कपिलस्तत्त्वसंख्याता भगवानात्ममायया
अथ षड्विंशोऽध्यायः
राजोवाज–
कपिलस्तत्त्वसंख्याता भगवानात्ममायया ।
जातः स्वयमजः साक्षादात्मप्रज्ञप्तये नृणाम् ॥ १ ॥
पदरत्नावली
आत्यन्तिकभक्तियोगस्य हरौ मनोयोगप्रकारस्य भक्त्यधिकारिणस्तत्साधनस्य च प्रतिपादनायास्याध्यायस्य प्रारम्भः । अत्रादौ कपिलदेवहूतीसंल्लापसंहितां श्रोतुकामः परीक्षित् श्रुतमनूद्य प्रशस्य वक्तव्यशेषं प्रार्थयत इत्याह– कपिल इति ॥ ‘अजा विष्णुहरच्छागाः’ इत्यभिधानात् कोऽत्राभिधीयत इति संशयनिरासाय साक्षादिति विशेषणम् । ‘साक्षात् प्रत्यक्षतुर्ययोः’ इत्यतस्तुर्योऽजः श्रीनारायणः स्वयमावेशं विना आत्ममायया स्वेच्छयैव नृणामात्मप्रज्ञप्तये स्वस्वरूपज्ञानाय तदर्थं तत्वसंख्याता अव्यक्तादितत्त्वविषयं सम्यग्ज्ञानं करिष्यन् कपिलनामा जात, इति भवतोक्तं श्रुतं चेति शेषः ॥ १ ॥
प्रकाशिका
मैत्रेयेणोक्तं शुकमुखात् श्रुत्वा राजा देवहूत्यै कपिलेनोपदिष्टं श्रोतुकाम उक्तमनूद्य प्रशस्यावशिष्टं कपिलोपदिष्टप्रकारं कथयेति प्रार्थयते ॥ कपिल इत्यादिना । तत्त्वसङ्ख्याता तत्त्वगणन-परशास्त्रनिर्माता । साक्षादनुपचारेणाजो विष्णुः स्वयमेव जातो न तु पृथ्वादाविवाविष्टः । नृणा-मधिकारिणामात्मप्रज्ञप्तये स्वस्वरूपज्ञापनायात्ममायया स्वस्वरूपेच्छया जातो यः कपिलः ॥ १ ॥
अर्हस्य धर्मिणां पुंसां गरिम्णः सर्वयोगिनाम् ।
विश्रुतौ श्रुतदेवस्य भूरि तृप्यन्ति मेऽसवः ॥ २ ॥
पदरत्नावली
श्रीनारायणसच्चरितश्रवणादौ प्रवर्तमानस्य अशनादीच्छारहितस्यापि लोकस्य चित्तनिरोधेनालम्बुद्धिर्जायते, न मम तथा, प्रत्युत रसायनसेविन इवाशनादिभोगरहितस्यापीन्द्रियाणि हृष्यन्तीत्याह– अर्हस्येति ॥ निवृत्तिलक्षणमोक्षधर्मा एषां स्वरूपभूताः सन्तीति धर्मिणस् तेषाम् । पुंसामर्हस्य सम्मान्यस्य । ‘अर्हन्तौ निजसम्मान्यौ’ इत्यभिधानात् । सनकादिसर्वयोगिनां गरिम्णः गुरुतमस्य शास्त्रेण श्रुता देवाः क्रीडादिगुणाः श्रीनारायणस्य विद्यमाना यस्य स स श्रुतदेवः, तस्य कपिलनाम्नो हरेर्महिम्नो विश्रुतौ विशेषेण श्रवणे मे असव इन्द्रियाणि भूरि तृप्यन्ति परमानन्दं प्राप्नुवन्तीत्यन्वयः ॥ २ ॥
प्रकाशिका
यः कपिलस्तस्य धर्मिणां निवृत्तधर्मवतां पुंसामर्हस्य सम्मान्यस्य गरिम्णो गुरुतमस्य विश्रुतौ विशेषेण श्रवणे सति श्रुतो देवो हरिर्येन तस्यापि मेऽसव इन्द्रियाणि भूरि यथा तथा तृप्यन्ति परमानन्दं प्राप्नुवन्ति ॥ २ ॥
यद् यद् विधत्ते भगवान् स्वच्छन्दात्माऽऽत्ममायया ।
तानि मे श्रद्धधानस्य कीर्तन्यान्यनुकीर्तय ॥ ३ ॥
पदरत्नावली
इदं चेत् श्रुतं प्रथमतः परं किं नु प्रार्थ्यत इत्यत्राह– यद् यदिति ॥ स्वच्छन्दः स्वतन्त्र आत्मा मनो यस्य स तथा । भागवतानां कीर्तन्यानि नित्यं कीर्तनीयानि ॥ ३ ॥
प्रकाशिका
स्वच्छन्दः स्वेच्छाधीन आत्मा स्वरूपं यस्य । स्वतन्त्र इति यावत् । आत्ममायया स्वेच्छया प्रकृत्या वा । कीर्तन्यानि कीर्तनयोग्यानि ॥ ३ ॥
शुक उवाच–
द्वैपायनसखश्चैवं मैत्रेयो भगवांस्तथा ।
प्राहैनं विदुरं प्रीत आन्वीक्षिक्यां प्रचोदितः ॥ ४ ॥
पदरत्नावली
तत्र शुको विदुरमैत्रेयसंवादेन राज्ञः प्रश्नं परिहरतीत्याह– द्वैपायनसखश्चेति ॥ यथाहं त्वया आन्वीक्षिक्यां तत्त्वविद्याविषये प्रचोदितस्तथा विदुरेणापि पृष्टो मैत्रेयो मया वक्ष्यमाणमर्थं प्राहेत्यन्वयः ॥ ४ ॥
प्रकाशिका
एवं यथा त्वयाऽहं प्रचोदित एवं विदुरेणान्वीक्षिक्यां ब्रह्मविद्यायां प्रचोदितः सन् प्रीत इदं वक्ष्यमाणं यथा येन प्रकारेण विदुरं प्रत्याह तथा तेनैव प्रकारेण । तदेवेति यावत् । त्वां प्रत्यहम् । वक्ष्यामीति शेषः ॥ ४ ॥
मैत्रेय उवाच–
पितरि प्रस्थितेऽरण्यं मातुः प्रियचिकीर्षया ।
तस्मिन् बिन्दुसरेऽवात्सीद् भगवान् कपिलः किल ॥ ५ ॥
पदरत्नावली
कोऽयमर्थ इति तत्राह– पितरीति ॥ ५ ॥
प्रकाशिका
अरण्यं प्रति प्रस्थिते गते सति । बिन्दुसरे बिन्दुसरसि ॥ ५ ॥
तमासीनमकर्माणं तत्त्वमार्गाग्रदर्शनम् ।
स्वसुतं देवहूत्याह धातुः संस्मरती वचः ॥ ६ ॥
पदरत्नावली
तत्र देवहूतिरयमवसर इति मत्वा कपिलं वक्तीत्याह– तमासीनमिति ॥ आसीनमकर्माणमिति विशेषणद्वयेन सर्वदा निश्चलबुद्धिः, सा च स्वतः, तथापि लोकदृष्ट्यापि तथेति सूचयति । आसीनमित्यनेनाकर्मत्वे सिद्धे पुनस्तद्वचनं कण्डूयनादिविधिर्नास्तीति सूचनेन हरेः सच्चिदानन्दाद्यात्मत्वं विज्ञायते । एवंविधस्य हरेः स्ववक्तव्यत्वे विज्ञानमस्तीति किं वक्तव्यमिति भावेनाह– तत्त्वेति ॥ स्वसुतमिति सिद्धमाप्तत्वं धातुः संस्मरती वच इत्यनेन च पोष्यते ॥ ६ ॥
प्रकाशिका
धातुर्ब्रह्मणो वचः ‘‘एष मानवि गर्भं ते प्रविष्ट’’ इत्यादिरूपम् ॥ ६ ॥
देवहूतिरुवाच–
निर्विण्णातितरां भूमन्नसदिन्द्रियतर्पणात् ।
येन संभाव्यमानेन प्रपन्नाऽन्धतमः प्रभो ॥ ७ ॥
पदरत्नावली
श्रोतव्यार्थेऽस्यास्तात्पर्यमस्तीत्युपोद्घातं रचयतीत्याह– निर्विण्णेति ॥ भूमन् स्वतःपूर्ण । असताममङ्गलानामिन्द्रियाणां तर्पणादतितरां निर्विण्णा विरक्ता विषयेष्विति शेषः । असत्त्वं कथम् ? अत्राह– येनेति ॥ सम्भाव्यमानेन लाल्यमानेन येनेन्द्रियप्रीणनेन अन्धन्तमस् तत्त्वाज्ञानं प्रपन्नेत्यन्वयो ऽनेनाधिकारिगुणौ विद्वत्ताऽर्थिता चेति दर्शिताविति ज्ञायते ॥ ७ ॥
प्रकाशिका
असद्भिरमङ्गलैर्विषयैरिन्द्रियाणां तर्पणात्सम्भाव्यमानेन लाल्यमानेन येनेन्द्रिय-गणेनान्धयतीत्यन्धं तमोऽज्ञानं प्रपन्ना प्राप्ताऽस्मि ॥ ७ ॥
तस्य त्वं तमसोऽन्धस्य दुष्पारस्याद्य पारगम् ।
सच्चक्षुर्जन्मनामन्ते लब्धं मे त्वदनुग्रहात् ॥ ८ ॥
पदरत्नावली
आत्मनो विद्वत्तां स्फोरयति– तस्येति ॥ अतीतानामनेकेषां जन्मनामन्ते चरम-लक्षणे जन्मनि तस्य दुष्पारस्य दूरीकृततीरान्तरस्य अन्धस्य तमसः पारं गमयतीति पारगस् त्वं नाम सच्चक्षुस्त्वदनुग्रहान् मया लब्धमित्यन्वयः । एतत् सन्निकृष्टं न दूरस्थमित्यर्थः । अनेन प्रोक्तार्थग्रहणे सामर्थ्यगुणोऽप्यसूचि । प्राचीनाचीर्णपुण्यनिचयेन चक्षुर्लाभात् ॥ ८ ॥
प्रकाशिका
दुष्पारस्य पारगमनवर्जितस्य पारं गमयतीति पारगं, त्वमेव सच्चक्षुः सत्त्वलक्षणं निर्दुष्टं चक्षुर्मे मया बहूनां जन्मनामन्ते जातात् त्वदनुग्रहाल्लब्धम् ॥ ८ ॥
य आद्यो भगवान् पुंसामीश्वरो वै भवान् किल ।
लोकस्य तमसाऽन्धस्य चक्षुः सूर्य इवोदितः ॥ ९ ॥
पदरत्नावली
न केवलं ममैवैतदनुग्रहायोदितं चक्षुः, मन्निमित्तं लोकस्यापि । अतोऽहं पुण्यसागरेत्याशयेनाह– य आद्य इति ॥ यः पुसां ब्रह्मादीनां पुरुषाणामाद्यस्तेषामीश्वर ऐश्वर्यप्रदः भगवानैश्वर्यादिगुणसमुद्रः स वै स एव भवांस्तमसाऽन्धस्य दृष्टिप्रदः सूर्य इवोदितः किल सम्भावित-मित्यन्वयः । ‘वार्तासम्भावयोः किल’ इति यादवः ॥ ९ ॥
प्रकाशिका
न केवलं ममैव त्वं चक्षुः किन्तु सर्वस्यापि सज्जनस्येत्याह ॥ य इति । आद्य इत्यादिविशेषणानि सच्चक्षुष्ट्वोपपादकानि ॥ ९ ॥
अथ मे देव संमोहमपाक्रष्टुं त्वमर्हसि ।
योऽवग्रहोऽहंममेतीत्येतस्मिन् योजितस्त्वया ॥ १० ॥
पदरत्नावली
एवं भगवन्तं स्वाभीष्टार्थेऽभिमुखीकृत्य स्वाभिप्रायं विज्ञापयति– अथेति ॥ यथा विहितक्रियाऽकरणे महता प्रत्यवायेनानर्थरूपनरकप्राप्तिस् तथा ज्ञानस्य ग्राहके त्वादृशे सूर्ये सन्निहिते सति तदग्रहणेऽनुत्थानतमःप्राप्तिः स्यादिति यस्मादथ तस्मात् त्वया य एतस्मिन् देहगेहादावहं-ममेत्यवग्रहो ज्ञानदृष्टिप्रतिबन्धको मिथ्याभिमानो योजितः, पूर्वादृष्टानुसारेणेति शेषः । तं संमोहं मिथ्याज्ञानलक्षणं भ्रमं मे विद्यमानमपाक्रष्टुमुत्कृत्य त्यक्तुमर्हसि, तत्त्वज्ञानोपदेशेनेत्यन्वयः ॥ १० ॥
प्रकाशिका
अथ तस्मादपाक्रष्टुमुन्मूलयितुम् । संमोहमेव दर्शयति ॥ य इति । एतस्मिन्देह-गेहादौ यो ममेत्यवग्रहो दुष्टाभिमानस्त्वयैव योजित उत्पादितस्तं संमोहमित्यन्वयः । त्वमेवोक्तरूप-संमोहेन बन्धकोऽतस्त्वमेव तमपाकृत्य मोचय । त्वत्कृतविनाशेऽन्यस्य सामर्थ्याभावादिति भावः ॥१०॥
तं त्वा गताहं शरणं शरण्यं स्वभृत्यसंसारतरोः कुठारम् ।
जिज्ञासया प्रकृतेः पूरुषस्य नमामि सद्धर्मविदां वरिष्ठम् ॥ ११ ॥
तात्पर्यम्
नारायणो ब्रह्मवायू वीन्द्रशेषौ हरस्तथा । कामः शक्रो गुरुर्दक्षो मन्वाद्या भास्करादयः । सर्वजीवाश्च क्रमशः पुरुषाख्याभिशब्दिताः । एतत्पत्न्यो बन्धशक्तिः स्त्रियः सर्वास्तथा जडम् । क्रमात्प्रकृतिशब्दोक्तास्तज्ज्ञानाद्विप्रमुच्यत’ इति दत्तात्रेययोगे ॥ ११ ॥
पदरत्नावली
त्वां शरणं गतेत्यन्वयः । केन हेतुनेत्यत उक्तम्– जिज्ञासयेति ॥ ‘नारायणो ब्रह्मवायू वीन्द्रशेषौ हरस्तथा । कामः शक्रो गुरुर्दक्षो मन्वाद्या भास्करादयः ॥ सर्वजीवाश्च क्रमशः पुरुषाख्याभिशब्दिताः । एतत्पत्न््नयो बन्धशक्तिः स्त्रियः सर्वास्तथा जडम् ॥ क्रमात् प्रकृतिशब्दोक्ता-स्तज्ज्ञानाद् विप्रमुच्यते ॥’ इति वचनात् पुरुषस्य नारायणादेः प्रकृतेर्लक्ष्म्यादेश्च विवेकलक्षणतारतम्य-जिज्ञासायां ज्ञातुकामेन हेतुनेत्यर्थः । त्वं च समग्रानुग्रहं कर्तुं समर्थ इत्याशयेनाह– स्वभृत्येति ॥ न केवलमिदमुपासनं वाचिकं, किन्तु कायिकं चेत्याह– नमामीति ॥ संसारतरोः कुठारस्य नैशित्याभावे तदुक्तिः स्तोत्रं स्यादित्यत उक्तम्– सद्धर्मेति ॥ ११ ॥
प्रकाशिका
‘‘उपसन्नाय शिष्याय वक्तव्यं ब्रह्म शाश्वतमि’’ति वचनात् तव चोपसत्त्य-भावात्कथमुपदिशामीति नाशङ्कनीयमिति भावेनाह ॥ तं त्वेति । शरणंगता उपसन्ना । केन निमित्तेन, प्रकृतेः पुरुषस्य च जिज्ञासया ज्ञातुमिच्छया । ननु यदि देवहूत्याः प्रकृतिपुरुषस्वरूपमेव मोक्षार्थं जिज्ञासितं तर्ह्युत्तरत्र नारायणाख्यं परतत्त्वमपरतत्त्वमपि चेतनाचेतनात्मकं तत्र चेतना रमाब्रह्माद्यास्तार-तम्योपेता हरेर्बन्धकशक्तिर्महदादिजडं चेत्येतत्सर्वं मोक्षार्थं कपिलेन कथमुपदिष्टमित्याशङ्कायां तत्सर्वं प्रकृतिपुरुषशब्दार्थतयाऽत्र विवक्षितमतो नाजिज्ञासितोक्तिरित्याशयेन प्रकृतिपुरुषशब्दयोस्तावदर्थकत्वे प्रमाणं दर्शयति ॥ नारायण इति । जडमव्यक्तं महदादिकम् । उपदेशांगं नमनमपि करोति ॥ नमामीति ॥ ११ ॥
मैत्रेय उवाच–
इति स्वमातुर्निरवद्यमीप्सितं निशम्य पुंसामपवर्गचोदनम् ।
धियाऽभिनन्द्यात्मवतां सतां गतिर्बभाष ईषत् स्मितशोभिताननः ॥ १२ ॥
पदरत्नावली
अत्र मैत्रेयो मात्रा प्रार्थितः कपिलस्तां प्रति वक्तीति विदुरं प्रत्याह– इतीति ॥ ईप्सितं ज्ञातुमिष्टम् । अपवर्गस्य संसारविनाशस्य चोदनं सूचकम् । ईषद् बभाषे मितमाह । महतामल्प-भाषित्वगुणमनेन द्योतयति ॥ १२ ॥
प्रकाशिका
ईप्सितमिष्टमपवर्गचोदनं मोक्षसाधनोपदेशप्रार्थनम् । पुंसामित्यनेन देवहूत्या लोकोपकारायेदं प्रार्थनं कृतमिति सूचयति । आत्मवतां वशीकृतमनसाम् ॥ १२ ॥
भगवानुवाच–
योग आध्यात्मिकः पुंसां मतो निःश्रेयसाय मे ।
अत्यन्तोपरतिर्यत्र दुःखस्य च सुखस्य वै ॥ १३ ॥
तात्पर्यम्
‘परमात्मादिकं देहे यदध्यात्मं तदीरितमि’ति च । ‘सुखं शरीरभोग्यं तु दुःखं सर्वं तथैव च । मुक्तौ विलयमायाति नित्यानन्दस्तु भुज्यत’ इति च ॥ १३ ॥
पदरत्नावली
नन्वहं भोक्ष्ये किम् ? पितृवत् प्रव्रजिष्यामि किम् ? चरको भवानीति किम् ? तत्राह– योग इति ॥ ‘परमात्मादिकं देहे यदध्यात्मकमीरितम्’ इति वचनादाध्यात्मिकः देहमधिकृत्य वर्तमानानां परमात्मादितत्त्वानां स्वरूपज्ञानलक्षणो योगो मया पुंसां निःश्रेयसाय मतो निरूपितः, यत्र मोक्षे शरीरभोग्यस्य सुखस्य दुःखस्य च साकल्येनोपरतिर्नाशः, तमिमं योगं व वक्ष्यामीत्यन्वयः ॥१३॥
प्रकाशिका
मोक्षसाधनमेवादौ निष्कृष्याह ॥ योग इति । ननूक्तरीत्या परापरतत्त्वसङ्ग्राहक-प्रकृतिपुरुषशब्दवाच्यानां नारायणादिस्वरूपाणामेव मोक्षार्थं जिज्ञासितत्वस्योक्तत्वेनेदानीं तदर्थ-माध्यात्मिकयोगनिरूपणेऽसङ्गतिरित्यतोऽत्राध्यात्मिकपदेन पूर्वोक्तनारायणादिस्वरूपमेव विवक्षितमतो नासङ्गतिरित्याशयेनाध्यात्मिकपदार्थं प्रमाणेनैव दर्शयति ॥ परमात्मादिकमिति । तथा चाध्यात्मिकं देहमधिकृत्य विद्यमानानां परमात्मादितत्त्वानां स्वरूपज्ञानलक्षणो तज्जनकलक्षणो वा योग उपायो मतः संमतः । निःश्रेयसस्वरूपं दर्शयन् कारणताग्राहकमन्वयं दर्शयति ॥ अत्यन्तेति । यत्र यस्मिन्नाध्यात्मिकयोगे सति । भवतीति शेषः । अत्र सुखस्यापि दुःखवदत्यन्तोपरतिरुच्यते । न च तत्सम्भवति । तथात्वे मोक्षस्यापुरुषार्थत्वप्रसङ्गादतोऽत्र दुःखसमकक्षतयोक्तं सुखं प्रमाणेनैव दर्शयति ॥ सुखमिति । शरीरे सति भोग्यमन्तःकरणपरिणतिरूपम् । चशब्दस्तुशब्दार्थः । दुःखं त्विति सम्बन्धः । सर्वमविशेषितं सामान्यत एव दुःखं विलयमायातीत्यर्थः । कुत एवं सुखे संकोच इत्यत उक्तम् ॥ नित्यानन्द इति । तुशब्दो यस्मादित्यर्थे । भुज्यते । मुक्तैरिति शेषः । तथा च मूले नित्य-सुखानुभवश्चेति पूरणीयमिति भावः ॥ १३ ॥
तमिमं ते प्रवक्ष्यामि यमवोचं पुराऽनघे ।
ऋषीणां श्रोतुकामानां योगमुर्वङ्गनैपुणम् ॥ १४ ॥
चेतः खल्वस्य बन्धाय मुक्तये चात्मनो मतम् ।
गुणेषु सक्तं बन्धाय रतं वा पुंसि मुक्तये ॥ १५ ॥
पदरत्नावली
आप्तत्वायाह– यमवोचमिति ॥ ऋषीणां ब्रह्मादिज्ञानिनाम् । उरुभिरङ्गैर्यम-नियमादिसाधनैर्नैपुणं पाटवगुणोपेतम् । सुखं नास्ति चेन्मुक्तौ सुखमाप्नवानि न दुःखमित्यात्माशीः कथं जागर्तीत्याशङ्का चशब्दसूचिता ‘सुखं शरीरभोग्यं तु दुःखं सर्वं तथैव च । मुक्तौ विलयमायाति नित्यानन्दस्तु भुज्यते ॥’ इत्यादिना परिहृतेति । मुक्तावतः स्वरूपानन्द एवाशास्यते न भौतिक इति सर्वत्र द्रष्टव्यम् । वैशब्देन स्वरूपानन्दावाप्तिलक्षणं निःश्रेयस ध्वनयति । न स्वर्गादिकम् । तस्य हेयत्वेनोक्तत्वाद् वक्ष्यमाणात्वाच्च ॥
प्रतिज्ञातयोगसाफल्यसाधनाय मनोवशीकरणं प्रथमसाधनमित्याह– चेत इति ॥ चिनोति आत्मनि मलमिति चेतो मनः । अस्यात्मनो जीवस्य चेतः संसारबन्धाय तस्मान्मुक्तये चात्मनो मम मतम् । एकस्य कार्यद्वयापादनसामग्रीत्वं कथम् ? अत्राह– गुणेष्विति ॥ शब्दादिगुणेषु सक्तं बन्धाय । तेषु गुणेष्वसक्तं मुक्तये ॥ १४,१५ ॥
प्रकाशिका
उर्वंगनैपुणम् ऊरुभिरंगैर्यमनियमादिसाधनैर्नैपुणं पाटवगुणोपेतम् । तत्र मनोवशीकरणं प्रथमसाधनमित्याह ॥ चेतः खल्विति । अस्यात्मनो जीवस्य । गुणेषु विषयेषु ॥ १४, १५ ॥
अहंममाभिमानोत्थैः कामलोभादिभिर्मलैः ।
वीतं यदाऽऽत्मनः१ शुद्धमदुःखमसुखं समम् ॥ १६ ॥
तदा पुरुष आत्मानं केवलं प्रकृतेः परम् ।
निरन्तरं स्वयंज्योतिरणिमानमखण्डितम् ॥ १७ ॥
ज्ञानवैराग्ययुक्तेन भक्तियोगेन चात्मना ।
परिपश्यत्युदासीनां प्रकृतिं च हतौजसम् ॥ १८ ॥
तात्पर्यम्
‘बाह्ये सुखे त्वनासक्तेरसुखं दुःखवर्जनात् । अदुःखं हरिभक्त्यैव नित्यानन्दं यदा मनः । तदा तं परमात्मानं पश्यत्यात्मप्रसादत’ इति कापिलेये । अभेदात्स्वावतारेषु निरन्तर उदाहृतः । गुणदेहेन्द्रियाभेदात्केवलोऽसदृशत्वतः । अखण्डपूर्णशक्तित्वादहमेकः सदा मत’ इति च । ‘बन्धशक्तिः प्रकृत्याख्या विष्णुशक्त्या वियुज्यत’ इति च ॥ १६-१८ ॥
पदरत्नावली
शब्दादिगुणेष्वसक्त्यैवालं किम् इत्याशङ्क्य विशिनष्टि– अहंममेति ॥ यदाऽऽ-त्मनोऽहंममाभिमानोत्थैः कामलोभादिभिर्मलैर्वीतं रहितं शुद्धं चित्स्वरूपं दूरीभूताचिन्मनःसंपर्कं परतत्त्वानुभवेन बाह्ये शब्दादिसुखेऽनासक्तेरिच्छाभावाद् असुखमत एव दुःखास्पर्शाद् अदुःखं समं निश्चलं भक्तिरसायनेनैव नित्यानन्दं भवति तदा पुरुष आत्मानं स्वबिम्बभूतं हरिं पश्यतीत्यन्वयः । परीत्युपसर्गात् प्राणपर्यन्तं परितो वर्तमानाः स्वबिम्बदेवताश्चापरोक्षीकृत्य तत्प्रसादादिति ग्राह्यम् । ‘बाह्ये सुखे त्वनासक्तेरसुखं दुःखवर्जनात् । अदुःखं हरिभक्त्यैव नित्यानन्दं यदात्मनः ॥ तदा तं परमात्मानं पश्यत्यात्मप्रसादतः ॥’ इति विशेषवचनात् ‘अदुःखमसुखं समम्’ इति प्रतीतार्थोऽनुपपन्न इति । आत्मप्रसादत इत्यत्रात्मशब्देन प्राणादयोऽपि ग्राह्याः । तस्य तेष्वपि वृत्तेः । इयन्तं कालं परोक्षीभूत-मात्मानं स्वं पश्यतीति मन्दाशङ्कां परिहरति केवलमित्यादिविशेषणेन । ‘अभेदात् स्वावतारेषु निरन्तर उदाहृतः । गुणदेहेन्द्रियाभेदात् केवलोऽसदृशत्वतः ॥ अखण्डः पूर्णशक्तित्वादहमेकः सदा मतः ॥’ इत्यनेन व्याख्यातोऽयं ग्रन्थः । उक्तं सुष्टु स्यात् प्रकृतेः परत्वे ।
तदेव कथमित्यत उक्तम्– प्रकृतेः परमिति ॥ चिज्जडप्रकृत्योः परम् । एतल्लक्षणं न कस्या-पीत्यतोऽसाधारणमित्यर्थः । अणिमानमित्यनेन स्वबिम्बरूपमेवोच्यते । ‘य आत्मनि तिष्ठन्’ इत्यादेः । केनेत्यत उक्तम्– आत्मना चिन्मनसेति ॥ अस्य सदातनत्वाद् इतः पूर्वं किमिति नापश्यत् ? अत उक्तम्– ज्ञानेति ॥ प्रकृतिज्ञानाभावे तत्परत्वदर्शनं कथमित्यत उक्तम्– उदासीनामिति ॥ प्रयोजका-भावे परिणामलक्षणकार्यानभिमुखीम् । कुतोऽनुदितमिदमित्यत उक्तम्– हतौजसमिति ॥ हतमोजो बन्धकशक्तिर्यस्याः सा तथा ताम् । तदुक्तम् ‘बन्धशक्तिः प्रकृत्याख्या विष्णुशक्त्या वियुज्यते’ इति
॥ १६-१८ ॥
प्रकाशिका
ननु मुक्तेर्हर्यपरोक्षज्ञानमात्रसाध्यत्वात्कथमतद्युक्तं विमुक्तय इत्युक्तमित्यतस्तेना-परोक्षज्ञानमपि भवतीत्याह ॥ अहंममेत्यादि श्लोकत्रयेण । अत्र भगवद्भजनकालेऽदुःखमसुखमिति दुःखवत्सुखस्यापि सर्वात्मनाऽभाव उच्यते । नासौ सम्भवति । अनिषिद्धबाह्यसुखानुभवदर्शनात् । ध्यानादिना च स्वरूपसुखाभिव्यक्तेः प्रमाणसिद्धत्वादतोऽत्राभिप्रायं प्रमाणेनैव दर्शयति ॥ बाह्य इति । तथा च शरीरधारणार्थं बाह्यसुखानुभवसत्वेऽपि तत्रासक्त्यभावाभिप्रायमेतदिति भावः । कुत एवं सुखे सङ्कोच इत्यतोऽत्र बाधकं सूचयन्नाह ॥ हरिभक्त्यैवेति । नित्यानन्दमभिव्यक्तनित्यानन्दम् । अनेन प्रथमश्लोकतात्पर्यमुक्तम् ।
द्वितीयश्लोके आत्मानमित्येतत्परमात्मानमिति व्याख्यातम् । परिपश्यतीति तृतीयश्लोकस्थस्य व्याख्यानम् ॥ पश्यतीति । तत्र स्वात्मनेत्यस्य तात्पर्यम् आत्मप्रसादत इति । द्वितीयश्लोकस्थानां निरन्तरकेवलाखण्डितशब्दानां योग्यमर्थं प्रमाणेनैव दर्शयति ॥ अभेदादिति । केवल उदाहृत इत्यन्वयः । असदृशत्वतोऽहमेको मत इत्यन्वयः । हरिवाक्यमिदम् ।
तृतीयश्लोके प्रकृतिं च हतौजसमित्युच्यमाना प्रकृतिः केत्यपेक्षायामत्र योग्यां प्रकृतिं प्रमाणेनैव दर्शयति ॥ बन्धशक्तिरिति । परमाच्छादिका दुष्टा प्रकृतिः । हतौजसमुदासीनामित्यस्य तात्पर्यम् ॥ विष्णुशक्त्या वियुज्यत इति ॥ ततश्चायं श्लोकत्रयार्थः ॥ गुणेषु सक्तं बन्धायेत्येतदुपपादनायोक्तम् ॥ अहंममेति । तेन गुणेषु विषयेष्वहं ममाभिमानजन्यैः कामादिभिर्युतं मनो बन्धायेत्युक्तं भवति । तैर्मलैर्यदा वीतं रहितम् । अभिमानत्यागेनेति शेषः । तदा शुद्धं निर्दुष्टं सर्वथा दुःखानापादकम् । काम्यनिषिद्धपरित्यागाद्दुःखरहितमदुःखम् । उक्तरीत्या बाह्यसुखे आसक्त्यभावेनासुखमत एव शीतोष्णादि सम्बन्धेऽपि समं निर्विकारम् ॥
पुरुषो जिज्ञासुः । आत्मानं परमात्मानं केवलं स्वगुणदेहेन्द्रियाद्यभिन्नम् । प्रकृतेश्चेतनाचेतनरूपायाः परमुत्तमम् । निरन्तरं स्वावतारभेदरहितम् । स्वयंज्योतिः स्वप्रकाशम् अणिमानं परमसूक्ष्मं स्वबिम्बभूत-मखण्डितमव्याहतशक्तिम् ॥
ज्ञानं परोक्षनिश्चयः । भक्तियोगेन भक्तियुतध्यानेन । आत्मना भगवत्प्रसादेन च परिपश्यति स्वयोग्यतानुसारेण पश्यति । ननु परमाच्छादिकायाः प्रकृतेः सत्वे कथं पश्यतीत्यत उक्तम् ॥ प्रकृतिं चेति । परमाच्छादिकां दुष्टचेतनरूपां बन्धकशक्त्यपरपर्यायां प्रकृतिं च हतौजसां विष्णुशक्त्या हतसामर्थ्यामुदासीनामधिकारिणं विहायान्यत्र स्थितां यः पश्यति । तथा चातद्युक्तं विमुक्तय इति यदुक्तं तदुक्तरीत्याऽपरोक्षज्ञानवैराग्यद्वारैवाभिप्रेतमतो न कोऽपि दोष इति भावः ॥ १६-१८ ॥
न युज्यमानया भक्त्या भगवत्यखिलात्मनि ।
सदृशोऽस्ति शिवः पन्था योगिनां ब्रह्मसिद्धये ॥ १९ ॥
पदरत्नावली
मुक्तेरन्तरङ्गसाधनं भक्तेरन्यन्नास्तीत्याह– न युज्यमानयेति ॥ १९ ॥
प्रकाशिका
ननु विषयमुक्तस्य मनसो हर्यपरोक्षज्ञानजननाय किं मुख्यं सहकारीत्यतो भक्ति-रेवेत्याह ॥ न युज्यमानयेति ॥ १९ ॥
प्रसङ्गमजरं पाशमात्मनः कवयो विदुः ।
स एव साधुषु कृतो मोक्षद्वारमपावृतम् ॥ २० ॥
पदरत्नावली
इदानीं ब्रह्मज्ञानोत्पत्तौ प्रतिबन्धकमाह– प्रसङ्गमिति ॥ असद्भार्यादिषु प्रसङ्ग-मतिस्नेहम् । अजरं पुनर्नवत्वेनाक्षयम् । तर्ह्ययमेव सत्सु कृतश्चेत् किं कार्यक्षम इति तत्राह– स एवेति ॥ अपावृतम् उद्घाटितं विवृतमित्यर्थः ॥ २० ॥
प्रकाशिका
ननु विषयेष्वासक्तस्य मनसः कथं तत्रासक्त्यभावः स्यादित्यतोऽत्र मूलकारणं साधुसङ्गं दर्शयति ॥ प्रसङ्गमिति । आत्मनोऽधिकारिणो यं प्रसङ्गं प्रकृष्टं स्नेहं विषयेषु जातमजरं पुनरभिवृद्ध्याऽक्षयं, पाशं पाशवद्बन्धकम् । स एव प्रसङ्गः । अपावृतमपगतावरणम् ॥ २० ॥
तितिक्षवः कारुणिकाः सुहृदः सर्वदेहिनाम् ।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥ २१ ॥
पदरत्नावली
किंलक्षणाः साधवो येन तत्सङ्गो भक्तिज्ञानद्वारा मुक्तिसाधनं स्यादिति तत्राह– तितिक्षव इति ॥ अजाशब्देन तत्कार्यं देह उपलक्ष्यते । अत सातत्यगमन इति धातोस्तेन सहैव सततं वर्तमानत्वात् तस्मिन् गते गच्छन्ति स्थिते तिष्ठन्ति इत्यतोऽजाताः कामलोभादयस्तोषां शत्रवः । अत्र हेतुरयम्– ‘शान्ताः श्रीनारायणे निष्ठावन्तः, अत एव साधवः निष्ठासाधनशीलाः, साधुरुचिता भगवद् भक्तिः, सैव भूषणं येषां ते साधुभूषणाः । साधु त्रिषूचिते सौम्ये’ इति यादवः ॥ २१ ॥
प्रकाशिका
के ते साधव इत्यपेक्षायां साधूनां लक्षणमाह ॥ तितिक्षव इति चतुर्भिः । तितिक्षवः स्वोत्तमकृतापराधसहिष्णवः । नीचेषु सत्सु कारुणिकाः । स्वसमानां सर्वदेहिनां सुहृदः । सत्सु न जातः शत्रुर्येषां ते तथा । साधु प्रशस्तं कर्म भूषणं येषां त एव साधवः ॥ २१ ॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढाम् ।
मत्कृते त्यक्तकर्माणस्त्यक्तस्वजनबान्धवाः ॥ २२ ॥
तात्पर्यम्
‘यादृशी मयि भक्तिः स्यात्तादृश्यन्यत्र नैव चेत् । अनन्यभक्तिरुद्रेकात्सा ययैव तरेत्सृतिमि’ति च ॥ २२ ॥
पदरत्नावली
एतदेव विशिनष्टि– मयीति ॥ अनन्येन भावेन अन्यस्मिन् विष्णोरन्यस्मिन् ब्रह्मादौ तादृशो भावः स्नेहो नास्तीत्यनन्यभावस्तेन । तदुक्तम्– ‘यादृशी मयि भक्तिः स्यात् तादृश्य-न्यत्र नैव चेत् । अनन्यभक्तिरुद्रेकात् सा ययैव तरेत् सृतिम् ॥’ इति । दृढां मरणसद्भावेप्यचलाम् । तदेव विशदयति– मत्कृत इति ॥ स्वजनबान्धवा लौकिकाः, न तु पारलौकिकाः ॥ २२ ॥
प्रकाशिका
अनन्येन भावेन भक्तिमित्यत्र भक्तेरनन्यभावो नामान्यत्राविद्यमानतेति प्रतीयते न चासौ संभवति । ब्रह्मादिभक्तेरपि मोक्षसाधनत्वादतोऽत्र विवक्षितमनन्यभक्तिशब्दार्थं प्रमाणेन दर्शयति ॥ यादृशीति । मय्युद्रेकान्माहात्म्यातिशयाद्यादृशी सर्वोत्कृष्टा भक्तिः । अन्यत्र ब्रह्मादौ । मूले मत्कृते मत्प्रसादार्थं त्यक्तानि काम्यानि निषिद्धानि च कर्माणि यैः ॥ २२ ॥
मदाश्रयाः कथा मृष्टाः शृण्वन्ति कथयन्ति च ।
तपन्ति विविधांस्तापानैकात्म्यगतचेतसः ॥ २३ ॥
तात्पर्यम्
‘एकः पूर्णो हरिर्नान्यस्तदन्ये तद्वशा मताः । इति ज्ञानं स्थिरं यत्तदैकात्म्य-ज्ञानमुच्यत’ इति ब्रह्माण्डे ॥ २३ ॥
पदरत्नावली
एवं निःसङ्गानां कालयापना कथम् अत्राह– मदाश्रया इति ॥ तपआदिकर्माभावे विद्यैषु कथं तिष्ठतीति तत्राह– तपन्तीति ॥ तापान् तपांसि ‘ब्राह्मीं वाव त उपनिषदम ब्रूमेति तस्मै तपोदमः कर्म प्रतिष्ठा’ इत्यादि श्रुतिः । नन्वेवं विविधतपस्सञ्चरणसमये शीतोष्णोपवासादिना इन्द्रिय-दौर्बल्यहेतुना हरेः सर्वोत्तमत्वादिज्ञानं तिरोहितं भवतीति मन्दाशङ्कां परिहरति– ऐकात्म्येति ॥ ‘एकः पूर्णो हरिर्नान्यस्तदन्ये तद्वशा मताः । इति ज्ञानं स्थिरं यत् तदैकात्म्यज्ञानमुच्यते ॥’ इति स्मृतेर् ऐकात्म्ये हरेः सर्वोत्तमत्वपूर्णज्ञाने गतं स्थिरं स्थितं चेतो येषां ते तथोक्ताः ॥ २३ ॥
प्रकाशिका
मदाश्रया मत्प्रतिपादिकाः । तापांस्तपांसि । ऐकात्म्यगतचेतस इत्येतज्जीवेश्वरा-भेदज्ञानिन इत्यन्यथाप्रतीतिवारणाय प्रमाणेनैव व्याख्याति ॥ एक इति । आत्मशब्दार्थः ॥ पूर्ण इति । देशतः कालतो गुणतश्चेति शेषः । आङ्पूर्वात्तनोतेर्डमन्प्रत्यये आत्मेत्यस्य निष्पन्नत्वात् । अवधारणार्थ-स्यैकशब्दस्य व्यावर्त्यं दर्शयति ॥ नान्य इति । प्रत्ययार्थकथनम् ॥ तद्वशा इति । चेतःशब्दार्थ-निरूपणम् ॥ ज्ञानमिति । स्थिरमिति गतशब्दतात्पर्यप्रदर्शनम् । ततश्चैकः केवलः स्वयमेवात्मा पूर्ण एकात्मा तस्येदमधीनमित्यैकात्म्यम् । तत्र विषये गतमेकप्रकारेण स्थितं चेतो ज्ञानं येषामस्तीति व्याख्येयमिति भावः ॥ २३ ॥
त एते साधवः साध्वि सर्वसङ्गविवर्जिताः ।
सङ्गस्तेष्वथ ते प्रार्थ्यः सङ्गदोषहरा हि ते ॥ २४ ॥
पदरत्नावली
उपसंहरति– त एत इति ॥ त्यक्तस्वजनबान्धवा इत्युक्तं विशदयति– सर्व-सङ्गेति ॥ दुष्टसर्वसङ्गवर्जिता इत्यर्थः । सन्त्वेवंविधाः साधवः, तत्र किं ममोपदिशसीति तत्राह– सङ्गस्तेष्विति ॥ अथ तस्मात् तत्र हेतुमाह– सङ्गदोषेति ॥ २४ ॥
प्रकाशिका
दुष्टसर्वसङ्गविवर्जिताः । अथ तस्मात्सङ्गो विषयासक्तिस्तत्कृतदोषहरा इत्यर्थः ॥२४॥
सतां प्रसङ्गान्मम वीर्यसम्पदो भवन्ति हृत्कर्णरसायनाः कथाः ।
तज्जोषणादाश्वपवर्गवर्त्मनि श्रद्धावती भक्तिरनुक्रमिष्यति ॥ २५ ॥
पदरत्नावली
त्वच्चरितश्रवणादिना दुष्टसङ्गदोषनाशे दृष्टचरः सत्सङ्गात् कथमित्याशङ्क्य सत्सङ्गे हरिकथाश्रवणादिसम्भवेन तत्सङ्गाद् दुष्टसङ्गदोषनाशः प्रतिज्ञायते, तेषामन्यप्रसङ्गाभावादिति भावेनाह– सतां प्रसङ्गादिति ॥ प्रसङ्गात् प्रकृष्टसङ्गात् । वीर्याणां पराक्रमाणां सम्पदो यासु तास्तथा । हृत्कर्णानां रसमानन्दमायन्तीति हृत्कर्णरसायनाः । अय गताविति धातुः । ततः किम् ? तत्राह– तज्जोषणा-दिति ॥ तच्छब्देनोभये च ग्राह्यास् तेभ्यः सद्भ्यस् तासां कथानां जोषणान्निषेवणाद् अपवर्गवर्त्मनि हरौ श्रद्धावती आस्तिक्यबुद्ध्युपेता भक्तिर् अनुक्रमिष्यति पदं निधास्यतीत्यन्वयः ॥ २५ ॥
प्रकाशिका
सत्सङ्गस्य मनसो विषयासक्त्यभावजनकत्वं न साक्षात्किन्तु भक्तिजननद्वारेणै-वेत्याशयेनाह ॥ सतां प्रसङ्गादिति । प्रसङ्गात्प्रकृष्टसङ्गात् । मम वीर्यैः पराक्रमैर् लब्धाः संपदो यासु । हृत्कर्णयो रसायनाः सुखदाः । जोषणात्सेवनात् । अपवर्गस्य वर्त्म ज्ञानादिकं यस्मात्तस्मिन्हरौ श्रद्धावत्यास्तिक्यबुद्धिसहिताऽनुक्रमिष्यत्युत्पत्तुमारम्भं करिष्यति ॥ २५ ॥
भक्त्या पुमान् जातविराग ऐन्द्रियाद् दृष्टश्रुतात्मद्रविणानुचिन्तया ।
चित्तस्य यत्तो ग्रहणे योगयुक्तो यतिष्यते ऋजुभिर्योगमार्गैः ॥ २६ ॥
पदरत्नावली
भक्त्या किं फलं स्यादिति तत्राह– भक्त्येति ॥ पुमानर्थी समर्थो विद्वान् मद्विषयशास्त्रश्रवणादिनोत्पन्नया मद्भक्त्या ऐन्द्रियात् शब्दादिविषयाज्जातविरागः ब्रह्मादिस्तम्बपर्यन्त-पदार्थानामसारत्वानित्यत्वसदुःखत्वज्ञानवान् । तथा जातः वौ परमात्मनि रागः स्नेहः सारत्वनित्यत्व-निर्दुःखत्वज्ञानपूर्वको यस्य स तथा । कैश्चिदुत्तमाधिकारिभिर् दृष्टस्य कैश्चिदवराधिकारिभिः श्रुतस्यात्म-द्रविणस्य परमात्माख्यवस्तुनोऽनुचिन्तया निरन्तरध्यानेन । तथा चित्तस्यानवस्थानस्य मनसो ग्रहणे विषयाद् व्यावर्तने यत्तः प्रयत्नवान् ऋजुभिरक्लेशदैः, योगमार्गैर्यमादिसदुपायप्रकारैर्योगैर्युक्तः सत्सङ्गवान् यतिष्यते, परमात्मापरोक्षायेति शेषः । केषाञ्चिद् दृष्टानां केषाञ्चित् श्रुतानाम् । आत्मद्रविणानां जीवादिपदार्थानामसारत्वादिचिन्तया ऐन्द्रियाज् जातविराग इति वा ॥ २६ ॥
प्रकाशिका
भक्त्यनन्तरं जायमानापवर्गस्य साधनक्रमं दर्शयति ॥ भक्त्येति । पुमान् अधिकारी । दृष्टाः श्रुताश्च ये आत्मनः परमात्मादिचेतनास्तेषां यानि द्रविणानि गोप्यतया द्रविण-स्थानीयानि स्वरूपाणि तदनुचिन्तया येषां सारासारत्वादिविमर्शेन । ऐन्द्रियादिन्द्रियोपभोग्याद्विषयाज्जातो विरागो यस्य । चित्तस्य ग्रहणे परमात्मन्येव स्थापनार्थं, योगयुक्तः कथाश्रवणादिरूपयोगयुक्तो ऋजुभिः स्वदेहानुकूलैर्योगमार्गैर्यमादिभिः ॥ २६ ॥
असेवयाऽयं प्रकृतेर्गुणानां ज्ञानेन वैराग्यविजृम्भितेन ।
योगेन मय्यर्पितया च भक्त्या मां प्रत्यगात्मानमिहावरुन्धे ॥ २७ ॥
पदरत्नावली
अधिकारिणामेवंविधः प्रयत्नो न निष्फलः । किन्तु सफल एव भवतीत्याह– असेवयेति ॥ प्रकृतेर्गुणानां सेवा मुमुक्षुणा क्षुरधारावत् तृणपिहितमुखकूपवदलं परिहर्तव्येति पुनर्वचनम् । वैराग्येण विजृम्भितेन प्रवर्धितेन । परमात्मादिनामान्ततत्त्वानां तारतम्यज्ञानेन च । मय्यर्पितया भक्त्या । योगेन मयि मनोनिधानलक्षणेन । प्रत्यगात्मानं स्वान्तर्यामिणं मामिह प्रारब्धप्रतिबन्धकाभावेऽस्मिन् जन्मनि अवरुन्धे वशीकृतवान् पश्यतीत्यन्वयः । विरक्तिभक्त्युपास्तिजनितज्ञानमेव पुरुषार्थसाधनं न कर्मेत्यतो वाह– असेवयेति ॥ मय्यर्पितया भक्त्या योगेन समुत्पन्नेन योगध्यानोत्पन्नेन ज्ञानेन प्रत्य-गात्मनं स्वबिम्बभूतं मां पश्यतीति । कीदृशेन भक्तियोगेन ? प्रकृतेर्गुणानामसेवयोत्पन्नेन, वैराग्य-विजृम्भितेन ॥ २७ ॥
प्रकाशिका
प्रकृतेर्जातानां गुणानां विषयाणामसेवयेति पुनर्वैराग्यवचनं तस्यावश्यकत्वद्योतनाय । वैराग्यविजृंभितेन वैराग्याभिवृद्धेन ज्ञानेन परोक्षज्ञाननिश्चयेन जातेन योगेन ध्यानरूपेण । प्रत्यगात्मानं जीवस्वरूपान्तर्गतं तद्भिन्नं स्वयोग्यं हरिं वा इह देहेऽवरुन्धे वशीकृतवत्पश्यति ॥ २७ ॥
देवहूतिरुवाच–
का चित् (स्वित्) त्वय्युचिता (त्वय्यर्पिता) भक्तिः कीदृशी मम गोचरा ।
यया पदं ते निर्वाणमञ्जसा प्राप्नुयामहम् ॥ २८ ॥
पदरत्नावली
देवहूती मय्यर्पितयेति विशेषणेनोत्पन्नोत्कण्ठया दत्तावसरा पृच्छति– का स्विदिति ॥ कीदृशी मम गोचरा ज्ञातुं शक्येति । निर्वाणं नित्यनिवृतम् ॥ २८ ॥
प्रकाशिका
भक्तेर्ज्ञानसाधनेषु प्राधान्योक्तौ जिज्ञासया देवहूतिः पृच्छति ॥ का चिदिति । अधिकारिणो द्विविधाः । मोक्षकामास्तदकामाश्चेति । तत्र किं मोक्षकामानां भक्तिरुत्तमा । उत तदकामानाम् । यदि तदकामानामपि भक्तिरेवोत्तमा तर्हि सा कीदृशी किं लक्षणा मम गोचरा मया ज्ञातव्या कर्तव्या वा । निर्वाणं मोक्षाख्यमञ्जसा मोक्षकामेभ्योऽप्याधिक्येन ॥ २८ ॥
यो योगो भगवत्प्राप्तौ निर्वाणात्मंस्त्वयोदितः ।
कीदृशः कति चाङ्गानि यतस्तत्त्वावबोधनम् ॥ २९ ॥
पदरत्नावली
ऋजुभिर्योगमार्गैरित्युक्तयोगलक्षणं पृच्छति– यो योग इति ॥ निर्वाणात्मन् परमानन्दमूर्ते । यतो यस्माद् योगात् ॥ २९ ॥
प्रकाशिका
निर्वाणात्मन् परमानन्दमूर्ते ॥ २९ ॥
तदेतन्मे विजानीहि यथाहं मन्दधीर्हरे ।
सुखं बुद्ध्येय दुर्बोधं योषा भवदनुग्रहात् ॥ ३० ॥
पदरत्नावली
तदेतद् योगलक्षणं भक्तिलक्षणं विजानीहि विशेषेण ज्ञापय । योषेति हेतुगर्भविशेषणम् । योषात्वाच्छास्त्रज्ञानाभावादित्यर्थः ॥ ३० ॥
प्रकाशिका
तद्भक्तिलक्षणमेतद्योगलक्षणं च विजानीहि विशेषेण ज्ञापय । सुखं यथा स्यात्तथेत्यर्थः । योषेति हेतुगर्भविशेषणम् । त्वच्छास्त्रज्ञानाभावादित्यर्थः ॥ ३० ॥
मैत्रेय उवाच–
विदित्वाऽर्थं कपिलो मातुरित्थं जातस्नेहो यत्र तन्वाऽभिजातः ।
तत्त्वाम्नायं यत् प्रवदन्ति साङ्ख्यं प्रावोचद् वै भक्तिवितानयोगम् ॥ ३१ ॥
तात्पर्यम्
‘शुक्लेन जनिरन्येषां हरेः स्वतनुवैव तु । नित्योदितज्ञानतनोः कुतः स्याच्छुक्लतो जनिरि’ति गारुडे ॥ ३१ ॥
पदरत्नावली
मैत्रेयो विदुरायेमां कथां कथयतीति शुकः परीक्षिते वक्ति– विदित्वार्थमिति ॥ यत्र यस्यां सच्चिदानन्दमयकरचरणादिमत्या तन्वा अभिजातः शुक्लशोणितसम्पर्कं दूरीकृत्य प्रकाशितस् तस्या मातुरित्थमर्थम् अभिप्रायं विदित्वा मन्मातुर् भगवद्भक्तिश्रवणो तात्पर्यमभून्नान्यत्रेति जातः प्रवृद्धः स्नेहोऽनुग्रहलक्षणो यस्य स तथा कपिलो भगवान् यत् तत्वाम्नायं परमात्मादितत्वप्रतिपादकं साङ्ख्यशास्त्रं प्रवदन्ति तद् भक्तियोगवितानं भक्तियोगविस्तारलक्षणं शास्त्रं मात्रे प्रावोचद् व्याख्यातवानित्यन्वयः । हरेरितरवज्जननाङ्गीकारे ‘शुक्लेन जनिरन्येषां हरेः स्वतनुवैव तु । नित्योदितज्ञानतनोः कुतः स्यात् शुक्लतो जनिः ॥’ इति प्रमाणविरोधो दुर्निरासः । अत एव पुरा सत्यैव तन्वेत्युक्तम् । इतरेषां प्रागशरीरिणां पश्चाच्छरीरित्वेन जन्मदर्शनात् ॥ ३१ ॥
प्रकाशिका
अर्थमर्यत इति व्युत्पत्त्या ज्ञेयम् । जातस्नेहो जातानुग्रहः । अनुग्रहे निमित्तमाह ॥ यत्रेति । अत्र यत्र तन्वाभिजात इत्युक्त्या शुक्लशोणितसम्बन्धेन भगवतो देहोत्पत्तिरुच्यत इति प्रतीयतेऽतोऽत्र विवक्षितां जनिं प्रमाणेनैव दर्शयति ॥ शुक्लेनेति । अन्येषां हरिरमाव्यतिरिक्तानाम् । स्वतनुवैव स्वरूपभूततन्वैव । तुशब्दो ज्ञानानन्दादिरूपविशेषणार्थः । जनिः प्रादुर्भाव इत्यर्थः । यथाश्रुतस्वीकारे बाधकमाह ॥ नित्येति । नित्योदिता ज्ञानरूपा तनुर्यस्य । तथा च यत्र यस्यां तन्वा ज्ञानादिरूपनित्योदितदेहेनाभिजातः प्रादुर्भूत इति मूलं व्याख्येयमिति भावः । तत्त्वाम्नायं परमात्मादि-तत्त्वान्याम्नायन्ते पुनः पुनरुच्यन्ते यस्मिंस्तत्तथा । तत्सांख्यं शास्त्रम् । कथम्भूतम् । भक्तिवितानयोगं भक्तिं विस्तारेण स्वश्रवणेन योजयतीति भक्तिवितानयोगम् ॥ ३१ ॥
भगवानुवाच–
देवानां गुणलिङ्गानामानुश्राविककर्मणाम् ।
सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या ॥ ३२ ॥
तात्पर्यम्
‘आनुश्राविककर्माऽसौ श्रुत्युक्तं यो न लङ्घयेदि’ति भविष्यत्पर्वणि । ‘सदा सर्वगुणाढ्यत्वात्सत्वो विष्णुरुदीर्यत’ इति कापिलेये ॥ ३२ ॥
पदरत्नावली
यद्यपि सत्त्वादिगुणभेदेन भक्तिरप्यनेकधा । तथापि सात्विकसंज्ञमुत्तमाधिकारि-योग्यं भक्तियोगं निरूपयति– देवानामिति ॥ सत्त्वे एकमनस इत्येतत्पदद्वयं तन्त्रेणोपात्तन्यायेन द्विरा-वृत्त्या व्याख्येयम् । ‘सदा सर्वगुणाढ्यत्वात् सत्त्वो विष्णुरुदीर्यते’ इति वचनात् सत्त्वे सर्वगुणाढ्ये एव हरावेव एकमनस एकाग्रमनसः पुरुषस्य मनुष्याद्यन्यतमस्य गुणलिङ्गानां शब्दादिज्ञापनलक्षणानाम् इन्द्रियाभिमानिनामानुश्राविककर्मणां वेदोक्तकर्मानुष्ठानेन तदुक्तानतिलङि्घनां ‘आनुश्राविककर्मासौ श्रुत्युक्तं यो न लङ्घयेत्’ इत्युक्तेर् देवानां तत्विकसंज्ञानां सत्त्वे भगवति एकमनस एकाग्रतयान्य-व्यापारमन्तरेण अन्तःकरणस्य या वृत्तिः सा भक्तिरित्युच्यते । कीदृशी ? स्वाभाविकी गङ्गा-प्रवाहलक्षणा ॥ ३२ ॥
प्रकाशिका
मोक्षकामाधिकारिभक्त्यपेक्षया तदकामानामेव भक्तिरुत्तमेति सैव त्वया ज्ञातव्या कर्तव्या चेत्याशयेन तस्या लक्षणं दर्शयति ॥ देवानामिति । अत्रानुश्राविककर्मणामित्येतदप्रतीत्या प्रमाणेनैव दर्शयति ॥ आनुश्राविकेति । य इन्द्रियगणो, गुरोरुच्चारणमनुश्रूयत इत्यनुश्रवा श्रुतिः । तद्विहितमानुश्राविकं तदेव कर्म कार्यं यस्य स तथा । तस्येदं तात्पर्यं– श्रुत्युक्तं यो न लङ्घयेदिति । सत्व एवैकमनस इत्यत्र प्रकृतसङ्गतं सत्वशब्दार्थं प्रमाणेनैवाह ॥ सदेति ॥ ततश्चायं श्लोकार्थः ॥ सत्त्व एव सदा सर्वगुणाढ्ये विष्णावेवैकं मुख्यं मनो यस्य शुद्धसात्त्विकस्य पुंसो, देवानां द्योतनात्मका-नामिन्द्रियाणां गुणलिङ्गानां गन्धादिगुणोपलब्धिलक्षणस्वकार्यानुमेयानां तथा वचनादिक्रियानुमेयानां चानुश्राविककर्मणां श्रुत्युक्तानुष्ठानकरणानाम् ॥ ३२ ॥
अनिमित्ता भगवति भक्तिः सिद्धेर्गरीयसी ।
जरयत्याशु या कोशं निगीर्णमनलो यथा ॥ ३३ ॥
तात्पर्यम्
अपूर्णभक्तेर्मुक्तौ तु न सुखं पूर्तिमेष्यति । अतस्तादृशमुक्तेश्च भक्तिः पूर्णा गरीयसी’ति च ॥ ३३ ॥
पदरत्नावली
अनिमित्ता फलसङ्कल्परहिता । अत्यन्तचित्तनिरोधरूपत्वाद् दुःखहेतुशङ्का न कार्या । प्रत्युत पूर्णानन्दरूपत्वाद् अपक्वभक्त्यावाप्तमुक्तेरुत्तमेत्याह– सिद्धेरिति ॥ यस्मिन् काले पूर्णभक्तयः सब्रह्मचारिणो मुक्तिमेष्यन्ति तस्मिन्नेव समये मुक्तिप्राप्तियोग्यस्य भक्तिपरिपाकमनवाप्तस्य पुंसो या सिद्धिर् अपूर्णसुखलक्षणा मुक्तिस्तस्याः सिद्धेर्गरीयसी । तदुक्तम्– ‘अपूर्णभक्तेर्मुक्तौ तु न सुखं पूर्तिमेष्यति । अतस्तादृशमुक्तेश्च भक्तिः पूर्णा गरीयसी ॥’ इति । पूर्णसुखहेतुत्वाज् ज्ञानवदन्तरङ्गत्वाच्च गरीयस्त्वं युक्तमित्याह– जरयतीति ॥ कोशं लिङ्गशरीरम् । ‘कोशोऽस्त्री कुड्मले दिव्ये शास्त्रेऽर्थेऽथ गृहे तनौ’ इति यादवः । समूलतूलनाशस्य विवक्षितत्वात् तस्मिन्नेवार्थे दृष्टान्तमाह– निगीर्णमिति ॥ निगीर्णं सर्वतो ग्रस्तम् । देवानामसुरेन्द्रियाभिमानित्वेन पापकर्मणि तद्दर्शनेन जुगुप्सादिना चित्तविक्षेप-सम्भवेन भक्तेरात्यन्तिकत्वायोगादन्यत्र अभिमानित्वे उभयेषामपि भगवति मनोवृत्तेर्गङ्गाप्रवाहवत् सिद्धत्वेन तदभावात् ‘सत्वे एव एकमनसः पुंसः’ ‘गुणलिङ्गानाम्’ इति विशिष्योक्तेरभिप्रायः । सम्भावनामात्राभिप्रायेणोक्तमिदमित्येतावता भक्तेर्न्यूनातिरेकभावो न कल्पनीयः । हर्याज्ञाकारित्वेन तत्प्रीतिहेतुत्वात् । देवजातिमात्रपरिहाराय गुणलिङ्गानामिति । कल्याद्यसुरव्यावृत्तये आनुश्राविक-कर्मणामिति । तेषां वेदोक्तानुष्ठाननियमाभावात् । उक्तविशेषणवतां देवानां सत्त्वे भगवत्येकमनसो वृत्तिर्भक्तिरित्युक्तेऽधमाधिकारिभिः क्रियमाणाया अभक्तित्वमात्यन्तिकत्वाभावाश्च स्यात् । तस्मात् ‘कीदृशी मम गोचरा’ इति पृष्टत्वात् तत्परिहाराय च विभागो वक्तव्यः । देवानां सत्त्व एव एकमनसो वृत्तिरित्येतद् देवसामान्यभक्तिलक्षणम् । गुणलिङ्गानामिति तद्विशेेषभक्तिलक्षणम् । आनुश्राविक-कर्मणामिति सर्वसामान्यभक्तिलक्षणम् । स्वाभाविक्यनिमित्तेति सर्वत्र समम् । अधमाधिकारिभिः क्रियमाणा भक्तिरीदृशी । सिद्धेर्मुक्तेर्गरीयसी प्रधानसाधनभूता ॥ ३३ ॥
प्रकाशिका
या भगवत्यनिमित्ता फलोद्देशरहिता केवलं स्वाभाविकी निरवधिकस्नेहरूप-स्वभावनिर्वृता वृत्तिः सा भक्तिः सिद्धेर्मुक्तेर्गरीयसी । नन्विदं साधनस्य साध्यापेक्षयोत्तमत्त्वं बाधितम् इत्यतोऽत्राभिप्रायं प्रमाणेनैव दर्शयति ॥ अपूर्णभक्तेरिति । अनिमित्तत्वरूपाङ्गाभावेनापूर्णा सकामा भक्तिर्यस्य तस्याधिकारिणो मुक्तौ सत्यां तु विशेषेण पूर्तिमुत्तमाधिकारिभक्त्याऽभिव्यक्तसुखपूर्तिसमां पूर्तिं नेष्यति । भक्तिरुत्तमाधिकारिणामनिमित्ता भक्तिर्गरीयसी । इदानीमेवाधिकसुखाभिव्यक्तिहेतुत्वात्तदुत्तमा । न च तदेव कुत इति वाच्यम् । यतः पूर्णा सांगाऽनिमित्तत्वरूपाङ्गोपेतत्वात् । ततश्च साऽनिमित्ता भक्तिः सिद्धेः सकामतया व्यङ्गभक्तिसाध्यायाः परममुक्तेः सकाशाद्गरीयसी । अनिमित्तत्वरूपाङ्गला-भेनेदानीमेव तदपेक्षयाऽधिकसुखाभिव्यक्तिहेतुत्वादिति मूलाभिप्राय इति भावः । नन्वियं भक्तिरनुद्देशित-त्वान्न मुक्तिं जनयेदित्यतोऽनुद्देशितामपि मुक्तिं स्वभावादेव जनयतीति सदृष्टान्तमाह ॥ जरयतीति । कोशं लिङ्गशरीरं, निगीर्णं भुक्तमन्नम् । अनलो जाठरः ॥ ३३ ॥
नैकात्म्यतां मे स्पृहयन्ति केचिन्मत्पादसेवाभिरता मदीहाः ।
येऽन्योन्यतो भागवताः प्रसज्य सभा(सम्भा)जयन्ते मम पौरुषाणि ॥ ३४ ॥
तात्पर्यम्
‘नेच्छन्ति सायुज्यमपि फलत्वेन हरिर्यदि । ददाति भक्तिसन्तुष्ट आज्ञात्वेनैव गृह्णते । तादृशानां सुखाधिक्यं पुनर्मुक्तौ भविष्यती’ति च । आदानादिकर्तृत्वादात्मा ॥ ३४ ॥ इति तृतीयतात्पर्ये षड्विंशोऽध्यायः ॥ २६ ॥
पदरत्नावली
के ते आत्यन्तिकभक्तिकर्तारः येन तद्भक्तेर्मुक्तेर्गरीयस्त्वं स्यादिति तत्राह– नैकात्म्यतामिति ॥ ये भागवता अन्योन्यतः प्रसज्य मिलित्वा मम पौरुषाणि पराक्रमान् सम्भाजयन्ते संभाव्य वदन्ति शृण्वन्ति च ते मे मया दीयमानामप्यैकात्म्यतां मुक्तिं न स्पृहयन्ति नेच्छन्ति । यदि भक्तिसन्तुष्टो हरिः किमपि ददाति तदपि तदाज्ञात्वेनैव गृह्णन्ति न भक्तिफलत्वेन । ‘दीयमानं बालोऽपि गृह्णाति, किमुत प्रेक्षावान् ? अत इदं भगवता स्तूयते, न तु तत्त्वम्’ इति मन्दाशङ्का ‘नेच्छन्ति सायुज्यमपि फलत्वेन हरिर्यदि । ददाति भक्तिसन्तुष्ट आज्ञात्वेनैव गृह्णते । तादृशानां सुखाधिक्यं पुनर्मुक्तौ भविष्यति’ इत्यनेन परिहृतेति । कुतो नेच्छन्तीति तत्राह– मत्पादेति ॥ मम चरणनिषेवायाः पूर्णानन्दहेतुत्वादित्यर्थः । भगवदङ्घ्रिसेवायाः पूर्णानन्दहेतुत्वं कथम् ? तद्रतानामप्यन्यत्र प्रवृत्त्या दुःख-सम्भवादित्यत उक्तम्– मदीहा इति ॥ अनेन प्रासङ्गिकान्यप्रवृत्तावप्यन्ते मदर्पणेन साऽपि मत्कर्मवन् मत्प्रीतिजनकत्वेन मदीहैवेत्युक्तं भवति । ते च कियन्त इति तत्राह– केचिदिति ॥ ३४ ॥
प्रकाशिका
अनिमित्तभक्तिकर्तारः कीदृशा इत्यपेक्षायां तेषां स्थितिं दर्शयति ॥ नैकात्म्यता-मिति पञ्चभिः । अत्रैकात्म्यताशब्दार्थं, न स्पृहयन्तीत्यत्र विवक्षितमध्याहारं च प्रमाणेनैव दर्शयति ॥ नेच्छन्तीति । सायुज्यमपीत्यनेनैकात्म्यतामित्येतदुक्तार्थम् । तर्हि तेषां श्रुत्याद्युक्तसायुज्यप्राप्तिः कथ-मित्यत उक्तम् ॥ आज्ञात्वेनैवेति । सुखाधिक्यं यावत्स्वरूपाविर्भावः । पूर्वमपि बहुतरस्य जातत्वा-त्पुनरिति वचनम् । पञ्चमे येषामहमात्मेति वचनेनैक्यं प्रतीयतेऽतस्तत्र विवक्षितमात्मशब्दार्थं दर्शयति ॥ आदानादीति । न तु स्वरूपमित्यर्थः । प्रमाणविरुद्धत्वादिति भावः ॥ ततश्चायं श्लोकस्यार्थः ॥ केचिदुत्तमाधिकारिणो मे मया भक्तिफलत्वेन दीयमानामेकात्मतां सायुज्यमपि न स्पृहयन्ति नेच्छन्ति । किं त्वाज्ञात्वेन गृह्णते । मदीहा मद्विषयकसर्वव्यापारवन्तः प्रसज्य मिलित्वा सभाजयन्ते संभाव्य वदन्ति शृृण्वन्ति ॥ ३४ ॥
पश्यन्ति मे ते रुचिराण्यम्ब (रुचिराण्येव) सन्तः प्रसन्नवक्त्रारुणलोचनानि ।
रूपाणि दैत्यासुविनाशनानि साकं वाचं स्पृहणीयां वदन्ति ॥ ३५ ॥
पदरत्नावली
ऐकात्म्याकाङ्क्षाभावे हेत्वन्तरमाह– पश्यन्तीति ॥ भगवद्रूपसल्लापादेः कोऽन्योऽस्ति सुखहेतुरित्यतो नेच्छन्तीत्यर्थः ॥ ३५ ॥
प्रकाशिका
यानि रूपाणि पश्यन्ति तैः साकं सह स्पृहणीयामिष्टां वाचं वदन्ति ॥ ३५ ॥
तैर्दर्शनीयावयवैरुदारविलासहासेक्षितवामसूक्तैः ।
हृतात्मनो हृतप्राणस्य भक्तिमन्विच्छतो गतिमण्वीं प्रयुञ्जे ॥ ३६ ॥
पदरत्नावली
ननु कालशक्तेर्दुरतिक्रमत्वेन कञ्चित्कालं भगवति भक्तिं कुर्वतोऽन्यथापि संभवेन संसारस्यानिवृत्तिसम्भवेन भक्तेर्न किमपि प्रयोजनमित्याशङ्क्याह– तैर्दर्शनीयेति ॥ यैः सह वाचं वदन्ति यानि च पश्यन्ति तै रूपैर्हृतात्मनो ऽपहृतमनसो हृतप्राणस्य तद्विषयीकृतसर्वेन्द्रियचेष्टस्य भक्तिमेवा-न्विच्छतोऽपि पुंसः प्रसन्नोऽहमण्वीं सूक्ष्मां सायुज्यलक्षणां गतिं मुक्तिं प्रयुञ्चे ददामीत्यन्वयः । उदार-शब्दः प्रत्येकमभिसम्बध्यते । उदाराणि विलासहासेक्षितवामसूक्तानि येषां तानि तथा । वामान्यनुकूलानि सूक्तानि शोभनवचनानि ॥ ३६ ॥
प्रकाशिका
तैर्द्रष्टै रूपैर्दर्शनीया मनोहरा अवयवा येषु । वामान्यनुकूलानि सूक्तानि शोभन-वचनान्युदाराणि विलासादीनि येषां तैः । हृतात्मनोऽपहृतमनसो हृतप्राणस्यापहृतेन्द्रियवृत्तेर्भक्ति-मेवान्विच्छतोऽपि पुंसः प्रसन्नोऽहमण्वीं सूक्ष्मां सायुज्यलक्षणां गतिं मुक्तिं प्रयुञ्जे ददामि ॥ ३६ ॥
अथो विभूतिं मम मायया चितामैश्वर्यमष्टाङ्गमनुप्रवृत्तम् ।
श्रियं न देवीं स्पृहयन्ति भद्रां परस्य मे तेऽश्नुवते हि लोके ॥ ३७ ॥
पदरत्नावली
ननु सायुज्यभाजामन्तर्धूमदाहवद् दुःखरूपं स्यादिति तत्राह– अथो इति ॥ ये मम मायया चितां निर्मितां ध्वजच्छत्रव्यजनादिलक्षणां विभूतिम् अथो तथा अष्टाङ्गयोगमनुप्रवृत्तमनु-प्राप्तमणिमाद्यैश्वर्यं तथा भद्रां सर्वाङ्गसम्पन्नां देवीं द्योतमानां श्रियं गवाश्वादिसम्पदं न स्पृहयन्ति । ते परस्य सर्वोत्तमस्य मे लोके सच्चिदानन्दलक्षणे देहे अश्नुवते व्याप्य सुखमेवानुभूय तिष्ठन्तीत्यन्वयः । हिशब्दो मुक्तेर्विलक्षणत्वान्न लोकवदित्यर्थद्योतनार्थः । यद्वा सालोक्यमुक्तिमनेन वक्ति । तथाहि भक्तिज्ञानफलत्वेन विभूतिं स्वर्गं महर्लोकेऽनुवृत्तमष्टाङ्गैश्वर्यमिह लोके च समृद्धामुत्तुङ्गप्रासादादिसम्पदं च नेच्छन्ति । परिपक्ववैराग्यसमुद्रमग्नत्वात् ते मे लोके वैकुण्ठादवातिसुखमश्नुते इत्यतस्त्वमपि स्वर्गादीच्छां हित्वा सर्वोत्तमः सच्चिदानन्दलक्षणो ममात्यन्तमुपकारकत्वेन सर्वस्मात् प्रेष्ठो हरिरिति कृत्वा भजस्व । त्वयापीदृशो लोकः प्राप्यत इति कीदृशी मम गोचरेत्यस्य परिहार उक्त इति ॥ ३७ ॥
प्रकाशिका
न केवलं सायुज्यमेव प्राप्नुवन्ति किन्तु विभूत्यादिकमपीत्याह ॥ अथो इति । अथो मुक्त्यनन्तरं विभूतिं छत्रचामरादिलक्षणाम् । माययेच्छया चितां निर्मिताम् । अष्टाङ्गमैश्वर्य-मणिमादिरूपमनुप्रवृत्तं भक्तिफलत्वेन दीयमानं तथा भद्रां सर्वांगसम्पन्नां श्रियम् । देवीं द्योतमानां शरीरशोभां च परस्य मे सकाशान्मे लोकेऽश्नुवते मदाज्ञाया अनुल्लङ्घ्यत्वाद्भुंजते ॥ ३७ ॥
न कर्हिचिन्मत्पराः शान्तरूपा नङ्क्षयन्ति मे नोऽनिमिषो लेढि हेतिः ।
येषामहं प्रिय आत्मा सुतश्च सखा गुरुः सुहृदो दैवमिष्टम् ॥ ३८ ॥
पदरत्नावली
कालस्य सर्वत्र सत्त्वात् स्वतन्त्रत्वात् ततोऽपि केनचिद्धेतुना तान् निवर्तयतीति तत्राह– न कर्हिचिदिति ॥ हेत्वभावादित्याह– मे नो इति ॥ मे हेतिरायुधमनिमिषः कालचक्रं तान् नो लेढि नास्वादयति नाशलक्षणं कार्यं न करोतीत्यर्थः । अत्रापि हेतुरस्तीत्याह– येषामिति ॥ आत्मा स्वामी । ज्ञानवतोऽभिव्यक्तो भवतीति सुतः । चशब्दात् पिता च । अनेकविधव्यसनप्राप्तावहमेवा-निमित्तबन्धुरिति सुहृद इति बहुवचनम् ॥ ३८ ॥
प्रकाशिका
मद्दत्तान् भोगान्नाशयितुं तत्र कोऽपि न समर्थ इत्याशयेनाह ॥ न कर्हिचिदिति । अहमेव परः सर्वोत्तमो ज्ञेयो येषां ते मत्पराः । शान्तरूपाः सुखपूर्णस्वरूपा न नंक्ष्यन्ति कुतोऽपि भोगहीना न भविष्यन्ति । ननु तत्रापि कालस्य सत्वात्तेन विनाशः स्यादित्यत उक्तम् । मे मदीयोऽ-निमिषो हेतिः कालाख्यमायुधं तान्नो लेढि न ग्रसति । तत्र हेतुर्येषामिति । आत्माऽऽदानादिकर्ता सुत इव स्नेहविषयो, विश्वसनीयत्वात्सखोपदेष्टृत्वाद्गुरुर्हितकारित्वात्सुहृदः पूज्यत्वाद्दैवमिष्टम् ॥ ३८ ॥
इमं लोकं तथैवामुमात्मानमुभयायिनम् ।
आत्मानमनु ये चेमे ये रायः पशवो गृहाः ॥ ३९ ॥
विसृज्य सर्वानन्यांश्च मामेवं विश्वतोमुखम् ।
भजन्त्यनन्यया भक्त्या तान् मृत्योरतिपारये ॥ ४० ॥
पदरत्नावली
किं बहुना ? वैराग्यविजृम्भितया भक्त्या भजतां संसारतारकोऽहमेवेत्याह– इमं लोकमिति ॥ आत्मानं जीवम् उभयायिनं लोकद्वयसञ्चरिणम्, विज्ञायेति शेषः । ‘ये चेमे’ इत्युक्तं विवृणोति– ये राय इति ॥ रायो निष्कादयः । यद्वा ये चेमे सुतादयः ॥
विश्वतोमुखं सर्वस्मान्मुखं सर्वज्ञं वा । मृत्योः संसारादतीत्य पारये पारं मां प्रापयति । यद्वा पार समाप्ताविति धातोः संसारसमाप्तिं कृत्वा मुक्तान् करोमीति ॥ ३९,४० ॥
प्रकाशिका
वैराग्यविवृद्धया भक्त्या भजतां मोक्षप्रदोऽहमेवेत्याह ॥ इमं लोकमिति । उभयायिनं लोकद्वयसञ्चारिणम् । आत्मानं स्वात्मानमनु ये चेमे पुत्रकलत्रादयो रायो धनानि ॥ ३९,४० ॥
नान्यत्र मद् भगवतः प्रधानपुरुषेश्वरात् ।
आत्मनः सर्वभूतानां भयं तीव्रं निवर्तते ॥ ४१ ॥
पदरत्नावली
मत्तोऽन्यः संसारतारकोऽस्तीति शङ्कां मा कार्षीरित्याह– नान्यत्रेति ॥ प्रधानपुरुषयोः प्रकृतिहिरण्यगर्भयोर् ईश्वरात् । आत्मन आदानादिकर्तुः ॥ ४१ ॥
प्रकाशिका
अन्यो मोक्षप्रदो नेत्याह ॥ नान्यत्रेति । प्रधानपुरुषेश्वरात्प्रकृतिहिरण्यगर्भोत्तमा-दात्मन आदानादिकर्तुर्भगवतो अन्यत्रान्यस्मात्सर्वभूतानामधिकारिणां तीव्रं भयं संसाररूपं न निवर्तत इत्यन्वयः ॥ ४१ ॥
मद्भयाद् वाति वातोऽयं सूर्यस्तपति मद्भयात् ।
वर्षतीन्द्रो दहत्यग्निर्मृत्युश्चरति मद्भयात् ॥ ४२ ॥
पदरत्नावली
वाय्वादीनां स्वाधिकारप्रवृत्तिर्न स्वनियता, किमुत मुक्तिदानप्रवृत्तिः ? अथ उक्तार्थे तच्छङ्का दूरोत्सारितेत्याशयेनाह– मद्भयादिति ॥ ४२ ॥
प्रकाशिका
कुत इत्यतो ममैवेतरसर्वदेवनियामकत्वादित्याह ॥ मद्भयादिति ॥ ४२ ॥
ज्ञानवैराग्ययुक्तेन भक्तियोगेन योगिनः ।
क्षेमाय पादमूलं मे प्रविशन्त्यकुतोभयम् ॥ ४३ ॥
पदरत्नावली
अहमेव मुक्तिदाने नियतः । अत इदमेवात्र मुख्यसाधनमित्याह– ज्ञानेति ॥ योगिनो ज्ञानिनः । वाय्वादिवदन्यनियतत्वे तव मुक्तिदानशक्तिः प्रहता स्यादित्यत उक्तम्– अकुतो-भयमिति ॥ ४३ ॥
प्रकाशिका
मद्भजनेनैव मुक्तिरित्यत्र पुराकल्परूपार्थवादमाह ॥ ज्ञानेति । योगिनो ज्ञानिनः सन्तः ॥ ४३ ॥
एतावानेव लोकेऽस्मिन् पुंसां निःश्रेयसोदयः ।
तीव्रेण भक्तियोगेन मनो मय्यर्पितं स्थितम् ॥ ४४ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे षड्विंशोऽध्यायः ।
पदरत्नावली
एकग्रामप्रवेशे बहुमार्गवदनेके मार्गाः सम्भवेयुरित्याशङ्कां परिहरन् अन्ययोगं व्यवच्छिनत्ति– एतावानेवेति ॥ स्थितं, अचलत्वेनेति शेषः ॥ ४४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे षड्विंशोऽध्यायः ॥
प्रकाशिका
भक्तिरेव मोक्षे मुख्यसाधनं नान्यदिति निगमयति ॥ एतावानेवेति । मय्यर्पितं सन्मनः स्थितं स्थिरं भवतीति य एतावानेवेति ॥ ४४ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां षड्विंशोऽध्यायः ॥ ३-२६ ॥