निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः
अथ पञ्चविंशोऽध्यायः
मैत्रेय उवाच–
निर्वेदवादिनीमेवं मनोर्दुहितरं मुनिः ।
दयालुः शालिनीमाह शुक्लाभिव्याहृतं स्मरन् ॥ १ ॥
तात्पर्यम्
‘मालिनी शालिनी माल्या चार्या भार्येति चोच्यत’ इति च ॥ १ ॥
पदरत्नावली
हरेरवतारा अपि सच्चिदानन्ददेहत्वाच्छुक्रशोणितसम्पर्कप्रारब्धशरीरा न भवन्ती-त्याद्यर्थतात्पर्यावबोधायास्याध्यायस्यारम्भः । तत्रादौ कर्दमेन देवहूत्युक्तस्य किमुत्तरत्वेनाभाणीति तत्राह– निर्वेदवादिनीमिति ॥ निर्वेदं वैराग्यं वदितुं प्रतिपादयितुं शीलमस्य अस्तीति निर्वेदवादिनी तां शालिनीं भार्याम् । ‘शालिनी मालिनी माल्या चार्या भार्येति चोच्यते’ इत्यभिधानात् । शुक्लनाम्नो हरेरभिव्याहृतं वचनम् ॥ १ ॥
प्रकाशिका
निर्वेदं वैराग्यं वदितुं शीलमस्या अस्तीति निर्वेदवादिनी ताम् । अत्र शालिनी-शब्दार्थं दर्शयितंु अभिधानमेव पठति ॥ मालिनीति । तथा च शालिनीं भार्यामिति व्याख्येयमिति भावः । शुक्लेन भगवता यदभिव्याहृतं सम्भूय स्वांशकलयेत्यादिरूपं वचनम् ॥ १ ॥
ऋषिरुवाच–
मा खिदो राजपुत्रीत्थमात्मानं प्रत्यनिन्दिते ।
भगवांस्तेऽक्षरो गर्भमदूरात् संप्रपत्स्यते ॥ २ ॥
पदरत्नावली
आत्मानं त्वां च मां च प्रति । पितुः शुक्ररूपेण मातृयोनौ न क्षरतीत्यक्षरः । तत्र हेतुर्भगवानिति ॥ २ ॥
प्रकाशिका
आत्मानं त्वां मां च प्रति । अक्षरो देहनाशशून्यः ॥ २ ॥
धृतव्रता सुभद्रं ते दमेन नियमेन च ।
तपोद्रविणदानैश्च श्रद्धया चेश्वरं भज ॥ ३ ॥
स त्वयाऽऽराधितो शुक्लो वितन्वन् मामकं यशः ।
छेत्ता ते हृदयग्रन्थिमौदर्यो ब्रह्मभावनः ॥ ४ ॥
पदरत्नावली
कदा प्रतिपत्स्यत इत्याशङ्क्य मदुक्तनियमानन्तरमाविर्भविष्यतीति भावेन नियम-माह– धृतव्रतेति ॥ अपि स्यान्मे विशोकायेति प्रश्नं प्रत्याह– स त्वयेति ॥ ब्रह्माणं चतुर्मुखं भावय-त्युत्पादयतीति, ब्रह्म परमात्मतत्त्वं ग्राहयतीति वा, तपश्चर्याबुद्धिमुत्पादयतीति वा ब्रह्मभावनः । औदर्यः पुत्रतयाऽवतीर्णः । हृदयग्रन्थिमहकारबन्धं संसारम् ॥ ३,४ ॥
प्रकाशिका
स शुक्लस्त्वयाऽऽराधितः सन् ते औदर्यः पुत्रतयाऽवतीर्णो, हृदयग्रन्थिमहंकार-ममकाररूपं संसारबीजं छेत्स्यति । ब्रह्म चतुर्मुखं भावयतीति ब्रह्मभावनः । ब्रह्म परं ब्रह्म भावयत्युप-दिशतीति वा ॥ ३,४ ॥
मैत्रेय उवाच–
देवहूत्यपि सन्देशं गौरवेण प्रजापतेः ।
सम्यक् श्रद्धाय पुरुषं कूटस्थमभजद् गुरुम् ॥ ५ ॥
पदरत्नावली
देवहूत्यपि ‘दमादीनां दुःसहत्वान् नेदानीं तत्करणं, प्रकारान्तरं चेदुपदिश्यताम्’ इति भावेन भर्तृवचनं नोदास्ते, किन्तु श्रद्धयाऽन्वतिष्ठदित्याह– देवहूतीति ॥ संसारिचेतनव्यावृत्तये कूटस्थमिति । सर्वव्यापिरूपवन्नोदासीनम् । ब्रह्मादिज्ञानोपदेष्टारमिति भावेनोक्तं गुरुमिति ॥ ५ ॥
प्रकाशिका
श्रद्धाय विश्वस्य ॥ ५ ॥
तस्यां बहुतिथे काले भगवान् मधुसूदनः ।
कार्दमं वीर्यमापन्नो जज्ञेऽग्निरिव दारुणि ॥ ६ ॥
तात्पर्यम्
‘नावतारेष्वपि हरेर्देहः शुक्लादिसम्भवः । तथापि शुक्लसंस्थः सन्मातृदेहं प्रविश्य च । विलाप्य शुक्लं तत्रैव केवलज्ञानरूपकः । उदेति भगवान्विष्णुः काले लोकं विमोहयन्नि’ति महावाराहे ॥ अग्निरिव दारुणीति व्यक्तिस्थानमात्रत्वे दृष्टान्तः ॥ ६ ॥
पदरत्नावली
बह्व्यामपि साधनसामग्य्रां कार्यानुत्पत्तिवदत्रापि तथा किम्? नेत्याह– तस्या-मिति ॥ बहूनां तिथिविशेषाणां कालावयवानां पूरणे काले गते सति कार्दमं कर्दमभुक्तान्नविकार-मणीयांसं वीर्यं रेत आपन्नः प्रविष्टस् तस्य रेतस आपदं विलापनलक्षणां नयतीति आपन्नो वा तस्यां देवहूत्यां जज्ञे प्रादुर्बभूव । अस्यायमेवार्थ इत्यत्र तादृशं दृष्टान्तमाह– अग्निरिवेति ॥ यथाग्निर्दारुणि स्थितो दारुतश्चाभिव्यक्तो भवति । अत एव तस्यामित्युक्तम् । पूर्वमपि तत्र सत्वात् । एतत् सर्वं ‘नावतारेष्वपि हरेर्देहः शुक्लादिसम्भवः । तथापि शुक्लसंस्थः सन् मातृदेहं प्रविश्य च । विलाप्य शुक्लं तत्रैव केवलज्ञानरूपतः । उदेति भगवान् विष्णुः काले लोकं विडम्बयन्’ इत्यादि ग्रन्थान्तरसिद्धम् । काले दशमे मासे ॥ ६ ॥
प्रकाशिका
बह्व्यस्तिथयोऽवयवभूता यस्य कालस्य स बहुतिथस्तस्मिन्काले गते सति । कार्दमं वीर्यं रेत आपन्नः प्रविष्टस्तस्यां देवहूत्यां जज्ञे । अत्र शुक्लशोणितसम्बन्धेनास्मदादिदेहवद्भगवद्देहो जात इति प्रतीयते । न चाप्राकृतविग्रहे तत्सम्भवति । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ नावतारेष्वपीति । काले दशमे मासि । तथा च लोकमोहनाय भगवतैवं प्रदर्शितं यत्तदत्रानूदितं न तु वास्तवमुक्तमतो न कोऽपि दोष इति भावः । नन्वग्नेर्दारुव्यतिरेकेणानवस्थानवत् कपिलस्य देवहूति-व्यतिरेकेणानवस्थानाभावात्कथं दारुण्यग्निरिवेति दृष्टान्त इत्यतोऽस्य तात्पर्यमाह ॥ अग्निरिव दारुणीति । मात्रशब्देन तद्व्यतिरेकेण स्थित्यभावं व्यावर्तयति । अत एव जज्ञ इति व्यक्त्यर्थक-जनिधातुप्रयोग इति भावः ॥ ६ ॥
अवादयंस्तदा व्योमि्न वादित्राणि घनाघनाः ।
गायन्ति तं स्म गन्धर्वा नृत्यन्त्यप्सरसो मुदा ॥ ७ ॥
पदरत्नावली
तत्र साक्षान्नारायण एव रूपान्तरेणाभिव्यक्तो लोकविलक्षणोत्सवदर्शनादिति भावेन तं कालं विशिनष्टि– अवादयन्नित्यादिना ॥ घनाघना गर्जन्तो मेघाः, जगर्जुरिति शेषः ॥७॥
प्रकाशिका
घनाघना इत्येकं पदं वर्षन्तो मेघा इत्यर्थः । जगर्जुरिति शेषः ॥ ७ ॥
पेतुः सुमनसो दिव्याः खेचरैरपवर्जिताः ।
प्रसेदुश्च दिशः सर्वा अम्भांसि च मनांसि च ॥ ८ ॥
पदरत्नावली
तस्मिन् हरौ व्यज्यमाने, अपवर्जिता अधःपातिताः ॥ ८ ॥
प्रकाशिका
अपवर्जिताः प्रक्षिप्ताः ॥ ८ ॥
तत् कर्दमाश्रमपदं सरस्वत्या परिप्लुतम् ।
स्वयम्भूः सार्धमृषिभिर्मरीच्यादिभिरभ्यगात् ॥ ९ ॥
पदरत्नावली
इतोऽपि हरिरेवाभिव्यक्तः । इतरथा ब्रह्माद्यागमनासंभवादित्यशयेनाह– तत् कर्दमेति ॥
प्रकाशिका
परिप्लुतं चेष्टितम् ॥ ९ ॥
भगवन्तं परं ब्रह्म सत्त्वेनांशेन शत्रुहन् ।
तत्त्वसंख्यानविज्ञप्त्यै जातं विद्वानजः स्वराट् ॥ १० ॥
तात्पर्यम्
महागुणैश्च पूर्णत्वं (महागुणाभिपूर्णत्वं) सत्वमित्युच्यते बुधैरि’ति वामने ॥
पदरत्नावली
सरस्वत्या परिप्लुतमिति विशेषितत्वात् तीर्थस्नानार्थं तेषामागमनं किम् ? तत्राह– भगवन्तमिति ॥ आद् विष्णोर्जात इत्यजस्य चतुर्मुखत्वे सिद्धेऽपि तस्य भक्त्याद्यतिशयत्वद्योतनाय– स्वराडिति ॥ मनोवाक्कायकर्मभिः स्वतन्त्रे राजत इति । स्वेन राजत इति वा । ‘न भारती मेऽङ्ग मृषा’ इत्यादेः । सत्त्वेन सर्वगुणपरिपूर्णत्वेन सिद्धेनांशेन । किम्प्रयोजनोऽयमवतार इत्यत उक्तम्– तत्त्वेति ॥ चतुर्विंशतितत्त्वानां सङ्ख्यानं सम्यग्ज्ञानं तस्य विज्ञप्त्यै विज्ञापनाय । सत्त्वस्य प्रकृति-गुणेष्वेकत्वात् तेन प्राकृतदेहेन जात इत्येवार्थ इतीदं चोद्यं ‘महागुणाभिपूर्णत्वं सत्त्वमित्युच्यते बुधैः’ इत्यनेन परिहर्तव्यम् । ‘केवलो निर्गुणश्च’ इति श्रुतेश्च । अत्र संख्यानमित्यनेन सम्यग्ज्ञानमेव कथ्यते । न तु दुष्टकपिलोक्तं शास्त्रम् । कुतः ? ‘सम्यग्ज्ञानं तु साङ्ख्यं स्यात् तदर्थो योग उच्यते’ इति वचनात्
॥ १० ॥
प्रकाशिका
सत्त्वेनेत्यस्य सत्त्वगुणेनेत्यन्यथाप्रतीतिवारणायात्र विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ महागुणैश्चेति । चशब्दो पूर्वप्रसक्तसमुच्चयार्थः । तथाच सत्त्वेन महागुणपूर्णेनांशेन स्वरूपांशेन जातमभिव्यक्तमिति व्याख्येयमिति भावः । स्वः परमात्मा तेन राजत इति स्वराट् ॥१०॥
सभाजयन् विशुद्धेन चेतसा तच्चिकीर्षितम् ।
प्रहृष्यमाणैरसुभिः कर्दमं चेदमभ्यधात् ॥ ११ ॥
पदरत्नावली
ब्रह्मणाऽऽगत्य किं वचनमुक्तम् ? तत्राह– सभाजयन्निति ॥ तस्य हरेश्चिकीर्षितं सम्यग्ज्ञानसाधनशस्त्रनिर्माणेच्छां सभाजयन् साध्विति बहुमानयन् हरेर्भक्तानुकम्पित्वेन प्रहृष्यमाणैर-सुभिरिन्द्रियैरुपलक्षितः । चशब्देन हरेश्चिकीर्षा सभाजनं कर्दमसम्भाषणं च समुच्चिनोति ॥ ११ ॥
प्रकाशिका
तस्य हरेश्चिकीर्षितं कर्तुमिष्टं साङ्ख्यशास्त्रनिर्माणं सभाजयन्पूजयन् । साध्विति बहुमानयन्निति यावत् । अत एव प्रकर्षेण हृष्यमाणैरसुभिरिन्द्रियैः । चकाराद्देवहूतिं च ॥ ११ ॥
ब्रह्मोवाच–
त्वया मेऽपचितिस्तात कल्पिता निर्व्यलीकतः ।
यन्मे सञ्जगृहे वाक्यं भवान् मानद मानयन् ॥ १२ ॥
एतावत्येव शुश्रूषा कार्या पितरि पुत्रकैः ।
बाढमित्यनुमन्येत गौरवेण गुरोर्वचः ॥ १३ ॥
पदरत्नावली
सामान्येनोक्तं विशिनष्टि– त्वयेति ॥ अपचितिः पूजा । केयमपचितिः ? अत्राह– यन्मे सञ्जगृह इति ॥ एतावता कथमपचितिरभूदित्यत्राह– एतावतीति ॥ बाढमभिमतम् अनुमन्येत करोमीति यावद् एतावत्येव ॥ १२,१३ ॥
प्रकाशिका
तत्र त्वयेति पञ्चभिः कर्दमं प्रत्याह । अपचितिः पूजा ॥ १३ ॥
इमा दुहितरः सत्यस्तव वत्स सुमध्यमाः ।
सर्गमेताः प्रभावैः स्वैर्बृंहयिष्यन्ति नैकधा ॥ १४ ॥
पदरत्नावली
किमनया स्तुत्या ? अथापि प्रजाः सृजेति भवदाज्ञा न निस्तीर्णेति तत्राह– इमा इति ॥ सत्यः सन्त्विति शेषः । सतीगुणेन किं फलम् ? तत्राह– सर्गमिति ॥ सर्गमवशिष्टमिति शेषः। अनेन मदाज्ञा च कृता स्यादित्युक्तं भवति ॥ १४ ॥
प्रकाशिका
सत्यः पतिव्रताः । हे वत्स कर्दम । बृंहयिष्यन्ति वर्धयिष्यन्ति ॥ १४ ॥
अतस्त्वमृषिमुख्येभ्यो यथाशीलं यथारुचि ।
आत्मजाः परिदेह्यङ्ग विस्तृणीहि यशो भुवि ॥ १५ ॥
पदरत्नावली
मानुषसर्गस्तु मिथुनेन भाव्यत इति यस्मादत आसां योग्येभ्यो वरेभ्यो यथारुचि देहीत्याह– अत इति ॥ अनेनोभौ लोकौ च प्राप्नोषीत्याशयेनाह– विस्तृणीहीति ॥ विस्तृणीहि विस्तृतं कुरु ॥ १५ ॥
प्रकाशिका
ऋषिमुख्येभ्यो मरीच्यादिभ्यः । विस्तृणीहि विस्तृतं कुरु ॥ १५ ॥
वेदाहमाद्यं पुरुषमवतीर्णं स्वमायया ।
भूतानां शेवधिं देहं बिभ्राणं कपिलं मुनिम् ॥ १६ ॥
पदरत्नावली
अयं तव गृहेऽवतीर्णः साक्षान्नारायण एव नान्यस्तल्लक्षणसद्भावादित्यहं वेद्मि । त्वमपि तथा विद्धीत्यभिप्रेत्याह– वेदाहमिति ॥ भूतानां जीवानां शेवधिं पुरुषार्थसाधननिधिं देहं बिभ्राणं, कं पिबति लाति चेति कपिलं नाम्नाऽहं वेदेत्यन्वयः ॥ १६ ॥
प्रकाशिका
स्वमायया स्वेच्छया भूतानां मुक्तियोग्यानां शेवधिं पुरुषार्थसाधने निधिस्थानीयं देहं बिभ्राणम् ॥ १६ ॥
ज्ञानविज्ञानयोगेन कर्मणामुद्धरंश्च यः ।
हिरण्यकेशः पद्माक्षः पद्ममुद्रापदाम्बुजः ॥ १७ ॥
पदरत्नावली
यो ज्ञानविज्ञानयोगेन कर्मणां स्वरूपमुद्धरन् प्रकाशयन् उन्मूलयन् वा, यश्च हिरण्यकेशादिस्वलक्षणलक्षितस्तमिति शेषः । ‘हिरण्यश्मश्रुर्हिरण्यकेशः’ इत्यादिश्रुतेः ॥ १७ ॥
प्रकाशिका
इदानीं देवहूतिं प्रत्याह त्रिभिः । ज्ञानेति । ज्ञानविज्ञानाख्ययोगेन मोक्षोपायेन । कर्मणां संसारमूलभूतानि कर्माण्युद्धरन् उत्पाटयिष्यन् । हिरण्यकेशादिस्वलक्षणलक्षितः ॥ १७ ॥
एष मानवि ते गर्भं प्रविष्टः कैटभार्दनः ।
अविद्यासंशयग्रन्थिं च्छित्त्वा गां विचरिष्यति ॥ १८ ॥
पदरत्नावली
स्वस्य जगद्गुरुत्वादिसिद्धये देवहूत्या अपि स्वविज्ञानमुपदिशति– एष मानवीति ॥ तव तत्त्वविज्ञापनेनाविद्यासंशयग्रन्थिं, अज्ञानमविद्या विकल्पः संशयः, ताभ्यामुत्पन्नग्रन्थिं बन्धनं पाशलक्षणं च्छित्त्वा गां भूमिं विचरिष्यति । स्वपादैकशरणानां तत्वज्ञापनायेति शेषः ॥ १८ ॥
प्रकाशिका
ते तव । अविद्याऽज्ञानमूलो भ्रमः संशयः परापरतत्त्वविषयकस्तयोर्ग्रंथिं मूलकारण-भूतं जडान्तःकरणं तत्त्वविज्ञापनेन च्छित्वा गां भूमिमन्येषामपि भक्तानां तत्त्वविज्ञापनाय विचरिष्यति
॥ १८ ॥
अयं सिद्धगणाधीशः साङ्ख्याचार्यैः सुसम्मतः ।
लोके कपिल इत्याख्यां गन्ता ते कीर्तिवर्धनः ॥ १९ ॥
तात्पर्यम्
‘सम्यग्ज्ञानं तु साङ्ख्यं स्यात्तदर्थो योग उच्यत’ इति कापिलेये ॥ १९ ॥
पदरत्नावली
न केवलं तवाविद्यासंशयग्रन्थिं च्छिनत्ति । किन्त्वन्येषामपीति भावेनाह– अयमिति ॥ अयं भगवान् लोके कपिल इत्याख्यां गन्ता इत्यन्वयः । संसारकम्पलयहेतुत्वात् कपिल इत्यस्मिन्नर्थे विप्रतिपत्तिर्नास्तीत्याह– साङ्ख्येति ॥ साङ्ख्यशास्त्रं कृृत्वा प्रवर्तकत्वेन तदाचार्याणां पुरुषाणां परमगुरुत्वेन तैः सुसम्मतोऽविप्रतिपन्नः । कुतर्कबृंहितसाङ्ख्यकर्ता नायमित्याह– सिद्धेति ॥ सिद्धा मुक्तास्तेषां गणस्याधीशः । अन्यकपिलस्यैतदभावात् । इतोऽपि न दुष्टकपिलोऽयमित्याह– ते कीर्तिवर्धन इति ॥ १९ ॥
प्रकाशिका
नायं दुष्टकपिल इत्याह ॥ अयमिति । सिद्धगणानां ज्ञानिसमूहानामधीशः । कुतः । यतः साङ्ख्याचार्यैः सुसम्मतः । अत्र दुष्टकपिलस्यापि सांख्याचार्यसंमतत्वात्तद्व्यावर्तनाय साङ्ख्य-शब्दार्थं प्रमाणैनैव दर्शयति ॥ सम्यग्ज्ञानं त्विति । तुशब्दोऽवधारणे । तदर्थस्तज्जनको यमनियमादिः । तथा च सांख्याचार्यैः सम्यग्ज्ञानप्रवर्तकैः सुसम्मतः स्वगुरुत्वेन सम्यङ्निश्चित इत्यर्थः । दुष्टस्तु नैतादृश इति भावः ॥ १९ ॥
मैत्रेय उवाच–
तावाश्वास्य जगत्स्रष्टा कुमारैः सह नारदः ।
हंसो हंसेन यानेन स्वधाम प्रत्यपद्यत ॥ २० ॥
पदरत्नावली
मानुषैः सह बहुलं सम्भाषणं न न्याय्यमिति भावेन जगत्स्त्रष्टुः स्वधामाभिगमनं वक्ति– ताविति ॥ हंसो निर्मलः ॥ २० ॥
प्रकाशिका
कुमारैः सनकादिभिः । सहेत्यस्य पूर्वत्रोत्तरत्र च सम्बन्धः । हंसो निर्मलो ब्रह्मा
॥ २० ॥
गते शतधृतौ क्षत्तः कर्दमस्तेन चोदितः ।
यथोदितं स्वदुहितॄः प्रादाद् विश्वसृजां ततः ॥ २१ ॥
पदरत्नावली
कर्दमेन पुत्राननदर्शनेन धातुर्वचनं न विस्मृतमिति भावेन तदुक्तं करोतीत्याह– गत इति ॥ शतधृतौ शतानन्दे चतुर्मुखे । तत इत्यनेन न विलम्बः कृत इति ध्वनयति ॥ २१ ॥
प्रकाशिका
शतधृतौ शतसङ्ख्याकगुणावधितारतम्यावधिभूते ब्रह्मणि विश्वसृजां मरीच्यादीनाम्
॥ २१ ॥
मरीचये कलां प्रादादनसूयामथात्रये ।
श्रद्धामङ्गिरसेऽयच्छत् पुलस्त्याय हविर्भुवम् ॥ २२ ॥
पदरत्नावली
मन्दमतीनां सम्यगवबोधाय वरान् व्यनक्ति– मरीचय इति ॥ २२ ॥
प्रकाशिका
एतदेव विविच्याह ॥ मरीचय इति । कलां कलानाम्नीम् । एवमुत्तरत्रापि ॥२२॥
पुलहाय गतिं युक्तां क्रतवे च क्रियां सतीम् ।
ख्यातिं च भृगवेऽयच्छद् वसिष्ठायाप्यरुन्धतीम् ॥ २३ ॥
प्रकाशिका
युक्तां योग्यामिति सर्वत्र विशेषणम् ॥ २३ ॥
अथर्वणेऽददाच्छान्तिं यया यज्ञो वितन्वते ।
विप्रर्षभान् कृतोद्वाहान् सदारान् समलालयत् ॥ २४ ॥
पदरत्नावली
कर्दमो जामातृणां दुहितृषु प्रीत्यर्थं किमकार्षीदिति तत्राह– विप्रर्षभानिति ॥ समलालयत्, धनमानाभ्यामिति शेषः ॥ २४ ॥
प्रकाशिका
वितन्वते समृद्धः क्रियते । समलालयद्धनमानाभ्यां सन्तोषितवान् ॥ २४ ॥
ततस्त ऋषयः क्षत्तः कृतदारा निमन्त्र्य तम् ।
प्रातिष्ठन् नन्दमापन्नाः स्वंस्वमाश्रममण्डलम् ॥ २५ ॥
पदरत्नावली
तल्लालिता जामातरस्तत्प्रीत्यर्थे तदाश्रम एव किमवसन् उत स्वाश्रममयासिषुर् उभयमपि सम्भावितमिति तत्राह– तत इति ॥ कृतदारा विहितभार्या भार्यान्तरप्राप्तीच्छारहिता वा । ‘युगेऽक्षपाते पर्याप्ते कृतं क्लीबे हितेऽर्थवत्’ इति यादवः । नन्दं धनमानाभ्यां समृद्धिमापन्नाः प्राप्ताः
॥ २५ ॥
प्रकाशिका
कृतदारा विवाहितभार्याः । नन्दं तोषमापन्नाः प्राप्ताः सन्तः ॥ २५ ॥
स चावतीर्णं त्रियुगमाज्ञाय विबुधर्षभम् ।
विविक्त उपसङ्गम्य प्रणम्य समभाषत ॥ २६ ॥
तात्पर्यम्
‘युगत्रयावतारेण त्रियुगश्चेति कथ्यत’ इति पाद्मे ॥ २६ ॥
पदरत्नावली
सूचीकटाहन्यायेन कर्दमजामातृणामनवसरादुक्तं कथाप्रसङ्गं विश्राव्य पुनरपि कर्दमचरितशेषं वक्ति– स चेति ॥ कृतादिषु त्रिषु युगेषु प्रादुर्भावो यस्य स त्रियुगस्तम् । ‘युगत्रयाव-तारेण त्रियुगश्चेति कथ्यते’ इति च । आत्मना ब्रह्मवचनेन च सम्यग् ज्ञात्वा । विविक्त एकान्ते ॥२६॥
प्रकाशिका
पुनः कर्दमचरितशेषं वक्ति ॥ स चेति । चशब्दः प्रकृतत्वानुसन्धानार्थः । अत्र त्रियुगमित्येतदप्रतीत्या प्रकृतसङ्गततया प्रमाणेनैव व्याख्याति ॥ युगत्रयेति । तथा च कृतादीनि त्रीणि युगान्यवतारार्थं यस्य स त्रियुगस्तमिति व्याख्येयमिति भावः । विविक्ते रहसि ॥ २६ ॥
अहो पापच्यमानानां निरये स्वैरमङ्गलैः ।
कालेन भूयसा नूनं प्रसीदन्तीह देवताः ॥ २७ ॥
पदरत्नावली
स्वाभीष्टश्रवणायोपोद्घातं रचयति– अहो इति ॥ निरये नरकतुल्ये संसारे देवतास्तात्विका इन्द्रियाभिमानिदेवताः ॥ २७ ॥
प्रकाशिका
स्वाभीष्टं प्रष्टुं कपिलमभिनन्दयन्नाह ॥ अहो इत्यादि सप्तभिः । निरये नरकतुल्ये संसारे पापच्यमानानां पुनःपुनर्भृशं दह्यमानानां, स्वैः स्वीयैरमङ्गलैः पापैः ॥ २७ ॥
बहुजन्मविपक्वेन सम्यग् योगसमाधिना ।
द्रष्टुं यतन्ते यतयः शून्यागारेषु यत्पदम् ॥ २८ ॥
पदरत्नावली
भगवत्प्रसादं विना देवताप्रसादेन किं स्यादित्याशङ्क्य तत्प्रसादविनाभूतः, अन्यथा तत्प्रसाद एव न स्याद् अतस्तस्य श्रीनारायणस्य प्रसादो नैकेन जन्मना, किन्तु बहुभिर्जन्मभिर् योग्यानामेवोपासकानां स्यादित्याह– बहुजन्मेति ॥ यतयो निर्जितेन्द्रियग्रामाः । शून्यागारेषु एकान्त-स्थानेषु मठवनादिषु । समीचीनेन निर्दोषेण भक्तियोगेनाष्टाङ्गयोगेन वा युक्तेन समाधिनाऽसंप्रज्ञातसंज्ञेन । यस्य पदं स्वरूपम् ॥ २८ ॥
प्रकाशिका
बहुषु जन्मसु विपक्वेन सुप्रसिद्धेन । विपाकेनेति पाठे बहुभिर्जन्मभिर्विपाकः सिद्धिर्यस्य तेनेति व्याख्येयम् । सम्यग्योगः समीचीनो भक्तियोगः । अष्टाङ्गयोगो वा । तेन जातेन समाधिना चित्तैकाग््रयेण । शून्यागारेषु विविक्तस्थलेषु ॥ २८ ॥
स एव भगवानद्य हेलनं न गणय्य नः ।
गृहेषु जातो ग्राम्याणां यः स्वानां पक्षपोषणः ॥ २९ ॥
पदरत्नावली
यश्च स्वानां स्वभक्तानां पक्षं पुष्णातीति पक्षपोषणः स एव भगवानद्य ग्राम्याणां विषयलोलानां नो हेलनमवज्ञां न गणय्यानादृत्य केवलानुग्रहलक्षणबुद्ध्या गृहेषु जातः प्रादुर्भूत इत्यन्वयः । न इत्युक्त्यनुसारेण गृहेष्विति बहुवचनम् । नोऽस्मादृशानामिति वा ॥ २९ ॥
प्रकाशिका
हेलनमवज्ञां न गणय्यागणयित्वा । उचितमेव तस्यैतदित्याह ॥ य इति ॥ यः स्वानां भक्तानां पक्षमभीष्टं पुष्णातीति पक्षपोषण इति ॥ २९ ॥
स्वीयं वाक्यमृतं कर्तुमवतीर्णोऽसि मे गृहे ।
चिकीर्षुर्भगवन् ज्ञानं (शर्म) भक्तानामभिवर्धनः ॥ ३० ॥
पदरत्नावली
किञ्च भक्तानामभिवर्धनस्तेषामेव शर्म सुखं चिकीर्षुस्त्वं तव पुत्रत्वेनाव-तरिष्यामीति स्वीयं वाक्यम् ऋतं सत्यं कर्तुं मे गृहे भार्यायामवतीर्णोऽसीत्यन्वयः । भक्तशर्मकरणाय तदभिमानवर्धनाय स्ववाक्यसत्यत्वकरणाय चेत्यवतार इति गम्यते ॥ ३० ॥
प्रकाशिका
भक्तानाम् अभिवर्धनस्तेषामेव ज्ञानं चिकीर्षुस्त्वं तव पुत्रत्वेनावतरिष्यामीति स्वीयं वाक्यमृतं सत्यं कर्तुं मे गृहे भार्यायामवतीर्णोऽसीत्यन्वयः ॥ ३० ॥
तान्येव तेऽभिरूपाणि रूपाणि भगवंस्तव ।
यानि यानीह रोचन्ते स्वजनानामरूपिणः ॥ ३१ ॥
तात्पर्यम्
यानि यानि ब्रह्मादिरूपाणि रोचन्ते स्वजनानां तान्येव ते व्यक्त्यर्थमभि-रूपाणि । ‘व्यक्तो भवेद्धरिस्तत्र यत्स्थानं रचितं सतामि’ति कौर्मे ॥ ३१ ॥
पदरत्नावली
अर्थान्तरं चास्तीति कथयति– तान्येवेति ॥ स्वजनानां स्वभक्तानां यानि यानि वसुदेवदेवक्यादिरूपाणि अभिव्यक्त्यर्थं रोचन्ते अभीष्टानि भवन्ति । तान्येव, न रूपं प्राकृतमस्यास्तीति अरूपी तस्य तवाभिरूपाणि प्रियाणि । अत इदानीं ब्रह्मादिभक्तानामस्मद्गृहेऽवतारस्येष्टत्वाद् अस्मत् पुत्रत्वेनावतीर्णोऽस्तीति पूर्वेणान्वयः । ‘‘रुच्यर्थानां प्रियमाण’’ इति सूत्रात् स्वजनेभ्य इति वक्तव्ये स्वजना-नामिति षष्ठी स्वस्वामित्वसम्बन्धज्ञापनायेति ज्ञातव्यम् । यत्तु ब्रह्मादिरूपाणीति श्रीमद्भगवत्पादाचार्यवचनं तत् प्रतिमात्वेन तद्योग्यानां भगवदुपासनादिसङ्ग्रहार्थत्वद्योतनाय, ‘सत्त्वं विशुद्धं वसुदेवशब्दितम्’ इत्यादिनैव तत्सिद्धेश्चेति सन्तोष्टव्यम् । यद् भक्तानामभीष्टं तत्र तवावतार इत्यत्र किं प्रमाणमवलम्ब्यावध्रियत इत्यत एवकारेण ‘व्यक्तो भवेद्धरिस्तत्र यत् स्थानं रुचितं सताम्’ इति सूचितम् ॥ ३१ ॥
प्रकाशिका
एतदेव विशदयति ॥ तान्येवेति । अस्य श्लोकस्य प्रकृतसङ्गतां योजनां दर्शयति ॥ यानीति । यानि ब्रह्मादिरूपाणि ब्राह्मणादिशरीराणि स्वजनानां ब्रह्मादिदेवानाम् । व्यक्त्यर्थमिति शेषः पूरणीयः । अवतारार्थं प्रवेशायाभिरूपाणि प्रियाणि भवन्ति । अत्र प्रमाणसंवादमाह ॥ व्यक्त इति । स्थानमित्यनेन रूपशब्द उक्तार्थः । सतां ब्रह्मादीनाम् । ततश्चायं श्लोकार्थः ॥ अरूपिणः प्राकृतशरीररहितस्य तवावताराय प्रवेष्टुं स्वजनानां ब्रह्मादीनां भक्तानामिह भूमौ यानि यानि रूपाण्यत्रिपराशरादिब्राह्मणशरीराणि वा दशरथवसुदेवादिक्षत्रियशरीराणि वा रोचन्तेऽभीष्टानि भवन्ति । तान्येव तेऽभिरूपाणि प्रियाणि भवन्ति । अत इदानीमवताराय ब्राह्मणे मयि प्रवेशस्य ब्रह्माद्यभीष्टत्वान्मां प्रविश्य ममगृहेऽवतीर्णोऽसीति भावः ॥ ३१ ॥
त्वां सूरिभिस्तत्त्वबुभुत्सयाद्धा सदाभिवादार्हणपादपीठम् ।
ऐश्वर्यवैराग्ययशोऽवबोधवीर्यश्रियापूर्णमहं प्रपद्ये ॥ ३२ ॥
पदरत्नावली
कर्दम आत्मनः पुत्रत्वाभिमानं विहायापरोक्षज्ञानी तं विजानन् अनन्यसाधारण-लक्षणैस्तं स्तौतीत्याह– त्वां सूरिभिरिति ॥ ब्रह्मादिसूरिभिः । ‘अद्धा प्रत्यक्षसत्ययोः’ इति च । श्रियेत्येकवचनमेषामन्योन्यमभेदद्योतनाय । अत्र हरेर्वैराग्यं नाम स्वेतरस्य समस्तस्यासारतादर्शनम् ॥३२॥
प्रकाशिका
ऐश्वर्यमीश्वरत्वम् । वैराग्यमितरस्यासारताज्ञानम् । श्रीः संपत् । ताभिर् आ सम्यक् पूर्णम् ॥ ३२ ॥
परं प्रधानं पुरुषं महान्तं कालं कविं त्रिवृतं लोकपालम् ।
आत्मानुभूत्याऽनुगतप्रपञ्चं स्वच्छन्दशक्तिं कपिलं प्रपद्ये ॥ ३३ ॥
तात्पर्यम्
वेदैर्वृतत्वाद्भगवांस्त्रिवृदित्युच्यते बुधैरि’ति च ॥ ३३ ॥
पदरत्नावली
प्रधानं, पुरुषं, प्रकृतिपुरुषयोः परमुत्तमम् । यद्वा पिपर्ति पूरयति जनं संपदेति परस् तम् । सृष्ट्या पूरकत्वं ब्रह्मादेरप्यस्तीत्यतः– प्रधानम् ॥ प्रकर्षेण धीयते जगदिति प्रधानम् । ‘भर्ता सन् भ्रियमाणो बिभर्ति’ इति श्रुतेः । कार्यानुविष्टतया प्रकृतेरपि प्रधानत्वमस्तीत्यतः– पुरुषमिति ॥ पुरु गताविति धातोर्गमनशीलत्वात् पुरुषस्तम् । ताच्छील्येऽर्थे उषन् प्रत्ययः । प्रकृतेरचेतनत्वेन गमनशक्त्य-भावात् ‘तत् सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतेरनुविश्य मुख्यधारकत्वं हरेरेव । ‘द्वाविमौ पुरुषौ लोके’ इति पुरुषशब्दवच्यत्वाच् चित्प्रकृतेरपि कथंचिदुक्तलक्षणयोग्यतेत्यत उक्तम्– महान्तमिति ॥ त्रिविधानन्त्ययुक्तम् । त्रिधान्त्यं कालगुणादिनेति भावेनाह– कालं कविं त्रिवृतमिति ॥ न हि कालस्य क्वाप्यन्तो दृष्टः । कविशब्दस्यातिक्रान्तदर्शित्वार्थत्वेन गुणानन्त्यमप्रतिहतम् । त्रीणि पृथिव्यप्तेजांसि आवृत्त्य व्याप्य तिष्ठतीति स्वरूपानन्त्यमपि । अथवानेनोक्तार्थे प्रमाणमुच्यते त्रिभिर्वेदैव्रियत इति । ‘वेदैर्वृतत्वाद् भगवांस्त्रिवृदित्युच्यते बुधैः’ इति । तथा च ‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादि श्रुतिः । न चेदं लोकविलक्षणम् ? अत्राह– लोकपालमिति ॥ लोकपालत्वमिन्द्रादीनामप्यस्त्यतः– आत्मानु-भूत्येति ॥ आत्मानुभूत्या स्वरूपज्ञानेनैव सम्यगशेषविशेषतया ज्ञातः प्रपञ्चो येन स तथा तम् । इदमपि लक्षणं तस्यैव युक्तमित्याह– स्वच्छन्दशक्तिमिति ॥ स्वेच्छानुसारिजगत्सृष्ट्यादिशक्तियुक्तम् । कं ब्रह्माणं पिं पिनाकिनं रुद्रं च लालयतीति कपिलस्तम् ।‘यस्मादुत्पद्यते ब्रह्मा पद्मयोनिः पितामहः । ब्रह्मादिषु प्रलीनेषु’ इति मोक्षधर्मवचनात् । अत एतानि लक्षणानि ब्रहुशैरेव ज्ञातव्यानि, नास्मादृशैरिति स्थितम् ॥ ३३ ॥
प्रकाशिका
त्रिवृतमित्येतत्त्रिभिः सत्त्वादिगुणैर्वृतमित्यन्यथाप्रतीतिवारणाय प्रमाणेनैव व्याख्याति ॥ वेदैरिति । वृतत्वात् प्रतिपादितत्वात् । तथा च त्रिभिर्वेदैर्वृतं तात्पर्यतः प्रतिपादितमिति मूलार्थ इति भावः । आत्मानुभूत्या स्वरूपज्ञानेनानुगतोऽवगतो विषयीकृतः प्रपञ्चो येन स तथा तम् । स्वच्छन्दशक्तिं स्वेच्छानुसारिजगत्सृष्ट्यादिशक्तियुतम् । नाम्ना कपिलम् ॥ ३३ ॥
तं त्वाभिपृच्छेऽद्य पतिं प्रजानां त्वयाऽवतीर्णेन उताप्तकामः ।
परिव्राजां पदवीमास्थितोऽहं चरिष्ये त्वां हृदि युञ्जन् विशोकः ॥ ३४ ॥
पदरत्नावली
एवं स्तुत्या भगवन्तं प्रसाद्य स्वाभीष्टानुज्ञां प्रार्थयत इत्याह– तं त्वेति ॥ ‘उताप्यर्थविकल्पयोः’ इत्युक्तेरत्राप्यर्थः । अवतीर्णेन त्वयाप्तकामोऽपि य एवंविधलक्षणस्तं त्वानुपृच्छे अनुज्ञां प्रार्थये । किमर्थम् ? तत्राह– परिव्राजामिति ॥ परिव्राजां संन्यासिनां पदवीमास्थितः संन्यस्तो हृदि त्वां युञ्जन् त्वामुद्दिश्य मनोयोगं कुर्वन् अत एव विशोकस् त्वद्वियोगनिमित्तशोकरहितो ग्रामैकरात्र-विधिना चरिष्ये अटिष्यामीत्यन्वयः ॥ ३४ ॥
प्रकाशिका
इदानीं स्वाभीष्टं कर्तुमाज्ञां पृच्छति ॥ तं त्वेति । उतशब्दोऽप्यर्थः । आप्तकामोऽपि परिव्राजां संन्यासिनां पदवीं मार्गम् ॥ ३४ ॥
भगवानुवाच–
मया प्रोक्तं हि लोकस्य प्रमाणं सत्यलौकिके ।
अथाजनि मया तुभ्यं यदवोचमृतं मुने ॥ ३५ ॥
तात्पर्यम्
सत्यलौकिके यथार्थज्ञानविषये । आभासो ज्ञानमालोको लोको भासश्च कथ्यत’ इत्यभिधानम् ॥ ३५ ॥
पदरत्नावली
कर्दमस्तुत्या प्रसन्नो भगवांस्तस्मै ज्ञानमुपदिशति– मयेति ॥ ‘आभासो ज्ञान-मालोको लोको भासश्च कथ्यते’ इत्यभिधानादत्र लोकशब्देन ज्ञानं विवक्षितम् । सत्यलौकिके यथार्थज्ञानविषये यन्मया प्रोक्तं तदेव लोकस्य जनस्य प्रमाणं प्रमाकरणम् । हिशब्देनाप्ततमत्वादिहेतुं सूचयति । ‘ब्रह्मा विष्णुर्हि लोकस्य’ इति स्मृतेर् द्वितीयं ब्रह्मणोक्तमपि प्रमाणमिति ध्वनयति । अज्ञानविप्रलम्भादिदोषराहित्यमाप्तत्वम् । तदस्माकमस्तीति तव सिद्धमिति भावेनाह– अथेति ॥ अहं च तुभ्यमवोचं ‘तव पुत्रत्वेनावतरिष्ये’ इति । यद् यस्माद् अथ तस्मात् तद् ऋतं कर्तुं मयाऽजनि, त्वत्कृत इति शेषः । अतोऽहमपि न विप्रलम्भक इति तव सिद्धमित्यतोऽहमाप्ततम इत्यर्थः ॥ ३५ ॥
प्रकाशिका
त्वं कस्मान्मद्गृहे जात इत्याशङ्कायां तत्र निमित्तमाह ॥ मयेति । अत्र सत्य-लौकिक इत्यस्याप्रतीत्याऽर्थमाह ॥ सत्यलौकिक इति । सत्येत्यस्यार्थः– यथार्थेति । अबाध्येत्यर्थः । विषयविशेषणमेतत् । न तु ज्ञानविशेषणम् । तथात्वे सत्यलोकशब्दात्प्रत्ययोत्पत्तौ सत्यपदे आदि-वृद्धिप्रसङ्गात् । लोकपदस्यार्थः ज्ञानेति । प्रत्ययार्थः विषय इति । तथाच सत्योऽबाध्यश्चासौ लौकिको ज्ञानविषयश्च तस्मिन्निति मूलं योज्यमिति भावः । यथार्थशब्दस्यानतिक्रमार्थस्य ज्ञानविशेषणत्वं तु उक्तमूलयोजनालब्धार्थप्रदर्शनमेवेदं न व्याख्यानमिति द्रष्टव्यम् । भवेदिदं व्याख्यानं यदि लोकशब्दो ज्ञानवाची स्यादित्यतस्तत्राभिधानं दर्शयति ॥ आभास इति । ततश्चायं श्लोकार्थः ॥ हे मुने । तुभ्यं, पुत्रस्तेऽहं भविष्यामीति यदवोचं तदृतं सत्यं कर्तुं मयाऽजनि । ननूक्तमपि कस्मात्सत्यं कर्तव्यमित्यत उक्तम् । हि यस्माल्लोकस्य सत्यलौकिकेऽबाध्ये ज्ञानविषये श्रुत्यादिप्रतीतार्थस्य अबाध्यत्वनिर्णयायेति यावत् । मया प्रोक्तं मदीयवचनमितिहासपुराणादिरूपं प्रमाणं निर्णायकमथ तस्मान्ममानृतवादित्वे लोके मद्वचनेन श्रुत्यर्थं न कुर्यादिति भावः ॥ ३५ ॥
एतन्मे जन्म लोकेऽस्मिन् मुमुक्षूणां दुराशयात् ।
प्रसंख्यानाय तत्त्वानां समत्वायात्मदर्शिनाम् ॥ ३६ ॥
पदरत्नावली
स्वानां पक्षपोषण इति यदुक्तं तत्राह– एतन्म इति ॥ ‘स्थानेऽभिप्राय आशयः’ इत्यभिधानाद् दुराशयाद् दुःस्थानात् संसारान् मुमुक्षूणां पुंसां देहमधिकृत्य वर्तमानानां परमात्मादि-तत्त्वानां प्रसंख्यानाय सम्यक् ज्ञापनायाप्तकामस्यापि मे एतस्मिन् भूलोके जन्म अवतार इति ज्ञातव्यम् । तर्ह्यपरोक्षज्ञानिनां नानेनार्थ इति तत्राह– समत्वायेति ॥ आत्मदर्शिनामात्मज्ञानिनां समत्वाय यथार्थ-ज्ञानस्थिरीकरणाय चेति ॥ ३६ ॥
प्रकाशिका
त्वद्गृहे मे जन्म न तवैवोपकारकं किन्तु सर्वेषां सतामित्याह ॥ एतन्म इति । दुराशयाद्दुःखस्थानात्संसारात् । ‘‘स्थानेऽभिप्राय आशय’’ इत्यभिधानात् । प्रसङ्ख्यानाय सम्यग्ज्ञाप-नायात्मदर्शिनां परमात्मापरोक्षज्ञानिनां समत्वाय साहित्याय । विशेषज्ञानलाभायेति यावत् ॥ ३६ ॥
एष आत्मपथोऽव्यक्तो नष्टः कालेन भूयसा ।
तं प्रवर्तयितुं देहमिमं विद्धि मया भृतम् ॥ ३७ ॥
पदरत्नावली
लोके सांख्यशास्त्रप्रवृत्तिदर्शनात् पुनस्तत्करणेन किं कार्यमिति तत्राह– एष इति । सम्यक् ज्ञानप्रवर्तकशून्येन भूयसा महता कालेनाव्यक्तः सूक्ष्म एव वक्ष्यमाणात्मपथः परमात्मतत्त्वविषयो मार्गो नष्टस्तिरोहितोऽभूत् । यथार्थज्ञानसाधनसांख्यशास्त्रनिर्माणेन तमात्ममार्गं प्रवर्तयितुं मया भृतमिमं देहं विद्धीत्यन्वयः ॥ ३७ ॥
प्रकाशिका
नन्वात्मज्ञानमार्गः पूर्वसिद्ध एवास्त्यतः पुनस्तत्प्रदर्शनं तव किमर्थमित्यत आह ॥ एष इति । आत्मपथ आत्मज्ञानमार्गोऽव्यक्तः संप्रदायप्रवर्तकाभावात्तिरोहितः ॥ ३७ ॥
गच्छ कामं मयाऽऽपृष्टो मयि संन्यस्तकर्मणा ।
जित्वा सुदुर्जयं मृत्युममृतत्वाय मां भज ॥ ३८ ॥
पदरत्नावली
अवतारप्रयोजनमुक्त्वा ‘तं त्वानुपृच्छे’ इत्यस्योत्तरमाह– गच्छेति ॥ आपृष्टोऽनु-ज्ञातः । कामं यथासुखम् । गत्वाप्येवं कुर्वित्याह– मयीति ॥ मयि संन्यस्तेनार्पितेन कर्मणा सुदुर्जनं मृत्युमिन्द्रियग्रामं जित्वा अमृतत्वाय मां भजेत्यन्वः ॥ ३८ ॥
प्रकाशिका
कामं यथेच्छमापृष्टोऽनुज्ञातः संन्यस्तेनार्पितेन कर्मणा । मृत्युं संसारकारणं मनः
॥ ३८ ॥
मामात्मानं स्वयंज्योतिः सर्वभूतगुहाशयम् ।
आत्मन्येवात्मना वीक्ष्य विशोकोऽभयमृच्छसि ॥ ३९ ॥
पदरत्नावली
भजनप्रकारमुपदिशति– मामात्मानमिति ॥ सर्वभूतानां हृदयगुहायां शेत इति सर्वभूतगुहाशयस्तम्, स्वयंज्योतिः स्वप्रकाशम् आत्मानमादानादिकर्तारम् आत्मनि चिद्रूपे त्वय्येव आत्मना लिङ्गशरीरव्यतिरिक्तत्वेन नित्यकैङ्कर्यलक्षणेन चिदानन्दस्वरूपेण वीक्ष्य विशोको विनष्ट-संसारक्लेशस् त्वमभयममृतम् ऋच्छसि मुक्तो भविष्यसीत्यन्वयः ॥ ३९ ॥
प्रकाशिका
आत्मनि स्वरूपदेहे आत्मना मनसाऽभयं मोक्षमृच्छसि प्राप्स्यसि ॥ ३९ ॥
विश्वमेतद्धि शास्त्रेण विज्ञायात्मानमीश्वरम् ।
मुनिः शान्तमनोवाक्यस्तदा न ख्यात्युपप्लवः (नाख्यात्युपप्लवः) ॥ ४० ॥
तात्पर्यम्
विश्वमेतदेतादृशम् असारं यतः । अत ईश्वरं विज्ञाय । नख्यात्युपप्लवः दुःखाज्ञाना-द्युपद्रवो न ॥ ४० ॥
पदरत्नावली
भयरहितं मुक्तत्वमीदृशमित्याह– विश्वमेतदिति ॥ विश्वमेतद् एतादृशमनित्यम-सारमिति तव सिद्ध हि यस्मादतः शास्त्राचार्योपदेशेन आत्मानमन्तर्यामिणमीश्वरमखण्डैश्वर्यगुणाकरं विज्ञाय मुनिरपरोक्षज्ञानी शान्तमनोवाक्यः निवृत्तलिङ्गशरीररूपमनआदीन्द्रियो यर्हि तदोपप्लवः दुःखाज्ञानभयशोकादिलक्षण उपद्रवो नाख्याति न प्रकाशते । एतादृशं मुक्तत्वमित्यर्थः ॥ ४० ॥
प्रकाशिका
मोक्षे वैराग्यं मुख्यसाधनमित्याशयेनाह ॥ विश्वमिति । अत्र विश्वमात्मानं चेश्वरं विज्ञायेत्यन्यथाप्रतीतिवारणाय योजनां दर्शयति ॥ विश्वमिति । एतदित्यस्यार्थः ॥ एतादृशमिति । एतादृशम् इत्युक्तमेव विवृणोति ॥ असारमिति ॥ यत अत इत्यनयोरध्याहारः । अन्यथा वैराग्यस्येश्वर-ज्ञानसाधनत्वाभानात् । उपप्लवशब्दार्थं दर्शयन् नख्यातीत्यस्य तात्पर्यमाह ॥ दुःखाज्ञानादीति । उपप्लवशब्द एवोपद्रववाची । दुःखाज्ञानादीत्येतद्योग्यतालब्धमुक्तं नख्यातीत्यस्य तात्पर्यं नेति । स्वरूपेणैव नेत्यर्थः । अन्यथा न ख्याति न भासत इति तदनुभवनिषेध एव स्यान्न तु तस्यात इत्थं तात्पर्यमुक्तमित्यवगन्तव्यम् । मूले तु दुःखाद्यनुभवस्यैवानर्थत्वमभिप्रेत्य तत्परिहाराकथनाय न ख्याती-त्युक्तम् ॥ ततश्चायमर्थः ॥ विश्वमेतदेतादृशमसारं यतोऽतस्तत्परित्यज्यात्मानमादानादिकर्तारमीश्वरं सर्वेश्वरं शास्त्रेण विज्ञाय मुनिर्मननशीलः शान्तमनोवाक्यो निवृत्तान्यविषयकमनोवाग्व्यापारो यदा भवति तदोपप्लवो दुःखाज्ञानाद्युपद्रवो न ख्याति न भासते पुनस्तदनुभवो न भवति । उपद्रवस्वरूपमेव न भवतीत्यर्थः ॥ ४० ॥
मात्र आध्यात्मिकीं विद्यां शमनीं सर्वकर्मणाम् ।
वितरिष्ये यया चासौ भयं चातितरिष्यति ॥ ४१ ॥
पदरत्नावली
मातुः का गतिरिति शङ्का मा भूदित्याह– मात्र आध्यात्मिकीमिति ॥ अहमाध्यात्मिकीं परमात्मादितत्त्वविषयां सर्वकर्मणां शमनीं विद्यां मात्रे वितरिष्ये उपदेक्ष्यामि यया विद्ययाऽसौ माता भयमतितरिष्यति । चशब्दात् संसारं तीर्त्वा नित्याभयं हरिं प्लवति गच्छतीति सूचयति । तृ प्लवनतरणयोरिति धातुः । प्लु गताविति धातुश्च ॥ ४१ ॥
प्रकाशिका
मम मातुश्चिन्ता तव माभूदित्याह ॥ मात्र इति । आध्यात्मिकीं परमात्मादि-तत्त्वविषयां, शमनीमुन्मूलनीं वितरिष्ये उपदेक्ष्यामि । असौ माता । यया चेत्यत्र चकारस्त्वच्छिक्षा-समुच्चायकः । परमानन्दं च प्राप्स्यसीति द्वितीयचशब्दार्थः ॥ ४१ ॥
मैत्रेय उवाच–
एवं समुदितस्तेन कपिलेन प्रजापतिः ।
दक्षिणीकृत्य तं प्रीतो वनमेव जगाम ह ॥ ४२ ॥
पदरत्नावली
मैत्रेयः ‘तत्रैवमुपदिष्टः कर्दमः पुत्रस्नेहात् किमकार्षीत्’ इति विदुरस्य हार्दं चोद्यं परिहरति– एवमिति ॥ एवं समुदित उपदिष्टः । दक्षिणीकृत्य प्रदक्षिणीकृत्य । भिक्षार्थं ग्रामप्रवेशं विना अन्यदा नास्तीत्येवकारार्थः ॥ ४२ ॥
व्रतं स आस्थितो मौनमात्मैकशरणो मुनिः ।
निःसङ्गो व्यचरत् क्षोणीमनग्निरनिकेतनः ॥ ४३ ॥
पदरत्नावली
वनमित्यनेनैकत्रावस्थानं प्रतीयते, न भूवलयभ्रमणम्, तथा च संन्यासाचारभङ्ग इति तत्राह– व्रतमिति ॥ मौनं वागिन्द्रियनिग्रहलक्षणम् । तेन हि प्रियाप्रियव्यवहारेण स्नेहद्वेषसम्भवेन स्वतो दुःखस्य मनसः कालुष्येण तयोः प्रियाप्रिययोर्निवृत्तिर् न स्यात् । अयमेव संसार इति प्रथमतस्तन्निग्रहः कर्तव्यः । मुनिर् मननशीलः । निःसङ्गोऽद्वितीयः । अग्नीनामात्मसमारोपणादनग्निः । गृहाद्याश्रम(य)रहितः । आत्मा हरिरेकः शरणं रक्षिता गृहं च यस्य स तथा ॥ ४३ ॥
प्रकाशिका
मौनं मुनीनां सम्बन्धि, व्रतमहिंसालक्षणम् । अनिकेतनः मठादिनिकेतनरहितः
॥ ४३ ॥
मनो ब्रह्मणि युञ्जानो यत् तत् सदसतः परम् ।
गुणावभासे विगुण एकभक्त्यानुभाविते ॥ ४४ ॥
पदरत्नावली
एवं विचरन् किं मनुते ? तत्राह– मन इति ॥ यत् सदसतो मूर्तामूर्तलक्षणात् प्रपञ्चात् परं विलक्षणं तस्मिन् ब्रह्मणि मनो युञ्जानः । अनेन श्रमेण पर्यटतश्चित्तविक्षेपेण तदुपासना-नुपपत्तिः परिहृता । नन्वेवमपि स्वरूपमात्रप्रतिपत्तावपि विशिष्टगुणोपसंहारः सर्वोत्तमत्वाविरोधि-गुणपर्युदासश्च न स्त इति तत्राह– गुणावभासे विगुण इति ॥ ज्ञानादिगुणानामवभासः प्रकाशो यस्मिन् स तथा, ज्ञानादिगुणात्मत्वेन प्रकाशमान इत्यर्थः, तस्मिन् । यद्वा गुणेषु सृष्टावुपकारकेषु महदादिषु नियामकत्वेनावभासो यस्य स तथा दृश्यमान इत्यर्थस् तस्मिन् । अनेनाधिष्ठानविशिष्टत्वेनापि तदुपास्तिरस्तीति द्योतितम् । विगता निषिद्धाः सत्त्वादिगुणा येन स तथोक्तस्तस्मिन् अनेन राग-द्वेषादिदोषराहित्यं ध्वनयति । दुर्निग्रहस्य मनसोऽन्यत्रागमने कारणमाह– एकभक्त्येति ॥ एको मुख्यः सर्वोत्तमो हरिर्नान्य इति सम्यग् ज्ञानपूर्विकया भक्त्याऽनुभावितेऽधिवासिते । अनेकजन्मभिः प्रचितसंस्कारेण द्रढीयस्तया शृङ्खलितत्वादन्यत्र न यातीत्यर्थः । किमत्र प्रमाणमित्यतो वाह– एक-भक्त्येति ॥ एकभक्त्या एकया केवलया अनीशत्वादिदोषलेशशून्यया भक्त्या अनुभाविते सम्यक् ध्याते । सतां भावनात्र प्रमाणमित्यर्थः ॥ ४४ ॥
प्रकाशिका
यत्सदसतो मूर्तामूर्तात्प्रपञ्चात् परं विलक्षणं तत्तस्मिन् ब्रह्मणि श्रुत्यादिभिर्गुणा-नामवभासो यस्य स तथा तस्मिन् । गुणैर्ज्ञानान्दादिभिरवभासत इति गुणावभासस्तस्मिन्निति वा । विगुणे विगतगुणत्रये । एकभक्त्या केवलभक्त्याऽनुभाविते ध्याते ॥ ४४ ॥
निरहङ्कृतिर्निर्ममश्च निर्द्वन्द्वः समदृक् स्वदृक् ।
प्रत्यग्रः शान्तधीर्धीरः प्रशान्तोर्मिरिवोदधिः ॥ ४५ ॥
तात्पर्यम्
**‘अनन्याधीनशक्तित्वाद्धरिः स्व इति चोच्यत’ इति मात्स्ये । प्रत्यग्रः प्रत्यग्रतिः **
॥ ४५ ॥
पदरत्नावली
एवमटित्वाऽस्य कर्दमस्य देहावसानमथवा कश्चन विशेषोऽभूदिति मन्दाशङ्कां परिहरन् कपिलोपदिष्टानुष्ठानान्मुक्तियोग्यापरोक्षज्ञानोदयं वक्ति– निरहङ्कृतिरिति ॥ सः कर्दमः सर्वभूतेषु अवस्थितं सदैवाप्तगुणत्वादात्मानं भगवन्तं सर्वसौभाग्यगुणाकरं भूतगर्भं नारायणमपश्यद् अपरोक्षिचकार । सर्वभूतानि चात्मनि सर्वगाते हरौ तदाधारतया स्थितान्यपश्यदित्यन्वयः । अनेन भूतगर्भो भूतस्थ इति रूपद्वयमात्मशब्दोक्तमिति ज्ञायते । ‘भूतगर्भश्च भूतस्थः पूर्ण एव द्विरूपवान् । अत आत्मेति तं प्राहुः सदैवाप्तगुणो यतः’ इति वचनान् निर्द्वन्द्वः । शीतोष्णादिद्वन्द्वसहिष्णुः । समदृक् यथास्थितवस्तुदर्शी यथार्थज्ञानीत्यर्थः । स्वं स्वतन्त्रं दृष्टवान् इति स्वदृक् । तदुक्तम्– ‘अनन्याधीनशक्तित्वाद्धरिः स्व इति चोच्यते’ इति । प्रत्यग्रः प्रत्यग्रतिः स्वान्तर्यामिणि रतिमान् । अयं निरहङ्कारादौ हेतुः । अत एव शान्तधीः क्रोधग्रहाविष्टबुद्धिरहितः । धीरः संपदि विपदि च निश्चलः । अत्र दृष्टान्तः प्रशान्तोर्मिरिति ॥ ४५ ॥
प्रकाशिका
पुनः कर्दमस्थितिमाह ॥ निरहङ्कृतिरिति । अहं कर्तेति बुद्धिशून्यः । इदं देहादि ममेति बुद्धिशून्यो निर्ममः । निर्द्वन्द्वः शीतोष्णद्वन्द्वकृतोपद्रवरहितः । समदृग्योग्यतानुसारेण तत्तदर्थ-ज्ञानी । स्वदृगित्यत्र स्वशब्दः स्वात्मवाची न, स्वात्मज्ञानस्य मोक्षसाधनत्वाभावात्किन्तु परमात्म-वाच्येवेत्यभिप्रेत्य तस्य परमात्मवाचकत्वे निमित्तं प्रमाणैनैव दर्शयति ॥ अनन्येति । स्वातन्त्र्या-दित्यर्थः । चशब्दस्तद्ग्रन्थोक्तसमुच्चायकः । तथा च स्वं स्वतन्त्रं हरिं पश्यतीति स्वदृगिति मूलार्थ इति भावः । प्रत्यग्र इत्यस्यापि प्रकृतसङ्गतमर्थं दर्शयति ॥ प्रत्यग्रतिरिति । तथा च प्रत्यक् स्वान्तर्यामिणि रः रमणं दर्शनाविर्भूतं सुखं यस्य स प्रत्यग्र इति मूलं व्याख्येयमिति भावः । शान्तधीर्निश्चलबुद्धिः । धीरः संपद्यापदि चैकप्रकारेण हरिबुद्धावेवाचलरमणशीलः ॥ ४५ ॥
आत्मानं सर्वभूतेषु भगवन्तमवस्थितम् ।
अपश्यत् सर्वभूतानि भगवत्यपि चात्मनि ॥ ४६ ॥
वासुदेवे भगवति सर्वज्ञे प्रत्यगात्मनि ।
परेण भक्तिभावेन लब्धात्मा मुक्तबन्धनः ॥ ४७ ॥
तात्पर्यम्
**‘भूतगर्भश्च भूतस्थः पूर्ण एवं द्विरूपवान् । अत आत्मेति तं प्राहुः सदैवाप्तगुणो यत’ इति च ॥ ४७ **॥ इति तृतीयतात्पर्ये पञ्चविंशोऽध्यायः ॥ २५ ॥
पदरत्नावली
फलितमाह– वासुदेव इति ॥ वासुदेवे सर्वत्र स्थित्वा क्रीडति सर्वज्ञे अशेष-विशेषाकारेण सर्वं जानति प्रत्यगात्मनि स्वान्तर्यामिणि भगवति परेण पूर्णेन भक्तिभावेन लब्धात्मा लब्धमनाः । अत एव मुक्तबन्धनः मुक्तदेहाभिमानः । यद्वा प्रथमं वासुदेवे श्रीकृष्णे भगवति लब्धात्मा । समनन्तरं सर्वज्ञे सर्वज्ञत्वात् सृष्ट्यादिकर्तरि भगवति लब्धात्मा । क्रमेण प्रत्यगात्मनि सूक्ष्मे स्वबिम्बभूते भगवति लब्धात्मा ॥ ४७ ॥
प्रकाशिका
तस्यापरोक्षज्ञानप्रकारमाह ॥ आत्मानमिति । अत्रात्मशब्दद्वयं भगवत्परमेव न स्वात्मपरमित्यभिप्रेत्य समाख्याप्रमाणं पठति ॥ भूतगर्भश्चेति । भूतानि गर्भे यस्येत्यनेन भूतानि चात्मनीत्येतदुक्तार्थम् । द्विरूपवानित्यनेनान्योन्याश्रयत्वशङ्का परिहृतेति ज्ञेयम् । पूर्ण एव यतः । ननु पूर्णत्वेऽप्यात्मशब्दवाच्यत्वं कुत इत्यतस्तस्यैव तच्छब्दनिरुक्तिलभ्यत्वादित्याह ॥ सदैवाप्तगुण इति । प्राप्तगुण इत्यर्थः । आङ् पूर्वकात्तनोतेर्ड्मन् प्रत्यये ह्यात्मेतिपदं पूर्णतापर्यायविस्तृतिवाचि विस्तृतिश्च देशतः कालत इव गुणतोऽपि विवक्षितेति भावः । तथा चात्मानं गुणपूर्णं भगवन्तं सूक्ष्मरूपेण नियामकतयाऽवस्थितमात्मनि व्याप्तरूपे वासुदेवे सर्वत्र स्थित्वा क्रीडति । सर्वज्ञे अशेषविशेषाकारेण सर्वं जानति । प्रत्यगात्मनि स्वान्तर्यामिणि भक्तिभावेन, लब्ध अभ्यासेन वशीकृत आत्मा मनो यस्य । अत एव मुक्तबन्धनः मुक्तदेहाभिमानः ॥ ४६,४७ ॥
इच्छाद्वेषविहीनेन सर्वत्र समचेतसा ।
भगवद्भक्तियोगेन प्राप्तो भागवतीं गतिम् ॥ ४८ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे पञ्चविंशोऽध्यायः ।
पदरत्नावली
एवं हरौ लब्धात्मनस् तस्य कर्दमस्य संसारापत्तिर्नास्ति, किन्तु पुनरनावृत्तिरूपा श्रीनारायणावप्तिलक्षणा मुक्तिरेवेति दर्शयति– इच्छाद्वेषेति ॥ इच्छाद्वेषाभ्यां निषिद्धेच्छावैष्णवद्वेषाभ्यां विहीनेन सर्वत्र सर्वपदार्थेषु स्थितभगवद्रूपेषु निर्दोषत्वसर्वगुणपरिपूर्णत्वादिसमत्वज्ञानयुक्तेन चेतसा ज्ञनेन भागवतीं गतिं भगवत्प्राप्तिरूपां मुक्तिं प्राप्त इत्यन्वयः ॥ ४८ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे पञ्चविंशोऽध्यायः ॥
प्रकाशिका
मुक्तावन्तरङ्गसाधनानि दर्शयन्नाह ॥ इच्छाद्वेषेति ॥ ४८ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां पञ्चविंशोऽध्यायः ॥ ३-२५ ॥