२२ द्वाविंशोऽध्यायः

स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः

अथ द्वाविंशोऽध्यायः

विदुर उवाच–

स्वायम्भुवस्य च मनोर्वंशः परमसम्मतः ।

कथ्यतां भगवन् यत्र मैथुनेनैधिरे प्रजाः ॥ १ ॥

पदरत्नावली

‘अकामः सर्वकामो वा मोक्षकामो हरिं भजेत्’ इति यदुक्तं पूर्वत्र तदिह कर्दमचरितव्याजेन प्रपञ्च्यतेऽध्यायत्रयेण । तत्र मैत्रेयं विदुरः पृच्छति– स्वायम्भुवस्येति ॥ परमत्वे-नोत्तमत्वेन सम्मतः सम्प्रतिपन्नः । तस्मात् कथ्यतामिति हेत्वर्थे चशब्दः । एधिरे एधाञ्चक्रिरे ॥ १ ॥

प्रकाशिका

प्रकृतमनुऋषिकर्तृकां सृष्टिं श्रोतुकामस्तावत्स्वायम्भुवमनुकर्तृकसृष्टिकथनं प्रार्थयते ॥ स्वायम्भुवस्येति । चशब्दो हेत्वर्थे । यस्मात्परमत्वेन संमत इति । एधिरे एधाञ्चक्रिरे ॥ १ ॥

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य वै ।

यथाधर्मं जुगुपतुः सप्तद्वीपवतीं महीम् ॥ २ ॥

पदरत्नावली

देवहूत्याः कथाया अवश्यश्रोतव्यत्वेऽपि प्रथमतस्तत्कथने मनोः कन्यैव न तु पुत्राविति प्रतीतायास्तस्या अभ्रातृमतीत्वेन परिणेतुः प्राशस्त्यबुद्धिर्न स्यादिति तत्प्रीत्यै तत्पुत्रावाह– प्रियव्रतेति ॥ वा इत्यनेनौरसत्वमवधारयति । एतच्चरितं वक्तव्यमित्यस्मिन्नर्थे वा ॥ २ ॥

प्रकाशिका

वैशब्दः प्रसिद्धौ । धर्मं महीं वा यथा जुगुपतू ररक्षतुस्तन्मे वदेति चतुर्थेनान्वयः । अनेन देवहूत्या भ्रातृमतीत्वं कन्यालक्षणं प्रदर्शितमिति ज्ञातव्यम् ॥ २ ॥

तस्य वै दुहिता ब्रह्मन् देवहूतीति विश्रुता ।

पत्नी प्रजापतेरुक्ता कर्दमस्य त्वयानघ ॥ ३ ॥

तस्यां स वै महायोगी युक्तायां योगलक्षणैः ।

ससर्ज कतिधा वीर्यं तन्मे शुश्रूषवे वद ॥ ४ ॥

पदरत्नावली

देवहूत्या भ्रातृमतीत्वमुक्त्वा तच्चरितं श्रोतुमुक्तमनूद्य शेषं पृच्छति– तस्य वै इति ॥ अस्तु मनोः पुत्री ततः किमित्यत आह– प्रजापतेरिति ॥ त्वया या कर्दमस्य प्रजापते-र्जायेत्युक्ता ॥ स कर्दमस्तस्यां कतिधा वीर्यं ससर्ज । तद् वीर्यसर्जनलक्षणं चरितम् । यमनियमादि-योगलक्षणैः ॥ ३,४ ॥

प्रकाशिका

योगलक्षणैर्यमादिभिर्युक्तायां कतिधा वीर्यं ससर्ज कति पुत्रानुत्पादयामासेत्यर्थः

॥ ३,४ ॥

रुचिर्यो भगवान् ब्रह्मन् दक्षो वा ब्रह्मणः सुतः ।

यथा ससर्ज भूतानि लब्ध्वा भार्यां च मानवीम् ॥ ५ ॥

पदरत्नावली

अनन्तरं रुचिदक्षयोश्चरितं वक्तव्यमित्याह– रुचिरिति ॥ ५ ॥

प्रकाशिका

मानवीं मनोः कन्यामाकूतिं प्रसूतिं च भार्यां लब्ध्वा यथा भूतानि ससर्ज । तच्च वदेति चकारार्थः ॥ ५ ॥

मैत्रेय उवाच–

प्रजाः सृजेति भगवान् कर्दमो ब्रह्मणोदितः ।

सरस्वत्यां तपस्तेपे सहस्राणां समा दश ॥ ६ ॥

पदरत्नावली

मैत्रेयः प्रथमतो मनुपुत्रयोः कथाया वक्तव्यत्वेऽपि सूचीकटाहन्यायेन रुचिदक्षयो-श्चरितयोरनन्तरं पृष्टत्वाच्च देवहूतीचरिताविनाभूतं कर्दमचरितं वक्तुमुपक्रमते– प्रजा इत्यादिना ॥ सहस्त्राणां दश समाः ॥ ६ ॥

प्रकाशिका

सहस्राणां दशसमा दशसहस्रसंवत्सरानित्यर्थः ॥ ६ ॥

ततः समाधियुक्तेन क्रियायोगेन कर्दमः ।

संप्रपेदे हरिं भक्त्या प्रपन्नवरदाशुषम् ॥ ७ ॥

पदरत्नावली

किंविषयमिदं तप इति तत्राह– तत इति ॥ समाधियुक्तेन क्रियायोगेन वैदिकतान्त्रिकलक्षणोपायेन । दाशुषं, दाशृ दाने, वरदम् ॥ ७ ॥

प्रकाशिका

क्रियायोगेन वैदिकतान्त्रिकभगवत्पूजालक्षणोपायेन संप्रपेदे सिषेवे । प्रपन्नेभ्यो भक्तेभ्यो वरदाशुषं वरदातारम् ॥ ७ ॥

तावत् प्रसन्नो भगवान् पुष्कराक्षः कृते युगे ।

दर्शयामास तं क्षत्तः शाब्दं ब्रह्म दधद् वपुः ॥ ८ ॥

तात्पर्यम्

शब्दविषयं ब्रह्म ॥ ८ ॥

पदरत्नावली

साधनसामग्रीफलमाह– तावदिति ॥ यः स्वयं चित्तीकृतस्तमात्मानं शाब्दं वेदैकवेद्यं ब्रह्म सर्वगुणपरिपूर्णम् । ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ इति श्रुतिवेद्यत्व-दर्शनाय ब्रह्मपदप्रयोगः । वपुः शुभाकारम् । ‘शुभाकारे तनौ वपुः’ इति । न मायामयम् ॥ ८ ॥

प्रकाशिका

शाब्दं वपुरित्यत्र शब्दात्मकं वेदलक्षणं वपुरित्यन्यथाप्रतीतिवारणायाभिमतं दर्शयति ॥ शब्दविषयमिति । तथा च शाब्दं शब्दरूपवेदगम्यमत एव ब्रह्म गुणपूर्णं वपुः शुभाकार-शरीरं दधदिति मूलार्थ इति भावः । शुभाकारे तनौ वपुरित्यभिधानात् ॥ ८ ॥

स तं विरजमर्काभं सितपद्मोत्पलस्रजम् ।

स्निग्धनीलालकव्रातवक्त्राब्जविरजाम्बरम् ॥ ९ ॥

पदरत्नावली

शुभाकारत्वं विवृणोति– स तमिति ॥ ९ ॥

प्रकाशिका

शुभाकारमेव विशदयन्नाह ॥ स तमित्यादिना । सितानां शुभानां पद्मनामुत्पलानां च स्रक् यस्य तम् । स्निग्धा नीलाश्च येऽलकास्तेषां व्रातः समूहो वक्त्राब्जे यस्य तम् ॥ ९ ॥

किरीटिनं कुण्डलिनं शङ्खचक्रगदाधरम् ।

श्वेतोत्पलक्रीडनकं मनःस्पर्शस्मितेक्षणम् ॥ १० ॥

पदरत्नावली

क्रीडनकं क्रीडासाधनम् । द्रष्टृणां मनःस्पर्शे मनोविषये स्मितेक्षणे यस्य स तथा तम् ॥ १० ॥

प्रकाशिका

श्वेतोत्पलं क्रीडनकं क्रीडासाधनं यस्य तम् । द्रष्टृणां मनःस्पर्शे मनोहरे स्मितेक्षणे यस्य तम् ॥ १० ॥

विन्यस्तचरणाम्भोजमंसदेशे गरुत्मतः ।

दृष्ट्वा खेऽवस्थितं वक्षःश्रियं कौस्तुभकन्धरम् ॥ ११ ॥

प्रकाशिका

वक्षसि श्रीर्यस्य तम् ॥ ११ ॥

जातहर्षोऽपतन्मूर्ध्ना क्षितौ लब्धमनोरथः ।

गीर्भिस्त्वभ्यगृणात् प्रीतः स्वभावात्मा कृताञ्जलिः ॥ १२ ॥

पदरत्नावली

स्वभावात्मा अव्यग्रमनाः । स्वतन्त्रो भावो यस्य स स्वभावो हरिः स आत्मनि मनसि यस्य स तथेति वा ॥ १२ ॥

प्रकाशिका

स्वभावात्मा स्वः स्वतन्त्रो भावो यस्य स स्वभावो हरिस्तस्मिन्नात्मा मनो यस्य स तथा ॥ १२ ॥

कर्दम उवाच–

जुष्टं बताद्याखिलसत्त्वराशेः संसिद्धमक्ष्णोस्तव दर्शनान्नः ।

यद् दर्शनं जन्मभिरीड्य सद्भिराशासते योगिनो रूढयोगाः ॥ १३ ॥

पदरत्नावली

स्तुतिरपि स्तुत्यस्य हरेः क्षिप्रप्रीतिकरी यथार्थत्वेनानुकम्पाहेतुत्वादुत्तरत्र फलोदयाच्चेति भावेनाह– जुष्टमिति ॥ हे ईड्य सतात्पर्यं वेदादिभिः स्तुत्यः । अद्य अखिलसत्वराशेः पूर्णज्ञानबलसमुद्रस्य तव दर्शनात् साक्षात्कारान् नोऽस्माकमक्ष्णोर् जुष्टं निषेवणं त्वत्क्षेत्रलिङ्गादिविषयं संसिद्धं सम्यक् फलितम् अभूत् । बताश्चर्यमिदं दुर्भगेष्वस्मासु अनुकम्पेति । उपलक्षणमेतत् । श्रोत्रादेः कथाश्रवणादिनिषेवणम् । ‘अक्षण्वन्तः’ इत्यादि श्रुतेः । तवानुग्रह एव मुख्यं निमित्तं तत्र नास्मत्प्रयत्न इति भावेनाह– यद् दर्शनमिति ॥ रूढयोगा निरन्तरानृवृत्तध्यानयोगिनो यमादिमन्तः पुरुषा यद् दर्शनम् आशासते वाच्छन्ति तादृशमिति भावः । महता कालेन प्रयतमानानां योगिनामाकाङ्क्षामात्रम् । अस्माकं त्वल्पेनैव कालेनाभूदित्यतो बतेति ॥ १३ ॥

प्रकाशिका

हे ईड्य सर्ववेदस्तुत्य । अखिलसत्त्वराशेर्बलज्ञानसमुद्रस्य तवाद्यदर्शनान्नोऽस्माक-मक्ष्णोर्जुष्टं यत्पूर्वतरं त्वत्प्रतिमादिदर्शनरूपं सेवनं तदिदानीं संसिद्धम् । बत आश्चर्यम् । कथमाश्चर्यमित्यत आह ॥ यदिति । रूढयोगा निरन्तरध्यानादिमन्तो योगिनो भक्तिपूर्वक यमादि-साधनवन्तः सद्भिर्वेदाद्यधिकारोपेतैर्जन्मभिर्यत्तव दर्शनमाशासते तस्माद्दर्शनादित्यन्वयः । महता कालेन प्रयतमानानां योगिनां यद्भवति दर्शनं तद्दर्शनं तदल्पेनैव कालेनास्माकं जातमत आश्चर्यमिदमिति भावः

॥ १३ ॥

ये मायया ते हतचेतसस्त्वत्पादारविन्दं भवसिन्धुपोतम् ।

उपासते कामलवाय तेषां रासीश कामान् निरयेऽपि ये स्युः ॥ १४ ॥

पदरत्नावली

इदानीमनुग्रहकातरं भगवद्भावं पश्यन् कर्दमः स्वमनोरथं गर्हयन् विज्ञापयति–

य इति ॥ ईश ऐश्वर्यवारिधे । तव मायया बन्धकशक्त्या हतचेतसः नष्टज्ञानान्तःकरणाः पुरुषा भव-सिन्धुपोतं संसारसमुद्रस्योत्तरणे तरीभूतं त्वत्पादारविन्दं कामलवाय उपासते सेवन्ते । ये कामा निरयेऽपि स्युः सुलभास्तान् तेषां रासि । ‘‘रा दान’’ इति धातुः । निरयः सूकरादियोनिः । अतिकृच्छ्रत्व-द्योतनायेदमुदितम् । अनेनेदृशमपि भगवत्काटाक्षोपाक्षिप्तम् । किमुत स्वाराज्यादीति सूचितम् ॥ १४ ॥

प्रकाशिका

मोक्षप्रदोऽहं कथं स्त्रीकामनया त्वया सेवित इत्याशङ्कायां सत्यं त्वं मुमुक्षूणां मोक्षप्रद इतरपुरुषार्थकामनानां तत्प्रदोऽपि भवसि किन्तु ते निन्द्या इत्याह ॥ ये माययेति । ये निरयेऽपि स्युस्तेषां कामानां लवाय भवसिन्धुपोतं संसारसमुद्रस्योत्तरणे तरीभूतम् । मोक्षसाधनमिति यावत् । ये त्वत्पादारविन्दमुपासते ते मायया बन्धकशक्त्या हतचेतसो विनष्टबुद्धयः । त्वं तु तेषां तानपि कामान् रासि ददासि ॥ १४ ॥

तथा स चाहं परिवोढुकामः समानशीलां गृहमे(धि)धधेनुम् ।

उपेयिवान् मूलमशेषमूलं दुराशयः कामदुघाङ्घ्रिपस्य ॥ १५ ॥

पदरत्नावली

किमनेन प्रकृते इत्याशङ्क्याहमप्येष्वेको लम्पट इत्याह– तथेति ॥ तथा पूर्वोक्तकामोपासकवत् सोऽहं च कामदुघाङ्घ्रिपस्याभीष्टवर्षणशीलकल्पतरोस्तवाशेषमूलम् अपेक्षितसमस्त-पुरुषार्थकारणं पादमूलमुपेयिवानित्यन्वयः । किं कामस्त्वमित्यत उक्तम्– परिवोढुकाम इति ॥ समान-शीलां गृहमेधिधेनुं गृहस्थयज्ञाङ्गभूतां भार्यां परिवोढुकामः परिणेतुकामः । तत्र निमित्तमाह– दुराशय इति ॥ दुर् अशोभने विषये आशयो यस्य स तथा ‘दुरशोभनदुःखयोः’ इति यादवः ॥ १५ ॥

प्रकाशिका

अत इदानीमहमपि तथाविधोऽस्मीत्याह ॥ तथेति । ते यथा कामलवाय त्वत्पादारविन्दमुपासते तथेत्यर्थः । स चाहं निष्कामनया भजन्नेवाहं, गृहमेधो गृहस्थाश्रमस्तत्र धेनुमिव त्रिवर्गदोग्ध्रीं भार्यां परिवोढुकामः परिणेतुमिच्छन् दुराशयो दुरशोभनं विषयजातं दुरशोभनदुःख-योरित्यभिधानात् । तत्र आशयो यस्य स तथा । कामदुघाङ्घ्रिपस्य कल्पतरुवदभीष्टसमस्तप्रदस्य तवाशेषमूलमशेषपुरुषार्थकारणं मूलं पादमूलमुपेयिवाननुगतोऽस्मि ॥ १५ ॥

प्रजापतेस्ते वचसाऽधीश तन्त्या

लोकः किलायं कामहेतोर्निबद्धः ।

अहं च लोकानुगतो वहामि

बलिं च शुक्लानिमिषाय तुभ्यम् ॥ १६ ॥

पदरत्नावली

अघटितघटकमहिमा भगवान् यतः सकामोपास्तिं निकृष्टां जानन्तोऽपि मादृशा-स्तव वेदाख्यवचनमायया नियताः संसरन्तीत्याह– प्रजापतेरिति ॥ अधीशेति सम्बुद्धेः प्रजापतिर्हरिरेव, न विरिञ्चस् तस्य तत्र मुख्यार्थानुपपत्तेर् इन्द्रादिशब्दवत् । अधय ईश्वरा ब्रह्मादयस्तेषामपीश । जगत्सृष्ट्यादिविभूतिप्रवर्तकत्वात् । प्रजापतेस्तव वचसा वेदलक्षणतन्त्या । ‘तस्य वाक् तन्तिर्नामानि दामानि’ इति श्रुतेः । अयं जनः स्वर्गादिकामहेतोर्निबद्धः किल त्वत्पूजालक्षणं बलिं वहतीति शेषः । हे शुक्ल संसारशुचं विलाप्य कं सुखम् आदय ददातीति । लोकानुगत्वात्, अहमप्यनिमिषाय प्राणिचीर्णपुण्यपापनिरीक्षणार्थमुन्मीलितनेत्रत्वात् तच्छब्दवाच्याय कालान्तर्यामिणे तुभ्यं बलिं वहामि । उत्तरत्र सभार्यो वहेयमिति चार्थः ॥ १६ ॥

प्रकाशिका

ननु निष्कामनया भजतस्तव कुत एवं कामनया भजने बुद्धिरित्यत आह ॥ प्रजापतेरिति । हे अधीश । प्रजापतेर्ब्रह्मान्तर्यामिणस्तव वचसा गृहस्थाश्रमं प्राप्य प्रजाः सृजत । तत्र मामर्चतेत्येवं वचनरूपया तन्त्याऽयं लोको मरीच्यादिऋषिलोकः कामहेतोस्त्वदुक्तविषयसंपादनार्थं नितरां बद्धस्त्वदाज्ञाया अनुल्लङ्घनीयत्वात् । अहं च तल्लोकानुगतस्तद्वदेव त्वदाज्ञया बद्धो यतोऽतः । हे शुक्ल परमशुद्ध । अनिमिषाय सकलपदार्थनिरीक्षकाय कालनाम्ने तुभ्यं बलिं पूजां वहामि प्रजाश्च सृक्ष्य इति चार्थः । किलेत्यनेनैवं कामनादिकमाधिकारिकत्वात्तेषां न निषिद्धमिति सूचयति । अनिमिषायेत्यनेन विध्यतिक्रमेण कर्मकरणे भगवांस्तेषां भयप्रद इति सूचितम् ॥ १६ ॥

लोकांश्च लोकानुगतानसूंश्च

हित्वा श्रितास्ते चरणातपत्रम् ।

परस्परं त्वद्गुणवादसिन्धु-(सीधु)

पीयूषनिर्यापितदेहधर्माः ॥ १७ ॥

पदरत्नावली

अयमेव बलिर्भगवदर्पणबुद्ध्या चिकीर्षतो भक्तिहेतुरपि भवतीति भावेनाह– लोकांश्चेति ॥ ‘अस्माल्लोकात्प्रेत्य’ इति श्रुतेर् लोकान् जडशरीराणि च लोकानुगतानसून् प्राकृतेन्द्रियाणि च हित्वा ते तव चरणातपत्रं श्रिताः पुनश्च परस्परं तव गुणवाद एव सीधुः पीयूषं सुखजनकनव-सूतगवीदुग्घं यत् तेन निर्यापिताः प्रवर्तिता देहधर्माः सच्चिदानन्दात्मकदेहधर्मा येषां ते तथा । यद्वा निर्यापिता निवारिता जननमरणादिलक्षणा देहधर्मा येषां ते तथा ॥ १७ ॥

प्रकाशिका

कालनामकोऽयमनिमिषः केषां सर्वथा भयप्रदो न भवतीत्यपेक्षायामाह ॥ लोकांश्चेति । लोकानुक्तरूपदेहान्वा लोकानुगतान्पुत्रादीनसून् जडेन्द्रियाणि च हित्वा ते तव चरणरूप-मातपत्रं श्रितास्त्वत्सामीप्यादिलक्षणां मुक्तिं प्राप्ताः । त्वद्गुणवाद एव सिन्धुपीयूषं पीयूषसिन्धुरमृत-समुद्रस्तत्रावगाहनेन निर्यापिता नितरां नाशिता देहधर्मा जरामरणादयो येषां ते तथा ॥ १७ ॥

न तेऽजराक्षभ्रमिरायुरेषां

त्रयोदशारं त्रिशतंषष्ठिपर्व ।

षण्णेम्यनन्तच्छिदि यत् त्रिनाभि

करालस्रोतो जगदाच्छिद्य धावत् ॥ १८ ॥

तात्पर्यम्

अनन्तच्छिदि अनन्तावयवम् । ‘तृतीयोऽतिशय’ इति महाव्याकरणे । ‘मथनान्मिथिलो जात’ इत्यादिवच्च ॥ १८ ॥

पदरत्नावली

लक्षणदर्शनाल्लक्ष्यमध्याहृत्यान्वेतव्यम् । ते तव चक्रम् एषामायुर्न, च्छिनत्तीति शेषः । सुदर्शनाद् व्यावर्तयति– अजरेति ॥ अजरे कदापि जरादोषरहिते अक्षे नाभिद्वारे भ्रमतीत्य-जराक्षभ्रमिः । नियतलिङ्गत्वाद् गिरिशब्दवत् । अधिमासैः सह त्रयोदशमासा अराणि दलानि यस्य तत् तथा । त्रीणि शतानि षष्ठिसंख्यासहितानि अहोरात्रलक्षणानि दिनान्येव पर्वाणि यस्य तत् तथा त्रिशतंषष्ठिपर्व । छान्दसत्वादनुस्वारलक्षणबिन्दुलोपो नास्ति । षड् ऋतवो नेमयश्चक्रप्रान्तदेशा यस्य तत् षण्णेमि । अनन्ताः परमाणुद्व्यणुकादिलक्षणाश् छिदाश् छिद्रा अतिशयितछिद्रा अवयवा अस्य सन्तीति अनन्तच्छिदि । ‘तृतीयोऽतिशये’ इति सूत्रादिकारो लोकवैलक्षण्यलक्षणातिशयार्थः । यद्वा छद इत्येतस्मिन्नर्थे छिदीति निपातनम् । मथनान्मिथिलो जात इतिवद्युक्तं च । त्रीणि चातुर्मास्यानि नाभिर्यस्य तत् त्रिनाभि करालस्रोत अतिकू्ररवेगं, जगदाछिद्य कवलीकृत्य, धावद् गच्छत्, पुनःपुनरा-वर्तमानमित्यर्थः । यदेवंविधं कालचक्रं तदिति शेषः । यद्वा एषामायुराच्छिद्य न धावत् । जगदाच्छिद्य धावदित्यनेन गृहाश्रमं गृहीत्वा पामरवन् न संसरामि । किन्तु त्वदनुग्रहकरं कर्म कारंकारं जरसं गच्छन् अन्ते निवृत्तिमार्गमनुतिष्ठामीति ध्वनितम् ॥ १८ ॥

प्रकाशिका

यत् त्रिनाभि त्रीणि चातुर्मास्यानि नाभिर्यस्य तत्त्रिनाभि ते तव कालचक्रं तज्जगदाच्छिद्य तदायुरपहृत्य धावदपि एषां त्वद्भक्तानामायुराच्छिद्य धावन्न भवति । कथंभूतम् । अजरे जरादिदोषरहिते परब्रह्मरूपेऽक्षे भ्रमतीति अक्षभ्रमिः । गिरिशब्दवन्नियतलिङ्गत्वान्नपुंसकत्वाभावेऽपि न दोषः । अधिमासेन सह त्रयोदशमासा अराणि दलानि यस्य तत्तथा । त्रिशतं षष्ठिश्चाहोरात्राणि पर्वाणि ग्रन्थयो यस्य । शतशब्दविभक्तेरलोपश्छान्दसः । षड्ऋतवो नेमयश्चक्रप्रान्तदेशा यस्य तत् षण्णेमि करालस्रोतः क्रूरवेगम् । अनन्तच्छिदीत्येतदप्रतीत्या व्याख्याति ॥ अनन्तच्छिदीति । तथा च छदशब्द-श्चक्राधारस्थानीयपरमाणुद्व्यणुकादिरूपावयवपर इति भावः । नन्वेवं छदमिति स्यात् । छिदीति कथमुक्तमित्यत आह ॥ तृतीयोऽतिशय इति । अतिशये द्योत्ये स्थान्यपेक्षया तृतीयो वर्णो भवतीति सूत्रार्थः । एवं चात्र छदानामानंत्येऽतिशयद्योतनायाकारस्थाने इकारस्तदपेक्षया तृतीयो जात इति भावः । अस्योदाहरणं दर्शयन्प्रयोगोऽप्यत्र साधक इत्याशयेनाह ॥ मथनादिति । मथानान्मथिल इति वक्तव्येऽतिशयद्योतनाय यथाकारस्येकारस्तृतीयो जातस्तद्वदित्यर्थः । एवं चातिशयेनानन्ताश् छदाश्चक्रधारास्थानीयाः परमाण्वादिरूपावयवा यस्य तदनन्तच्छिदीति व्याख्येयमिति भावः ॥ १८ ॥

एकः स्वयं सन् जगतः सिसृक्षया

द्वितीय आत्म(द्वितीययाऽऽत्म)न्नधियोगमायया ।

सृजस्यदः पासि पुनर्ग्रहीष्यसे

यथोर्णनाभिर्भगवन् स्वशक्तिभिः ॥ १९ ॥

पदरत्नावली

भक्तजनविषये स्वेच्छानियतसंसारोन्मूलनं कैमुत्येन सिद्धमिति भावेनाह– एक इति ॥ निर्गुणस्य गुणेषु सत्सु तदमृतपानेन निर्यापितदेहधर्मत्वं संभवति तत्तु चिन्त्यमित्यतो वाह– एक इति ॥ ब्रह्माद्यन्यतमासाध्यजगत्सर्जनादेस्त्वत्कटाक्षलेशनियतत्वेन बन्धध्वंसनं किमु वक्तव्यम् । सार्वज्ञादिगुणाभावे सृष्ट्यादिकमनुपपन्नमतोऽन्यथानुपपत्त्या गुणानामानन्त्यं सिद्धमत उक्तं युक्तमिति । आत्मनि स्वोदरे स्थितस्य जगतः सिसृक्षया स्वाधीनया योगमायया चित्प्रकृत्या जडप्रकृत्या च । लोकविडम्बनार्थं– द्वितीययेत्युक्तम् ॥ द्वितीय आत्मन्निति पाठे पुरुषरूपो भूत्वेत्यर्थः । स्वशक्तिभिः स्वरूपसामर्थ्योपेतमत्स्याद्यवतारैः पालनादिकं करोषीति । सृष्ट्यादिलक्षणं वास्तवमिति ज्ञापना-योर्णनाभिनिदर्शनमुक्तम् । ‘यथोर्णनाभिः सृजते गृह्णते च’ इति श्रुतेः ॥ १९ ॥

प्रकाशिका

जन्मादिकर्तृत्वादिसकलगुणपूर्णमप्राकृतविग्रहं भगवन्तमवलोक्य श्रुत्यादौ यद्भगव-त्प्रतीकतयोक्तं ब्रह्माण्डादिकं तन्न भगवतो वास्तवं शरीरमित्याह ॥ एक इत्यादि श्लोकद्वयेन । स्वयमेक एव सन्नपि सिसृक्षया द्वितीयो वासुदेवनामा सन्, आत्मन् आत्मन्यधिको योगो यस्याः साऽधियोगा सा च सा माया च तया नित्यावियोगिन्या मायारूपया श्रियेत्यर्थः । अदो विश्वं स्वशक्तिभिः शक्यत्वाच्छक्तिभिः सत्त्वादिगुणैः ॥ १९ ॥

नैतद् बताधीश पदं तवेप्सितम्

यन्मायया त्वं जगृहे भूतसूक्ष्मम् ।

अनुग्रहाय त्वयि यर्हि मालया

लसत्तुलस्या भगवान् विलक्षितः ॥ २० ॥

पदरत्नावली

यथा सृष्ट्यादिलक्षणज्ञानं पुरुषार्थसाधनमित्याशयेन सृष्ट्यादिकमुक्तम् एवं स्रष्टृ-सृज्ययोर्भेदज्ञानं तत्साधनमित्यभिप्रायेणाह– नैतदिति ॥ अधीश यद् भूतसूक्ष्मं ब्रह्माण्डं मायया स्वेच्छयानन्यप्रेरणया रूपत्वेन जगृहे अङ्गीकृतवान् भूतसूक्ष्मैर्निर्मितमपि मृद्घटवदित्युच्यते तवैतद् रूपमीप्सितं ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति उपनिषदभीष्टं पदं रूपं न भवति बत । एवं ज्ञातमेव तोषलक्षणपुरुषार्थकरम् अभेदेन ज्ञातं खेदलक्षणदुःखकरमित्यर्थः । तर्हि किमित्यग्रहीदित्यत उक्तम्– अनुग्रहायेति ॥ त्वयि भक्तिभाजां मन्दाधिकारिणां भगवति भक्त्युत्पादकानुग्रहायाग्रहीदित्यर्थः । त्वयैतत् कुतो ज्ञातमित्यत उक्तम्– यर्हीति ॥ विलक्षित इति पदमध्याहृत्य योजनीयम् । स भगवान् यर्हि यदा । लसन्ती तुलसी यस्यां सा लसत्तुलसी तया मालया । उपलक्षणमेतत् । मकरकुण्डलाद्यलङ्कारैश्च । मया विशिष्टत्वेन लक्षितोऽङ्कितोऽन्यवस्तुवैलक्षण्येन लक्षितो ध्यानपदं गमितस्तथेदानीमपि लक्षितो दृष्ट इति यर्हि यस्मात् तस्मादिदमेवाभीष्टमिति ज्ञातम् । यद्वा नृ नय इति धातोर्न उपायवान् भगवान् भूतानां सूक्ष्मं द्रष्टुमशक्यं यद् रूपं जगृहे एतत् तवेप्सितं पदम् । तर्हि कथं दृष्टमिति तत्राह– अनुग्रहायेति ॥ तर्ह्यनुग्रहोऽपि तथाविशिष्टः किमिति नाभूद् ? अत्राह– यर्हीति ॥ यथा यादृशलक्षणवत्तया लक्षितो ध्यातस्तथा मया विलक्षितो दृष्ट इति यस्मात् तस्माद् भक्त्यनुकम्पितत्वात् त्वत्स्वामित्वज्ञानं श्रेयःसाधनमिति सूचितम् ॥ २० ॥

प्रकाशिका

एवं जगज्जन्मादिकर्तृत्वविशिष्टमिदं त्वद्रूपं यतो यर्हि यस्माच्च त्वय्यसाधारण्येन विद्यमानया, लसन्ती तुलसी यस्यां सा तथा तया मालया भगवानयमेव भगवानिति मया त्वं विलक्षित इतरविलक्षणया ज्ञातः । अतः । हे अधीश । अनुग्रहाय भक्तानामुपासनार्थं मायया स्वेच्छयैव यद्भूत-सूक्ष्ममुपलक्षणतया महदाद्यात्मकं ब्रह्माण्डाख्यं पदं स्थानं भगवान् जगृहे । एतत्तवेप्सितमिष्टम् । स्वरूपभूतमिति यावत्, न किन्तु प्रतिमास्थानीयमेवेति ज्ञातव्यमित्यर्थः ॥ २० ॥

तं त्वानुभूत्योपरतक्रियार्थं स्वमायया वर्तितलोकतन्त्रम् ।

नमाम्यभीक्ष्णं नमनीयपादसरोजमल्पीयसि कामवर्षम् ॥ २१ ॥

पदरत्नावली

मदनुग्रहाय सच्चिदानन्दलक्षणं वपुर्दर्शयतो भवतो नमनोपायनदानेन नित्यतृप्तस्य प्रत्युपकरोमीति भावेनाह– तं त्वेति ॥ यस्त्वमनायासेन जगत्सृष्ट्यादिकं करोषि अहं तं त्वा त्वां नमामीत्यन्वयः । ननु यदि नन्तुर्नम्यो विशिष्टः स्यात् तर्हि स तत्क्रियाविषयः देहादिनिमित्तकर्मफल-विशेषो यस्य स तथा स्वरूपानन्दानुभवेन निवृत्तविषयमुखो वा तम् । स्वमायया स्वेच्छया वर्तितं लोकतन्त्रं देहादिलक्षणलोकप्रवृत्तिसाधनं येन स तथा तम् । अभीक्ष्णशः पुनःपुनरित्यनेन तात्पर्यातिशयद्योतकेनेदमेव त्वत्प्रीतिसाधनमिति सूचयति । भवानौषधपानवद् बलात् कर्मण्यरुचिविषयो न, किन्तु स्वत एवेति भावेनाह– नमनीयेति ॥ इतोऽपि त्वमेव नन्तव्य इत्याह– अल्पीयसीति ॥ अल्पीयसि जात्या गुणेन वाल्पतरभक्ते कीटे व्यासमिवाभीष्टं वर्षन्तम् । कामस्याभीष्टस्य वर्षो यस्मात् स तथोक्तस् तमित्यक्षरयोजना । यद्वा महदहङ्कारादिजगत्स्रष्टृ यद् रूपं तन्निजं न भवतीति यन्मतं तद् दूषयितुमेवाह– तं त्वेति ॥ उक्तार्थोऽयं श्लोकः । आवर्तितलोकाख्यराज्यव्यापारो येन स तथा तम्

॥ २१ ॥

प्रकाशिका

एतादृशरूपं दर्शयतो भगवतो नमनमेव प्रतिक्रियेत्याशयेनाह ॥ तं त्वेति । अनुभूत्या स्वरूपानुभावेनोपरतो नित्यनिवृत्तः क्रियार्थो देहाद्यापादककर्मफलविशेषो यस्य स तथा तम् । स्वमायया स्वेच्छया वर्तितं लोकतन्त्रं प्रवर्तितं लोकप्रवृत्तिसाधनं येन स तथा तम् । अभीक्ष्णं पुनः पुनर्नमनीये पादसरोजे यस्य तम् । एतदुपपादनायैवेतरविशेषणानि । अल्पीयसि जात्या गुणेन वाऽल्पतरभक्ते कीटे व्यास इव कामान्वर्षतीति तथा तम् ॥ २१ ॥

शुको उवाच–

इत्यव्यलीकं प्रणतोब्जनाभस्तमाबभाषे वचसाऽमृतेन ।

सुपर्णपक्षोपरि रोचमानः प्रेमस्मितोद्वीक्षणविभ्रमद्भ्रूः ॥ २२ ॥

पदरत्नावली

कर्दमेन प्रणतं रूपं सत्यज्ञानानन्दलक्षणमेव न मायाशबलमिति भावेनाह– इतीति ॥ प्रेम्णा युक्तेन स्मितेन सह यदुत्कृष्टं वीक्षणं तेन विलोकनेन विभ्रमन्ती विस्फुरन्ती भ्रूर्यस्य स तथोक्तः ॥ २२ ॥

प्रकाशिका

अव्यलीकमप्रियं यथा न भवति तथा प्रणतोऽमृतेन सुखकरेण । प्रेमस्मिताभ्यां यदुद्वीक्षणमुत्कृष्टं निरीक्षणं तेन विभ्रमन्ती स्फुरन्ती भ्रूर्यस्य स तथोक्तः ॥ २२ ॥

भगवानुवाच–

विदित्वा तव चैत्यं मे पुरैव सुनियोजितम् ।

यदर्थमात्मनियमैस्त्वयैवाहं समर्चितः ॥ २३ ॥

पदरत्नावली

पुरा मे मया तव चैत्यं चित्तस्थमभिप्रायं विदित्वैव समयोजितम् प्रेरितम् । तदेवाह– यदर्थमिति ॥ २३ ॥

प्रकाशिका

मे मया तव चैत्यं चित्तस्थं भावं विदित्वैव सुनियोजितं सङ्घटितम् । तत्किमित्यत आह ॥ यदर्थमिति । यदर्थमेवेत्यन्वयः ॥ २३ ॥

न वै जातु मृषेदं स्यात् प्रजाध्यक्ष मदर्हणम् ।

भवद्विधेष्वतितरां सङ्गृहीतात्मनां मयि (मयि संगृहितात्मनाम्) ॥ २४ ॥

पदरत्नावली

पूजाकर्मणः क्षणभङ्गुरत्वेन तस्मादिदं फलमभूदिति निश्चेतुं न शक्यत इति शङ्का मा भूत् । मदर्पितत्वेनाक्षीणफलत्वादित्यभिप्रेत्याह– न वा इति ॥ जातु वै कदाचिदपि पाशुपत-शास्त्रोक्तवन् मयि संगृहीतात्मनां समाहितमनआदीन्द्रियाणां युष्माकं यन्मदर्हणं तदिदं भवद्विधेषु पुरुषेषु मृषा क्षणभङ्गुरत्वेन निष्फलं न स्यात् । मदर्पणचिकित्सायुक्तत्वात् । अभक्तव्यावृत्त्यर्थम् अतितरा-मिति । सङ्गृहीतात्मनामिति षष्ठी सप्तम्यर्थे वा । संनिकृष्टत्वादुभयोः स्वस्वामित्वसंबन्धो नित्यमनुसन्धेय इति तात्पर्यद्योतनाय प्रायोजि । अन्यथा मयि संगृहीतात्मस्विति प्रयोक्तुं शक्यते । अनेन श्रेयोऽर्थिभिर-भेदवार्तां दूरादेव परिहृत्य भेदज्ञानमेवापाद्यमिति सूचितम् ॥ २४ ॥

प्रकाशिका

मृषा वृथा । सङ्गृहीत एकाग्रीकृत आत्मा मनो यैस्ते तथा तेषाम् ॥ २४ ॥

प्रजापतिपतिः सम्राट् मनुर्विख्यातमङ्गलः ।

ब्रह्मावर्तं योऽधिवसंञ्छास्ति सप्तार्णवां महीम् ॥ २५ ॥

पदरत्नावली

कर्दमं प्रशस्य प्रकृतमनुसरति– प्रजापतीति ॥ प्रजापतयो मरीच्यादयस्तेषां पतिः । सप्तार्णवामित्येन सम्राट्त्वं विवृतम् ? ब्रह्मावर्तं क्षेत्रमधिवसन् । अधिशीङ्स्थासां कर्मेत्यतः सप्तम्यर्थे द्वितीया ॥ २५ ॥

प्रकाशिका

पुरा मया सुनियोजितमित्युक्तमेव दर्शयति ॥ प्रजापतीति । प्रजापतीनां मरीच्यादीनां पतिः । विख्यातं मङ्गलमभ्युदयं सदाचारादिलक्षणं यस्य स तथा ॥ २५ ॥

स चेह विप्र राजर्षिर्महिष्या शतरूपया ।

आयास्यति दिदृक्षुस्त्वां परश्वो धर्मकोविदः ॥ २६ ॥

पदरत्नावली

ततः किमस्माकम् ? अत्राह– स चेति ॥ हे प्रिय ॥ २६ ॥

प्रकाशिका

हे विप्र कर्दम । महिष्या सह ॥ २६ ॥

आत्मजामसितापाङ्गीं वयःशीलगुणान्विताम् ।

मृगयन्तीं पतिं दास्यत्यनुरूपाय ते प्रभुः ॥ २७ ॥

पदरत्नावली

वनवासिनो मम सम्राजा किम् ? तत्राह– आत्मजामिति ॥ असितापाङ्गीं नीलद्युतिनेत्रान्ताम् । नीलाञ्जनाञ्जितत्वेनापि तत्स्वभावः स्यादिति गुणान्तराण्याह– वय इति ॥ कियद् वय इति प्रश्नमन्तरेण वयो लक्षयति– मृगयन्तीमिति ॥ आसन्नरजःकामुकत्वेन पाणिग्रहणयोग्या-मित्यर्थः ॥ २७ ॥

प्रकाशिका

असितापाङ्गीं नीलाञ्जनेन विनाऽपि नीलद्युतिनेत्रां ताम् ॥ २७ ॥

समाहितं ते हृदयं यत्रेमान् परिवत्सरान् ।

सा त्वां ब्रह्मन् नृपवधूः काममाशु भजिष्यति ॥ २८ ॥

पदरत्नावली

राजपुत्र्यास्तापसोऽहं कथमनुरूपः स्यामिति तत्राह– समाहितमिति ॥ राजपुत्रीत्वादिविशेषमन्तरेण यत्र यस्यां वध्वाम् इमानतीतान् परिवत्सरान् ते हृदयं समाहितं ममानुकूला भार्या स्यादिति संक्लृप्तम् ॥ २८ ॥

प्रकाशिका

यत्र यस्यां भार्यायां समाहितमभिसन्धानेन स्थितम् । नृपवधूः राजकन्या ॥ २८ ॥

या त आत्मधृतं वीर्यं नवधा प्रसविष्यति ।

वीर्ये त्वदीय ऋषय आधास्यंस्तेज आत्मनः ॥ २९ ॥

पदरत्नावली

इदं च त्वत्संकल्पान्तर्भूतं सत्यं भवतीति भावेन कथं विशिनष्टि– येति ॥ या चात्मधृतं ते वीर्यं रेतोलक्षणं गर्भं नवधा प्रसविष्यति । नवधा विभक्ततया प्रसूतं च तव वीर्यं वंश-वृद्धिकरं चेत्याह– वीर्य इति ॥ मरीच्याद्यृषयोऽपि त्वदीये वीर्ये नवधा विभज्य पुत्रीभूते आत्मनस्तेजो गर्भलक्षणमाधास्यन् । यदि भवान् मदुक्तमकरिष्यत् तर्हीति शेषः । सा नृपस्य वधूः कन्या त्वां कामं भजिष्यति संसेविष्यत इत्यन्वयः । अशु कालक्षेपो नैवेति ॥ २९ ॥

प्रकाशिका

याऽऽत्मनि धृतं ते वीर्यं रेतः नवधा नव कन्यारूपेण प्रसविष्यति । त्वदीये वीर्ये त्वद्वीर्यप्रसूतासु नवकन्यासु ऋषयो मरीच्याद्या आत्मनस्तेजोगर्भलक्षणमाधास्यन् आधास्यन्ति ॥ २९ ॥

त्वं च सर्वमनुष्ठीय (सम्यगनुष्ठाय) निर्देशं मुनिसत्तम ।

मयि तीर्थीकृताशेषक्रियार्थो मां प्रपत्स्यसे ॥ ३० ॥

पदरत्नावली

मदर्पणबुद्ध्या चिकित्सितस्य स्वधर्मानुष्ठानस्य मत्प्राप्तिरेव फलमित्याह– त्वं चेति ॥ ३० ॥

प्रकाशिका

निर्देशमाज्ञां मयि समर्पणेन पवित्रीकृता या अशेषक्रियास्तासाम् अर्थः फलं यस्य

॥ ३० ॥

कृत्वा दयां च जीवेषु दत्वा चाभयमात्मवान् ।

मय्यात्मानं सहजगद् द्रक्षस्यात्मनि चापि माम् ॥ ३१ ॥

पदरत्नावली

गार्हस्थ्यानन्तरं चतुर्थाश्रमोऽप्यवश्यमनुष्ठेय इत्याशयेनाह– कृत्वेति ॥ अभयं दत्वा । भूतेभ्य इति शेषः । आत्मवान् मदेकशरणः । संन्यासाश्रमानुष्ठानफलमाह– मयीति ॥ सहजगदिति क्रियाविशेषणम् । यथा जगता सह वर्तमानस्तथात्मानं त्वां मयि द्रक्ष्यति मदाधारं पश्यसीत्यर्थः । आत्मनि त्वयि स्थितं मां च पश्यसि । अनेनाधाराधेयभावेनोपास्तिं कुर्वत एवंविधज्ञानेन मत्प्राप्तिरुक्तेत्यतो भेदज्ञानमेव परमपुरुषार्थसाधनमित्युक्तं भवति ॥ ३१ ॥

प्रकाशिका

गार्हस्थ्यानन्तरं चतुर्थाश्रमोऽपि त्वया स्वीकार्य इत्याशयेनाह ॥ कृत्वेति । दत्वा । भूतेभ्य इति शेषः । आत्मवान् जितमनस्कः । मय्यात्मानं स्वात्मानं जगच्च सह युगपदेव द्रक्ष्यसि मदाधारं पश्यसीत्यर्थः । आत्मनि स्वात्मनि स्थितं मां पश्यसि ॥ ३१ ॥

सम्भूय स्वांशकलया त्वद्वीर्येण महामुने(मते) ।

तव क्षेत्रे देवहूत्यां प्रणेष्ये तत्त्वसंहिताम् ॥ ३२ ॥

पदरत्नावली

पिण्डविच्छेदात् पितृशापः स्यादित्याशङ्को मा भूदिति भावेनाह– सम्भूयेति ॥ तव क्षेत्रे भार्यायाम् । ‘क्षेत्रं पुरे गृहे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च’ इति यादवः । त्वद्वीर्येण सह गर्भं प्रविश्येति शेषः । स्वांशकलया शुक्लरक्तसम्बन्धरहितया सच्चिदानन्दलक्षणया सम्भूय सम्यगभिव्यज्य । तत्त्वसंहितां तत्त्वङ्ख्यानलक्षणं साङ्ख्यशास्त्रम् । प्रणेष्ये करिष्य इत्यन्वयः ॥ ३२ ॥

प्रकाशिका

क्षेत्रे भार्यायां स्वांशकलया स्वरूपभूतांशविभागेन त्वद्वीर्येण सम्भूय सम्भूत इव प्रदर्श्य तत्त्वसंहितां परापरतत्त्वप्रतिपादकं साङ्ख्यशास्त्रं प्रणेष्ये करिष्ये ॥ ३२ ॥

एवं तमनुभाष्याथ भगवान् प्रत्यगक्षगः ।

जगाम बिन्दुसरसः सरस्वत्या परिश्रितात् ॥ ३३ ॥

पदरत्नावली

कर्दमायाशेषपुरुषार्थसाधनमभीष्टं हरिरुपदिश्य पुनः किमकार्षीदिति तत्राह– एवं तमिति ॥ प्रत्यगक्षम् अन्तर्यामिविषयमिन्द्रियं विषयत्वेन गच्छत्येनं प्रतीति प्रत्यगक्षगः, अपरोक्ष-ज्ञानविषय इत्यर्थः । प्रत्यक्स्थितोऽपीदानीम् इन्द्रियविषयगतो वा ॥ ३३ ॥

प्रकाशिका

प्रत्यगक्षगः प्रत्यग्भूतेन्द्रियविषयः । सरस्वत्या नद्याः परिश्रितात् परिवेष्टितात् ॥३३॥

निरीक्षतस्तस्य यथावशेषसिद्धेश्वराभिष्टुतसिद्धमार्गः ।

आकर्णयन् पत्ररथेन्द्रपत्रैरुच्चारितं स्तोममुदीर्णसाम ॥ ३४ ॥

पदरत्नावली

अशेषसिद्धेश्वरैः समस्तब्रह्मादिभिरभिष्टुतः सिद्धैः सनकादिभिर्मृग्यत इति सिद्धमार्गश्च । ‘मार्गो मृगपदे मासि सौम्यर्क्षेऽन्वेषणेऽध्वनि’ इति । पत्ररथाः पक्षिणस् तेषामिन्द्रः गरुडस्तस्य पत्रैः पक्षैः, उदीर्णमुत्कृष्टं साम यस्मिन् स तथा तं स्तोमं स्तुतिविशेषम् ॥ ३४ ॥

प्रकाशिका

सिद्धैर्मृग्यत इति सिद्धमार्गः । अशेषसिद्धेश्वरैर्ब्रह्मादिभिरभिष्टुतश्चासौ सिद्धमार्गश्चेति विग्रहः । पत्ररथाः पक्षिणस्तेषामिन्द्रो गरुडस्तस्य पत्रैः पक्षैरुच्चारितमभिव्यक्तं स्तोमं सामाधारभूत-ऋक्समुदायरूपं स्तुतिविशेषं तदारूढमुदीर्णमुत्कृष्टं साम चाकर्णयन् । उच्चारितस्तोममिति पाठे उच्चारितः स्तोमः स्तुतिविशेष यस्य साम्न आधारभूतस्तदुदीर्णं सामाकर्णयन्निति व्याख्येयम् ॥ ३४ ॥

मैत्रेय उवाच–

एवं संप्रस्थिते शुक्ले कर्दमो भगवान् ऋषिः ।

आस्ते स्म बिन्दुसरसि तं कालं प्रतिपालयन् ॥ ३५ ॥

पदरत्नावली

अनन्तरं कर्दमोऽपि ‘तपश्चेत् संपन्नं, किमत्रेत्यन्यत्र नागमत् किम् ? तत्राह– एवमिति ॥ प्रतिपालयन् प्रतीक्षमाणः ॥ ३५ ॥

प्रकाशिका

शुक्ले भगवत्येवं ब्रुवति सति तं कालं परश्व इत्युक्तं कालं प्रतिपालयन् प्रतीक्षमाणः

॥ ३५ ॥

मनुः स्यन्दनमास्थाय शातकौम्भपरिच्छदम् ।

आरोप्य स्वां दुहितरं सभार्यः पर्यटन् महीम् ॥ ३६ ॥

पदरत्नावली

ऋष्याद्युक्तमपि न मृषा भवति । किमुतेश्वरभाषितमिति भावेन मनोरागमनं वक्ति– मनुरिति ॥ पर्यटन् महीमित्यनेन पित्रा दुहित्रर्थं वरानुगमनं न लौकिकमिति राज्यपरीक्षाव्याजेन यदृच्छया प्राप्त इति भावं सूचयति ॥ ३६ ॥

प्रकाशिका

शातकौम्भाः सौवर्णाः परिच्छदाः परिकरा यस्मिन् तम् । वरान्वेषणार्थं पर्यटन्

॥ ३६ ॥

तस्मिन् सुधन्वन्नहनि भगवान् यत् समादिशत् ।

उपायादाश्रमपदं मनुः शान्तव्रतस्य तत् ॥ ३७ ॥

पदरत्नावली

हे सुधन्वन् विदुर । शान्तव्रतस्य पूर्णव्रतस्य ॥ ३७ ॥

प्रकाशिका

हे सुधन्वन् विदुर ॥ ३७ ॥

यस्मिन् भगवतो नेत्रान्न्यपतन् हर्षबिन्दवः ।

कृपया संपरीतस्य प्रपन्नेऽर्पितया भृशम् ॥ ३८ ॥

पदरत्नावली

कर्दमाश्रमस्य बिन्दुसर इति नाम कस्मादिति तत्राह– यस्मिन्निति ॥ बिन्दूनां सरणं प्रसरणं यत्र तद् बिन्दुसर इति ॥ ३८ ॥

प्रकाशिका

कर्दमाश्रमस्थसरसः बिन्दुसर इति कस्मान्नामेत्यतस्तत्र निमित्तमाह ॥ यस्मिन्निति । यस्मिन्सरसि । प्रपन्ने शरणागते कर्दमे ॥ ३८ ॥

तद् वै बिन्दुसरो नाम सरस्वत्या परिप्लुतम् ।

पुण्यं शिवामृतजलं महर्षिगणसेवितम् ॥ ३९ ॥

पदरत्नावली

कन्यादानकार्यमन्तरेणापि श्रेयोऽर्थिना गन्तुं योग्यमित्याशयेन तदाश्रमगुणानाह– पुण्यमिति ॥ शिवं चामृतमयाचितं च जलं यस्मिन् तत् तथा । ‘अमृतं व्योमि्न देवान्ने यज्ञशेषे रसायने । अयाचिते च दुग्धाब्धौ’ इत्यभिधानात् ॥ ३९ ॥

प्रकाशिका

तदाश्रमं वर्णयति ॥ पुण्यमित्यादिना । शिवमारोग्यकरममृतवत्स्वादुजलं यस्मिन्

॥ ३९ ॥

पुण्यद्रुमलताजालैः कूजत्पुण्यमृगद्विजैः ।

सर्वर्तुफलपुष्पाढ्यं वनराजिश्रियान्वितम् ॥ ४० ॥

पदरत्नावली

पुण्यद्रुमा अश्वत्थादयः । लता माधव्यादयः । तेषां जालैः समूहैः । मुकुलैश्च युक्तमिति शेषः । पुण्यमृगाः कृष्णसारङ्गदयः । द्विजा जरितार्यादिपक्षिणः ॥ ४० ॥

प्रकाशिका

कूजन्तः पुण्या मृगा द्विजाः पक्षिणश्च येषु तैः । पुण्यद्रुमलतानां जालैः समूहैः । युक्तमिति शेषः । अन्वितमित्यस्यात्रापि सम्बन्ध इति वा ॥ ४० ॥

मत्तद्विजगणोद्धुष्टं मत्तभ्रमरविभ्रमम् ।

मत्तबर्हिनटाटोपमाह्वयन्मत्तकोकिलम् ॥ ४१ ॥

पदरत्नावली

मत्तेन द्विजगणेन विशिष्टपक्षिसमूहेन उद्घुष्टमाघोषितं, मत्तानां भ्रमराणां विभ्रमः शृृङ्गारविशेषो यस्मिंस्तत् तथा । बर्हाणि एषां सन्तीति बर्हिणो मयूराः । त एव नटास्तेषामाटोपो नृत्तसंभ्रमो यस्मिंस्तत् तथा । मिथ आह्वयन्तो मत्ताः कोकिला यस्मिंस्तत् तथा ॥ ४१ ॥

प्रकाशिका

उद्घ्रुष्टमाघोषितम् । मत्तानां भ्रमराणां विभ्रमो विविधं भ्रमणं यस्मिन् बर्हा येषां सन्तीति बर्हिणो मयूरास्त एव नटास्तेषामाटोपो नृत्यसंभ्रमो यस्मिन् । मिथ आह्वयन्तो मत्तकोकिला यस्मिन् ॥ ४१ ॥

कदम्बचम्पकाशोककरञ्जबकुलासनैः ।

कुन्दमन्दारकुटजैश्चूतपोतैरलंकृतम् ॥ ४२ ॥

पदरत्नावली

न केवलमश्वत्थादयो यत्र । अन्येऽपि सन्तीत्याह– कदम्बेत्यादिना ॥ ४२ ॥

प्रकाशिका

कदम्बादिभिर्वृक्षैरलङ्कृतम् ॥ ४२ ॥

कारण्डवैर्बकैर्हंसैः कुररैर्जलकुक्कुटैः ।

सारसैश्चक्रवाकैश्च चकोरैर्वल्गुकूजितम् ॥ ४३ ॥

पदरत्नावली

सामान्येनोक्तान् पक्षिणो विशेषनाम्ना निर्दिशति– कारण्डवैरित्यादिना ॥ कारण्डवाख्यमहापक्षिभिः ॥ ४३ ॥

प्रकाशिका

कारण्डवादिभिः पक्षिभिर्वल्गु यथा तथा कूजितम् ॥ ४३ ॥

शशकैर्हरिणैः क्रोडैः श्वविड्गवयकुञ्जरैः ।

गोपुच्छैर्हरिभिर्मर्कैर्नकुलैर्नाभिभिर्वृतम् ॥ ४४ ॥

पदरत्नावली

श्वविशो वृका गवया वन्याः । गोपुच्छाश्चमर्यः । हरिभिः सिंहैः । मर्कैर्वन-मार्जारैः । नाभिभिर्मृगनाभिभिः ॥ ४४ ॥

प्रकाशिका

हरिणादिभिर्मृगैर्वृतम् । तत्र क्रोडाः सूकराः । श्वविशो वृकाः । गवया वन्या गावः । गोपुच्छैश्चमरीभिर्हरिभिः सिंहैः कपिभिर्वा । मर्कैर्वनमार्जारैर्मर्कटैर्वा । नाभिभिः कस्तूरीमृगैः ॥ ४४ ॥

प्रविश्य तत् तीर्थवरमादिराजः सहानुगः ।

ददर्श मुनिमासीनं तस्मिन् हुतहुताशनम् ॥ ४५ ॥

विद्योतमानं वपुषा तपस्युग्रयुजा चिरम् ।

नातिक्षामं भगवतः स्निग्धापाङ्गाव(ङ्गवि)लोकनात् ॥ ४६ ॥

पदरत्नावली

तपसि विषये । उग्रं युज्यत इति उग्रयुक् । तीव्रवेगवतेत्यर्थः । उग्रयोगतपस्त्वे वपुःकार्श्येन दृष्टिसुखाजनके कन्यादाने वैराग्यं स्यादिति तत्राह– नातिक्षाममिति ॥ तत्र हेतुद्वयमाह– भगवत इति ॥ ४६ ॥

प्रकाशिका

उग्रो युक् योगो यस्य तेन वपुषा विद्योतमानम् । अतिक्षामत्वाभावे हेतुद्वयमाह ॥ भगवत इत्यादि ॥ ४६ ॥

तद्व्याहृतामृतकलापीयूषश्रवणेन च ।

प्रांशुं पद्मपलाशाक्षं जटिलं चीरवाससम् ॥ ४७ ॥

पदरत्नावली

पुरुषलक्षणाभावेनातिक्षामत्वमप्रयोजकमिति तत्राह– प्रांशुमिति ॥ प्रांशुमुन्नतम् । तपोवेषगूढत्वेनान्यल्लक्षणं कुत्र न दृश्यत इति भावेनाह– जटिलमिति ॥ ४७ ॥

प्रकाशिका

तस्य भगवतो व्याहृतं वचनं तदेवामृतकलापीयूषममृतकलश्चन्द्रस्तद्गतं समीचीन-ममृतं भगवतः प्रकाशरूपत्वेनाल्हादकत्वेन च चन्द्रस्थानीयत्वेन तद्वचनस्य तद्गतामृतस्थानीयत्वम् । तस्य श्रवणेन तल्लक्षणपानेन चेत्यर्थः । प्रांशुमुन्नतं दीर्घम् ॥ ४७ ॥

उपसंसृत्य मलिनं यथार्हणमसंस्कृतम् ।

अथोटजमुपायान्तं नृदेवं प्रणतं पुरः ।

सपर्यया प्रत्यगृह्णात् प्रतिनन्द्यानुरूपया ॥ ४८ ॥

पदरत्नावली

असंस्कृतमनलंकृतम् । उटजं पर्णशालाम् । अनुरूपया राजयोग्यया ॥ ४८ ॥

प्रकाशिका

अर्हणं यथा स्यात्तथोपसंसृत्य ददर्शेति पूर्वेणान्वयः । असंस्कृतमभ्यञ्जनादि-संस्कारवर्जितमत एव मलिनम् । उटजं पर्णशालामाशीर्भिः प्रतिनन्द्यानुरूपया राजयोग्यया सपर्यया पूजया प्रत्यगृह्णात् सत्कृतवान् ॥ ४८ ॥

गृहीतार्हणमासीनं संयतं प्रीणयन् मुनिः ।

स्मरन् भगवदादेशमित्याह श्लक्ष्णया गिरा ॥ ४९ ॥

पदरत्नावली

‘तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता’ इत्यस्यार्थमनुसंदधानो मुनिर्वाचापि तं मानयतीत्याह– गृहीतेति ॥ श्लक्ष्णया मधुरया ॥ ४९ ॥

प्रकाशिका

संयतं सम्यङ्नम्रं, श्लक्ष्णया मधुरया ॥ ४९ ॥

नूनं चङ्क्रमणं देव सतां संरक्षणाय ते ।

वधाय चासतां यस्त्वं हरेः शक्तिर्हि पालिनी ॥ ५० ॥

पदरत्नावली

किमर्थां सरसां वाणीमाहेत्यत्राह– नूनमिति ॥ मुकुरे मुखस्येवास्मिन् राज्ञि हरेर्विशेषसन्निधानस्य प्रतीयमानत्वाद् देवेति वक्ति । हिशब्दो हेत्वर्थः । ‘‘सप्तसु प्रथमे’’ति सूत्रात् त्वमिति सप्तम्यर्थे । त्वयि हरेः पालिनी सात्विकी शक्तिः सन्निहिता हि यस्मात् तस्मात् ते तव चङ्क्रमणं सम्यक् पर्यटनं सतामस्मादृशानां संरक्षणायासतामस्मद्विरोधिनां च वधाय नूनं निश्चय इत्यन्वयः ॥ ५० ॥

प्रकाशिका

हे देव नृप । चङ्क्रमणं पर्यटनं हि यस्माद्यतस्त्वम् । सप्तसु प्रथमेति सूत्रात् । यस्मिंस्त्वयि पालिनी जगत्पालना गुणशक्तिरस्ति तस्मादित्यर्थः ॥ ५० ॥

योऽर्केन्द्वग्नीन्द्रवायूनां यमधर्मप्रचेतसाम् ।

रूपाणि स्थान आधत्से तस्मै शुक्लात्मने नमः ॥ ५१ ॥

तात्पर्यम्

स्वायम्भुवो मनुश्चैव पृथुश्चैवार्जुनावपि । ब्रह्मशेषविपा रुद्र इन्द्र ऋष्यादयस्तथा । विष्ण्वावेशयुताः सर्वे न तु विष्णुस्वरूपकाः’ इति तत्त्वनिर्णये ॥ ५१ ॥ इति तृतीयतात्पर्ये द्वाविंशोऽध्यायः ॥ २२ ॥

पदरत्नावली

एतदेव विवृणोति– य इति ॥ अर्कस्य रूपं प्रकाशकत्वम् । चन्द्रस्याह्लादकत्वम् । अग्नेरधृष्यत्वम् । इन्द्रस्यैश्वर्यकरत्वम् । वायोः श्रेष्ठत्वम् । यमस्य दुष्टजनदमने निर्घृणत्वम् । धर्मस्य पुण्यापुण्यविवेकवैशद्यम् । प्रचेतसो वरुणस्य गाम्भीर्यम् । यस्त्वमेतानि रूपाणि स्थाने तत्तद्विनियोगकाले प्राप्ते आधात्से धारयसि तस्मै शुक्लस्य हरेरात्मने प्रतिमारूपाय विशेषावेशसन्निधानस्थानाय नम इत्यन्वयः । प्रतीयमानं तादात्म्यं विहाय तत्प्रतिमात्वकल्पना नाप्रामाणिकी । ‘स्वायम्भुवो मनुश्चैव पृथुश्चैवार्जुनावपि । ब्रह्मशेषविपा रुद्र इन्द्र ऋष्यादयस्तथा । विष्ण्वावेशयुताः सर्वे न तु विष्णुस्वरूपकाः ॥’ इति वचनाद् युक्तमुक्तम् ॥ ५१ ॥

प्रकाशिका

ऋषिर्मन्वाविष्टं राजराजेश्वराख्यं हरिरूपं स्वोपास्यशुक्लाभिन्नं ज्ञात्वा प्रणमति । योऽर्केति । यस्त्वमिति वर्तते । रूपाणि धर्मान् । अर्कस्य प्रकाशकत्वमिन्दोराह्लादकत्वमग्नेरधृष्यत्व-मिन्द्रस्यैश्वर्यवत्वं, वायोर्वेगं, यमधर्मस्य पुण्यापुण्यविवेकपूर्वकं शिक्षकत्वं, प्रचेतसो वरुणस्य गांभीर्यमित्येतानीति यावत् । स्थाने तत्तदवसरे प्राप्ते सति आधत्से धारयसि । तस्मै शुक्लात्मने शुक्ल-नामकहर्याविष्टदेहाय । अत्रैवमावेशपरत्वेनैव व्याख्येयं नाभेदपरत्वेनेत्याशयेन स्वायम्भुवमनौ हरेर्विशेषा-वेशसद्भावे हर्यभेदाभावे च प्रमाणमाह ॥ स्वायम्भुव इति । एवकारयोस्तुशब्दस्य च, तु विशेषेण विष्ण्वावेशयुता एव विष्णुस्वरूपका नैवेति सम्बन्धः । अर्जुनौ कार्तवीर्यपाण्डवौ ॥ ५१ ॥

न यदा रथमास्थाय जैत्रं मणिगणार्पितम् ।

विस्फुरच्चण्डकोदण्डो रथेन त्रासयन्नघान् ॥ ५२ ॥

पदरत्नावली

जगद्रक्षणार्थमुत्पन्नत्वात् तव हरेर्विशेषावेशो युक्त इत्यभिप्रेत्य व्यतिरेकमुखेन राजानं प्रशंसति– न यदेति ॥ जैत्रं जयशीलं, अघान् पापपुरुषान् त्रासयन्, कम्पयन् ॥ ५२ ॥

प्रकाशिका

हरेः पालिनी शक्तिस्त्वय्यप्यस्तीत्युक्तं व्यतिरेकमुखेनोपपादयति ॥ न यदेति । जैत्रं जयशीलम् । मणिगणा अर्पिता यस्मिन् । विस्फुरन्नादं कुर्वच्चण्डकोदण्डं धनुर्यस्य ॥ ५२ ॥

स्वसैन्यचरणक्षुण्णं वेपयन् मण्डलं भुवः ।

विकर्षन् बृहतीं सेनां पर्यटस्यंशुमानिव ॥ ५३ ॥

पदरत्नावली

अंशुमानादित्यः ॥ ५३ ॥

प्रकाशिका

स्वसैन्यस्य चरणैः क्षुण्णं सङ्घुष्टं, वेपयन्कंपयन् । अंशुमान्सूर्यः ॥ ५३ ॥

तदैव सेतवः सर्वे वर्णाश्रमनिबन्धनाः ।

भगवद्रचिता राजन् भिद्येरन् बत दस्युभिः ॥ ५४ ॥

पदरत्नावली

दस्युभिर्हिंसाशीलैः पुरुषैः सेतुभेदः स्यात् ॥ ५४ ॥

प्रकाशिका

वर्णाश्रमाणां निबन्धनं नियमनं यैः । वर्णाश्रमधर्मनियमननिमित्ता इति यावत् । बत अहो ॥ ५४ ॥

अधर्मश्च समेधेत लोलुपैर्व्यङ्कुशैर्नृभिः ।

शयाने त्वयि लोकोऽयं दस्युग्रस्तो विनङ्क्षयति ॥ ५५ ॥

पदरत्नावली

ततः किम् ? अत्राह– अधर्मश्चेति ॥ व्यङ्कुशैर् निरङ्कुशैः। अतोऽपि किम् ? अत्राह– शयान इति ॥ शयाने न्यायान्यायविचारशून्ये ॥ ५५ ॥

प्रकाशिका

व्यङ्कुशैर्निरङ्कुशैः । ततश्च किमित्यत आह ॥ शयान इति । न्यायान्यायविचारशून्य इत्यर्थः । न वर्णाश्रमधर्ममात्रविनाशः किन्तु सर्वोऽप्ययं लोको दस्युग्रस्तश्चोरापहृतार्थः सन्विनंक्ष्यति

॥ ५५ ॥

अथापि पृच्छे त्वां वीर यदर्थं त्वमिहागतः ।

तद् वयं निर्व्यलीकेन प्रतिपद्यामहे हृदा ॥ ५६ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे द्वाविंशोऽध्यायः ।

पदरत्नावली

ऋषित्वाभिमानभङ्गभयात् किञ्चिज्जानन्निव कर्दमः कार्यविशेषं पृच्छति– अथापीति ॥ अनेन राज्ञोऽर्थिताशाभङ्गभयं निवृत्तमिति ध्वनयति ॥ ५६ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे द्वाविंशोऽध्यायः ॥

प्रकाशिका

यद्यप्येवं धर्ममार्गरक्षार्थं तव सर्वत्र पर्यटनं सम्भवत्यथाऽपि कार्यविशेषार्थमत्र तवागमनमित्यतो यदर्थं यस्य कार्यस्य सिद्ध्यर्थं त्वमिहागतस्तत्किमिति त्वां पृच्छे तदुच्यताम् । वयम् । तत्त्वया कथितं कार्यं निर्व्यलीकेन हृदा प्रीतियुतेनान्तःकरणेन प्रतिपद्यामहे स्वीकुर्मः ॥ ५६ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां द्वाविंशोऽध्यायः ॥ ३-२२ ॥