२८ अष्टाविंशोऽध्यायः

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः

अथ अष्टाविंशोऽध्यायः

प्रकृतिस्थोऽपि पुरुषो नाज्यते प्राकृतैर्गुणैः ।

अविकारादकर्तृत्वान्निर्गुणत्वाज्जलार्कवत् ॥ १ ॥

पदरत्नावली

श्रोतृप्रवक्तृभेदाद् गुणनिकायात् तात्पर्यातिशयजननाय उक्तमेव प्रपञ्च्यतेऽ-स्मिन्नध्याये । तत्र जीवपरयोरेकशरीरस्थत्वाज् जीववत् तद्गतदुःखादिभोगः परस्य कथं न स्यादित्या-शङ्क्य परिहरति– प्रकृतिस्थ इति ॥ ‘तं वा एतं पूर्णमाचक्षते पुरुष इति’ इति श्रुतेः पूर्णत्वात् पुरुषो विष्णुः प्रकृतिस्थः जडप्रकृतौ तत्कार्यशरीरेप्यवस्थितोऽपि प्राकृतैः प्रकृतिनिमित्तशरीरगतैः सुख-दुःखादिगुणैर् जननादिभिर् नाज्यते न लिप्यते । तत्र हेतुमाह– अविकारादिति ॥ अविकारात् षड्भावविकाररहितत्वाद् अकर्तृत्वात् परतन्त्रकर्तृत्वरहितत्वान् निर्गुणत्वात् सत्त्वादिगुणरहितत्त्वाच्च । जलार्कवद् यथा जलगतः सूर्यो जलदोषैः कम्पभेदादिभिर्न संबध्यते तथा प्रकृतेऽपीत्यर्थः ॥ १ ॥

प्रकाशिका

जीवपरयोरेकशरीरस्थत्वेऽपि परस्य न तत्कृतदुःखादिभोगः किन्तु जीवस्यैवेति यत्प्रागुक्तं तदेव तत्र तात्पर्यातिशयद्योतनाय पुनराह ॥ प्रकृतिस्थोऽपीत्यादिना । प्रकृतिस्थोऽपि प्राकृतशरीरस्थोऽपि । अत एव पुरुषो भगवान् नाज्यते न लिप्यते प्राकृतैः शरीरनिमित्तैर्गुणैर् दुःखादिभिः । अकर्तृत्वात्परतन्त्रकर्तृत्वरहितत्वान्निर्गुणत्वात्सत्त्वादिगुणशून्यत्वाज्जलार्कवत्प्रति-बिम्बितार्क जननद्वारा जलगतबिम्बभूतस्यार्कस्य यथा न जलगुणदुष्टत्वं तथैवेत्यर्थः । जलार्कवज्जल-प्रतिबिम्बितार्कवत्पुरुषो जीव एव लिप्यत इत्यपि ग्राह्यम् ॥ १ ॥

स एष यर्हि प्रकृतेर्गुणेष्वभिविषज्जते ।

अहङ्कारविमूढात्मा कर्ताऽस्मीत्यभिमन्यते ॥ २ ॥

पदरत्नावली

ननु यदि परमस्य सुखदुःखादिसम्बन्धो नास्ति तर्हि सुखी दुःखी जातो मृतो दरिद्र इति व्यवह्रियमाणः क इति तत्राह– स एष इति ॥ यर्हि यदा अनन्तरातीताध्याये ‘प्रत्यगात्मानमात्मनि चिन्तयेत्’ इति प्रकृतः सोऽहमिति प्रत्यक्षसिद्धत्वादेषः जीवः प्रकृतेर्गुणेषु सत्त्वादिगुणरचितशरीरेषु अभिविषज्जते शरीरवान् जायते तदा तेषां त्रयाणां गुणानां सन्निपातजाता-हङ्कारममकाराभ्यां विमूढात्मा विस्मृतपरमात्मस्वरूपः सन् पराधीनकर्तृत्वमन्तरेण स्वतः कर्तृत्वा-भावेऽप्यहङ्कर्ताऽस्मीत्यभिमन्यते ॥ २ ॥

प्रकाशिका

ननु जीवस्यापि स्वतश्चिद्रूपस्य कुतोऽयमस्वाभाविकः संसार इत्याशङ्कायां तत्र कारणमाह ॥ स एष इति । सश् चिन्तनकर्तृतया पूर्वाध्यायान्ते प्रकृतः जीवः यर्हि यदा प्रकृतेर्गुणेषु शरीरकार्यसुखादिष्वभिविषज्जतेऽनुभवेन सम्बद्ध्यते तदाऽहङ्कारेण मनःप्रभेदरूपेणेन्द्रियेण विमूढात्माऽ-विज्ञातपरमात्मस्वातन्त्र्योऽहमेव सुखदुःखादौ कर्ताऽस्मीत्यभिमन्यतेऽभिमानवान् भवति ॥ २ ॥

तेन संसारपदवीमवशोऽभ्येत्यनिर्वृतः ।

प्रासङ्गिकैः कर्मदोषैः सदसन्मिश्रयोनिषु ॥ ३ ॥

पदरत्नावली

तत्फलमाह– तेनेति ॥ तेन अविद्यमानकर्तृत्वाभिमानेन मनसा शब्दादिषु क्षणभङ्गुरत्वेन अनिर्वृतोऽलम्बुद्धिगोचरानन्दरहितोऽपि प्रासङ्गिकैर् विषयासक्तिजातैः कर्मदोषैः सद-सन्मिश्रयोनिषु देवासुरमनुष्ययोनिषु जातः सुखदुःखलक्षणां संसारपदवीमभ्येतीत्यन्वयः ॥ ३ ॥

प्रकाशिका

तेनाभिमानेनावशः परब्रह्माधीनः संसारपदवीमभ्येति प्राप्नोति । कथम्भूतः । प्रासङ्गिकैर्विषयस्नेहनिमित्तकैः कर्मदोषैः पुण्यपापैः सदसन्मिश्रयोनिषु देवासुरमनुष्ययोनिष्वनिर्वृतो दुःखासंभिन्नसुखरहितः सन् आत्यन्तिकसुखरूपप्रयोजनाभावेऽपि संसारपदवीमभ्येतीत्याशयः ॥ ३ ॥

अर्थे ह्यविद्यमानेऽपि संसृतिर्न निवर्तते ।

ध्यायतो विषयानस्य स्वप्नेऽनर्थागमो यथा ॥ ४ ॥

पदरत्नावली

आभिमानिकसंसारानिवृत्तौ किं निमित्तमित्याशङ्क्य विषयाभिध्यानमित्याह– अर्थे हीति ॥ स्वतश् चित्सुखरूपस्यास्य जीवस्यार्थे सुखी दुःख्यहमित्यादिव्यवहारे अविद्यमाने सत्तारहितेऽपि संसृतिर्न निवर्तते । ध्यायतो विषयानिति हेतुगर्भविशेषणम् । ‘ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते’ इत्यादि प्रसिद्धिं हिशब्द आपादयति । विषयध्यानसंस्कारपरम्परया बीजाङ्कुरन्यायेनान्योन्यकारण-त्वस्यानादित्वेन भगवत्प्रसादमन्तरेणानुच्छेदादित्यर्थः । एतमर्थं निदर्शयति– स्वप्न इति ॥ यथा जाग्रदवस्थायां नानाविधपदार्थान् ध्यायतः स्वप्ने गर्दभाद्यारोहणादिना मरणाद्यनर्थागमो न निवर्तते ‘पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति’ इत्यादेः । अनेन अर्थक्रियाकारित्वात् स्वप्नस्य मिथ्यात्वमपि प्रत्युक्तम् । यद्वा अर्थेऽबाधितप्रयोजनेऽसत्यपीति ॥ ४ ॥

प्रकाशिका

ननु प्रयोजनाभावादस्वाभाविको जीवस्य संसारः किं स्वयमेव निवर्तते नेत्याह ॥ अर्थे हीति । अर्थे प्रयोजनेऽविद्यमानेऽपि । विषयान् ध्यायत इति हेतुगर्भविशेषणम् । हिशब्देन ‘‘ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते’’ इत्यागमसिद्धिं दर्शयति । विषयाभिध्यानजनितकामादिना पुनः संसरतीत्याशयः । अत्र दृष्टान्तमाह ॥ स्वप्न इति । यथा जाग्रदवस्थायां नानाविधान् पदार्था-न्ध्यायतस् तज्जनितसंस्कारैः स्वप्ने स्वप्नावस्थायां, न विद्यतेऽर्थः प्रयोजनं यस्य तस्य संसारस्यागमः प्राप्तिस्तथेत्यर्थः ॥ ४ ॥

प्रबुद्ध्य स्वप्नसुप्तिभ्यां संस्मरन्नात्मवैशसम् ।

वैतथ्यं व्यभिचारं च नासौ ध्यायेद् यतो भयम् ॥ ५ ॥

तात्पर्यम्

‘अज्ञानं सुप्तिशब्दोक्तं स्वप्नश्चैव विपर्ययः’ इति भारते ॥ ५ ॥

पदरत्नावली

अस्य संसारस्य निवृत्त्युपायमाह– प्रबुद्ध्येति ॥ ‘अज्ञानं सुप्तिशब्दोक्तं स्वप्नश्चैव विपर्ययः’ इति वचनात् स्वप्नसुषुप्तिभ्यां विपरीतज्ञानाज्ञानाभ्यां विषयाणां सेवा या स्यात् सा स्वतो न निवर्तत इति शास्त्राद्युपदेशेन प्रबुद्ध्य प्रकृष्टं बोधं प्राप्य आत्मवैशसं दुर्विषयसेवया आत्मनाशं स्मरन्नसौ पुरुषो विषयाणां वैतथ्यं निष्फलत्वं व्यभिचारमनित्यत्वं च ज्ञात्वा यतो विषयाद् भयं संसारलक्षणं स्यात् तं न ध्यायेन् न संस्मरेदित्यर्थः । आत्मसंसृतेरिति पाठे तस्या मिथ्यात्वमनेकान्तत्वं च दृश्यमानं संस्मरन्नित्यर्थः ॥ ५ ॥

प्रकाशिका

इदानीं संसारनिवृत्त्युपायमाह ॥ प्रबुद्ध्येति । अत्र स्वप्नसुप्तिभ्यां प्रबुद्ध्यात्मवैशसं वैतथ्यं व्यभिचारं च स्मरन्नित्युक्त्या जाग्रदवस्थाया आत्मवैशसादिकारणत्वमुच्यत इति भाति । न च तत्सम्भवति । जाग्रतां तदनुपलंभात् । अतोऽत्र विवक्षितं सुप्तिशब्दार्थं प्रमाणेनैव दर्शयति ॥ अज्ञानमिति । प्रकृत इति शेषः । न प्रसिद्धावस्थापर इत्येवशब्दः ॥ ततश्चायं श्लोकार्थः ॥ स्वप्नसुप्तिभ्यां विपरीतज्ञानाज्ञानाभ्यां, दुर्विषयसेवयाऽऽत्मवैशसमात्मनाशं, प्रबुद्ध्य गुरूपदेशेन प्रकर्षेण ज्ञात्वा । विषयाणां वैतथ्यं नित्यपुरुषार्थासाधनत्वम् । व्यभिचारं स्वात्मानं विहायापगमनं च संस्मरन्नसौ अधिकारीमान्विषयान्न ध्यायेत् । यतो येभ्यः पुनः संसारलक्षणं भयं भवति ॥ ५ ॥

अत एव शनैश्चित्तं प्रसक्तमसतां पथि ।

भक्तियोगेन तीव्रेण विरक्त्या च नयेद्वशम् (विरक्त्यात्मवशं नयेत्) ॥ ६ ॥

पदरत्नावली

मनसि विजिते सर्वं विजितं स्यादिति कृत्वा मनोविजयप्रकारं वक्ति – अत इति ॥ यत एवं मनसो विषयेषु सङ्गः संसारहेतुरत एव विषयसङ्गिनामसतां पथि प्रसक्तं चित्तं शनैर्हरौ तीव्रेण भक्तियोगेन विषयविरक्त्या च आत्मवशं नयेदित्यन्वयः । असताममङ्गलानां विषयाणां पथीति वा

॥ ६ ॥

प्रकाशिका

गुरूपदेशादिमतामप्युक्तरीत्या विषयाध्याने मनसो हरौ निवेशनमेव हेतुरित्याह ॥ अत एवेति । यत एवं मनसो विषयेषु सङ्गः संसारहेतुरत एवेत्यर्थः । असतां विषयाणां पथि मार्गे प्रसक्तम् । वशं नयेद् यथा हरिविषयकमेव स्यात्तथा कुर्यादित्यर्थः ॥ ६ ॥

यमादिभिर्योगपथैरभ्यसंच्छ्रद्धयाऽन्वितः ।

मयि भावेन सत्येन मत्कथाश्रवणेन च ॥ ७ ॥

पदरत्नावली

मनसः स्ववशानयनमेव नालम् । किन्तु यमादिसाधनसामग्य्रा समुत्पन्नेनापरोक्ष-ज्ञानेनानावृत्तिलक्षणश्रीनारायणप्राप्तिः स्यादित्याह– यमादिभिरिति ॥ अभ्यसन्, प्रणवमिति शेषः । सत्येन भूतहितवचनेन ॥ ७ ॥

प्रकाशिका

मनोवशीकरणेऽपि कारणानि दर्शयन् तत्साध्यं भगवदपरोक्षज्ञानमेव मोक्षसाधन-मित्याह ॥ यमादिभिरित्यादिना । अभ्यसन् पुनः पुनश्चित्तमेकाग्रीकुर्वन् । भावेन भक्त्या, सत्येन सज्जनहितवचनेन ॥ ७ ॥

सर्वभूतसमत्वेन निर्वैरेणाप्रसङ्गतः ।

ब्रह्मचर्येण मौनेन स्वधर्मेण महीयसा ॥ ८ ॥

पदरत्नावली

सर्वभूतसमत्वेन सर्वभूतान्तर्यामिणो मम पूर्वत्वादिज्ञानेन तत्तद्वस्तुयोग्यतानुकूल-दर्शनेन वा । निर्वैरेण वैष्ण्वद्वेषराहित्येन । अप्रसङ्गतः विषयरागिभिः सह सल्लापादिप्रसङ्गराहित्येन । मौनेन उपासनेन । स्वधर्मेण स्वविहितवर्णाश्रमधर्मानुष्ठानेन ॥ ८ ॥

प्रकाशिका

सर्वभूतसमत्वेन सर्वत्र भगवतः पूर्णत्वादिना साम्यदर्शनेन । तत्तद्वस्तुयोग्यतानु-सारिज्ञानेन वा । निर्वैरेण वैष्णवद्वेषराहित्येनाप्रसङ्गतो दुष्टसङ्गत्यागेन स्वधर्मेण स्वविहितधर्मानुष्ठाने-नेश्वरार्पणादिना महीयसा ॥ ८ ॥

यदृच्छयोपलब्धेन सन्तुष्टो मितवा(भु)ङ् मुनिः ।

विविक्तशरणः शान्तो मैत्रः करुण आत्मवान् ॥ ९ ॥

पदरत्नावली

यदृच्छयोपलब्धेन दैवतः प्राप्तधनेन सन्तुष्टोऽलम्बुद्धिमान् । शान्तः मदेकनिष्ठः । सतामापदं मित्वा ज्ञात्वा त्रायत इति मित्रं, सा बुद्धिर्यस्यास्ति स मैत्रः । मित्रादिदेवतानिष्ठ इति वा । करुणो मित्रोदासीनेषु सत्सु कृपावान् । आत्मवान् वशीकृतमनाः ॥ ९ ॥

प्रकाशिका

यदृच्छयैवोपलब्धेन स्वप्रयत्नाभावेऽपि हरीच्छया प्राप्तधनेन विविक्तशरण एकान्त-वासी शान्तो भगवदेकनिष्ठः । मैत्रः स्वसमेषु मित्रबुद्धिमान् । करुणः स्वनीचसज्जनेषु कृपावान् । आत्मवान्स्वोत्तमेषु स्वामित्वबुद्धिमान् ॥ ९ ॥

सानुबन्धे च देहेऽस्मिन्नकुर्वन्नसदाग्रहम् ।

ज्ञानेन दृष्टतत्त्वेन प्रकृतेः पुरुषस्य च ॥ १० ॥

पदरत्नावली

पुत्राद्यनुबन्धसहितेऽस्मिन् देहेऽसदाग्रहं मदीयं तदीयमिति भेदज्ञानमकुर्वन् । प्रकृतेः पुरुषस्य च दृष्टतत्त्वेन यथावज् ज्ञातस्वरूपेण ज्ञानेन ॥ १० ॥

प्रकाशिका

असदाग्रहमविद्यमानममताबुद्धिम् । प्रकृतेः पुरुषस्य च । दृष्टं यथावद्विषयीकृतं तत्त्वं स्वरूपं येन तेन ज्ञानेन ॥ १० ॥

निवृत्तबुद्ध्यवस्थानो दूरीभूतान्यदर्शनः ।

उपलभ्यात्मनात्मानं चक्षुषेवार्कमात्म(मेक)दृक् ॥ ११ ॥

तात्पर्यम्

बुद्धेरवस्थानं निद्रादि ॥ ११ ॥

पदरत्नावली

निवृत्तबुद्ध्यवस्थानः निवृत्तं बुद्धेरर्वाक् स्थानं निद्रादिलक्षणं यस्य स तथा । दूरीभूतमन्यदर्शनं शब्दादिविषयज्ञानं दुःशास्त्रं वा यस्य स तथा । चक्षुषार्कमिव आत्मना बाह्यान्तः-करणेनाविमिश्रस्वरूपान्तःकरणेन आत्मानं स्वस्वरूपमुपलभ्य दृष्ट्वा, द्रष्टव्यनामादिप्राणान्तदेवतानां च स्वरूपं दृष्ट्वा, तत्प्रसादादात्मानं स्वान्तर्यामिणं च, एका मुख्या दृगेव ज्ञानमेव यस्य स तथा ॥११॥

प्रकाशिका

निवृत्तबुद्ध्यवस्थान इत्यत्र प्रकृतसङ्गतं बुद्ध्यवस्थानशब्दार्थं दर्शयति ॥ बुद्धे-रवस्थानमिति । आदिपदेन स्वप्नसङ्ग्रहः । तथा च निवृत्तनिद्रादिमानित्यर्थः । ‘‘श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित् । अत्यशक्ये तु निद्रादौ पुनरेव समभ्यसेदि’’ति वचनात् । अन्यदर्शनं विषयदर्शनं दुःशास्त्रं वा । आत्मना मनसाऽऽत्मानं परमात्मानमुपलभ्यापरोक्षतया ज्ञात्वाऽऽत्मदृक् तद्दासतया स्वात्मदृक् ॥ ११ ॥

मुक्तलिङ्गः सदाभासमसति प्रतिपद्यते ।

सतो बन्धुं समं चक्षुः सर्वानुस्यूतमद्वयम् ॥ १२ ॥

तात्पर्यम्

असति प्रलये ॥ १२ ॥

पदरत्नावली

प्रारब्धक्षये सति मुक्तलिङ्गः समुत्सृष्टलिङ्गशरीरः देवयानेन विरिञ्चलोकमुपागम्य असति ब्रह्मप्रलये अनिरुद्धद्वारेण विरिञ्चं प्रविश्य तेन सह सन् प्राण आभासः प्रतिबिम्बो यस्य तद् ब्रह्म प्रतिपद्यत इत्यन्वयः । ‘शेषस्य प्रतिबिम्बास्तु देवाः शेषश्च ब्रह्मणः । स परब्रह्मणश्चैव ते स्वबिम्बप्रदर्शकाः ॥ ततः स्वबिम्बद्वारेण परमात्मप्रदर्शनम् ॥’ इत्यनेन सर्वोऽप्युक्तार्थो ज्ञायते । सदाभासं विशिनष्टि– सतो बन्धुमिति ॥ पितृत्वादिना सतः प्राणस्य बन्धुभूतं ‘सतो बन्धुमसति निरविन्दन्’ इत्यादेः सर्वरूपेषु पूर्णगुणत्वादिना समं, चक्षुः सर्वज्ञं, सर्वेषु मुक्तामुक्तप्रपञ्चेषु मणिषु सूत्रमिव धारकत्वेन अनुस्यूतं प्रोतम्, अद्वयमसमाधिकम् ॥ १२ ॥

प्रकाशिका

मुक्तलिङ्गस्त्यक्तलिङ्गशरीरः सन् मुख्यवायुराभासः प्रतिबिंबो यस्य स सदाभासस् तम् । वायुः स्वप्राप्तान्स्वबिम्बभूतं ब्रह्म प्रापयतीति प्रदर्शनायेदं विशेषणम् । असतीत्यस्य प्रकृतसङ्गत-मर्थमाह ॥ असतीति । महाप्रलय इत्यर्थः । सतो वायोर् बन्धुं पितरं ‘‘सतो बन्धुमसति निरविन्दन्निति’’ श्रुत्यर्थानुवादोऽयमिति ज्ञातव्यम् । सर्वरूपेषु पूर्णत्वादिना समम् । चष्ट इति चक्षुः सर्वज्ञं, सर्वेषु प्राणिषु नियामकतयाऽनुस्यूतं प्रविष्टम् । अद्वयं समाधिकरहितम् ॥ १२ ॥

यथा जलस्थ आभासः स्थलस्थेनाभि(व)दृश्यते ।

स्वाभासेन यथा सूर्यो जलस्थेन दिवि स्थितः ॥ १३ ॥

पदरत्नावली

मुख्यप्राणादिप्रतिबिम्बस्य बिम्बभूतपरमात्मप्रदर्शकत्वमुक्तम् । तत्र प्रतिबिम्बानां बिम्बप्रदर्शकत्वप्रकारः कथमिति तत्राह– यथेति ॥ गगनतलवर्तिनः सूर्यस्याभासो जले भवति । जलस्यापि कदाचित् स्थले भित्त्यादौ भवति । एवं स्थिते यथा स्थलस्थेन भित्त्यादिगतेनाभासेन जलस्थ आभासो दृश्यते ज्ञायते, यथा च जलस्थेन स्वाभासेन प्रतिबिम्बेन दिवि स्थितः सूर्यः बिम्ब-भूतोऽवगम्यते । एवं वा योजनाभेदः । जलस्थ आभासः स्थलस्थेन जले प्रतिबिम्बितं मुखं तीरस्थ-पुरुषमुखमेतादृशलक्षणमिति यथा ज्ञापयति, यथा जलस्थेन स्वाभासेन प्रतिबिम्बेन दिवि स्थितः सूर्यो दृश्यते जले स्थितसूर्यमण्डलं व्योमि्न स्थितं बिम्बभूतं सवितृमण्डलमवगमयति ॥ १३ ॥

प्रकाशिका

उपलभ्यात्मनात्मानमित्युक्तं भगवदपरोक्षज्ञानं स्वबिंबद्वारेणैव भवतीति दृष्टान्त-मुखेनाह ॥ यथा जलस्थ इति । भस्मादिनिर्णिक्तकांस्यपात्रस्थजले स्थित आभासः सूर्यप्रतिबिम्बो यदा गृहान्तर्वर्तिभित्त्यादौ प्रतिफलति तदा गृहस्थितैः पुरुषैर्भित्त्यादिस्थलस्थेन स्वाभासेन बिम्बभूत-कांस्यपात्रगतजलस्थ आभासः सूर्यप्रतिबिंबो दृश्यते यथा च तेन जलस्थेन स्वाभासेन दिवि स्थितः सूर्यो बिम्बभूतो दृश्यते ॥ १३ ॥

एवं त्रिवृदहङ्कारो भूतेन्द्रियमनोगुणैः ।

स्वाभासैर्लक्षितोऽनेन सदाभासेन सत्यदृक् ॥ १४ ॥

तात्पर्यम्

‘शेषस्य प्रतिबिम्बास्तु देवाः शेषस्तु ब्रह्मणः । स परब्रह्मणश्चैव ते स्वबिम्ब-प्रदर्शकाः । ततः स्वबिम्बद्वारेण परमात्मप्रदर्शनमि’ति ब्रह्मतर्के ॥ १४ ॥

पदरत्नावली

एवं तथा त्रिवृद् वैकारिकतैजसतामसाहङ्काराभिमानी शेषः स्वाभासैः स्वप्रतिबिम्बैर् भूतेन्द्रियमनोगुणैर् अभिमानिभिरिन्द्रादिदेवैर् लक्षितो भवति । अनेन शेषाख्येन प्रतिबिम्बेन सन् ब्रह्मा लक्षितः । तेन सदाभासेन चतुर्मुखाख्यप्रतिबिम्बेन सत्यदृक् यथार्थज्ञानी श्रीनारायणो लक्षितो भवति ॥ १४ ॥

प्रकाशिका

दार्ष्टान्तिकमाह ॥ एवमिति । अप्रतीतेरेतत् श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ शेषस्येति । शेषस्याहङ्काराभिमानिनः । देवा भूतेन्द्रियाभिमानिनः । ब्रह्मणः सन्नामकस्य । परब्रह्मणः सत्यदृक्शब्दवाच्यस्य । एवशब्दो यत इत्यर्थे । यतस्ते स्वबिंबदर्शकास्तत इति योज्यम् । अनेन स्वाभासैरित्यादितृतीयान्तपदानां तात्पर्यमुक्तमिति ज्ञेयम् ॥ ततश्चायं श्लोकार्थः ॥ एवं तथा त्रिवृद्वै-कारिकादिभेदेन त्रिविधोऽहंकारस्तदभिमानी शेषः स्वाभासैः स्वप्रतिबिम्बैर्भूतेन्द्रियमनोगुणैः । गुणाः शब्दादय इति तदभिमानिभिर्देवैर्लक्षितो ज्ञातो भवति । सदाभासेन ब्रह्मप्रतिबिंबभूतेनानेन शेषेण सत्यदृक् स्वबिम्बभूतो ब्रह्मा लक्षितो भवति । सदाभासेन सन्नामकपरब्रह्मप्रतिबिंबभूतेन ब्रह्मणा सत्यदृक् स्वपरगतबाह्या(ध्या)खिलविशेषदृक् परमात्मा लक्षितो भवतीत्यपि योज्यम् । तथा चाधिकारिणां परमात्मापरोक्षज्ञानं स्वबिंबद्वारेणैव भवतीति भावः ॥ १४ ॥

भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिष्विह निद्रया ।

लीनेषु सत्सु यस्तत्र विनिद्रो निरहङ्क्रियः (निरहङ्कृतिः) ॥ १५ ॥

मन्यमानस्तदात्मानमनष्टो नष्टवन्मृषा ।

नष्टेऽहङ्करणे द्रष्टा नष्टचित्त इवातुरः ॥ १६ ॥

तात्पर्यम्

यो विनिद्रः स सत्यदृक् । यो ऽनष्टो नष्टवन्नाज्ञासिषमिति मन्यमानः स आतुरो द्रष्टा जीवः ॥ १६ ॥

पदरत्नावली

ननु स्वतः सत्यदृक्त्वेऽप्याभासेनास्यासत्यदृक्त्वमभ्युपेयम् । अन्यथा स्वतोऽसङ्गस्य संबन्धाभावेन लक्षणानुपपत्तिः । तदनुपपत्तावुक्तार्थानुपपत्तिरिति तत्राह– भूतसूक्ष्मेति ॥ इह संसारे भूतसूक्ष्मेन्द्रियमनोबुद्ध्यादिषु लीनेषु निद्रया नष्टवृत्तिषु सत्सु अतिसुप्तेषु यो विनिद्र उत्फुल्ललोचनः स सत्यदृक् । अनेन कदाप्यस्य ब्रह्मणोऽज्ञानासम्भवो दर्शितः । अत उक्तानुपपत्तिः प्रेक्षावतां हृदि पदं न धत्ते ॥ परमात्मस्थितिं निरूप्य जीवस्थितिमाह– मन्यमान इति ॥ योऽनष्टोऽपि मनोधर्म अहङ्करणे नष्टे सत्यात्मानं नष्टवन्मृषा मन्यमानः, कदा ? तदा सुप्तावस्थायाम् । नष्टचित्त इवातुरो द्रष्टा जीव इत्यन्वयः । अनेन कदाप्यविनष्टद्रष्टृत्वं परस्य लक्षणम् । इतरस्य तदन्यथेति वैलक्षण्यमुभयोरुक्तम्

॥ १५,१६ ॥

प्रकाशिका

परमात्मापरोक्षज्ञाने जीवपरयोर्वैलक्षण्यज्ञानं जीवस्य भगवदाश्रितत्वादिज्ञानं च मुख्यकारणमित्याशयेनाह ॥ भूतसूक्ष्मेति । अत्र भूतसूक्ष्मेत्यारभ्यातुर इत्यंतस्यैकवाक्यताभ्रमं वारयन्योजनां दर्शयति ॥ यो विनिद्र इति । पूर्वश्लोकोक्तसत्यदृक्स्वरूपपर इति भावः । तद्वैपरीत्येन जीवस्वरूपपरं, मन्यमान इति श्लोकमन्वयं दर्शयन् व्याख्याति ॥ य इति । अनेन पूर्वश्लोकगतयच्छब्द-स्यात्राप्यनुवृत्तिरिति सूचयति । अनष्टोऽविनष्टः विलुप्तस्वरूपो नष्टवद् अमृतवत् । वत्यर्थसादृश्यप्रदर्शना-याह ॥ नाज्ञासिषमिति ॥ मन्यमान इति । आतुरो विवशः । द्रष्टा आतुरद्रष्टृशब्दवाच्यो जीव इत्यर्थः ॥ ततश्चायं श्लोकद्वयार्थः ॥ असति प्रलये भूतादिषु लीनेषु नष्टेष्विह संसारिषु निद्रया प्रलय-कालीनया लीनेषु श्लिष्टेषु यस्तत्र तस्यामवस्थायां विगतनिद्रो निरहङ्क्रियोऽहङ्कारशून्यः स सत्यदृक् नित्यदृक् परमात्मा ।

जीवस्तु नैतादृश इत्याह ॥ मन्यमान इति । योऽनष्टोऽविलुप्तस्वरूपोऽपि तदा प्रलयेऽ-हङ्करणेऽहङ्कारममकाररूपाभिमानजनके मनःप्रभेदरूपेऽहङ्कारे नष्टे सति मृषाऽऽत्मानं स्वात्मानं नष्टवन्मृतवन्मन्यमानः । मृतो यथा मरणानन्तरं मरणसमये किमपि नाज्ञासिषमिति मन्यते एवं प्रलया-नन्तरं पुनः स्थूलशरीरप्राप्तौ । एतावन्तं कालं प्रलये किमपि नाज्ञासिषमिति मन्यमान इति यावत् । स आतुरो द्रष्टा विवशद्रष्टा जीवः । किमपि नाज्ञासिषमित्यनुभवस्य मृषात्वोपपादनाय द्रष्टेत्युक्तम् । तदाऽपि स्वस्वरूपकालादिद्रष्टेत्यर्थः ॥ १५,१६ ॥

एवं प्रत्यवमृश्यासावात्मानं प्रतिपद्यते ।

साहङ्कारस्य द्रव्यस्य योऽवस्थानमनुग्रहः ॥ १७ ॥

तात्पर्यम्

साहङ्कारं द्रव्यं जीवस् तस्यावस्थानमनुग्राहकश्च परमात्मा । ‘नित्यदृक्परमात्माऽ-सौ मृतवद्यो न किञ्चन । जानाति जीवः स ज्ञेयः परमात्मा तदाश्रय’ इति हरिवंशेषु ॥ १७ ॥ इति तृतीयतात्पर्ये अष्टाविंशोऽध्यायः ॥ २८ ॥

पदरत्नावली

जीवपरयोर् वैलक्षण्यज्ञानस्य फलमाह– एवमिति ॥ एवमुक्तप्रकारेण ब्रह्मादि-जीवराशेः परस्य हरेर्जीवात् प्रत्यवमृश्य युक्त्यालोच्य निश्चित्य असावुपासको जीवः साहङ्कारस्य द्रव्यस्य योऽवस्थानं स्थितिहेतुरनुग्रहश्च सत्ताप्रतीतिदानेनानुगृह्णातीति ज्ञातस् तमात्मानं विष्णुं प्रतिपद्यत इत्यन्वयः । एकस्यैव परब्रह्मणोऽवस्थाद्वयमत्रोच्यते, न तु वैलक्षण्यम्, निश्चायकप्रमाणाभावाद् इतीयमाशङ्का ‘नित्यदृक् परमात्मासौ मृतवद् यो न किञ्चन । जानाति जीवः स ज्ञेयः परमात्मा तदाश्रयः’ इत्यनेन निश्चायकेन परिहर्तव्या ॥ १७ ॥

प्रकाशिका

एवं जीवपरयोर्वैलक्षण्यं प्रत्यवमृश्य सम्यग्विचार्यासावधिकारि, आत्मानं परमात्मानं प्रतिपद्यतेऽपरोक्षतो जानाति । कथंभूत आत्मेत्यत उक्तम् ॥ साहङ्कारस्येति । साहङ्कारद्रव्यशब्दयोः प्रकृतसङ्गतमर्थं दर्शयति ॥ साहङ्कारमिति । निरहङ्कृतिरित्यस्य हि प्रतियोगितयेदमुच्यते । अतः साहङ्कारद्रव्यशब्दो जीवपर एव युक्त इति भावः । अवस्थानमाश्रयोऽनुग्राहकश्च यः स परमात्मेत्यर्थः । भूतसूक्ष्मेत्यादिश्लोकत्रयोक्तार्थे प्रमाणसंवादं दर्शयति ॥ नित्यदृगिति । अनेन सत्यदृगित्यनेनान्वयः प्रमापित इति ज्ञातव्यम् । नष्टवदित्यस्यार्थः मृतवदिति । वत्यर्थप्रदर्शनं न किञ्चन जानातीति । आतुरद्रष्टेत्यस्यार्थः । जीव इति । आत्मशब्दार्थः परमात्मेति । साहङ्कारस्येत्यादेरर्थस् तस्य जीवस्याश्रय इति ॥ १७ ॥

देवहूतिरुवाच–

पुरुषं प्रकृतिर्ब्रह्मन् न विमुञ्चति कर्हिचित् ।

अन्योन्यापाश्रयत्वाच्च नित्यत्वादनयोः प्रभो ॥ १८ ॥

पदरत्नावली

जीवपरयोर्भेदज्ञानमेव प्रकृतिबन्धमोक्षकारणं श्रुत्वा देवहूतिस्तदर्थमाक्षिपति– पुरुषं प्रकृतिरित्यादिना ॥ त्रिगुणात्मिका प्रकृतिः पुरूणि पापपुण्यलक्षणानि कर्माणि सनन्तं भजन्तं, ‘‘वन षण सम्भक्तौ’’ इति धातुः, कर्हिचित् कदापि न विमुञ्चति । तत्र हेतुः– अन्योन्येति ॥ अनयोः प्रकृतिपुरुषयोर् नित्यत्वादविनाशित्वाद् अन्योन्यापाश्रयत्वाच्च । शरीरं विना पुरुषस्य चेष्टाभावात् पुरुषमन्तरेणाचेतनत्वेन प्रकृतेरपीतरेतरोपकारित्वाच्च ॥ १८ ॥

प्रकाशिका

मुक्तलिङ्गः सदाभासमित्यत्र प्रकृत्यात्मकलिङ्गशरीरसम्बन्धाभावो मुक्तस्योक्तः स न युक्त इत्याशङ्कते ॥ पुरुषमिति । अत्र पुरुषशब्दो जीवपरः । कर्हिचित्कदाचिदप्यनयोः प्रकृतिपुरुषयो-र्नित्यत्वादन्योन्यापाश्रयत्वाच्चान्यतरं विनाऽन्यतरस्य प्रवृत्त्यादावसामर्थ्याच्चेत्यर्थः । तथा च प्रकृतिपुरुष-सम्बन्धस्यानादितो विद्यमानस्य सम्बन्धिद्वयाऽविनाभूतस्य सम्बन्धिद्वयसत्वे कथमपगम इति शङ्कार्थः

॥ १८ ॥

यथा गन्धस्य भूमेश्च न भावो व्यतिरेकतः ।

अपां रसस्य च यथा तथा बुद्धेः परस्य च ॥ १९ ॥

पदरत्नावली

तत्र दृष्टान्तमाह– यथेति ॥ भूमेस् तद्गुणस्य गन्धस्य च व्यतिरेकतो भावो विनाभावो नास्ति । अपामित्यनेनैव व्याख्यातम् । बुद्धेः प्रकृतेः परस्य जीवस्य तथा पृथग्भावो नास्ति

॥ १९ ॥

प्रकाशिका

एतदेव दृष्टान्तमुखेनोपपादयति ॥ यथेति । भूमेस्तद्गुणस्य गन्धस्य च व्यतिरेकतो भावो विनाभावो नास्ति । तथा च तयोः सम्बन्धस्तदुभयाविनाभूत इति भावः । एवमपामित्येतदपि व्याख्येयम् । तथा च यः सम्बन्धः सम्बन्धिद्वयाविनाभूतः स सति सम्बन्धिद्वये न नश्यतीत्यत्रेद-मुदाहरणद्वयमिति भावः । उपनयमाह ॥ तथा बुद्धेरिति । प्रकृतेरित्यर्थः । परस्य तद्विलक्षणस्य जीवस्य व्यतिरेकतो भावो नास्ति ॥ १९ ॥

अकर्तुः कर्मबन्धोऽयं पुरुषस्य यदाश्रयः ।

गुणेषु सत्सु प्रकृतेः कैवल्यं तेष्वतः कथम् ॥ २० ॥

पदरत्नावली

इतोऽपि पुरुषस्य प्रकृतिबन्धमोक्षो न घटत इत्याह– अकर्तुरिति ॥ अकर्तुः स्वातन्त्र्येण कर्तुमशक्तस्य पुरुषस्यायं संसारबन्धो यदाश्रयः, यः प्रकृतिगुणसमुदाय आश्रयो यस्य बन्धस्य स यदाश्रयः । तेषु प्रकृतेर्गुणेषु सत्सु पुरुषस्य अतः गुणेभ्यः कैवल्यं मोक्षलक्षणं कथम् ? न कतमपीत्यन्वयः । प्रकृतिगुणानिवृत्त्या तत्कृतसंसारबन्धानिवृत्तिरित्यर्थः ॥ २० ॥

प्रकाशिका

निगमयति ॥ अकर्तुरिति । अतस्तस्मात्प्रकृतिं विना अकर्तुः पुरुषस्यायमनादि-सिद्धः कर्मबन्धः संसारो यदाश्रयो यन्मूलस्तेषु प्रकृतेर्गुणेषु सत्त्वादिषु सत्सु विद्यमानेषु प्रकृतेः सत्त्वादि-रूपायाः सकाशात्कैवल्यं मोक्षः कथं न कथमपीत्यर्थः । सम्बन्धिद्वयसत्वे तदविनाभूतसम्बन्धनिवृत्तिः कथमिति भावः ॥ २० ॥

सकृत् तत्त्वावमर्शेन निवृत्तं भयमुल्बणम् ।

निमि(वृ)त्तस्यानिवृत्तत्त्वात् पुनः प्रत्यवतिष्ठते ॥ २१ ॥

पदरत्नावली

वैलक्षण्यज्ञानेन बन्धो निवर्तत इत्यनेन मयायं प्रश्नोऽपि परिहृतो नन्विति तत्राह– सकृदिति ॥ भवतो वचनश्रवणात् तत्त्वावमर्शेन तत्त्वालोचनेनोत्पन्नं प्रकृतिबन्धभयं सकृन्निवृत्तम् । निवृत्तस्य भयस्य बाह्यान्तःकरणस्यानिवृत्तत्वात् पुनः संशयरूपं भयं प्रत्यवतिष्ठते प्रत्यवस्थानं करोति नापसरतीत्यर्थः ॥ २१ ॥

प्रकाशिका

ननु प्रबुध्य स्वप्नसुप्तिभ्यामित्यादिना संसारमोक्षसाधनं मया कथितमित्यत आह ॥ सकृदिति । तत्त्वावमर्शेनोक्तरीत्या वैतथ्यव्यभिचारादिस्मरणेन विषयानभिध्यानेन मनोवशीकरणादिनाऽ-परोक्षज्ञानेन कर्मक्षये स्थूलशरीरप्राप्तिरूपभयस्य सकृन्निवृत्तावपि तन्निमित्तस्य लिङ्गशरीरस्योक्तरीत्याऽ-निवृत्तत्वात्पुनः स्थूलशरीरप्राप्तिरूपं भयं प्रत्यवतिष्ठत एव । यथा प्रलये स्थूलशरीराभावेऽपि सूक्ष्म-शरीरवत्वेन पुनः संसारारम्भः सृष्टिसमये तथैवेत्याशयः । न च कर्मनाशात्पुनः कथं संसारारम्भ इति वाच्यम् । कर्मसम्बन्धस्यापि प्रकृतिसम्बन्धतुल्यतया सर्वात्मनाऽपगमासंभवादित्याशयात् ॥ २१ ॥

भगवानुवाच–

अनिमित्तप्रवृत्तेन स्वधर्मेणामलत्मना ।

तीव्रया मयि भक्त्या च श्रुतिसंभृतया चिरम् ॥ २२ ॥

पदरत्नावली

प्रकृतावपसृतायां तद्गुणाः स्वत एवापसरन्तीति भावेन तन्निवृत्तिरपि असंक्लृप्त-फलेन स्वधर्मादिना स्यादिति पूर्वोक्तमेव तत्परिहारत्वेनाह– अनिमित्तप्रवृत्तेनेति ॥ अनिमित्तेन फलामिसंधिराहित्येन प्रवृत्तेन निरन्तरमनुष्ठितेन, अत एवामलात्मना अतिशुद्धस्वरूपेण, चिरं श्रुत्या वेदान्तशास्त्रश्रवणेन संभृतया सम्पादितया ॥ २२ ॥

प्रकाशिका

उक्तवक्ष्यमाणसाधनसन्दर्भजातेनाघटितघटकेन मत्प्रसादेनानिवर्त्यतया प्रसक्तोऽपि प्रकृतिसम्बन्धः कर्मसम्बन्धश्च सर्वथा निवर्तते । तथा चानिवृत्तनिमित्तत्वाभावान्न पुनः संसारारम्भ इत्या-शयेन समाधानमाह ॥ अनिमित्तेत्यादिना । अः परमात्मा तन्निमित्तं तत्प्रीत्यर्थं प्रवृत्तेनानुष्ठितेनात एवामलात्मना निर्दुष्टेन मनसा । चिरं श्रुत्या वेदान्तश्रवणेन सम्भृतया सम्यग्वर्धितया ॥ २२ ॥

दृष्टतत्त्वेन ज्ञानेन वैराग्येण बलीयसा ।

तपोयुक्तेन योगेन तीव्रेणात्मसमाधिना ॥ २३ ॥

पदरत्नावली

दृष्टतत्त्वेन अपरोक्षीकृतविष्ण्वादिदेवतास्वरूपेण योगेन अष्टाङ्गयोगेन आत्म-समाधिना मनस एकाग्रतालक्षणेन ध्यानेन ॥ २३ ॥

प्रकाशिका

दृष्टतत्त्वेन विषयीकृतपरापरतत्त्वेन योगेन । प्राणायामादिरूपेणात्मसमाधिना मनस एकाग्रतालक्षणध्यानेन ॥ २३ ॥

प्रकृतिः पुरुषस्येह(स्यैवं) दह्यमाना त्वहर्निशम् ।

तिरोभवित्री शनकैरग्नेर्योनिरिवारणिः ॥ २४ ॥

पदरत्नावली

एवमुक्तसाधनसामग्रीसंपन्नज्ञानाग्निना अहर्निशं दह्यमाना पुरुषस्य प्रकृतिः शनकैस् तिरोभवित्री नाशं गन्त्री स्यादित्यन्वयः । योनिरुत्पत्तिस्थानमग्नेर् ज्वालयेति शेषः । गन्धरसयोः पृथिवीजलसमवेतत्वेन यावद्द्रव्यभावित्वसम्भवेऽपि प्रकृतिपुरुषयोर् द्रव्यत्वेन तदभावात् संयोगमात्र-सम्बन्धलक्षणस्य नाशलक्षणविभागोपपत्तेर् विषमस्त्वदुक्तो दृष्टन्त इति द्योतनाय अग्न्यरणिदृष्टान्त-कथनम् । अन्यथा तदुपादानं व्यर्थं स्यादिति ॥ २४ ॥

प्रकाशिका

अग्नेर्योनिस्थानभूतारणिदृष्टान्तस्तिरोभावमात्रे न नाशे प्रकृतेर्नित्यत्वादिति ज्ञेयम्

॥ २४ ॥

भुक्तभोगा परित्यक्ता दृष्टदोषा च नित्यशः ।

नेश्वरस्याशुभं धत्ते स्वे महिमि्न स्थितस्य च ॥ २५ ॥

पदरत्नावली

समूलतूलसमुत्सृष्टायाः प्रकृतेर्भयं पुनरागतचोरादिवन् नास्तीत्याह– भुक्तभोगेति ॥ भुक्तभोगत्वं नित्यशो दृष्टदोषत्वं च परित्यागो हेतुः । स्वे महिमि्न ज्ञानानन्दात्मके अच्छेद्याभेद्याक्लेद्यादि-स्वरूपमाहात्म्ये स्थितस्यापरोक्षीकृतस्वबिम्बभगवत्प्रसादाद् ईश्वरस्य समर्थस्याशुभं दुःखलक्षणं संसारभयं न धत्त इत्यन्वयः ॥ २५ ॥

प्रकाशिका

ईश्वरस्य भगवत्प्रसादेन प्रकृतिजये समर्थस्य स्वे महिमि्न स्वस्वरूपभूतानन्दानुभवे स्थितस्य तद्युक्तस्य ॥ २५ ॥

यथा ह्यप्रतिबुद्धस्य प्रस्वापो बह्वनर्थकृत् ।

स एव प्रतिबुद्धस्य न वै मोहाय कल्पते ॥ २६ ॥

पदरत्नावली

एतदेव सदृष्टान्तं विवृणोति– यथा हीति ॥ अप्रतिबुद्धस्य निद्रितस्य प्रस्वापो निद्रा बह्वनर्थकृद् व्याघ्रादिनिमित्तभयजनकः स्यात् । प्रतिबुद्धस्य निद्राया उत्थितस्य जाग्रतः ॥ २६ ॥

प्रकाशिका

अप्रतिबुद्धस्य जाग्रदाद्यवस्थाशून्यस्य प्रस्वापो निद्रा बह्वनर्थकृत् स्वाप्नव्याघ्रादि-निमित्तभयजनकः । प्रतिबुद्धस्य जाग्रतः ॥ २६ ॥

एवं विदिततत्त्वस्य प्रकृतिर्मयि मानसम् ।

युञ्जतो नापकुरुते आत्मारामस्य कर्हिचित् ॥ २७ ॥

पदरत्नावली

दृष्टान्तार्थं दार्ष्टान्तिके योजयति– एवमिति ॥ विदितमपरोक्षितं नामादिमदन्त-देवतानां तत्त्वं निजं रूपं येन स तथा तस्य ॥ २७ ॥

प्रकाशिका

नापकुरुते । मत्प्रभावादिति शेषः ॥ २७ ॥

यदैवमध्यात्मरतः कालेन बहुजन्मना ।

सर्वत्र जातवैराग्य आब्रह्मभुवनान्मुनिः ॥ २८ ॥

मद्भक्तः प्रतिबुद्धार्थो मत्प्रसादेन भूयसा ।

निःश्रेयसं स्वसंस्थानं कैवल्याख्यं मदाश्रयम् ॥ २९ ॥

प्राप्नोतीहाञ्जसा धीरः स्वदृशा च्छिन्नसंशयः ।

यद् गत्वा न निवर्तेत योगी लिङ्गविनिर्गमे ॥ ३० ॥

पदरत्नावली

इदानीमनुष्ठीयमानश्रेयः साधनफलं वक्ति– यदैवमिति ॥ यदैवमुक्तप्रकारेण बहु-जन्मना कालेनाध्यात्मरतः स्वोत्तममारभ्य मदन्ततत्त्वेषु रतस् तदितरत्र अनित्यत्वेनासारत्वेन आब्रह्म-भुवनात् सत्यलोकपर्यन्तं जातवैराग्यो भूत्वा मुनिर् निरन्तरमदुपासनाशीलो मद्भक्तो भूयसा मत्प्रसादेन प्रतिबुद्धार्थोऽपरोक्षीकृतनामादिमदन्तविषयो ऽत एव स्वदृशा स्वरूपज्ञानेन च्छिन्नसंशयः निश्चितत्वः स्वसंस्थानं स्वरूपावस्थानं मदाश्रयं कैवल्याख्यं निःश्रेयसं पुरुषार्थञ्जसा प्राप्नोति । तं विशिनष्टि– यद् गत्वेति ॥ योगी लिङ्गशरीरविनिर्गमे यद् गत्वा न निवर्तेत तादृशं पुरुषार्थमित्यर्थः ॥ २८-३० ॥

प्रकाशिका

एवमुक्तसाधनानुष्ठानेऽपि प्रकृत्यपसरणमस्मिन् जन्मनि नोपलभ्यत इत्याशङ्काया-माह ॥ यदैवमिति । अध्यात्मरतः परमात्मरतः ॥ प्रतिबुद्धार्थोऽपरोक्षीकृतपरतत्त्वः । स्वसंस्थानं स्वस्वरूपाविर्भावरूपम् ॥ स्वदृशा स्वस्य भगवद्दासत्वापरोक्ष्येण ॥ २८-३० ॥

यदा न योगोपचितासु चेतो

मायासु सिद्धस्य विषज्जतेऽम्ब (च) ।

अनन्यहेतुष्वथ मे गतिः स्याद्

आत्यन्तिकी यत्र न मृत्युहासः ॥ ३१ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे अष्टाविंशोऽध्यायः ।

पदरत्नावली

अत्राप्यवान्तरप्राप्तस्वान्तरायानुपहतश्चेद् उक्तपुरुषार्थमाप्नोतीत्याह– यदा नेति ॥ यदैवं साधनसिद्धस्य योगोपचितासु अष्टाङ्गयोगप्राप्तासु मायासु अणिमादिविभूतिषु चेतो बुद्धिर्न विषज्जते अनुभवानीति न विलम्बते, अथ तदा यत्र यस्यां गतौ मृत्योरन्तकस्य हासः पुनरावृत्तिलक्षणो न स्यात् । आत्यन्तिकी मे गतिर्मुक्तिलक्षणा स्यादित्यन्वयः । नान्यो हेतुर् यासां तास्तथा, तासामप्यह-मेवाश्रय इत्यर्थः, तासु । अनेनाणिमाद्यैश्वर्यमनुभूय पश्चान्मुक्त्यवाप्तेर् न मद्भक्तिर् निष्फलेति ध्वनितम्

॥ ३१ ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे अष्टाविंशोऽध्यायः ॥

प्रकाशिका

जीवन्मुक्तो ज्ञानसामर्थ्यप्राप्ताणिमाद्यैश्वर्यभोगानासक्तश्चेत्क्षिप्रमेव मल्लोकं व्रजती-त्याह ॥ यदेति । योगोपचितासु विद्यासामर्थ्यलब्धासु मायास्वणिमादिविभूतिषु न विषज्जते विशेषेण सक्तं न भवति । अन्यन्यहेतुषु न विद्यते मदन्यो हेतुर्यासाम् । अथ तदाऽऽत्यन्तिकी पुनरावर्तिवर्जिता । मृत्योर्यमस्य हासो व्यापारो मृतिरूपो यत्र यस्यां गतौ नेत्यर्थः । अपरोक्षज्ञानिनोऽणिमादिसिद्धयोऽपि प्राप्ता भवन्ति । तासु यद्यासक्तस्तर्हि मल्लोकगमने विलंबो यद्यनासक्तस्तर्हि क्षिप्रमेव मल्लोकं गच्छतीति भावः ॥ ३१ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यामष्टाविंशोऽध्यायः ॥ ३-२८ ॥