२१ एकविंशोऽध्यायः

महीं प्रतिष्ठामध्यास्य योऽसौ स्वायम्भुवो मनुः

अथ एकविंशोऽध्यायः

राजोवाच–

महीं प्रतिष्ठामध्यास्य योऽसौ स्वायम्भुवो मनुः ।

कान्यध्यतिष्ठद् द्वाराणि मार्गायावरजन्मनाम् ॥ १ ॥

पदरत्नावली

सृष्टिप्रलयाभ्यां स्फुटं विज्ञेयस्य देवादीनां तारतम्यज्ञानस्य हरिप्रीतिजनकत्वेन पुरुषार्थहेतुत्वादनुक्तसमुच्चयार्थं च पूर्वोक्तसृष्टिं प्रपञ्चयत्यस्मिन्नध्याये । ‘सृष्टौ लये तारतम्यं देवानां ज्ञायते स्फुटम् । तारतम्यपरिज्ञाने महातात्पर्यमिष्यते ॥ अतस्तद् बहुशस्सूक्तमन्यच्चैतत्प्रकाशकम् ॥’ इति वचनात् । प्रवक्ता श्रोतुरभीष्टमर्थं ब्रूते किमन्यद् वेति ज्ञातुं न शक्यते । तस्मात् तन्निरासार्थं तत्रादौ राजा शुकं पृच्छति– महीमिति ॥ महीमध्यास्य मह्यां स्थित्वा । अधिशीङ्स्थासां कर्म इति सूत्रात् सप्तम्यर्थे द्वितीया । अवरजन्मनां पश्चात्तनकाले जातानां प्राणिनां मार्गाय वर्णाश्रमस्वरूपभेदज्ञानाय कानि द्वाराणि सृष्टिसाधनानि अध्यतिष्ठत् तत्र स्थित्वाऽसृजदित्यर्थः ॥ १ ॥

प्रकाशिका

स्वयं भवतीति स्वयंभूर्हरिस्तस्माज्जातो मनुर्ज्ञानी ब्रह्मा । प्रतिष्ठन्ति जना अस्यामिति प्रतिष्ठा, तां सर्वजनाश्रयां महीं भूमिमध्यास्य भूम्यां स्थित्वा । अधिशीङ्स्थासां कर्मेति द्वितीया । अवरजन्मनां पश्चाज्जातानां यक्षादीनां प्राणिनां मार्गाय तत्तज्जात्युचितमार्गप्रदर्शनाय कानि द्वाराण्यध्यतिष्ठत्केषु स्थित्वाऽसृजदित्यर्थः । तथा च स्वयंभूर्ब्रह्मा तस्माज्जातो मनुश्च कानि द्वाराणि सृष्टिसाधनान्यपत्यान्यधिष्ठितानि ॥ १ ॥

क्षत्ता महाभागवतः कृष्णस्यैकान्तिकः सुहृत् ।

यस्तत्याजाग्रजं कृष्णो सापत्यमघवानिति ॥ २ ॥

पदरत्नावली

विदुरप्रश्नवचनानुसारेण मम वक्तव्यमिति भावेन पृच्छति– क्षत्तेति ॥ सन्निकृष्ट-मृत्योस्तव विदुरप्रश्नो ग्राम्यविषयत्वेन कथं संगच्छत इत्याशङ्क्य न मादृशोऽसाविति तद्गुणानाह– क्षत्ता महाभागवत इत्यादिना ॥ अत्रैतानि विशेषणानि मिथो हेतुहेतुमद्भावसूचकानीति ज्ञायते । ‘‘क्षद संचूर्णन’’ इति धातोः संसारगिरिसंचूर्णनात् क्षत्ता । एकः प्रधानः सर्वोत्तमो हरिरन्तो निर्णयोऽ-स्यास्तीत्यस्मिन्नर्थे यथाविहितप्रत्ययः । अघवानपराधवान् ॥ २ ॥

प्रकाशिका

अस्योत्तरं विदुरमैत्रेयसंवादमुखेनैव वक्तव्यमित्याशयेनाह ॥ क्षत्तेति । अग्रजं धृतराष्ट्रं सापत्यं दुर्योधनादिभिः सहितम् । अघवानपराधवानिति हेतोः कृष्णोक्तमन्त्रानादरवानिति भावः

॥ २ ॥

द्वैपायनादनवमो महित्वे तस्य देहजः ।

सर्वात्मना श्रितः कृष्णं तत्परांश्चाप्यनुव्रतः ॥ ३ ॥

पदरत्नावली

सर्वात्मनेति प्रोक्तहेतुनिगमनरूपम् ॥ ३ ॥

प्रकाशिका

द्वैपायनादनवमः स्वयोग्यतानुसारेण समः । सर्वात्मना सर्वप्रकारेण । चापिशब्दौ परस्परसमुच्चये । कृष्णं चेति सम्बन्धः ॥ ३ ॥

किमन्वपृच्छन्मैत्रेयं विदुरस्तीर्थसेवया ।

उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥

पदरत्नावली

किमन्वपृच्छन्मया पृष्टमन्यद् वेति । कुशावर्ते गङ्गाद्वारे ॥ ४ ॥

प्रकाशिका

कुशावर्ते गङ्गाद्वारे ॥ ४ ॥

तयोः संवदतोर् भद्र (सूत) प्रवृत्ता ह्यमलाः कथाः ।

आपो गाङ्ग्य इवाघघ््नयो हरेः पादाम्बुजाश्रयाः ॥ ५ ॥

ता नः कीर्तय भद्रं ते कीर्तन्योदारकर्मणः ।

रसज्ञः को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥

पदरत्नावली

तत्रान्यप्रसङ्गा दूरीभूता एवेति भावेनाह– तयोरिति ॥ बहुशः श्रुतत्वात् तव तन्द्या निद्रालुत्वं स्यादिति तत्राह– रसज्ञ इति ॥ ५,६ ॥

प्रकाशिका

कीर्तन्यानि कीर्तनार्हाण्युदाराणि कर्माणि । यस्य हरेः ॥ ५,६ ॥

सूत उवाच–

एवं परीक्षिता पृष्टो भगवान् बादरायणिः ।

भगवत्यर्पिताध्यात्मस्तमाह श्रूयतामिति ॥ ७ ॥

पदरत्नावली

एतमर्थं सूतः शौनकादिभ्यः कथयति– एवमिति ॥ अर्पिताध्यात्मो ऽर्पितं शरीरमधिकृत्य वर्तमानं मनआदीन्द्रियजातं येन सोऽर्पिताध्यात्मः ॥ ७ ॥

प्रकाशिका

अर्पितमात्मानं शरीरमधिकृत्य वर्तमानमिन्द्रियजातमध्यात्मं येन स तथा ॥ ७ ॥

श्रीशुक उवाच–

हरेर्धृतक्रोडतनोः स्वमायया

निशम्य गोरुद्धरणं रसातलात् ।

लीलां हिरण्याक्षमवज्ञया हतं

सञ्जातहर्षो मुनिमाह भारतः ॥ ८ ॥

पदरत्नावली

शुकोऽपि त्वत्पृष्टमर्थं प्रष्टुं विदुरो मैत्रेयं वक्तीत्याह– हरेरिति ॥ ८ ॥

प्रकाशिका

स्वमायया स्वेच्छया धृतक्रोडतनोर्धृतवराहदेहस्य गोरुद्धरणं भूम्युद्धरणरूपां लीलां हिरण्याक्षमवज्ञया हतं निशम्य । भारतो विदुरः ॥ ८ ॥

विदुर उवाच–

प्रजापतिपतिः सृष्ट्वा प्रजासर्गे प्रजापतीन् ।

किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥

पदरत्नावली

किमाहेति तत्राह– प्रजापतीति ॥ अव्यक्तानां परमात्मादितत्त्वानां मार्गं प्रकारं वेत्तीति ॥ ९ ॥

प्रकाशिका

प्रजापतिपतिर्ब्रह्मा । प्रजासर्गे प्रजानां सृष्ट्यर्थम् । प्रजापतीन्मरीच्यादीन् । किमारभत किं किं सृष्टवान् । यतस्त्वमव्यक्तमार्गवित् । मृग्यत इति मार्गः स्वरूपं परापराव्यक्त-स्वरूपवेत्ता । ब्रह्मणो वेदं विशेषणम् ॥ ९ ॥

ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनुः ।

ते वै ब्रह्मण आदेशात् कथमेतदभावयन् ॥ १० ॥

पदरत्नावली

राजविदुरप्रश्नयोरेकविषयत्वं वक्ति– य इति ॥ अभावयन् प्रावर्धयन् ॥ १० ॥

प्रकाशिका

एतज्जगदभावयन् उत्पादयामासुः ॥ १० ॥

सद्वितीयाः किमसृजन् स्वतन्त्रा उत कर्मभिः ।

आहोस्वित् संहताः सर्व इदं स्म समकल्पयन् ॥ ११ ॥

पदरत्नावली

द्वितीया भार्या । स्वतन्त्रा अन्यापेक्षारहिताः । कर्मभिः, प्रेरिता इति शेषः । संहताः संमिलिताः । स्मेत्यनेन संहत्य सर्जनं प्रधानं स्मारयति ॥ ११ ॥

प्रकाशिका

सद्वितीयाः सभार्याः । स्वतन्त्रा अन्यानपेक्षाः । कर्मभिरदृष्टैः सहकारिभिः संहताः परस्परापेक्षाः ॥ ११ ॥

मैत्रेय उवाच–

दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।

जातक्षोभाद् भगवतो महानासीद् गुणत्रयात् ॥ १२ ॥

तात्पर्यम्

‘सृष्टौ लये तारतम्यं देवानां ज्ञायते स्फुटम् । तारतम्यपरिज्ञाने महातात्पर्य-मिष्यते । अतस्तद्वहुशस्तूक्तमन्यच्चैतत्प्रकाशकमि’ति वामने । महतो ब्रह्मवायू च तद्भार्ये चाभिमानिनः । ‘अहमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतत्स्त्रियः । मनसस्त्वनिरुद्धश्च चन्द्रश्चान्ये यथोदितम् । एवं क्रमो व्यत्ययस्तु सूक्ष्मस्थूलादिभेदतः । सृष्टौ गुणे च ज्ञानादौ मुक्तिस्थे वाप्ययं क्रमः । नियमेनान्यथोक्तिस्तु मोहायासुरजन्मनामि’ति वाराहे ॥ १२ ॥

पदरत्नावली

किमारभतेति यत् पृष्टं तस्योत्तरं वक्तुं पूर्वोक्तसृष्टिमविस्मरणायादितोऽनुवदति– दैवेनेति ॥ दुर्वितर्क्येण प्राण्यदृष्टानां बहुत्वादनुमातुमशक्येन दैवेनादृष्टेन । ‘नैषा तर्केण मतिरापनेया’ इति श्रुतेरदृष्टान्तर्यामिणा हरिणा वा । दुर्विकल्पेनेति पाठे इदमदो वेति संशयाविषयेण । अनिमिषेण सर्वतो विलक्षणेन सृष्टिकालेन तदन्तर्यामिणा हरिणा वा । सर्वेषां मूलकारणस्य प्रलयसमुद्रे लक्ष्मीपर्यङ्के शयानस्य भगवतः प्रेरणया जातक्षोभात् कार्याभिमुखोत्पन्नविकाराद् विषमावस्थामुपगताद् गुणत्रयाद् यथासङ्ख्यंसंयुक्तसत्त्वादिगुणत्रयान् महान् महत्तत्वाभिमानी ब्रह्मासीत् । तदभिमन्यमानमहत्तत्वं चाभूत् । किं च भगवतो वीर्याधानेन जातक्षोभादुत्पन्नसिसृक्षत्वविशेषात् । ‘त्वं जीवशक्त्यां गुणकर्मयोनौ’ इत्यतो गुणत्रयाभिमानिनोऽजाभिधानादक्षरान्महत्तत्वाभिमानी वायुश्च सरस्वती भारती च जाता इत्यर्थः । ‘महतो ब्रह्मवायू च तद्भार्ये चाभिमानिनः’ इति वाक्यादयमर्थः । कल्प्यत इति ॥ १२ ॥

प्रकाशिका

किमारभतेति प्रश्नस्य यक्षादीनित्युत्तरं वक्तुं पूर्वोक्तां महदादिसृष्टिं पुनर्वक्ति ॥ दैवेनेति । ननूक्तस्य पुनरुक्तिर्व्यर्थेत्यतोऽत्र तात्पर्यं प्रमाणेनैवाह ॥ सृष्टाविति ॥ तारतम्यं ज्ञायत इति । यो यस्मात्पूर्वमुत्पन्नः सस् तस्मादुत्तमो यो यस्मात्पूर्वं विलीयते स तस्मान्नीच इति देवानां सृष्टिलय-योरुक्तयोस्तारतम्यं स्फुटं ज्ञायत इत्यर्थः । ननु तर्ह्येकवारोक्त्या तारतम्यं ज्ञातुं शक्यत्वाद्बहुशस्तद्वचनं व्यर्थमित्यत आह ॥ तारतम्येति । इष्यते यतः । तुशब्दोऽवधारणे । अत इत्यनेन सम्बध्यते । एतत्प्रकाशकं देवतातारतम्यप्रकाशकम् । तदन्यत्क्रमेण लक्षणवत्वादिकं बहुशः कथ्यते । तदपि तत्र महातारतम्यज्ञापनायैवेत्याह ॥ अन्यच्चेति ।

ननु महदादितत्त्वानां सृष्टिप्रलययोरुक्तयोः कथं देवानां तारतम्यज्ञानं व्यधिकरणत्वादित्याशङ्कायां सृष्ट्यादिप्रकरणेष्वभिमन्यमानतत्त्ववाचकैः शब्दैरभिमानिनो देवा अपि विवक्षिताः । अतो न वैयधिकरण्यमित्यभिप्रेत्य महदादितत्त्वाभिमानिनः । देवान्प्रमाणेनैव दर्शयति ॥ महत इति । अन्ये इन्द्रियादितत्त्वाभिमानिनो यथोदितं शास्त्रवचनमनतिक्रम्य ज्ञेया इत्यर्थः । ननु तर्हि कथं कुत्रचिद-न्यथोक्तिरित्यत आह ॥ व्यत्ययस्त्विति । वैपरीत्येनोक्तिरित्यर्थः । अवधारणार्थकस्य तुशब्दस्य भेद एवेत्यर्थः । आदिपदेन कल्यादिभेदग्रहणम् । सृष्टौ सूक्ष्मसृष्टौ ज्ञानादिगुणादौ च मुक्तावप्ययमेव क्रम इत्यन्वयः । नियमेन । ज्ञेय इति शेषः । तुशब्दोऽवधारणे । मोहायैव ॥ ततश्चायं दैवेनेत्यादिमूलार्थः ॥ दुर्वितर्क्येणानुमातुमशक्येन दैवेनादृष्टप्रेरकेण सर्वोत्तमेन पुरुषेणानिमिषेण कालेन हेतुना, जातः क्षोभः कार्योन्मुखसत्त्वं यस्य तस्मात्तद्गुणत्रयादुक्तरीत्या भगवतो वासुदेवान्महानासीन्महत्तत्त्वं तदभिमानिनो ब्रह्मवाय्वादयश्च जाता इत्यर्थः । एवमग्रेऽप्यभिमानिसृष्टिरपि द्रष्टव्या ॥ १२ ॥

रजःप्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् ।

जातः ससर्ज भूतादिर्वियदादीनि पञ्च च ॥ १३ ॥

पदरत्नावली

महत्तत्वादहंकारस्योत्पत्तिमाह– रजःप्रधानादिति ॥ साम्यावस्थायां मूले रजसि यद् रजो मूले तमसि मिश्रितं यद् रजः मूले सत्वे यद् रज इति त्रिधा विभक्तेन समस्तेन रजसा युक्तत्वाद् रजःप्रधानत्वं महत्तत्वस्य । तस्मान्महतो महत्तत्वाद् दैवचोदिताद् विकुर्वाणाज्जातो वैकारिक-तैजसाभ्यां सहितस् त्रिलिङ्गस्त्रिरूपो भूतादिस्तामसाहङ्कारो वियदादीनि पञ्चभूतानि ससर्जेत्यन्वयः । अनेनैतच्च सिद्धं तैजसाहङ्कारः श्रोत्रादिदशेन्द्रियाणि वैकारिकाहङ्कारो मनोदिगाद्यभिमानिदेवान् ससर्ज । मूलाहङ्कारादनन्तगरुडरुद्राद्याः स्वभार्याभिः सह जाताः । मनोऽभिमानिनावनिरुद्धचन्द्रौ वैकारिकाभिमानिदेवविशेषाज्जातौ । तदुक्तम्– ‘अहमः शेषवीन्द्रौ च रुद्रेन्द्रौ कामतत्स्त्रियः । मनसस्त्वनिरुद्धश्च चन्द्रश्चान्ये यथोदितम् । एवं क्रमो व्यत्ययस्तु सूक्ष्मस्थूलादिभेदतः । सृष्टौ गुणे च ज्ञानादौ मुक्तिस्थेष्वप्ययं क्रमः । नियमेनान्यथोक्तिस्तु मोहायासुरजन्मनाम् ॥’ इति ॥ १३ ॥

प्रकाशिका

महतो महत्तत्त्वान्तर्गततमोभागात्तत्रापि तमोभागापेक्षया रजोभागानामेव महत्त्वमिति ज्ञापनाय रजःप्रधानादित्युक्तम् । तेषु रजोभागेषु बहुतरं सत्त्वमस्तीति ज्ञातव्यम् । त्रिलिङ्गो वैकारिकादिभेदेन त्रिस्वरूपोऽहङ्कारो जातः । तत्र यो भूतादिस्तामसोऽहङ्कारः स त्रिलिङ्गः । सात्त्विकादिभेदेन त्रिस्वरूपः । पञ्च चेति चशब्देन मनो दशेन्द्रियाणि तदभिमानिदेहांश्चेत्यपि ग्राह्यम् ॥ १३ ॥

तानि चैकैकशः स्रष्टुमसमर्थानि भौतिकम् ।

संहत्य दैवयोगेन हैममण्डमवासृजन् ॥ १४ ॥

पदरत्नावली

सूक्ष्मसृष्टिमनूद्य स्थूलसृष्टिं वक्तुमारभते– तानीति ॥ यद्वा सद्वितीया इत्यादिप्रश्नं परिहरति– तानीति ॥ तानि त्रयोविंशतितत्त्वानि भौतिकं हैमं ब्रह्माण्डं देवस्य क्रीडादिगुणसंपन्नस्य हरेर्योगेन चेष्टकलक्षणप्रवेशसंबन्धेन संहत्य संयुज्यावगम्य वाऽसृजन् ॥ १४ ॥

प्रकाशिका

तानि तत्त्वान्येकैकशः प्रत्येकं भौतिकं, हैमं हिरण्यात्मकमण्डं स्रष्टुमसमर्थानि सन्ति । दैवयोगेन स्वप्रेरकहरिसम्बन्धेन संहत्यांशैः संयुज्य अवासृजन् ॥ १४ ॥

सोऽशयिष्टाधिसलिले आण्डकोशो निरात्मकः ।

साग्रं वै वर्षसाहस्रमन्ववात्सीत् तमीश्वरः ॥ १५ ॥

तात्पर्यम्

निरात्मकः न व्यक्तस्तत्रात्मा ॥ १५ ॥

पदरत्नावली

सृज्यवस्तूनि विमृश्य स्रष्टव्यानि, न सहसेति न्यायमनुसंदधतो हरेरण्डोत्पत्यनन्तरं तदन्तः सर्जनं क्रमेण स्यादित्यभिमतत्वेन जलावगाहेन दार्ढ्यादिकं च स्यादित्यण्डस्य जलावस्थानं वक्ति– सोऽशयिष्टेति ॥ निरात्मको ऽप्रकाशितपरमात्मस्वरूपः । परमात्मा तत्र नास्तीति किं न स्यात् ? अत्राह– अन्ववात्सीदिति ॥ अव्यक्ततया स्थितः ॥ १५ ॥

प्रकाशिका

सोऽण्डस्रष्टेश्वरस्तम् । तत्र साग्रं साधिकं वर्षसाहस्रं तावति काले सलिले गर्भोदकेऽन्ववात्सीन्निर्व्यापार एव स्थितस्तम् । कं यः । निरात्मक आण्डकोशः । ततो विराट्सृष्ट््यनन्तरं प्रलये जाते सलिले प्रलयोदके ब्रह्मणा सहाध्यशयिष्टेति योजना । अत्र निरात्मक इत्येतदात्मरहित इति प्रतीतिवारणाय व्याख्याति ॥ निरात्मक इति । आत्मा परमात्मा । तथा चात्मशब्दो व्यक्त्युपलक्षकः । निर्गता पूर्वं न स्थिता आत्मा व्यक्तिर्यत्रेति व्याख्येयमिति भावः ॥ १५ ॥

तस्य नाभेरभूत् पद्मं सहस्रार्कोरुदीधिति ।

सर्वजीवनिकायौको यतः स्वयमभूत् स्वराट् ॥ १६ ॥

पदरत्नावली

यो ब्रह्माण्डगर्भोदकं श्रीमयपर्यङ्के कालनाम्ना ब्रह्मणा सह शयानस्तस्य हरेर्नाभौ पद्ममभूदित्यन्वयः । इदमितरपद्माद् विशिनष्टि– सहस्रेति ॥ सहस्रधा संख्यया संख्यातेभ्योऽर्केभ्य उर्वी दीधितिर्दीप्तिर्यस्य तत् तथोक्तम् । अनेन सर्वप्रकाशकसूर्याद्युत्पत्तेः पूर्वं तमसावगूढाकाशे कथं प्रवृत्तिरिति निरस्तम् । सर्वजीवनिकायस्यौको गृहस्थानीयं यतो यस्मात् तस्मात् स्वयं सर्वजीवप्रधानः स्वराट् ब्रह्माभूदित्यन्वयः ॥ १६ ॥

प्रकाशिका

सर्वजीवनिकायानां सर्वजीवाश्रयाणां लोकानामोक उत्पादकतया गृहस्थानीयं स्वयं सर्वजीवप्रधानः । स्वराट् ब्रह्मा ॥ १६ ॥

सोऽनुविष्टो भगवता यः शेते सलिलाशये ।

लोकसंस्था यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥

तात्पर्यम्

संस्थया स्वया भगवतः (भगवति) स्थिति(त)सामर्थ्येन ॥ १७ ॥

पदरत्नावली

यदर्थं ब्रह्मोत्पन्नस्तत्प्रयोजनमाह– सोऽनुविष्ट इति ॥ यो हरिः सलिलाशये गर्भोदकलक्षणे वारिधौ श्रीसन्निहितशेषपर्यङ्के शेते तेन भगवतानुविष्टः स ब्रह्मा स्वया संस्थया परमात्मनि स्थितसामर्थ्येन यथापूर्वं लोकसंस्थानेन पद्मेन चतुर्दशलोकव्यवस्थां निर्मम इत्यन्वयः ॥ १७ ॥

प्रकाशिका

स पाद्मो ब्रह्मा यः सलिलाशये पूर्वप्रलयोदके शेते तेन भगवताऽनुविष्टः सन् पूर्वं यथा लोकानां संस्था स्थितिरभूत्तथैव स्वया संस्थया निर्मम इत्यन्वयः । अत्र स्वया संस्थयेत्यस्य विवक्षितमर्थं दर्शयति ॥ संस्थयेति ॥ तथा च स्वया स्वसम्बधिन्या संस्थया भगवतः स्थित्या स्वस्मिन्ननुप्रविष्टभगवत्स्थितिसामर्थ्येनेति यावदिति व्याख्यानं सूचयति ॥ १७ ॥

ससर्ज छाययाऽविद्यां पञ्चपर्वाणमग्रतः ।

तामिस्रमन्धतामिस्रं तमो मोहो महातमः ॥ १८ ॥

पदरत्नावली

विद्यैकापनोद्यत्वादविद्यायास्तज्ज्ञापनार्थं तत्सृष्टिं प्रथमतो वक्ति– ससर्जेति ॥ छायया रात्र्यपरपर्यायया तन्वा । पर्वाण्याह– तामिस्रमिति ॥ अनेनोक्तवक्ष्यमाणेन कान्यध्यतिष्ठद् द्वाराणीत्यस्योत्तरमुक्तं भवति ॥ १८ ॥

प्रकाशिका

छायया छायारूपां तनुमाश्रित्य । एवमग्रेऽपि व्याख्येयम् । पञ्चपर्वाणं पञ्चभेद-वतीम् । पञ्चपर्वाणि निर्दिशति ॥ तामिस्रमिति । महातमो महामोह इति पञ्च पर्वाणम् ॥ १८ ॥

विससर्जात्मनः कायं नाभ्यनन्दत् तमोमयम् ।

जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ १९ ॥

पदरत्नावली

अधिष्ठात्रभावेन विसृष्टो देहो नष्टोऽभूत् किम् ? नेत्याह– जगृहुरिति ॥ क्षुत्तृषोः समुद्भवो यस्याः सा तथोक्ता ताम् ॥ १९ ॥

प्रकाशिका

कायं छायारूपं सा रात्रिरभवदिति वाक्यमध्याहार्यम् । क्षुत्तृषोः समुद्भवो यस्यां सा तथोक्ता ताम् ॥ १९ ॥

क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवुः ।

मा रक्षतैनं जक्षध्वमित्युच्चैः क्षुत्तृडर्दिताः ॥ २० ॥

पदरत्नावली

क्षुत्तृषौ ज्ञानविरोधिन्यो यतो ब्रह्मणः स्वोत्पादकत्वेन गुरुत्वमविज्ञाय यक्षादिभि-स्तद्भक्षणार्थमद्रावीति भावेनाह– क्षुत्तृड्भ्यामिति ॥ उपसृष्टा उपद्रुताः । अस्य विवरणं क्षुत्तृडर्दिता इति । इत्युच्चैर्वदन्तोऽभिदुद्रुवुः । एनं ब्राह्मणं मा रक्षत । किन्तु जक्षध्वं भक्षयतेति ॥ २० ॥

प्रकाशिका

क्षुत्रृड्भ्याम् उपसृष्टा उपद्रुता जग्धुमत्तुं भक्षयितुम् । यतो वयं क्षुत्तृड्भ्यामर्दिता अत एनं पितेति कृपया मा, रक्षतेत्येके । अन्ये तु जक्षध्वं भक्षतेत्युच्चैः । वदन्त इति शेषः ॥ २० ॥

देवस्तानाह संविग्नो मा मा जक्षत रक्षत ।

अहो मे यक्षरक्षांसि प्रजा यूयं भविष्यथ ॥ २१ ॥

पदरत्नावली

तत्र ब्रह्मणा किं कृतम् ? अत्राह– देव इति ॥ यूयं मा मां मा जक्षत । किन्तु रक्षत । आपदि मित्रजनो बोधनीय इति भावेनाह– अहो इति ॥ अहो युष्माकमज्ञानम् । यूयं मे प्रजाः पुत्रा भविष्यथ । तस्माद् जक्षणमयुक्तम् । किन्तु रक्षणमेव । कीदृश्यः ? युष्माकं मध्ये ये यूयं मा जक्षत किन्तु रक्षतेत्यूचिध्वं ते यक्षा भविष्यथ । ये केचिद् यूयं मा रक्षत किन्तु जक्षतेत्यूचिध्वं तानि रक्षांसि भविष्यथ ॥ २१ ॥

प्रकाशिका

देवो ब्रह्मा संविग्नो भीतः सन् मां मा जक्षत न भक्षत किन्तु रक्षत । अहो यक्षरक्षांसि, यस्माद्यूयं मे प्रजाः सुता भविष्यथ तस्मात्तत्र यैर्जक्षतेत्युक्तं ते यक्षा भविष्यथ । यैस्तु मा रक्षतेत्युक्तं ते रक्षांसीति ज्ञेयम् ॥ २१ ॥

देवताः प्रभया या या दिव्याः प्रमुखतोऽसृजत् ।

तेऽहार्षुर्देवयन्तोऽपि विसृष्टां तां प्रभामहः ॥ २२ ॥

पदरत्नावली

देवानां विद्यायोग्यत्वेन तद्विरोध्यविद्यासृष्ट्यनन्तरं देवसृष्टिमाह– देवता इति ॥ या या दिव्या क्रीडादिगुणयुक्तास्तास्ता देवताः प्रभया भा दीप्तविति धातोः सर्वप्रकाशकलक्षणया विद्या-परपर्यायया तन्वासृजदित्यन्वयः । सर्वसृष्टिभ्यः प्रधानत्वात् प्रमुखत इति । देवयन्तः क्रीडादिगुणान् द्योतयन्तो देवास्तां प्रभाख्यां तनुमहार्षुरङ्गीकृतवन्तस् तदहरभवच्च ॥ २२ ॥

प्रकाशिका

या या दिव्या दिवि भवा देवास्तास्ताः प्रभया तन्वा प्रमुखतोऽग्रभागेनासृजत् । अत्रापि साऽहरभवदिति ग्राह्यम् । देवयन्तोऽपि कान्त्यादिमन्तोऽपि । अहोऽहर्भूतां तां प्रभाख्यां तनुमहार्षुर्जगृहुः ॥ २२ ॥

देवोऽदेवान् जघनतः सृजति स्मातिलोलुपान् ।

त एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥

पदरत्नावली

ओवानसुरान् जघनतः जघननाम्ना देहेन ॥ २३ ॥

प्रकाशिका

ओवानसुरान् । जघनतः प्रभाख्यतनोश्चरमभागात् । छायाप्रभासंधिदेशादिति यावत् । अतिलोलुपान्विषयलंपटान् ॥ २३ ॥

ततो हसन् स भगवानसुरैर्निरपत्रपैः ।

अन्वीयमानस्तरसा क्रुद्धो भीतः परापतत् ॥ २४ ॥

पदरत्नावली

क्रुद्धो भीत इति विडम्बनम् । परापतत् पलायितवान् ॥ २४ ॥

प्रकाशिका

परापतत् पलायितवान् ॥ २४ ॥

स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।

अनुग्रहाय भक्तानामनुरूपात्मदर्शनम् ॥ २५ ॥

पदरत्नावली

पलायनस्यावधिमाह– स इति ॥ हरिं प्राप्य जगादेति शेषः । अनुरूपमुपासकानां योग्यतानुकूलमात्मनो दर्शनं, यस्य स तथा तम् ॥ २५ ॥

प्रकाशिका

उपव्रज्य प्राप्य । अस्तौषीदिति शेषः । भक्तयोग्यतानुरूपमात्मदर्शनं यस्य ॥२५॥

पाहि मां परमात्मंस्ते प्रेषणेनासृजं प्रजाः ।

ता इमा यभितुं पापा उपक्रामन्ति मां प्रभो ॥ २६ ॥

पदरत्नावली

ते तव । यभितुं यभ मैथुन इति धातुर् मैथुनं कर्तुम् ॥ २६ ॥

प्रकाशिका

स्तोत्रप्रकारमाह ॥ पाहि मामिति द्वाभ्याम् । प्रेषणेनेच्छया । त्वदिच्छानुसारेणेति यावत् । यभितुं मैथुनं कर्तुम् ॥ २६ ॥

त्वमेकः किल लोकानां क्लिष्टानां क्लेशनाशनः ।

त्वमेकः क्लेशदस्तेषामनासन्नपदां तव ॥ २७ ॥

पदरत्नावली

नित्यं भगवत्प्रीतिकृता प्रेष्येण आपदि हरिरेव स्तोतव्य इति भावेनाह– त्वमिति ॥ अनासन्नौ न प्राप्तौ पादौ यैस्ते तथा तेषामनासन्नपदाम् ॥ २७ ॥

प्रकाशिका

तवानासन्नौ अप्राप्तौ पादौ यैस्ते अनासन्नपदस्तेषाम् ॥ २७ ॥

सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शनः ।

विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥

तात्पर्यम्

‘जानन्नपि समर्थोऽपि क्वचिद्ब्रह्मा हरेः प्रियम् । ज्ञात्वा करोति कर्माणि ह्यज्ञवच्चाप्यशक्तवदि’ति च । ‘व्यसृजन्मलवद्देहं बाह्यं न तु निजं पुरा । ब्रह्मा तच्चाहरादित्वं प्राप देवादिदैवतमि’ति कौर्मे ॥ २८ ॥

पदरत्नावली

स्वानिष्टनिवारणे समर्थस्यापि भगवान् स्वप्रियार्थं शरणंगतस्य ब्रह्मण-स्तन्निवारणोपायमाह– स इति ॥ सर्वज्ञस्यापि विरिञ्चस्याज्ञवदशक्तवत् कार्पण्यमवधार्य । तदुक्तम्– ‘जानन्नपि समर्थोऽपि क्वचिद् ब्रह्मा हरेः प्रियम् । ज्ञात्वा करोति कर्माणि ह्यज्ञवच्चाप्यशक्तवत्’ इति । अनेन स्वापदं हरिहर्तुं समर्थस्य तत्प्राप्तौ हरिशरणगतौ हरिप्रीतिः स्यादिति न्यायो दर्शितः । विविक्तमनन्याधीनम् अध्यात्मदर्शनं शरीरादिकमधिकृत्य वर्तमानं ज्ञानं यस्य स विविक्ताध्यात्मदर्शनः । अशेषविशेषज्ञानवानित्यर्थः । चेतनाचेतनराशेर्विविक्तो भिन्नो ऽत एवाध्यात्मा सर्वजीवराशेरधिक ईश्वर इति दर्शनमपरोक्षज्ञानं यस्य स तथोक्तः ‘तद् ब्रह्मावेदहं ब्रह्मास्मि’ इति श्रुतेरिति वा । ‘स्यादध्ययिक ईश्वरे’ इति यादवः । हेत्यनेन स्वाज्ञाकारणाद्धरेरभ्यधिका प्रीतिरभूदिति सूचयति । अत एव– विमुञ्चेति ॥ भवतश्चेन्मदनुग्रहपात्रज्ञानसाधनयोग्या तनुरस्ति किमनया घोरयेति ॥ २८ ॥

प्रकाशिका

विविक्तमितरसर्वाधिकार्युत्तममध्यात्मं ब्रह्म देहगतान्तःकरणवृत्तिरूपं पश्यतीति विविक्ताध्यात्मदर्शनः । ब्रह्मा स्वयं समर्थोऽपि मत्प्रीत्यर्थमेवेदं करोतीति जानन्निति यावत् । अत्रेत्युक्तो विमुमोच हेत्युक्त्या पूर्वं ब्रह्मणस्तदज्ञानं पलायनादिकं चाशक्तिकार्यमुच्यते । तन्न वास्तवम् । किन्तु ब्रह्मणाऽसुरजनमोहनाय कदाचिदेवमपि प्रदर्शनीयमिति हरेरभीष्टं ज्ञात्वैवेति ब्रह्मणा प्रदर्शितमिति तात्पर्यं प्रमाणेनैव दर्शयति ॥ जानन्नपीति । अत्र ब्रह्मणो देहत्यागस्तस्य देवादिभिः स्वीकृतत्वं चोच्यते तत्कथम् । ब्रह्मणोऽनेकदेहत्यागनिमित्तदुःखप्रसङ्गात् । देवानां स्वस्वशरीरेषु सत्सु अहरादीनां शरीरतया स्वीकारासम्भवाच्चेत्याशङ्कायामत्र विवक्षिततात्पर्यं प्रमाणेनैवाह ॥ व्यसृजदिति । मलवदित्यनेन देहत्यागे तस्य न क्लेश इति सूचयति । पुरा सृष्टिकाले व्यसृजदित्यन्वयः । बाह्यमधिष्ठानतया तत्काले स्वीकृतं न तु नैजम् । तच्च तदेव देहजातं, देवादयो दैवतान्यभिमानिनो यस्य तत्तथा । अनेन देवादीनां तत्तद्देह-स्वीकारोऽभिमन्यमानतयैवेति दर्शयति । मूले विमुमोच हेत्यनन्तरं सायन्तनी सन्ध्याऽभवद्ब्रह्मणः पीडाभावसिद्ध्यै भगवानसुरमोहनाय तां सन्ध्यां प्रमदाकृतिं दर्शयामासेत्यपि ग्राह्यम् ॥ २८ ॥

तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् ।

काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम् ॥ २९ ॥

पदरत्नावली

निश्चेतना सा तनुः किमभूदिति तत्राह– तामिति ॥ असुरास्तां तनुं स्त्रियं स्त्रीभूतामुपलभ्य दृष्ट्वा । कीदृशीम् ? शरीरपूर्वोत्तरयोः संधौ जघने जातत्वान्नाम्ना संध्याम् । सर्वैरसुरैरितां परिवृताम् । ‘कलापो भूषणे बर्हे’ इत्यभिधानात् काञ्चीकलापेन काञ्चीभूषणेन विलसता दुकूलेन छन्नं पिहितं रोधः कटितटं यस्या सा तथा ताम् ॥ २९ ॥

प्रकाशिका

नूपुराभ्यां क्वणती चरणांभोजे यस्यास्ताम् । मदेन विह्वले चञ्चले लोचने यस्या-स्ताम् । काञ्चीकलापेन काञ्चीलक्षणभूषणेन विलसद्दुकूलं तेन छन्नमाच्छादितं रोधः कटितटं यस्याः सा तथोक्ता ताम् ॥ २९ ॥

अन्योन्याश्लेषयोत्तुङ्गनिरन्तरपयोधराम् ।

सुनासां सुद्विजां स्निग्धहासलीलावलोकनाम् ॥ ३० ॥

पदरत्नावली

अन्योन्याश्लेषया परस्परसम्बन्धेन । उत्तुङ्गौ उन्नतौ निरन्तरावनवकाशौ च पयोधरौ स्तनौ यस्याः सा तथा ताम् ॥ ३० ॥

प्रकाशिका

अन्योन्याश्लेषया परस्परसम्बन्धेन । उत्तुङ्गावुन्नतौ निरन्तराववकाशरहितौ पयोधरौ स्तनौ यस्यास्ताम् ॥ ३० ॥

गूहन्तीं व्रीडयाऽऽत्मानं नीलालकवरूथिनीम् ।

उपलभ्यासुराः सन्ध्यां सर्वे तां मुमुहुः स्त्रियम् ॥ ३१ ॥

अहो रूपमहो धैर्यमहो अस्या नवं वयः ।

मध्ये कामयमानानामकामेव विसर्पति ॥ ३२ ॥

वितर्कयन्तो बहुधा तां सन्ध्यां प्रमदाकृतिम् (प्रमदायतीम्) ।

अभिसम्भाव्य विस्रम्भात् पर्यपृच्छन् कुमेधसः ॥ ३३ ॥

पदरत्नावली

नीलालकानां वरूथः समूहोऽस्या अस्तीति नीलालकवरूथिनी । तामुपलभ्य प्राप्य । स्त्रियं जातां तां तनुमुद्दिश्य मुमुहुरिति वा ॥ अत्र मोहो नाम न मूर्छा । किन्तु वैक्लव्यहेतुको वितर्क इति भावेनाह– अहो रूपमिति ॥ ततः किं चक्रुरिति तत्राह– वितर्कयन्त इति ॥ ३१-३३ ॥

प्रकाशिका

नीलालकानां वरूथः समूहः सोऽस्या अस्तीति नीलालकवरूथिनी ताम् । तां सन्ध्यां सन्ध्यानाम्नीम् ॥ ३१-३३ ॥

कासि कस्यासि रम्भोरु को वास (वार्थ)स्तेऽत्र भामिनि ।

रूपद्रविणपण्येन दुर्भगान् नो विबाधसे ॥ ३४ ॥

पदरत्नावली

भामिनि कान्तिमति । रूपमेव द्रविणं द्रव्यं तदेव पुण्यं क्रययोग्यं तेन । दुर्भगान् त्वत्सङ्गोपभोगभाग्यरहितान् ॥ ३४ ॥

प्रकाशिका

हे भामिनि कान्तिसंपन्ने । रूपमेव द्रविणमनर्घ्यं वस्तु तदेव पण्यं क्रययोग्यं तेन । दुर्भगान् त्वद्ग्रहणयोग्यभाग्यरहितान्नोऽस्मान् । विबाधसे कामबाणवशान् करोषि ॥ ३४ ॥

या वा कासि त्वमबले दिष्ट्या सन्दर्शनं तव ।

उद्धुनोषीक्ष्यमाणानां कन्दुकक्रीडया मनः ॥ ३५ ॥

पदरत्नावली

त्वत्सन्दर्शनमेवास्माकं सुरतक्रियेति भावेनाहुः– या वेति ॥ एवमपि तवेयं कन्दुकक्रीडास्मन्मनः खेदयतीत्याहुः– उद्धुनोषीति ॥ ३५ ॥

प्रकाशिका

एतदेवाह ॥ यो वेति । उद्धुनोषि विमथ्नासि ॥ ३५ ॥

नैकत्र ते जयति शालिनि पादपद्मं

घ्नन्त्या मुहुः करतलेन पतत्पतङ्गम् ।

मध्यं विषीदति बृहत्स्तनभारभीतं

शान्ता च दृष्टिरमलः सुजटावरूथः ॥ ३६ ॥

पदरत्नावली

इतरकन्दुकक्रीडाया इदं वैशेषिकीत्याह– नैकत्रेति ॥ हे शालिनि भार्ये । पतत्पतङ्गम् उन्नमदवनमत् कन्दुकम् । जयति ते पादपद्मं प्राप्नोति । विषीदति भङ्गं प्राप्नोति । जटावरूथः वेणीभारः । अमलः मुक्तश्च ‘‘मल बन्धन’’ इति धातोः ॥ ३६ ॥

प्रकाशिका

कन्दुकक्रीडया चित्तक्षोभः कुत इत्यतः कन्दुकक्रीडावतीं वर्णयन्ति ॥ नैकत्रेति । हे शालिनि भार्ये । एकत्र न जयति न स्थिरीभवति । यद्वा । नैकत्रानेकगतिविलासेषु जयत्युत्कर्षेण वर्तते । पतदूर्ध्वं गच्छत्पतङ्गं कन्दुकम् । बृहतोः स्तनयोर्भारेण भीतं मध्यं विषीदति । कृशत्वाद्भङ्गं प्राप्स्यतीव दृश्यते । जटावरूथो वेणीभारः । चशब्दाच्छान्त इत्यनुवर्तते । श्लथित इत्यर्थः । अत उद्धुनोषीति भावः

॥ ३६ ॥

इति सायन्तनीं सन्ध्यामसुराः प्रमदायतीम् ।

प्रलोभयन्तीं जगृहुर्मत्वा मूढधियः स्त्रियम् ॥ ३७ ॥

पदरत्नावली

सर्वभावैः स्त्रियो बन्धहेतव इति भावेन असुराणां तद्ग्रहणमाह– इतीति । प्रातःसन्ध्यां व्यावर्तयति– सायन्तनीमिति ॥ प्रातःकालीनायाः पुण्यहेतुत्वात् । प्रलोभयन्तीमात्मनीच्छां कुर्वन्तीम् ॥ ३७ ॥

प्रकाशिका

प्रमदायतीं प्रमदेवाचरन्तीम् ॥ ३७ ॥

प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना ।

कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥

पदरत्नावली

देवासुरसर्गयोरनन्तरं गन्धर्वादिसर्गस्याभ्यर्हितत्वात् तमाह– प्रहस्येति ॥ भावगम्भीरमिति क्रियाविशेषणम् । भावः शृृङ्गारचेष्टा । स कथं ज्ञातुं शक्यत इति तमभिनयति– जिघ्रन्त्यात्मानमात्मनेति । नाम्ना कान्त्या तन्वा ॥ ३८ ॥

प्रकाशिका

भावगम्भीरमिति क्रियाविशेषणम् । आत्मानमात्मना जिघ्रन्तीम् । कान्त्या सौन्दर्येण । प्रहसनमात्मावघ्राणं च सौन्दर्यानुभवचातुर्यविकारः । सा ज्योत्स्नाऽभवदिति ग्राह्यम् ॥ ३८ ॥

विससर्ज तनुं तां वै ज्योत्स्नां कान्तिमतीं प्रियाम् ।

तामेव चाददुः प्रीत्या विश्वावसुपुरोगमाः ॥ ३९ ॥

पदरत्नावली

ज्योत्स्नां चन्द्रिकावदाह्लादकरीम् । सञ्ज्ञान्तरं वा । प्रियां मनोदृष्टिसुखकरीम्

॥ ३९ ॥

प्रकाशिका

कान्तिरस्या जनकतयाऽस्तीति कान्तिमती तां, ज्योत्स्नां चन्द्रिकां प्रियां मनोहराम्

॥ ३९ ॥

सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा ।

दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥

पदरत्नावली

भूतादीनां देवयोनित्वाद् गन्धर्वादिसृष्ट्यनन्तरं भूतादिसृष्टिमाह– सृष्ट्वेति ॥ आत्मनो देहिनस् तन्द्रीर् मुखव्यादानादिलक्षणामुत्पादयतीत्यात्मतन्द्री । तेन जृम्भणाख्येन देहेन ॥४०॥

प्रकाशिका

तन्द्रिणाऽऽलस्येन । सा जृम्भणाऽभवदिति ग्राह्यम् ॥ ४० ॥

जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभोः ।

निद्रादीन्द्रियविक्लेदो यया भूतेषु दृश्यते ।

तयोच्छिष्टान् धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥

पदरत्नावली

तस्याः स्वभावलक्षणमाह– निद्रादीति ॥ विक्लेदो वैक्लव्यम् । तन्वोच्छिष्टान् ग्रस्ताद् देहिनो धर्षयन्ति स्वचेष्टादिविशेषान् कारयन्ति तं चेष्टाविशेषमुन्मादं प्रचक्षते । तज्ज्ञा इति शेषः । ‘व्यसृजन्मलवद् देहं बाह्यं न तु निजं पुरा । ब्रह्मा तच्चाहरादित्वं प्राप देवादिदैवतम् ॥’ इति वचनाद् बाह्यमेव प्रभादिशरीरं त्यजति ब्रह्मा, न तु निजं देहमिति ज्ञायते । पुरा सृष्टिसमये ॥ ४१ ॥

प्रकाशिका

जृम्भणाख्यतनोः स्वभावं दर्शयति ॥ निद्रादीति । निद्रादिरूपेन्द्रियविक्लेद इन्द्रियोपरमः । भूतपिशाचानां स्वभावं दर्शयति ॥ तयेति । तया जृंभणाख्यया तन्वोच्छिष्टान् ग्रस्तान् धर्षयन्ति भ्रान्तान्कुर्वन्ति । स्वचेष्टाविशेषान्कारयन्तीति यावत् । तं चेष्टाविशिष्टमुन्मादं प्रचक्षते तत्ज्ञाः

॥ ४१ ॥

ऊर्जस्वन्तं मन्यमान आत्मानं भगवानजः ।

साध्यान् गणान् पितृगणान् परोक्षेणासृजत् प्रभुः ॥ ४२ ॥

तात्पर्यम्

‘ऊर्जं सारान्नमुद्दिष्टं तदेव पितृभक्षणमि’ति ब्राह्मे ॥ ४२ ॥

पदरत्नावली

स्वयोग्यान्नदानेन तृप्ताः साध्यादिगणाः पितृपिशाचादिग्रहदोषं निवारयन्ति । अतस्तत्सर्गानन्तरं साध्यादिगणसृष्टिं वक्ति– ऊर्जस्वन्तमिति ॥ अनेन प्रेतादिग्रहाणां मुख्यचिकित्सेय-मिति दर्शितम् । ऊर्जस्वन्तं सारान्नवन्तम् । ‘ऊर्जं सारान्नमुद्दिष्टं तदेव पितृभक्षणम्’ इति वचनाच्च । नाम्ना परोक्षेण देहेन । अत एवाद्यापि मांसदृष्ट्यगोचरेभ्यः पित्रादिभ्यस् तत्तुष्ट्यै पिण्डादिकं प्रयच्छन्ति

॥ ४२ ॥

प्रकाशिका

ऊर्जस्वंतमित्यत्रोर्जशब्दार्थं प्रमाणेनैव दर्शयति ॥ ऊर्जमिति । सारान्नं श्रेष्ठान्नम् । सदन्नमिति यावत् । तदेवेति । कदन्नस्य तेभ्यो निषिद्धत्वादिति भावः । ऊर्जशब्दपर्याय ऊर्ज-स्वशब्दोऽतो नासङ्गतिरिति ध्येयम् । तथा चाजो ब्रह्मा परोक्षमतीन्द्रियभवनरूपदेहमधिष्ठाय तत्रोर्ज-स्वन्तमात्मानं मन्यमानस्तेन परोक्षेण देहेन साध्यादीनसृजदित्यर्थः ॥ ४२ ॥

त आत्मसर्गं तत्कायं पितरः प्रतिपेदिरे ।

साध्येभ्यश्च पितृभ्यश्च कवयो यद् वितन्वते ॥ ४३ ॥

पदरत्नावली

आत्मनः सर्गः सृष्टिर्यस्मात् स आत्मसर्गस्तम् । यत् सारान्नं वितन्वते बलिहरणादिना वितरन्ति ॥ ४३ ॥

प्रकाशिका

ते साध्यादयः । आत्मनां स्वेषां सर्गो यस्मात्तं कायं, ब्रह्मणात्यक्तमिति शेषः । ननूर्जस्वन्तं मन्यमानः कस्मादसृजदित्यत आह ॥ साध्येभ्य इति । यद्यस्मात्कवयो ज्ञानिनः साध्येभ्यः पितृभ्यश्च श्राद्धादिना सारान्नमेव वितन्वते ददते अत एव तद्वन्तं मन्यमानोऽसृजदित्यर्थः । अनेन स्रष्टुः स्वभाव एव सृज्यानां प्रायशो भवतीति सूचयति । अत एवात्र प्रकरणे स्रष्टुर्ब्रह्मणः सृज्यस्वभावानु-सारिण्यः क्रिया उक्ताः ॥ ४३ ॥

सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।

तेभ्यो ददौ तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥

पदरत्नावली

सिद्धादीनां साध्याद्यवरत्वादनन्तरं सत्सर्गमाह– सिद्धानिति ॥ नाम्ना तिरोधानेन कायेन । अन्तर्धानाख्यमन्तर्धानापरमर्यायमात्मानं देहमितरस्माद् अद्भुतमद्दश्यहेतुत्वात् । इतरेषां वरादिना अदृश्यत्वमेतेषां स्वत एवेति विशेषः । हरिशक्तेरचिन्त्यत्वादिति भावः ॥ ४४ ॥

प्रकाशिका

तिरोधानं नाम दृश्यस्यापि सामर्थ्यविशेषेणान्तर्धानम् । तथाभूतदेहेनेत्यर्थः । तमात्मानं स्वेन त्यक्तं तं देहम् ॥ ४४ ॥

स किन्नरान् किंपुरुषानात्मना चासृजत् प्रभुः ।

मानयन्नात्मनात्मानमात्माभासं विलोकयन् ॥ ४५ ॥

पदरत्नावली

स्वबोधनविडम्बनाय स्वसन्निकृष्टपुरुषसृष्टेः प्राशस्त्यबुद्धिजननाय च पुरुषाभास-सृष्टिमाह– स किन्नरानिति ॥ ‘किं प्रश्नाक्षेपकुत्सायां वितर्काभासगोचरे’ इति वचनात् किन्नरान् नराभासान् किंपुरुषान् पुरुषाभासान् आत्मना रूपेण कायेनासृजदित्यन्वयः । येन भावेन ब्रह्मा पदार्थान् सृजति स चेष्टादिलक्षणो भावस्तेषामौत्पत्तिकतया यावच्छरीरं वर्तत इत्यतस्तं भावं दर्शयतीत्याह– मानयन्निति । आत्मना मनआदिना आत्मानं स्वशरीरं गन्धपुष्पादिभिर्मानयन् पूजयन् दर्पणादिना आत्माभासं स्वच्छायां विलोकयन् असृजदिति पूर्वेणान्वयः । अयं न्यायः पूर्वत्रोत्तरत्र चानुसन्धेयः

॥ ४५ ॥

प्रकाशिका

किंनरान्नराभासान् । किंपुरुषान्पुरुषाभासान् । आत्मना स्वव्यापारविशेषलक्षण-देहेन । तमेव व्यापारविशेषमाह ॥ मानयन्निति । आत्मना स्वेनैवात्मानं स्वं मानयन् श्लाघयन् । आत्माभासं स्वप्रतिबिम्बं दर्पणादौ विलोकयन् असृजदित्यन्वयः ॥ ४५ ॥

ते तु तज्जगृहू रूपं त्यक्तं यत् परमेष्ठिना ।

मिथुनीभूय गायन्तस्तमेवोषसि कर्मभिः ॥ ४६ ॥

पदरत्नावली

परमेष्ठिना त्यक्तम् । ते किन्नराः । तद् रूपं स्वभावलक्षणकमाकारं जगृहु-रित्यन्वयः । ‘रूपशब्दे पशौ श्लोकं ग्रन्थावृत्तौ हितादिषु । सौन्दर्ये च स्वभावे च’ इत्यभिधानम् । तेषां कृत्यमाह– मिथुनीभूयेति ॥ तं ब्रह्माणं कर्मभिश्चरितैः पद्यादिना ग्रथितैः । अनेन पक्षिणां सृष्टिरपि व्याख्याता । किन्नरादीनां मुखस्यैव नराकारत्वादण्डजत्वाविशेषात् ॥ ४६ ॥

प्रकाशिका

तद्रूपं स्वात्मानं स्वप्रतिबिम्बावलोकनलक्षणदेहं जगृहुः । तादृशस्वभावास्तदभि-मानिनो देवा जाता इत्यर्थः । व्यापारद्वयजन्यत्वान्मिथुनीभूयेत्युक्तम् । अनेन तेषां कर्म दर्शितमिति ज्ञातव्यम् ॥ ४६ ॥

देहेन वै भोगवता शयानो बहुचिन्तया ।

सर्गेऽनुपचिते क्रोधादुत्ससर्ज हि तद्वपुः ॥ ४७ ॥

पदरत्नावली

सर्पादिसृष्टिप्रकारं वक्ति– देहेनेति ॥ भोगवता सर्पशरीराकारवता देहेन शयानो ब्रह्मा प्रजासर्गे अनुपचिते अलम्भावरहिते बहुचिन्तया जातात् क्रोधात् तद् वपुरुत्ससर्ज । हिशब्दो हेत्वर्थः । यस्मात् क्रोधादस्त्राक्षीत् तस्मादीषदुपद्रुताः क्रुद्धाः सर्पान् लोकानुपद्रवन्तीति ॥ ४७ ॥

प्रकाशिका

भोगवता सर्पशरीराकारवता देहेन । शयानो ब्रह्मा, बहुचिन्तया जातक्रोधा-त्तत्सर्पाकारं वपुः ॥ ४७ ॥

येऽहीयन्तामुतः केशा अहयस्तेऽङ्ग जज्ञिरे ।

सर्पा विसर्पतः क्रूरा नागा भोगोरुकन्धराः ॥ ४८ ॥

पदरत्नावली

एकस्माद् देहादुत्पन्नानामवान्तरभेदमाह– य इति ॥ अमुतो ऽमुष्माच्छरीराद् ये केशा अहीयन्त त्यक्ता आसन् तेऽहयो जज्ञिर इत्यन्वयः । क्रियापदस्य सुबन्तत्वं ‘यदश्वत् तस्मादश्वः’ इति वेदे दृष्टत्वाद् युक्तम् । विसर्पतः विविधसर्पणात् सर्पाः । तत्स्वभावमाह क्रूराः क्षिप्रं क्रोधशीलत्वात् । न गच्छन्तीत्यगाः । अगा न संभवन्तीति नागाः क्षिप्रगन्तृत्वात् । तल्लक्षरमाह– भोगोरुकन्धरा इति ॥ भोगवदुर्व्यो बृहत्यः कन्धरा येषां ते तथा । यद्वा भित्तिप्रदीपन्यायेनोरुशब्द उभयत्रान्वेतव्यः । उरुभोगाश्चोरुकन्धराश्चोरुभोगोरुकन्धराः । ‘उरुभोगाय विद्महे महाकण्ठाय धीमहि । तन्नो नागः प्रचोदयात्’ इति जाङ्गलिकतन्त्रे ॥ ४८ ॥

प्रकाशिका

तस्मादेकस्माच्छरीरादुत्पन्नानामवान्तरभेदे कारणं सूचयन्नाह ॥ य इति । अमुतोऽमुष्माच्छरीराद्ये केशा अहीयन्त त्यक्ता आसंस्तेऽहयोऽहिनामकाः । विसर्पतो विविधसर्पणाव-तोऽमुतः । तेषां स्वभावमाह ॥ क्रूरा इत्यादिना । न गच्छन्तीत्यगा अगा न भवन्तीति नागा अतिवेगेन गन्तार इत्यर्थः । भोगोरुकन्धरा इत्यत्रोरुशब्दस्य पूर्वोत्तराभ्यां सम्बन्धः । ततश्चोरुभोगाः फणैरुर्व्यः कन्धरा येषां ते उरुकन्धरा इत्यर्थः ॥ ४८ ॥

स आत्मानं मन्यमानः कृतकृत्यमिवात्मभूः ।

तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥

पदरत्नावली

सृष्टानां सर्वेषां सर्वकर्माधिकारित्वेनोपकारकत्वेन मनुसृष्टिमाह– स आत्मान-मिति ॥ यदाऽऽत्मभूर्ब्रह्मात्मानं देहं कृतकृत्यमिव मन्यमानोऽभूत् तदन्तेऽवसाने मनःपूर्वकं लोकभावनाद् लोकवृद्धिकरान् मनून् ससर्ज ॥ ४९ ॥

प्रकाशिका

आत्मभूर्ब्रह्मा बाह्यं पुरुषदेहं गृहीत्वाऽऽत्मानं कृतकृत्यमिव मन्यमानो यदाऽभूत्तदा तस्यामवस्थायामन्ते इतरसृष्ट्यवसाने मनसा लोकभावनान् लोकवृद्धिकरान्मनून्ससर्ज ॥ ४९ ॥

तेभ्यः स व्यसृजद् देहं परः पुरुष आत्मनः ।

तान् (तां) दृष्ट्वा ये पुरा सृष्टाः प्रशशंसुः प्रजापतिम् ॥ ५० ॥

तात्पर्यम्

ये पुरा सृष्टा देवाः । ‘दृष्ट्वा तु पौरुषीं सृष्टिं देवाः सुकृतमूचिर’ इति च ॥ ५० ॥

पदरत्नावली

स परः पुरुषः ब्रह्मात्मनस्तं देहं तेभ्यो व्यसृजदित्यन्वयः । सर्वस्याः सृष्टेरियं सृष्टिः प्रशस्तेति भावेनाह– तां दृष्ट्वेति ॥ ये पुरा सृष्टा देवास्ते तां मनुसृष्टिं दृष्ट्वा अहो इति प्रजापतिं प्रशशंसुः ॥ ५० ॥

प्रकाशिका

तेभ्यो मनुभ्यः । तदुद्देशेनेति यावत् । आत्मनः स्वस्य देहं बाह्यं पुरुषं देहं त्यक्त्वाऽदात् । कृतकृत्यमिव मन्यमानस्य फलमाह ॥ तानिति । तान्पुरुषदेहान्मनून् । अत्र ये पुरा सृष्टा असुरादयस्ते यच्छब्देन परामृश्यन्त इति प्रतीतिवारणाय यच्छब्दपरामृश्यान्दर्शयति ॥ ये पुरेति । आदिसृष्टिकाले सृष्टा देवा एव यच्छब्दपरामृश्या इत्यर्थः । कुत इत्यतोऽत्र समाख्यामाह ॥ दृष्ट्वा त्विति । सुकृतमित्यूचिरे ॥ ५० ॥

अहो एतज्जगत्स्रष्टः सुकृतं बत ते कृतम् ।

प्रतिष्ठिताः क्रिया यस्मिन् साकमन्नमदामहे ॥ ५१ ॥

पदरत्नावली

एतदेव विवृणोति– एतदिति ॥ हे जगतः स्रष्टस् ते तवैतत् कृतं कर्म सुष्टु कृतं पर्याप्तम् । इतोऽधिकं नास्तीत्यर्थः । बतेत्यनेन ‘ता अब्रुवन् सुकृतं बत’ इति श्रुतिर्मानमिति । किंच यस्मिन् मनुसर्गे यागादिक्रियाः प्रतिष्ठिताः । ततः प्रयोजनमाह– साकमिति ॥ तैर्दत्तमन्नं भवता साकमदामहे । तेनास्मत्प्रसादात् तेषामपि महती प्रजावृद्धिः स्यादित्यदामहे इति व्यत्ययेन प्रयोजन-मसूचि । ‘दृष्ट्वा तु पौरुषीं सृष्टिं देवाः सुकृतमूचिरे’ इत्यनेन ये पुरा सृष्टा असुरास्ते तां सृष्टिं दृष्ट्वा प्रजापतिं प्रशशंसुरित्यपव्याख्यानं प्रत्युक्तम् । देवसृष्ट्यनन्तरत्वाच्च ॥ ५१ ॥

प्रकाशिका

एतदेव विशदयति । हे जगतः स्रष्टः । ते तवैतत्कृतं कर्म सुष्टु कृतं पर्याप्तं ततोऽधिकं नास्तीत्यर्थः । बतेत्यनेन ता अब्रुवन्सुकृतं बतेति श्रुतिर्मानम् । किञ्च यस्मिन्मनुसर्गे क्रिया यागाद्याः प्रतिष्ठितास्तासु क्रियास्वन्नं हविरादिकं साकं त्वया सह मिलिता वा ॥ ५१ ॥

तपसा विद्यया युक्तो योगेन सुसमाधिना ।

आदावृषीन् हृषीकेशः ससर्जाभिमताः प्रजाः ॥ ५२ ॥

तेभ्यश्चैकैकशस्तस्य देहस्यांशमदादजः ।

यत् तत् समाधियोगर्धितपो विद्याविरक्तिमत् ॥ ५३ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे एकविंशोऽध्यायः ।

तात्पर्यम्

‘यत्रापि तु हरेर्नाम तदन्यत्र प्रयुज्यते । तदान्तरहरेस्तत्र गृहीतिर्नान्यथा भवेत् ॥ स्वातन्त्र्यादवरत्वं च परस्यापि प्रयुज्यते । स्थितस्यापि यथा राज्ञः स्वानां जयपराजयावि’ति पाद्मे ॥ अतो हृषीकेशो ब्रह्मान्तर्यामी ॥ ५३ ॥ इति तृतीयतात्पर्ये एकविंशोऽध्यायः ॥ २१ ॥

पदरत्नावली

सुरसृष्टेः प्रथमतः कृतमप्यृषिसर्गं देवासुरादिसाधारणत्वप्रकटनाय तत्सर्गं पश्चाद् वक्ति– तपसेति ॥ हृषीकेशो ब्रह्मान्तर्यामी तपआदिना युक्तः सर्वस्मादादौ सर्वाभिमताः प्रजा ऋषीन् ससर्जेत्यन्वयः । सर्वत्रापि श्रीनारायण एव ब्रह्मान्तर्यामित्वेन स्त्रष्टा नान्य इति प्रकाशनाय हृषीकेश इति भगवत्येव रूढं नाम प्रायोजीति ज्ञातव्यम् । अभेदाभिप्रायेण किं न स्यादिति चेन्न । दैत्योपद्रवे तत्परिहाराय ब्रह्मणा विष्णुशरणोपगतेरुक्तत्वात् । ‘यत्रापि तु हरेर्नाम तदन्यत्र प्रयुज्यते । तदान्तर-हरेस्तत्र गृहीतिर्नान्यथा भवेत् ॥ स्वातन्त्र्यादवरत्वं च परस्यापि प्रयुज्यते । स्थितस्यापि यथा राज्ञः स्वानां जयपराजयौ ॥’ इत्यनेन मुख्यार्थानुपपत्तावमुख्यार्थोपपत्तेः सिद्धत्वात् ॥ अजो ब्रह्मा यत् तत् स्वशरीरं समाधियोगपूर्तिमत् तपोविद्याविरक्तिमच्च तस्य शरीरस्यैकैकांशं समाध्याधिकं तेभ्य ऋषिभ्यः प्रादादित्यन्वयः ॥ ५२,५३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे एकविंशोऽध्यायः ॥५२ ॥

प्रकाशिका

इतरवैलक्षण्यद्योतनायादौ जातामपि ऋषिसृष्टिं पश्चादाह ॥ तपसेति । अभिमताः प्रजाः स्वाभिमतप्रजारूपान् ॥ अंशमेकदेशम् । तस्येत्यनेन परामृश्यं दर्शयति ॥ यत्तदिति । स यो देहः समाध्यादिमान् तस्योक्तविशेषणविशिष्टस्य देहस्यैकदेशं प्राधान्येनैकैकविशेषणविशिष्टत्वरूपस्वभावमदा-दित्यर्थः । अत्र ब्रह्मकर्तृकसृष्टौ हृषिकेश इति कथं हरेः कर्तृत्वमुच्यत इत्याशङ्कां प्रमाणेनोदाहरणपूर्वकं परिहरति ॥ यत्रापीति । तु असाधारणं नाम तदन्यत्र हरेरन्यत्र ब्रह्मादौ । तदान्तरहरेस्तस्या-न्तरोऽन्तस्थो यो हरिस्तस्य । अन्यथा यत्र प्रयुज्यते तस्यैव गृहीतिर्न भवेत् । तथा च हृषीकेशादिशब्दो न ब्रह्मपरः किन्तु तदन्तस्थहरिपर एवेति भावः ।

नन्वेवमस्मिन्प्रकरणे ब्रह्मणः सृष्टिकर्तृत्वाभिधायकशब्दानां का गतिरित्यतस्तेऽपि तदधीनत्वादिति न्यायेन स्वातन्त्र्येण निमित्तेन हरिपरा एवेत्याशयेनाह ॥ अवरत्वं चेति । अवरगतप्रवृत्तिनिमित्तकः शब्द इत्यर्थः । परस्योत्तमस्य स्वातन्त्र्यात् । अवरगतप्रवृत्तिनिमित्तस्वातन्त्र्यात्तस्मिन्नपि प्रयुज्यते । न केवलं प्रवृत्तिनिमित्ताश्रय इत्यपिशब्दार्थः । तथा चावरे प्रयुज्यमानाः शब्दाः स्वप्रवृत्तिनिमित्ताधिकरणे तत्स्वामिनि च प्रवर्तन्त इति भावः । अत्रोदाहरणं दर्शयति ॥ स्थितस्यापीति । युद्धार्थमगतस्या-पीत्यर्थः । स्वानां स्वभृत्यानां भृत्यजयपराजयौ स्वभृत्यगतजयपराजयनिमित्तकौ जयपराजयशब्दावित्यर्थः । यथा भृत्ये जयिनि पराजयिनि वा राजा जयी पराजयी वेत्युच्यते तथेत्यर्थः ॥ अत इति । यत एवं ब्रह्मणः सृष्टिकर्तृत्ववाचकशब्दानां स्वातन्त्र्येण निमित्तेन हरिपरत्वमत इत्यर्थः । तथा च हरिरेवात्र सृष्टिकर्तृत्वेनोच्यते । ब्रह्मा तु द्वारमित्येतत्प्रकरणतात्पर्यमिति सूचयितुं मूले हृषीकेशशब्दः प्रयुक्त इति भावः ॥ ५२,५३ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यामेकविंशोऽध्यायः ॥ ३-२१ ॥