अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक्
अथ सप्तविंशोऽध्यायः
भगवानुवाच–
अथ ते सम्प्रवक्ष्यामि तत्त्वानां लक्षणं पृथक् ।
यद् विदित्वा विमुच्येत पुरुषः प्राकृतैर्गुणैः ॥ १ ॥
पदरत्नावली
अस्मिन्नध्याये ‘प्रसङ्ख्यानाय तत्वानाम्’ इति यदुक्तं तत्प्रपञ्चः क्रियत इति प्रतिजानीते– अथ त इति ॥ अथ भक्तिनिरूपणानन्तरम् । यत् पुरुषार्थोपयोगि तदेव वक्तव्यं किं तत्त्वानां लक्षणज्ञानेन प्रयोजनमिति तत्राह– यद् विदित्वेति ॥ गुणैः सत्त्वादिभिः ॥ १ ॥
प्रकाशिका
अथ देवहूत्या पृष्टाया भक्तेर्द्वावंशौ स्नेहो माहात्म्यज्ञानं चेति । तत्र स्नेहरूपमंशं निरूप्य यन्माहात्म्यज्ञानरूपांशोपपादनाय तत्त्वाम्नायं यत्प्रवदन्ति सांख्यम् अवोचदित्युक्तं तत्प्रपञ्चयति ॥ अथेति । अथ भक्त्यंशस्नेहनिरूपणानन्तरम् । गुणैः सत्त्वादिभिः ॥ १ ॥
ज्ञानं निःश्रेयसार्थाय पुरुषस्यात्मदर्शनम् ।
यदाहुर्वर्णये तत् ते हृदयग्रन्थिभेदनम् ॥ २ ॥
पदरत्नावली
परमात्मज्ञानमेव निर्विचारं मुक्तिसाधनं श्रुतम् । तत्त्वलक्षणज्ञानस्य कथं च तत्साधनत्वं स्यादित्याशङ्क्य तत्त्वलक्षणज्ञानं परमात्मज्ञानाविनाभूतं, तेषां मुख्यकारणत्वात् परमात्मन इति तज्जानमेव वर्णय इति प्रतिजानीते– ज्ञानमिति ॥ आत्मानं परमात्मानं दर्शयतीति आत्मदर्शनं यज् ज्ञानं पुरुषस्य श्रेयोऽर्थिनो निश्रेयसार्थाय मोक्षादिसर्वपुरुषार्थायाहुस्तत् हृदयग्रन्थिभेदनं संसारपाशच्छेदकरं ज्ञानं तव वर्णय इत्यन्वयः ॥ २ ॥
प्रकाशिका
ननु मुक्तिः परमात्मज्ञानादेव न तत्त्वलक्षणज्ञानाद् अतः कथमेतदित्यत आह ॥ ज्ञानमिति । आत्मानं परमात्मानं दर्शयतीति आत्मदर्शनं ज्ञानं तत्त्वानां ज्ञानमतो हृदयग्रन्थिभेदन-महङ्कारममकारनिवर्तकं पुरुषस्याधिकारिणो निःश्रेयसप्रयोजनाय यदाहुस्तत्ते वर्णये वर्णयामि । तत्त्व-विविक्ततया तत्सृष्ट्यादिकर्तृत्वेन च परमात्मज्ञानं मुक्तिसाधनमिदं च न तत्त्वानां स्वरूपाज्ञाने भविष्यति । अतस्तत्त्वानां ज्ञानमपि मोक्षसाधनतयोक्तमिति भावः ॥ २ ॥
अनादिरात्मा पुरुषो निर्गुणः प्रकृतेः परः ।
प्रत्यग्धामा स्वयंज्योतिर्विश्वं येन समन्वितम् ॥ ३ ॥
पदरत्नावली
यज्ज्ञानं हृदयग्रन्थिभेदनमुक्तं तज् ज्ञानं किंगुणविशिष्टमुदीर्यमाणं संसारसमुच्छेद-समर्थं स्यादिति तत्राह– अनादिरिति ॥ योऽनादिराद्यन्तरहितः कारणमात्रशून्यो वात्मा विज्ञानादि-गुणराशिः, पुरु पूर्णानन्दं सनोति ददातीति पुरुषः, सर्वान्तर्यामी वा, निर्गुणः गुणसम्बन्धरहितः, चेतनप्रकृतेः परः, प्रत्यग्धामा स्वाभिमुखपद्माख्यधामा, स्वयंज्योतिः स्वप्रकाशेन दीप्यमानः, विश्वं स्थावरजङ्गमात्मकं जगद् येन समन्वितं व्याप्तम् ॥ ३ ॥
प्रकाशिका
तत्त्वं द्विविधम् । स्वतन्त्रमस्वतन्त्रं चेति विभागमभिप्रेत्य स्वतन्त्रतत्त्वस्वरूपं दर्शयति ॥ अनादिरिति । जननमरणशून्य इत्यर्थः । सर्वानादत्त इत्यात्मा स्वतन्त्र इत्यर्थः । पुरु अभीष्टं सनोतीति पुरुषः । सत्त्वादिविकाराभावान्निर्गुणः । प्रकृतेश्चेतनाचेतनरूपायाः पर उत्तमः । प्रत्यगन्तःस्थितं जीवस्वरूपं धाम गृहं यस्य । सर्वजीवान्तर्यामीत्यर्थः । स्वयंज्योतिरन्यानपेक्षया सर्वज्ञं विश्वं सर्वजगद्येन समन्वितं व्याप्तम् । न केवलमन्तरेव नियामकः किन्तु बहिरपि व्याप्त इत्यर्थः ॥ ३ ॥
न जातो न म्रियेतात्मा स हि देहाद्युपाधिभिः ।
निमित्तैरात्ततद्धर्मा यथा स्वप्ने तदीक्षिता ॥ ४ ॥
तात्पर्यम्
स परमो न जायते न म्रियत इति हि प्रसिद्धम् । देहाद्युपाधिभिरात्तधर्मो जीवोऽपि स्वप्नवद्भ्रान्त्या जायते म्रियते च । भ्रान्तित्वाद्देहात्मत्वस्य । किमु सर्वज्ञत्व-स्वतन्त्रत्वादिवैलक्षण्ययुक्त ईश्वरः । ‘परस्य जन्ममृत्याद्याः स्युः स्वतन्त्रस्य किं पुनः । जीवस्यापि यतो भ्रान्त्या जन्ममृत्यादिसङ्गतिरि’ति महाकौर्मे ॥ ४ ॥
पदरत्नावली
स आत्मा परमात्मा न जातो न म्रियेत । ‘‘अज आत्मा महान् ध्रुवः’’ ‘न जायते म्रियते वा कदाचित्’ इत्यादिश्रुतिस्मृतिप्रसिद्धम् । आद्यन्तरहित इत्यनेनापि जन्माद्यभावे सिद्धे न जात इत्यादिपुनर्वचनं प्रमाणप्रसिद्धिद्योतनाय । युक्तिपूर्वश्रुत्यादेर् बलीयस्त्वं, न केवलस्येति भावेन कैमुत्यन्यायमाह– देहाद्युपाधिभिरिति ॥ देहाद्युपाधिलक्षणैर्निमित्तैर् आत्ततद्धर्मा स्वीकृतजननादिधर्मा जीवोऽपि न स्वरूपतो जायते । किन्तु भ्रान्त्याऽभिमानेन जायते म्रियते भ्रान्तत्वाद् देहात्मत्वस्य अत्र दृष्टान्तमाह– यथेति ॥ यथा स्वप्ने तस्य स्वप्नस्येक्षिता द्रष्टा जाग्रति दृष्टश्रुतजननादिसंस्कारवशाज्जातो मृत इति पश्यति । न हि ते जननमरणे सत्ये स्तः । किन्तु भ्रान्त्यात्मनो मन्यते, तथा प्रकृते किमु सर्वज्ञत्वस्वतन्त्रत्वप्राकृतवैकृतदेहरहितत्वदूरीकृताविद्यत्वादिवैलक्षण्ययुत ईश्वरो न जात इति । तदुक्तम्– ‘परस्य जन्ममृत्याद्याः स्यु स्वतन्त्रस्य किं पुनः । जीवस्यापि यतो भ्रान्तिर्जन्ममृत्यादिसङ्गतिः ॥’ इति । निरवयवस्य जीवस्योपाधिसम्बन्ध ईशेच्छया घटत इत्यङ्गीकारेण न युक्तिविरोधोऽपि शङ्कनीयः । ‘यद्धि युक्त्या विरुद्ध्येत तदीशकृतमेव हि’ इति वचनाच्च ॥ ४ ॥
प्रकाशिका
भगवत उक्तरूपानादित्वे किं मानमित्यपेक्षायां जननमरणाभावप्रतिपादकश्रुति-प्रसिद्धमेतदित्याशयेनाह ॥ न जात इति । श्रुत्यर्थानुवाद एवायं न श्रुतिरित्याशयेन श्रुतिस्वरूपं स्वयमेवाह ॥ स परम इति । परम इत्यस्यार्थः ॥ आत्मेति । हीत्यनुवादेन प्रसिद्धमिति व्याख्यानम् । इतीति शेषपूरणम् । तथा च स आत्मा न जायते न म्रियत इत्येतदर्थकश्रुतिस्वरूपं हि प्रसिद्धमिति मूलं योज्यमिति भावः । ननु नोदाहृतश्रुत्या भगवतो जननमरणाभावसिद्धिः । तदवतारेषु जननमरणयो-र्दर्शनादित्याशङ्कायां तद्दर्शनं भ्रम एवेति कैमुत्यन्यायेनैव सिद्धमित्याशयेनाह ॥ देहाद्युपाधिभिरिति । अत्र कैमुत्यन्यायो न प्रतीयतेऽतो जीवोऽपीति अपेक्षितपदमध्याहृत्य योजयति ॥ देहाद्युपाधिभिरिति । आत्तधर्मेत्यस्य विशेष्यप्रदर्शनाय जीव इति । अपीति कैमुत्यसूचकाध्याहारः । यथा स्वप्न इत्यस्यार्थः ॥ स्वप्नवदिति । भ्रान्त्या जायते म्रियते चेत्यप्यध्याहार्यप्रदर्शनम् । इति प्रतीयत इति शेषः । अपिशब्द-सूचितं कैमुत्यं स्पष्टयति ॥ किम्विति । सर्वज्ञत्वं स्वयंज्योतिःशब्दोक्तं, स्वतन्त्रत्वमात्मशब्दोक्तम् । आदिपदेन निर्गुणत्वाद्यनुवादः । ईश्वरो भ्रान्त्या जायते म्रियते चेति प्रतीयत इति किं वाच्यमित्यभिप्राय इति शेषः । न हि प्रेक्षावान्स्वाधीनैः करणैरात्मनो दुःखमापादयतीति युक्तमित्याशयः ।
ननु चार्वाकवादेन देहस्यैवात्मत्वावगमाज्जीवे जननमरणे पारमार्थिक एव न भ्रान्तिकल्पिते इत्यत आह ॥ भ्रान्तित्वादिति । देहात्मत्वस्य तद्वादस्य वा भ्रान्तिमूलत्वादित्यर्थः । ननु कुत एवमध्याहारेण व्याख्यानमित्यतः समाख्याप्रमाणबलादित्याशयेन समाख्याप्रमाणं पठति ॥ परस्येति । भ्रान्त्येत्यस्य पूर्वार्धेऽपि सम्बन्धः । तथा च स्वतन्त्रस्य परस्य जन्ममृत्याद्या भ्रान्त्या प्रतीताः स्युरिति किं पुनर्वक्तव्यं यतो जीवस्याप्यस्वतन्त्रतया प्रसिद्धस्य भ्रान्त्या जन्ममृत्यादिसङ्गतिः प्रतीयत इति योज्यम् ॥ ततश्चायं मूलार्थः ॥ देहाद्युपादिभिरस्वाभाविकैर्देहेन्द्रियादिभिर्निमित्तैरात्ततद्धर्मः स्वीकृतदेहादिधर्मभूतजननादिधर्मः । अस्वतन्त्रतयाऽस्वाभाविकदेहादिनिमित्तजननमरणप्रसक्तिमान्न स्वत इत्यर्थः । अत्र दृष्टान्तमाह ॥ यथा स्वप्न इति । स्वप्नेऽस्वाभाविकवासनामयदेहधर्मभूतान् जननमरणादीन् तदीक्षिता स्वाप्नपदार्थद्रष्टा । स्वदेहेऽविद्यमानानेव तद्धर्मत्वेन पश्यति तथैवेत्यर्थः । तथा चैवंविधो जीवोऽपि यदा भ्रान्त्या जातो मृत इति प्रतीयते स्वरूपेण तस्य नित्यत्वात् तदोक्तरीत्या सार्वज्ञस्वातन्त्र्यादिजीववैलक्षण्ययुक्तः । अस्वाभाविकदेहसम्बन्धाभावेन तद्धर्मप्रसक्तिशून्य इति यावत् । ईश्वरो भ्रान्त्या जायते म्रियत इति प्रतीयत इति किं वाच्यमिति भावः ॥ ४ ॥
स एव प्रकृतिं सूक्ष्मां देवीं गुणमयीं विभुः ।
यदृच्छयैवोपगतामभ्यपद्यत लीलया ॥ ५ ॥
तात्पर्यम्
उपगतां समीपस्थाम् ॥ ५ ॥
पदरत्नावली
अधुना जीवेश्वरयोः पारतन्त्र्यापारतन्त्र्यादिवैलक्षण्यज्ञापनाय परस्य जगत्सृष्ट्यादि माहात्म्यादिकथनपूर्वकं जीवस्य तदधीनत्वेन प्रकृतिबद्धत्वं वक्तुमाह– स एवेति ॥ योऽनादित्वादि-गुणविशिष्टो यश्च जन्मादिरहितो जन्मादिमज्जीवविलक्षणः सः सूक्ष्मां देवीं क्रीडादिगुणवतीं देवस्य विष्णोरियमिति वा गुणमयीं सत्त्वादिगुणाभिमानिनीं यदृच्छया हरेरिच्छया उपगतां सदा समीपस्थितां प्रकृतिं श्रियमभ्यपद्यत । लीलयेति प्रयोजनान्तरं निवारयति । अत्र प्रकृतिशब्देन चिदचिदात्मके उभे ग्राह्ये । विभुः सर्वगत इत्यनेन प्रकृत्यभिपादनं नौपचारिकं, किं तु सृष्ट्यभिमुखीकरणं कार्यं सूचयति । तदपि स्वप्रयोजनं नेत्यत उक्तम्– लीलयेति ॥ ५ ॥
प्रकाशिका
एवमनादिपदोक्तं जननमरणाभावं श्रुत्यादिभिरुपपाद्येदानीं स्वतन्त्रलक्षणतयोक्तं यन्निर्गुणत्वं प्रकृतिपरत्वं तस्यातिव्याप्तिपरिहाराय जीवस्य प्रकृतितद्ग्रुणबद्धत्वं वक्तुमाह ॥ स एवेति । यः पूर्वमनादिरात्मेति श्लोके स्वतन्त्रतयोक्तः स एवेत्यर्थः । प्रकृतिमुभयरूपाम् । सूक्ष्मामव्यक्तां देवीं द्योतमानां गुणमयीं सत्त्वादिगुणात्मिकां तदभिमानिनीं च । यदृच्छयैव स्वेच्छयैव प्राप्तामित्यन्यथा-प्रतीतिवारणायोपगतामित्येतद्व्याख्याति ॥ उपगतामिति । सर्वदा समीपस्थामित्यर्थः । एतत्प्रदर्शनायैव विभुरिति विशेष्यम् । अभ्यपद्यत सृष्ट्यादिव्यापाराभिमुखीं चकार । किं स्वप्रयोजनाय, नेत्याह ॥ लीलयेति ॥ ५ ॥
गुणैर्विचित्राः सृजतीं सरूपाः प्रकृतिं प्रजाः ।
विलोक्य मुमुहे सद्यः स इह ज्ञानगूहया ॥ ६ ॥
तात्पर्यम्
मुमुहे मोहयामास । तदेतन्मे विजानीहि । कृत्वा विवाहमित्यादिवत् । ‘यत्र कारयितातीवस्वतन्त्रस्तत्र कर्तृता । प्रोच्यते तु यथा ब्रह्म त्वज्ञं संसारभागिती’ति च । ‘लये वाप्यथवा सृष्टौ त्वन्तरालेऽपि न क्वचित् । प्रकृत्या रहितं ब्रह्म कदाचिदपि (वतिष्ठत) तिष्ठती’ति कापिलेये ॥ ६ ॥
पदरत्नावली
अभिपद्य किमभूदिति तत्राह– गुणैरिति ॥ स्वप्रेरणया सत्त्वादिगुणैः सात्त्विकादिभेदेन विचित्राः करचरणादिमत्त्वेन समानरूपाः प्रजाः सृजतीं प्रकृतिं विलोक्य स हरिरिह संसारे जीवस्य ज्ञानगूहया ज्ञानगूहेच्छया जीवज्ञानं गूहयंत्या प्रकृत्या वा सद्यः संभावनानन्तरमेव तं जीवं मुमुहे मोहयामास । ‘तदेतन्मे विजानीहि’ ‘कृत्वा विवाहं तु कुरुप्रवीराः’ इत्यादाविव अन्तर्गत-णिजर्थो वेदितव्यः । अन्यथा सदा निरस्तकुहकमित्यादिकं विरुद्धं स्यात् । प्रकृतिविषयत्वे ज्ञान-गूहाशब्दोऽजाशब्दवदाकारान्तः । स्वस्वातन्त्र्यप्रकटनार्थं च मुमुह इति । तदुक्तं ‘यत्र कारयिताऽतीव-स्वतन्त्रस्तत्र कर्तृता । प्रोच्यते तु यथा ब्रह्म त्वज्ञं संसारभागिति ॥’ ‘लये वाप्यथवा सृष्टावन्तरालेऽपि न क्वचित् ।’ ‘प्रकृत्या रहितं ब्रह्म कदाचिदवतिष्ठते’ इति वचनात् समीपस्थत्वं च सिद्धम् ॥ ६ ॥
प्रकाशिका
तामेव लीलां दर्शयति ॥ गुणैरिति । अत्र मुमुह इत्यनेन भगवत एव मोह उच्यत इति प्रतीतिवारणाय तद्व्याख्याति ॥ मुमुह इति । अन्तर्णीतणिजर्थोऽयं प्रयोग इति भावः । अत्र प्रयोगान्तरं दृष्टान्ततया दर्शयति ॥ तदेतन्म इति । विजानीहीत्यस्य विज्ञापयेत्यर्थकत्वस्य तत्र प्रसिद्धत्वादिति भावः । ‘‘कृत्वा विवाहं तु कुरुप्रवीरा’’ इत्यत्रापि कृत्वेत्यस्य कारयित्वेत्येवार्थः न तु कर्तृत्वं पाण्डवानामभिमन्युविवाहकारयितृत्वस्यैव प्रमाणसिद्धत्वादिति भावः । तद्वदत्रापि ज्ञेय इत्यर्थः ।
नन्वेवं प्रयोगे किं निमित्तमित्यपेक्षायां तत्र निमित्तं प्रमाणेनैवाह ॥ यत्रेति । यत्र कारयिता प्रयोजककर्ताऽतीवस्वतन्त्रोऽतिशयेनैव स्वतन्त्रस्तत्ज्ञापनाय तत्र प्रयोजककर्तरि कर्तृता कर्तृवाचकशब्दः । तु विशेषेण बाहुल्येन । प्रोच्यते प्रयुज्यते । अस्य प्रकृतं मुमुह इति वचनमेवोदाहरणमित्याशयेनाह ॥ यथेति । मुमुह इत्यस्यार्थकथनम् अज्ञमिति । भ्रान्तमित्यर्थः । संसारभागितीत्युत्तरश्लोकापात-प्रतीतार्थानुवादरूपशब्दो ऽन्यग्रन्थगतो वा । तुशब्दौ परस्परसमुच्चये । पूर्वश्लोके उपगतामित्यस्य सदा समीपस्थामिति व्याख्यानसमर्थनाय प्रमाणं पठति ॥ लये वाऽपीति । अन्तराले स्थितिकालेऽपि क्वचित्कदाचिन्नावतिष्ठत इत्यन्वयः ॥ ततश्चायं श्लोकार्थः ॥ गुणैः सत्त्वादिभिः सात्त्विकादिभेदेन विचित्राः सरूपाः समानरूपाः, प्रजाः कार्याणि सृजतीं प्रकृतिमवलोक्य तया जातां जगत्सृष्टिमवलोक्येत्यर्थः । सः स्वतन्त्रतत्त्वरूपो हरिरिह संसारे ज्ञानगूहया जीवस्वरूपज्ञानं गूहयत्यावृणोतीति ज्ञानगूहा तया प्रकृत्या । तज्जन्यस्थूलदेहेनेति यावत् । सद्यः स्थूलदेहप्राप्त्यनन्तरमेव मुमुहे तत्र स्थितं जीवं मोहयामास । तत्र कर्तृत्वाभिमानमुत्पादितवानित्याशयः ॥ ६ ॥
एवं पराभिध्यानेन कर्तृत्वं प्रकृतेः पुमान् ।
कर्मसु क्रियमाणेषु गुणैरात्मनि मन्यते ॥ ७ ॥
तात्पर्यम्
एवं पराभिध्यानेन परमात्मेच्छया । प्रकृतेः कर्तृत्वं जीव आत्मनि मन्यते ॥७॥
पदरत्नावली
ज्ञानगूहने फलमाह– एवमिति ॥ पराभिध्यानेन परमात्मेच्छयैव मुग्धत्वादेव प्रकृतेः सत्त्वादिगुणैः सात्विकदिकर्मसु क्रियमाणेषु सत्सु पुमान् जीवः प्रकृतेः कर्तृत्वमहं कर्तेत्यात्मनि मन्यते ॥ ७ ॥
प्रकाशिका
एतदेव विशदयति ॥ एवमिति । अत्र पराभिध्यानेनेत्यस्य परमात्मध्यानेनेत्य-न्यथाप्रतीतिवारणाय तदर्थं दर्शयन् श्लोकं योजयति– एवमिति ॥ प्रकृतेर् गुणैरिति शेषः । पुमा-नित्यस्यार्थः जीव इति ॥ ७ ॥
तदस्य संसृतिर्बन्धः पारतन्त्र्यं च तत्कृतम् ।
भवत्यकर्तुरीशस्य साक्षिणो निर्वृतात्मनः ॥ ८ ॥
तात्पर्यम्
‘विष्णोः सुराणां गुरूणां नित्या जीवस्य तन्त्रता । यत्तु तस्यान्यतन्त्रत्वं तज्ज्ञानाद्विनिवर्तत’ इति च । अकर्तुरीशस्य सकाशात् । ‘अक्लिष्टत्वादकर्तासावकार्यत्वादथापि वे’ति च । ‘एष कर्ता न क्रियते कारणं च जगत्प्रभुरि’ति भारते ॥ ८ ॥
पदरत्नावली
अभिमानफलमाह– तदस्येति ॥ तस्मादविद्यमानकर्तृत्वाभिमानादस्य जीवस्य संसृतिलक्षणो बन्धस्तत्कृतं पारतन्त्र्यं च स्वाधमाद्यधीनता च भवति । कस्मात् प्रयोजकादिति तत्राह– अकर्तृरिति ॥ अक्लिष्टकारित्वान्न क्रियत इति वा अकर्तुः । साक्षिणः पुण्यपापे साक्षादीक्षमाणस्य । निर्वृतात्मनः परमानन्दस्वरूपस्येश्वरस्य, सकाशाद् भवतीत्यर्थः । ‘विष्णोः सुराणां गुरूणां नित्या जीवस्य तन्त्रता यत् तु तस्यान्यतन्त्रत्वं तज् ज्ञानाद् विनिवर्तते’ इति वचनेन तत्र तात्पर्यार्थोऽवगन्तव्य इति । ‘अक्लिष्टत्वादकर्ता स्यादकार्यत्वादथापि वा’ इति वचनान् न क्रियामात्रशून्यार्थोऽत्रेष्यत इति । ‘एष कर्ता न क्रियते कारणं च जगत्प्रभुः’ इति च ॥ ८ ॥
प्रकाशिका
ततश्च किमित्यत उक्तम् ॥ तदस्येति । तत्तस्मादविद्यमानकर्तृत्वाभिमानादस्य जीवस्य संसृतिर्जन्ममरणप्रवाहः । बन्धः सुखदुःखभोगरूपः । न केवलमेतावत्किन्तु पारतन्त्र्यं पराधीनत्वं च । तत्कृतमभिमानकृतं भवति । अत्र जीवस्य पारतन्त्र्यं पराधीनत्वरूपं न स्वाभाविकं किन्तु बन्धव-दभिमाननिमित्तमिति प्रतीयते न चेदं सम्भवति जीवस्य सुरगुर्वधीनत्वस्य स्वाभाविकत्वादतोऽत्र विवक्षितं पारतन्त्र्यं प्रमाणेनैव दर्शयति ॥ विष्णोरिति । गुरूणां च तन्त्रताऽधीनता जीवस्य नित्या स्वाभाविकी । यत्तु तस्य जीवस्यान्यतन्त्रत्वम् उक्तविष्ण्वाद्यन्याधीनत्वम् । स्वापेक्षया नीचाधीनत्वमिति यावत् । तत्तु तदेव ज्ञानाद्विष्ण्वादिज्ञानाद्विशेषेण निवर्तते । अस्वाभाविकमिति यावत् । तथा चात्राभिमानकृततयोच्यमानं पारतन्त्र्यमुक्तरूपमस्वाभाविकमेव विवक्षितमिति भावः । संसृत्यादिकं कस्मात्प्रयोजकाद्भवतीत्यपेक्षायामुक्तम् मूले अकर्तुरित्यादि । तदस्येति प्रकृतजीवविशेषणतया भात्यतोऽपेक्षितमध्याहृत्य व्याख्याति ॥ अकर्तुरिति ॥ इदं सर्वथा कर्ता न भवतीति प्रतीतिनिरासाय प्रमाणेनैव व्याख्याति ॥ अक्लिष्टत्वादिति । करणकाले क्लेशशून्यत्वात् । अकर्तोच्यत इति शेषः । अकार्यत्वात्कर्त्रन्तराजन्यत्वात् । अनेन न विद्यते कर्ता यस्येति व्याख्यानं सूचयति । प्रतीतार्थ एव किं न स्यादित्यतोऽत्र बाधकप्रमाणं पठति ॥ एष कर्तेति । एष जगत्प्रभुः कर्ता । ननु तर्ह्यकर्तृत्ववचनविरोध इत्यत आह ॥ न क्रियत इति । अन्येन कर्त्रेति शेषः । तथा चाकर्तृत्ववचनं तदर्थकमिति भावः । ननु कुतोऽन्येन न क्रियत इत्यतोऽत्र युक्तिमाह ॥ कारणमिति । सर्वस्यापि स्वयमेव कारणं यत इत्यर्थः । तथा च जीववत्क्लेशेनाकर्तृत्वात्कर्त्रन्तराजन्यत्वाद्वा अकर्तुः, साक्षिणो जीवसम्बन्धि पुण्यपापादिकं साक्षादीक्षमाणस्य । निर्वृतात्मनः स्वत आनन्दपूर्णस्येश्वरस्य सकाशादस्य जीवस्य संसृत्यादिकं भवतीति मूलं व्याख्येयमिति भावः ॥ ८ ॥
कार्यकारणकर्तृत्वे कारणं प्रकृतिं विदुः ।
भोक्तृत्वे सुखदुःखानां पुरुषं(षः) प्रकृतेः परम्(रः) ॥ ९ ॥
तात्पर्यम्
‘ब्रह्मादिभिः सर्गकरी श्रीर्विष्णुबलसंश्रयात् । सुखदुःखप्रदो विष्णुः स्वयमेव सनातनः । कर्तृत्वं सुखदुःखानामन्येषां च तदाज्ञया । भोक्तृत्वं सुखदुःखानां करोत्येको हरिः स्वयम् । भोक्तृत्वमात्रहेतुत्वं जीवे नान्यत्र कुत्रचिदि’ति भविष्यत्पर्वणि ॥ ‘प्रकृतिं पुरुषं चैव विध्द्यनादी’ इति च ॥ ९ ॥
पदरत्नावली
अत्र कर्तृत्वविशेषं विवेचयति– कार्यकारणेति ॥ कार्यं शरीरं कारणमिन्द्रियं कर्तृ मनः । एषां कारणं प्रकृतिं प्रधानाभिमानिनीं श्रियम् । जीवानां सुखादिभोक्तृत्वे कारणं प्रकृतेः परः पुरुषो विष्णुरिति विदुः । परमेष्ठिशक्तिकारणत्वं प्रतीयमानं विहायाप्रसिद्धार्थकथनं कथमितीदं चोद्यं ‘ब्रह्मादिभिः सर्गकरी श्रीविष्णुबलसंश्रयात् । सुखदुःखप्रदो विष्णुः स्वयमेव सनातनः । कर्तृत्वं सुखदुःखानामन्येषां च तदाज्ञया । भोक्तृत्वं सुखदुःखानां करोत्येको हरिः स्वयम् । भोक्तृत्वमात्रहेतुत्वं जीवे नान्यत्र कुत्रचित् ॥’ इत्यनेन परिहृतम् । ‘प्रकृतिं पुरुषं चैव विध्द्यनादी’ इति चोक्तार्थे प्रमाणम्
॥ ९ ॥
प्रकाशिका
नन्वेवं प्रकृतिपुरुषयोरुभयोरपि जीवबन्धकत्वाविशेषात्कुतः पुरुषस्य प्रकृतिपरत्व-मित्यतः प्रकृतिपरत्वोपपादनाय पुरुषस्य जीवबन्धकत्वे विशेषमाह ॥ कार्यकारणकर्तृत्व इति । अप्रतिपत्तिविप्रतिपत्तिनिरासाय श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ ब्रह्मादिभिरिति । स्वोत्पादितकर्तृत्व-वद्भिरिति शेषः । अनेन कार्यं शरीरं कारणमिन्द्रियं तत्कर्तृत्वं यद्ब्रह्मादिजीवगतं तस्मिन्विषये प्रकृतिं श्रियं विष्णुबलाश्रयेणैव कारणं विदुरिति मूलयोजनां सूचयति । तथा च ब्रह्मादिजीवगतकर्तृत्वरूपबन्धं प्रति प्रकृतेः कारणत्वं न स्वातन्त्र्येण किन्तु हर्यधीनतयैवातो विशेषात्पुरुषस्य प्रकृतिपरत्वं युक्तमिति भावः । विशेषान्तरं च प्रतिपादयत उत्तरार्धस्य तात्पर्यमाह ॥ सुखदुःखप्रद इति । जीवानामिति शेषः । अन्येषां चान्येषामपि श्रीब्रह्मादीनां जीवगतसुखदुःखकर्तृत्वं तदाज्ञयैव न स्वातन्त्र्येण । तथाऽपि यत्सर्वजीवगतं सुखदुःखानां भोक्तृत्वं तद्धरिः स्वयमेक एव करोति । अतस्तस्य प्रकृतिपरत्वं युक्तमित्याशयः ।
ननु जीवानामपि स्वस्वसुखदुःखभोक्तृत्वं प्रति हेतुत्वात्कथमयं विशेष इत्यत आह ॥ भोक्तृत्व-मात्रेति । मात्रशब्दो कार्त्स्न्यार्थः सर्वभोक्तृत्वमित्यर्थः । इदं चान्यत्र कुत्रचिज्जीवे नास्तीत्यर्थः । तेन प्रकृतेर् भोक्तृत्वदानेऽल्पप्रवृत्तिरित्यन्यत्रोक्तत्वात्कथं नास्तीत्युक्तमिति शङ्कापरिहाराय जीव इत्युक्तम् । प्रकृतेः कर्तृत्व इवात्राधिकप्रवृत्त्यभावादयं पुरुषस्य विशेषो भवतीति ज्ञातव्यम् । अनेन सुखदुःखानां कर्तृत्वे प्रकृतिमन्यद्वा कारणं विदुः । भोक्तृत्वे तु परं केवलं प्रकृतेः परं पुरुषं कारणं विदुरिति मूलयोजनां सूचयति । अत्र गीतासंमतिमप्याह ॥ प्रकृतिं पुरुषं चैवेति । कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यत इत्यन्तग्रहणस्यात्र विवक्षितत्वात्प्रत्कृतसिद्धिः । प्रकृतिं पुरुषं चैवेत्येतदादित्वेनोदाहरणं तु प्रकृतिपुरुषयोः प्रसक्तिप्रदर्शनायेति ज्ञातव्यम् । अनेना-स्वतन्त्रतत्वस्यापि चेतनाचेतनभेदेन द्वैविध्यम् । चेतनानामपि दुःखस्पृष्टत्वतदस्पृष्टत्वभेदेन द्वैविध्यं युक्तमिति ज्ञातव्यम् ॥ ९ ॥
देवहूतिरुवाच–
प्रकृतेः पुरुषस्यापि लक्षणं पुरुषोत्तम ।
ब्रूहि कारणयोरस्य सदसच्च यदात्मकम् ॥ १० ॥
पदरत्नावली
अत्र देवहूतिः प्रकृतिपुरुषयोः कारणत्वविशेषं श्रुत्वा लब्धावसरा विवेकविवित्सया लक्षणं पृच्छति– प्रकृतेरिति ॥ अस्य जगतः कारणयोः । सदसत् स्थूलसूक्ष्मलक्षणं जगद् यदात्मकं याभ्यां व्याप्तम् ॥ १० ॥
प्रकाशिका
एवं प्रकृतिपुरुषयोर्जगत्कारणत्वे उक्ते विवित्सया देवहूतिः पृच्छति ॥ प्रकृतेः पुरुषस्यापीति । लक्षणं स्वरूपम् । अस्य जगतः । सदसद्व्यक्ताव्यक्तरूपं जगद्यदात्मकं याभ्यां व्याप्तम् । प्रकृतिपुरुषयोस्तावज्जगति व्याप्तिं तत्कारणत्वं च श्रुत्यादिसिद्धं त्वयाऽपि सूचितम् । तत्र किमुभयो-र्व्याप्तिराकाशादिवदुतान्यथा । कारणत्वं चोभयोः किमेकरूपमुतानेकरूपमिति प्रश्नाशयः ॥ १० ॥
भगवानुवाच–
यत् तत् त्रिगुणमव्यक्तं नित्यं सदसदात्मकम् ।
प्रधानं प्रकृतिं प्राहुरविशेषं विशेषवत् ॥ ११ ॥
तात्पर्यम्
व्यक्ताव्यक्तात्मकं यत्तद्विद्यात्सदसदात्मकम् । असर्गा केवलाव्यक्ता सिसृक्षुरु-भयात्मिका । व्यक्तैव कार्यरूपा तु प्रकृतिस्त्रिविधा मता । कार्यतः सा प्रधानत्वात्प्रधानमिति कीर्त्यते । अविशेषा ह्यकार्यत्वात्सा च श्रीर्विष्णुसंश्रये’ति हरिवंशेषु ॥ ‘विशेषः कार्यमुद्दिष्टं विशेषाद्दृश्यते यत’ इति पाद्मे ॥ ११ ॥
पदरत्नावली
कपिलो भगवान् तत्र हरेरनन्तत्वेन तत्स्वरूपे बुद्ध्यनारोहात् प्रकृतिलक्षणज्ञानेन तल्लक्षणस्य ज्ञातप्रायत्वात् प्रकृतिलक्षणं वक्ति– यत् तदिति ॥ यत् तत्त्वं सत्त्वादिगुणत्रयरूपमव्यक्तं सूक्ष्मं नित्यमविनाशि सदसदात्मकं व्यक्ताव्यक्तात्मकं ज्ञानिनस्तत् तत्त्वं प्रधानं नाम्ना प्रकृति-माहुरित्यन्वयः । अत्र त्रिगुणमित्येतद् इतरव्यावर्तकं लक्षणम् । इतराणि तु स्वरूपाख्यानपराणि । अविशेषमकार्यम् । विशेषवन्महदादिकार्यवत् । अत्रोभयेषाम् अभिमन्यमानाभिमानिनां प्रकृत्यादि-शब्दवाच्यत्वमङ्गीकार्यम् । तथा हि सत्त्वादिगुणवतो जगदुपादानत्वम् । सत्त्वादिगुणाभिमानिन्याः श्रीभूदुर्गाभिधायाः श्रियश्च सत्त्वादिगुणप्रवर्तकत्वेन । ततोऽपि प्रकर्षेण जगद्गुरुमहदादिशरीरवद्ब्रह्मादि-जनिकर्तृत्वेन तच्छब्दवाच्यत्वं विवक्षितम् । केवला सृतिकर्मोदासीनाऽव्यक्ता, सिसृक्षुत्वविशेषोपेता व्यक्ताव्यक्ता, महदादिकार्यव्यापिनी व्यक्तैवेति विशेषात् त्रिरूपिणी श्रीरुच्यते । एवं जडरूपा प्रकृतिरपि प्रधानरूपाऽव्यक्ता, उपादानरूपा व्यक्ताव्यक्ता, महदादित्वेन परिणीयमाना व्यक्तैव । सर्वकार्येषु प्रधानत्वात् प्रधानम् । न चेदं स्वकपोलकल्पितम् । किन्तु प्रमाणान्तरसिद्धत्वात् । तदुक्तम् ‘व्यक्ता-व्यक्तात्मकं यत् तद् विद्यात् सदसदात्मकम् । असर्गा केवलाऽव्यक्ता सिसृक्षुरुभयात्मिका । व्यक्तैव कार्यरूपा तु प्रकृतिस्त्रिविधा मता । कार्यतः सा प्रधानत्वात् प्रधानमिति कीर्त्यते ॥ अविशेषा ह्यकार्यत्वात् सा च श्रीर्विष्णुसंश्रया ॥’ इति । ‘विशेषं कार्यमुद्दिष्टं विशेषाद् दृश्यते यतः’ इति ॥११॥
प्रकाशिका
तत्र प्रकृतेरुपादानतयैव कारणत्वं पुरुषस्य तु निमित्तत्त्वेनैव व्याप्तिरपि प्रकृतेः स्वकार्येषूपादानतयैव पुरुषस्य तु तन्नियामकतयेति वक्तुं प्रकृतिस्वरूपं तावद्दर्शयति ॥ यत्तत्त्रिगुण-मिति । अत्र श्रीसंज्ञाचेतनप्रकृतिरप्यचेतनप्रकृत्यभिमानिनी प्रतिपाद्यतया विवक्षिता । त्रैविध्यं चात्र प्रकृतेरुच्यते । अव्यक्तमित्यव्यक्तत्वं, सदसदात्मकमिति व्यक्ताव्यक्तरूपत्वं, विशेषवत् कार्यात्मकमिति व्यक्तत्वम् । एतदप्युभयसाधारणमित्याशयेन प्रमाणं पठति ॥ व्यक्ताव्यक्तात्मकमिति । न प्रलयकालगं नापि सृष्टिसमयगं किन्तु तदुभयमध्यकालगम् । सृष्ट्युन्मुखं प्रधानं सदसदात्मकं व्यक्ताव्यक्तात्मकं विद्यात् । अव्यक्तमित्येतदुभयत्र व्याख्याति ॥ असर्गेति । असर्गा न विद्यते सर्गो यस्याः सकाशात्सा तथा । अत एव केवला कार्यरहिता । सा चोभयविधाऽपि प्रलयकालीनैवाव्यक्तेत्युच्यत इत्यर्थः । व्यक्ताव्यक्तात्मकत्वं प्रकारान्तरेण चेतनप्रकृतीं दर्शयति ॥ सिसृक्षुरुभयात्मिकेति । सिसृक्षा च न प्रलयकालीनायामव्यक्तायां नापि सृष्टिकालीनायां व्यक्तायामिति भावः । विशेषवदित्यस्य तात्पर्यमाह ॥ व्यक्तैवेति । तुशब्दोऽवधारणे । चेतनप्रकृतौ कार्यरूपत्वं कार्यं रूप्यतेऽनयेति व्युत्पत्त्या कार्यनियाम-कत्वादिरूपं ज्ञेयम् । प्रकृतिरुभयरूपा । प्रधानमित्यस्य व्याख्यानम् ॥ कार्यत इति । अविशेषमित्ये-तद्व्याख्याति ॥ अविशेषेति । अनेन विशेषः कार्यो न विशेषोऽविशेष इति व्याख्यानं सूचयति । सा च श्रीर्विष्णुसंश्रयेत्यनेन प्रकृतेर्यतश् चेष्टा स भगवानित्येतद्वक्ष्यमाणमुक्तार्थमिति ज्ञातव्यम् । विशेषशब्दस्य कार्यवाचकत्व एवैतद्व्याख्यानं संभवति तदेव कुत इत्यतोऽत्र प्रमाणं पठति ॥ विशेष इति ॥ ११ ॥
पञ्चभिः पञ्चभिर्ब्रह्म चतुर्भिर्दशभिस्तथा ।
एतच्चतुर्विंशतिकं गणं प्राधानिकं विदुः ॥ १२ ॥
पदरत्नावली
तत्वानि प्रधानकार्याणीत्याह– पञ्चभिः पञ्चभिरिति ॥ चतुर्विंशतितत्त्वैर् ब्रह्म पूर्णं नातोऽधिकसङ्ख्यावत् । प्राधानिकं प्रधानकार्यम् ॥ १२ ॥
प्रकाशिका
विशेषवदित्युक्तान्विशेषान्दर्शयति मूले ॥ पञ्चभिरिति । ब्रह्म पूरितमेतच्चतु-र्विशतिकं गणं प्राधानिकं प्रधानकार्यं विदुरित्यर्थः ॥ १२ ॥
महाभूतानि पञ्चैव भूरापोऽग्निर्मरुन्नभः ।
तन्मात्राणि च तावन्ति गन्धादीनि मतानि मे ॥ १३ ॥
पदरत्नावली
तानि कानीत्यतो निर्दिशति– महाभूतानीति ॥ १३ ॥
प्रकाशिका
पञ्चभिः पञ्चभिरित्यादिनोक्तचतुर्विंशतितत्त्वानि स्वयमेव दर्शयति ॥ महाभूता-नीति । तावन्ति पञ्च ॥ १३ ॥
इन्द्रियाणि दश श्रोत्रं त्वग्दृग्रसननासिकम् ।
वाक् करौ चरणौ मेढ्रं पायुर्दशम उच्यते ॥ १४ ॥
मनो बुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः ।
चतुर्धा लक्ष्यते भेदो वृत्त्या लक्षणरूपया ॥ १५ ॥
तात्पर्यम्
बुद्धिरध्यवसानाय संशयं कुरुते मनः । अभिमानो ह्यहङ्कारश्चित्तं स्मरणकारण-मि’ति स्कान्दे ॥ १५ ॥
पदरत्नावली
अन्तरात्मनोऽन्तःकरणस्य मनसः । ‘बुद्धिरध्यवसानाय संशयं कुरुते मनः । अभिमानो ह्यहङ्कारश्चित्तं स्मरणकारणम् ॥’ इति लक्षणरूपा वृत्त्या वर्तमानया मनोबुद्धिरहङ्कार-श्चित्तमिति चतुर्धा भेदो लक्ष्यते दृश्यत इत्यन्वयः ॥ १५ ॥
प्रकाशिका
अन्तरात्मनोऽन्तःकरणस्य । लक्षणरूपया लिङ्गरूपया वृत्त्येत्यर्थः । लक्ष्यते ज्ञायते । भेदः प्रभेदः । जात्यभिप्रायमेकवचनम् । चतुसृभिस्तद्वृत्तिभिस्ते येऽन्तःकरणप्रभेदा ज्ञायन्त इति मूलार्थः । तत्र का वृत्तिः कस्यान्तःकरणप्रभेदस्य ज्ञापिकेत्यपेक्षायां चतुःर्विधान्तःकरणसाध्या वृत्तीः प्रमाणेनैवाह ॥ बुद्धिरिति । अध्यवसानं निश्चयः । अहङ्कारः । हेतुरिति शेषः ॥ १४,१५ ॥
एतावानेव संख्यातो ब्रह्मणः सगुणस्य हि ।
सन्निवेशो मया प्रोक्तो यः कालः पञ्चविंशकः ॥ १६ ॥
तात्पर्यम्
‘हरिस्तु निर्गुणं ब्रह्म श्रीर्ब्रह्म सगुणं स्मृता । तदङ्गजानि तत्त्वनि तस्मा-त्तद्रूपमुच्यत’ इति हरिवंशेषु ॥ १६ ॥
पदरत्नावली
तत्त्वसंख्यानमुपसंहरति– एतावानेवेति ॥ सगुणस्य ब्रह्मणः प्रधानस्य तदभि-मानिन्याः श्रियश्च यः सन्निवेशः संस्थानविशेषः स एतावानेव चतुर्विंश एव संख्यातः, तव मया प्रोक्तः । कालात्मा परमात्मा किमित्येतेषु न गणित इत्याशङ्क्य अनन्याधीनत्वद्योतनायेति भावेनाह– यः काल इति ॥ यः काल इत्याख्यायते स पञ्चविंशक इति ज्ञातव्यम् । ननु श्रियोऽपि हरिं विना अनन्याधीनत्वात् किमिति तत्र गणनं न कृतमित्याशङ्का न कार्या । ‘हरिस्तु निर्गुणं ब्रह्म श्रीर्ब्रह्म सगुणं स्मृतम् । तदङ्गजानि तत्त्वानि तस्मात्तद्रूपमुच्यते ॥’ इति वचनात् तेषु गणनीयत्वाभिप्रायेणेति ॥ १६ ॥
प्रकाशिका
साक्षात्प्रकृतिकार्येष्वितोऽभ्यधिका सङ्ख्या न ज्ञानिसंमतेत्याह ॥ एतावानेवेति । सगुणस्य ब्रह्मणः संन्निवेशो विस्तारः । यावान्मया प्रोक्त एतावानेव सङ्ख्या तत्त्वज्ञैः । अत्र सगुण-ब्रह्मशब्देन प्रधानमेव विवक्षितमित्याशयेन तत्र प्रमाणं पठति ॥ हरिस्त्विति । हरिरेवेत्यर्थः । श्रीरिति सगुणं ब्रह्म सत्त्वादिगुणात्मकप्रकृत्यभिमानिनी । नन्वेवं प्रकृतेरेव सगुणब्रह्मत्वे सगुणस्य ब्रह्मणः सन्निवेश एतावानिति चतुर्विंशतितत्त्वानामपि कथं सगुणब्रह्मरूपत्वमुच्यत इत्यतस्तदभिप्रायमाह ॥ तदङ्गजानीति । तदंशजानीत्यर्थः । तद्रूपं तत्त्वरूपमुच्यते । सगुणब्रह्मेति शेषः । कार्यकारणयोरभेदा-त्प्रकृतिसूक्ष्मभागोपादानकानां तत्त्वानां प्रकृत्यात्मकसगुणब्रह्मसन्निवेशत्वोक्तिर्युक्तेति भावः । नन्वेवं स्वतन्त्रतत्त्वतयोक्तस्य पुरुषस्यात्रापरिसङ्ख्यानान् न्यूनतेत्याशङ्कां परिहरन्हरेर्जिज्ञासितायां व्याप्तिं तावदाह ॥ यः काल इत्यादिना । अनेनास्वतन्त्रतत्त्वानामेवेदं चतुर्विंशतित्त्वेन परिसङ्ख्यानं न तत्त्व-मात्रस्यातो न न्यूनतेत्युक्तं भवति ॥ १६ ॥
प्रभावं पौरुषं प्राहुः कालमेके यतो भयम् ।
अहङ्कारविमूढस्य कर्तुः प्रकृतिमीयुषः ॥ १७ ॥
तात्पर्यम्
‘पुरुषो हृदिस्थः परमः कालः सर्वगतो हरिः । अथवा रुद्रदेहस्थो हरिः काल इतीरित’ इति ब्राह्मे ॥ पौरुषं प्रभावम् । पुरुषस्य प्रकर्षेण भावं व्याप्तं रूपम् । एके सम्यग्ज्ञानिनः । अप्राकृताः ॥ १७ ॥
पदरत्नावली
अनुत्पन्नस्य पुत्रस्य नामकरणमिव कालः परमात्मेति संज्ञया व्याक्रियत इत्येतत् कथं शोभत इति तत्राह– प्रभावमिति ॥ ‘पुरुषो हृदिस्थः परमः कालः सर्वगतो हरिः । अथवा रुद्रदेहस्थो हरिः काल इतीरितः ॥’ इति वचनात् पौरुषं पुरुषस्य हृदि स्थितस्य हरेर्विद्यमानं प्रकर्षेण भावं व्याप्तरूपं पुरुषाकारं रुद्रदेहस्थं वा कालसंज्ञमाहुः । के इत्यत उक्तम्– एक इति ॥ एके सम्यक्ज्ञानिनो, न प्राकृता इत्यर्थः । अहं कर्तेत्यहङ्कारेण ममेदमिति ममकारेण च विमूढस्य मिथ्या-ज्ञानिनः प्रकृतिमीयुषः प्रकृतिबद्धस्यात एव पराधीनकर्तुर्जीवस्य यतो यस्माद् भयं जननमरणलक्षणं भवति तदिति शेषः ॥ १७ ॥
प्रकाशिका
नन्वेवमपि पुरुषो न सङ्गृहीत इत्यतः काल इति पुरुषस्यैव रूपान्तरमित्याह ॥ प्रभावमिति । एतत् श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ पुरुष इति । पौरुषशब्दान्तर्गतपुरुषशब्द-व्याख्यानम् ॥ पुरुषो हृदिस्थ इति । यो जीवमोहकतयोक्त इत्यर्थः । परमो विष्णुः । एके यतो भयमित्यस्य तात्पर्यम् ॥ अथवा रुद्रदेहस्थ इति । एवं प्रमाणेन तात्पर्यं प्रदर्श्य पौरुषं प्रभावमिति पदद्वयलब्धमर्थं दर्शयति ॥ पौरुषमिति । पुरुषस्य हृदिस्थस्य व्याप्तरूपमिति । अनेन प्रकर्षेण सर्वदेशसम्बन्धित्वेन रूपेण भवतीति प्रभावमिति व्याख्यानं सूचयति । एक इत्युक्ता न मिथ्याज्ञानिन इत्याह ॥ एक इति । कुत इत्यत आह ॥ अप्राकृता इति । तेषां प्राकृतत्वे प्रकृतिमीयुषोऽहङ्कार-विमूढस्य यतो भयं भवति स काल इति ज्ञानासम्भवात् । अप्राकृताः प्रकृतिकृताज्ञानादिवर्जिता एवैते वाच्या इति भावः ॥ ततश्चायं मूलार्थः । यः कालः पञ्चविंशतिकस्तं कालं पौरुषं हृदिस्थित-परमात्मसम्बन्धि, प्रकर्षेण सर्वदेशसम्बन्धित्वरूपेण भवतीति प्रभावम् । हृदिस्थस्य व्याप्तरूपमिति यावत् । प्राहुर्ज्ञानिनः । एकेऽन्ये तु ज्ञानिनः प्रकृतिमीयुषः प्रकृतिकृताज्ञानादिबद्धस्यात एवाहङ्कार-विमूढस्य कर्तुः कर्तृत्वाभिमानवतो जीवस्य यतो रुद्रान्तर्गताद्भयं संसारविच्छेदरूपं भवति तं कालमाहुरित्यर्थः ॥ १७ ॥
प्रकृतेर्गुणसाम्यस्य निर्विशेषस्य मानवि ।
चेष्टा यतः स भगवान् काल इत्युपलक्षितः ॥ १८ ॥
पदरत्नावली
इतोऽपि हरिरेव कालनामा न त्रुटिलवात्मक इत्याह– प्रकृतेरिति ॥ निर्विशेषस्य कार्योदासीनायाः प्रकृतेः प्रधानाभिमानिन्या मूललक्ष्म्याः पुनः श्रीभूदुर्गारूपभेदेन सिसृक्षुत्वादि-विशेषलक्षणा चेष्टा यतो भवति स भगवान् काल इत्युपलक्षित इति, इदं लक्षणं लक्ष्यमात्रव्यापकत्वान् नाव्याप्त्यतिव्याप्त्यसम्भवदुष्टमिति ज्ञातव्यम् ॥ १८ ॥
प्रकाशिका
तर्हि त्वन्मते कः काल इत्यपेक्षायामाह ॥ प्रकृतेरिति । गुणसाम्यस्य प्रलय-कालीनाया निर्विशेषस्य कार्योदासीनायाः प्रकृतेरुभयविधाया यतश्चेष्टा जगत्सृष्ट्याद्यनुकूलक्रिया भवति स काल इत्यस्माभिरुपलक्षितो ज्ञातः । प्रलयकालीनप्रकृतिप्रवर्तको निरवधिकव्याप्तिमान् शून्यनामा विष्णुरेव काल इति ममापि संमतमित्याशयः ॥ १८ ॥
अन्तः पुरुषरूपेण कालरूपेण यो बहिः ।
समन्वेत्येष सत्त्वानां भगवानात्ममायया ॥ १९ ॥
पदरत्नावली
अनेन कालरूपात् पुरुषरूपं न भिन्नमित्याह– अन्तरिति ॥ यो भगवानात्म-मायया स्वरूपेच्छया सत्त्वानां सर्वप्राणिनामन्तः पुरुषरूपेण बहिः कालरूपेण सर्वान्तर्यामिसर्वव्यापक-रूपभेदेन व्याप्नोतीत्यतोऽत्यन्तमेष एक एवेति नात्र दोषाशङ्का कार्या ॥ १९ ॥
प्रकाशिका
नन्वेवं व्याप्तः कालाख्यो भगवान्हृदिस्थात्पुरुषाख्याद्रूपाद्भिन्नश्चेत्तत्त्वानां पञ्चविंशतित्वोक्त्ययोगः । अभिन्नश्चेदेकस्मिन्परिच्छिन्नापरिच्छिन्नपरिमाणद्वयासंभव इत्यतोऽभेदेऽप्य-घटितघटकैश्वर्ययोगेन विरुद्धपरिमाणद्वयसम्भव इत्याशयेनाह ॥ अन्तरिति । आत्ममायया स्वसामर्थ्येन । सत्त्वानामिति कर्मणि षष्ठी । सर्वान्प्राणिनो यः समन्वेति व्याप्नोति स भगवानेक एवेत्याशयः ॥ १९ ॥
दैवात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् ।
आधत्त वीर्यं साऽसूत महत्तत्त्वं हिरण्मयम् ॥ २० ॥
तात्पर्यम्
‘प्रकृतेः क्षोभकं रूपं दैवं नारायणात्मकम् । प्रकृतौ महतः स्रष्टा परमः पुरुषो मतः। ‘तदेव वासुदेवाख्यं महत्तत्त्वनियामकम् । सङ्कर्षणाख्यस्तु हरिः सूक्ष्माहङ्कारयामकः । स्थूलाहङ्कारनियमी विष्णुः प्रद्युमन्नामकः। अनिरुद्धो मनस्तत्त्वनियन्ता भगवान्हरिः । महत्तत्त्वा- दिजीवास्तु ब्रह्मशेषाङ्गजास्तथा । सूक्ष्मस्थूलविभेदेन कामजश्चानिरुद्धक’ इति कापिलेये ॥२०॥
पदरत्नावली
प्रकृतेश्चेष्टाप्रदत्वप्रकारं वक्ति– दैवादिति ॥ दैवात् प्रकृतिक्षोभकनारायणाख्यात् क्षुभितधर्मिण्यां स्वस्यां योनौ परः पुमान् वीर्यमाधत्त इत्यन्वयः । इदमुक्तं भवति । दैवाख्य-मूलरूपादभिव्यक्तो नाम्ना परः पुमान् तस्य नारायणस्य प्रेरणया सिसृक्षुत्वविशेषधर्मवत्याः प्रधानाभि-मानिन्या लक्ष्म्या अभिव्यक्तयां नाम्ना श्रियां प्रागुक्तविशेषवत्यां स्वभार्यायां रेतोलक्षणं वीर्यमधादिति । तदुक्तम्– ‘प्रकृतेः क्षोभकं रूपं दैवं नारायणाभिधम् । प्रकृतौ महतः स्रष्टा परमः पुरुषोत्तमः ॥’ इति । अमोघवीर्यो हरिरिति भावेन तत्फलमाह– साऽसूतेति ॥ सा श्रीनाम्नो हिरण्मयं महत्तत्वमासूतेति
॥ २० ॥
प्रकाशिका
एवं पुरुषस्य प्रकृतिव्याप्तिविलक्षणां व्याप्तिमभिधायेदानीं प्रकृतिकारणत्वविलक्षणं कारणत्वं कर्तृत्वरूपं दर्शयंस्तत्त्वानामुत्पत्तिपूर्वकं लक्षणान्याह ॥ दैवादिति । अत्र दैवशब्दो जीवादृष्टपर इति प्रतीयते । उत्तरत्र च वासुदेवसङ्कर्षणानिरुद्धा एव महदहङ्कारमनोनियामकतया कथ्यन्ते न प्रद्युम्नः । महदादिशब्दाश्च जडपरा एवेति च प्रतीयन्तेऽत एतत्प्रकरणतात्पर्यं प्रमाणेनैवाह ॥ प्रकृतेरिति । दैव-मित्यनूद्य नारायणात्मकमिति व्याख्यानम् । प्रलयजलशायीत्यर्थः । क्षोभकं सृष्ट्याभिमुख्ये कारकम् । चेतनायास्तु सिसृक्षत्वावस्थाप्रापकम् । योनावित्यस्य व्याख्यानं प्रकृताविति । परः पुमानित्यस्यार्थः परमः पुरुषोत्तम इति ।
नन्वयं किं प्रलयवर्ती, नेत्याह ॥ तदेवेति । यो महतः स्रष्टा तत्तु महत्तत्त्वनियामकं च रूपं वासुदेवाख्यमेव । मूले तूत्तरत्र सहस्रशिरसमिति विशेषणात् सङ्कर्षणाख्यमित्यत्र शेष एव प्रतिपाद्यत इति प्रतीतिवारणाय तत्तात्पर्यमाह ॥ सङ्कर्षणाख्य इति । तुशब्दोऽवधारणे । हरिरेवेति सम्बध्यते । यामको नियामकः । मूले उपलक्षणतयेदमपि ग्राह्यमित्याशयेनाह ॥ स्थूलेति । अनिरुद्धाख्यमिति मूलेऽनिरुद्धो न कामपुत्रो विवक्षितः किन्तु हरिरेवेत्याह ॥ अनिरुद्धेति । महदादितत्त्वनियामक-हरिमूर्तिकथनप्रसङ्गात्तदभिमानिनो देवानप्याह ॥ महत्तत्त्वादीति । महत्तत्त्वादीनामभिमानिनो जीवा इति विशेषसूचनाय तुशब्दः । अङ्गजः कामः । तथा च कामजश्चानिरुद्धक इत्येते चत्वारो विवक्षिता इति शेषः । नन्वभिमानिनश्चत्वारोऽभिमन्यमानानि महदहङ्कारमनांसि त्रीण्येवातः कथं घटनेत्यत उक्तम् ॥ सूक्ष्मस्थूलविभेदेनेति । अहङ्कारस्येति शेषः । ततश्च शेषः सूक्ष्माहङ्काराभिमानी स्थूलाहङ्काराभिमानी काम इति विवेको ज्ञातव्यः ॥ २० ॥
विश्वमात्मगतं व्यञ्जन् कूटस्थो जगदङ्कुरः ।
स्वतेजसाऽपिबत् तीव्रमात्मप्रस्वापनं तमः ॥ २१ ॥
तात्पर्यम्
‘ओ रमयते यस्मात्केशवो जगदङ्कुरः । महान्तं योऽसृजज्जीवमोहकं च तमोऽग्रसदि’ति च ॥ २१ ॥
पदरत्नावली
प्रकृत्या गूढमिदं जगद् दैवाख्याद्धरेः कथंकारं व्यज्यते ‘तमसा गू•मग्रे’ इति श्रुतेरिति तत्राह– विश्वमात्मगतमिति ॥ ब्रह्मादिसर्वजीवानां कूटस्थ आत्मोदरगतं विश्वं व्यञ्जन् व्यक्तं कर्तुकामो जगतोऽङ्के रमयितृत्वाज् जगदङ्कुरः परमः पुरुषा आत्मप्रस्वापनं योगनिद्राकारणं तीव्रं निबिडं तमः स्वतेजसा स्वरूपप्रभया अपिबद् विनष्टमकरोदित्यन्वयः । जगतोऽङ्कुरो जगदङ्कुर इति विग्रहे तद्विकारो हरिरित्यर्थोऽनुपपन्नः । ‘निर्विकारोऽक्षरः शुद्धः’ इत्यादिश्रुतिविरोधात् । अतः ‘अङ्के रमयते यस्मात् केशवो जगदङ्कुरः । महान्तं योऽसृजज्जीवं मोहकं च तमोऽग्रसत् ॥’ इति प्रमाणबलाद् उक्त एवार्थः ॥ २१ ॥
प्रकाशिका
ननु प्रलयकालीने तमसि स्वसृष्टतत्त्वसाक्षात्कारप्रतिबन्धके सति कथं तत्र विश्वसृष्टिरित्यतस्तत्प्रदेशस्थं तमो भगवता पीतमित्याह ॥ विश्वमिति । अत्र जगदङ्कुरशब्देन महत्तत्त्वस्यैवोपादानकर्तृतया ग्रहणे कूटस्थ इति विशेषणानुपपत्तिरतो यौगिकोऽयं जगदङ्कुरशब्दो महत्तत्त्वजनकतया प्रकृतहरिपर एवेत्याशयेनात्र प्रमाणं पठति ॥ अङ्क इति । जगदङ्के रमयते यस्मा-त्तस्माज्जगदङ्कुरः । इत्युच्यते इति शेषः । महान्तं योऽसृजज्जीवेत्यनेन तस्य पूर्वप्रकृतत्वं सूचयति । आत्मप्रस्वापनमित्यस्य तात्पर्यम् ॥ मोहकमिति । साक्षात्कारप्रतिबन्धकमित्यर्थः । अपिबदित्यस्यार्थः ॥ अग्रसदिति ॥ ततश्चायं श्लोकार्थः ॥ उक्तरीत्या जगदङ्कुरः स एव परः पुमान्विश्वमुत्पत्स्यमानं महदादिकं व्यञ्जयन् अन्येषामपि साक्षात्कारविषयतां प्रापयन्स्वतेजसा स्वप्रभया तीव्रं निबिडम् । आत्मनां चतुर्मुखादीनां प्रस्वापनं मोहकम् । साक्षात्कारप्रतिबन्धकमिति यावत् । अपिबदग्रसीत् । अपसारितमकरोदिति यावत् ॥ २१ ॥
यत् तत् सत्वगुणं स्वच्छं शान्तं भगवतः पदम् ।
यदाहुर्वासुदेवाख्यं चित्तं तन्महदात्मकम् ॥ २२ ॥
तात्पर्यम्
यद्वासुदेवाख्यं भगवद्रूपं ततो महदात्मकं चित्तं जायते । ‘सत्वशब्देन तू (चो)च्यन्ते पूर्णानन्दादयो गुणा’ इति च । महत्तत्त्वगतो योऽसौ वासुदेवाभिधो हरिः । स चित्तजनकः प्रोक्तः प्राणिनां च पृथक्पृथगि’ति च ॥ २२ ॥
पदरत्नावली
दैवनाम्नो हरेरभिव्यक्तात् परमपुरुषान् महत्तत्वसृष्टिमुक्त्वा महत्तत्वेनाभिमन्य-मानस्य चित्तस्य सृष्टिं वक्ति– यत् तत् सत्वगुणमिति ॥ सत्वगुणं पूर्णानन्दादिगुणं स्वच्छं धवलं शान्तमकलुषं स्तिमितं भगवतो हरेः पदं स्वरूपं यच्च ज्ञानिनो वासुदेवाख्यमाहुस् तस्मान्महत्तत्वाभि-गताद् वासुदेवान् महत्तत्वेनाभिमन्यमानं सर्वप्राणिनां चित्तं जायत इति शेषः । तदुक्तम्– ‘तदेव वासुदेवाख्यं महत्तत्वनियामकम्’ इति । ‘सत्त्वशब्देन चोच्यन्ते पूर्णानन्दादयो गुणाः’ इति च । ‘महत्तत्वगतो योऽसौ वासुदेवाभिधो हरिः । स चित्तजनकः प्रोक्तः प्राणिनां हि पृथक् पृथक् ॥’ इति वचनान् न चित्तस्य वासुदेवादन्यो जनकोऽस्तीति ज्ञायते ॥ २२ ॥
प्रकाशिका
अत्र प्रसङ्गान्महत्तत्त्वगतस्य वासुदेवस्याध्यात्मं महत्तत्त्वात्मकचित्तजनकत्व-मप्यस्ती त्याह ॥ यत्तत्सत्त्वगुणमिति । अत्र यद्वासुदेवाख्यं तदेव चित्तमिति सामानाधिकरण्येना-भेदप्रतीतिवारणायापेक्षितमध्याहृत्य योजनां दर्शयति ॥ यद्वासुदेवाख्यमिति । भगवतः पदमित्यस्यार्थः भगवद्रूपमिति । सत्त्वगुणं सत्त्वगुणप्राचुर्योपेतमित्यन्यथाप्रतीतिवारणाय प्रमाणेनैव सत्त्वशब्दार्थमाह ॥ सत्त्वशब्देनेति । हरिप्रकरणगतेनेति शेषः । तु मुख्यवृत्त्यैव । एवमेव योजनेत्यत्र ज्ञापकं समाख्याप्रमाणं पठति ॥ महत्तत्त्वगत इति । हिशब्देनात्र श्रुत्यादिप्रसिद्धिं दर्शयति ॥ ततश्चायं श्लोकार्थः ॥ यत्तत्सर्व-वेदप्रसिद्धं सत्त्वगुणं पूर्णानन्दादिगुणं स्वच्छं धवलं शान्तं प्रसन्नं यद्वासुदेवाख्यं भगवतः पदं स्वरूपं तत्तस्मान्महदात्मकं महत्तत्त्वोपादानकं चित्तमन्तःकरणप्रभेदम् । जायत इति शेषः ॥ २२ ॥
स्वच्छत्वमविकारित्वं शान्तत्त्वमिति चेतसः ।
वृत्तिभिर्लक्षणं प्रोक्तं यथाऽपां प्रकृतिः परा ॥ २३ ॥
तात्पर्यम्
चित्तस्य स्वच्छत्वादयः पृथग्गुणा उच्यन्ते– स्वच्छत्वमित्यादि । ‘स्तिमितोदक-चित्तादेरविकारोऽल्पविक्रये’ति तत्त्वविवेके । ‘वृत्तिः स्वभावो वृत्तं च स्थितिरित्यभिधीयत’ इति शब्दनिर्णये । वृत्तिभिर्लक्षणं प्रोक्तमिति स्वाभाविकं लक्षणमित्यर्थः ॥ २३ ॥
पदरत्नावली
कारणगुणाः कार्येऽपि संक्राम्यन्त इति भावेनास्य चित्तस्य लक्षणमाह– स्वच्छत्वमिति ॥ स्वच्छत्वं निर्मलत्वम् । अविकारत्वं स्तिमितोदकवदल्पविकारत्वं न सर्वात्मना विकाराभावः । ‘स्तिमितोदकचित्तादेरविकारोऽल्पविक्रिया’ इति वचनात् । शान्तत्वं प्रसन्नता । यथापां परा विशिष्टा प्रकृतिरूपाधिमन्तरेण धावल्यस्वभावः, तथा चित्तस्य वृत्तिभिः स्वभावैर्लक्षणं कथित-मित्यन्वयः । ‘वृत्तिः स्वभावो वृत्तं च स्थितिरित्यभिधीयते’ इति वचनात् स्वाभाविकं लक्षणमुक्त-मित्यर्थः ॥ २३ ॥
प्रकाशिका
चित्तस्य स्वाभाविकानि लक्षणान्याह ॥ स्वच्छत्वमित्यादिना । ननु स्वच्छत्वा-दयो वासुदेवगुणतयोक्तास्तेषामेव कथं चित्तगुणत्वेनोक्तिरित्यतः शब्दसाम्येऽप्यर्थभेदोऽस्तीत्याह ॥ चित्तस्य स्वच्छत्वादय इति । पृथग्वासुदेवगुणभूतस्वच्छत्वाद्यपेक्षयाऽन्य इत्यर्थः । नन्वविकारित्वम-सम्भवि चित्तस्य विकारित्वादित्यतस्तत्र तात्पर्यं प्रमाणेनैवाह ॥ स्तिमितोदकेति । यत्र पुराणादौ स्तिमितं निश्चलमुदकं चित्तमादिपदात्तादृशं वाय्वादिकं वाऽविकारमित्युच्यते तत्राल्पविक्रिया बहुतर-विकाराभाव एव व्याख्येयो न सर्वथा विकाराभाव इत्यर्थः । ननु स्वच्छत्वादीनां चित्तवृत्तिरूपत्वा-भावात्कथं वृत्तिभिर्लक्षणमित्यतोऽत्र विवक्षितं वृत्तिशब्दार्थं प्रमाणेनैव दर्शयति ॥ वृत्तिरिति । वृत्तिरित्यादिभिः शब्दैः स्वभावोऽभिधीयत इत्यर्थः । एवं वृत्तिशब्दस्य स्वभावार्थत्वे प्रकृते को वाक्यार्थो लब्ध इत्यतस्तं दर्शयति ॥ वृत्तिभिरिति । वृत्तिभिः स्वभावैः स्वरूपभूतैर्धर्मैः । प्रकृत्या चरत्सुरित्यादि-वत्तृतीया । तादृशधर्म एव लक्षणमित्यर्थः । एकवचनं समुदायापेक्षम् ॥ ततश्चायं श्लोकार्थः ॥ स्वच्छत्वं निर्मलत्वं, अविकारित्वं बहुतरविकाराभावः । शान्तत्वं निश्चलत्वं चेतसः सच्चित्तस्य वृत्तिभिः स्वभावैर्लक्षणम् । तादृशस्वभावात्मकान्येव लक्षणानि शास्त्रोक्तानीत्यर्थः । ननु स्वच्छत्वादिक-मनुपलभ्यतेऽतः कथमिदं तल्लक्षणमित्यत आह ॥ यथेति । प्रकृतिः स्वभावः । परा पश्चात्कालीना दृश्यते । तद्वदिति शेषः । यथा प्रावृट्कालेऽपां मृत्तिकादिना कालुष्यं बहुतरफेनतरङ्गादिरूपेण विकारश्चाञ्चल्यं च दृश्यते । अथ प्रावृट्कालगमनानन्तरं शरदि नैर्मल्यं फेनतरङ्गादिरूपेण विकाराभावो ह्रदादिषु निश्चलत्वं स्वभावभूतं दृश्यते । तथा सच्चित्तेष्वपि श्रवणाद्यभावकाले स्वच्छत्वाद्यदर्शनेऽपि श्रवणादिसंपत्तिप्राप्त्यनन्तरं दृश्यत एवातो नासंभव इति भावः ॥ २३ ॥
महत्तत्त्वाद् विकुर्वाणाद् भगवद्वीर्यसम्भवात् ।
क्रियाशक्तिरहङ्कारस्त्रिविधः समपद्यत ॥ २४ ॥
तात्पर्यम्
‘ज्ञानप्रधानस्तु महानहङ्कारः क्रियाधिकः । इतरापेक्षया सोऽपि ज्ञानाधिक इतीरित’ इति च ॥ २४ ॥
पदरत्नावली
महत्तत्वादहङ्कारसृष्टिमाचष्टे– महत्तत्वादिति ॥ ‘ज्ञानप्रधानस्तु महानहङ्कारः क्रियाधिकः । इतरापेक्षया सोऽपि ज्ञानाधिक उदाहृतः’ इति विवक्षया क्रियाशक्तिः, न तु ज्ञान-शक्तिरहितत्वाद् अन्यथाहङ्कारस्य शक्तिद्वयकथनं व्यर्थं स्यादिति ॥ २४ ॥
प्रकाशिका
अहंकारस्योत्पत्तिपूर्वकं विभागादिकमाह ॥ महत्तत्त्वादित्यादिना । क्रियासु स्वविहितासु शक्तिर्यस्य स तथा । नन्वेवं महति न क्रियाऽहङ्कारे च न ज्ञानमित्यागतमित्यतोऽत्र तात्पर्यं प्रमाणेनैव दर्शयति ॥ ज्ञानप्रधान इति । तुशब्दोऽनुक्तसमुच्चायकः । स्वगतज्ञानापेक्षयाऽल्प-क्रियावानित्यर्थः । क्रियाधिकः स्वगतज्ञानापेक्षयाऽधिकक्रियावानित्यर्थः । कुत एवं तत्र ज्ञानाभाव एव किं न स्यादित्यत आह ॥ इतरेति । उमाद्यपेक्षयेत्यर्थः । ईरितः । वेदादाविति शेषः । तथा चोमाद्यपेक्षयाऽधिकज्ञानत्वे सति स्वगतज्ञानापेक्षयाऽधिकक्रियावत्त्वमहङ्कारलक्षणमनेनोक्तं भवतीति ज्ञातव्यम् ॥ २४ ॥
वैकारिकस्तैजसश्च तामसश्च यतो भवः ।
मनसश्चेन्द्रियाणां च भूतानां महतामपि ॥ २५ ॥
पदरत्नावली
पृथक् नाम्ना त्रैविध्यं वक्ति– वैकारिक इति ॥ यतो यस्मात् त्रिविधाहङ्कारान् मनआदीनां भव उत्पत्तिः स इति । महतां भूतानां पृथिव्यादीनाम् ॥ २५ ॥
प्रकाशिका
त्रैविध्यं दर्शयति ॥ वैकारिक इति । वैकारिकादीनां कार्याण्याह ॥ यत इति । यतो यस्मान्मनसो भवः स वैकारिकः । एवं यत इन्द्रियाणां भवः स तैजसो यतो भूतानां भवः स तामस इति त्रिविध इत्यन्वयः ॥ २५ ॥
वैकारिकोऽधिदैवं तु बुद्धिः प्राणश्च तैजसः ।
तामसस्त्वर्थमात्रं च गुणव्यतिकरस्त्रिवृत् ॥ २६ ॥
तात्पर्यम्
‘देवताधिकृतं यत्तदधिदैवमिति स्मृतमि’ति च । वैकारिकोऽधिदैवमित्यादि पञ्चम्यर्थे । ‘सप्तसु प्रथमा यत्र स्वातन्त्र्यं यद्विवक्षितमि’ति शब्दनिर्णये ॥ २६ ॥
पदरत्नावली
प्रकारान्तरेण त्रैविध्यं वक्ति– वैकारिक इति ॥ ‘सप्तसु प्रथमा यत्र स्वातन्त्र्यं यद् विवक्षितम्’ इति वचनाद् वैकारिकोऽधिदैवमित्यादिप्रथमा पञ्चम्यर्थे वक्तव्या । ‘देवताधिकृतं यत् तदधिदैवमिति स्मृतम्’ इति वचनाद् दिगादिदेवतासर्गमधिकृत्य वर्तमानाद् वैकारिकाहङ्काराद् दिगादि-देवता जाता इत्यर्थः । तैजसात् तैजसाहङ्काराद् बुद्धिर्बुद्धितत्वं तदभिमानिन्युमा, आहङ्कारिकः प्राणश्च जात इति शेषः । अर्थमात्रं शब्दादितन्मात्रा च तामसात् तामसाहंकारादभूदिति शेषः । तामसोऽहंकारोऽर्थानां शब्दादीनां मात्रं निर्मातेति वा । अनेन किमुक्तं स्यादित्यत उक्तम्– गुणव्यति-कर इति ॥ गुणानां सत्वादिनां शान्तत्वादिव्यञ्जकानां व्यतिकरो यस्मिन् स तथा सोऽहङ्कार एव त्रिवृत् त्रिविधः ॥ २६ ॥
प्रकाशिका
वैकारिकादीनां कार्यान्तराणि दर्शयति ॥ वैकारिक इति । अत्राधिदैवमित्यस्य प्रकृतसङ्गतमर्थं प्रमाणेनैवाह ॥ देवताधिकृतमिति । तथा च देवताभिरिन्द्रियदेवताभिरधिकृतमधिष्ठितं यच्छरीरजातं तदिहाधिदैवशब्देनोच्यत इत्युक्तं भवति । नन्वेवमिन्द्रियदेवतादेहानां वैकारिकाहङ्कारजातत्वे वैकारिकोऽधिदैवमिति कथं प्रथमाप्रयोग इत्यत आह ॥ वैकारिक इति ॥ इत्यादि पञ्चम्यर्थ इति । इत्यादिवाक्येषु विद्यमानाः प्रथमाः पञ्चम्यर्थे व्याख्येया इत्यर्थः । कुत एवं प्रयोग इत्यतोऽत्र नियामकं प्रमाणं पठति ॥ सप्तस्विति । यद्यत्र कारणे स्वातन्त्र्यं विवक्षितं तत्र कारणे सप्तसु विभक्त्यर्थेषु प्रथमैव भवतीत्यर्थः । प्रकृते च वैकारिकादीनां कारणानां स्वातन्त्र्यं द्योतयितुं प्रथमाप्रयोग इति भावः ॥ ततश्चायं मूलार्थः ॥ वैकारिको वैकारिकात् । तुशब्द इन्द्रियसम्बन्धित्वरूपविशेषार्थः । अधिदैवमिन्द्रिय-सम्बन्धिदेवताधिष्ठितं देहजातं जातमित्यर्थः । बुद्धिर्बुद्धितत्त्वं तदभिमानिन्युमा च प्राणोऽहङ्कारिकस् तैजसस्तैजसाज्जात इत्यर्थः । तामसं तु तामसादेवार्थं मीयन्त इति मात्रं शब्दादिरूपं प्रमेयम् । जातमिति शेषः । कुत एवं विभागेन कार्यजनकत्वमहङ्कारस्येत्यत आह ॥ गुणव्यतिकर इति । गुणानां सत्त्वादीनां व्यतिकरो वैषम्यं यस्मिन्स तथा । यतो गुणव्यतिकरोऽहङ्कारस्तस्मादुक्तरीत्या त्रीणि कार्याणि वृणोतीति त्रिवृत् । स्वप्रविष्टसत्त्वादिगुणानुसारेणोक्तं कार्यत्रयमहङ्कार उत्पादितवानिति भावः ॥ २६ ॥
सहस्रशिरसं साक्षाद् यमनन्तं प्रचक्षते ।
सङ्कर्षणाख्यं पुरुषं भूतेन्द्रियमनोमयम् ॥ २७ ॥
पदरत्नावली
अहङ्कारतत्वस्य सूक्ष्मस्थूलरूपभेदेन स्थितस्याभिमानिविशेषमाह– सहस्रशिरस-मिति ॥ भूतेन्द्रियमनोमयमित्यत्र मयट् प्रत्ययः प्राधान्यार्थः । तथा च भूतादीनां प्रधानकारणं मुख्यं प्रवर्तकमित्यर्थः । ‘सङ्कर्षणाख्यस्तु हरिः सूक्ष्माहङ्कारयामकः । स्थूलाहङ्कारनियमी विष्णुः प्रद्युम्न-नामकः । अनिरुद्धो मनस्तत्वनियन्ता भगवान् हरिः । महतत्वादिजीवास्तु ब्रह्म शेषोऽङ्गजस्तथा । सूक्ष्मस्थूलविभेदेन कामजश्चानिरुद्धकः ॥’ इति विशेषवचनादर्थविशेषोऽत्र बुभुत्सुभिर्ज्ञातव्य इति । साक्षादिति विशेषणात् सङ्कर्षणादिनाम्ना त्रिधाऽभिव्यक्तेन हरिणा प्रेरितः सङ्कर्षणनामाऽनन्तस् त्रिविधाहंकाराभिमानीति सम्यगवगन्तव्यम् ॥ २७ ॥
प्रकाशिका
अहङ्काराभिमानिनं देवं नियामकं भगवद्रूपं चाह ॥ सहस्रशिरसमिति । यं सूक्ष्माहङ्कारमनन्तं शेषाभिमन्यमानं प्रचक्षते ज्ञानिनः सङ्कर्षणाख्यं पुरुषं भगवन्तं भूतेन्द्रियमनोमयं भूताद्यात्मकसूक्ष्माहङ्कारनियामकं प्रचक्षत इत्यन्वयः । उपलक्षणं चैतत् । स्थूलाहङ्कारं कामाभिमन्यमानं तन्नियामकं भगवन्तं प्रद्युम्नाख्यं प्रचक्षत इत्यपि ग्राह्यम् ॥ २७ ॥
कर्तृत्वं करणत्वं च कार्यत्वं चेति लक्षणम् ।
शान्तघोरविमूढत्वमिति वा स्यादहंकृतेः ॥ २८ ॥
तात्पर्यम्
‘मनोरूपेण कर्तृत्वं देहरूपेण कार्यता । इन्द्रियात्मतया चैव करणत्वमहङ्कृतेः । यतो मनस्यहंभावस्तस्मात्कर्तृ मनः स्मृतम् । स्वभावकर्तुर्जीवस्य त्वासन्नोपाधि तद्यतः । कर्मज्ञाने करणता यतः करणमिन्द्रियम् । कार्यं देहः समुद्दिष्ट उत्पाद्यत्वात्पुनःपुनरि’ति तत्त्वविवेके ॥ ‘शान्तरूपो देवपिता घोरः करणसृङ्मतः । तावज्ज्ञानस्याप्रकाशान्मूढो भूतपिता स्मृतः । त्रिरूपोऽयमहङ्कारः शेष इत्येव तं विदुरि’ति तत्त्वविवेके ॥ २८ ॥
पदरत्नावली
अहङ्कारलक्षणं वक्ति– कर्तृत्वमिति ॥ वैकारिकाहङ्कारस्य मनोरूपेण परिणतत्वान् मनोव्यापित्वेन देहाद्यहंममतोत्पादकत्वेन कर्तुत्वं नाम लक्षणम् । तैजसाहङ्कारस्य करणानामिन्द्रियाणां कारणत्वादिन्द्रियाभिमानिनियतेन्द्रियद्वारा ज्ञानजनकत्वेन कारणत्वम् । तामसाहङ्कारस्य कार्यापरपर्यायदेहकारणत्वाद् देहस्य च पाञ्चभौतिकत्वाद् देहरूपेण कार्यत्वं च । इतिशब्दः प्रकारवाची । तदुक्तम्– ‘मनोरूपेण कर्तुत्वं देहरूपेण कार्यता । इन्द्रियात्मतया चैव करणत्वमहङ्कृतेः । यतो मनस्यहम्भावस्तस्मात् कर्तृ मनः स्मृतम् । स्वभावकर्तुजीवस्य त्वासन्नोपाधि तद्यतः । कर्मज्ञाने कारणता यतः करणमिन्द्रियम् । कार्यं देहः समुद्दिष्ट उत्पाद्यत्वात् पुनः पुनः ॥’ इति । स्वोत्पन्नपदार्थेषु तत्तत्स्वभावस्फुरणात् स तल्लक्षणमिति भावेन लक्षणान्तरमाह– शान्तेति ॥ देवपितृवैकारिकस्य सत्वांशप्राचुर्येणोत्पन्नत्वात् शुक्लात्मनो भगवन्निष्ठोपेतत्वात् शान्तत्वम् । करणा-परपर्यायेन्द्रियाणां स्रष्टुस्तैजसाहंकारस्य तेजोंऽशप्राचुर्येण जातत्वाज् ज्ञानेन्द्रियैर् नानाविधघोरपदार्थविषय-ज्ञानजनकत्वात् कर्मेन्द्रियैर् घोरतरनानाविधकर्मकारयितृत्वाद् घोरत्वम् । वैकारिकतैजसयोर्यावज् ज्ञानस्य जनकत्वं तावज् ज्ञानजनकत्वाभावेन तमोंऽशप्राचुर्येणोद्भूतत्वाद् भूतादेश्च तामसाहङ्कारस्य विमूढत्वम् । ‘शान्तरूपो देवपिता घोरः करणसृङ् मतः । तावज्ज्ञानस्याप्रकाशान्मूढो भूतपिता स्मृतः । त्रिरूपोऽय-महङ्कारः शेष इत्येव तं विदुः ॥’ इति वचनाद् अर्थविशेषः कल्प्यत इत्यर्थः ॥ २८ ॥
प्रकाशिका
अहङ्कारलक्षणान्याह ॥ कर्तृत्वमिति । अहङ्कृतेरिति वक्ष्यमाणमत्रापि सम्बध्यते । अत्रैकस्याहङ्कारस्य कथं विरुद्धकर्तृत्वादिकमित्यतस्तद्धटनां प्रमाणेनैव दर्शयति ॥ मनोरूपेणेति । वैकारिकाहङ्कारस्य मनोरूपेण परिणतत्वादिति भावः ॥ देहरूपेणेति । तामसाहङ्कारस्य भौतिक-देहाकारेण परिणतत्वादित्याशयः । इन्द्रियात्मतयैवेत्येवकारसम्बन्धः । तैजसाहङ्कारस्येन्द्रियाकारेण परिणतत्वादित्याशयः । मनोरूपेण कर्तृत्वमित्युक्तमुपपादयति ॥ यत इति । मनसि सत्यहंभावोऽहं कर्तेत्यभिमानो जायते । तस्मात्कर्तृत्वाभिमानजनकत्वात् । ननु जीवे कर्तृत्वं स्वाभाविकं तदनुभवोऽपि साक्षिरूपो नित्योऽतः कथं तत्र जडमनस उपयोग इत्यत आह ॥ स्वभावेति । तन् मनः । तु विशेषेणासन्नोपाधिः स्थूलदेहापेक्षया सन्निहितोपाधिरूपमित्यर्थः । कर्तृत्वादेः स्वाभाविकत्वेऽपि देहादावहंममाभिमानरूपस्य ज्ञानस्य बाह्योपाधिसम्बन्धं विनोत्पादासम्भवादित्याशयः । इन्द्रियात्मतया करणत्वमित्युक्तमुपपादयति ॥ कर्मज्ञान इति । कर्मसहितं ज्ञानं तस्मिन् । कर्मशब्दः कर्मेन्द्रिय-साध्यवचनादिक्रियापरः । इन्द्रियमित्येकवचनं सुमुदायापेक्षम् । तथा च कर्मसु ज्ञानेषु च यत इन्द्रियाणां करणताऽत इत्यर्थः ।
ननु कार्यत्वस्येन्द्रियादिसाधारण्यात्कथं देहरूपेण कार्यतेत्युक्तमित्यतस्तदभिप्रायमाह ॥ कार्यं देह इति । सत्यमिन्द्रियादिकमपि कार्यमिति तथाऽप्येकादशेन्द्रियाणि लिङ्गशरीरात्मनाऽनादिसम्बद्धानि पुनः पुनरुपचीयन्ते । देहस्तु कर्मवशादविद्यमान एव पुनः पुनर्नूतनो जायतेऽतोऽसाधारण्येन देहस्य कार्यरूपत्वमुक्तमित्याशयः । लक्षणान्तरमाह ॥ शान्तेति । एकस्मिन्नहङ्कारे विरुद्धं शान्तत्वादिकं कथमित्यतोऽत्र प्रमाणेनैव तद्विवेकं दर्शयति ॥ शान्तरूप इति । देवपिता वैकारिकः । शान्तरूपः शान्तरूपदेवजनकत्वादेवेत्याशयः । करणसृगिन्द्रियस्रष्टा तैजसो घोरो घोररूपसंसारसाधनेन्द्रिय-जनकत्वादेवेत्यर्थः । भूतपिता तामसोऽप्रकाशादप्राकट्यात् । यावद्वैकारिके तैजसे वा स्थितस्याभिमानिनो यावज् ज्ञानप्राकट्यं न तावत्तामसाहङ्कारे स्थितस्तातोऽयं मूढ इत्युच्यते इत्यर्थः । ननु कोऽत्राभिमानी यस्य ज्ञानादिप्रसक्तिरित्यत आह ॥ त्रिरूप इति । योऽयं त्रिरूप इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ अहंकृतेरहङ्कारस्य कर्तृत्वं वैकारिककार्यमनोरूपेण देहादावहंममेत्यादिरूपं कर्तृत्वाभिमानजनकत्वं तैजसेन्द्रियरूपेण ज्ञानक्रियाकरणत्वं, तामसकार्यभूतात्मकदेहरूपेण पुनः पुनर्जननात्कार्यत्वं च लक्षणं ज्ञातव्यमित्यर्थः । लक्षणान्तरमाह ॥ शान्तेति । वैकारिकरूपेण शान्तदेवदेहजनकत्वाच्छान्तत्वं, तैजसरूपेण घोरसंसारजनकेन्द्रियजनकत्वाद्घोरत्वम् । तामसरूपस्य शेषस्य पूर्ववत्ज्ञानप्राकट्या-भावान्मूढत्वमिति वा लक्षणं ज्ञातव्यमित्यर्थः ॥ २८ ॥
वैकारिकाद् विकुर्वाणान्मनस्तत्त्वमजायत ।
यत् सङ्कल्पविकल्पाभ्यां वर्तते कामसम्भवः ॥ २९ ॥
पदरत्नावली
वैकारिकाद्यहङ्कारेभ्यो मनआदीनामुक्तानामुत्पत्तिमधुना स्पष्टयति– वैकारिका-दिति ॥ तल्लक्षणमाह– यत् सङ्कल्पेति ॥ यन्मनःसङ्कल्पविकल्पाभ्यां वृत्तिविशेषाभ्यां वर्तते, देह इति शेषः । लक्षणान्तरमप्याह– कामसम्भव इति ॥ यदिति वर्तते । यद् यस्मान्मनसः कामानां नानाविधानां सम्भवो जन्मेत्यनेन ज्ञातुं शक्यत इति ॥ २९ ॥
प्रकाशिका
वैकारिकाद्यहङ्कारेभ्यो मन आदीनामुत्पत्तिरुक्ता ॥ तामधुना प्रपञ्चयति ॥ वैकारिकादित्यादिना । तल्लक्षणमाह ॥ यत्सङ्कल्पेति । यद्यस्मात्सङ्कल्पविकल्पाभ्यां वृत्तिविशेषाभ्यां कामसम्भवो वर्तते भवति । तन्मनस्तत्त्वमजायतेत्यन्वयः । सङ्कल्पविकल्पद्वारा नानाविधकामजनकं मन इति लक्षणमुक्तं भवति ॥ २९ ॥
यद् विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् ।
शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥ ३० ॥
पदरत्नावली
तस्याभिमानिनमाह– यद् विदुरिति ॥ स्थूलान्तर्यामित्वेनावतीर्णात् प्रद्युम्नरूपा-दभिव्यक्तमनिरुद्धाख्यं यद् यस्य मनसोऽभिमानिनः कामपुत्रस्यानिरुद्धाख्यांतर्यामित्वेन प्रादुर्भूतं विदुः, ज्ञानिन इति शेषः । मनसः सर्वेन्द्रियनेतृत्वात् तन्नियन्तृत्वोक्त्याऽस्य सर्वेन्द्रियनेतृत्वमपि सिद्धमित्याह– हृषीकाणामिति ॥ तद्ध्यानार्थमाह– शारदेन्दीवरश्याममिति ॥ शरत्कालीननीलोत्पलनीलम् । अधिकारिणमाह– संराध्यमिति ॥ शनैरव्यग्रमनसा सनकादियोगिभिः । यद्वा यन्मनो निरोधरहितत्वेन प्रसिद्धमत एव सर्वेन्द्रियाणां नियन्तृत्वे समर्थम् । तद्वर्णमाह– शारदेति ॥ एवंविधं मनः कस्य वशे भवतीत्यत उक्तम्– संराध्यमिति ॥ योगिभिः पवनाभ्यासिभिः संराध्यं वशीकर्तुं शक्यमित्यर्थः ॥३०॥
प्रकाशिका
मनस्तत्त्वस्याभिमानिनं देवं नियामकं भगवद्रूपं चाह ॥ यद्विदुरिति । यदनिरुद्ध इत्याख्या यस्य कामपुत्रस्य तत्तदभिमन्यमानं विदुः । अनिरुद्ध इत्याख्या यस्य भगवद्रूपस्य तत्तन्नियम्य-मिति वा । हृषीकाणामिन्द्रियाणामधीश्वरं श्रेष्ठम् । अत एव वैकारिकाज्जननं न तैजसात् । अनिरुद्धस्य वर्णमाह ॥ शारदेति । शारदं शरत्कालीनमिन्दीवरं नीलोत्पलं तद्वच्छामम् । इदमुपलक्षणम् । सङ्कर्षणस्य रक्तत्वं प्रद्युम्नस्य पीतत्वं च द्रष्टव्यम् । योगिभिः संराध्यं मनोजयाय सम्यगाराध्यम् । मनः परत्वे तु योगिभिः प्रत्याहारादिरूपयोगवद्भिः शनैः संराध्यं वशीकर्तुं योग्यं नान्यथा दुर्ग्रहत्वात् ॥ ३० ॥
तैजसात् तु विकुर्वाणाद् बुद्धितत्त्वमभूत् सति ।
द्रव्यस्फुरणविज्ञानमिन्द्रियाणामनुग्रहात् ॥ ३१ ॥
तात्पर्यम्
द्रव्यस्फुरणे यद्विशेषज्ञानम् ॥ ३१ ॥
पदरत्नावली
चक्षुरादीन्द्रियाणां काचकामलादिदोषाभावलक्षणानुग्रहाद् विद्रव्यस्फुरणे सति यद् विज्ञानं विशेषज्ञानं जायते तादृशं बुद्धितत्वमभूदित्यर्थः । हे सति । ‘सामान्यं मनसा ज्ञानं विशेषाद् बुद्धिजम्भवेत्’ इति वचनाज्ज्ञानस्य सामान्यविशेषलक्षणे विशेषणे स्त इति ॥ ३१ ॥
प्रकाशिका
हे सति । द्रव्यस्फुरणविज्ञानमित्येतदप्रतीत्या व्याख्याति ॥ द्रव्यस्फुरण इति ॥ तथा चेन्द्रियाणां चक्षुरादीनामनुग्रहादनुप्रवेशनान्मनसा द्रव्यस्य स्फुरणे सामान्याकारेण ज्ञाने जाते सतीन्द्रियाणामनुग्रहाद्बुद्ध्या यद्विशेषज्ञानं जायते तद्बुद्धेर्लक्षणमिति मूलार्थ इति भावः ॥ ३१ ॥
संशयोऽथ विपर्यासो निश्चयः स्मृतिरेव च ।
स्वाप इत्युच्यते बुद्धेर्लक्षणं वृत्तिभिः पृथक् ॥ ३२ ॥
तात्पर्यम्
‘सामान्यं मनसा जातं (ज्ञानं) विशेषाद्बुद्धिजं भवेत् ॥ ‘अचलः संशयो बुद्धेश्चलो मानस उच्यते । चञ्चला तु स्मृतिर्बुद्धेश्चित्तजैव स्थिरा स्मृतिरि’ति च ॥ ‘येन यज्ज्ञा-यते वस्तु तत्तल्लक्षणमुच्यते । तत्स्वरूपं पृथक् चेति द्विविधं कवयो विदुरि’ति कापिलेये ॥३२॥
पदरत्नावली
तादृशबुद्धितत्त्वलक्षणमाह– संशय इति ॥ न केवलमेकमेव लक्षणं किन्त्वन्या-न्यपि लक्षणानि सन्तीति भावेनोक्तम्– अथेति ॥ विपर्यासो मिथ्याज्ञानम् । इदमेव तत्त्वं नान्य-दित्यतत्वे यद् ज्ञानं तन्मिथ्येति । मनसोऽपि संशयोऽस्ति अतः कथं बुद्धेः संशयलक्षणमुच्यत इति चेदुच्यते निश्चायकलक्षणदर्शनेन मनःसंशयो निवर्तते, न बुद्धेः संशयः कदापीति । तदुक्तम्– ‘अचलः संशयो बुद्धेश्चलो मानस उच्यते । चञ्चला तु स्मृतिर्बुद्धेश्चित्तजैव स्थिरा स्मृतिः ॥’ इति । येन धर्मेण यद् वस्तु ज्ञायते स धर्मस्तस्य लक्षणं यथा सास्नादिमत्त्वमिति । ‘येन यज्ज्ञायते वस्तु तत् तल्लक्षण-मुच्यते । तत्स्वरूपं पृथक् चेति द्विविधं कवयो विदुः’ इति वचनात् । अस्वरूपाणां संशयादीनां निवृत्तिर्युक्ता, न स्वरूपाणामिति तात्पर्यमवगन्तव्यम् । स्वापोऽज्ञानम् ॥ ३२ ॥
प्रकाशिका
लक्षणान्तरमप्याह ॥ मूले संशय इति । अत्र मनसा द्रव्यस्फुरणे सति बुद्धेर्विशेषज्ञानजनकत्वमित्येतत्प्रमापयन् संशयादिजनकत्वं मनःसाधारणं स्मृतिजनकत्वं च चित्तेऽति-व्याप्तमिति शङ्कापरिहाराय बुद्धिसाध्यान्संशयादीन्प्रदर्शयितुं प्रमाणं पठति ॥ सामान्यमिति । सामान्यं सामान्याकारविषयम् । विशेषाद्विशेषमवगाह्य । अचलो विशेषदर्शनानिवर्त्यः । चलो विशेषदर्शन-निवर्त्यः । चञ्चलाऽदृढा । विमर्शे सति बाध्येति यावत् । तुशब्दोऽवधारणे । बुद्धेः । जायत इति शेषः।
ननु बुद्धिकार्याणां संशयादीनां कथं बुद्धिलक्षणत्वमित्याशङ्कापरिहाराय मूले बुद्धेः पृथक् लक्षण-मित्युक्तम् । लक्ष्यस्वरूपानात्मकलक्षणमित्यर्थः । तत्र लक्ष्यस्वरूपानात्मकस्य लक्षणत्वं कथमित्यतः प्रमाणेनैव तदुपपादयति ॥ येनेति । ज्ञायते । इतरव्यावृत्तत्वादिनेति शेषः । तथा च पृथक् लक्षण-स्यापीतरव्यावृत्ततया लक्ष्यज्ञानजनकत्वाल्लक्षणत्वमुपपन्नमिति भावः ॥ तथा चायमर्थः ॥ विशेषदर्शना-निवर्त्यः संशयस्तादृशो विपर्यासो विपरीतनिश्चयः । निश्चय इदमित्थमेवेति प्रमाणजन्यः । स्मृतिश्चञ्चला विमर्शबाध्या । एवशब्देन चित्तजां स्मृतिं व्यावर्तयति । स्वापो निद्रा । इत्येवंरूपाभिर्वृत्तिभिः कार्यैः पृथक् स्वरूपानन्तर्गतं लक्षणमुच्यते शास्त्रे । इतरव्यावृत्तत्वेन लक्ष्यज्ञानजनकत्वादिति । अत्र वृत्तिभिरिति वचनं कार्यकारणभावेन सम्बन्धेनोक्तलक्षणानां लक्ष्यधर्मत्वप्रदर्शनायेति ज्ञातव्यम् ॥ ३२ ॥
तैजसानीन्द्रियाण्येव क्रियाज्ञानविभागशः ।
प्राणस्य च क्रियाशक्तिर्बुद्धेर्विज्ञानशक्तिता ॥ ३३ ॥
तात्पर्यम्
‘प्रधानवायुः सूत्रात्मा महता सह जायते । तैजसश्च खजः स्पर्श इत्याद्या-स्तत्सुताः स्मृताः । तदाविष्टा अन्यजीवास्तदाधाराश्च तद्बला’ इति च ॥ ३३ ॥
पदरत्नावली
इन्द्रियाणि तैजसानि तैजसाहङ्कारादुत्पन्नान्येव । तद्विवेकमाह– क्रियाज्ञानेति ॥ क्रियाज्ञानविभागेन कर्मेन्द्रियज्ञानेन्द्रियसंज्ञाभेदेन तदभिमानिविशेषं वक्ति– प्राणस्य हीति ॥ प्राणस्याहङ्कारिकस्य क्रियाशक्तिः कर्मेन्द्रियप्रेरकत्वशक्तिः । बुद्धेरुमाया विज्ञानशक्तिना श्रोत्रादीन्द्रियै-र्विज्ञानजनकत्वशक्तिः ॥ ३३ ॥
प्रकाशिका
इन्द्रियाण्येवेत्येवकारेण तदभिमानिदेवतादेहव्यवच्छेदः । कथं भूतानीन्द्रियाणि । क्रियाज्ञानविभागशः क्रियाज्ञानरूपकार्यविभागेन विभक्तानीति शेषः । तथा च क्रियाजनकानि ज्ञानजनकानि चेत्युक्तं भवति । बुद्धिः प्राणश्च तैजस इति बुद्धिप्राणयोस्तैजसत्वमुक्तम् । तयोरपि किमिन्द्रियत्वं न किन्तु तदभिमानित्वमेवेत्याशयेनाह ॥ प्राणस्येति । क्रियाशक्तिः कर्मेन्द्रियप्रेरकतया क्रियाजनने शक्तिरित्यर्थः । बुद्धेरुमाया विज्ञानशक्तिता ज्ञानेन्द्रियप्रेरकतया विज्ञानजननशक्तिमत्व-मित्यर्थः । अत्र प्राणशब्देन न मुख्यप्राणग्रहणम् । तस्य पूर्वमेवोत्पन्नत्वादतोऽन्य एव प्राणो ग्राह्य इति प्रमाणेनैव दर्शयति ॥ प्रधानवायुरिति । महता सह जायतेऽतो नात्र स विवक्षित इति भावः । तैजसस्तैजसाहंकारकार्यः । खज आकाशाद्वायुरित्युक्तो भूताभिमानी प्रवहः स्पर्शस्त्वगिन्द्रियाभिमानी प्राणः । तत्सुताः प्रधानवायुसुताः । तथा चात्र तैजसाहंकारिकप्राण एव ग्राह्य इति भावः ॥ ३३ ॥
तामसाच्च विकुर्वाणाद् भगवद्वीर्यचोदितात् ।
शब्दमात्रमभूत् तस्मान्नभः श्रोत्रं तु शब्दगम् ॥ ३४ ॥
पदरत्नावली
शब्दमात्रं शब्दाख्यो गुणः । तस्माच्छब्दाख्यगुणान् नभ उत्पन्नम् । शब्दं गमयति ज्ञापयतीति शब्दगं श्रोत्रेन्द्रियमुत्पन्नमिति शेषः ॥ ३४ ॥
प्रकाशिका
शब्दमात्रं शब्द एव । श्रोत्रमिन्द्रियं तस्मान्नभसोऽभूदिति सम्बन्धः । तुशब्दः पूर्वमुत्पन्नमपि तन्नभसा पुनरुपचितं भवतीति वक्ष्यमाणविशेषसूचनार्थकः । शब्दं गमयतीति शब्दगम्
॥ ३४ ॥
अर्थाश्रयत्वं शब्दस्य द्रष्टुर्लिङ्गत्वमेव च ।
तन्मात्रत्वं च नभसो लक्षणं कवयो विदुः ॥ ३५ ॥
तात्पर्यम्
अर्थाश्रयत्वम् अर्थविषयत्वम् । ‘शब्देनैव यतो ज्ञेयो हरिर्लिङ्गं तु तस्य तत् । स्पर्शाद्यभावात्तन्मात्रा नभसश्चेति कीर्त्यते । स्पर्शादयश्च तन्मात्रा इतरे पूर्वसंस्थितेः । तिष्ठत्येको गुणो भूते प्रत्येकं पञ्चसु स्थितः । शब्दो वर्णात्मको नित्यो ध्वनिराकाशसम्भवः । आकाश एव सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते । स एव व्यज्यमानस्तु भवेत्कर्णैकगोचर’ इति च ॥ ३५ ॥
पदरत्नावली
शब्दतन्मात्रालक्षणमाह– अर्थाश्रयत्वमिति ॥ अर्थाश्रयत्वम् अर्थविषयत्व-मभिधेयैकनिष्ठत्वमित्यर्थः । द्रष्टुः सर्वज्ञस्य लिङ्गत्वं ज्ञापकत्वं, नभस आकाशस्य तन्मात्रत्वं स्पर्शाद्य-भावात् तदेकनिष्ठत्वं शब्दस्य लक्षणं कवयो विदुरित्यन्वयः । तदुक्तम्– ‘शब्देनैव यतो ज्ञेयो हरिर्लिङ्गं तु तस्य तत् । स्पर्शाद्यभावात् तन्मात्रा नमसश्चेति कीर्त्यते । स्पर्शादयश्च तन्मात्रा इतरे पूर्वसंस्थितेः । तिष्ठत्येको गुणो भूते प्रत्येकं पञ्चसु स्थितः । शब्दो वर्णात्मको नित्यो ध्वनिराकाशसंभवः । आकाश एव सूक्ष्मस्तु ध्वनिरित्येव शब्द्यते । स एव व्यज्यमानस्तु भवेत् कर्णैकगोचरः ॥’ इति ॥ ३५ ॥
प्रकाशिका
शब्दलक्षणमाह ॥ अर्थाश्रयत्वमिति श्लोकेन । शब्देऽर्थाश्रयत्वस्य बाधितत्वा-त्तदर्थमाह ॥ अर्थाश्रयत्वमिति ॥ अर्थः विषयो यस्य स तथा तस्य भावस्तत्वम् । अर्थप्रतिपादकत्व-मित्यर्थः । द्रष्टुर्लिङ्गत्वमित्यस्य कुड्यादिव्यवहितस्य वक्तुरनुमापकत्वमिति व्याख्यानमसदिति भावेन प्रमाणेनैव तद्व्याख्याति ॥ शब्देनैवेति । अनेन हरिज्ञापकत्वं लक्षणं नातिव्याप्तमिति दर्शितं भवति । लिङ्गं ज्ञापकम् । तुशब्दस्तस्मादित्यर्थे । तथा च द्रष्टुः सर्वज्ञस्य लिङ्गत्वं ज्ञापकत्वं च शब्दस्य लक्षणं विदुरिति मूलार्थ इति भावः । एवकारः परकीयव्याख्याननिरासार्थः । नभसस्तन्मात्रत्वं च शब्दस्य लक्षणमित्युच्यते । तदुपपादयति ॥ स्पर्शाद्यभावादिति । शब्द इति शेषः । न केवलं लिङ्गमिति कीर्त्यते किन्तु नभसस्तन्मात्रश्चेति कीर्त्यत इति सम्बन्धः । यद्वा अत्र मात्रशब्द इतरगुणाभाव-समानाधिकरणगुणपर इत्यभिप्रेत्य प्रमाणेनैव तदुपपादयति ॥ स्पर्शाद्यभावादिति । तथा च शब्दस्य नभसस्तन्मात्रत्वमितरगुणाभावसमानाधिकरणगुणत्वं च लक्षणमिति मूलार्थ इति भावः ।
नन्वेवं वाय्वादौ शब्दादीनामपि सत्वेन स्पर्शादीनां कथं मूले वक्ष्यमाणतन्मात्रत्वमित्यत आह ॥ स्पर्शादयश्चेति । तन्मात्रा उक्तरूपतन्मात्रा इति कीर्त्यन्ते । यतः पञ्चसु भूतेषु प्रत्येकं स्वभावतः स्थित एको गुणः स इतरे स्वाश्रयादन्यस्मिन् भूते पूर्वसंस्थितेः पूर्वभूतानुषङ्गादेव तिष्ठति । न स्वभावतः । अतः स्वाभाविकेतरगुणाभावसमानाधिकरणगुणत्वरूपतन्मात्रत्वं स्पर्शादावपि युक्तमेवेत्याशयः ।
ननु शब्दमात्रमभूदिति शब्दस्य तामसाहङ्कारकार्यत्वमुक्तम् । तत्किं वर्णात्मकशब्दस्योत ध्वन्यात्म-कस्य । नाद्यः । तस्य नित्यत्वात् । न द्वितीयः । तस्याकाशजन्यत्वेन तामसाहङ्कारकार्यत्वाकाशो-पादानत्वयोरसम्भवादित्याशङ्क्य परिहरति ॥ शब्द इत्यादिना । तुशब्दोऽप्यर्थको यद्यपि तथाऽपीत्यर्थे वर्तते । तथा च यद्यपि शब्दो वर्णात्मको नित्यः ध्वन्यात्मक आकाशजन्यस्तथाऽपि तथाऽपि सूक्ष्मध्व-निरेवाकाश आकाशात्मना विकृतः स एव तामसाहङ्कारकार्यत्वादिना शब्द्यत इत्यर्थः ।
ननु तर्हि तस्याव्यक्तत्वेन कथं कर्णग्राह्यत्वमित्यत आह ॥ स एवेति । स एव सूक्ष्मरूप एव ध्वनिः । तुशब्दः स्थूलत्वरूपविशेषद्योतकः । स्थूलतया व्यज्यमानो भेर्याद्याघातादिनाऽऽकाशसम्भूतः कर्णैकगोचरो भवेदित्यर्थः । तथा च ध्वनिर्द्विविधः । एक आकाशसूक्ष्मभागोपचायकः । अपरः स्थूलतया पुनराकाशसंभूतः । तत्राद्य एव तामसाहङ्कारकार्यम् । द्वितीय आकाशगुणः कर्णगोचरश्चेति विवेकः । एवं स्पर्शादावपि द्वैविध्यं ज्ञातव्यम् ॥ ३५ ॥
भूतानां छिद्रदातृत्वं बहिरन्तरमेव च ।
प्राणेन्द्रियात्मधिष्ण्यत्वं नभसो वृत्तिलक्षणम् ॥ ३६ ॥
पदरत्नावली
आकाशलक्षणं वक्ति– भूतानामिति ॥ भूतानां जीवानां छिद्रदातृत्वं गमनाद्यर्थ-मवकाशदातृत्वं, बहिरन्तर्दिगादिरूपत्वमेकं, प्राणापानादीनामिन्द्रियाणामात्मनां जीवानां धिष्ण्यत्व-मावासस्थानत्वं च नभसो वृत्तिलक्षणं स्वभावलक्षणं कवयो विदुरिति शेषः ॥ ३६ ॥
प्रकाशिका
आकाशलक्षणं वक्ति ॥ भूतानामिति । छिद्रदातृत्वं गमनाद्यर्थमवकाशदातृत्वं बहिर्देहाद्बहिर्विद्यमानं प्राणानां प्राणापानादीनामिन्द्रियाणामात्मनो मनसश्च नाड्यादिछिद्रदातृत्वरूपेण धिष्ण्यत्वमाश्रयत्वं चान्तरमन्तर्विद्यमानमेव वृत्तिलक्षणं स्वाभाविकं लक्षणमित्यर्थः । बहिरन्तरिति व्यवहारास्पदत्वमपरं लक्षणमित्यप्याहुः ॥ ३६ ॥
नभसः शब्दतन्मात्रात् कालगत्या विकुर्वतः ।
स्पर्शोऽभवत् ततो वायुस्त्वक् स्पर्शस्य च संग्रहः ॥ ३७ ॥
तात्पर्यम्
नभसः शब्दतन्मात्राच्छब्दतन्मात्रगुणात् । ‘स्पर्शादयोऽपि वाय्वादेः सूक्ष्मावस्था प्रकीर्तिता’ इति च । ‘सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्यप्यहङ्कृतेः । भूतेभ्यश्चोपचीयन्ते पुनर्ब्रह्मशरीरत’ इति च ॥ ३७ ॥
पदरत्नावली
नभसः स्पर्शोत्पत्तिं ब्रूते– नभस इति ॥ शब्दाख्या तन्मात्रा यस्य तत् तथा, तस्मान्नभसः कालगत्या भगवत्प्रेरणया विकुर्वतः स्पर्शोऽभवत् स्पर्शतन्मात्राऽभूत् । ततः स्पर्श-तन्मात्राया वायुरभूत् । ‘प्रधानवायुः सूत्रात्मा महता सह जायते । तैजसश्च खजः स्पर्श इत्याद्यास्त-त्सुताः स्मृताः । तदाविष्टा अन्यजीवास्तदाधाराश्च तद्बलाः ॥’ इति वचनात् तैजसो वायुराकाशा-ज्जातः । स्पर्शवायुश्च मुख्यवायोः सुत इति ज्ञातव्यम् । तैजसादिवायुभिराविष्टत्वात् तदुद्भूतत्वात् तद्बलत्वाच्च तद्विशिष्टा इत्युच्यन्ते । ‘स्पर्शादयोऽपि वाय्वादेः सूक्ष्मावस्थाः प्रकीर्तिताः’ इति वचनात् । अत्र कार्यकारणभाव उपचयविवक्षयेति ज्ञायते । तदुक्तम्– ‘सूक्ष्मेन्द्रियाणि सन्त्येव स्युः स्थूलान्य-प्यहंकृतेः । भूतेभ्यश्चोपचीयन्ते पुनर्ब्रह्मशरीरतः ॥’ इति । स्पर्शस्य स्पर्शतन्मात्रायाः, संग्रहो ज्ञातृ त्वगिन्द्रियं, चोपचितमभूदिति शेषः ॥ ३७ ॥
प्रकाशिका
नभसः स्पर्शद्वारा वायूत्पत्तिमाह ॥ नभस इति । शब्दतन्मात्रादित्यस्य शब्दलक्षणसूक्ष्मरूपादित्यन्यथाप्रतीतिवारणाय विवक्षितमर्थं दर्शयति ॥ नभस इति । तथा च तन्मात्रशब्दो न सूक्ष्मरूपपरः किन्तु इतरगुणाभावसमानाधिकरणाकाशकार्यगुणपरः । शब्दाख्यं तन्मात्रमुक्तविधो गुणो यस्य तस्मादित्युक्तं भवति । आकाशोत्पन्ने वायौ ध्वनिलक्षणगुणानुगति-प्रदर्शनायेदं विशेषणम् । एवमेव वायोश्च स्पर्शतन्मात्रादित्यादेर्व्याख्यानं विशेषणकृत्यं च द्रष्टव्यम् । ततो वायोस्त्वगभवदित्यन्वयः । स्पर्शस्य सङ्ग्रहः समीचीनं ज्ञानं ततोऽभवदित्यर्थः । ननु स्पर्शादेर्वाय्वादि-गुणस्य कथं वाय्वादिजनकत्वमत्रोच्यत इत्याशङ्कां प्रमाणेनैव परिहरति ॥ स्पर्शादय इति । तथा चात्र वाय्वादिजनकतयोच्यमानाः स्पर्शादयो वाय्वादीनां सूक्ष्मावस्थाः सूक्ष्मरूपोपचायका एव विवक्षिता न तत्कार्यगुणभूता अतो न विरोध इत्याशयः । ननु तैजसाहङ्कार्यकार्याणामिन्द्रियाणां ‘‘श्रोत्रं तु शब्दगं, त्वक् स्पर्शस्य सङ्ग्रहश्चक्षू रूपोपलम्भन’’मित्यादिना कथं पुनर्भूतैरुत्पत्तिरुच्यते । उत्पन्नस्य पुनरुत्पत्त्ययोगादित्याशङ्कायाम् अत्र विवक्षितामुत्पत्तिं प्रमाणेनैव दर्शयति ॥ सूक्ष्मेति । सन्त्येव । अनादित इति शेषः । अहंकृतेस्तैजसाहंकारात् । ब्रह्मशरीरतो ब्रह्माण्डान्तः विराट्शरीरात् । तथा च तैजसाहङ्कारेणोपचितानां पुनः स्थूलतया भूतैरुपचय एवात्रोच्यते न पुनरभूतानामतो न दोष इति भावः
॥ ३७ ॥
मृदुत्वं कठिणत्वं च शैत्यमुष्णत्वमेव च ।
एतत् स्पर्शस्य स्पर्शत्वं तन्मात्रत्वं नभस्वतः ॥ ३८ ॥
पदरत्नावली
स्पर्शतन्मात्रालक्षणमाह– मृदुत्वमित्यादिना ॥ मृदुत्वमित्यादीनि नभस्वतो वायोः स्वभावलक्षणानि ॥ ३८ ॥
प्रकाशिका
स्पर्शलक्षणमाह ॥ मृदुत्वमिति । एतदेवैतदन्यतमत्वमेव स्पर्शस्य स्पर्शत्वं स्पर्शशब्दवाच्यत्वे निमित्तम् । लक्षणान्तरमाह ॥ तन्मात्रत्वमिति । नभस्वतो वायोस्तन्मात्रत्वमुक्तरीत्या स्वाभाविकेतरगुणाभावसमानाधिकरणगुणत्वं च स्पर्शत्वमिति सम्बंधः ॥ ३८ ॥
चालनं व्यूहनं प्राप्तिर्नेतृत्वं द्रव्यशब्दयोः ।
सर्वेन्द्रियाणामात्मत्वं वायोः कर्माभिलक्षणम् ॥ ३९ ॥
तात्पर्यम्
‘प्राप्नोति वायुः सर्वं तु स्वत एव हरेस्तथा । अतः प्राप्तिरिति प्राहुर्वायुं भूतपतिं प्रभुम् । प्रधानवायुरन्येषु नित्याविष्टो यतस्ततः । तद्गुणास्तेषु चोच्यन्ते नीचता नास्य तत्कृते’ति ब्रह्मवैवर्ते । ‘स्वरूपमपि कर्मेति विषयत्वादुदीर्यत’ इति शब्दनिर्णये ॥ ३९ ॥
पदरत्नावली
स्वरूपलक्षणमाह– चालनमित्यादि ॥ ‘स्वरूपमपि कर्मेति विषयत्वादुदीर्यते’ इति वचनाद् एतानि चालनादीनि कर्मनिमित्तलक्षणानि । चालनं चलनकर्तृत्वम् । व्यूहनं पृथक् स्थितानामेकीकरणम् । प्राप्तिः सर्ववस्तुव्याप्तिः । ‘‘प्राप्नोति वायुः सर्वं तु स्वत एव हरेस्तथा । अतः प्राप्तिरिति प्राहुर्वायुं भूतपतिं प्रभुम् । प्रधानवायुरन्येषु नित्याविष्टो यतस्ततः । तद्गुणास्तेषु चोच्यते नीचता नास्य तत्कृता’’ ॥ इति वचनात् । द्रव्यशब्दयोः पर्णादिद्रव्यस्य शब्दस्य वर्णात्मकस्य च नेतृत्वं देशान्तरप्रापकत्वम् । सर्वेन्द्रियाणामात्मत्वं स्वामित्वं, तदविनाभूतप्रकृतित्वं वा । कर्माभिलक्षणं स्वरूपलक्षणम् ॥ ३९ ॥
प्रकाशिका
वायुलक्षणमाह ॥ चालनमिति । चालनं वृक्षशाखादेः । व्यूहनं पृथक् स्थितानां तृणादीनामेकीकरणम् । प्राप्तिः सार्वज्ञादिशुभप्राप्तिः । द्रव्यशब्दयोर्नेतृत्वं द्रव्यस्य गन्धवतो घ्राणं प्रति, तथा शैत्यादिमतः स्पर्शं प्रति, शब्दस्य श्रोत्रं प्रति नेतृत्वं, सर्वेन्द्रियाणामात्मत्वं स्वामित्वम् । नन्वत्र वायोर्जडस्य कथं सर्वशुभप्राप्त्यादिकमुच्यत इत्याशङ्कां प्रमाणेनैव परिहरति ॥ प्राप्नोतीति । तुशब्दः सर्वस्य शुभत्वरूपविशेषसूचकः । स्वत एव स्वयोग्यताबलादेव । तथा हर्यनुग्रहाच्च । भूतपतिं प्रवहम् । तथा च न जडमात्रविवक्षाऽत्रेति भावः । ननु तथाऽपि सर्वेन्द्रियाणामात्मत्वं तत्राप्यसंभवीत्यत आह ॥ प्रधानवायुरिति । अन्येषु वायुषु । नन्वेवं तस्य नीचे प्रवेशेन नीचता स्यादित्यत आह ॥ नीचतेति । अस्य प्रधानवायोस्तत्कृता नीचप्रवेशकृता नीचता न । हरिवत्तत्प्रेरणाय प्रविष्टत्वादित्याशयः । कर्माभिलक्षणमित्यस्य क्रियारूपं लक्षणमित्यर्थो न सम्भवति । प्राप्तेः स्वामित्वस्य च क्रियारूपत्वा-भावादतोऽत्र विवक्षितं कर्मशब्दार्थं प्रमाणेनैव दर्शयति ॥ स्वरूपमिति । तथा च कर्माभिलक्षणं कर्म स्वरूपमभिव्याप्य स्थितं लक्षणं स्वरूपभूतं लक्षणमिति यावदिति भावः ॥ ३९ ॥
वायोश्च स्पर्शतन्मात्राद् रूपं दैवेरितादभूत् ।
समुत्थितं ततस्तेजश्चक्षू रूपोपलम्भनम् ॥ ४० ॥
पदरत्नावली
स्पर्श एव तन्मात्रो गुणो यस्य स स्पर्शतन्मात्रः, तस्माद् वायोः रूपं रूप-तन्मात्राऽभूत् । ततो रूपतन्मात्रायास्तेजः समुत्थितम् । रूपस्योपलम्भनं ज्ञानं यस्मात् तादृशं चक्षुरिन्द्रियं चोत्पन्नमित्यर्थः ॥ ४० ॥
प्रकाशिका
स्पर्शतन्मात्रात्स्पर्शगुणकात् । ततस्तेजसश्चक्षुः समुत्थितमित्यपि योज्यम् । रूप-स्योपलम्भनं यस्मात्तत्तथा ॥ ४० ॥
द्रव्याकृतित्वं गुणता व्यक्तिसंस्थात्वमेव च ।
तेजस्त्वं तेजसः साध्वि रूपमात्रस्य वृत्तयः ॥ ४१ ॥
तात्पर्यम्
व्यक्तिसंस्थात्वं व्यक्तत्वेन स्थितिः । गुणता प्रकाशत्वम् । ‘आलोको गुण इत्येव प्रकाशश्चेति कथ्यत’ इत्यभिधानम् । ‘तेजस्त्वमथ चोग्रत्वं क्रौर्यमित्यपि चोच्यत’ इत्यभिधानम् ॥ ४१ ॥
पदरत्नावली
रूपतन्मात्राया लक्षणमाह– द्रव्याकृतित्वमिति ॥ द्रव्याकृतित्वं यावद्द्रव्य-व्याप्तित्वम् । गुणता प्रकाशित्वम् । व्यक्तिसंस्थात्वं व्यक्तत्वेन स्थितिः । तेजस्त्वमुग्रत्वम् । ‘आलोको गुण इत्येव प्रकाशश्चापि कथ्यते’ इति ‘तेजस्त्वमथ चोग्रत्वं क्रौर्यमित्यपि चोच्यते’ इति चोक्तार्थेऽभि-धानम् । रूपमात्रस्य रूपतन्मात्राया वृत्तयः स्वभावलक्षणानि ॥ ४१ ॥
प्रकाशिका
रूपलक्षणमाह ॥ द्रव्याकृतित्वमिति । अत्र व्यक्तिसंस्थात्वमित्यस्य जात्यादि-व्यावृत्तमर्थान्तरं दर्शयति ॥ व्यक्तिसंस्थात्वमिति । व्यक्तत्वेनालोकान्तरानपेक्ष्य चाक्षुषप्रातीतिकत्वेन स्थितिर्विद्यमानत्वमित्यर्थः । तथा च व्यक्त्याऽऽलोकान्तरानपेक्ष्यप्रतीत्या संस्थात्वं स्थितिः । त्वप्रत्ययः स्वार्थ इत्युक्तं भवति । ननु कुत उक्तरूपं व्यक्तत्वमित्यतोऽत्र हेतुत्वेन गुणतेत्युक्तमित्याशयेन तदिदानीं व्याख्याति ॥ गुणतेति । प्रकाशत्वं शुक्लभास्वरात्मकप्रभारूपत्वम् । प्रभा हि तेजसो रूपमिति हि प्राचां प्रवादः । उक्तार्थे प्रमाणमाह ॥ आलोक इति । तर्हि तेजस्त्वमित्यस्य कोऽर्थ इत्यतोऽत्राभिधानं पठति ॥ तेजस्त्वमिति । उग्रत्वं सम्यग्द्रष्टुमशक्यत्वम् । एतच्च सूर्यादितेजसि प्रभौत्कट्येनानुभवसिद्धम् । तथा च तेजसस्तेजस्त्वमुक्तविधोग्रत्वप्रदत्वमपरं रूपलक्षणमित्यर्थः । द्रव्याकृतित्वं द्रव्याकारवत्त्वेनैव प्रतीयमानत्वम् । इदं च न शब्दादावस्त्यतो भवति रूपलक्षणमिति स्पष्टत्वान्न व्याख्यातम् । रूप-मात्रस्य तेजोगुणभूतरूपस्य वृत्तयः स्वभावलक्षणानि ॥ ४१ ॥
द्योतनं पचनं पानमदनं हिममर्दनम् ।
तेजसो वृत्तयस्त्वेताः शोषणं क्षुत्तृडुद्भवः ॥ ४२ ॥
पदरत्नावली
तेजसो लक्षणमाह– द्योतनमिति ॥ द्योतनं प्रकाशनम् । द्युत प्रकाशन इति धातुः । पचनं पाककरणम् । पानं रसादनम् । अदनं भक्षणम् । हिममर्दनं शीतनिवारकत्वम् । शोषणं शुष्कीकरणम् । क्षुत्तृडुद्भवः प्राणिनां क्षुत्तृड्जनकत्वम् । वृत्तयः स्वभावलक्षणानि ॥ ४२ ॥
प्रकाशिका
तेजसो लक्षणमाह ॥ द्योतनमिति ॥ द्योतनं प्रकाशनम् । पचनं तण्डुलादेः पाककरणम् । पानं रसादानम् । अदनं स्वसम्बद्धसर्वभक्षणम् । हिममर्दनं शीतनिवारणम् । शोषणं शुष्कीकरणम् । क्षुत्तृडुद्भवः क्षुतृड्जनकत्वम् । वृत्तयः स्वभावलक्षणानि ॥ ४२ ॥
रूपमात्राद् विकुर्वाणाद् तेजसो दैवचोदितात् ।
रसमात्रमभूत् तस्मादम्भो जिह्वा रसग्रहः ॥ ४३ ॥
पदरत्नावली
क्रमप्राप्तां तेजसो वारिसृष्टिं वक्ति– रूपतन्मात्रादिति ॥ रूपमेव तन्मात्रा यस्य तद् रूपतन्मात्रम् । तस्मात् तेजसः रसमात्रं रसतन्मात्राऽभूत् । यथा रसग्रहो भवति सा जिह्वा जिह्वेन्द्रियं चाभूत् ॥ ४३ ॥
प्रकाशिका
रूपमात्राद् रूपगुणोपेतात् । रसमात्रमंभसः सूक्ष्मरूपोपचायकं तस्मादंभसो जिह्वाऽभूत् । तया जिह्वया रसग्रहः । भवतीति शेषः ॥ ४३ ॥
कषायो मधुरस्तिक्तः कट्वाम्ल इति नैकधा ।
भौतिकानां विकारेण रस एको विभिद्यते ॥ ४४ ॥
पदरत्नावली
रसगुणलक्षणं वक्ति– कषाय इत्यादिना ॥ कटुयुक्तोऽम्लः कट्वम्लः । अत्र लवणोऽपि ग्राह्यः । भौतिकानां भूतकार्याणां पदार्थानां विकारेण एको रसः षडात्मना भिद्यते ॥ ४४ ॥
प्रकाशिका
जले रसस्य मधुरत्वमेव स्वभावसिद्धं लक्षणं प्रसिद्धमिति तदनुक्त्वौपाधिकं तद्विभागमाह ॥ कषाय इति । अत्र लवणोऽपि ग्राह्यः ॥ ४४ ॥
क्लेदनं पिण्डनं तृप्तिः प्राणनाप्यायनोन्दनम् ।
तापापनोदो भूयस्त्वमम्भसो वृत्तयस्त्विमाः ॥ ४५ ॥
तात्पर्यम्
‘उन्दनं बिन्दुभावः स्यात्स्यन्दनं स्रवणं स्मृतिमि’त्यभिधानम् । पृथिव्यग्न्यपेक्षया भूयस्त्वं देहे ॥ ४५ ॥
पदरत्नावली
उदकलक्षणं वक्ति– क्लेदनमित्यादिना ॥ क्लेदनमार्द्रीकरणम् । पिण्डनं पिण्डी-करणम् । तृप्तिरलंबुद्धिजनकत्वम् । प्राणनं चेष्टाहेतुत्वम् । आप्यायनं सुखकरत्वम् । उन्दनं बिन्दुभावः । तापापनोदस् तापनिवारणत्वम् । अन्येभ्यो भूतेभ्यः कार्येषु भूयस्त्वमाधिक्यम् । इमा अंभसो वृत्तयः जलस्य स्वरूपलक्षणानि । उदि बिन्दुभाव इति धातुः । ‘उन्दनं बिन्दुभावः स्यात् स्यन्दनं स्रवणं स्मृतम्’ इत्यभिधानात् । पृथिवीतेजःपरमाणुसंयोगादम्भस उन्दीभाव इति ॥ ४५ ॥
प्रकाशिका
उदकलक्षणमाह ॥ क्लेदनमिति । क्लेदनमार्द्रीकरणम् । पिण्डनं मृदादेः पिण्डी-करणं, तृप्तिस्तृप्तिजनकत्वम् । प्राणनं प्रकृष्टचेष्टाहेतुत्वं जीवनप्रदत्वं वा । आप्यायनं तृट्पीडानिवर्त-कत्वम् । उन्दनमित्यस्यार्थं प्रमाणेनैवाह ॥ उन्दनमिति । तथा चोन्दनं बिन्दुभावो बिन्दुरूपेण भवनं लक्षणमित्यर्थः । तापापनोदस्तापनिवर्तकत्वम् । भूयस्त्वमित्यस्य कूपादावुद्धृतस्यापि पुनः पुनरुद्गम इति व्याख्यानमसांप्रदायिकमित्याशयेन स्वयं व्याख्याति ॥ पृथिव्यग्न्यपेक्षयेति । देहे पार्थिवादिदेहेषु । भूयस्त्वं पृथिव्यग्निभागापेक्षया भूयोभिर्भागैर्विद्यमानत्वम् । तथा हि– ‘‘पार्थिवानां शरीराणाम् अर्धेन पृथिवी स्मृता । इतरेऽर्धे त्रिभागिन्य आपस्तेजस्तु भागतः ।’’ तैजसशरीरेष्वर्धं तेजः । इतरार्धे त्रिभागिन्य आपः । भागेन पृथिवी । आप्यशरीरेष्वर्धमापः । इतरार्धे त्रयो भागास् तैजसः, एकः पृथिव्या भागः । तथा च पार्थिवादिशरीरेषु सम्भूय पृथिव्यादिभागापेक्षयाऽपां दशभिर्भागैः प्रविष्टत्वा-द्भूयस्त्वमिति ज्ञेयम् । वृत्तयो लक्षणानि ॥ ४५ ॥
रसमात्राद् विकुर्वाणादम्भसो दैवचोदितात् ।
गन्धमात्रमभूत् तस्मात् पृथ्वी घ्राणस्तु गन्धगः ॥ ४६ ॥
पदरत्नावली
अद्भ्यः पृथिव्युत्पत्तिं वक्ति– रसमात्रादिति ॥ रस एव मात्रा यस्य तत् तथा तस्मादम्भसो गन्धमात्रं गन्धतन्मात्राऽभूत् । तस्माद् गन्धात् पृथिव्यभूत् । गन्धं गमयति ज्ञापयतीति गन्धगो घ्राण इन्द्रियविशेषोऽप्यभूत् ॥ ४६ ॥
प्रकाशिका
रसमात्राद्रसगुणकाद्गन्धमात्रं पृथिवीसूक्ष्मावस्थोपचायकम् । तुशब्दोऽप्यर्थकः । पृथिव्या घ्राणोऽप्यभूदित्यर्थः । गन्धं गमयति ज्ञापयतीति गन्धगः ॥ ४६ ॥
करम्भपूतिसौरभ्यशान्तोग्राम्लादिभिः पृथक् ।
द्रव्यावयववैषम्याद् गन्ध एको विभिद्यते ॥ ४७ ॥
पदरत्नावली
गन्घलक्षणानि ब्रूते– करम्भेति ॥ करम्भो दग्धपार्थिवविषयः । पूतिः क्लिन्नक्षत-विषयः । शान्तो मिश्रगन्धः । उग्रो वचनादिविषयः । आम्ल आरनालादिविषयः । आदिशब्देन कषायादिलक्षणो विवक्ष्यते । एकस्य गन्धस्य नानाविधत्वं कथमित्यत उक्तम्– द्रव्येति ॥ द्रव्याणा-मवयवानामंशानां च वैषम्याद् विशेषलक्षणाद् एको गन्धो नानाविधो भवतीत्यर्थः ॥ ४७ ॥
प्रकाशिका
अत्रापि पृथिवीगन्धस्य सौरभ्यं स्वभावसिद्धं लक्षणं प्रसिद्धमिति तदनुक्त्वौ-पाधिकतद्विभागमेवाह ॥ करम्भेति । करम्भो दुर्गन्धविशेषः । दग्धपार्थिवादिनिष्ठः । पूतिरपि तादृशः क्लिन्नक्षतादिनिष्ठः । सौरभ्यमतिशयेन सुरभि कर्पूरादिनिष्ठम् । शान्तः सुरभिविशेषः । तामरसादिनिष्ठः । उग्रो वज्रादेराम्ल आरनालादिनिष्ठः । आदिशब्दाद्दुर्गन्धसुगन्धप्रभेदा ग्राह्याः । पृथग्द्रव्यावयववैषम्यात् पृथिवीसम्बन्धानां नानाविधानां द्रव्यांशानां वैचित्र्यात् ॥ ४७ ॥
भावनं ब्रह्मणः स्थानं धारणं सद्विशेषणम् ।
सर्वसत्वगुणोद्भेदः पृथिवीवृत्तिलक्षणम् ॥ ४८ ॥
तात्पर्यम्
भावनमुत्पादकत्वम् । ‘ब्रह्मस्थानं तु पृथिवी शरीरे ब्रह्मदर्शनादि’ति कापिलेये । सद्विशेषणं विशेषेण व्यक्तत्वम् । ‘असदव्यक्तनाम स्याद्व्यक्तं सदिति चोच्यत’ इति ब्राह्मे । सर्वसत्वगुणोद्भेदः शरीरे हि सर्वप्राणिनां गुणा व्यज्यन्ते संसारावस्थायाम् । ‘शरीरं पार्थिवं ज्ञेयमिन्द्रियाण्यौदकानि तु । तैजसः कोष्ठगो वह्निश्छिद्रमाकाशसम्भवम् । प्राणा वायुमयाः सर्वे प्रत्येकं पञ्चधा पुनरि’ति कापिलेये ॥ ४८ ॥
पदरत्नावली
पृथिवीलक्षणं वक्ति– भावनमित्यादिना ॥ भावनमुत्पादकत्वम् । ब्रह्मणः स्थानं ‘ब्रह्मस्थानं तु पृथिवी शरीरे ब्रह्मदर्शनम्’ इति वचनात् पार्थिवशरीरेषु ब्रह्मणः सन्निधानात्, तत्रैव ब्रह्मदर्शनाच्च । यः पृथिव्यां तिष्ठन्नित्यादेश्च । धारणं, मूर्तद्रव्यानामिति शेषः । सद्विशेषणं भूतत्रयमपेक्ष्य विशेषेण व्यक्तत्वम् । तदुक्तम्– ‘असदव्यक्तनाम स्याद् व्यक्तं सदिति चोच्यते’ इति । सर्वसत्व-गुणोद्भेदः सर्वेषां सत्त्वानां प्राणिनां शरीरे सर्वगुणानामुद्भेदो व्यक्तिः । साऽपि संसारावस्थायामिति ज्ञातव्यम् । ‘शरीरं पार्थिवं ज्ञेयमिन्द्रियाण्यौदकानि तु । तैजसः कोष्ठगो वह्विश्छिद्रमाकाशसम्भवम् । प्राणा वायुमायाः सर्वे प्रत्येकं पञ्चधा पुनः’ इति वचनात् पृथिव्याः प्राधान्यादितरेषामल्पत्वाद् युक्त-मुक्तम् । पृथिव्या वृत्तिलक्षणं स्वभावलक्षणम् ॥ ४८ ॥
प्रकाशिका
पृथिवीलक्षणमाह ॥ भावनमिति । अत्र भावनमित्यस्यानतिप्रसक्तमर्थं दर्शयति ॥ भावनमिति । उत्पादकत्वम् । ओषध्यादेरिति शेषः । ब्रह्मणः स्थानमित्यस्यार्थमसाधारण्याय प्रमाणे-नैवाह ॥ ब्रह्मस्थानमिति । तुना असाधारण्येन पृथिवी ब्रह्मस्थानमित्युच्यते । कुत इत्यत उक्तम् ॥ शरीर इति । प्राथमिकब्रह्मदर्शनस्य पार्थिवशरीर एव जननादित्याशयः । सद्विशेषणमित्यस्याप्य-नतिप्रसक्तमर्थमाह ॥ सद्विशेषणमिति । विशेषणशब्दो विशेषपर्यायः । सच्छब्दो व्यक्तवाची । भावप्रधानस्तृतीयातत्पुरुषे विशेषणशब्दस्य परनिपातः । तस्येदं तात्पर्यम् ॥ विशेषेण व्यक्तत्वमिति । पृथिव्या इति शेषः । पञ्चसु भूतेषु तेजःप्रभृतिव्यक्तमित्युच्यते । तत्र तेजो रसगन्धवत्वेनाव्यक्तत्वादम्भश्च गन्धवत्त्वेनाव्यक्तत्वान् न सम्यग्व्यक्तम् । पृथिवी तु शब्दादिगुणपञ्चकवत्तया व्यक्तत्वाद्विशिष्य व्यक्तेति ज्ञेयम् । सच्छब्दो व्यक्तवाचीत्यत्र प्रमाणमाह ॥ असदव्यक्तमिति । चशब्दस्तुशब्दार्थः । व्यक्तं त्वित्यन्वयः । सर्वसत्त्वगुणोद्भेद इत्येतदनूद्य लक्ष्ये दर्शयन् व्याचष्टे ॥ शरीरे हीति । हिशब्दः प्रसिद्ध्यर्थकः । प्राणिनामित्यनेन सत्त्वशब्द उक्तार्थः । सर्वगुणा ज्ञानभक्त्यादयः । उद्भेदशब्दव्याख्यानं व्यज्यन्त इति । मुक्तिकालीनव्यक्तौ शरीरानपेक्षणात् संसारावस्थायामित्युक्तम् । ननु ब्रह्मस्थानत्वं सर्वगुणोद्भेदश्च शरीरनिष्ठतया व्याख्यातः । अतः कथं तदुभयं पृथिवीलक्षणं स्यादित्यतः शरीरस्य पार्थिवत्वे प्रमाणं दर्शयति ॥ शरीरमिति । अस्मदादीनामिति शेषः । ननु शरीरस्य तर्हि पञ्चभूतात्मकत्वोक्तिविरोध इत्यत उक्तम् ॥ इन्द्रियाणीत्यादि । कोष्ठगो जाठरः, छिद्रं द्वाराणि । प्राणाः प्राणापानादयः पञ्च । तथा चेन्द्रियाद्यङ्गसहितस्यैव पञ्चभूतात्मकत्वेन तथा व्यवहारो न त्वंगिनः शरीरस्येति भावः । नन्विदमपि न संभवति । प्रत्येकमङ्गानामङ्गिनश्च पञ्चभूतात्मकत्वादित्याशङ्क्याह ॥ प्रत्येकमिति । पुनरित्यनेनेदमाचष्टे ॥ सत्यमेवं प्रत्येकं पञ्चधेति । तथाऽपि पार्थिवशरीरेऽङ्गिनि पृथिवीभागानां बाहुल्यादंगेष्विन्द्रियादिष्वबादिभागानां बाहुल्यादुक्तव्यवस्थोपपत्तिरिति । मूले धारण-मित्यस्य गुरुपदार्थधारकत्वमित्यर्थः । एतत्सर्वं पृथिव्याः स्वाभाविकं लक्षणमित्यर्थः ॥ ४८ ॥
नभोगुणविशेषोऽर्थो यस्य तच्छ्रोत्रमुच्यते ।
वायोर्गुणविशेषोऽर्थो यस्य तत् स्पर्शनं विदुः ॥ ४९ ॥
पदरत्नावली
श्रोत्रादीनां लक्षणं वक्ति– नभ इत्यादिना ॥ यस्य नभोगुणविशेषः शब्दोऽर्थो विषयस् तच्छ्रोत्रमिन्द्रियमित्यादि ज्ञातव्यम् । नभोगुणविशेषोत्थ इति पाठे यस्य विषयः शब्दोद्भवः शब्द एवार्थ इति ॥ ४९ ॥
प्रकाशिका
श्रोत्रादीन्द्रियलक्षणान्याह ॥ नभ इति । नभसो गुणः शब्दः सोऽर्थो विषयो यस्य तच्छ्रोत्रम् । एवमग्रेऽपि व्याख्येयम् । मनसः सर्वोपलब्धिसाधनत्वात् । तत्रातिव्याप्तिवारणाय सर्वत्र विशेषपदमसाधारणार्थकम् । तथा च नभ आदेर्गुणः शब्दादिर्विशेषोऽर्थोऽसाधारणो विषयो यस्य तच्छ्रोत्रादिकमित्यर्थो द्रष्टव्यः ॥ ४९ ॥
तेजोगुणविशेषोऽर्थो यस्य तच्चक्षुरुच्यते ।
अम्भोगुणविशेषोऽर्थो यस्य तद् रसनं विदुः ॥ ५० ॥
भूमेर्गुणविशेषोऽर्थो यस्य स घ्राण उच्यते ।
परस्य दृश्यते धर्मो ह्यपरस्मिन् समन्वयात् ॥ ५१ ॥
पदरत्नावली
‘शब्दादय आकाशादीनां विशेषगुणत्वेन व्यावर्तकधर्मा न व्यभिचीर्णाः’ इति या वैशेषिकाणां प्रक्रिया तां विघटयितुमाह– परस्येति ॥ परस्य पूर्वस्य कारणस्य आकाशादेर्धर्मः शब्दादिगुणोऽपरस्मिन् पश्चात्तने कार्ये वाय्वादौ दृश्यते हि । कुतः ? समन्वयात् संबन्धात् ॥५०,५१॥
प्रकाशिका
भावनमिति श्लोकोक्तं पृथिव्यां सद्विशेषणमिति लक्षणमुपपादयति ॥ परस्येति श्लोकेन । परस्य पूर्वस्य कारणस्य धर्मः शब्दादिरपरस्मिन्कार्ये वाय्वादौ कारणान्वयाद्दृश्यते । अतो भावानामाकाशादीनां विशेषो गुणः सर्वोऽपि भूमावेवोपलक्ष्यते । तथा च पृथिव्यामुक्तरूपत्वं सद्विशेषणत्वं सिद्धमित्याशयः ॥ ५०,५१ ॥
अतो विशेषो भावानां भूमावेवोपलक्ष्यते ।
एतान्यसंहत्य यदा महदादीनि सप्त वै ॥ ५२ ॥
न शेकुः पुरुषं स्रष्टुं भोगायतनमञ्जसा ।
कालकर्मगुणोपेतो जगदादिरुपाविशत् ॥ ५३ ॥
पदरत्नावली
ततः किम् ? तत्राह– अत इति ॥ यत एवं गुणानां संबन्धोऽस्त्यत आकाशादिसर्वभावानां विशेषगुणो भूमावेवोपलक्ष्यत इति सर्वसत्वगुणोद्भेद इत्युक्तं साधु । वैशेषिककल्पनायाः स्वमनीषोत्थत्वादप्रमाणत्वमित्यतो दृश्यत इति । दृष्टेर्बलवत्प्रमाणत्वात् तद्विरोधोऽपि दुर्वार इति । महदाद्यभिमानिदेवतास्तुतिप्रसन्नश्रीनारायणाविष्टैर् उज्जृम्भितशक्तिभिस् तैरन्त्यावयवि-निर्माणात् परमाणुभिर् द्व्यणुकादिक्रमेण खण्डावयव्यन्त्यावयवी च जायत इति कल्पनाऽपि निर्मानेऽत्यभिप्रेत्याह– एतानीति ॥ यदा एतानि महदादीनि सप्त तत्त्वानि भोगायतनं ब्रह्माण्डं स्रष्टुं पुरुषं विराट्पुरुषशरीरं च स्रष्टुं न शेकुः । कुत इत्यत उक्तम्– असंहत्येति ॥ असंहत्याचेतनत्वेन स्वतः संयोजनशक्त्यभावेन विश्लिष्य स्थितत्वादित्यर्थः । अत एव अञ्जसेत्युक्तम् । तदा कालकर्म-गुणोपेतो जगदादिः श्रीनारायणो महदादीन् उपाविशद् यथा कार्योत्पत्तिक्षमा शक्तिः स्यात् तथा सन्निहितवानित्यर्थः ॥ ५२-५३ ॥
प्रकाशिका
एवमुत्पन्नानि तत्त्वानि ब्रह्माण्डरूपस्य कार्यस्योत्पादने स्वत एव समर्थानीति साङ्ख्यमतनिरासायाह ॥ एतानीति । एतानि महदादीनि सप्त तत्त्वान्यसंहत्यामिलित्वा । मेलका-भावादिति हेतुसूचनायेदम् । भोगायतनं ब्रह्माण्डं तदन्तर्गतब्रह्मशरीरं च । जगदादिः श्रीनारायणोंऽजसा कार्यजननशक्त्युद्बोधकरूपेणाविशत् । महदादीनीति वर्तते । अत्र सप्तेति प्राधान्यविवक्षयोक्तम् । इन्द्रियादीन्यपि ग्राह्याणि ॥ तेन भगवतोऽनुविद्धेभ्यः प्रेरितेभ्यो युक्तेभ्योंऽशैर्मिलितेभ्यः भगवद्रेतोरूपेण परिणतेभ्य इति यावत् ॥ ५२,५३ ॥
ततस्तेनानुविद्धेभ्यो युक्तेभ्यो(भ्यस्तत्वेभ्यो)ऽण्डमचेतनम् ।
उत्थितं पुरुषो यस्मादुदतिष्ठदसौ विराट् ॥ ५४ ॥
तात्पर्यम्
‘अचेतनाद्यतस्त्वण्डाद्ब्र्रह्मा समजनि स्फुटम् । अतो ब्रह्माण्डमित्याहुर्विराड् ब्रह्मा प्रकाशनादि’ति च ॥ ५४ ॥
पदरत्नावली
तत्फलमाह– तत इति ॥ तदनन्तरं तेन हरिणाऽनुविश्यानुविद्धेभ्यः प्रेरितेभ्य-स्तत्त्वेभ्योऽचेतनमण्डं ब्रह्माण्डम् उत्थितमुत्पन्नम् । ‘अचेतनाद् यतस्त्वण्डाद् ब्रह्मा समजनि स्फुटम् । अतो ब्रह्माण्डमित्याहुर्विराड् ब्रह्मा प्रकाशनात् ॥’ इति वाक्यमस्मिन्नर्थे मानमिति भावेनाह– पुरुष इति ॥ यस्मादण्डादसौ विराट् विशेषेण प्रकाशमानः पुरुषः हिरण्यगर्भ उदतिष्ठदुत्पन्न इत्यन्वयः ॥५४॥
प्रकाशिका
उत्थितम् उत्पन्नम् । नन्वेवमस्य ब्रह्माण्डत्वप्रसिद्धिः कुत इत्यतोऽत्र निमित्तमाह ॥ पुरुष इति । असौ विराट्पुरुषो ब्रह्मा यस्मादचेतनादण्डादुदतिष्ठत् । तदचेतनमण्डमिति पूर्वेणान्वयः । तथा च विराण्णामकब्रह्मशरीरकारणत्वादिदं ब्रह्माण्डमित्युच्यत इति भावः । अत्र विराट्पुरुषो ब्रह्मै-वेत्यत्र समाख्यामाह ॥ अचेतनादिति । आहुरचेतनम् । अण्डमिति शेषः । विराट् शब्दं ब्रह्मणि निर्वक्ति ॥ विराडिति । विराड् विराट्शब्दवाच्यः । प्रकाशनाद्विशेषेण प्रकाशनादित्यर्थः । राजृ दीप्ताविति धातोरिति भावः ॥ ५४ ॥
एतदण्डं विशेषाख्यं क्रमवृद्धैर्दशोत्तरैः ।
तोयादिभिः परिवृतं प्रधानेनावृतं बहिः ।
यत्र लोकवितानोऽयं रूपं भगवतो हरेः ॥ ५५ ॥
पदरत्नावली
अस्याण्डस्य पृथिव्यंशानां भूयस्त्वान्नामान्तरं च युक्तमिति भावेनाह– एतदण्ड-मिति ॥ तोयाद्यावरणविशेषैर्विशेषितत्वाच्च विशेषाभिधानं युक्तमिति भावेनाह– क्रमवृद्धैरिति ॥ क्रम-वृद्धिमेव विशिनष्टि– दशोत्तरैरिति ॥ ततो बहिर् गुणत्रयेण प्रधानेन मूलप्रकृत्या चावृतम् । अन्तश्चतुर्दशभुवनलक्षणैर्विशेषणैर्विशिष्टत्वाद् विशेषाख्यमित्याशयेनाह– यत्रेति ॥ यत्र यस्मिन्नण्डेऽयं लोकवितानः पातालादिलोकविस्तारो, विशेषित इति शेषः । अयमपि कश्चन विशेषोऽस्तीत्याह– रूपमिति ॥ रूपं मूर्तिः प्रतिमा सन्निधानविशिष्टत्वात् ॥ ५५ ॥
प्रकाशिका
इदमुत्पन्नमण्डं बाह्यान्तरपदार्थसहितं भगवतः प्रतिमेति मन्तव्यमित्याशयेनाह ॥ एतदण्डमिति । ननु तोयादिभिरिति वचनात् पृथिवी न संगृहीतेत्यत उक्तम् ॥ विशेषाख्यमिति । पृथिव्याख्यमित्यर्थः । तथा च पृथिव्या अण्डखर्परसंलग्नत्वात्पृथिवीशब्दोऽण्डेऽपि वर्तते । ततश्चाण्ड-पृथिव्योरेकशब्दप्रतिपाद्यत्वेनाण्डग्रहणेऽपि पृथिव्यपि गृहीतेति भावः । क्रमवृद्धैरित्यस्यैव विवरणम् ॥ दशोत्तरैरिति ॥ प्रधानेन गुणत्रयेण प्रकृत्या वा । यत्र यदन्तर्लोकवितानः पातालादिलोकविस्तारो यद्विशेषाख्यं यत्तोयादिभिः परिवृत्तं यत्र च लोकवितानः । एतदण्डं भगवतो हरे रूपं प्रतिमेत्यन्वयः
॥ ५५ ॥
हिरण्मयादाण्डकोशादुत्थाय सलिलेशयात् ।
समाविश्य महादेवो बहुधा निर्बिभेद खम् ॥ ५६ ॥
पदरत्नावली
इदानीं ‘यस्मादुदतिष्ठदसौ’ इत्युक्तं विवृणोति– हिरण्मयादिति ॥ प्रासादात् प्रेक्षत इतिवद् द्वितीयार्थे पञ्चमीयम् । महादेवो देवोत्तमो हरिः सलिले शयं हिरण्मयाण्डकोशमुत्था-योत्थाप्य तदन्तः प्रविश्य स्वस्मादुत्पन्नस्य विराट्पुरुषस्य । अण्डवत् स्थितं शरीरं पुनः समाविश्य यथा सन्निधानविशेषो भवति तथान्तःस्थित्वा मुखविवरादिलक्षणं खमाकाशं निर्बिभेद व्यक्तमकरोदित्यन्वयः
॥ ५६ ॥
प्रकाशिका
इदानीं यस्मादुदतिष्ठदसौ विराडित्युक्तं विवृणोति ॥ हिरण्मयादिति । सलिले बहिरावरणजले शयाद्विद्यमानाद्धिरण्मयादाण्डकोशादण्डकोशं प्रविश्य तदन्तस्थसलिले सहस्रवर्षपर्यन्तं योगनिद्रां विधाय तदनन्तरमुत्थाय स्ववीर्येण ब्रह्मदेहं सृष्ट्वा तं समाविश्य तस्य खं छिद्रं बहुधा निर्बिभेद चकार ॥ ५६ ॥
निरभिद्यतास्य प्रथमं मुखं वाणी ततोऽभवत् ।
वाण्या वह्निरथो नासे घ्राणोऽतः प्राण एतयोः ॥ ५७ ॥
पदरत्नावली
ब्रह्मशरीरस्य मुखादिव्यक्तिप्रकारं वक्ति– निरभिद्यतेत्यादिना ॥ अस्य ब्रह्मणः प्रथमं मुखं निरभिद्यत व्यक्तमभूत् । ततो मुखाद् वाणी वागिन्द्रियम् । तस्माद् वागिन्द्रियात् तदभिमानी वह्निरभूत् । इत्येवमेवोत्तरोत्तरत्रानुसन्धेयम् । नासे नासापुटे । घ्राणो नाम नासिक्यः ॥ ५७ ॥
प्रकाशिका
तत्राध्यात्माधिदैवोत्पत्तिमाह ॥ निरभिद्यतेति । निरभिद्यत व्यक्तमभूत् । मुखं तन्नामकं गोलकं वाणी वागिन्द्रियं तन्नामा तदभिमानी देवः, वाण्या वाङ्नामकेनेन्द्रियेणाधिदैवं वह्निनामा देवो, नासे नासापुटे गोलकरूपे घ्राण इन्द्रियम् । अतो घ्राणेन्द्रियात्प्राणस्तदभिमानी नासिक्य एतयोर्नासापुटयोः । सप्तमीयम् ॥ ५७ ॥
प्राणाद् वायुरभिद्येतामक्षिणी चक्षुरेतयोः ।
तस्मात् सूर्योऽन्वभिद्येतां कर्णौ श्रोत्रं ततो दिशः ॥ ५८ ॥
पदरत्नावली
अध्यात्माधिदैवभेदेन एकस्यैव प्राणो वायुरिति नामद्वयम् । दिशः दिग्देवताः
॥ ५८ ॥
प्रकाशिका
वायुरधिदैवं वायुनामाऽक्षिणीगोलके, चक्षुरिन्द्रियं तन्नामा तदभिमानी चैतयो-र्गोलकयोर्दिशोऽधिदैवं दिङ्नामानः ॥ ५८ ॥
निर्बिभेद विराजस्त्वग् रोमश्मश्व्रादयस्ततः ।
ततश्चौषधयः पश्चाच्छिश्नं निर्बिभिदे ततः ॥ ५९ ॥
पदरत्नावली
विराजः ब्रह्मणः । ततो रोमादिभ्यः । शिश्नं लिङ्गम् । तत उपस्थेन्द्रियम्
॥ ५९ ॥
प्रकाशिका
विराजो ब्रह्मणस्त्वग्गोलकभूता रोमश्मश्व्रादयस्तन्नामानस् त्वगिन्द्रियदेवाश्च । ततस्त्वगिन्द्रियाद् औषधयोऽधिदैवं तन्नामानो देवाः । ततो ब्रह्मदेहात् शिश्नं गोलकमिन्द्रियं च ॥५९॥
रेतस्तस्मादाप आसन् निरभिद्यत वै गुदम् ।
गुदादपानोऽपानाच्च मृत्युर्लोकभयङ्करः ॥ ६० ॥
हस्तौ च निरभिद्येतां बलं ताभ्यां ततः स्वराट् ।
पादौ च निरभिद्येतां गतिस्ताभ्यां ततो हरिः ॥ ६१ ॥
तात्पर्यम्
‘यज्ञनामा तु देवोऽन्यो विज्ञेयः पाददेवता । तदाविष्टो हरिर्नित्यं तमाहुः पाददैवतम् । तस्येन्द्रियाभिमानित्वं कुतः पूर्णामलात्मन’ इति च ॥ ६१ ॥
पदरत्नावली
ततो रेतः । तस्माद् रेतसः । गुदशब्दस्तु गोलकेन्द्रिययोरपि वाचकः । गुदात् पाय्विन्द्रियम् । ततोऽपानः । मृत्युर्मरणलक्षणः ॥
स्वराडिन्द्रः । ताभ्यां पादाभ्यां गतिर्गन्तव्यमिन्द्रियम् । तत इन्द्रियात् हरिरित्यत्रेदं तात्पर्यम् । इन्द्रियाद् यज्ञदेवनामाभिमानी तदन्तर्यामी हरिश्च । ब्राह्मणाङ्गुष्ठजलपायिनां फलदानार्थत्वेन कृतसन्निधानविशेषत्वात् हरिरिति । ‘यज्ञनामा तु देवोऽन्यो विज्ञेयः पाददेवता । तमाविष्टो हरिर्नित्यं तमाहुः पाददैवतम्’ इति वचनात् ॥ ६०,६१ ॥
प्रकाशिका
तस्माच्छिश्नाद् रेतस्तन्नामा गुह्येन्द्रियाभिमान्यापः । अधिदैवं तन्नामानो देवाः । गुदं गोलकं पायुनामकमिन्द्रियं च ग्राह्यम् । अपानो पाय्वभिमानी स एवाधिदैवं मृत्युः । बलं हस्तेन्द्रियं तदभिमानी च । स एवाधिदैवं स्वराडिन्द्रः । गतिः पादनामकमिन्द्रियं तदभिमानी च । तत इन्द्रियात्स एवाधिदैवं हरिरुपेन्द्रः । ननु हरेः कथं पादरूपेन्द्रियाभिमानित्वं तत्रान्यदत्तस्वामित्वरूपेन्द्रियाभि-मानित्वस्य श्रुत्यादिबाधितत्वादित्यतोऽत्र तात्पर्यं प्रमाणेनैवाह ॥ यज्ञनामेति । तुशब्दस्तस्य यज्ञनामक-भगवदपेक्षया नीचत्वसूचकः । अन्यो यज्ञनामकाद्धरेः । पाददेवता पादनामकेन्द्रियाभिमानी पादनामा (तथा च आधिदैवं यो यज्ञनामा इन्द्रपुत्रः प्रसिद्धः स एवाध्यात्म) तदाविष्ट एवोपेन्द्रनामा हरिर्नाभि-मानी । अतोऽनेनैवाभिप्रायेण तं हरिं पाददेवतामाहुर् ऋषय इत्यर्थः । ननु कुत एवममुख्यार्थकल्पनं मुख्यमेवाभिमानित्वं तस्य कुतो न स्यादित्यत आह ॥ तस्येति । अभिमानित्वमन्यदत्तस्वामित्वरूपम् ॥ पूर्णेति । निरवधिकस्वामित्वपूर्णस्याभिमानकृतविकारशून्यस्य चेत्यर्थः ॥ ६०,६१ ॥
ना(ड्यश्र)ड्योऽस्य निरभिद्यन्त ताभ्यो लोहितमाहृतम् ।
नद्यस्ततः समभवन्नुदरं निरभिद्यत ॥ ६२ ॥
पदरत्नावली
विरिञ्चिशरीरान् नाड्युत्पत्तिं वक्ति– नाड्यश्चेति ॥ आहृतमुत्पन्नम् । ततो रुधिरात् ॥ ६२ ॥
प्रकाशिका
नाड्यो गोलकस्थानीयाः । लोहितं रुधिरमिन्द्रियस्थानीयम् । आहृतमुत्पन्नम् । नद्योऽधिदैवं नदीसंज्ञाः । उदरं गोलकस्थानीयम् ॥ ६२ ॥
क्षुत्पिपासे ततः स्यातां समुद्रस्तु तयोरभूत् ।
अथास्य हृदयं भिन्नं हृदयान्मन उत्थितम् ॥ ६३ ॥
पदरत्नावली
तत उदरात् । तयोः क्षुत्पिपासयोः । अथोदरोत्पत्यनन्तरम् । भिन्नं व्यक्तम्
॥ ६३ ॥
प्रकाशिका
क्षुत्पिपासे इन्द्रियस्थानीयेऽधिदैवं समुद्रनामा । हृदयं गोलकम् । मन इन्द्रियम्
॥ ६३ ॥
मनसश्चन्द्रमा जातो बुद्धिर्बुद्धेर्गिरांपतिः ।
अहङ्कारस्ततो रुद्रश्चित्तं चैत्त्यस्ततोऽभवत् ॥ ६४ ॥
तात्पर्यम्
‘चैत्योऽपि भगवान्विष्णुरन्तर्यामी चतुर्मुखात् । स्वेच्छया व्यक्तिमगमत्ततोऽसौ ब्रह्मजः स्मृत’ इति च ॥ ६४ ॥
पदरत्नावली
तस्मात् हृदयान् मनोभेदरूपा बुद्धिर्जाता । अस्या बुद्धेर् गिरांपतिर्बृहस्पतिर्जात इत्यर्थः । ततो हृदयादेव मनोभेदरूपोऽहङ्कारोऽपि तदभिमानी रुद्रश्च । तत एतस्मात् हृदयान्मनो-विशेषरूपं चित्तम् । ततश्चित्ताच्चैत्त्यं चित्ताभिमानी विरिञ्चो रूपान्तरेणासीद् अत्र चित्ताभिमानिगत्वेन विष्णुरपि चैत्त्य इति ग्राह्यम् । ब्रह्मान्तर्यामिणोऽपि स्वेच्छया तदभिव्यक्तरूपान्तरेण तज्जत्वं च युक्तम् । प्रामाणिकत्वात् । उक्तं च– ‘चैत्त्योऽपि भगवान् विष्णुरन्तर्यामी चतुर्मुखात् । स्वेच्छया व्यक्तिमगमत् ततोऽसौ ब्रह्मजः स्मृतः ॥’ इति । इदं सर्वस्याभितप्तस्य मुखं निरभिद्यतेत्याद्यैतरेय्यामुपनिषद्युक्तम्
॥ ६४ ॥
प्रकाशिका
अधिदैवं चन्द्रनामा बुद्धिरिन्द्रियमधिदैवं गिरांपतिर्बृहस्पतिरहङ्कारमिन्द्रियमधिदैवं रुद्रश्चित्तमिन्द्रियं तदभिमानी ब्रह्मा च चैत्य इत्यधिदैवस्थानीयं बाह्योक्तिः । नन्वयं ब्रह्मचित्तजश्चैत्यः क इत्यपेक्षायां ब्रह्मान्तर्यामिणो हरे रूपान्तरमिति प्रमाणेनैवाह ॥ चैत्योऽपीति । चैत्योऽपि चित्त-नामकोऽपि सन् चतुर्मुखाद्विराजात् । नन्वनादेस्तस्य कथं ब्रह्मजत्वमित्यत आह ॥ स्वेच्छयेति । तथा च वन्ह्यादिवद्विराजोऽन्यस्याधिदैवस्याभावात्तत्स्थानीयो ब्रह्मान्तर्यामी हरिरेव ब्रह्मचित्तजो जात इत्याशयः । बुद्ध्यहङ्कारचित्तानामपि हृदयमेव गोलकतया वर्णनीयम् । हृदयशब्दश्च तत्रत्यनाडीविशेषपर इति ज्ञातव्यम् ॥ ६४ ॥
एते ह्यभ्युत्थिता देवा नैवास्योत्त्थापनेऽशकन् ।
पुनराविविशुः खानि तमुत्थापयितुं क्रमात् ॥ ६५ ॥
पदरत्नावली
ब्रह्मवाय्वोरेकत्वेनैकस्योत्तमत्वकथनेऽन्यस्य तदविनाभूतमिति कृत्वा प्राणस्य सर्वचेतनोत्तमत्वं ज्ञापयितुमग्न््यादिदेवानां विवादेन तन्निर्णयप्रकारं वक्ति– एते हीति ॥ एतेनाह-मुक्थमस्मीत्यादिवाक्यार्थोऽपि विवृत इति ज्ञातव्यम् । अस्य ब्रह्मशरीरस्योत्थापने खानि गोलकस्थानानि
॥ ६५ ॥
प्रकाशिका
इदानीं ब्रह्मवाय्वोः सर्वदेवतोत्तमत्वज्ञानपूर्वकं हरेः सर्वदेवोत्तमत्वज्ञापनायेतरदेवानां ब्रह्मदेहोत्थापनेऽशक्तिं ब्रह्मवाय्वोस्तत्र शक्तिं च वक्तुमाह ॥ एते हीति । हीत्यनेनैतच्छ्रुतिप्रसिद्धमिति दर्शयति । अभ्युत्थिता बहिर्निर्गता । अस्य ब्रह्मण उत्थापने बहिर्निष्कासने देहपातने इति यावत् । खानि गोलकस्थानीयानि । तं देहान्तर्गतं विराजमुत्थापयितुं चेष्टायुक्तं कर्तुम् ॥ ६५ ॥
वह्निर्वाचा मुखं भेजे नोदतिष्ठत् ततो विराट् ।
घ्राणेन नासिको वायुर् नोदतिष्ठत् ततो विराट् ॥ ६६ ॥
प्रकाशिका
वाचा वाङ्नामकेन स्वांशेनेन्द्रियेण च एवमग्रेऽपि ॥ ६६ ॥
अक्षिणी चक्षुषाऽऽदित्यो नोदतिष्ठत् ततो विराट् ।
श्रोत्रेण कर्णौ च दिशो नोदतिष्ठत् ततो विराट् ॥ ६७ ॥
त्वचं रोमभिरोषध्यो नोदतिष्ठत् ततो विराट् ।
रेतसा शिश्नमापस्तु नोदतिष्ठत् ततो विराट् ॥ ६८ ॥
गुदं मृत्युरपानेन नोदतिष्ठत् ततो विराट् ।
हस्ताविन्द्रो बलेनैव नोदतिष्ठत् ततो विराट् ॥ ६९ ॥
विष्णुर्गत्यैव चरणौ नोदतिष्ठत् ततो विराट् ।
नाडीर्नद्यो लोहितेन नोदतिष्ठत् ततो विराट् ॥ ७० ॥
तात्पर्यम्
‘यज्ञान्तस्थः स्वयं पादौ विशन्नोत्थापयद्धरिः । शक्तोऽपि ब्रह्मवाय्वोस्तु बलज्ञप्त्यै जनार्दनः । तत्स्थ उत्थापयामास ब्रह्मदेहं विशन्प्रभुरि’ति च ॥ ७० ॥
पदरत्नावली
गत्यैवेत्येवकारेण विष्णोरुत्थापनाशक्तिर्न विधीयते । किन्तु ब्रह्मवाय्वोर् बलज्ञाप-नायैवेति । ‘यज्ञान्तस्थः स्वयं पादौ विशन्नोत्थापयद्धरिः । शक्तोऽपि ब्रह्मवाय्वोस्तु बलज्ञप्त्यै जनार्दनः। तत्स्थ उत्थापयामास ब्रह्मदेहं विशन् प्रभुः ॥’ इति वचनात् । अनेन श्रियस्तदुत्तमत्वं तस्या हरेरनन्तगुणोत्तमत्वं ध्वनितम् । ‘अहं सुवे पितरमस्य मूर्धन्’ इत्यादेः ॥ ७० ॥
प्रकाशिका
विष्णुर्गत्यैवेति । अत्र विष्णोरशक्तिप्रसक्तौ तात्पर्यं प्रमाणेनैवाह ॥ यज्ञान्तस्थ इति । तुशब्दोऽवधारणे । बलज्ञप्त्या एवेत्यन्वयः । अशक्त एव किं न स्यादित्यत आह ॥ तत्स्थ इति । यत इति शेषः । तत्स्थो ब्रह्मवायुस्थः ॥ ७० ॥
क्षुत्तृड्भ्यामुदरं सिन्धुर्नोदतिष्ठत् ततो विराट् ।
हृदयं मनसा चन्द्रो नोदतिष्ठत् ततो विराट् ॥ ७१ ॥
बुद्ध्या ब्रह्माऽपि हृदयं नोदतिष्ठत् ततो विराट् ।
रुद्रोऽभिमत्या हृदयं नोदतिष्ठत् ततो विराट् ॥ ७२ ॥
तात्पर्यम्
ब्रह्मा बृहस्पतिः । ‘यस्मिन्ब्रह्मा राजनि पूर्व एती’ति श्रुतिः । ‘बृहस्पतिः पुरोधाश्च ब्रह्मा च ब्रह्मणस्पतिरि’त्यभिधानम् ॥ ७२ ॥
पदरत्नावली
ब्रह्मा बृहस्पतिः । ‘यस्मिन् ब्रह्मा राजनि पूर्व एति’ इति श्रुतेः । ‘बृहस्पतिः पुरोगश्च ब्रह्मा च ब्रह्मणस्पतिः’ इति चाभिधानम् ॥ ७२ ॥
प्रकाशिका
बुद्ध्या ब्रह्मापि हृदयमित्यत्र ब्रह्मशब्दो न विराट्पर इत्याह ॥ ब्रह्मेति । ब्रह्मशब्दस्य बृहस्पतिपरत्वं कुत इत्यतस्तत्र श्रौतप्रयोगं तावद्दर्शयति ॥ यस्मिन्निति । ‘‘तस्मै विशः स्वयमेव नमन्ते यस्मिन् ब्रह्मा राजनि पूर्व एती’’ति श्रुतौ यस्मिन् राजनीन्द्रे निर्गते सति ब्रह्मा पूर्व एति तस्मै राज्ञे विशः प्रजाः स्वयमेव नमन्त इति श्रुत्यर्थः । अत्रेदं पुरोगन्तृत्वलिङ्गेन ब्रह्मशब्दो बृहस्पतिपरतया निर्णीत इति भावः । अत्राभिधानमप्याह ॥ बृहस्पतिरिति ॥ ७२ ॥
चित्तेन हृदयं चैत्यः क्षेत्रज्ञः प्राविशद् यदा ।
विराट् तदैव पुरुषः सलिलादुदतिष्ठत ॥ ७३ ॥
तात्पर्यम्
‘अंशेन सुप्तो ब्रह्माऽपि (तु) अंशेन निरगात्तथा । स्वदेहाद्वायुसहितो विष्णुना च जगत्प्रभुः । तमुत्थापयितुं देवास्तानृते त्रीन्महाबलान् । नाशक्नुवुस्त्वे(नाशक्नुवन्ने)क-संस्थास्ततस्ते त्वविशंस्त्रयः । उदतिष्ठद्ब्रह्मदेहस्तदा तेषां प्रभावतः । विशेषेण हरेरेव प्रभावेन श्रियः पतेः । चित्ताभिमानी ब्रह्मैव क्षेत्रज्ञस्तद्गतो हरिः । प्राणो वायुरिति प्रोक्तस्तयोरीशो हरिः स्वयमि’ति च ॥ ७३ ॥ इति तृतीयतात्पर्ये सप्तविंशोऽध्यायः ॥ २७ ॥
पदरत्नावली
नन्वेवं तर्हि सलिले पतितं ब्रह्मशरीरमुत्थापकाभावात् क्लिन्नप्रायं भवेदित्याशङ्क्य वायुना सह निर्गमात् शरीरमपतत् । स एव क्षेत्रज्ञो ब्रह्मान्तर्यामी वायुब्रह्माभ्यां सह प्रवेशेन शरीर-मुदस्थापयदित्याह– चित्तेनेति ॥ ‘अंशेन सुप्तो ब्रह्मा तु अंशेन निरगात् तथा । स्वदेहाद् वायुसहितो विष्णुना च जगत्प्रभुः । तमुत्थापयितुं देवास्तानृते त्रीन् महाबलान् । नाशक्नुवन्नेकसंस्थास्ततस्ते त्वविशंस्त्रयः । उदतिष्ठद् ब्रह्मदेहस् तदा तेषां प्रभावतः । विशेषेण हरेरेव प्रभावेन श्रियः पतेः । चित्ताभिमानी ब्रह्मैव क्षेत्रज्ञस्तद्गतो हरिः । प्राणो वायुरिति प्रोक्तस् तयोरीशो हरिः स्वयम् ॥’ इत्यनेन क्षुद्रोपद्रवशङ्का परिहृतेति सन्तोष्टव्यम् ॥ ७३ ॥
प्रकाशिका
चित्तेनेति । चैत्यश्चैत्यनामा क्षेत्रज्ञो ब्रह्मान्तर्यामी । चित्तेन तन्नामकेन ब्रह्मणा सह हृदयं प्राविशदित्यर्थः । अत्र ब्रह्मणः स्वदेहादितरदेववत्सर्वात्मना बहिर्निर्गमने नोदतिष्ठत्तदा विराडित्युक्तविरोधः । तेन विराजस्तत्रैकांशेनावस्थानावगमादतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ अंशेनेति । सुप्तो निर्व्यापारस्थितः । अविशंस्त्रय इत्युक्त्या मूले वायुरपि ग्राह्य इति सूचयति ॥ एषां साम्यशङ्कायामाह ॥ विशेषेणेति । श्रियःपतेरित्यनेन श्रियोऽपि तन्नियामकत्वं नास्तीति सूचयति । ननु चित्तेन हृदयं चैत्य इति श्लोकार्थस् ततस्ते त्वविशंस्त्रय इत्यादिनोच्यते । तत्र ब्रह्मविष्णुवायुवाचकपदानि कानीत्यपेक्षायां तानि दर्शयन् ब्रह्मादिपरतया व्याख्याति ॥ चित्ताभिमानीति । तथा च चित्तपदेन ब्रह्मा ग्राह्य इति भावः । तद्गतो ब्रह्मान्तर्यामी विष्णुः क्षेत्रज्ञः क्षेत्रपदवाच्यः । उत्तरश्लोके प्राणेन्द्रिय-मनोधिय इति वक्ष्यमाणत्वादत्रापि प्राणो ग्राह्य इति भावः । तस्य व्याख्यानम् ॥ प्राणो वायुरिति । विशेषेण हरेरेवेत्यत्र हेतुमाह ॥ तयोरीश इति । यत इति शेषः । स्वयं स्वातन्त्र्येण ॥ ७३ ॥
यथा प्रसुप्तं पुरुषं प्राणेन्द्रियमनोधियः ।
प्रभवन्ति विना येन नोत्थापयितुमोजसा ॥ ७४ ॥
तमस्मिन् प्रत्यगात्मानं धिया योगप्रवृत्तया(विपक्वया) ।
भक्त्या विरक्त्या ज्ञानेन विविच्यात्मनि चिन्तयेत् ॥ ७५ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे सप्तविंशोऽध्यायः ।
पदरत्नावली
नन्वत्र विष्णोः सर्वोत्तमत्वेन सर्वशक्तिमत्त्वं सम्यक् न प्रतीतम् । बलादाकृष्य प्रवेश्यते च इत्याशङ्क्य प्रातीतिकौ प्राणस्योक्तौ अन्वयव्यतिरेकौ विष्णोरेवेति विशदयंस्तुदुपास्तिं विदधाति– यथेति ॥ अंशेन प्रसुप्तं पुरुषं ब्रह्माणं प्राणेन्द्रियमनोधियः प्राणेन्द्रियाद्यभिमानिनो देवास्तत्त-दिन्द्रियार्थक्रियावत्त्वेनौजसा येन क्षेत्रज्ञेन विनोत्थापयितुं न प्रभवन्तीदं यथा यथार्थं सत्यं यस्मात् तस्मात् तं सर्वोत्तमं प्रत्यगात्मानं क्षेत्रज्ञं श्रीनारायणमस्मिच्छरीरेऽन्तर्यामित्वेन स्थितं विरक्त्या, अष्टाङ्गयोग-विपक्वया क्रमविवृद्धया भक्त्या च जातधिया निश्चयलक्षणबुद्ध्या जातेन ज्ञानेनात्मनि हृदये चिन्तये-दित्यन्वयः ॥ ७४-७५ ॥
॥ इति श्रीमद्भागवतटीकायां श्रीविजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे सप्तविंशोऽध्यायः ॥
प्रकाशिका
अत्र दृष्टान्तमाह ॥ यथेति । प्राणो वायुरिन्द्रियाणि तदभिमानिनो वह्न्याद्या मनश्चन्द्रो धीर्बृहस्पतिरेते येन हरिणा विना पुरुषं जीवं प्रसुप्तं कर्तुं न प्रभवन्ति । ओजसा स्वसामर्थ्येनैव येन विनोत्थापयितुं जाग्रदवस्थां कर्तुं च न प्रभवन्ति । तथा च तेन क्षेत्रज्ञेन हरिणा विना ब्रह्म-देहान्तर्गताः प्राणादयो ब्रह्मदेहपतनोत्थानयोर्न शक्ता बभूवुरिति वाक्यशेषः ॥
एवं हरेः सर्वोत्तमत्वज्ञापनेन किं प्रयोजनमित्यतस्तद्ध्यानमेवेत्याह ॥ तमिति । तं सर्वेन्द्रियदेवोत्तमं ब्रह्मवाय्वोरपीशम् अस्मिन्देहे विद्यमानं प्रत्यगात्मानमन्तर्यामिणं योगप्रवृत्तया निवृत्तकर्मानुष्ठानादि-रूपयोगजातया धिया बुद्ध्याऽपरोक्षरूपया जातेन ज्ञानेन मननरूपेण विविच्य सर्वोत्तमतया निश्चित्यात्मनि मनसि चिन्तयेत् । अधिकारीति शेषः ॥ ७४-७५ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां सप्तविंशोऽध्यायः ॥ ३-२७ ॥