२९ एकोनत्रिंशोऽध्यायः

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे

अथ एकोनत्रिंशोऽध्यायः

भगवानुवाच–

योगस्य लक्षणं वक्ष्ये सबीजस्य नृपात्मजे ।

मनो येनैव विधिना प्रसन्नं याति सत्पथम् ॥ १ ॥

तात्पर्यम्

‘सबीजो वैष्णवो योगो निर्बीजस्त्वन्यदैवतः । बीजं विष्णुर्हि जगतः शाखाद्याश्चान्यदेवताः’ इति कौर्मे ॥ १ ॥

पदरत्नावली

कपिलो भगवान्, एवं तावद् विरक्तस्य भगवद्भक्तिसंपन्नस्य परमात्मोपासनाय जनितज्ञानेन स्वरूपाविर्भावलक्षणं कैवल्यं भवतीत्युक्तम्, इदानीं तस्य ज्ञानस्य साधनभूताष्टाङ्गयोगप्रकारं वक्ष्यामीति प्रतिजानीते– योगस्येत्यादिना ॥ बीजं विष्णुः, तेन सहितस्य वैष्णवस्येत्यर्थः । योगस्य लक्षणं वक्ष्येऽस्मिन्नध्याय इत्यन्वयः । ‘सबीजो वैष्णवो योगो निर्बीजस्त्वन्यदैवतः । बीजं विष्णुर्हि जगतः शाखाद्याश्चान्यदेवताः ॥’ इति । ‘सदिति ब्रह्म’ इति श्रुतेः सतो ब्रह्मणः पन्थानं यातीत्यतश्च योगस्य विष्णुविषयत्वं ज्ञायते ॥ १ ॥

प्रकाशिका

इदानीमपरोक्षज्ञानजनकमष्टविधयोगं वक्ष्यामीति प्रतिजानीते ॥ योगस्येति । अत्र सबीजस्येत्यस्य प्रकृतसङ्गतमर्थं तद्व्यावर्त्यं च प्रमाणेनैव दर्शयति ॥ सबीज इति । कुत इत्यत आह ॥ बीजमिति । हि यस्माद्विष्णुर्बीजं व्यञ्जकत्वाद्बीजशब्दवाच्यः । अन्यदेवास्तु न तथा । किन्तु शाखारूपा एवातो युक्तमुक्तमित्यर्थः । सबीजस्य विष्णुसहितस्य विष्णुदेवताकस्य । योगस्याष्टाङ्गस्य लक्षणं स्वरूपम् । नृपात्मजे मनो येन विधिना प्रकारेण प्रसन्नं सत् । सत्पथं ब्रह्ममार्गम् ॥ १ ॥

स्वधर्माचरणं शक्त्या विधर्माच्च निवर्तनम् ।

दैवलब्धेन सन्तोष आत्मविच्चरणार्चनम् ॥ २ ॥

पदरत्नावली

योगस्तु ज्ञानसाधनमेव । तस्य किं साधनमिति तत्राह स्वधर्माचरणमित्यारभ्य समाधानं तथात्मन इत्यन्तेन ग्रन्थेन । विधर्माच्च निवर्तनं धर्मवद् अवभासमानानां च शास्त्रनिषिद्धानां पञ्चविधधर्मादीनां त्यागः । सन्तोषोऽलम्बुद्धिः । दैवं स्वादृष्टप्रेरको भगवान् । तदनुग्रहतः प्राप्तेन । आत्मविदां ब्रह्मज्ञानिनां श्रीपादार्चनम् ॥ २ ॥

प्रकाशिका

तत्र यमनियमानाह ॥ स्वधर्माचरणमित्यादिना । विधर्माद्धर्मवदवभासमानात् । शास्त्रनिषिद्धाच्च । निवर्तनं परित्यागः । सन्तोषोऽलम्बुद्धिः । आत्मविदां ब्रह्मविदां ब्रह्मज्ञानिनां श्रीपादार्चनम् ॥ २ ॥

ग्राम्यधर्मनिवृत्तिश्च मोक्षधर्मरतिस्तथा ।

मितमेध्यादनं शश्वद् विविक्तक्षेत्रसेवनम् ॥ ३ ॥

पदरत्नावली

ग्राम्यधर्मो विषयसेवा, ततो निवृत्तिः । प्रवृत्तिधर्मत्यागो वा । मोक्षधर्मरतिर् निवृत्तिधर्मसेवा । शश्वन्मितस्य ‘सव्यञ्जनस्याशनस्य अर्धम्, उदकस्य तृतीयं, वायोः सञ्चरणार्थं चतुर्थमवशेषयेत्’ इत्येवं परिमितस्य मेध्यस्य शास्त्रविहितस्यान्नस्य अदनम् । विविक्तो हरिस् तस्य क्षेत्रसेवनम् ॥ ३ ॥

प्रकाशिका

ग्राम्यस्त्रैवर्गिको धर्मस्तस्मान्निवृत्तिः । मोक्षधर्मरतिर्निवृत्तधर्मसेवारतिः । मितं च तन्मेध्यं च शुद्धं च तस्यादनम् । तत्र, ‘‘द्वौ भागौ पूरयेदन्नैस्तोयेनैकं तु पूरयेत् । मारुतस्य प्रचारार्थं चतुर्थमवशेषयेत्’’ इति स्मृत्युक्तप्रकारेण मितत्वं ज्ञातव्यम् । विविक्तो भगवांस्तत्क्षेत्रसेवनम् । विजनक्षेत्रसेवनमिति वा ॥ ३ ॥

अहिंसा सत्यमस्तेयं यावदर्थपरिग्रहः ।

ब्रह्मचर्यं तपः शौचं स्वाध्यायः पुरुषार्चनम् ॥ ४ ॥

पदरत्नावली

अहिंसा शास्त्रनिषिद्धहिंसावर्जनम् । सत्यं मिथ्यावादवर्जनम् । भूतहितकथनं वा । अस्तेयं स्वाम्यननुज्ञातस्य तृणाग्रस्याप्यग्रहणम् । यावता शरीरावस्थितिर्भवति तावत्परिमाणोऽर्थो यावदर्थः, तस्य परिग्रहः स्वीकारो यावदर्थपरिग्रहः । अष्टाङ्गं ब्रह्मचर्यम् । ‘स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । सङ्केतोऽध्यवसायश्च क्रियानिर्वृतिरेव च ॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः । विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥’ तप उपवासादि, तत्त्वपर्यालोचनं वा । शौचं बाह्याभ्यन्तरशुद्धिः । स्वाध्यायो ब्रह्मयज्ञः । पुरुषस्य श्रीनारायणस्य वैदिकतान्त्रिकार्चनम् ॥ ४ ॥

प्रकाशिका

यमानाह ॥ अहिंसेत्यादिना । अहिंसा शास्त्रनिषिद्धहिंसावर्जनम् । सत्यं सद्धितकथनम् । अस्तेयं स्वाम्यननुज्ञातस्य तृणादेरप्यग्रहणम् । यावताऽर्थः शरीरावस्थितिरूपं प्रयोजनं भवति तावतो धान्यादेः प्ररिग्रहः स्वीकारः ॥ ४ ॥

मौनं सदासनं स्थैर्यं प्राणानां च जयः शनैः ।

प्रत्याहारश्चेन्द्रियाणां विषयान्मनसा हृदि ॥ ५ ॥

पदरत्नावली

सदासनं पद्माद्यासनजयः । वैष्णवसिद्धान्ताद् अचलनं स्थैर्यम् । विपद्यपि आत्मावष्टम्भनं धैर्यं वा । प्राणायामैः प्राणानां जयः । श्रोत्रादीन्द्रियाणां शब्दादिविषयेभ्यो मनसा हृदि स्थितं हरिं प्रत्याहारः प्रत्याहरणम् आनीय स्थापनं प्रत्याहारः ॥ ५ ॥

प्रकाशिका

आसनादीन्यङ्गान्याह ॥ सदाऽऽसनमित्यादिना । सदासनं पद्माद्यासनरूपः । स्थैर्यं वैष्णवसिद्धान्तादचलनम् । प्राणायामैः प्राणानां जयः । मनसा सहेन्द्रियाणां विषयाद् विषयेभ्यः । हृदि, स्थितं हरिं प्रत्याहारः । प्रत्याहरणमानीय स्थापनम् ॥ ५ ॥

स्वधिष्ण्यानामेकदेशे मनसा प्राणधारणम् ।

वैकुण्ठलीलाभिध्यानं समाधानं तथाऽऽत्मनः ॥ ६ ॥

तात्पर्यम्

‘समाधिरप्रयत्नेन मनसः संस्थितिर्भवेदि’ति च ॥ ६ ॥

पदरत्नावली

स्वस्य विष्णोर्धिष्ण्यानां पदादिस्थानानामेकदेशे एकैकावयवे मनसा प्राणस्य वृत्तेर् धारणम् । वैकुण्ठस्य हरेर् लीलायाः सृष्ट्यादिरूपाया अभिध्यानं निरन्तरस्मरणम् । तथाऽऽत्मनो मनसः समाधानमप्रयत्नेन हरौ स्थितिः । तदुक्तम् ‘समाधिरप्रयत्नेन मनसः संस्थितिर्भवेत्’ इति ॥६॥

प्रकाशिका

यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधिभेदेन योगोऽष्टविधः । तत्र यमादीनां पञ्चानां धारणाद्यङ्गत्वमित्याशयेन तान्युक्त्वेदानीं धारणादिकमाह ॥ स्वधिष्ण्यानामिति । स्वस्य विष्णोर्धिष्ण्यानां पादादिस्थानानां मध्ये एकदेशे एकैकावयवे मनसा सह प्राणानामिन्द्रियाणां धारणं स्थापनम् । एकैकावयवस्मरणमिति यावत् । तदुक्तम् । खंढस्मृतिर्धारणा स्यादिति । धारणासाध्यं समग्राङ्गध्यानमाह ॥ वैकुण्ठेति । वैकुण्ठस्य हरेर्लीलानां स्वयोग्योपसंहार्यगुणानामभि सम्यग्ध्यानम् । ध्यानसाध्यं समाधिमाह ॥ समाधानमिति । आत्मनो मनसः समाधानं समाधिः । अत्र ध्यानभिन्नं समाधिशब्दार्थं प्रमाणेनैव दर्शयति ॥ समाधिरिति ॥ हराविति शेषः । तथा च प्रयत्नेन हरौ मनसः स्थितिर्ध्यानमतो न पौनरुक्त्यमिति भावः ॥ ६ ॥

एतैरन्यैश्च पथिभिर्मनो दुष्टमसत्पथम् ।

बुद्ध्या युञ्जीत शनकैर्जितप्राणो ह्यतन्द्रितः ॥ ७ ॥

पदरत्नावली

स्वधर्माचरणाद्युक्तस्य प्रयोगप्रकारमाह– एतैरिति ॥ असद्विषयसङ्गेन दुष्टमत एव असत्पथं दुर्मार्गवर्ति मनः ॥ ७ ॥

प्रकाशिका

एतैरन्यैश्चेति । व्रतदानादिभिः पथिभिरुपायैर्बुद्ध्या हरावेव युंजीत तमेव चिन्तयेदित्यर्थः । शनकैर्जितप्राणो जितश्वासः । जितेन्द्रिय इति वा । पूर्वावस्थाद्यनुवादोऽयम् ॥ ७ ॥

शुचौ देशे प्रतिष्ठाप्य विजितासन आसनम् ।

तस्मिन् स्वस्तिसमासीन ऋजुकायः समभ्यसेद् ॥ ८ ॥

पदरत्नावली

योगे इतिकर्तव्यतामाह– शुचावित्यादिना ॥ योगमभ्यसेदित्यन्वयः ॥ ८ ॥

प्रकाशिका

आसनमारभ्य समाधिपर्यन्तमुक्तं पुनर्विशदयति ॥ शुचावित्यादिना । अन्यैश्च व्रतदानादिभिर्विजितासनोऽभ्यस्तपद्माद्यासनः । आसनं चैलाजिनकुशोत्तरं, तस्मिन्स्वस्ति यथा स्यात्तथा सम्यगासीनः । स्वस्तिक इति पाठे वीरपद्मादेरुपलक्षणम् । अभ्यसेत् । प्राणधारणमिति शेषः ॥ ८ ॥

प्राणस्य शोधयेन्मार्गं पूरकुम्भकरेचकैः ।

प्रतिकूलेन वा चित्तं यथा स्थिरमचञ्चलम् ॥ ९ ॥

पदरत्नावली

प्रतिकूलेन रेचकादिक्रमेण ॥ ९ ॥

प्रकाशिका

तदेवाह ॥ प्राणस्येति । प्रतिकूलेन रेचकादिक्रमेण । वाशब्दाद्रेचकपूरक-कुम्भकैरिति पक्षान्तरमपि सूचयति । यथा स्थिरं सदचञ्चलं चञ्चलं यथा न भवति तथा शोधयेत् ॥९॥

मनोऽचिरात् स्याद् विरजं जितश्वासस्य योगिनः ।

वाय्वग्निभ्यां यथा लोहं ध्मातं त्यजति वै मलम् ॥ १० ॥

पदरत्नावली

प्राणायामादिफलमाह– मन इति ॥ विरजं रजोगुणरहितम् । एतदेव सोदाहरणमाह– वाय्वग्निभ्यामिति ॥ १० ॥

प्रकाशिका

प्राणायामफलमाह ॥ मन इति । ध्मातं सन्तप्तं लोहं सुवर्णं यथा मलं त्यजति तथा मनो विरजं स्यात् । ततश्चाचलं स्यादिति भावः ॥ १० ॥

प्राणायामैर्दहेद् दोषान् धारणाभिश्च किल्बिषान् ।

प्रत्याहारेण संसर्गान् ध्यानेनानीश्वरान् गुणान् ॥ ११ ॥

पदरत्नावली

क्रममाह– प्राणायामैरिति ॥ रागादिदोषान् । किल्बिषान् जन्मान्तरसञ्चित-पापानि । दुर्जनसंसर्गावाप्तदुरितानि । अनीश्वरान् ऐश्वर्यविरोधिनः प्रकृतेः सत्त्वादिगुणान् ॥ ११ ॥

प्रकाशिका

प्राणायामादिफलं विवृण्वन् धारणादिफलमाह ॥ प्राणायामैरिति । दोषान्मनो-दोषान् रागादीन् । धारणाभिः ‘‘स्वधिष्ण्यानामेकदेशे’’ इत्युक्ताभिः किल्बिषान् ब्रह्महत्यादिकान् । संसर्गान्दुष्टविषयसंसर्गान्, ध्यानेन वैकुण्ठलीलाभिध्यानमित्यत्रोक्तेन हरेः सर्ववैलक्षण्यध्यानेनानीश्वरानीश्वर- व्यतिरिक्तान् गुणान् विषयान् दहेद्दूरीकुर्यात् । तान्दृष्टुं नेच्छते तद्दर्शनेच्छा न भवतीत्याशयः । यद्वक्ष्यति । न पृथग्दिदृक्षेदिति ॥ ११ ॥

यदा मनः स्वं विरजं योगेन सुसमाहितम् ।

काष्ठां भगवतो ध्यायेत् स्वनासाग्रावलोकनः ॥ १२ ॥

पदरत्नावली

मनसि विरजति सतीतिकर्तव्यतामाह– यदा मन इति ॥ यदा मनो विरजं स्यात् तदा भगवतो हरेः काष्ठां पूर्णां मूर्तिं ध्यायेत् । नासाग्रेणावलोकनं निरीक्षणं यस्य स तथा ॥ १२ ॥

प्रकाशिका

योगेन प्राणायामादिरूपेण सुसमाहितमप्रयत्नेन हरौ स्थितं भवति । काष्ठा-मुत्कृष्टतारतम्यावधिभूतां मूर्तिम् । स्वनासाग्रावलोकन इत्यनेन दिशामनवलोकनं सूचयति ॥ १२ ॥

प्रसन्नवदनाम्भोजं पद्मगर्भारुणेक्षणम् ।

नीलोत्पलदलश्यामं शङ्खचक्रगदाधरम् ॥ १३ ॥

पदरत्नावली

‘काष्ठोत्कर्षे सीमि्न दिशि’ इत्यभिधानात् काष्ठाशब्दस्य अनेकार्थत्वाद् अत्र विवक्षितः क इत्याशङ्क्य सर्वगुणोत्कृष्टं भगवद्रूपं विवक्षितमिति तत्र ध्येयस्वरूपं वक्ति– प्रसन्न-वदनेति ॥ १३ ॥

प्रकाशिका

ध्येयमूर्तिं वर्णयति ॥ प्रसन्नेत्यादिभिः । पद्मगर्भवत्पद्मान्तर्भागवदरुणे ईक्षणे नेत्रे यस्य तम् ॥ १३ ॥

लसत्पङ्कजकिञ्जल्कपीतकौशेयवाससम् ।

श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ १४ ॥

पदरत्नावली

लसतः पङ्कजस्य किञ्जल्कं केसरः । तद्वत् पीतं कौशेयं वासो यस्य स तथा तम् । श्रीवत्सो वक्षसि यस्य स तथा तम् । भ्राजता कौस्तुभेन अमुक्ता बद्धा कन्धरो यस्य स तथा तम्

॥ १४ ॥

प्रकाशिका

लसतः पङ्कजस्य किंजल्कवत्केसरवत्पीतकौशेये वाससी यस्य तम् । श्रीवत्सो वक्षसि यस्य तम् । भ्राजत्कौस्तुभेन अमुक्ता संश्लिष्टा कंधरा यस्य ॥ १४ ॥

मत्तद्विरेफाकुलया परीतं वनमालया ।

परार्घ्यहारवलयकिरीटाङ्गदनूपुरम् ॥ १५ ॥

पदरत्नावली

मत्तैर्द्विरेफैर् भृङ्गैर् आकुलया व्याप्तया । परार्घ्यानि अनर्घ्यत्वेन श्रेष्ठानि हारश्च वलयश्च किरीटं चाङ्गदं च नूपुरं च परार्घ्यहारवलयकिरीटाङ्गदनूपुराणि यस्य स तथा तम् ॥ १५ ॥

प्रकाशिका

मत्तैर्द्विरेफैर्भ्रमरैराकुलया व्याप्तया । परार्ध्यान्यनर्ध्यतया श्रेष्ठानि हारादीनि यस्य तम्

॥ १५ ॥

काञ्चीगुणोल्लसच्छ्रोणिं हृदयाम्भोजविष्ठरम् ।

दर्शनीयतमं शान्तं मनोनयनवर्धनम् ॥ १६ ॥

पदरत्नावली

काञ्चीगुणेनोल्लसन्ती श्रोणी यस्य स तथा तम् । भक्तानां हृदयाभ्योजमेव विष्टरं यस्य स तथा तम् ॥ १६ ॥

प्रकाशिका

काञ्चीगुणेन काञ्चीकलापेनोल्लसन्ती श्रोणिर्नितम्बप्रदेशो यस्य तम् । भक्तानां हृदयाम्भोजमेव विष्टरमासनं यस्य । भक्तानां मनांसि नयनानि च वर्धयति हर्षयतीति मनोनयनवर्धनम्

॥ १६ ॥

आपीच्यदर्शनं शश्वत् सर्वलोकनमस्कृतम् ।

सन्तं वयसि कैशोरे भक्तानुग्रहकारक(तर)म् ॥ १७ ॥

पदरत्नावली

आपीच्यदर्शनं प्राप्तषोडशवर्षवद् दृश्यमानं स्वतः कैशोरे वयसि द्वादशवर्षलक्षणे सन्तं वर्तमानम् ॥ १७ ॥

प्रकाशिका

आपीच्यदर्शनं प्राप्तषोडशवर्षवद्दृश्यमानम् । अथवा । कैशोरे वयसि द्वादशवर्षलक्षणे सन्तं स्थितम् ॥ १७ ॥

कीर्तन्यतीर्थयशसं पुण्यश्लोकयशस्करम् ।

ध्यायेद् देवं समग्राङ्गं यावन्न च्यवते मनः ॥ १८ ॥

पदरत्नावली

कीर्तन्यं कीर्तनीयं तीर्थं शुद्धं यशो यस्य स तथा तम् । पुण्यश्लोका ब्रह्मादयः । तेषां सृष्ट्यादिना यशः करोतीति पुण्यश्लोकयशस्करस् तम् । मनो यावन्न च्यवते न चलति सर्वाङ्ग-ध्यानसक्तं यथा स्यात् तथा ध्यायेदित्यर्थः ॥ १८ ॥

प्रकाशिका

कीर्तन्यं कीर्तनीयं तीर्थं शुद्धं यशो यस्य स तथा तम् । पुण्यश्लोका ब्रह्मादयो, तेषां यशस्करं यशः सम्पादकम् ॥ १८ ॥

स्थितं व्रजन्तमासीनं शयानं वा गुहाशयम् ।

प्रेक्षणीयेहितं ध्यायेच्छुद्धभावेन चेतसा ॥ १९ ॥

पदरत्नावली

हृदयगुहायां शेत इति गुहाशयम् । प्रेक्षणीयमीहितं चेष्टितं यस्य स तथा तम्

॥ १९ ॥

प्रकाशिका

प्रेक्षणीयमीहितं चेष्टितं यस्य स तथा तम् । शुद्धो भावो भक्तिर्यस्य तेन ॥ १९ ॥

तस्मिन् लब्धपदं चित्तं सर्वावयवसंस्थितम् ।

विलोक्यैकत्र संयुज्यादङ्गे भगवतो मुनिः ॥ २० ॥

तात्पर्यम्

सर्वस्मरणाशक्तावेकाङ्गे । ‘यावन्न च्यवते मन’ इत्युक्तत्वात् । ‘सर्वं स्मर्तु-मशक्तः सन्नेकाङ्गं चिन्तयेद्बुध’ इति च ॥ २० ॥

पदरत्नावली

एवं समग्राङ्गध्यानमुक्त्वा तदशक्तौ एकैकाङ्गध्यानप्रकारमाह– तस्मिन्निति ॥ तस्मिन् हरौ समग्राङ्गे लब्धपदं प्राप्तास्पदं सर्वायवसंस्थितं सर्वावयवं व्याप्य स्थितं चित्तं विलोक्य भगवतः सर्वावयवसंस्मरणाशक्तौ एकत्राङ्गे एकस्मिन्नवयवे पादमारभ्य उत्तमाङ्गपर्यन्तं चित्तं संयुज्यादित्यन्वयः । ‘सर्वं स्मर्तुमशक्तः सन्नेकाङ्गं चिन्तयेद् बुधः’ इति वचनात् ॥ २० ॥

प्रकाशिका

तस्मिन्हरौ समग्राङ्गे लब्धपदं प्राप्तस्थानं, सर्वावयवसंस्थितं युगपत्सर्वावयव-विषयकतया स्थितं विलोक्यैकत्रावयवे संयुज्यात् । नन्विदमनुपपन्नं समग्राङ्गध्यानकाले एकत्र मनोयोगस्यासङ्गतत्वात् । अतोऽत्राभिप्रेतं तात्पर्यं दर्शयति ॥ सर्वस्मरणेति । अत्रान्तरङ्गं ज्ञापकमाह ॥ यावन्न च्यवत इति । तत्र ‘‘यावन्न च्यवते मनः’’ इत्युक्त्या समग्राङ्गे मनश्च्यवनेऽसमग्राङ्गध्यानस्यार्थत उक्तत्वादित्याशयः । स्पष्टं च प्रमाणमाह ॥ सर्वमिति । ततश्च तत्राशक्तं विलोक्येति मूलं योज्यमिति भावः ॥ २० ॥

सञ्चिन्तयेद् भगवतश्चरणारविन्दं

वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ।

उत्तुङ्गरक्तविलसन्नखचक्रवाल-

ज्योत्स्नाभिराहतमहद्धृदयान्धकारम् ॥ २१ ॥

पदरत्नावली

नन्वत्र पृथक् पृथगवयवस्थितं चित्तमेकत्र ऐक्येन भावनायां संयुज्यात् । न तु एकैकावयवध्यानं विधीयते अशक्तस्येत्याशङ्क्य एकैकाङ्गध्यानविधानादुक्तं युक्तमिति तत्प्रकारं वक्ति– सञ्चिन्तयेदित्यादिना ॥ भक्ताभीष्टप्रदानसामर्थ्यमस्यास्तीत्यतः संचिन्तनीयमिति भावेन तद् विशिनष्टि– वज्रेत्यादिना ॥ उत्तुङ्गानि उन्नतानि रक्तानि विलसन्ति नखानि उत्तुङ्गरक्तविलसन्नखानि । तान्येव चक्रवालं चन्द्रमण्डलम् । तस्य ज्येत्स्नाभिराहतो निर्दलितो महतां योगिनां हृदयान्धकारोऽज्ञानाख्यो येन तत् तथोक्तम् । नखानां चक्रवालम् आवलिस् तस्या ज्योत्स्नाभिरिव निर्मलाभिर् दीप्तिभिर्वा ॥ २१ ॥

प्रकाशिका

एकत्र संयुज्यादित्युक्तमेव पादादिक्रमेण दर्शयति ॥ सञ्चिन्तयेदित्यादिना । पादतले रेखात्मकानि वज्रादीनि लाञ्छनानि चिह्नानि तैराढ्यं युक्तम् । उत्तुङ्गरक्तान्युत्कृष्टरक्तानि विलसन्ति नखानि तेषां चक्रवालं मण्डलं तस्य ज्योत्स्नाभिराहतो दूरीकृतो महतां ध्यातॄणां हृदयान्धकारो येन ॥ २१ ॥

यच्छौचनिःसृतसरित्प्रवरोदकेन

तीर्थेन मूध्नर्यधिधृतेन शिवः शिवोऽभूत् ।

ध्यातुर्मनःशमलशैलनिसृष्टवज्रं

ध्यायेच्चिरं भगवतश्चरणारविन्दम् ॥ २२ ॥

पदरत्नावली

यस्य चरणारविन्दस्य शौचात् प्रक्षालनलक्षणान् निःसृता सरित्प्रवरा गङ्गा, तस्या उदकेन तीर्थेन पावनेन मूध््नर्यधिधृतेन अधिगतजटाबन्धे धृतेन शिवो महादेवः शिवोऽतिशयितपुण्य-भाजनीभूतोऽभूत् । ध्यातुः पुरुषस्य मनसि वर्तमानं यच्छमलं पापं तदेव शैलः पर्वतस् तस्य विदारणाय नितरां सृष्टं क्लृप्तम् । वज्रमिव वज्रम् । लुप्तोपमा ॥ २२ ॥

प्रकाशिका

यस्य चरणारविन्दस्य शौचात्प्रक्षालनान्निःसृता सरित्प्रवरा गङ्गा तस्या उदकेन तीर्थेन पावनेन शिवो महादेवोऽपि शिवः परममङ्गलरूपत्वेन शिवनामधेयः । ध्यातुः, मनसि वर्तमानो यः शमलशैलः पापपर्वतस्तद्विदारणाय निसृष्टं क्षिप्तं वज्रमिव वज्रम् ॥ २२ ॥

ऊरू सुपर्णभुजयोरधिशोभमाना

वोजोनिधी स्वतसिकाकुसुमावभासौ ।

व्यालम्बिपीतवरवाससि वर्तमान

काञ्चीकलापपरिरम्भि नितम्बमम्ब ॥ २३ ॥

पदरत्नावली

जङ्घाद्वयं तु तच्चरणारविन्दान्तर्भूतं, जानुनी ऊर्वोरन्तर्भूते इति भावेनो-रूपास्तिमाह– ऊरू इति ॥ हरेरूरू ध्यायेदित्यन्वयः । सुपर्णो गरुडस् तस्य भुजयोर् अध्युपरि स्कन्धे, ओजसां बलानां निधी । ‘ओजोऽवष्टम्भबलयोः’ इत्यभिधानम् । स्वतसिकाकुसुमं, प्रोत्फुल्लकल्प कुसुमं, तद्वदवभासो ययोस्तौ तथोक्तौ । हे अम्ब अथ हरेर्नितम्बं ध्यायेदित्यन्वयः । व्यालम्बि च प्रपदान्तं च वर्णेन पीतं च वरं च यद् वासस् तद् व्यालम्बिपीतवरवासः । तत्र वर्तमानो यः काञ्चीकलापः सप्तगुणितरशनाभूषणं तस्य परिरम्भोऽस्यास्तीति, तदन्तर्वर्तमान इत्यर्थः ॥ २३ ॥

प्रकाशिका

जानुनी ऊर्वोरन्तर्भूते इति भावेनोरूपास्तिमाह ॥ ऊरू इति । सञ्चिन्तये-दित्यन्वयः । भुजयोरधि उपरिस्कन्धे । ओजसो बलस्य निधी आधारौ । स्वतसिकाकुसुमं प्रफुल्ल-कल्पकुसुमं तद्वदवभासो ययोस्तौ । अथ नितम्बं सञ्चितयेत् । कथम्भूतम् । व्यालम्बि आगुल्फं लम्बमानं पीतं पीतवर्णं वरमुत्तमं यद्वासस्तस्मिन्वर्तमानो यः काञ्चीकलापस्तेन परिरम्भः संश्लेषो यस्यास्तीति परिरम्भि । काञ्चीकलापपर्यस्तवस्त्राच्छादितमिति यावत् ॥ २३ ॥

नाभिह्रदं भुवनकोशगुहोदरस्थं

यत्रात्मयोनिधिषणाखिललोकपद्मम् ।

व्यूढं हरिन्मणिमुषः स्तनयोरमुष्य

ध्यायेद् द्वयं विततहारमयूखगौरम् ॥ २४ ॥

पदरत्नावली

हरेर्नाभिहृदं ध्यायेदित्यन्वयः । निम्नत्वद्योतनाय लोकपद्मजन्महेतुत्वाच्च ह्रदमिति । चतुर्दशभुवनानां कोशो गृहं भुवनकोशो ब्रह्माण्डं तद् गूहयति ग्रसतीति भुवनकोशगुहं तच्चोदरं जठरं तत्र स्थितम् । यद्वा भुवनकोशनिगरणगुहास्थानीयोदरे तिष्ठतीति । यद्वा भुवनकोशगुहोदे ब्रह्माण्डगर्भोदके रत्वा स्थितम् । यत्र यस्मिन् नाभिह्रदे आत्मयोनेश् चतुर्मुखस्य धिष्ण्यं च अखिललोकात्मकं च पद्मम् आत्मयोनिधिषणाखिललोकपद्मं व्यूढमुत्पन्नमित्यर्थः । हरिन्मणिमुषः हरिन्मणिरिन्द्रनीलरत्नं तस्य प्रभां मुष्णतोऽमुष्य हरेः स्तनयोर्द्वयं ध्यायेत् । विततस्य विस्तृतस्य हारस्य मयूखेन गौरम् अतिधवलम्

॥ २४ ॥

प्रकाशिका

अमुष्य हरेर्नाभिहृदं ध्यायेत् । निम्नत्वपद्माधारत्वसाम्येन नाभेर्ह्रदत्वोपमा । कथम्भूतम् । भुवनानां कोशभूता आश्रयभूता या काचिद्गुहा तत्तुल्यं यदुदरं तत्रस्थम् । प्रसिद्धह्रदोऽपि पर्वतगुहोदरस्थः । यत्र यस्मिन्नाभिह्रदे आत्मयोनेश्चतुर्मुखस्य धिषणं धिष्ण्यमखिललोकात्मकं पद्मं व्यूढमुत्थितम् । हरिन्मणिरिन्द्रनीलरत्नं तस्य प्रभां मुष्णतोऽमुष्य हरेः स्तनयोर्द्वयं ध्यायेत् । अनेन वस्तुतः स्तनद्वयमिन्द्रनीलनिभमिति सूचयति । अथाऽपि विततानां विस्तृतानां हाराणां मयूखैः किरणैर्गौरं श्वेतमिव दृश्यमानम् ॥ २४ ॥

वक्षोऽधिवासमृषभस्य महाविभूतेः

पुंसां मनोनयननिर्वृतिमादधानम् ।

कण्ठं च कौस्तुभमणेरधिभूषणार्थं

कुर्यान्मनस्यखिललोकनमस्कृतस्य ॥ २५ ॥

पदरत्नावली

स्मर्तॄणां पुंसां मनोनयनानां निर्वृतिमानन्दमादधानमुत्पादयन्तं महाविभूतेर् लक्ष्म्या अधिवासं निवासस्थानमृषभस्य हरेर्वक्षो मनसि कुर्यादित्यन्वयः । कौस्तुभमणेरधिकं भूषणमेव अर्थः प्रयोजनं यस्य स तथा तं कण्ठं च मनसि कुर्यात् । अखिललोकनमस्कृतत्वाद् ऋषभत्वं युक्तम्

॥ २५ ॥

प्रकाशिका

ऋषभस्य श्रेष्ठस्य हरेर्महाविभूतेर्महालक्ष्म्या अधिवासमावासस्थानं वक्षो मनसि कुर्यात् । पुंसां स्मर्तॄणां दृष्टॄणां च निर्वृतिं सुखमादधानमुत्पादयत् । कौस्तुभमणेरधिभूषणं भूषैवार्थः प्रयोजनं यस्य तं कण्ठं च मनसि कुर्यात् ॥ २५ ॥

बाहूंश्च मन्दरगिरेः परिवर्तनेन

निर्णिक्तबाहुवलयानधिलोकपालान् ।

सञ्चिन्तयेद् दशशतारमसह्यतेजः

शङ्खं च तत्करसरोरुहराजहंसम् ॥ २६ ॥

पदरत्नावली

हरेर् बाहूंश्च दशशतारं च शङ्खं च सञ्चिन्तयेदित्यन्वयः । मन्दरगिरेः परिवर्तनेन परिभ्रमणेन निर्णिक्ताः शोभिता बाहुवलया अङ्गदादयो येषां ते तथा तान् । अधिश्रिता लोकपाला इन्द्रादयो येषु ते तथा तान् । दशशतं सहस्रमराणि दलानि यस्य तत् तथोक्तम् । शत्रूणामसह्यं सोढुमशक्यं तेजो वीर्यं यस्य तत् तथोक्तम् । तस्य हरेः करा एव सरोरुहाणि पद्मानि, तेषु राजहंसमिव वर्तमानम् ॥ २६ ॥

प्रकाशिका

बाहूंश्च सञ्चिन्तयेत् । मन्दरगिरेः परिवर्तनेन परिभ्रमणेन निर्णिक्तान्युज्वलीकृतानि बाहुवलयान्यङ्गदानि येषु । अधिश्रिता लोकपाला इन्द्रादयो येषु । दशशतं सहस्रमराणि दलानि यस्य । असह्यं सोढुमशक्यं तेजो यस्य तच्छङ्खं, कर एव सरोरुहं पद्मं तत्र राजहंस इव वर्तमानम् ॥ २६ ॥

कौमोदकीं भगवतो दयितां स्मरेत

दिग्धामरातिभटशोणितकर्दमेन ।

मालां मधुव्रतवरूथगिरोपघुष्टां

चैत्त्यस्य तत्त्वममलं मणिमस्य कण्ठे ॥ २७ ॥

तात्पर्यम्

‘ब्रह्मा चित्ताभिमानेन चैत्यस्तन्नियमाद्धरिः । स च ब्रह्मा हरेः कण्ठे कौस्तुभ-त्वेन भासत’ इति भागवततन्त्रे ॥ २७ ॥

पदरत्नावली

भगवतो दयितां कौमोदकीं गदाम् अस्य हरेः कण्ठे मालाम् अमलं मणिं च स्मरेतेत्यन्वयः । कथं भूतां गदाम् ? अरातयो दैत्या एव भटा योद्धारस् तेषां शोणितं रुधिरमेव कर्दमस्तेन दिग्धां रूपिताम् । अरातीनां भटानां वा । कथंभूतां मालाम् ? मधुव्रतानां नित्यसुखानां भृङ्गाकारमितानां भक्तानां वरूथाः समूहास्तेषां स्तुतिलक्षणया गिरोपघुष्टां शब्दायमानाम् । कथं भूतं मणिम् ? । चैत्त्यस्य चित्ताभिमानिनश् चतुर्मुखस्य तत्त्वं स्वरूपम् । ‘ब्रह्मा चित्ताभिमानेन चैत्त्य-स्तन्नियमाद्धरिः । स च ब्रह्मा हरेः कण्ठे कौस्तुभत्वेन भासते ॥’ इति वचनात् ॥ २७ ॥

प्रकाशिका

कौमोदकीं नाम गदामस्य हरेः कण्ठमालाममलं कौस्तुभाख्यं मणिं च संस्मरेत् । कथंभूतां गदाम् । अरातयो भटा योद्धारस्तेषां शोणितं रुधिरमेव कर्दमं तेन दिग्धां लिप्ताम् । कथंभूतां मालाम् । मधुव्रतानां भ्रमराणां वरूथस्य समूहस्य गिरोपघुष्टां नादिताम् । कथंभूतं मणिम् । चैत्यस्य तत्त्वम् । अत्र चैत्यशब्दस्यार्थं प्रमाणेनैव दर्शयति ॥ ब्रह्मेति । चैत्यश्चैत्यशब्दवाच्यः । ननु चित्तेन हृदयं चैत्येत्यत्र पूर्वं चैत्यशब्देन हरिर्व्याख्यातः । तत्र किं निमित्तमित्यपेक्षायां प्रसङ्गात्तत्रापि निमित्त-माह ॥ तन्नियमनादिति । चित्तनियमनादित्यर्थः । हरिश्चैत्यशब्दवाच्य इत्यर्थः । एवं चैत्यशब्दार्थ-मुक्त्वाऽस्य कण्ठे चैत्यस्य तत्त्वं मणिमित्यस्य तात्पर्यमाह ॥ स चेति । चशब्दः प्रकृतत्वानुसन्धानार्थः । अस्येत्यस्यार्थः ॥ हरेरिति । तत्त्वमित्यस्य तात्पर्यम् ॥ कौस्तुभत्वेनेति । तथा च तत्त्वशब्दः स्वरूपपर इति भावः । अनेन चैत्यस्य चित्ताभिमानिनो ब्रह्मणस्तत्त्वं स्वरूपभूतम् । अभिमन्यमानमिति यावदिति योजनां सूचयति । अभिमान्यभिमन्यमानयोरभेदव्यपदेशो महतश्चतुर्मुखादित्यादौ प्रसिद्धः

॥ २७ ॥

भृत्यानुकम्पितधियेह गृहीतमूर्तेः

सञ्चिन्तयेद् भगवतो वदनारविन्दम् ।

यद् विस्फुरन्मकरकुण्डलवल्गितेन

विद्योतितामलकपोलमुदारहासम् ॥ २८ ॥

पदरत्नावली

भगवतो वदनारविन्दं सञ्चिन्तयेदित्यन्वयः । किंविशिष्टस्य ? इह जगति सत्सु भृत्येषु अनुकम्पितया धिया द्रवीभूतचित्ततया गृहीता मूर्तिर् आकारविशेषो येन स तथा तस्य । वदनारविन्दस्य चिन्तनीयत्वे गुणानाह– यदिति ॥ यद् वदनारविन्दं विस्फुरती किंचित्सञ्चलती मकरकुण्डले विस्फुरन्मकरकुण्डले तयोर्वल्गितेन नृत्तेन विद्योतितावमलौ च कपोलौ यस्मिन् तत् तथा । उदारो निर्दुष्टो हासो यस्मिन् तत् तथा ॥ २८ ॥

प्रकाशिका

भृत्येष्वनुकंपिता कृपायुक्ता या धीस्तया । गृहीता मूर्तिराकारविशेषो येन तस्य । यद्वदनारविन्दं, विस्फुरती विशेषेण दीप्यमाने ये मकराकारे कुण्डले तयोर्वल्गितेन प्रचलनेन विद्योति-तावमलौ कपोलौ यस्मिंस्तत् । उदारो भक्ताभीष्टदानशूरो हासो यस्मिंस्तत् ॥ २८ ॥

यच्छ्रीनिकेतमलिभिः परिसेव्यमानं

भूत्या स्वया कुटिलकुन्तलवृन्दजुष्टम् ।

मीनद्वयश्रियमधिक्षिपदब्जनेत्रं

ध्यायेन्मनोमयमतन्द्रित उल्लसद्भ्रु ॥ २९ ॥

तात्पर्यम्

‘साक्षाच्छ्रीस्तु हरे रूपमिन्दिरा तु तदाश्रयादि’ति च ॥ २९ ॥

पदरत्नावली

यच्च श्रीनिकेतं परममङ्गलायतनम् । यच्च सौरभ्यलोलैरलिभिः परितः सेव्यमानम् । यच्च स्वया स्वरूपभूतया भूत्या श्रिया सेवितम् । ‘साक्षाच्छ्रीस्तु हरे रूपमिन्दिरा तु तदाश्रयात्’ इति वचनात् पत्नीभूतायाः श्रीत्वं भगवदाश्रयादित्यतः स्वयेत्युक्तम् । यच्च कुटिला वक्राः कुन्तला ललाटरङ्गे नृत्यन्तः केशविशेषास् तेषां वृन्देन समूहेन जुष्टं संवृतम् । किञ्च अब्जनेत्रं पद्मदल-सदृशनेत्रं ध्यायेदित्यन्वयः । कीदृशम् ? मीनद्वयस्य आयामत्वपृथुमध्यत्वतनूभयभागत्वश्वेतत्वादिलक्षणं श्रियं कान्तिविशेषमधिक्षिपद् धिक्कुर्वत् । किञ्च मनोमयं ध्यातृसङ्कल्पनात्मकम् । उल्लसन्ती भ्रूर्यस्य तत् तथोक्तम् । अतन्द्रितो निरालस्य इत्यनेन ध्यानस्य निरन्तरं कर्तव्यत्वं सूचयति ॥ २९ ॥

प्रकाशिका

श्रीनिकेतम् । अत्र निरुपपदश्रीशब्देन श्रीशब्दमुख्यवाच्या भगवत्स्वरूपभूतैव श्रीर्विवक्षिता न लक्ष्मीः । तस्या वक्षःस्थितेः पूर्वमुक्तत्वात् । मुख्यश्रीशब्दवाच्यत्वाभावाच्चेत्याशयेन श्रीशब्दमुख्यवाच्या हरिस्वरूपश्रीरेवेत्यत्र प्रमाणमाह ॥ साक्षादिति । मुख्यया वृत्त्येत्यर्थः । श्रीः श्रीशब्दवाच्या । तुशब्दोऽवधारणे । आद्यस्य स्वरूपमेवेत्यन्वयः । तदाश्रयादेव श्रीरिति द्वितीयस्य । तथा च यद्वदनारविन्दं श्रियो हरिस्वरूपभूतशोभाया निकेतमाश्रय इति मूलं योज्यमिति भावः ।

सौरभलोभादलिभिः परितः सेव्यमानम् । यच्च स्वया स्वरूपभूतया भूत्या शोभयैव । कुटिला वक्रा न तु केनचिन्निमित्तेन, ते च ते कुन्तला ललाटपतिताः केशविशेषास्तेषां वृन्देन समूहेन जुष्टं युक्तम् । मीनद्वयस्यायामत्वपृथुमध्यत्वतनूभयभागत्वादिलक्षणं श्रियं कान्तिमधिक्षिपती धिक्कुर्वती अब्जसदृशनेत्रे यस्मिन् तत्तथा । नित्यसापेक्षत्वात्समासः । मनोमयं प्राचुर्येण मनोविषयम् । मनोहरमिति यावत् । अतन्द्रित आलस्यवर्जितः । अनेन ध्याने आदरनैरन्तर्ये सूचयति । उल्लसन्त्यौ भ्रुवौ यस्मिंस्तत् ॥ २९ ॥

तस्यावलोकमधिकं कृपयातिघोर

तापत्रयोपशमनाय निसृष्टमक्ष्णोः ।

स्निग्धस्मितानुगुणितं विपुलप्रसादं

ध्यायेच्चिरं विततभावनया गुहायाम् ॥ ३० ॥

पदरत्नावली

हृदयगुहायां निहितस्य हरेरवलोकं विततभावनया पूर्णभक्त्या चिरं ध्याये-दित्यन्वयः । कटाक्षनिरीक्षणं विशिनष्टि– अधिकमिति ॥ अधिकं कृपया अनन्यसाध्यकार्यसाधन-पटीयस्या करुणया अतिघोरस्य तापत्रयस्य आध्यात्मिकादिलक्षणस्य उपशमनाय विनाशाय नितरां सृष्टं निर्मितम् । किंचित् स्निग्धेन स्मितेनानुगुणितं सान्द्रीकृतं, विपुलः पुष्कलः प्रसादः प्रसन्नता यस्य स तथा तम् ॥ ३० ॥

प्रकाशिका

अवलोकमवलोकनं ध्यायेत् । कथंभूतम् । कृपयाऽधिकं यथा स्यात्तथाऽक्ष्णो-रक्षिभ्यां निसृष्टं प्रयुक्तं, स्निग्धस्मितेन स्नेहयुक्तमन्दहासेनानुगुणितमनुकूलितम् । विपुलो बहुतरः प्रसादो यस्मात्तम् । विततभावनया वर्धमानभक्त्या शास्त्रजनितसंस्कारानुसारेण वा । गुहायां हृदि ध्याये-दित्यन्वयः ॥ ३० ॥

हासं हरेरवनताखिललोकतीव्र-

शोकाश्रुसागरविशोषणमत्युदारम् ।

संमोहनाय रचितं निजमाययाऽस्य

भ्रूमण्डलं मनुसुते मकरध्वजस्य ॥ ३१ ॥

पदरत्नावली

हरेर् हासं मन्दस्मितं च ध्यायेदित्यन्वयः । कीदृशम् ? अवनतस्य अखिलस्य लोकस्य यस्तीव्रोऽत्युल्बणः शोकस् तापत्रयोद्भूतः, तन्निमित्तानि अश्रूणि यानि, तेषां सागरः समुद्रस्तं विशेषेण शोषयतीति अवनताखिललोकतीव्रशोकाश्रुसागरविशोषणस्तम् । अत्युदारमनुग्रहाभिप्रायम् । किञ्च हे मनुसुते निजमायया स्वेच्छया मकरध्वजस्य कामस्य संमोहनाय रचितम् अस्य हरेर्भ्रूमण्डलं चिन्तयेदित्यन्वयः ॥ ३१ ॥

प्रकाशिका

कथंभूतं हरेर् हासम् । अवनता येऽखिललोकास्तेषां तीव्रशोकेन यान्यश्रूणि तेषां सागरं विशोषयतीति तथा । अत्युदारं भक्ताभीष्टदानशूरम् । भो मनुसुते । अस्य हरेर्भ्रूमण्डलं च ध्यायेत् । कथम्भूतम् । निजमायया स्वेच्छया मकरध्वजस्य कामस्यापि संमोहनाय रचितम् । सर्वमोहकोऽपि कामो हरेर्भ्रूमण्डलरचनादर्शनेन स्वयमेव मोहितः सन् तस्मिंस्तदीयेषु चाकिञ्चित्करो जात इति भावः ॥ ३१ ॥

ध्यानायनं रहसि तद् बहुलाधरोष्ठ

भासाऽरुणायिततनुद्विजकुन्दपङ्क्ति ।

ध्यायेत् स्वहृत्कुहरकेऽवसितस्य विष्णो

र्भक्त्यार्द्रयार्पितमना न पृथग् दिदृक्षेत् ॥ ३२ ॥

तात्पर्यम्

‘न पृथग्दिदृक्षेत् । तमेव दिदृक्षेदित्यर्थः ॥ ३२ ॥

पदरत्नावली

एवमेकैकावयवध्यानानायासचित्तस्य समग्रावयवविशिष्टवपुर्ध्यानं निर्दिशति– ध्यानायनमिति ॥ रहस्येकान्ते स्थित्वा स्वहृत्कुहरके निजह्लादयगुहायामवसितस्य निश्चितावस्थानस्य विष्णोस् तद् ध्यानायनमेकैकावयवध्यानास्पदं वपुर्ध्यायेदित्यन्वयः । किं विशिष्टम् ? बहुलया सान्द्रया अधरोष्ठभासा अरुणायिता आरक्तवद् वर्तमानाश्च ते तनवः सूक्ष्माग्राश्च ते द्विजा दन्ता एव कुन्द-कुड्मलानि तेषां पङ्क्तिर्यस्मिन् तत् तथोक्तम् । ध्यातुरितिकर्तव्यतामाह– भक्त्येति ॥ आर्द्रया स्नेहलक्षण-जलक्लिन्नया भक्त्या यस्मिन्नेवार्पितमनाः स्थिरीकृतचित्त एवं ध्यायन्, तदेव दिदृक्षेद् द्रष्टुमिच्छेत् । तदितरन्मुक्तिदातृत्वेन न चिन्तयेदित्यन्वयः ॥ ३२ ॥

प्रकाशिका

एवमेकैकावयवध्यानायासचित्तस्य समग्रवपुर्ध्यानमाह– ध्यानायनमिति । रहस्येकान्ते स्थित्वा स्वहृत्कुहरके स्वहृदयगुहायामवसितस्य निश्चितावस्थानस्य विष्णोर्ध्यानायनम-प्रयत्नेनैकैकावयवध्यानास्पदं तद्वपुर्ध्यायेत् । कथंभूतम् । बहुलयाऽधिकयाऽधरोष्ठस्य भासा कान्त्याऽरुणी-कृतास्तनवः सूक्ष्मा द्विजा दन्ता एव कुन्दानि कुड्मलानि मुकुलानि तेषां पङ्क्तिर्यस्मिंस्तत्तथोक्तम् । अनेन हासध्यानानन्तरं दन्तपङ्क्तिरप्येवं ध्येयेति सूचयति । ध्यातुर्ध्यानफलमाह ॥ भक्त्येति । प्रेमरभसेनार्द्रया पूर्णयेति यावत् । भक्त्या तस्मिन्नेवार्पितमनाः स्थिरीकृतचित्तो न पृथग्दिदृक्षेत् । अत्र स्वस्मात्परमात्मानं पृथङ्न दिदृक्षेदित्यन्यथाप्रतीतिवारणाय तत्तात्पर्यमाह ॥ न पृथगिति । तथा च पृथक् तदतिरिक्तं वस्तु न दिदृक्षेद्द्रष्टुं नेच्छेत् । किन्तु तमेव दिदृक्षेदिति मूलं योज्यमिति भावः । भगवति चित्तैकाग््रयरूपध्यानेन परमानन्दलाभेन विषयदर्शनेच्छा न भवति । भगवद्दर्शनेच्छैव भवतीति ध्येयम् ॥ ३२ ॥

एवं हरौ भगवति प्रतिलब्धभावो

भक्त्या द्रवद्धृदय उत्पुलकप्रमोदः ।

औत्कण्ठ्यबाष्पकलया मुहुरर्द्यमान-

स्तच्चापि चित्तबडिशं शनकैर्वियुङ्क्ते ॥ ३३ ॥

तात्पर्यम्

चित्तबडिशवियोगो ध्यानानन्तरसमाधिः ॥ ३३ ॥

पदरत्नावली

एवं ध्यानारूढस्य तत्फलं वक्ति– एवं हराविति ॥ एवमुक्तप्रकारेण हरौ भगवति प्रतिलब्धो भावो मनो यस्य स तथा । द्रवद्धृदयस् तस्मिन्नैकस्मिन् एव लीयमान हृदयः, उद् उत्कृष्टौ पुलकप्रमोदौ रोमाञ्चहर्षौ यस्य स तथा । औत्कण्ठ्येनाविर्भूतया बाष्पकलया अश्रुधारया मुहुरर्द्यमान अर्द्रीक्रियमाणः पुमान् यच्चित्तबडिशं लक्ष्यं प्रति प्रायुङ्क्त तच्चित्तबडिशमपि शनकैर्वियुङ्क्ते चिरपरिचयात् स्ववशत्वेन विशिष्टं योजयति, अप्रयत्नेन ध्यानान्तरं समाधिं करोति ॥ ३३ ॥

प्रकाशिका

ध्यानानन्तरं तत्साध्यसमाधिमाह ॥ एवं हराविति । प्रतिलब्धभावः प्रतिलब्धमनःस्थितिर्द्रवद्धृदय आर्द्रचित्तः । उदुत्कृष्टौ पुलकप्रमोदौ रोमाञ्चहर्षौ यस्य स तथा । औत्कण्ठ्येनाविर्भूतया बाष्पकलयाऽश्रुधारया मुहुरर्द्यमान आर्द्रीक्रियमाणः पुमान् तच्चापि तदपि चित्त-मुक्तरीत्या स्ववशमपि । चशब्दस्य वियुंक्ते चेत्यन्वयः । चित्तबडिशं दुर्ग्रहस्य भगवतो ग्रहणे मत्स्य-बन्धनवदुपायभूतं वियुंक्ते वियुक्तं करोतीत्यन्यथाप्रतीतिवारणाय वियोगशब्दार्थमाह ॥ चित्तेति । वियोगो विशेषेण योगः । प्रयत्नाभावेऽपि योग इति यावत् । स च समाधिरूप एवेति भावः । तथा च चित्ताख्यं बडिशं हरौ शनकैरभ्यासपाटवानुसारेण वियुङ्क्ते विशेषेण योजयति अप्रयत्नेन स्थापयतीत्यर्थः । समाधिमान् भवतीति यावत् ॥ ३३ ॥

मुक्ताश्रयं यर्हि निर्विषयं स्वचित्तं

निर्वाणमृच्छति मनः सहसा यथार्चिः ।

आत्मानमत्र पुरुषोऽव्यवधानमेक-

मन्वीक्षते प्रतिनिवृत्तगुणप्रवाहः ॥ ३४ ॥

तात्पर्यम्

मुक्ताश्रयं विष्णुविषयम् । स्वचित्तं जीवचैतन्ये ततम् । निर्वाणमृच्छति शरीराभिमानं जहाति । स्वचिदभिमानेन ॥ ३४ ॥

पदरत्नावली

प्राकृतान्तःकरणे नष्टे भगवदितरस्मरणत्यागेन निरायाससमाधिफलमप्रयत्नेन यद् हरिध्यानं तत्फलं ब्रूते– मुक्ताश्रयमिति ॥ यथार्चिर्दीपस् तैलवर्त्यभावे सहसा नश्यति तथा यर्हि यदा स्वचित्तं स्वरूपचिति जीवचैतन्ये ततं तन्मयमित्यर्थः । मनो निर्विषयं शब्दादिविषयेभ्यो निर्गत्य मुक्ताश्रयं नित्यमुक्तभगवद्विषयं भवति तदा निर्वाणमृच्छति स्वचिदभिमानेन स्थूलसूक्ष्मशरीराभिमानं जहति, अत्र अस्यामवस्थायां पुरुष उपासको जीव आत्मानं परमात्मानमेकं सर्वोत्तमम् अव्यवधानं स्वस्य च तस्य च माया लक्षणभित्तिराहित्येन अन्वीक्षते करतलामलकवद् अपरोक्षीकरोति । यद् बिम्बादि द्रष्टव्यं सर्वं तत् पश्यतीत्यर्थः । अतोऽपरोक्षज्ञानं तत्फलमिति । प्रतिबन्धकसंसारसद्भावे कथं स्वबिम्बादिदर्शनम् ? अत्राह– प्रतिनिवृत्तगुणप्रवाह इति ॥ प्रतिनिवृत्तो गुणप्रवाहः संसारधर्मो यस्मात् स तथोक्तः । यदा बाह्यमनो निर्वाणं विनाशमृच्छति यथार्चिर्दीपज्वाला तैलाद्यभावे, तदा स्वचित्तं स्वरूपचैतन्यं स्वरूपान्तःकरणं निर्वाणं परमानन्दमाप्नोति यथा स्तिमिततैलपात्रे स्थितो मनुष्याद्यभावे दीपो ज्वलनाख्यानन्दमाप्नोति । ततः किम्? अत्राह– आत्मानमिति ॥ अत्र प्रज्वलित-दीपवदन्तःकरणे विजृम्भमाणे सति घटादिपदार्थमिव एकं प्रधानमव्यवधानं स्वरूपाच्छादकमाया-व्यवधानरहितमात्मानं स्वरूपं, स्वस्य प्रियतमं परमात्मानं चानु सृष्ट्यादिलक्षणवत्तया ईक्षत इति वा योजनाभेदः ॥ ३४ ॥

प्रकाशिका

एवंविधसमधिपरिपाकफलमपरोक्षज्ञानमित्याह ॥ मुक्ताश्रयमिति । अत्र मुक्ताश्रयमित्यस्य प्रकृतसङ्गतमर्थमाह ॥ मुक्ताश्रयमिति । स्वचित्तमित्येतदपि प्रकृतसङ्गतत्वेन योजयति ॥ स्वचित्तं जीवेति । स्वेत्यनुवादेन जीव इति व्याख्यानम् । चिदित्यस्यार्थश् चैतन्य इति । तकारार्थस् ततमिति । निर्वाणमृच्छतीत्यस्य स्वरूपत एव नाशमृच्छतीत्यन्यथाप्रतीतिवारणाय प्रकृतोपयुक्तं तात्पर्यमाह ॥ निर्वाणमिति । तथा चाभिमाननाश एव निर्वाणशब्दार्थो न स्वरूपनाश इति भावः । तत्र स्वचित्तमित्येतद्धेतुतयोक्तमित्याशयेन तत्तात्पर्यमाह ॥ स्वचिदभिमानेनेति । जीवस्वरूप-चैतन्याभिमानेनेत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ यर्हि यदा मनो निर्विषयं विषयेभ्यो निर्गत्य मुक्ताश्रयं नित्यमुक्तविष्णुविषयम् । उक्तसमाधियुक्तमिति यावत् । स्वचित्तं जीवचैतन्ये ततं भवति चिदानन्दात्मके स्वरूपदेह एव ममायं देह इत्यभिमानयुक्तं भवतीति यावत् । तेन स्वरूपदेहाभिमानेन सहसा निर्वाणमृच्छति जडशरीराभिमानं जहाति मनोगतो जडशरीराभिमानो नश्यतीत्यर्थः । अत्र दृष्टान्तमाह ॥ यथेति । यथाऽर्चिर्ज्वाला सहसेन्धनाद्यभावे निर्वाणमृच्छति तथैवेति । अत्रास्यामवस्थायां, पुरुष उपासको जीवः, एकं सर्वोत्तममव्यवधानं समाधिपरिपाकेन परमाच्छादिकाया व्याघुट्टितत्वेन (अपहृत-त्वेन) तल्लक्षणव्यवधानशून्यम् आत्मानं स्वबिम्बादिरूपं परमात्मानमीक्षतेऽपरोक्षतः पश्यति । अनु पश्चादारब्धकर्मक्षये सति । प्रतिनिवृत्तः गुणप्रवाहः संसारो यस्य स तथोक्तः । प्रारब्धकर्मनिर्मितदेह-परंपराशून्यो भवतीत्यर्थः ॥ ३४ ॥

सोऽप्येतया चरमया मनसो निवृत्त्या

तस्मिन् महिम््नयवसितः सुखदुःखबाह्ये ।

हेतुत्वमप्यसति कर्तरि दुःखयोर्न

स्वात्मन् विधत्त उपलब्धपरात्मकाष्ठः ॥ ३५ ॥

तात्पर्यम्

‘असत्कर्ता तु जीवः स्यात्सत्कर्ता परमेश्वर’ इति शब्दनिर्णये । ‘दुर्दुःखमिति विज्ञेयं खं सुखं च तयोर्यतः । प्रदाता परमो विष्णुस्तस्माद्दुःखादि(दुःखद)नामवानि’ति हरिवंशेषु ॥ ३५ ॥

पदरत्नावली

जीवन्मुक्त्यवस्थामाह– सोऽपीति श्लोकद्वयेन ॥ स जीवन्मुक्तोऽपि भगवन्तम-परोक्षं पश्यन्नेतया मनसो निवृत्त्या बाह्यान्तःकरणविनाशलक्षणया पुरा योऽज्ञानेनावृतः पश्चाद् ब्रह्म-ज्ञानेन प्रकाशितस् तस्मिन् महिमि्न स्वरूपज्ञानानन्दलक्षणेऽवसितोऽहं निर्दोषज्ञानानन्दादिरूपो भगवदधीनोऽस्मीति निश्चितः स्वात्मन् स्वात्मनि दुःखयोर्दुर्नाम्नो दुःखस्य स्वनाम्नः सुखस्य हेतुत्वं न विधत्तेऽभिमानं न करोति । ‘दुर्दुःखमिति विज्ञेयं खं सुखं च तयोर्यतः । प्रदाता परमो विष्णुस्तस्माद् दुःखदनामवान् ॥’ इति वचनात् । सुखदुःखयोर्वा कर्तरि बाह्यान्तःकरणे असति नाशं गते । ननु मनसो निवृत्तेः सुषुप्तावपि संभवाद् दुःखाभिमानाभावविशेषवचनं कथमित्यत उक्तम्– चरमयेति ॥ चरमया संसारावसानजातया ॥ ३५ ॥

प्रकाशिका

जीवन्मुक्तस्य स्थितिमाह ॥ सोऽप्येतयेति श्लोकद्वयेन । अपिशब्दः प्रकृतत्वानु-सन्धानार्थकः । योऽपरोक्षतो हरिं दृष्टवान् स एतया मनसो निवृत्त्या जडशरीराभिमानत्यागरूपया । सौषुप्तिकाभिमानत्यागव्यावृत्तये चरमयेत्युक्तम् । तस्मिन्पूर्वोक्तसुखदुःखबाह्ये महिमि्न स्वरूपज्ञानानन्द-लक्षणेऽवसितोऽहं निर्दोषज्ञानानन्दादिस्वरूपो भगवदधीनोऽस्मीति निश्चितोऽसति कर्तरि स्वात्म-न्स्वात्मनि दुःखयोर्हेतुत्वं कर्तृत्वमपि न विधत्ते न पश्यति । पूर्वश्लोकोक्तप्रतिनिवृत्तगुणप्रवाहत्व-समुच्चयार्थोऽपिशब्दः । यत उपलब्धाऽपरोक्षतो ज्ञाता परमात्मनः काष्टा कर्तृत्वादिरूपा स्थितिर्येन स तथोक्तः । अत्र कर्तर्यसति सतीत्यन्यथाप्रतीतिवारणायासति कर्तरीत्यस्य तात्पर्यं तद्व्यावर्त्यं च प्रमाणेनैवाह ॥ असत्कर्ता त्विति । तुशब्दोऽवधारणे । जीव एवेत्यन्वयः । तथा चासत्यस्वतन्त्रे कर्तरीत्यर्थः । परमात्मनः सकर्तृत्वात्तद्व्यावृत्त्यर्थमेतद्विशेषणमिति भावः । दुःखयोरित्यस्य दुःख-द्वयार्थकत्वप्रतीतिवारणार्थं प्रमाणेनैवाह ॥ दुर्दुःखमिति । तथा च दुर् दुःखं च खं सुखं च दुःखे तयोरिति मूलार्थ इति भावः ॥ ३५ ॥

देहं तु तं न चरमं स्थितमुज्झितं वा

सिद्धो विपश्यति यतोऽध्यगमत्स्वरूपम् ।

दैवादुपेतमथ दैववशादपेतं

वासो यथा परिकृतं मदिरामदान्धः ॥ ३६ ॥

पदरत्नावली

एवमपरोक्षज्ञानिनो देहपोषणादौ प्रयत्नोऽपि नास्ति सच्चिदानन्दात्मकनारायण-सन्दर्शनसुधासमुद्रमग्नत्वादित्याह– देहं त्विति ॥ येन देहेन स्वयं सिद्धोऽभूत् स सिद्धस् तं चरमं देहं न विपश्यति मदीयोऽयमिति नाभिमन्यते । किन्तु कपालमुक्तनारिकेलफलवद् देहात्मनो विविक्तत्वात् हरिमेव पश्यति । अनेन यतोऽध्यगमत् स्वरूपमिति विवृतम् । अनभिमानप्रकारमाह– स्थितमिति ॥ स्वप्रेरणालक्षणगुरुत्वात् स्थितम् । तदभावादुज्झितं पतितमिति । तत्रोदाहरणमाह– दैवादिति ॥ यथा मदिरापानेनोत्पन्नमदेन अन्धः पुमान् दैवादुपेतं दैववशादपेतं परिकृतं परिवृतं वासो न जानाति तथेत्यर्थः ॥ ३६ ॥

प्रकाशिका

येन देहेनापरोक्षज्ञानं जातं तं देहं चरमं, पश्चात्सिद्धोऽपरोक्षज्ञानी । स्थितं स्वप्रेरणयैकत्र स्थितमुझ्झितं तत्स्थानरहितं वा न पश्यति । किन्तु दैवात्प्रारब्धादृष्टप्रेरकेश्वरात् । तत्प्रेरणयैवेति यावत् । उपेतमेकत्र प्राप्तम् । अपेतं तस्मादपगतं च पश्यति । कुतः यतोऽध्यगमत्स्वरूपं चैतन्यात्मकस्वदेहाभिमानवान्यत इत्यर्थः । स्वस्य विद्यमानमपि स्वकीयमिदमिति न पश्यतीत्यत्र दृष्टान्तमाह ॥ वास इति । मदिरापानेनोत्पन्नमदेनान्धः पुमान् । परिकृतं कटितटे परिवेष्टितं वासस्तत्र स्थितमुझ्झितं वा यथा न पश्यति तथैवेत्यर्थः ॥ ३६ ॥

देहोऽपि दैववशगः खलु कर्म यावत्

स्वारम्भकं प्रतिसमीक्षत एव सासुः ।

तं सप्रपञ्चमधिरूढसमाधियोगः

स्वाप्नं पुनर्न भजते प्रतिबुद्धवत् सः ॥ ३७ ॥

पदरत्नावली

एवंविधस्य ज्ञानिनो देहस्तु ज्ञानोदयसमय एव पतत्युत कञ्चित्कालं प्रतीक्षत इति संशये प्रारब्धकर्मक्षय एव देहपातसमय इत्याशयेनाह– देहोऽपीति ॥ यावत् स्वारम्भकं कर्म तावद् देहोऽपि सासुः सेन्द्रियः प्रतीक्षते । तस्मिन् स्वारम्भके क्षीणेऽधिरूढसमाधियोगः प्राप्तसमाधियोगफलः सप्रपञ्चमिन्द्रियादिप्रपञ्चसहितं देहं पुनर्न भजते तद्रक्षणादौ न प्रत्यतत इत्यर्थः । कथमिव ? प्रबुद्धवत् । यथा स्वप्नादुत्थितः स्वाप्नं स्वप्नदृष्टं देहं पुनर्न भजते तथेति ॥ ३७ ॥

प्रकाशिका

नन्वेवंविधेऽपि देहे सति कथं मुक्तिरित्याशङ्कायामाह ॥ देहोऽपीति । सासुरिन्द्रियसहितो यावत्स्वारम्भकं कर्म प्रारब्धं तावत्पर्यन्तमेव प्रतिसमीक्षते स्थितो भवति । तदवसाने त्वाह ॥ तमिति । सप्रपञ्चं पुत्रादिसहितं तं देहं तज्जातीयं देहान्तरं वाऽधिरूढसमाधियोगः । सोऽपरोक्षज्ञानी पुनर्न भजते न प्राप्नोति । बीजाभावादिति भावः । अत्र दृष्टान्तमाह ॥ स्वाप्नं प्रतिबुद्धवदिति । यथा प्रतिबुद्धो निद्रावसानं प्राप्तः स्वाप्नदेहं वा तत्सदृशं देहान्तरं वा न भजते तथैवेत्यर्थः ॥ ३७ ॥

यथा पुत्राच्च वित्ताच्च पृथङ् मर्त्यः प्रतीयते ।

अप्यात्मत्वेनाभिमताद् देहादेः पुरुषस्तथा ॥ ३८ ॥

पदरत्नावली

देह एव सर्वेषामहं गच्छामीत्यात्मत्वेनाभिमतो यतस् तस्मात् तदभजनं मरण एव भवतीति देहात्मत्वमतनिरासायाह– यथेति ॥ यथा पुत्रादेरात्मत्वेनाभिमतान् मर्त्यो मरणशीलो देहः पृथक् प्रतीयते तथा पुरुषो जीव आत्मत्वेनाभिमताद् देहाद् भिन्न इत्यन्वयः । अपिपदेन देहात्मवादस्य निन्दितत्वं सूचयति । ‘रेतो धातुर्वटकणिका’ इत्यादिवाक्यात् ॥ ३८ ॥

प्रकाशिका

ननु गौरोऽहं, कृष्णोऽहमित्यादिव्यवहारबलान्न देहातिरिक्तात्माऽस्त्यतः कर्मापगमे पुनस्तं न भजत इत्ययुक्तमित्याशङ्कायामाह ॥ यथेति । आत्मत्वेनाभिमतादात्माभिन्नत्वेन व्यवह्रीय-माणादपीत्यर्थः । अपिपदेन हेतोरप्रयोजकतां सूचयति । स्नेहविशेषेणाहमेवेदं पुत्रादीति व्यवह्रीयमाण-त्वात्पुत्रादेर्यथा मर्त्यः पित्रादिः पृथक् प्रतीयते तथा पुरुषो जीवोऽपि आत्मत्वेन गौरोऽहमित्याद्यात्मा-भिन्नत्वेन व्यवह्रीयमाणाद्देहादेः पृथक् प्रतीयते मम देह इत्यनुभवात् । तथा च निर्बाधभेदानुभवबलाद-भेदव्यवहार औपचारिक एव न मुख्य इति भावः ॥ ३८ ॥

यथोल्मुकाद् विस्फुलिङ्गाद् धूमाद् वापि स्वसम्भवात् ।

अप्यात्मत्वेनाभिमताद् दाहकोऽग्निः पृथङ् मतः ॥ ३९ ॥

भूतेन्द्रियान्तःकरणात् प्रधानाज्जीवसंज्ञितात् ।

आत्मा तथा पृथग् द्रष्टा भगवान् ब्रह्मसंज्ञितः ॥ ४० ॥

पदरत्नावली

इदानीं जीवपरमात्मनोरपि भेद एवेत्याह– यथोल्मुकादिति ॥ यथाऽत्मत्वेनाभि-मतादुल्मुकादेस् तद्दाहकोऽग्निः पृथङ्मतः । तथा भूतेन्द्रियान्तःकरणात् पञ्चभूतदशेन्द्रियमनोभ्यः प्रधानात् प्रकृतेर् जीवसंज्ञितात् संसारिणश्च द्रष्टा सर्वज्ञो ब्रह्मसंज्ञित आत्मा परमात्मा भगवान् पृथगेवेत्यन्वयः

॥ ३९-४० ॥

प्रकाशिका

ननु तथाऽपि दैववशग इत्यनुपपन्नम् । भूतेन्द्रियान्तःकरणात्मकदेहात्स्वामित्वेन तत्प्रधानाज्जीवाच्च पृथक् दैवशब्दाभिधेयेश्वरस्यानुपलम्भात् । प्रत्युत राजादिदेहस्येव तदभिमानिजीवस्य ईश्वरत्वेन व्यवहारादित्यत आह ॥ यथोल्मुकादिति । स्वसम्भवात् । अग्निसम्भवात् । अविवेकि-भिरात्मत्वेनाभिमतादुल्मुकादिरेवाग्निरित्यग्नित्वेन व्यवह्रीयमाणादुल्मुकादेर्यथा तद्दाहकोऽग्निः पृथङ्मतो निश्चितः । अन्यथाऽग्नेर्जनकत्वमेव न स्यादिति युक्तिसूचनाय स्वसंभवादित्युक्तम् ॥

तथा भूतेन्द्रियान्तःकरणात् तदात्मकाद्देहाज् जीवसंज्ञिकतात् प्रधानात् तदभिमानिचेतनाच्च आत्मत्वेनाभिमतत्वदविवेकिभिरयमेवेश्वर इति व्यवह्रीयमाणादप्यात्मा परमात्मा पृथक् । अत्र प्रमाणकथनाय द्रष्टा सर्वज्ञ इत्यादिकमुक्तम् । वेदे श्रूयमाणं सर्वज्ञ इत्यादिपदजातं जीवादिष्व-सम्भाव्यमानार्थकं तदतिरिक्तमीश्वरं गमयतीति भावः । स्वसंभवादित्यस्य दार्ष्टान्तिकेऽप्यन्वये देहादिजनकत्वयुक्तिरप्यत्रोक्तेति ज्ञातव्यम् ॥ ३९-४० ॥

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।

ईक्षेतानन्यभावेन भूतेषु च तदात्मताम् ॥ ४१ ॥

तात्पर्यम्

अनन्यभावेन तद्रूपाणामभेदेन । तदात्मतां तस्यादानादिकर्तृत्वं च भूतविषये ॥

पदरत्नावली

भिन्नेषु जीवेषु स्थितस्य परमात्मन उपास्तिप्रकारं कथयति– सर्वभूतेष्विति ॥ सर्वभूतेष्वन्तर्यामित्वेन आत्मानं हरिमीक्षेत सर्वभूतान्यात्मनि हरावाधारत्वेनेक्षेत । किञ्च अनन्यभावेन सर्वान्तर्यामिरूपाण्यभेदेन ईक्षेत । अभेदेनेत्युक्तिं विहाय अनन्यभावेनेति वचनमनर्थहेतुत्वाद् रूपाणा-मन्यत्वभावना सर्वथा न कार्येति द्योतनाय । किञ्च भूतेष्वपि जीवेष्वपि तदात्मतां तस्य हरेरादानादि-कर्तृतां चेक्षेत । अनेन अनुग्राह्यानुग्राहकत्वद्योतनेन जीवपरमात्मनोर्भेदः परमार्थिक इत्युक्तं भवति । आदानादिकर्तृत्वं च भूतविषये न स्वविषये, नित्यतृप्तत्वात् ॥ ४१ ॥

प्रकाशिका

सिंहावलोकनन्यायेन मोक्षसाधनज्ञानजनकध्याने उपसंहार्यगुणान्दर्शयति ॥ सर्वभूतेष्विति । आत्मानमन्तर्यामिणं हरिं सर्वभूतेषु सर्वभूतानि चात्मनीक्षेत । इदं चिन्तनद्वयं मोक्षरूपेष्टसाधनमित्यर्थः । आद्ये स्थानभेदाद्भेदशङ्कायामाह ॥ अनन्यभावेनेति । अत्र भूतेभ्योऽनन्य-भावेनेति प्रतीतिवारणाय तात्पर्यमाह ॥ अनन्यभावेनेति । तद्रूपाणां भूतान्तःस्थितभगवद्रूपाणां परस्पराभेदेनेत्यर्थः । द्वितीये तदात्मतामित्यस्य तदैक्यप्रतीतिवारणाय तात्पर्यमाह ॥ तदात्मतामिति । तथा च भूतेष्विति विषयसप्तमीति भावः ॥ ४१ ॥

स्वयोनिषु यथा ज्योतिरेकं नाना प्रतीयते ।

योनीनां गुणवैषम्यात् तथात्मा प्रकृतौ स्थितः ॥ ४२ ॥

पदरत्नावली

अधिष्ठानवैलक्षण्याद् अधिष्ठातृरूपाणां वैलक्षण्यं न शङ्कनीयमितीममर्थं सदृष्टान्तं समर्थयते– स्वयोनिष्विति ॥ यथैकं ज्योतिरग्न्याख्यं स्वयोनिषु कारणेषु काष्ठेषु योनीनां दारूणां गुणवैषम्याद् आर्द्रशुष्कत्वादिवैलक्षण्यान् नानाविधलक्षणमिव प्रतीयते तथा प्रकृतौ प्रकृतिकार्ये जगति स्थित आत्मा हरिर् विलक्षण इव प्रतीयते, क्वचिद् बहुसामर्थ्याभिव्यक्तिमान् क्वापि अल्पसामर्थ्याभि-व्यक्तिमानित्यादिरूपेण ॥ ४२ ॥

प्रकाशिका

नन्वेवं सर्वभूतगतहरिरूपाणामभेदे देवादिस्थितं भगवद्रूपं बहुसामर्थ्यव्यक्ति-मन्मनुष्यादिस्थितं तु न तथेति वैलक्षण्यं कथमित्यत आह ॥ स्वयोनिष्विति । यथैकं ज्योतिरग्न्याख्यं स्वयोनिषु कारणेषु काष्टेषु योनीनां काष्टानां गुणवैषम्यादार्द्रशुष्कत्वादिवैलक्षण्यान्नाना विलक्षणमिव प्रतीयते न वस्तुतो विलक्षणम् । अभिमानिदेवतापेक्षयैतत् । तथा प्रकृतौ प्रकृतिकार्येषु देहेषु स्थित आत्मा हरिर्विलक्षण इव प्रतीयते न वस्तुतो विलक्षण इत्यर्थः ॥ ४२ ॥

तस्मादिमां स्वां प्रकृतिं देवीं सदसदात्मिकाम् ।

दुर्विभाव्यां पराभाव्य स्वरूपेणावतिष्ठते ॥ ४३ ॥

तात्पर्यम्

**प्रकृतिं पराभाव्य तदुत्तमत्वेनैव सदावतिष्ठते परः । ‘सर्वभूतस्थमीशेशं जेतारं प्रकृतेरपि । अविशेषं सदैवैकं चिन्तयन्विप्रमुच्यत’ इति च ॥ ४३ ॥ **

इति तृतीयतात्पर्ये एकोनत्रिंशोऽध्यायः ॥ २९ ॥

पदरत्नावली

मथितार्थमाह– तस्मादिति ॥ यस्मात् सर्वस्मादन्यः श्रीनारायणस् तस्मात् स्वां स्वाधीनां जडप्रकृतिं देवीं कार्यरूपेण द्योतमानां तदभिमानिनीं देवीं चित्प्रकृतिं च सदसदात्मिकां कार्यकारणव्यापिनीं दुर्विभाव्यां ब्रह्मादिभिरपि निरूपयितुमशक्यां पराभाव्यातिक्रम्य तदुत्तमत्वेनैव स्थित्वा निरस्तसाम्यतिशयेन सर्वदोषविवर्जितेन सर्वगुणपूर्णेन त्रिकालेष्वेकप्रकारेण स्वरूपेणावतिष्ठत इत्यन्वयः । तदुक्तम्– ‘सर्वभूतस्थमीशेशं जेतारं प्रकृतेरपि । अविशेषं सदैवैकं चिन्तयन् विप्रमुच्यते ॥’ इति ॥४३॥

प्रकाशिका

ननु प्राकृतस्थाननानात्वेऽप्यवैलक्षण्यं हरेः कुत इत्यत आह ॥ तस्मादिति । तस्मात्सर्वत्रस्थितस्यैकरूपत्वादेवेत्यर्थः । अत्र प्रकृतिं पराभाव्य जीवः भगवत्स्वरूपेणावतिष्ठत इत्यन्यथा-प्रतीतिवारणाय प्रकृतसङ्गतां योजनां दर्शयति ॥ प्रकृतिमिति । स्वरूपेणेत्यस्य तात्पर्यं तदुत्तमत्वेनेति । अवतिष्ठत इति लट् क्रियाप्रबन्ध इत्याशयेन सदेत्युक्तम् । परः परमात्मेति कर्तुरध्याहारः । अवधारणेन तमसः परस्तादित्यादिश्रुतिसिद्धत्वमस्य दर्शयति । तथा च तस्मात्सर्वत्रैकरूपत्वादेव स्वां स्वाधीनां प्रकृतिं देवीं नानाविधकार्यात्मना द्योतमानां सदसदात्मिकां कार्यकारणरूपिणीं दुर्विभाव्यामव्यक्तस्वरूपां पराभाव्यातिक्रम्य स्वरूपेण तदुत्तमत्वेन सर्वदाऽवतिष्ठत इति श्रुत्यादिसिद्धमुपपद्यते । अन्यथा । तन्न स्यादिति मूलाभिप्राय इति भावः । सर्वभूतेष्वित्यादिश्लोकत्रयार्थे समाख्यामाह ॥ सर्वभूतस्थमिति । अनेन सर्वभूतेष्वित्येतदुक्ततात्पर्यम् । ईशेशमित्यनेन स्वरूपेणेत्येतदुक्ततात्पर्यम् । जेतारं प्रकृतेरपीत्यनेन प्रकृतिं पराभाव्येत्येतदुक्ततात्पर्यम् । अविशेषमेकमित्यनेन स्वयोनिषु यथेति श्लोकतात्पर्यमुक्तम् । क्रियाप्रबन्धात्मकलडर्थकथनम् ॥ सदेति । अवधारणेन श्रुत्यादिप्रसिद्धिं दर्शयति । ईक्षेतेत्यस्यार्थश् चिन्तयन्निति । विध्यर्थभूतेष्टसाधनत्वप्रदर्शनाय विप्रमुच्यत इत्युक्तम् ॥ ४३ ॥

अन्वयव्यतिरेकाच्च साक्ष्यात्मा व्यभिचारिणः ।

वैतथ्यं व्यभिचारं च निद्रान्तेऽस्यानुचिन्तयेत् ॥ ४४ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ।

पदरत्नावली

सिंहावलोकनन्ययेन उपासकस्येत्थम्भावान्तरं वक्ति– अन्वयेति ॥ अन्यदेशेऽन्य-रहितदेशेऽन्यकालेऽन्यरहिते काले च सत्त्वलक्षणादन्वयव्यतिरेकात् सिद्धो यश्च साक्षाद् ईक्षत इति साक्षी । ‘न हि द्रर्ष्टुर्दृष्टेर्विपरिलोपो विद्यते’ इति श्रुतेः, आत्मा ‘यच्चाप्नोति यदादत्ते’ इत्यादेः सर्वव्यापी परमात्मेति यल्लक्षणं तल्लक्षणव्यभिचारिणो ऽनित्यस्यास्य वैतथ्यं निष्प्रयोजनत्वं व्यभिचारमनित्यत्वं च निद्रान्ते ब्राह्मे मुहूर्ते उत्थाय चिन्तयेत्, एतद्धरिप्रसादजनकमिति शेष इत्यर्थः ॥ ४४ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे एकोनत्रिंशोऽध्यायः ॥

प्रकाशिका

उपासकस्य पुनरित्थं भावान्तरमाह ॥ अन्वयेति । यः साक्षात्सर्वं सुकृत-दुष्कृतादिकमीक्षत इति साक्ष्यात्माऽऽदानादिकर्ता हरिरन्वयव्यतिरेकात्सिद्धोऽस्ति । प्रपञ्चसहितदेशकाल-योस्तद्रहितदेशकालयोश्च हरेः सत्त्वात् । तद्व्यभिचारिणोऽस्य प्रपञ्चस्य निद्रान्ते ब्राह्मे मुहूर्ते उत्थाय वैतथ्यं निष्प्रयोजनत्वं व्यभिचारं सर्वदेशकालयोरसत्वमनुचिन्तयेत् । इदं चिन्तनं मोक्षसाधनमित्यर्थः

॥ ४४ ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागवतटिप्पण्यामेकोनत्रिंशोऽध्यायः ॥ ३-२९ ॥