एवमाविष्कृताशेषगुणकर्मोदयो मुनिम्
अथ त्रयोविंशोऽध्यायः
मैत्रेय उवाच–
एवमाविष्कृताशेषगुणकर्मोदयो मुनिम् ।
सव्रीड इव तं सम्राट् उपारतमुवाच ह ॥ १ ॥
पदरत्नावली
राज्ञा कर्दमपृष्टं श्रुत्वा स्मित्वा च तूष्णीमास्थायि, कश्चन वाग्व्यवहारो वाकारि इति तत्राह– एवमिति ॥ सव्रीड इवेति विनयगुणं भूषयति । उपारतं यावदपेक्षितमुक्त्वा तूष्णीं स्थितम् । यद्वा उपाधिके सर्वेश्वरे हरावकारशब्दवाच्ये रतं निरतं श्रीनारायणध्यानोपेतमित्यर्थः । ‘अआअम्अः पुराणर्षिः’ इति पाद्मे ॥ १ ॥
प्रकाशिका
एवमाविष्कृतोऽशेषाणां गुणानां कर्मणां चोदय उत्कर्षो यस्य सः । सम्राट् मनुः । विनयविशेषप्रदर्शनाय सव्रीड इवेत्युक्तम् । उप समीपे स्वहृदये स्थितो यो अः परमात्मा तत्रैव रतम् । वचनावसाने हरिं ध्यायन्तमिति यावत् । हेत्यनेन मनोर्विनयमभिनन्दति ॥ १ ॥
मनुरुवाच–
ब्रह्मासृजत् स्वमुखतो युष्मानस्मत्परीप्सया ।
छन्दोमयांस्तपोविद्यायोगयुक्तानलम्पटान् ॥ २ ॥
पदरत्नावली
हेत्यनेन विप्रक्षत्रिययोः सूचितां समानसंबन्धप्रसिद्धिं प्रपञ्चयति– ब्रह्मेति ॥ अस्मत्परीप्सयाऽस्मद्रक्षणेच्छया । छन्दोमयान् वेदप्रधानान् । तपः कायक्लेशः । विद्या शास्त्रज्ञानम् । योगो भगवद्भक्तिलक्षणः । अनेन क्षत्ररक्षासामर्थ्यमुक्तं भवति । अलम्पटान् विरक्तान् शमदमादि-गुणसंपन्नानित्यर्थः ॥ २ ॥
प्रकाशिका
मनुः स्वचिकीर्षितं विज्ञापयिष्यन् त्वं धर्मसेतुरक्षक इति मुनिवचनस्य, भवद्रक्षिता एव वयं धर्मसेतुरक्षकाः । एवमस्माकं युष्माकं च परस्परमुपजीव्योपजीवकभावो हरिणैव पूर्वं कृतः । अतः स एव भवतामस्माकं मुख्यरक्षक इत्युत्तरं तावदाह ॥ ब्रह्माऽसृजदित्यादिना । ब्रह्मा ब्रह्मान्तर्गतो हरिर्युष्मान् ब्राह्मणान् अस्मत्परीप्सयाऽस्मद्रक्षणेच्छया छन्दोमयान्वेदप्रधानान् । योगो भगवद्भक्त्यादि-लक्षणः ॥ २ ॥
तत्त्राणायासृजच्चास्मान् दोःसहस्रात् सहस्रपात् ।
हृदयं तस्य हि ब्रह्म क्षत्रमङ्गं प्रचक्षते ॥ ३ ॥
पदरत्नावली
विप्राणां त्राणाय रक्षणाय । अनन्तत्वद्योतनाय दोः सहस्त्रादिति । उभयोर्हरेः किं प्रियतममिति तत्राह– हृदयमिति ॥ तस्य हरेर्ब्र्रह्मकुलं हृदयमतिप्रियं हि । ‘च्छिन्द्यां स्वबाहुमपि’ इत्युक्तं हि । तर्हि किं क्षत्रेणेत्यत उक्तम्– क्षत्रमिति ॥ अङ्गाङ्गिभावेन तारतम्येनातिप्रियत्वम् ॥ ३ ॥
प्रकाशिका
अस्मान् क्षत्रियान् । ब्रह्म ब्राह्मणजातिस्तस्य हरेर्हृदयं हृदयरूपाङ्गस्थानीयम् । क्षत्रं क्षत्रजातिः । अङ्गमितराङ्गस्थानीयम् । हृदयं प्रियं प्रधानम् । अङ्गमप्रधानमिति वा ॥ ३ ॥
अतो ह्यन्योन्यमात्मानं ब्रह्म क्षत्रं च रक्षतः ।
रक्षत्यस्मान् (द्वयं) द्वयान् देवः सदा सदसदात्मकः ॥ ४ ॥
पदरत्नावली
यत एवाङ्गाङ्गित्वमत एव ब्रह्म क्षत्रं रक्षति । आत्मानं चोपदेशादिना रक्षति । यः सदसदात्मकः कार्यकारणव्यापी देवो द्वयमपि रक्षतीत्यन्वयः ॥ ४ ॥
प्रकाशिका
सदसदात्मकः कार्यकारणव्यापी ॥ ४ ॥
तव सन्दर्शनादेव च्छिन्ना मे संशया हृदः ।
यत् स्वयं भगवान् प्रीत्या धर्ममाह रिरक्षिषोः ॥ ५ ॥
पदरत्नावली
स्वप्रार्थनां ग्राहयितुं कर्दमं प्रशंसति– तवेति ॥ दर्शनादित्यनेन चक्षुःसन्निकर्षः शास्त्रीयवचनं चेति द्वयं विवक्षितम् । धर्मं राज्यपालनादिकम् ॥ ५ ॥
प्रकाशिका
इदानीं स्वविज्ञापितकार्यस्वीकाराय तद्दर्शनादिकं तावदभिनन्दति ॥ तवेत्यादि-श्लोकत्रयेण । धर्मं राज्यपालनादिरूपम् ॥ ५ ॥
दिष्ट्या मे भगवान् दृष्टो दुर्दर्शो योऽकृतात्मनाम् ।
दिष्ट्या पादरजः स्पृष्टं शीर्ष्णा ये भवतः शिवम् ॥ ६ ॥
पदरत्नावली
भगवद्दर्शनं सुपूतानामेव लभ्यते नापुण्यानामित्याह– दिष्ट्येति ॥ अङ्गसङ्गस्तु ततोऽभ्यधिकपुण्याल्लभ्यत इति भावेनाह– दिष्ट्येति ॥ ६ ॥
प्रकाशिका
अकृतात्मनामजितमनस्कानाम् ॥ ६ ॥
दिष्ट्या त्वयानुशिष्टोऽहं कृतश्चानुग्रहो महान् ।
अपावृतैः कर्णरन्ध्रैर्जुष्टा दिष्ट्योशतीर्गिरः ॥ ७ ॥
पदरत्नावली
अपावृतैर्विवृतैर् उशतीरुशत्यः निर्मलाः ॥ ७ ॥
प्रकाशिका
अपावृतैरपगतावरणैर्जुष्टाः सेविताः सादरं श्रुता उशतीरुशत्यो निर्मलाः ॥ ७ ॥
स भवान् दुहितुः स्नेहपरिक्लिष्टात्मनो मम ।
श्रोतुमर्हसि दीनस्य श्रावितं कृपया मुने ॥ ८ ॥
पदरत्नावली
अलमनुलापेन । किमिच्छुरागतोऽपि तद् ब्रूहि इति तत्राह– स भवानिति ॥ ८ ॥
प्रकाशिका
एवं तमभिनन्द्येदानीं स्वाभीष्टं विज्ञापयति ॥ स भवानिति सप्तभिः । श्रावितं विज्ञापितम् ॥ ८ ॥
प्रियव्रतोत्तानपदोः स्वसेयं दुहिता मम ।
अन्विच्छन्ती पतिं युक्तं वयःशीलगुणादिभिः ॥ ९ ॥
पदरत्नावली
भ्रातृमतीत्वेन ग्राह्यत्वे हेतुं पुत्रिकापुत्रधर्मराहित्यं ध्वनयन्नाह– प्रियव्रतेति ॥ सामान्यविशेषाभ्यां व्यवहारः सम्भवति । स एव कथमस्या इति तत्राह– अन्विच्छन्तीति ॥ यदा वयःशीलगुणादिभिर्युक्तं पतिमन्विच्छन्ती, सम्भोगवयः प्राप्तासीत् । न हि कन्या पतिं स्वयं मृगयते । प्रत्युत बान्धवा एव । अतोऽन्विच्छन्तीत्यनेन वय एव लक्ष्यते ॥ ९ ॥
प्रकाशिका
भ्रातृमतीत्वप्रदर्शनायाह ॥ प्रियव्रतेति ॥ ९ ॥
यदा तु भवतः शीलश्रुतरूपवयोगुणान् ।
अशृृणोन्नारदात् सैषा त्वय्यासीत् कृतनिश्चया ॥ १० ॥
पदरत्नावली
यदा तु नारदाद् भवतः शीलादिगुणानशृृणोत् । ततः किम् ? अत्राह– सैषेति ॥ या श्रुतवती सैषा स एव मम पतिः स्यादिति कृतनिश्चयाऽसीत् ॥ १० ॥
तत् प्रतीच्छ द्विजाग्य्रेमां श्रद्धयोपहृतां मया ।
सर्वात्मनानुरूपां ते गृहमेधेषु कर्मसु ॥ ११ ॥
पदरत्नावली
अत्रापि कीदृशोऽसौ कुत्रास्त इत्यादिविशेषप्रश्नादिना निश्चयो लभ्यत इत्यत एकोंऽशो निरणायि अतो द्वितीयोऽपि निर्धार्य इति भावेनाह– तत् प्रतीच्छेति ॥ कन्येच्छायाः प्रतिनिधित्वेनेच्छां कुरु गृहाणेत्यर्थः । अत्रान्योऽपि गुणोऽस्तीत्याह– श्रद्धयेति ॥ उपहृतां दत्ताम् । अतोऽपि गुणाद् गृहाणेत्याशयेनाह– सर्वात्मनेति ॥ गृहमेधेषु गृहस्थाश्रमयोग्ययज्ञाख्येषु कर्मसु तव सर्वात्मना युक्तायुक्तविचारमन्तरेण स्वत एवानुरूपामनुकूलशब्दादिगुणाम् । ‘रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ हितादिषु । सौन्दर्ये च स्वभावे च’ ॥ ११ ॥
प्रकाशिका
तत्तस्मात्प्रतीच्छ स्वीकुरु । गृहमेधेषु गृहस्थाश्रमयोग्येष्वनुरूपामनुकूलस्वभावाम् । ‘‘सौन्दर्ये च स्वभावे च रूपम्’’ इत्यभिधानात् ॥ ११ ॥
उद्यतस्य हि कामस्य प्रतिवादो न शस्यते ।
अपि निर्मुक्तसङ्गस्य कामरक्तस्य किं पुनः ॥ १२ ॥
पदरत्नावली
किञ्च नेदानीमिति प्रवादेन ‘न काञ्चन परिहरेत् तद् व्रतम्’ इति श्रुति-विरोधोऽपि स्यादिति भावेनाह– उद्यतस्येति ॥ निर्मुक्तसङ्गस्य विषयसङ्गमनिच्छतोऽपि । न तु सर्वात्मना मुक्तसङ्गस्य । निषिद्धत्वादनर्थहेतुत्वाच्च । तदुक्तम्– ‘यस्तु प्रव्रजितो भूत्वा पुनः सेवेत मैथुनम् । षष्टिवर्षसहस्त्राणि विष्ठायां जायते कृमिः ॥’ इति । कामरक्तस्य योग्यस्य प्रतिवादः प्रत्याख्यानं, निषेध इत्यर्थः ॥ १२ ॥
प्रकाशिका
न प्रतिगृहीष्ये इति निराकरणं तव नोचितमित्याह ॥ उद्यतस्येति । उद्यतस्य स्वतः प्राप्तस्य कामस्य विषयस्य प्रतिवादः प्रत्याख्यानं न शस्यते न धर्मशास्त्रानुकूलः । निर्मुक्तसंगस्यापि विषयापेक्षाशून्यस्यापि ब्रह्मचर्यादेरित्यर्थः ॥ १२ ॥
य उद्यतमनादृत्य कीनाशमभियाचते ।
क्षीयते तद् यशः स्फीतं मानश्चावज्ञया हतः ॥ १३ ॥
पदरत्नावली
भवन्तमन्तरेणान्यः कश्चित् प्रत्याख्याति चेद् बाधकं चास्तीत्याह– य उद्यत-मिति ॥ कीनाशं कदर्यं कर्षकं वा ॥ १३ ॥
प्रकाशिका
दातुमुद्यते मादृशे प्राप्तेऽप्यन्योऽस्माकं दाता भविष्यतीत्यपि वचनं न भवादृशानां यशोधनानां युक्तमित्याह ॥ य उद्यतमिति । दातुमुद्यतं मादृशम् अवजानन् । कीनाशं कदर्यम् । हतः स्यादिति शेषः ॥ १३ ॥
अहं त्वा(चा)शृृणवं विद्वन्नुद्वाहार्थं समुद्यतम् ।
अतस्त्वमुपकुर्वाणोऽप्रत्तां१ प्रतिगृहाण मे ॥ १४ ॥
पदरत्नावली
अनापृच्छ्यागमनमात्मदोषं परिहरति– अहं चेति ॥ अनेन बहिर्मुखेष्वयं दोषो न पण्डितेष्विति दर्शितम् । उपकुर्वाणो विवाहकामः । ‘वेदानधीत्य यो वर्णी विवाहार्थं गुरोः कुलात् । कृतानुज्ञो निवर्तेत उपकुर्वाण उच्यते’ ॥ १४ ॥
प्रकाशिका
भवांस्तु सकामः । अतस्तदप्रत्याख्यानमनुचितमित्याशयेनाह ॥ अहं त्वेति । उपकुर्वाणो विवाहकामः । ‘‘वेदानधीत्य यो वर्णी विवाहार्थं गुरोः कुलात् । कृतानुज्ञो निवर्तेत उप-कुर्वाण उच्यत’’ इति वचनात् ॥ १४ ॥
ऋषिरुवाच–
बाढमुद्वोढुकामोऽहमप्रमत्ता तवात्मजा ।
आवयोरनुरूपोऽसावाद्यो वैवाहिको विधिः ॥ १५ ॥
पदरत्नावली
प्रतिबुद्धप्रत्युत्तरो मुनिः किमकार्षीदिति राज्ञोऽन्तःशङ्कां निवारयति– बाढमिति ॥ बाढमित्युक्तं विवृणोति– उद्वोढुकाम इति ॥ ‘बाढं त्वभिमते भृशे’ इति च । तव पुत्री वोढुं योग्येत्याह– अप्रमत्तेति ॥ ‘पतिशुश्रूषणे यत्ता विषयासक्तिनिःस्पृहा । धर्मार्थकामहेतुर्या त्वप्रमत्तेति तां विदुः ॥’ इति । त्वप्रत्तेति पाठेऽर्थितायान्यस्मै वाचाप्यदत्तत्वात् परामृष्टशङ्काभावादुपयन्तुं योग्येत्याह– अप्रत्तेति ॥ चशब्दो हेत्वर्थः । किं नामायं विवाह इति तत्राह– आवयोरिति ॥ चतुर्णां विवाहविधीनामयं वैवाहिको विधिराद्यः ब्राह्मः । शक्त्या कन्यामलंकृत्याहूय यत्र प्रदीयते स ब्राह्म इति स्मार्तः । मुहूर्तं प्रतीक्ष्य न स्थेयमित्यतो वाह– आवयोरिति ॥ आद्यो अद्यतनो दिवस एव विवाह-योग्यः, विधीयत इति विधिः । ‘विभक्तिप्रतिरूपकं चाव्ययं भवति’ इति वचनादद्येत्यन्वयं सुबन्त-रूपमपि विवक्षावशाद् भवति, ‘प्रतिः प्रतिनिधिप्रतिदानयोः’ इति सूत्राच्च ॥ १५ ॥
प्रकाशिका
बाढमित्युक्तमेव विशदयति ॥ उद्वोढुकाम इति । तव पुत्री च बाढं योग्या इत्याह ॥ अप्रमत्तेति । ‘‘पतिशुश्रूषणे यत्ता विषयासक्तिवर्जिता । धर्मार्थकामहेतुर्या त्वप्रमत्तेति तां विदुः’’ इति स्मृत्युक्तप्रकारेणाप्रमत्तेत्यर्थः । अप्रदत्तेति पाठेऽन्यस्मै वाचाऽप्यदत्तेत्यर्थः । तथा च परामृष्टत्वशङ्काभावाद्विवाहयोग्येति भावः । चतुर्णां विवाहविधीनां मध्येऽयमाद्यः प्रथमो ब्राह्मः । शक्त्या कन्यामलंकृत्यागताय वराय यत्र सा प्रदीयत स ब्राह्मः । विधिरस्त्विति शेषः ॥ १५ ॥
कामः स भूयान्नरदेव तेऽस्याः
पुत्र्याः समाम्नायविधौ प्रतीतः ।
क एव ते तनयां नाद्रियेत
स्वयाङ्ग(स्वयैव) कान्त्या क्षिपतीमिव श्रियम् ॥ १६ ॥
तात्पर्यम्
स्वया कान्त्याऽन्याः क्षिपन्ती श्रीर्यथा तद्वत्स्थिताम् ॥ १६ ॥
पदरत्नावली
सन्तानलक्षणः स्त्रीणां मुख्यकामः । स विधिना स्यात् तादृशो भूयादिति राज्ञोऽभिप्रायं जानन्निव कर्दमो नियुङ्क्ते– काम इति ॥ यः कामः समाम्नायविधौ वेदवाक्ये ‘दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि’ इति प्रतीतः ख्यातः, हे नरदेव स कामस्ते तवास्याः पुत्र्याः स्यादित्यन्वयः । अनन्तरमपि भवता मत्पुत्री लालनीयेति न प्रार्थनीयमिति भावेनाह– क एवेति ॥ स्वया औत्पत्तिक्या कान्त्या स्त्रियः क्षिपन्तीं निरस्यन्तीं श्रियं लक्ष्मीमिव स्थिताम् । अनादर-हेतुरूप-लावण्याद्यभावाभावादित्यर्थः ॥ १६ ॥
प्रकाशिका
हे नरदेव नृपते । अस्याः पुत्र्या यः समाम्नायविधौ ‘‘दशास्यां पुत्रानाधेहि पतिमेकादशं कृधी’’त्यादिवेदवाक्ये प्रतीतः प्रसिद्धः कामः सुप्रजावत्वादिरूपः । स भूयाद्भवेत् । य उक्तरूपो मम कामः स तेऽस्याः पुत्र्याः सकाशाद्भूयादिति वा । अत्र स्वयाऽङ्गकान्त्या श्रियं क्षिपतीमिव स्थितामिति प्रतीतार्थस्य बाधितत्वादबाधितां योजनां दर्शयति ॥ स्वयेति । तथा चान्याः स्थितामिति पदद्वयमध्याहृत्य योजनीयमिति भावः ॥ १६ ॥
यां हर्म्यपृष्ठे क्वणदङ्घ्रिशोभां
विक्रीडतीं कन्दुकविह्वलाक्षीम् ।
विश्वावसुर्न्यपतत् स्वाद्विमानाद्
विलोक्य संमोहविमूढचेताः ॥ १७ ॥
पदरत्नावली
यथा पुरस्या नारदवाक्यादस्मद्गुणविषयाभिरुचिरभूत् तथास्माकमपि केनचित् पथिकेन श्रावितायामस्यां शृृङ्गारादिगुणपङ्क्तिमाकर्ण्याकाङ्क्षा समुत्पन्नेति भावेन तल्लावण्यं स्तौति– यामित्यादिश्लोकद्वयेन ॥ विश्वावसुर्गन्धर्वः । समीचीनो मोहो यस्मात् सौन्दर्यात् तत् तथा तेन संमोहेन सौन्दर्येण विमूढं कृत्याकृत्यविवेकशून्यं चेतो यस्य स तथा । यद्वा संमोहो दर्शनाज्जातं पारवश्यं तेन मूढचेताः । अनेन कर्दमस्य ऋषित्वमन्वर्थमिति दर्शितम् । यद्वा संमोहो नाम वस्तुनि स्नेहविशेषस्तेन
॥ १७ ॥
प्रकाशिका
विश्वावसुर्गन्धर्वः । संमोहेन कालकृतकश्मलेन विमूढं व्याकुलं चेतो यस्य ॥१७॥
तां प्रार्थयन्तीं ललनाललामामसेवितश्रीचरणैरदृष्टाम् ।
वत्सां (सुतां) मनोरुच्चपदः स्वसारं को नानुमन्येत बुधोऽभिजातः ॥ १८ ॥
पदरत्नावली
प्रार्थयन्तीमित्यादि पञ्चविशेषणानि स्वीकारे कारणानि । ललनानां विलासिनीनां स्त्रीणां ललामां तिलकभूताम् । न सेवितौ श्रियो लक्ष्म्याश्चरणौ यैस्ते तथा तैः पुरुषैरदृष्टामित्यनेन दृष्टिविषयीकारयोग्यतापि न, किं पुनः स्वीकार इति सूचयति । मनोः सुतामिति कुलम् । उच्चपद उत्तानपादस्य स्वसारं भगिनीमिति भ्रातृमतीत्वम्, कोऽप्यस्थाने जातोऽपि बुधः स्यादतोऽभिजात इति । अनेनात्मनो योग्यतातिशयं ध्वनयति ॥ १८ ॥
प्रकाशिका
ललनानां स्त्रीणां ललामां भूषणभूतामसेवितौ श्रियो लक्ष्म्याश्चरणौ यैस्ते तथा तैः पुरुषैरदृष्टामित्यनेन दृष्टिविषयीकरणयोग्यतापि न किं पुनः स्वीकार इति सूचयति । अनेन लक्ष्मी-प्रसादवद्भिराप्राप्यत्वमुक्तमिति ज्ञातव्यम् । मनोर् वत्सामिति कुलम् । उच्चपद उत्तानपादस्य स्वसारं भगिनीमित्यनेन भ्रातृमतीत्वम् । अभिजातः सत्कुलीनः । अनेनात्मनस्तद्वरणयोग्यतामाह ॥ १८ ॥
अतो भजिष्ये समयेन साध्वीं
यावत् तेजो बिभृयादात्मनो मे ।
अतो धर्मान् पारमहंस्यमुख्यान्
शुक्लोपदिष्टान् बहुमन्येऽविहिंस्रान् ॥ १९ ॥
पदरत्नावली
किमनुलापेन ? उक्तं सर्वं सत्यं प्रत्यक्षं च । परं किं क्रियत इति तत्राह– अत इति ॥ यत एवंविधगुणा अत इति । समयेन कालेन । कालं च वक्ति– यावदिति ॥ इयं तव पुत्री यावद् यदा मे आत्मनः शरीरस्य भुक्तान्नविकारकृतरेतोलक्षणं तेजो बिभृयाद् बिभर्ति, अहमपि तावदेव बिभर्मीति शेषः । ततः परं किम् ? अत्राह– अत इति ॥ अतो ऽत्रापत्योत्पत्यनन्तरं पारमहंस्य-मुख्यान् परमहंससम्बन्धिनोऽत एव मुख्यान् शुक्लेन नित्यशुद्धेन हरिणोपदिष्टान् अविहिंस्रान् पश्वाद्यालम्भनविधुरान् धर्मान् बहुमन्ये अनुतिष्ठामि संप्राप्स्यामीत्यर्थः ॥ १९ ॥
प्रकाशिका
भजिष्ये स्वीकरिष्ये समयेन कालविशेषावधिकेन सङ्केतेन । तमेवाह ॥ यावदिति । इयं तव पुत्रीति यावत् । यावता कालेन मे आत्मनो मद्देहाच्च्युतं तेजोवीर्यं बिभृयात् । अपत्यवती स्यादिति यावत् । तावन्तमेव कालं भजिष्ये । अत एतस्मात्कालादनन्तरं पारमहंस्याः परमहंसाश्रम-सम्बन्धिनो अत एव मुख्या ये धर्मास्तान् । शुक्लेन शुद्धेन भगवतोपदिष्टान् अविहिंस्रान् यागीयपशु-हिंस्रादिवर्जितान् बहुमन्येऽनुतिष्ठामि ॥ १९ ॥
यतोऽभवद् विश्वमिदं विचित्रं संस्थाप्यते यत्र च वाऽवतिष्ठते ।
प्रजापतीनां पतिरेष मह्यं परं प्रमाणं भगवाननन्तः ॥ २० ॥
पदरत्नावली
अस्मिन्नर्थे हरिरेवावयोः साक्षीत्याह– यत इति ॥ येन संस्थाप्यते स्वसेतौ निधाय रक्ष्यते । प्रलये यत्र यस्योदरे । स च प्रमाणं साक्षी । अनन्त इति साक्षिणः कालत्रये-प्यवस्थानमाह ॥ २० ॥
प्रकाशिका
इदं न मया स्वबुद्ध्योच्यतेऽपि तु भगवतैवमुपदिष्टमित्याह ॥ यत इति । यत्र यस्मिन्नवतिष्ठते प्रलये । एतानि विशेषणानि तदाज्ञाया अनुल्लङ्घ्यत्वसूचकानि । पतिर्ब्रह्मान्तर्यामी परं प्रमाणं मुख्योपदेष्टा । अस्मिन्नर्थे इति शेषः ॥ २० ॥
मैत्रेय उवाच–
स उग्रधन्वन्नियदेवाबभाष आसीच्च तूष्णीमरविन्दनाभम् ।
धियोपगृह्णन् स्मितशोभितेन मुखेन चेतो लुलुभे देवहूत्याः ॥ २१ ॥
पदरत्नावली
मैत्रेयो विदुरं प्रति कर्दमस्य मितभाषित्वगुणं वक्ति– स उग्रधन्वन्निति ॥ इयमेव एतावदेव । ‘स्वमनीषितं चेदभूदतो हिरणा किम् ?’ इति हरावनादरबुद्धिर्नाभूत् । तत्प्रसादादेव समस्तं कार्यजातमभूदिति सततं श्रीनारायणस्मृतिमानित्यत उक्तम्– अरविन्दनाभमिति ॥ नवोद्वाहयोग्यायाः कन्यायाः प्रथमः कर्षणमन्त्रः पत्युः स्मितशोभिमुखम् अन्यथा इदानीमङ्गारलिप्तमिव, उत्तरत्र किमुत इति वैमुख्यादिकं स्यादित्यत इदमौत्पत्तिकं, न नैमित्तिकमितिभावेनायमेव पतिः स्यान्नान्य इति स्मितशोभिना मुखेन देवहूत्या मन आकर्षितमित्याह– स्मितशोभितेनेति ॥ लुभ गार्द्ध्ये । गुधु अभिकाङ्क्षायामित्याकाङ्क्षणमप्याकर्षणविशेषः ॥ २१ ॥
प्रकाशिका
हे उग्रधन्वन् विदुर । इयदेवैतावदेवोपगृह्णन् ध्यायन् । अनेन यावता प्रयोजन-सिद्धिस्तावदेव योगिभिर्वक्तव्यं नाधिकमिति सूचयति । मुखेन स्वमुखेन देवहूत्याश्चेतो लुलुभे प्रलोभित-वान् । अयमेव मत्पतित्वयोग्य इति तस्या भावमुत्पादितवानित्यर्थः ॥ २१ ॥
सोऽनु ज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम् ।
तस्मै गुणगणाढ्याय ददौ तुल्यां प्रहर्षितः ॥ २२ ॥
पदरत्नावली
महिषीदुहित्रोः पूर्वसंवाद इदानीमपि सन्नेतद्दर्शनेनान्यथाभूदिति विविदिषुरिव राजा तन्निश्चयज्ञानपूर्वकं कन्यामस्मा अदादित्याह– स इति ॥ अनु अनन्तरम् ॥ २२ ॥
प्रकाशिका
स मनुरनु एवमृषिवचनानन्तरं महिष्याः शतरूपाया दुहितुश्च व्यवसितं निश्चयं ज्ञात्वा ददावित्यन्वयः ॥ २२ ॥
शतरूपा महाराज्ञी पारिबर्हान् महाधनान् ।
दम्पत्योः पर्यदात् प्रीत्या गृहवासपरिच्छदान् ॥ २३ ॥
पदरत्नावली
तत्र राज्ञा किमदायीति तत्राह– शतरूपेति ॥ पारिबर्हान् वरवध्वोर्दीयमान-द्रव्याणि । तानि लोकविलक्षणानि किम् ? नेत्याह– गृहेति ॥ २३ ॥
प्रकाशिका
पारिबर्हान् विवाहकाले वरवध्वोर्दीयमानानि द्रव्याणि । गृहवासपरिच्छदान् गृहाश्रमोपयुक्तोपकरणानि च ॥ २३ ॥
प्रत्वा दुहितरं सम्राट् सदृक्षाय गतव्यथः ।
उपगुह्य च बाहुभ्यामौत्कण्ठ्योन्मथिताशयः ॥ २४ ॥
पदरत्नावली
पुत्रीं दत्वा कञ्चित् कालमत्रैव तत्स्नेहादवात्सीत् किम् ? नेत्याह– प्रत्वेति ॥ सदृक्षाय समानाय । अनेन मनुः स्वकुमारीं राजकुमाराभावाच्छन्दसाय दत्तवानित्यपवादमपाकरोति
॥ २४ ॥
प्रकाशिका
प्रत्वा दत्वा । सदृक्षाय सदृशाय । गता व्यथा चिन्ता यस्य ॥ २४ ॥
अशक्नुवंस्तद्विरहं मुञ्चन् बाष्पकला मुहुः ।
आसिञ्चन्नम्ब वत्सेति नेत्रोदैर्दुहितुः शिखाः ॥ २५ ॥
पदरत्नावली
बाष्पकला अश्रुबिन्दून् । नेत्रोदैर्नेत्रजलैः । शिखाः केशभारान् ॥ २५ ॥
प्रकाशिका
शिखाः केशानासिंचन् ॥ २५ ॥
आमन्त्र्य तं मुनिवरमनुज्ञातः सहानुगः ।
प्रतस्थे रथमास्थाय सभार्यः स्वपुरं नृपः ॥ २६ ॥
उभयोर्ऋषिकुल्यायाः सरस्वत्याः सुरोधसोः ।
ऋषीणामुपशान्तानां पश्यन्नाश्रमसम्पदः ॥ २७ ॥
पदरत्नावली
राजा महति गहने कक्षे स्थिताय कस्मैचिन्मूलफलाशनाय तापसाय पुत्रीं दत्वा याम्यहमित्यनुशोकानुत्पादकं स्वराजधानीविशिष्टसंपत्समृद्धमृषीणामाश्रममण्डलं पश्यन् स्वपुरीमया-दित्याह– उभयोरिति ॥ ऋषिकुल्याया ऋषिकुलप्रियायाः । रोधसोस्तीरयोः स्थितानामुपशान्ता-नामतिशयितभगवन्निष्ठानाम् ॥ २६-२७ ॥
प्रकाशिका
ऋषिकुल्याया ऋषिकुलप्रियायाः । रोधसोस्तीरयोः स्थितानामुपशान्तानामतिशयेन भगवन्निष्ठानाम् ॥ २६,२७ ॥
तमायान्तमभिप्रेक्ष्य ब्रह्मावर्तप्रजाः पतिम् ।
गीतसंस्तुतिवादित्रैः प्रत्युदीयुः प्रहर्षिताः ॥ २८ ॥
बर्हिष्मती नाम पुरी सर्वसम्पत्समन्विता ।
न्यपतन् यत्र रोमाणि यज्ञस्याङ्गं विधुन्वतः ॥ २९ ॥
पदरत्नावली
मनोः राजेति शब्दार्थं लक्षयति– तमायान्तमिति ॥ अनेन प्रजानुरागेण रञ्जनाद् राजेति शब्दोऽपि निरुक्त इति ध्वनयति ॥ इयमपि नगरी इतरक्षेत्रेभ्योऽपि पुण्यतमेति श्रेष्ठ्यमाह– न्यपतन्निति ॥ जलार्द्रमङ्गं विधुन्वतो यज्ञवराहस्याङ्गाद् रोमाणि ज्ञानानन्दलक्षणानि यत्र बर्हिष्मत्यां न्यपतन् सहस्रशोऽवतारा अभिव्यक्ता अभूवन्नित्यर्थः ॥ २८,२९ ॥
प्रकाशिका
ब्रह्मावर्तप्रजा ब्रह्मावर्तनामकदेशस्थाः प्रजाः । पतिं स्वामिनम् । कोऽसौ ब्रह्मावर्तदेश इत्यत आह ॥ बर्हिष्मती नाम पुरीति । सेतरपुरीभ्योऽपि पुण्यतमेत्याशयेनाह ॥ न्यपतन्निति । यत्रेत्यस्यात्रापि सम्बन्धः । यत्र बर्हिष्मतीप्रान्तदेशे यज्ञस्य यज्ञवराहस्य रोमाण्यपतन्
॥ २८,२९ ॥
कुशकाशास्त एवासंल्लसद्धरितवर्चसः ।
ऋषयो यैः पराभाव्य यज्ञघ्नान् यज्ञमीजिरे ॥ ३० ॥
तात्पर्यम्
‘ज्ञानानन्दस्वरूपेभ्यो रोमभ्योऽस्य कुशादयः । विधुन्वतः प्रयागे तु वराहवपुषोऽभवन् । रोमाणि तानि देवस्य रूपाण्यासन्सहस्रश’ इति स्कान्दे । त एवासन् तेभ्य एवासन् । ‘सप्तसु प्रथमे’ति सूत्रात् ॥ ३० ॥
पदरत्नावली
रोम्णामवतारत्वे कुशकाशात्मकत्वं कथमिति तत्राह– त इति ॥ सप्तसु प्रथमेति सूत्रात् ते तेभ्यो ज्ञानानन्दलक्षणेभ्योऽवतीर्णेभ्यो रोमभ्य एव कुशकाशा आसन्नित्यन्वयः । प्रथमप्राप्तपरित्यागे किं कारणमिति चेन्न । हरेर्हेयोपादेयराहित्यात् । न्यपतन्नित्युक्त्या किं न स्यादिति चेन्न । ‘ज्ञानानन्दस्वरूपेभ्यो रोमभ्योऽस्य कुशादयः । विधुन्वतः प्रयागे तु वराहवपुषोऽभवन् ॥ तानि रोमाणि देवस्य रूपाण्यासन् सहस्रशः ॥’ इति वाक्यविरोधात् । रोम्णां कर्कशत्वात् कुशकाशानाम-कर्कशत्वेन सुकुमारकान्तिमत्वान् न रोमत्वं युक्तमिति भावेनाह– लसदिति ॥ लसद्धरितवर्चसः भास्वद्दूर्वाङ्कुरश्यामरोचिषः । यथाऽयोदाहकत्वमन्यनियतमेवं कुशादीनामवध्यराक्षसपरिभावकत्वं भगवद्रोमशक्तिनियुक्तमतस् त एवासन्निति व्यपदेश इति भावेनाह– ऋषय इति ॥ पराभाव्य पराभूय यज्ञं भगवन्तम् ॥ ३० ॥
प्रकाशिका
रोमाणि तत्र पतितानीत्यत्र ज्ञापकमाह ॥ कुशकाशा इति । कुशकाशसंज्ञा दर्भविशेषाः । त एव रोमाण्येव । विधेयलिङ्गापेक्षया त एवेत्युक्तम् । रोमाणां तत्र पतितत्वादेव कुशकाशसमृद्धिस्तत्र जातेति भावः । अत्र हरिरोम्णां कुशकाशाभेदः प्रमाणविरुद्धः कथमुच्यत इत्या-शङ्कायां प्रमाणेनैवात्र विवक्षितं तात्पर्यं दर्शयति ॥ ज्ञानानन्देति । अनेन प्रतीतार्थग्रहणे बाधकं सूचितम् । वराहवपुषोऽस्य विष्णोरित्यनेन यज्ञस्येत्येतदुक्तार्थम् । आदिपदेन काशाः । विधुन्वतः । स्वाङ्गमिति शेषः । प्रयाग इत्यनेन प्रयाग एव बर्हिष्मतीति सूचयति । तुशब्देन तत्र कुशकाशादीनां बाहुल्यं सूचयति । आसन्नित्यस्यार्थः ॥ अभूवन्निति । तथा चात्र रोम्णां कुशादीनां जन्यजनकभाव एव विवक्षितो नाभेदः । ज्ञानानन्दरूपैस्तैर्जडानां कुशादीनामभेदायोगादिति तात्पर्यमुक्तमिति ज्ञातव्यम् । ननु तर्हि तत्र पतितानां रोमाणां किं तथैव स्थितिर्नेत्याह ॥ रोमाणीति । अत एव तत्क्षेत्रं पुण्यतममिति भावः । ननु तर्हि त एवासन्निति कथमित्यत उक्तप्रमाणानुसारेण तद्योजनां दर्शयति ॥ त एवा-सन्निति । तथा च प्रथमा पञ्चम्यर्थे व्याख्येयेति भावः । अत्र नियामकं सूत्रं पठति ॥ सप्तस्विति । सप्तसु विभक्त्यर्थेषु प्रथमा विभक्तिर्भवतीति सूत्रार्थः । भगवद्रोमोत्पन्नानां तत्रत्यानां कुशकाशानां माहात्म्यं दर्शयन्नाह ॥ मूले ऋषय इति । यज्ञघ्नान् यज्ञविघ्नकरान् राक्षसादीन् । यज्ञं विष्णुम् ॥३०॥
कुशकाशमयं बर्हिरास्तीर्य भगवान् मनुः ।
अयजद् यज्ञपुरुषं लब्धं स्थानं यतो दृढम् ॥ ३१ ॥
पदरत्नावली
इतोऽपि कुशादीनां रोमत्वव्यपदेशो युज्यते यज्ञाङ्गत्वेन विष्णुपदप्राप्तिहेतुत्वा-दित्याशयेनाह– कुशेति ॥ कुशकाशमयं कुशकाशनिर्मितम् । कुशकाशाकरे पुरे स्थित्वा मनुर्यज्ञ-पुरुषमयजत् । तेन मनुना यतो यस्य बर्हिषो गुणात् स्थानगुणाद् वा दृढमक्षयं स्थानं विष्णुपदं लब्धम् । अनेन बर्हिष्मतीशब्दार्थो निरुक्त इति ज्ञायते ॥ ३१ ॥
प्रकाशिका
इदानीं बर्हिष्मतीनामनिरुक्तिं दर्शयन्नाह ॥ कुशेति । कुशकाशमयं कुशकाश-निर्मितम् । यतो बर्हिषो गुणाद् दृढं स्थानमक्षयं मोक्षाख्यम् । अनेनोत्तमफलसाधनबर्हिष्मत्वेन निमित्तेनास्या बर्हिष्मतीशब्दवाच्यत्वमिति सूचयति ॥ ३१ ॥
बर्हिष्मतीं नाम पुरीं निर्विश्य सुखमावसत्
तस्यां प्रविष्टो भवनं तापत्रयविनाशनम् ।
सभार्यः सप्रजः कामान् बुभुजेऽन्याविरोधतः ॥ ३२ ॥
पदरत्नावली
स मनुरेवं बर्हिष्मतीं नाम पुरीं निर्विश्य सुखमावसदित्यन्वयः । तस्य विषय-भोगाभावे शून्यागारस्थवत् किं सुखम् ? अत्राह– तस्यामिति ॥ तस्यां पुर्यां विद्यमानं भवनं प्रविष्टः, कामान् भोगान् । विषयभोगो धर्मादिपुरुषार्थविरोधेन दुःखहेतुरित्यत उक्तम्– अन्याविरोधत इति ॥ अन्यस्य धर्मादेरविरोधेन ॥ ३२ ॥
प्रकाशिका
बर्हिष्मतीं नामेति । उक्तनिमित्तेनेति शेषः । तस्यां विद्यमानं भवनमन्येषां धर्मार्थमोक्षाणामविरोधतः । अनेनेतरपुरुषार्थानुकूलानेव कामानेव बुभुज इति सूचयति ॥ ३२ ॥
संगीयमानसत्कीर्तिः सस्त्रीभिः सुरगायकैः ।
प्रत्यूषेष्वनुबद्धेन हृदा शृण्वन् हरेः कथाः ॥ ३३ ॥
पदरत्नावली
धर्माद्यविरोधेन विषयभोगः कथम् ? अत्राह– सङ्गीयमानेति ॥ अनुबद्धेन स्निग्धेन ॥ ३३ ॥
प्रकाशिका
प्रत्यूषेषु उषस्सु । अनुबद्धेन भक्तियुक्तेन ॥ ३३ ॥
निष्णातं योगमायासु मुनिं स्वायुम्भुवं मनुम् ।
यदा स्रंसयितुं भोगा न शेकुर्भगवत्परम् ॥ ३४ ॥
पदरत्नावली
ग्राहग्रस्तस्येव विषयासक्तस्य हरिकथाश्रवणेन किं फलम् ? अत्राह– निष्णात-मिति ॥ योगमायासु योगसमर्थ्येष्वणिमादिषु । मुनिं सर्वज्ञम् । ‘वेत्ता वेद्यस्य सर्वस्य मुनिः सद्भिरुदाहृतः’ इत्यभिधानात् । स्रंसयितुं हरिकथाश्रवणात् श्लथयितुम् ॥ ३४ ॥
प्रकाशिका
योगमायासु योगप्रभावाल्लब्धाणिमादिसामर्थ्येषु । निष्णातं नितरां स्थितम् । तद्युक्तमिति यावत् । संस्रयितुं हरिकथाश्रवणादिना श्लथयितुम् ॥ ३४ ॥
अयातयामास्तस्यासन् यामाः स्वान्तरयापनाः ।
शृण्वतो ध्यायतो विष्णोः कुर्वतो ब्रुवतः कथाः ॥ ३५ ॥
तात्पर्यम्
‘गतसारं यातयामं यामः सार इहोच्यत’ इति नारदीये ॥ ३५ ॥
पदरत्नावली
विषयसेवायाः प्राबल्ये कथं न शेकुरिति वचनमित्याशङ्क्य हरिकथाश्रवणादे-र्निरन्तरत्वेन संवलितोपचयत्वेन ततोऽपि प्राबल्यातिशयादिति भावेनाह– अयातयामा इति ॥ यातयामं गतरसम् । ‘गतरसं यातयामं यामः सार इहोच्यते’ इति वचनात् । अयातयामा अगतसारा, न निष्फला इत्यर्थः । यामाः, कालावयवाः स्वान्तरयापनाः स्वावसानकारिणः ॥ ३५ ॥
प्रकाशिका
एतदेवाह ॥ अयातयामा इति । अत्रायातयामपदान्तर्गतयामशब्दस्य प्रकृतसङ्गतमर्थविशेषं प्रमाणेनैवाह ॥ गतसारमिति । गतसारं निष्फलम् । यातयामं यातयामपद-वाच्यम् । यत इह यातयामशब्दे यामो याम इति शब्देन सार उच्यत इत्यर्थः । तथा च तस्य मनोः । स्वान्तरं स्वस्वामिकं मन्वन्तरं यापयन्ति समापयन्तीति स्वान्तरयापनाः । यामाः कालावयवविशेषाः । अयातयामा अगतसारा अनिष्फला आसन्निति मूलार्थ इति भावः । एतदेवोपपादयितुं तस्य विशेषणान्याह ॥ शृण्वत इति ॥ ३५ ॥
स एवं स्वान्तरं निन्ये युगानामेकसप्ततिम् ।
वासुदेवप्रसङ्गेन परिभूतगतित्रयः ॥ ३६ ॥
पदरत्नावली
स्वकालावधिः कियानित्यत्राह– स एवमिति ॥ स्वान्तरं स्वकालावधिम् । परिभूतं निरस्तं गतीनां तिर्यग्यातनातमसां त्रयं येन स तथा ॥ ३६ ॥
प्रकाशिका
स्वान्तरं स्वकालावधिम् । परिभूतं दूरीकृतं गतित्रयं तिर्यग्यातनातमोरूपं येन स तथा ॥ ३६ ॥
शारीरा मानसा दिव्याः पर्यासे ये च मानुषाः ।
भौतिकाश्च कथं क्लेशा बाधन्ते हरिसंश्रयम् ॥ ३७ ॥
तात्पर्यम्
पर्यासे मानुषत्वेनावस्थानेऽपि ॥ ३७ ॥ इति तृतीयतात्पर्ये त्रयोविंशोऽध्यायः ॥
पदरत्नावली
शारीरादिक्लेशोपद्रुतत्वेन यामानामगतसारत्वं कथम् ? अत्राह– शारीर इति ॥ पर्यासे मानुषत्वेनावस्थानेऽपि । मानुषा मनुष्येभ्यो जाता भौतिका भूतप्रेतादिभ्यो जाताः ॥ ३७ ॥
प्रकाशिका
ननु मनुष्यत्वेन स्थितस्य मनोः शारीरादिक्लेशसंभवे कथं यामानामगतसारत्वमित्यत आह ॥ शारीरा इति । दिव्या अन्तरिक्षप्रभवाः, मानुषाः शत्रुप्रभवाः, भौतिकाः शीतोष्णादिप्रभवाः । अत्र पर्यास इत्येतदप्रतीत्या व्याख्याति ॥ पर्यास इति । तथा च देवत्वापेक्षया पर्यासो विपर्यासो वैपरीत्यं मानुषत्वेनावस्थानं तदापीत्यर्थः ॥ ३७ ॥
यः पृष्टो मुनिभिः प्राह धर्मान् नानाविधान् शुभान् ।
नृणां वर्णाश्रमाणां च सर्वभूतहितः सदा ॥ ३८ ॥
पदरत्नावली
धर्मशास्त्रप्रणेतृत्वाच्च लोकहितस्य न कोऽप्युपद्रव इत्याशयेनाह– यः पृष्ट इति ॥
प्रकाशिका
धर्मशास्त्रप्रणेतृत्वाल्लोकहितकारित्वाच्च न तस्य क्लेश इत्याशयेनाह– यः पृष्ट इति । नृणां वर्णाश्रमाणां च धर्मानिति सम्बन्धः ॥ ३८ ॥
एतत् त आदिराजस्य मनोश्चरितमद्भुतम् ।
वर्णितं वर्णनीयस्य तदपत्योदयं शृणु ॥ ३९ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे त्रयोविंशोऽध्यायः ।
पदरत्नावली
मनुचरितमुपसंहृत्य वक्तव्यांशं प्रतिजानीते– एतत् त इति ॥ तस्य मनोरपत्यस्य देवहूत्या उदयं समृद्धिं शृण्विति ॥ ३९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे त्रयोविंशोऽध्यायः ॥
प्रकाशिका
तदपत्योदयं तस्य मनोरपत्यं देवहूतिस्तस्योदयं प्रभावम् ॥ ३९ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां त्रयोविंशोऽध्यायः ॥ ३-२३ ॥