पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा
अथ चतुर्विंशोऽध्यायः
मैत्रेय उवाच–
पितृभ्यां प्रस्थिते साध्वी पतिमिङ्गितकोविदा ।
नित्यं पर्यचरत् प्रीत्या भवानीव भवं प्रभुम् ॥ १ ॥
पदरत्नावली
पितृभ्यां मातापितृभ्याम् । ‘मातापितरौ पितरौ’ इत्यभिधानात् । इङ्गितकोविदा चितस्थविज्ञाननिपुणा । भवानी पार्वती ॥ १ ॥
प्रकाशिका
पितृभ्यां मातापितृभ्याम् । प्रस्थिते गमने कृते सति । इंगितं चित्तस्थितम्, तत्ज्ञाने कोविदा निपुणा । भवानी पार्वती ॥ १ ॥
विस्रम्भेणात्मशौचेन गौरवेण दमेन च ।
शुश्रूषया सौहृदेन वाचा मधुरया (विभो) प्रभो ॥ २ ॥
पदरत्नावली
विस्रम्भेण पत्युरेवाभीष्टसिद्धिः स्यादिति निश्चयलक्षणेन विश्वासेन । आत्मशौचं मनश्शुद्धिः । शुश्रूषया हितश्रवणेच्छया । सौहृदमनिमित्तस्नेहः ॥ २ ॥
प्रकाशिका
विस्रम्भेणैतत्तोषणे ममाभीष्टसिद्धिर्भविष्यत्येवेति विश्वासेन । आत्मशौचं मनसो देहस्य वा शुद्धिः ॥ २ ॥
विसृज्य कामं दम्भं च द्वेषं लोभमघं मदम् ।
अप्रमत्तोद्यता नित्यं तेजीयांसमतोषयत् ॥ ३ ॥
पदरत्नावली
कामो विषयेच्छा । दम्भ आत्मन्यविद्यमानमाहात्म्यप्रकटनम् । अघं पाप-व्यसनम् । तेजीयांसमतीन्द्रियकरणशक्तिमन्तम् ॥ ३ ॥
प्रकाशिका
दम्भोऽविद्यमानमाहात्म्यप्रकटनम् । अघं निषिद्धाचरणम् । तेजीयांसं ब्रह्मापरोक्ष-ज्ञानिनम् ॥ ३ ॥
स वै देवर्षिवर्यस्तां मानवीं समनुव्रताम् ।
दैवाद् गरीयसः पत्युराशासानां महाशिषः ॥ ४ ॥
पदरत्नावली
सन्तोषलक्षणमादिमं सम्भाषणं तदभूदित्याह– स वा इति ॥ पुत्रादिमहाशिष आशासानामिच्छन्तीम् ॥ ४ ॥
प्रकाशिका
महाशिषोऽपत्यादिरूपाः ॥ ४ ॥
कालेन भूयसा क्षामां कर्शितां व्रतचर्यया ।
प्रेमगद्गदया वाचा पीडितः कृपयाऽब्रवीत् ॥ ५ ॥
पदरत्नावली
क्षामां म्लानाम् । अत एव कर्शितां लघ्वीभूतशरीरयष्टिम् ॥ ५ ॥
प्रकाशिका
क्षामां ग्लानिं प्राप्तां, कर्शितां कृशतां प्राप्तां, पीडित आर्दीकृतचित्तः ॥ ५ ॥
तुष्टोऽहमद्य तव मानवि (मानिनि) मानदायाः
शुश्रूषया परमया परया च भक्त्या ।
यो देहिनामयमतीव सुहृत् स्वदेहो
नापेक्षितः समुचितं क्षपि(यि)तुं यदर्थे ॥ ६ ॥
पदरत्नावली
परमभक्त्यादिकमस्तीति कुतो लक्ष्यत इति तत्राह– य इति ॥ यो देहिनामत्यन्त-सुहृत्, अयं स्वदेहः, समुचितं स्नानालङ्कारभोजनादिलक्षणं प्रति, नापेक्षितः । किमिति तत्राह– क्षयितुमिति ॥ यदर्थे यस्य मम प्रीत्यर्थं क्षयितुं कृशीकर्तुम् । मम कृशदेहदर्शनेनैवायं तुष्टः स्यादिति यदतोऽहं तव तुष्ट इत्यन्वयः ॥ ६ ॥
प्रकाशिका
यो देहिनामतीव सुहृत् । अयं स्वदेहः । समुचितं स्नानालंकारभोजनादिलक्षणं स्वयोग्यकर्तव्यं प्रति नावेक्षितो न गणितः । उपेक्षित इति यावत् । यदर्थे यस्य मम प्रीत्यर्थं क्षपितुं कृशीकृर्तुं कृशदेहदर्शनेनैवायं तुष्टः स्यादिति बुद्ध्येति यावत् । सोऽहमित्यन्वयः ॥ ६ ॥
या मे स्वधर्मनिरतस्य तपःसमाधि-
विद्यात्मयोगविजिता भगवत्प्रसादात् ।
तामेव ते म(त)दनुभावनयाऽवरुद्धां
दृष्टिं प्रपश्य वितराम्यभयामशोकाम् ॥ ७ ॥
पदरत्नावली
किमनया गुडजिह्विकया मधुरया वाण्या पुरुषार्थानुपयोगिन्येत्याशङ्क्य तुष्टिफलं प्रत्यक्षयति– या म इति ॥ स्वधर्मनिरतस्य मे मम तपआदिसाधनैर्विजितोपार्जिता तस्य हरेरनुभावनया निरन्तरोपसनया उत्पन्नभगवत्प्रसादादवरुद्धा वशीकृता या तां मे मम विद्यमानां दृष्टिं प्रपश्य सन्निकृष्ट-फलत्वात्, तुभ्यं वितरामि । तया किम् ? तत्राह– अभयामिति ॥ अभयप्रदामशोकां दुःख-विनाशिनीम् । मदनुभावनयेति पाठे तु मम नित्यशुश्रूषालक्षणयोपासनया त्वयाऽवरुद्धा उपदेशयोग्यता कारितेत्यर्थः । आत्मयोगश्चित्तनिरोधलक्षणः ॥ ७ ॥
प्रकाशिका
आत्मयोगो भगवद्भक्तिलक्षणस्तैर्विजिता प्राप्ता । मदनुभावनया मत्सेवयाऽवरुद्धां फलदानाय स्वाभिमुखीकृतां दृष्टिमपरोक्षज्ञानसामर्थ्यं प्रपश्य । फलस्य सन्निकृष्टत्वाभिप्रायेणैवमुक्तम् । वितरामि प्रकटीकरोमि । कथंभूतां दृष्टिम् । अभयां पतनभयरहितफलदामशोकां शोकराहित्यप्रदाम् । मोक्षहेतुभूतामिति यावत् । येन मदीयेनापरोक्षज्ञानसामर्थ्येन मोक्षो भवति तत्ज्ञानसामर्थ्यं तुभ्यमैहिक-पुरुषार्थप्रदमपि यथा स्यात्तथा प्रकटीकरोमीति भावः ॥ ७ ॥
अन्ये पुनर्भगवतो भ्रुव उद्विजृम्भ-
विभ्रंशितार्थरचनाः किमुरुक्रमस्य ।
सिद्धासि भुङ्क्ष्व विभवान् निजधर्मदोहान्
दिव्यान् नरैर्दुरधिगानपि विक्रियाभिः (नृपविक्रियाभिः) ॥ ८ ॥
पदरत्नावली
मोक्षव्यतिरिक्तपुरुषार्थानां क्षणभङ्गुरत्वेन तत्साधनमायासेन न पृथगनुष्ठेयम्, एतदविनाभूतत्वाच्चेत्यभिप्रेत्याह– अन्य इति ॥ स्वर्गाद्यवाप्तिसाधनोपदेशं विहाय चतुर्थपुरुषार्थ-प्राप्त्युपायोपदेशः कस्मादित्यतो वाह– अन्ये पुनरिति ॥ उरुक्रमस्य भगवतो भ्रुव उद्विजृम्भतो विनाशकलक्षणस्फुरणेन विभ्रंशिता विनाशिता अर्थरचना विषयभोगचमत्कारा येषां ते तथोक्ता इति यस्मात् तस्मात् तदुपदेशेन किम् ? न किमपीत्यर्थः । स्वर्गादीनां भगवद्विजृम्भानुगृहीतावस्थानत्वात् तदनुग्रहेण तत्प्राप्तिः किं वाच्येति ध्वनितं कण्ठोक्तीकरोति– सिद्धासीति ॥ न केवलं चतुर्थपुरुषार्थेन त्वं सिद्धासि, किंत्वपेक्षिताशेषपुरुषार्थेनापि । तत् कथम्? अत्राह– भुङ्क्ष्वेति ॥ निजधर्मस्य देहो येषां ते तथा तान् नृपाणामश्वमेधादिविशिष्टक्रियाभिः साधनैरपि नरैर्दुरधिगान् अधिगन्तुम् अवाप्तुम् अशक्यान् । अनेन भगवदनुग्रह एवालमेतदवाप्तये न कर्मादिकमित्युक्तं भवति ॥ ८ ॥
प्रकाशिका
ननु मदभीष्टदानाय ज्ञानसामर्थ्यमेव कस्मात्प्रकटनीयम् । काम्यकर्मभिरपि तत्प्राप्तिसम्भवादित्यत आह ॥ अन्य इति । अन्ये पुनः काम्यकर्मविशेषाः किं न किमप्यतितुच्छा इत्यर्थः । कुतः यत उरुक्रमस्य भगवतो भ्रुव उद्विजृंभो वक्रीभावस्तेन विभ्रंशिता विनाशिता अर्थरचना मनोरथा येषु ते तथा । भगवान् स्वभ्रूविलासेन कर्मलब्धान्मनोरथान्नाशयति । न ज्ञानसामर्थ्यलब्धानिति भावः । अतो निजधर्माणां गार्हस्थ्योचितधर्माणां देहो येभ्यस्तान्विक्रियाभिरप्यश्वमेधादिरूपविशिष्ट-कर्मभिरपि दुरधिगान् दुरधिगमान्प्राप्तुमशक्यान् । अत एव दिव्यान् लोकविलक्षणान्विभवान्विविधा-न्विषयान् भुंक्ष्व । यतः सिद्धाऽसि मदनुभावनया दिव्यविभवयोगयोग्याऽसि ॥ ८ ॥
मैत्रेय उवाच–
एवं ब्रुवाणमबलाखिलयोगमाया
विद्याविचक्षणमवेत्य गताधिरासीत् ।
सप्रश्रयप्रणयविह्वलया गिरैषा
व्रीडावलोकविलसद्धसिताननाऽऽह ॥ ९ ॥
पदरत्नावली
एवमुपदिष्टाया देवहूत्या मनसि किमभूदिति तत्राह– एवमिति ॥ अखिलासु योगमायाविद्यासु अणिमाद्यष्टाङ्गयोगसामर्थ्यसिद्धिकरीषु विचक्षणं निपुणम् । भर्तुः प्रसन्नतामवेत्य अवेक्ष्य । अन्यदा तु शुश्रूषानिरतत्वेन तदवसरोऽपि नास्तीति । गताधिर् निरस्तमनःपीडा । एतत् कथमवगतम् ? अत्राह– सप्रश्रयेति ॥ प्रश्रयेण विनयगुणेन सह वर्तत इति सप्रश्रयः स चासौ प्रणयः स्नेहप्रसरस् तेन विह्वला स्खलन्ती गीस् तया । व्रीडया अवलोकेन विलसत् शृङ्गारविशेषं कुर्वद् हसितं मन्दस्मितं यस्य तत् तथा । व्रीडावलोकविलसद्धसितमाननं यस्याः सा तथा ॥ ९ ॥
प्रकाशिका
अखिलयोगमाया योगसामर्थ्यलभ्या अणिमादयः सिद्धयस्तत्साधनभूतासु विद्यासु विचक्षणं निपुणं गताधिर्निरस्तमनःपीडा(निश्चिन्ता) सप्रश्रयो विनयः, प्रणयः प्रेम ताभ्यां विह्वला गद्गदा तया गिरा । व्रीडासहितोऽवलोकस्तेन विलसद्धसितं चाननं यस्याः सा ॥ ९ ॥
देवहूतिरुवाच–
राद्धं तव द्विजवृषैतदमोघयोग-
मायाधिपे त्वयि विभो तदवैमि भर्तः ।
यस्तेऽभ्यधायि समयः सकृदङ्गसङ्गो
भूयाद् वरीयसि गुणप्रसवः सतीनाम् ॥ १० ॥
पदरत्नावली
स्वयं प्रसन्नेन्द्रियत्वात् श्रोतुश्च प्रसादजनकवाक्यमाहेत्याह– राद्धमिति ॥ हे द्विजवृष ब्राह्मणश्रेष्ठ यद् ब्रवीष्येतत् तव राद्धं सिद्धम् । हे भर्तो ऽमोघयोगमायाधिपे त्वयि यद्् योग-सामर्थ्यं तदहमवैमीति । अथ किं तवापेक्षितम् ? अत्राह– यस्त इति ॥ ते तव सकृदङ्गसङ्गः शरीर-स्पर्शलक्षणो ग्राम्यधर्मः समयोऽभ्यधायि स भूयादिति प्रार्थय इति शेषः । सकृदङ्गसङ्गेन किं फलं स्यादिति तत्राह– वरीयसीति ॥ सतीनां पतिव्रतानां स्त्रीणां वरीयसि गुणोत्तमे पत्यौ सकृदङ्गसङ्गो गुणप्रसवः गुणाढ्यं पुत्रं प्रसूत इति सफल एवेत्यर्थः ॥ १० ॥
प्रकाशिका
हे द्विजवृष ब्राह्मणश्रेष्ठ हे भर्तः । यद्ब्रवीष्येतत्सर्वं तव राद्धं सम्यक् सिद्धम् । अमोघयोगमायानाममोघयोगसामर्थ्यवतां योगिनामधिपे त्वयि तद् योगसामर्थ्यमहमवैमि जानामि । किंतु यस्ते त्वया समयोऽभिहितो यावत्तेजो बिभृयादात्मनो म इत्येवंरूपः सः सकृद्गर्भाधानपर्यन्तः । यतः सतीनां वरीयसि पत्यौ अङ्गसङ्गो गुणप्रसवः पुण्यकरः । अनेनान्यस्य नीचस्याङ्गसङ्गः पापकर इति सूचयति ॥ १० ॥
तत्रेतिकृत्यमुपशिक्ष यथोपदेशं
येनैष मे कर्शितोऽतिरिरंसयाऽऽत्मा ।
सिध्येत ते कृतमनोभवधर्षितायाः
कामस्तदीश भवनं सदृशं विचक्ष्व ॥ ११ ॥
पदरत्नावली
तर्हि तथास्त्वित्याशङ्क्य कृत्यं किञ्चिदस्तीत्याह– तत्रेति ॥ तत्र सकृदङ्ग-सङ्गविषये यथोपदेशं शास्त्रोपदेशमनतिक्रम्य कृत्यमितिकर्तव्यतामुपशिक्ष विद्यामुपादत्स्व । कुतो विद्यो-पादानम् ? अत्राह– येनेति ॥ अतिरिरंसया ग्राम्यधर्म्येच्छया कर्शित एष मे मम आत्मा देहो येन विद्योपादानेन सिध्येत सफलो भूयात् । स कामोऽस्तु, किमुद्दिश्येत्यत उक्तम्– ते कृत इति ॥ त्वत्कृतमनोभवेन त्वन्निमित्तकामेन धर्षिताया अभिभूतायाः । कीदृग्विद्योपादानकाम इति तत्राह– तदीशेति ॥ यत् सार्वभौमपुत्र्या मम सदृशं योग्यं तद् भवनं विद्यासामर्थ्येन विचक्ष्व दृष्ट्वा कुर्वित्यन्वयः । अतितरां रिरंसया रन्तुमिच्छया ते तव मनोभवधर्षिताया मे एष कामः कमनीय आत्मा कायो येन विद्याबलेन रचितेन गृहादिना सिध्येत तादृशं भवनं विचक्ष्वेति च ॥ ११ ॥
प्रकाशिका
अङ्गसङ्गार्थं च प्रथममितिकर्तव्यतां सम्पादयेत्याह ॥ तत्रेति । हे ईश । तत्राङ्ग-सङ्गविषये । इतिकृत्यं साधनं यथोपदेशं कामशास्त्रविधिमनतिक्रम्योपशिक्षोपकल्पय । येन साधनेनाभ्यङ्ग-भोजनपानादिना मे कर्शित एष आत्मा सिद्ध्येत रतिसमर्थो भवेत् । अतिरिरंसयाऽतीव रन्तुमिच्छया ते त्वया । त्वद्दर्शनेनेति यावत् । कृतोऽभिवृद्धो मनोभवः कामस्तेन धर्षिताया मे कामोऽन्योऽपि मनोरथः सिद्ध्येत तदुपशिक्षयेत्यन्वयः । आदौ तावत्सदृशं सार्वभौमपुत्र्या मम योग्यं भवनं विचक्ष्व विचारय
॥ ११ ॥
मैत्रेय उवाच–
प्रियायाः प्रियमन्विच्छन् कर्दमो योगमास्थितः ।
विमानं कामगं क्षत्तस्तर्ह्येवाविरचीकरत् ॥ १२ ॥
पदरत्नावली
विषयेभ्य आहृत्यात्मन्येवाधिष्ठापितसर्वेन्द्रियग्रामोऽपि कर्दमः ‘आश्रितवत्सला महान्तः’ इति भावं दर्शयन् प्रियावचनं पालयन् योगविद्याबलेन तत्क्षण एव गृहं निर्मम इत्याह– प्रियाया इति ॥ यादृशेन भगवद्ध्यानाभीष्टं स्यात् तादृशं योगमनुतिष्ठन् आविरचीकरत् प्रकाशयामास
॥ १२ ॥
प्रकाशिका
योगं तदुपायभूतोपासनाविशेषमास्थितः कुर्वन् । तर्ह्येव तदानीमेवाविरचीकर-त्प्रकाशयामास ॥ १२ ॥
सर्वकामदुघं दिव्यं सर्वरत्नसमन्वितम् ।
सर्वर्द्ध्युपचयोदर्कं मणिस्तम्भैरुपस्कृतम् ॥ १३ ॥
पदरत्नावली
श्रोतृणां भगवद्ध्यानमाहात्म्ये श्रद्धातिशयजननायाप्राकृतं प्राकृतमिव वर्णयति– सर्वकामेत्यादिना ॥ सर्वासां समृद्धीनाम् उपचयेन समाहारेण उदर्कमुत्कृष्टम् । एतदेव विशिनष्टि– मणिस्तम्भैरिति ॥ उपस्कृतमलङ्कृतम् ॥ १३ ॥
प्रकाशिका
सर्वासामृद्धीनामुपचयः समाहारस्तेन उदर्कमुत्कृष्टमुपस्कृतं शोभितम् ॥ १३ ॥
दिव्योपस्करणोपेतं सर्वकालसुखावहम् ।
पट्टिकाभिर्विचित्राभिः पताकाभिरलंकृतम् ॥ १४ ॥
पदरत्नावली
दिव्यानि कुलालादिरचनारहितानि उपस्कराणि भाण्डादिगृहसाधनानि तैर्युक्तम् । पट्टिकाभिः पट्टवस्त्रकृताभिः ॥ १४ ॥
प्रकाशिका
दिव्यान्यलौकिकान्युपस्कराणि भाण्डादिगृहोपकरणानि तैरुपेतं युक्तम् । पट्टिकाभिः पट्टवस्त्रनिर्मिताभिः ॥ १४ ॥
स्रग्भिर्विचित्रमालाभिर्मञ्जुसिञ्जत्षडङ्घ्रिभिः ।
दुकूलक्षौमकौशेयैर्नानावस्त्रैर्विराजितम् ॥ १५ ॥
पदरत्नावली
विचित्रमालाभिर् नानाविधपुष्परचिताभिः स्रग्भिर्मालाभिर् मञ्जु मधुरं, सिञ्चन्तः शब्दं कुर्वन्तः षडङ्घ्रयो भ्रमरा यासु तास्तथोक्तास्ताभिः ॥ १५ ॥
प्रकाशिका
विचित्राणि मालानि पुष्पाणि यासु ताभिः । मञ्जु मधुरं यथा भवति तथा सिञ्जन्तः षडङ्घ्रयो भ्रमरा यासु ताभिः स्नग्भिर्मालाभिः ॥ १५ ॥
उपर्युपरि विन्यस्तनिलयेषु पृथक् पृथक् ।
क्लृप्तैः कशिपुभिः कान्तं पर्यङ्कव्यजनासनैः ॥ १६ ॥
पदरत्नावली
कशिपुभिः शय्याभिः । पर्यङ्कैर् मञ्चैः ॥ १६ ॥
प्रकाशिका
विन्यस्तनिलयेषु विरचितप्रासादेषु । कशिपुभिः शय्याभिः कान्तं कमनीयं, पर्यंको मंचस्तदादिभिश्च कान्तम् ॥ १६ ॥
तत्र तत्र विनिक्षिप्तनानाशिल्पोपशोभितम् ।
महामरकतस्थल्या जुष्टं विद्रुमवेदिभिः ॥ १७ ॥
द्वास्सु विद्रुमदेहल्या भातं वज्रकपाटिमत् ।
शिखरेष्विन्द्रनीलेषु हेमकुम्भैरधिष्ठितम् ॥ १८ ॥
तात्पर्यम्
देहली द्वारबन्धः ॥ १८ ॥
पदरत्नावली
द्वास्सु द्वारेषु । विद्रुमदेहल्या विद्रुमरत्ननिर्मितद्वारबन्धेन ‘देहली द्वारबन्धः स्यात्’ इति च । वज्ररत्नकृताः कपाटयो यस्मिन् सन्तीति वज्रकपाटिमत् ॥ १७,१८ ॥
प्रकाशिका
द्वास्सु द्वारेषु । विद्रुमदेहलीत्यत्र देहलीशब्दस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ देहलीति । तथा च विद्रुमनिर्मितद्वारसम्बन्धेन भातं शोभितमिति मूलार्थ इति भावः । वज्ररचिताः कपाटयोऽस्य सन्तीति वज्रकपाटिमत् ॥ १७,१८ ॥
चक्षुष्मत्पद्मरागाद्यैर्वज्रभित्तिषु निर्मितैः ।
जुष्टं विचित्रवैतानैर्महार्हैर्हेमतोरणैः ॥ १९ ॥
पदरत्नावली
चक्षुष्मन्तो दीप्तिमन्तः पद्मरागाद्या मणयस् तैः । विचित्राणां वितानानां समूहैः
॥ १९ ॥
प्रकाशिका
चक्षुष्मन्तो दीप्तिमन्तः पद्मरागाद्या मणयः । तैर् निर्मितैः खचितैर्वैतानैर्वितानसमूहैः
॥ १९ ॥
हंसपारावतव्रातैस्तत्र तत्र निकूजितम् ।
कृत्रिमान् मन्यमानैः स्वानधिरुह्याधिरुह्य च ॥ २० ॥
तात्पर्यम्
कृत्रिमान् शोभार्थं कृतान् ॥ २० ॥
पदरत्नावली
कृत्रिमान् शोभार्थं कृतान् स्वान् अकृत्रिमान् मन्यमानैः ॥ २० ॥
प्रकाशिका
ननु कृत्रिमानां तत्राप्रसक्तिरित्यतः प्रसक्तिं दर्शयन् कृत्रिमानित्येतद्व्याख्याति ॥ कृत्रिमानिति । तथा च कृत्रिमान् शोभार्थं कृतान्हंसादीन्स्वान्ज्ञातीन्मन्यमानैरिति व्याख्येयमिति भावः
॥ २० ॥
विहारस्थानविश्रामसंवेशप्राङ्गणाजिरैः ।
यथोपजोषं रचितैर्विस्मापनमिवात्मनः ॥ २१ ॥
पदरत्नावली
शयननिवेशनं संवेशः । प्राङ्गणं गृहपूर्वभूमिः । अजिरं गृहबाह्यसंस्कृतभूमिः । यथोपजोषं यथासुखम् ॥ २१ ॥
प्रकाशिका
विहारस्थानं क्रीडाप्रदेशः विश्रामः शयनगृहम् । संवेश उपभोगस्थानं, प्राङ्गणं गृहाद्बहिः, अजिरं प्राकाराद्बहिः । यथोपजोषं यथासुखम् । आत्मनः स्वस्यापि विस्मयकरमिव स्थितम्
॥ २१ ॥
ईदृग् गृहं तत् पश्यन्तीं नातिप्रीतेन चेतसा ।
सर्वभूताशयाभिज्ञः प्रावोचत् कर्दमः स्वयम् ॥ २२ ॥
निमज्जास्मिन् ह्रदे भीरु विमानमिदमारुह ।
इदं शुक्लकृतं तीर्थमाशिषामाप्तये नृणाम् ॥ २३ ॥
पदरत्नावली
परिचारिकाभावान्नातिप्रीतेन । सर्वभूतानामाशयमभिप्रायम् अभितो जानातीति सर्वभूताशयाभिज्ञः ॥ आशिषां शुभानामाप्तये प्राप्तये । एवंविधे ह्रदे तीर्थे ॥ २२,२३ ॥
प्रकाशिका
नातिप्रीतेन मलिनदेहत्वात्परिचारिकाभावाच्च । अस्मिन्ह्रदे बिन्दुसरसि । आरुह अधिरोह । शुक्लेन भगवता कृतम् । आशिषामाशास्यानामर्थानाम् ॥ २२,२३ ॥
सा तद् भर्तुः समादाय वचः कुवलयेक्षणा ।
सरजं बिभ्रती वासो वेणीभूतांश्च मूर्धजान् ॥ २४ ॥
पदरत्नावली
सरजं धूलिधूसरम् ॥ २४ ॥
प्रकाशिका
समादायाहृत्य । सरजं धूलिधूसरं, वेणीभूतान् जटायितान् । मूर्धजान्केशान् ॥ २४ ॥
अङ्गं च मलपङ्केन संच्छन्नं शबलस्तनम् ।
आविवेश सरस्वत्याः सरः शिवजलाशयम् ॥ २५ ॥
पदरत्नावली
मलेन किट्टेन दृढबद्धेन पङ्केन कर्दमेन कल्मषेण वा । शबलौ कृष्णपाण्डुरौ स्तनौ यस्मिंस्तत् तथा तत् । सरस्वत्याः सरो ह्रदम् । शिवानां जलानाम् आशयं स्थानम् ॥ २५ ॥
प्रकाशिका
अङ्गं च बिभ्रत्यभ्यङ्गाभावादभिवृद्धं देहसम्बद्धं यत्कल्मषं तन्मलं तदेव पङ्कं तेन संच्छन्नमाच्छादितनिजवर्णमत एव शबलौ विवर्णौ स्तनौ यस्य तत् । सरस्वत्या नद्याः । शुभानां जलानामाशयमाश्रयभूतम् । शुभा जलाशया जलचरा यस्मिन्निति वा ॥ २५ ॥
साऽन्तःसरसि वेश्मस्थाः शतानि दश कन्यकाः ।
सर्वाः कैशोरवयसो ददर्शोत्पलगन्धयः ॥ २६ ॥
पदरत्नावली
ह्रदं प्रविश्य किमकरोदित्यत्राह– साऽन्तःसरसीति ॥ वेश्म गृहं तत्र स्थिता दश शतानि सहस्रम् । कैशोरवयसः षोडशवर्षवयसः । उत्पलगन्धवद्गन्धो यासां ता उत्पलगन्धयः
॥ २६ ॥
प्रकाशिका
सरस्यन्तर्निमग्ना सती । दशशतानि सहस्रसङ्ख्याकाः कैशोरवयसः षोडशवर्षवयसः । उत्पलगन्धवद्गन्धो यासां ताः स्त्रियः प्रोचुरित्यन्वयः ॥ २६ ॥
तां दृष्ट्वा सहसोत्थाय प्रोचुः प्राञ्जलयः स्त्रियः ।
वयं कर्मकरीस्तुभ्यं शाधि नः करवाम किम् ॥ २७ ॥
स्नानेन तां महार्हेण स्नापयित्वा मनस्विनीम् ।
दुकूले निर्मले नूत्ने ददुरस्यै च मानद ॥ २८ ॥
पदरत्नावली
पथि तृणदर्शनवदेतद्दर्शनेन किमस्याः प्रयोजनमिति तत्राह– तां दृष्ट्वेति ॥ अनेनाभ्युत्थानप्रणामसम्भाषणादिप्रयोजनमुक्तं भवति । कर्मकरीः कर्मकर्यः । शाधि अनुशासनं कुरु ॥ कीदृशं परिचारकर्माकुर्वन्निति तत्राह– स्नानेनेति ॥ महत्या राज्ञ्या र्ओण योग्येन । मनस्विनीं प्रसन्नमनसाम् । नूत्ने नूतने ॥ २७,२८ ॥
प्रकाशिका
वयं कर्मकरीः कर्मकर्यः । अतः शाधि आज्ञापय, महत्या राज्ञ्या र्ओण योग्येन स्नानेनाभ्यङ्गेन मनस्विनीं प्रशस्तमनसीम् । नूत्ने नूतने ॥ २७,२८ ॥
भूषणानि परार्घ्यानि वरीयांसि द्युमन्ति च ।
अन्नं सर्वगुणोपेतं पानं चैवामृतासवम् ॥ २९ ॥
पदरत्नावली
वरीयांसि वरणीयतमानि । द्युमन्ति कान्तिमन्ति । सर्वगुणैर् भक्ष्यभोज्यचोष्यलेह्य-लक्षणैरुपेतं मधुरादिषड्गुणोपेतं वा । अमृतवत् स्वादु मद्यं यस्मिंस्तदमृतासवम् ॥ २९ ॥
प्रकाशिका
सर्वगुणैर्भक्ष्यभोज्यचोष्यलेह्यलक्षणैर्मधुरादिषड्रसैर्वोपेतम् । अमृतलक्षणमासवं मदकरममृतासवं पानं पेयम् ॥ २९ ॥
अथाऽदर्शे स्वमात्मानं स्रग्विणं विरजाम्बरम् ।
विरजं कृतस्वस्त्ययनं कन्याभिर्बहुमानितम् ॥ ३० ॥
तात्पर्यम्
आदर्शे ददर्श ॥ ३० ॥
पदरत्नावली
भर्तृसान्निध्याभावे शरीरशृृङ्गारेण किम् ? तत्र वक्ति– अथेति ॥ आदर्शे दर्पणे । आत्मानं शरीरम् । विरजं निर्मलम् । कृतस्वस्त्ययनं दासीभिः कृताशीर्वचनम् ॥ ३० ॥
प्रकाशिका
आदर्शे दर्पणे । अत्रापेक्षितं क्रियापदं पूरयति ॥ आदर्शे ददर्शेति । अन्यथा दृष्ट्वेत्यनुवादासम्भवादिति ध्येयम् । आदर्श इति न सप्तम्यन्तं दर्पणवाचि किन्तु छान्दसं रूपमित्यभि-प्रेत्य ददर्शेति तद्व्याख्यानमित्यप्याहुः । स्वमात्मानं स्वीयं देहं, कृतं स्वस्त्ययनं मङ्गलं यस्य । लसन्मुखमित्यन्तैर्विशेषणैर्विशिष्टमात्मानं ददर्श । दृष्ट्वा च यदा सस्मारेत्यन्वयः ॥ ३० ॥
दृष्ट्वा कृतशिरःस्नानं सर्वाभरणभूषितम् ।
निष्कग्रीवं वलयिनं कूजत्काञ्चननूपुरम् ॥ ३१ ॥
पदरत्नावली
‘कुलस्त्री तु शिरःस्नानमुत्सवे स्नातु तैलतः । वारे वा पैतृके कर्मण्यन्यदा कण्ठसंप्लवा ॥’ इति स्मार्ताः ॥ ३१ ॥
प्रकाशिका
कृतं शिरःस्नानमभ्यंगो येन । भूषितत्वमेवाह ॥ निष्केति । निष्कं पदकं ग्रीवायां यस्य ॥ ३१ ॥
श्रोण्योरध्यस्तया काञ्च्या काञ्चन्या बहुरत्नया ।
हारेण च महार्हेण रुचकेन च भूषितम् ॥ ३२ ॥
पदरत्नावली
पूर्वपश्चिमभागापेक्षया श्रोण्योरिति । रुचकेन वृत्ताकारेण कण्ठाभरणेन ॥ ३२ ॥
प्रकाशिका
श्रोण्योः पूर्वपश्चिमश्रोणीभागयोः । रुचकेन कण्ठाभरणविशेषेण मङ्गलद्रव्येण कुङ्कुमादिना वा । रुचकं मङ्गलद्रव्ये ग्रीवाभरणदन्तयोरित्यभिधानात् ॥ ३२ ॥
सुभ्रुवा सुदता श्लक्ष्णस्निग्धापाङ्गेन चक्षुषा ।
पद्मकोशस्पृधा नीलैरलकैश्च लसन्मुखम् ॥ ३३ ॥
पदरत्नावली
सुभ्रुवादिभिश्च लसच् चकासन् मुखं यस्मिंस्तत् तथोक्तम् । पद्मकोशं स्पर्धत इति पद्मकोशस्पृत् तेन ॥ ३३ ॥
प्रकाशिका
सुभ्रुवा सुदता चक्षुषेत्येकवचनानि जात्यपेक्षाणि । एतैरलकान्तैर्लसन्मुखं यस्य तम् । कथम्भूतेन चक्षुषा । श्लक्ष्णो मनोहरः स्निग्धः स्नेहयुक्तोऽपाङ्गो नेत्रप्रान्तेनावलोकनं यस्य तेन । पद्मकोशं स्पर्धत इति पद्मकोशस्पृत् तेन ॥ ३३ ॥
यदा सस्मार ऋषभमृषीणां दयितं पतिम् ।
तत्र चास्ते सह स्त्रीभिर्यत्रास्ते स प्रजापतिः ॥ ३४ ॥
भर्तुः पुरस्तादात्मानं स्त्रीसहस्रवृतं तदा ।
निशाम्य तद्योगगतिं संशयं प्रत्यपद्यत ॥ ३५ ॥
पदरत्नावली
एवंविधमात्मानं दृष्ट्वा यदा ऋषीणाम् ऋषभं दयितं प्रेष्ठं पतिं पतिसमीप इदं सर्वं शोभत इति सस्मार ततस्तदा स प्रजपतिर्यत्रास्ते स्वयं च ताभिः स्त्रीभिः सह तत्रैवास्त इत्यन्वयः ॥
यदा सा भर्तुः पुरस्तात् स्थितं स्त्रीसहस्रैश्च वृतमात्मानमद्राक्षीत् तदा तस्य कर्दमस्य योगगतिं भगवद्ध्यानफलं निशाम्य किमिदं चित्रमिति संशयं विस्मयं प्रत्यपद्यत । न तु कोटिद्वयावलम्बि-विकल्पम् । प्रागेव निश्चायकधर्मदर्शनादित्यर्थः ॥ ३४,३५ ॥
प्रकाशिका
निशाम्य दृष्ट्वा । योगगतिं योगमार्गम् । सामर्थ्यमिति यावत् । संशयं विस्मयम्
॥ ३४,३५ ॥
स तां कृतमलस्नानां विभ्राजन्तीमपूर्ववत् ।
आत्मनो बिभ्रतीं रूपं संवीतरुचिरस्तनम् ॥ ३६ ॥
पदरत्नावली
अर्थक्रियायोग्यत्वान् न विकल्पापरपर्यायः संशयोऽभूत् । किन्तु विस्मय एवेति भावेन व्यवाययज्ञोपक्रमं वक्ति– स तामिति ॥ स्तनपट्टिकया संवीतौ प्रावृतौ रुचिरौ च स्तनौ यस्य तत् तथा ॥ ३६ ॥
प्रकाशिका
संवीतौ कञ्चुकादिना परिवृतौ रुचिरौ च स्तनौ यस्य तत् ॥ ३६ ॥
विद्याधरीसहस्रेण सेव्यमानां सुवाससम् ।
जातभावो विमानं तदारोहयदमित्रहन् ॥ ३७ ॥
पदरत्नावली
जातभावः प्रादुर्भूतव्यवायलीलारम्भः ॥ ३७ ॥
प्रकाशिका
जातभावो जातस्नेहः । हे अमित्रहन् ॥ ३७ ॥
तस्मिन्नलुप्तमहिमा प्रिययाऽनुषक्तो
विद्याधरीभिरुपचीर्णवपुर्विमाने ।
बभ्राज उत्कचक उद्गुणपानवीच्य-
स्ताराभिरावृत इवोडुपतिर्नभस्स्थः ॥ ३८ ॥
तात्पर्यम्
उद्गुणपानवीच्य उत्तमामृतवीचीयुक्तः ॥ ३८ ॥
पदरत्नावली
जातभाव इत्युक्तं विवृणोति– तस्मिन्निति ॥ स तस्मिन् विमाने बिभ्राजे चकास इत्यन्वयः । प्रकाशयोग्यगुणानाह– अलुप्तेत्यादिना ॥ अलुप्तमहिमा अपरिच्छिन्नमाहात्म्यः । ग्राम्यकर्मासक्तस्यापि सामर्थ्यलोपो नास्तीत्यर्थः । ‘सर्वेन्द्रियाणां जरयन्ति तेजः’ इति श्रुतेरितरेषां स स्यादिति माहात्म्यलोपशङ्काकारणमाह– प्रिययेति ॥ ‘आलिङ्गने चुम्बने वाप्यनुषङ्गोऽनुवर्तते’ इति । अङ्गमर्दनादिना उपचीर्णं शुश्रूषितं वपुर्यस्य स तथा । अनेन सुरतालये स्त्रिय एव परिचारिका इति सूचितम् । ‘कचः कलङ्के दोषे च कुन्तके भ्रमरे तथा’ इत्यभिधानादुत्कचक उद्धृतदोषः । उत्कृष्टो गुणो यस्य तदुद्गुणं तच्च पानं पातुं योग्यमधरामृतं तदुद्गुणपानम् । तस्य वीचिः परम्पराऽस्यास्तीत्युद्गुण-पानवीच्यः । मत्वर्थे यत्प्रत्ययः । यद्वा उद्गुणपान उत्तमाधरामृतश्च वीच्य एवावीच्यः प्राप्तषोडशवर्षः । प्राप्तषोडशवर्षः सन्नावीच्य इति कथ्यते’ इति च । बुद्ध्यवतारार्थं दृष्टान्तमाह– ताराभिरिति ॥ उडुपतिश्चन्द्रः । उक्तविशेषणानि यथासम्भवं चन्द्रेऽपि घटनीयानि ॥ ३८ ॥
प्रकाशिका
तस्मिन्विमाने मुनिर्बभ्राजे । नलुप्तो महिमा यस्य सः । उपचीर्णं शुश्रूषितं वपुर्यस्य । उत्कचक उद्गतदोष उत्कृष्टकुन्तलो वा । ‘‘कचः कलङ्के दोषे च कुन्तले भ्रमरे तथे’’त्यभि-धानात् । उद्गुणपानवीच्य इत्येतदप्रतीत्या व्याख्याति ॥ उद्गुणेति । उद्गुणेत्यस्य तात्पर्यम् उत्तमेति । पानेत्यस्य अमृतेति । वीच्य इत्यस्य । वीचीयुक्त इति । मत्वर्थे यत्प्रत्यय इति भावः । तथा चोत्कृष्टा गुणा माधुर्यादयो यस्य तदुद्गुणमुत्तमं पानं पेयममृतं तस्य वीच्यस्तरङ्गास्ता अस्य सन्तीति तथा । यथेष्ठममृतपानकर्तेति यावदिति मूलार्थ इति भावः । अत्र दृष्टान्तमाह ॥ ताराभिरिति । उत्कच इत्युद्गुणपानेति च विशेषणद्वयं दृष्टान्तेऽपि चन्द्रे यथायोग्यं योज्यम् । अत्र चन्द्रवन्मुनिः, नभ इव विमानं तारा इव स्त्रियः ॥ ३८ ॥
तेनाष्टलोकपविहारकुलाचलेन्द्र-
द्रोणीष्वनङ्गसखमारुतसौभगासु ।
सिद्धैर्नुतो द्युधुनिपातशिवस्वनासु
रेमे चिरं धनदवल्ललनावरूथी ॥ ३९ ॥
पदरत्नावली
वनजलक्रीडादीनां सुरताङ्गत्वात् तदप्यनेनानुष्ठितमिति भावेन कामगमित्युक्तं विवृणेति श्लोकद्वयेन– तेनेति ॥ तेन विमानेनाष्टानां लोकपालानामिन्द्रादीनां विहारः क्रीडा यासु तास्तथोक्ता, कुलाचलेन्द्राणां सप्तकुलपर्वतानां द्रोण्यो नितम्बगुहा यास्तासु अष्टलोकपविहारकुलाचलेन्द्र-द्रोणीषु वैश्रवणवच्चिरं रेम इत्यन्वयः । पाषाणसन्धिषु सूर्यकिरणसन्तापसम्भूतनिदाघेषु स्वतः कामाग्निना तप्तस्य सुरतोत्सवानुभवः कथं घटत इत्यत उक्तम्– अनङ्गेति ॥ अनङ्गसखः कामसखः मारुतो वायुस्तेन सौभगासु सुन्दरसुखासु । द्युधुनी आकाशगङ्गा तस्याः पातेन प्रस्रवणेन शिवः कर्णसुखः स्वनः शब्दो यासु तास्तथा, तासु । अनेन विशेेषणद्वयेन मान्द्यं शैत्यमिति गुणद्वयमुक्तम् । ललनाः स्त्रियः वरूथः समूहः । उभयत्र समम् ॥ ३९ ॥
प्रकाशिका
तेन विमानेनाष्टलोकपानामिन्द्रादीनां विहारो यस्मिन्कुलाचलेन्द्रे मेरौ तस्य द्रोणीषु दरीषु । अनङ्गः कामस्तस्य सखा यो मारुतः शीतसुगन्धमन्दानिलस्तेन सौभगं सौरतखेदपरिहारजं सुखं यासु । नुतः स्तुतः । द्युधुनिः स्वर्गनदी गङ्गा तस्याः पातेन शिवः स्वनो यासु तासु रेमे ललनावरूथी स्त्रीसमूहवान् ॥ ३९ ॥
वैस्रम्भके सुरवने नन्दने पुष्पभद्रके ।
मानसे चैत्ररथ्ये च स रेमे रामया सह ॥ ४० ॥
पदरत्नावली
इदानीं सौरभ्यं ध्वनयति– वैस्रम्भके सुरवन इति ॥ ४० ॥
प्रकाशिका
वैस्रम्भादीनि देवोद्यानानि तेषु, मानसे च सरसि ॥ ४० ॥
भ्राजिष्णुना विमानेन कामगेन महीयसा ।
वैमानिकानत्यशेत चरन् लोकान् यथाऽनिलः ॥ ४१ ॥
पदरत्नावली
इतरेषां वैमानिकानां विमानानां स्वाधिकृतेष्वेव प्रदेशेषु सञ्चारादस्य विमानस्य तथा विशेषभावादयं सर्वातिशयीत्याह– भ्राजिष्णुनेति ॥ विमानेन चरन्तीति वैमानिकास् तान् ॥ ४१ ॥
प्रकाशिका
अत्यशेतातिक्रम्य स्थितः ॥ ४१ ॥
किं दुरापादनं तेषां पुंसामुद्दामचेतसाम् ।
यैराश्रितस्तीर्थपदश्चरणो व्यसनात्ययः ॥ ४२ ॥
पदरत्नावली
एतदैश्वर्यं न स्वनियतं किन्तु श्रीनारायणप्रसादायत्तमित्याशयेनाह– किं दुरा-पादनमिति ॥ उद्दामचेतसामगाधबुद्धीनाम् । तीर्थं शुद्धजलं गङ्गा पदोर्यस्य स तीर्थपत् तस्य ॥ ४२ ॥
प्रकाशिका
कुत इत्यतः श्रीहरिचरणशरणानामसाध्यस्याभावादित्याह ॥ किं दुरापादनमिति । उद्दामचेतसामुत्कृष्टबुद्धीनाम् । तीर्थं गङ्गा पदोर्यस्य स तीर्थपत्तस्य हरेः ॥ ४२ ॥
प्रेक्षयित्वा भुवो गोलं पत्न्यै यावान् स्वसंस्थया ।
बह्वाश्चर्यं महायोगी स्वाश्रमाय न्यवर्तत ॥ ४३ ॥
पदरत्नावली
बह्वाश्चर्याद् भूगोलकादधिकैश्वर्यातिशयः स्वाश्रम इति भावेन ततस्तस्य निवृत्तिं वक्ति– प्रेक्षयित्वेति ॥ स्वसंस्थया स्वसमाध्या यावांस्तावत्प्रदेशोपेतं भूगोलकं भूमण्डलम् ॥ ४३ ॥
प्रकाशिका
गोलं मण्डलं स्वसंस्थया द्वीपवर्षादिरचनया यावांस्तावन्तम् ॥ ४३ ॥
विभज्य नवधाऽऽत्मानं मानवीं सुरतोत्सुकाम् ।
रामां निरमयन् रेमे वर्षपूगान् मुहूर्तवत् ॥ ४४ ॥
पदरत्नावली
बिन्दुसरः स्वाश्रमं प्राप्य किमकार्षीत् कर्दम इति तत्राह– विभज्येति ॥ महायोगित्वाद् बहुशरीरग्रहणसमर्थः स कर्दम आत्मानं स्वं नवधा विभज्य योगशक्त्या नवसङ्ख्या-विशिष्टानि शरीराणि गृहीत्वा सुरतोत्सुकां मानुषरतिकामुकीं मानवीं मनुपुत्रीं रामामपि तावद्रूपवतीं नितरां रमयन् वात्स्यायनोक्तविधिना वर्षपूगान् मुहूर्तवद् रेम इत्यन्वयः ॥ ४४ ॥
प्रकाशिका
आत्मानं योगसामर्थ्यान्नवधा विभज्य नवशरीराणि गृहीत्वा मानवीं रामामपि नवधा विभज्य निरमयन्नितरां रमयन्रेमे ॥ ४४ ॥
तस्मिन् विमान उत्कृष्टां शय्यां रतिकरीं श्रिता ।
न चाबुद्ध्यत तं कालं पत्याऽऽवीच्येन सङ्गता ॥ ४५ ॥
एवं योगानुभावेन दम्पत्यो रममाणयोः ।
शतं व्यतीयुः शरदः कामलालसयोर्मनाक् ॥ ४६ ॥
तात्पर्यम्
‘प्राप्तषोडशवर्षः सन्नावीच्य इति कथ्यत’ इत्यभिधानम् ॥ ४५ ॥ इति तृतीयतात्पर्ये चतुर्विंशोऽध्यायः ॥ २४ ॥
पदरत्नावली
तृतीयपुरुषार्थानुभव ईदृगिति व्यनक्ति– तस्मिन्निति ॥ मसृणत्वाद् रतिकरीम् । यो बहुतिथस् तं कालम् ॥ इदानीं कालं सङ्ख्याति– एवमिति ॥ शरदो वत्सराः । व्यतीयुरतिक्रान्ताः । कामलालसयोश्चन्द्रोदये वर्धमानसमुद्रतरङ्गवद् विषयभोगाभिलाषयोः ॥ ४५,४६ ॥
प्रकाशिका
आवीच्येन पत्या सङ्गतेत्यत्रावीच्यशब्दार्थं प्रमाणेनैवाह ॥ प्राप्तेति । पुमानिति शेषः । तथा च प्राप्तषोडशवर्षेण यौवनावस्थामापन्नेन पत्येति मूलार्थ इति भावः ॥ ४५,४६ ॥
तस्यामाधत्त रेतस्तां भावयन्नात्मनाऽऽत्मवित् ।
नवधा विधाय रूपं स्वं सत्यसंकल्पविद् विभुः ॥ ४७ ॥
पदरत्नावली
सुरतफलितमाह– तस्यामिति ॥ आत्मवित्त्वं विवृणोति– सत्येति ॥ सत्यसङ्कल्पो हरिः । तं सत्यसंकल्पत्वादिगुणविशिष्टत्वेन वेत्तीति । येन येन यो यो गुणो हरावुपसंह्रियते स तद्गुणविशिष्टो भवतीति न्यायात् स्वयमपि सत्यसङ्कल्पः । स्वं स्वरूपं नवधा विधाय तामप्यात्मना मनसा नवधा भावयन् तस्यां गर्भलक्षणं रेत आधत्तेत्यन्वयः । योगशक्त्या नवसु स्वस्य व्याप्तिसामर्थ्यं सूचयति– विभुरिति ॥ अर्धमात्मन इति पाठे आत्मनोऽर्धं पत्नीं भावयन्नित्यर्थः । ‘अर्धो वा एष आत्मनो यत् पत्नी’ इति श्रुतेः ॥ ४७ ॥
प्रकाशिका
आत्मना स्वमनसाऽऽत्मवित्परमात्मानुसन्धानवान्मुनिः स्वरूपं नवधा विधाय तामपि नवधा भावयंस्तस्यां नवधा विभक्तायां रेतो गर्भमाधत्त । कुत एवं चकारेत्यत उक्तम् ॥ सत्यसङ्कल्पेति । हरेः सत्यसङ्कल्पं वेत्तीति सत्यसङ्कल्पविद्धरिसङ्कल्पं ज्ञात्वैवं कृतवानिति भावः ॥४७॥
ततस्ताः (ततः सा) सुषुवे सद्यो देवहूतिः स्त्रियः प्रजाः ।
सर्वास्ताश्चारुसर्वाङ्ग्यो लोहितोत्पलगन्धयः ॥ ४८ ॥
पदरत्नावली
शुक्लेन हरिणा ‘ऋषय आधास्यंस्तेज आत्मनः’ इत्यादावभिहितत्वादहितः स गर्भः स्त्रीलिंग इति निश्चितेऽपि कतिषु कालावयवेषु गतेषु सा किमसूतेति तत्राह– तत इति ॥ सद्य इत्यनेन निरस्यति कतिष्विति शङ्काम् ॥ ४८ ॥
प्रकाशिका
स्त्रियः प्रजाः स्त्रीरूपाः प्रजा अपत्यानि । प्रसवानन्तरमुभावप्येकैकरूपवन्तौ जाताविति द्रष्टव्यम् ॥ ४८ ॥
पतिं सा प्रव्रजिष्यन्तं तदाऽऽलक्ष्योशती सती ।
स्मयमाना विक्लवेन हृदयेन विदूयता ॥ ४९ ॥
पदरत्नावली
महतां यदुत्तरं कार्यं तत् प्रार्थनापूर्वकं कर्तव्यमित्यतो देवहूतिः पुत्रीणां दानं पुत्रं च पतिं प्रार्थयते– पतिमिति ॥ प्रव्रजिष्यन्तं संन्यासं कर्तुमिच्छन्तम् आलक्ष्य विषयारागादिलक्षणेन ज्ञात्वा उशती पुत्रं कामयमानाऽत एव स्मयमाना विषयाभिलाषिणीवात्मानं दर्शयन्ती उत्पत्स्यमानभर्तृ-विरहजेन विक्लवेन ॥ ४९ ॥
प्रकाशिका
प्रव्रजिष्यन्तं चतुर्थाश्रमं स्वीकर्तुमिच्छन्तमुशती पुत्रेच्छावती पतिव्रता स्मयमाना बहिः । अन्तस्तु विक्लवेन व्याकुलेन विदूयता सन्तप्यमानेन ॥ ४९ ॥
लिखन्त्यधोमुखी भूमिं पदा नखमणिश्रिया ।
उवाच ललितां वाचं निरुध्याश्रुकलां शनैः ॥ ५० ॥
सर्वं तद् भगवान् मह्यमुपोवाह प्रतिश्रुतम् ।
अथापि मे प्रपन्नाया अभयं दातुमर्हसि ॥ ५१ ॥
पदरत्नावली
विषयाभिलाषं व्यनक्ति– लिखन्तीति ॥ नखा एव मणयः नखमणयस्तेषां श्रीर्यस्य स तथा तेन । अनेन कामार्ताः पादाङ्गुष्ठेन भूमिमुल्लिखन्तीति वात्स्यायनप्रसिद्धमिति सूचयति ॥ किमाहेति वृत्तमनुवदति– सर्वमिति ॥ उपोवाह उपचकार । अथ किम् ? तत्राह– अथापीति ॥ अभयमभयलक्षणं पुत्रम् ॥ ५०,५१ ॥
प्रकाशिका
उपोवाह सम्पादितवान् । अभयमैहिकमामुष्मिकं च ॥ ५०,५१ ॥
ब्रह्मन् दुहितृभिस्तुभ्यं विमृश्याः पतयः समाः ।
कश्चित् (अपि) स्यान्मे विशोकाय त्वयि प्रव्रजिते वनम् ॥ ५२ ॥
पदरत्नावली
किञ्च तुभ्यं तव । दुहितृभिः समाः । अभयमिति सामान्यत उक्तं स्पष्टयति– अपीति ॥ त्वयि वनं प्रव्रजिते संन्यस्य वनं गते सति मम विशोकाय संसारदुःखप्रहाणाय पुत्रः स्यादपि, सम्भवेत् किम् ? तत्सम्भवाय भवदनुग्रहो भूयादिति शेषः । सच्चिदिति पाठे सच्चिदानन्द-लक्षणः परमात्मेति ध्वनयति । कश्चिदिति पाठेऽप्ययमेवार्थः ॥ ५२ ॥
प्रकाशिका
एतदेवाह ॥ ब्रह्मन्निति । दुहितृभिः समा दुहितृयोग्याः । एवमैहिकमभयं प्रार्थयित्वाऽऽमुष्मिकं तत्प्रार्थयते ॥ कश्चिदिति । कश्चित्पुत्रो विशोकाय मोक्षाय ॥ ५२ ॥
एतावताऽलं कालेन व्यतिक्रान्तेन मे प्रभो ।
इन्द्रियार्थप्रसङ्गेन परित्यक्तपरात्मनः ॥ ५३ ॥
पदरत्नावली
अथापि पुत्रप्रार्थनव्याजेनेयं विषयाभिलाषुरितिशङ्का मा भूदित्याह– एतावतेति ॥ इन्द्रियार्थेषु शब्दादिषु प्रसङ्गो गुणबुद्ध्यातिस्नेहलक्षणो यस्तेन परित्यक्तो विस्मृतः परात्मा सर्वोत्तमो हरिर्यया सा तथोक्ता तस्याः ॥ ५३ ॥
प्रकाशिका
परित्यक्तो विस्मृतः परात्मा हरिर्यया सा तथा तस्याः ॥ ५३ ॥
इन्द्रियार्थेषु सज्जन्त्या प्रसङ्गस्त्वयि मे कृतः ।
अजानन्त्या परं भावं तथाप्यस्त्वभया(वा)य मे ॥ ५४ ॥
पदरत्नावली
मम गतकालोऽपि पुरुषार्थहेतुः स्यादिति प्रार्थयत इत्याह– इन्द्रियार्थेष्विति ॥ यद्यपि इन्द्रियार्थेषु सज्जन्त्या भवतः परमितरविलक्षणं भावं योगैश्वर्यमजानन्त्या मे त्वयि कृतो यः प्रसङ्गः सः । तथापि परमभागवतत्वेन तत्सङ्गत्वान् मे अभवाय अपुनर्भवायास्त्वित्यन्वयः ॥ ५४ ॥
प्रकाशिका
परं भावं तवोत्तमं योगसामर्थ्यम् । तथाप्येवं मदीयदोषसद्भावेऽपि यतः परमभागवते त्वयि प्रसङ्गः कृतोऽतः सोऽभयाय मोक्षायास्तु ॥ ५४ ॥
संयोगः संसृतेर्हेतुरसत्सु विहितो धिया ।
स एव साधुषु कृतो निःसङ्गत्वाय कल्पते ॥ ५५ ॥
पदरत्नावली
ज्ञानं विना सङ्गस्य पुरुषार्थहेतुत्वं कथमित्यतस्तं विशिनष्टि– संयोग इति ॥ साधुषु भागवतेषु । निःसङ्गत्वाय संसारविरागाय । अनेन वैराग्यभक्तिज्ञानद्वारा सत्सङ्ग पुरुषार्थहेतुरित्युक्तं भवति ॥ ५५ ॥
प्रकाशिका
एतदेवोपपादयति ॥ संयोग इति । निःसंगत्वाय वैराग्याय तद्वारा मोक्षायेत्याशयः
॥ ५५ ॥
नेह यत् कर्म धर्माय न विरागाय कल्पते ।
न तीर्थपदसेवायै जीवन्नपि मृतो हि सः ॥ ५६ ॥
पदरत्नावली
सत्सङ्गत्योत्पन्नब्रह्मार्पणबुद्ध्या चिकित्सितस्य कर्मणो द्वारद्वारिकया परमपुरुषार्थ-हेतुत्वं, न केवलस्य क्षणिकत्वेन चाचेतनत्वेन च स्वाभीष्टफलदानसामर्थ्याभावादित्याह– नेहेति ॥ इह कर्मभूमौ येन पुरुषेण यत् क्रियमाणं कर्म धर्माय धर्माख्यपुरुषार्थप्राप्तये न स्याद् विरागाय च न कल्पते वैराग्योत्पत्तौ न समर्थं स्यात् तीर्थपदस्य हरेः सेवायै च न स्यात् तादृशकेवलस्य कर्मणः कर्ता स पुरुषो जीवन्मृत इत्युच्यते । अपिशब्देन तस्य जन्म गर्हयति । यस्मात् तस्माद् भागवतसङ्गत्या शिक्षितं कर्मैव कर्तव्यमित्यर्थः ॥ ५६ ॥
प्रकाशिका
यो धर्मं मोक्षं वा न सम्पादयति तस्य जन्म व्यर्थमित्याह ॥ नेहेति । इह भारते वर्षे । यत्कर्म यस्य देहिनो व्यापारः स देही ॥ ५६ ॥
साहं भगवतो नूनं वञ्चिता मायया दृढम् ।
या त्वां विमुक्तिदं प्राप्य न मुमुक्षे ह बन्धनात् ॥ ५७ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे चतुर्विंशोऽध्यायः ।
पदरत्नावली
तर्हि किमर्थं सकृदङ्गसङ्गो भूयादिति विषयाभिलाषः प्रार्थित इति तत्राह– साहमिति ॥ सा तादृश्यहं भगवतो हरेर्मायया बन्धकशक्त्या वञ्चिता । नूनं तर्कयामि । ‘तर्कनिश्चय-योर्नूनम्’ इति च । तत्र हेतुमाह– या त्वामिति ॥ संसारविमुक्तिदं त्वां प्राप्य संसारबन्धनान्न मुमुक्षे मुक्तिं नेच्छामीति यस्मादत इति । हेत्यनेन संसारप्रवृत्त्यारम्भमेवेच्छामीति सूचयति ॥ ५७ ॥
इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे चतुर्विंशोऽध्यायः ॥
प्रकाशिका
न मुमुक्षे मोक्तुमिच्छां न कृतवती ॥ ५७ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागतटिप्पण्यां चतुर्विंशोऽध्यायः ॥ ३-२४ ॥