सह ।
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥
पदरत्नावली
यद् यस्माद् भीताः ॥ ४१ ॥
प्रकाशिका
यद्यस्माद्भीताः ॥ ४१ ॥
स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यतः ।
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥ ४२ ॥
पदरत्नावली
स्रवन्ति स्यन्दन्ते । यतो यस्य भयान्नोत्सर्पति वेलामतीत्य न गच्छति । इन्धे ज्वलति । न मज्जति, जल इति शेषः ॥ ४२ ॥
प्रकाशिका
स्रवन्ति स्यन्दन्ते । यतो यस्य भयान्नोत्सर्पति वेलामतिक्रम्य न गच्छति । इन्धे दीप्यते । सगिरिभिर् गिरिभिः सह भूर्न मज्जति ॥ ४२ ॥
नभो ददाति श्वसतां मार्गं यन्नियमाददः ।
लोकस्य देहं तनुते महान् सप्तभिरावृतः ॥ ४३ ॥
पदरत्नावली
अदो नभो यन्नियमात् श्वसतां प्राणिनां मार्गं ददाति । सप्तभिस् तत्त्वादिभिरावृतो महान् ब्रह्मा लोकस्य जनस्य देहं तनुते सृजति ॥ ४३ ॥
प्रकाशिका
अदो नभो यन्नियमाद्यस्य नियमनात् श्वसतां प्राणिनाम् । महान् ब्रह्मा सप्तभिर्महदहङ्कारपञ्चभूतैरावृतस्तदात्मके देहे स्थितो ब्रह्माण्डान्तर्गत इति वा लोकस्य जनस्य देहं तनुते सृजति ॥ ४३ ॥
गुणाभिमानिनो देवाः सर्गादिष्वस्य यद्भयात् ।
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥
पदरत्नावली
गुणाभिमानिनो रुद्रादिदेवा यद्भयादस्य जगतोऽनुयुगं सर्गादिषु वर्तन्ते । एत-च्चराचरं येषां वशे तिष्ठति ॥ ४४ ॥
प्रकाशिका
गुणाभिमानिनः शब्दाद्यभिमानिनो रुद्राद्या अस्य विश्वस्य सर्गादिषु वर्तन्ते । एतच्चराचरं येषां वशे तिष्ठति ॥ ४४ ॥
सोऽनन्तोऽन्तकरः कालोऽनादिरादिकृदव्ययः ।
जनं जनेन जनयन् मारयन् मृत्युनाऽऽत्मनः ॥ ४५ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे त्रिंशोऽध्यायः ।
पदरत्नावली
स कालः । कालशब्दनिर्वचनभावेन कालं विशिनष्टि– अनन्त इत्यादि-विशेषणैः ॥ कल ज्ञान इति धातोर् ज्ञानरूपत्वाद् भौतिकवदन्तवान् न भवतीत्यनन्तः । कल च्छेदन इत्यतश् छेदनाख्यः । सर्वेषामन्तं करोतीत्यन्तकरः । अन्ताभावादनादिः । जातस्य हि ध्रुवो मृत्यु-रित्यादेः । अन्तकरत्वादादिकृत् । कल कामधेनावित्यतोऽव्ययः । अर्थिष्वासन्नेषु संवृतो निलीनो न भवतीति । जन्ममरणे चाज्ञयैव राजवत् करोतीत्याह– जनमिति ॥ स्वसन्निहितेन ब्रह्मादिजनेनात्मनो वशेन । मृत्युना रुद्रदुर्गादिना । अत एवंविधगुणविशिष्टः कालात्मा नारायणो मुमुक्षुभिरुपास्य इति सिद्धम् ॥ ४५ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे त्रिंशोऽध्यायः ॥
प्रकाशिका
आत्मनः स्वाधीनेन जनेन ब्रह्मादिना जनं जनयन् आदिकृद् आदौ कर्तेत्युच्यते । आत्मनः स्वाधीनेन मृत्युना रुद्रदुर्गादिना मारयन् अन्तकर इत्युच्यते । सोऽयं त्वनादिरनन्त इत्यन्वयः । एवं धिया ज्ञेय इत्येतदत्राप्यनुषञ्जनीयम् । तथा चोक्तगुणा उपसंहार्यतयोक्ता इति ध्येयम् ॥ ४५ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां त्रिंशोऽध्यायः ॥ ३-३० ॥