अवधार्य विरिञ्चस्य निर्व्यलीकमृतं वचः
अथ विंशोऽध्यायः
मैत्रेय उवाच–
अवधार्य विरिञ्चस्य निर्व्यलीकमृतं वचः ।
प्रहस्य प्रेमगर्भेण तदपाङ्गेन सोऽग्रहीत् ॥ १ ॥
पदरत्नावली
ब्रह्मवचनं हरिणावधृतं किम् ? अत्राह– अवधार्येति ॥ अपाङ्गेन कटाक्षेण ॥१॥
प्रकाशिका
निर्व्यलीकं निष्कपटाभिप्रायम् । ऋतं सत्यार्थम् । कालनियामकस्यापि मम मुहूर्तबलमुपदिशतीति प्रहस्य । अपाङ्गेन कटाक्षेण ॥ १ ॥
ततः सपत्नं मुखतश्चरन्तमकुतोभयम् ।
जघानोत्पत्य गदया हनावसुरमक्षतः ॥ २ ॥
पदरत्नावली
विरिञ्चवाक्यग्रहणं हरिणा कृतमिति कथं ज्ञायत इति तत्राह– तत इति ॥ मुखतः पुरतः । हनौ कपाले । ह्रस्वेन वराहेण उन्नतस्यासुरस्य कपोले हननं कथमित्यत उक्तम्– उत्पत्येति ॥ २ ॥
प्रकाशिका
मुखतः पुरतः । हनौ कपोलस्याधोभागे । ह्रस्वेन वराहेणोन्नतस्यासुरस्य हनौ कथं हननं कृतमित्यत उक्तम् ॥ उत्पत्येति ॥ २ ॥
सा हता तेन गदया विह(ग)ता भगवत्करात् ।
विघूर्णिता भृशं रेजे तदद्भुतमिवाभवत् ॥ ३ ॥
पदरत्नावली
दुष्टजनमोहनाय सा हतेति । विघूर्णिता विभ्राम्य त्यक्ता रेजे । उल्कावदिति शेषः
॥ ३ ॥
प्रकाशिका
विघूर्णिता विशेषेण भ्रमणयुता । तद्गदापतनम् ॥ ३ ॥
स तदा लब्धवीर्योऽपि न बबाधे निरायुधम् ।
मानयन् स मृधे धर्मं विष्वक्सेनं प्रकोपयन् ॥ ४ ॥
पदरत्नावली
तदा जनं प्रति असुरोऽपि स्वस्य धर्मयुद्धवित्त्वं प्रकाशयति– स इति ॥ लब्ध-वीर्यः प्राप्तावकाशः । मृधे धर्मप्रत्ययार्थम् । निरायुधे सायुधेनेतरेण न प्रतिप्रहर्तव्यमिति लौकिकम्
॥ ४ ॥
प्रकाशिका
लब्धवीर्यो लब्धावसरः । मृधे धर्मं ‘‘निरायुधः सायुधेनेतरेण न प्रहर्तव्य’’ इति धर्मं मानयन् । स्थित इति शेषः । तेन वाक्यभेदात् स इत्यस्यापौनरुक्त्यम् ॥ ४ ॥
गदायामपविद्धायां हाहाकारे विनिर्गते ।
मानयामास तद्धर्मं सुनाभं चास्मरद् विभुः ॥ ५ ॥
तात्पर्यम्
‘धर्मः सत्य इति प्रोक्तो धर्मश्चापि हरेः प्रिय’ इति ब्राह्मे ॥ ‘यथेच्छयैव सर्वं तु मनसा देहतोऽपि वा । कर्तुं शक्तोऽपि शस्त्राद्या लीलैवानन्तशक्तित’ इति वाराहे ॥ ५ ॥ इति तृतीयतात्पर्ये विंशोऽध्यायः ॥ २० ॥
पदरत्नावली
अथान्यत् हरिप्रियम् । तदुक्तम् ‘धर्मः सत्यमिति प्रोक्तो धर्मश्चापि हरेः प्रियः’ इति । अनेन यो हरेः प्रियः स धर्मो ऽन्यो लौकिक इत्युक्तं भवति । अत एव मानयामासेत्युक्तम् । न तु प्रियमिति । अपविद्धगदाप्रत्यादानं योधानां जुगुप्सितम् । किमुत हरेः ? अतो हरिणा किमकारीति तत्राह– सुनाभमिति ॥ सुनाभं सुदर्शनम् ॥ ५ ॥
प्रकाशिका
स चासौ धर्मश्चेति तद्धर्मस्तम् । मानयामासेदं साध्विति पूजयामास । ननु ‘‘पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरेः’’ इति वचनात्कथं चाभक्तकृतस्य धर्मत्वमत्रोक्तमित्यतोऽत्र तात्पर्यं प्रमाणेनैव दर्शयति ॥ धर्म इति । सत्यः साधु विध्यनुसारीति प्रोक्तः । ज्ञानिभिरिति शेषः । असाध्विति प्रोक्तोऽपि यो हरेः प्रियः सोऽपि धर्म इत्यर्थः ॥ तथा च नाभक्तकृतमपि प्रकृतं निरायुधेऽप्रहरणं हर्यप्रियमपि धर्म इत्युच्यते प्रेक्षावद्भिः । हरिणा च युद्धमर्यादासंरक्षणार्थं साध्विति प्रोक्तत्वात् । अत एव मानयामासेत्युक्तम् । न तु मम प्रियमिति भावः । सुनाभं सुदर्शनम् । अत्र सुनाभमस्मरदित्युक्त्या हरेरायुधाभावे वैरिहनने त्वसामर्थ्यं प्रतीयतेऽतोऽत्र तात्पर्यं प्रमाणेनैवाह ॥ यथेच्छयैवेति । तुशब्दोऽवधारणे । मनसैव देहत एवेति सम्बन्धः । शस्त्रशब्देन तदादानं लक्ष्यते । तथा चानन्तशक्तितः स्वेच्छयैव मनसैव देहत एव वा कर्तुं शक्तो यो हरिस्तस्यैषा शस्त्रादानाद्या लीलैवेत्यर्थः । तथा च लीलयैवास्मरदिति मूलार्थ इति भावः ॥ ५ ॥
तं व्यग्रचक्रं दितिपुत्राधमेन
स्वपार्षदमुख्येन विषज्जमानम् ।
चित्रा वाचस्तद्विदां खेचराणां
तत्र स्मासन् स्वस्ति तेऽमुं जहीति ॥ ६ ॥
पदरत्नावली
महानपीतरप्रेरित एव स्वकर्तव्यं करोति न तु स्वयमिति भावज्ञाः खेचरा अस्य वधाय प्रेरयन्तीत्याह– तमिति ॥ व्यग्रं शत्रुहननाय विभ्रमच्चक्रं यस्य स तथा तम् । तद्विदां तस्य हरेः स्वरूपज्ञानाम् ॥ ६ ॥
प्रकाशिका
व्यग्रं चञ्चलम् । भ्रमदिति यावत् । चक्रं यस्य तम् । विषज्जमानं विशेषेण सङ्गं प्राप्नुवन्तम् । तद्विदां तत्प्रभावज्ञानाम् ॥ ६ ॥
स तन्निशम्यात्तरथाङ्गमग्रतो
व्यवस्थितं पद्मपलाशलोचनम् ।
विलोक्य चामर्षपरिप्लुतेन्द्रियो
रुषा स्वदन्तच्छदमादशच्छ्वसन् ॥ ७ ॥
पदरत्नावली
दैत्यस्य वीरस्वभावं दर्शयति– स इति ॥ खेचराणां तद्वचनं निशम्यामर्षेण दुःसहद्वेषेण परिप्लुतानि स्वस्थानच्युतानि इन्द्रियाणि यस्य स तथा स्वदंतच्छदं स्वाधारोष्ठमादशद् दष्टवान् ॥ ७ ॥
प्रकाशिका
स हिरण्याक्षस्तत्खेचरणां वचनम् । परिप्लुतानि क्षुभितानीन्द्रियाणि यस्य । स्वदन्तच्छदं स्वाधरोष्ठमादशद्दष्टवान् ॥ ७ ॥
करालदंष्ट्रश्चक्षुर्भ्यां सञ्चक्षाणो दहन्निव ।
अभिद्रुत्य स्वगदया हतोऽसीत्यहनद्धरिम् ॥ ८ ॥
पदरत्नावली
वीरत्वादधरोष्ठदशनफलमाह– करालेति ॥ सञ्चक्षाणः पश्यन् । हतोऽसीत्या-भाष्येति ॥ ८ ॥
प्रकाशिका
सञ्चक्षाणः पश्यन् । हतोऽसीत्युक्त्वा ॥ ८ ॥
पदा सव्येन तां साधो भगवान् यज्ञसूकरः ।
लीलया मिषतः शत्रोः प्राहरद् वातरंहसा ॥ ९ ॥
पदरत्नावली
हरेर्युद्धलाघवं वक्ति– पदेति ॥ शत्रोस्तां गदां वातरंहसा वायुवेगेन । अनेन प्रतिवीरस्य परिहारायोग्यत्वप्रकाशेन हरेरतिमाहात्म्यं प्रकाशितम् ॥ ९ ॥
प्रकाशिका
शत्रोस्तां गदां वातरंहसा वायुवेगेन पदा प्राहरदित्यन्वयः ॥ ९ ॥
आह चायुधमादत्स्व घटस्व त्वं जिगीषसि ।
इत्युक्तः स तया भूयस्ताडयन् व्यनदद् भृशम् ॥ १० ॥
पदरत्नावली
एतदेव ध्वनयति– आहेति ॥ चः समुच्चये । न ह्यल्पमाहात्म्यस्यायुधमाद-त्स्वेत्यादिप्रतिवचनं युज्यते, भीत्या वागनुद्गलनात् । गूढमाक्षिपतीत्याह– त्वमिति ॥ उक्तं सत्यमिति मन्वानः स्वपाटवं व्यनक्ति– इतीति ॥ १० ॥
प्रकाशिका
घटस्वोद्यमं कुरु । यतस्त्वं जिगीषसि जेतुमिच्छसि ॥ १० ॥
तां स आपततीं वीक्ष्य भगवान् समवस्थितः ।
जग्राह लीलया प्राप्तां गरुत्मानिव पन्नगीम् ॥ ११ ॥
स्वपौरुषे प्रतिहते हतमानो महासुरः ।
नैच्छद् गदां दीयमानां हरिणा विगतप्रभः ॥ १२ ॥
जग्राह त्रिशिखं शूलं ज्वलज्ज्वलनलोलुपम् ।
यज्ञाय धृतरूपाय विप्रायाभिचरन् यथा ॥ १३ ॥
पदरत्नावली
हरिरपि युद्धलाघवं दर्शयतीत्याह– तां स इति ॥ दैत्यस्याभिमानमुद्गलयति– स्वपौरुष इति ॥ ततः किं चकारेति तत्राह– जग्राहेति ॥ अभिचरन् कृत्यां प्रयुञ्जानः ॥ ११-१३ ॥
प्रकाशिका
हतमानो नष्टगर्वः । यज्ञाय विष्णवे । अकार्यकरत्वे दृष्टान्तो विप्राय विप्र-मुद्दिश्याभिचरन् कृत्यान् । प्रयुञ्जानः ॥ ११-१३ ॥
तदो(दौ)जसा दैत्यमहाभटार्पितं
चकासदन्तः ख उदीर्णदीधिति ।
चक्रेण चिच्छेद निशातनेमिना
हरिर्यथा तार्क्ष्यपतत्रमुज्झितम् ॥ १४ ॥
पदरत्नावली
स्मरणादागतं मां वैरिवधाय किमिति न प्रायुङ्क्त भगवानिति सुदर्शनचैत्त्यं जानन्निव तेन शूलमच्छिनदित्याह– तदेति ॥ यदौजसा बलेन दैत्येन महाभटेनार्पितं मुक्तं तदा भगवान् निशातनेमिना उत्तेजितधारेण । अनेनानेकसंख्यारिच्छेदनेऽप्यस्य नैशित्यनाशो नास्तीति सूचनेन हरिचक्रस्य हरेरिवातिमाहात्म्यमुक्तम् । चक्रेण शूलं चिच्छेदेत्यन्वयः । आत्मस्पर्शात् पूर्वमेवाच्छिनदिति द्योतनायोक्तम्– अन्तः ख इति ॥ अन्तः खे आकाशमध्ये उदीर्णा दीधितिर्यस्य तत् तथोक्तम् । अनेन हरिचक्रादन्येनाच्छेद्यत्वमुद्द्योतितम् । मन्दबुद्ध्यवतारार्थं निकृष्टमपि दृष्टान्तयति– हरिरिति ॥ दधीचेर्महामुनेरस्थ्ना विरचितवज्रस्याविरचितवज्रस्यामोघत्वेन तदच्छेदे मुनेरवज्ञानिमित्तकोपभयाद् गरुडेनोज्झितं त्यक्तं पतत्रमिन्द्रोऽच्छिनदिति तदिहोच्यते– हरिरित्यादिना ॥ १४ ॥
प्रकाशिका
खेऽन्त आकाशमध्ये । निशातनेमिना निशितधारेण । हरिरिन्द्रस्तार्क्ष्यस्य गरुडस्य पतत्त्रं पक्षम् । ननु तत्र गरुडस्येंद्रापेक्षयाऽतिसमर्थत्वात्कथं तत्पतत्रच्छेदनमिन्द्रेण कृतमित्यत उक्तम् ॥ उज्झितमिति । गरुडेन स्वयमेव त्यक्तमित्यर्थः । देवान्विजित्य स्वमात्रेऽमृतं नयता गरुडेन दधीचिमहामुनेरस्थिभिर्निर्मितस्य वज्रस्य मोघत्वे कृते मुनेरवज्ञानिमित्तकोपभयाद्वज्रस्यामोघत्वसंपादनाय स्वयमेव त्यक्तं पतत्रं पुनरिन्द्रोऽच्छिनदिति भावः ॥ १४ ॥
वृक्णे च शूले बहुधारिणा हरेः
प्रत्येत्य विस्तीर्णमुरो विभूतिमत् ।
प्रवृद्धरोषः सकठोरमुष्टिना
नदन् प्रहृत्यान्तरधीयतासुरः ॥ १५ ॥
पदरत्नावली
किं दैत्य आयुधाभावादधावद् इति तत्राह– वृक्ण इति ॥ वृक्णे छिन्ने । विभूतिर्लक्ष्मीरस्यास्तीति विभूतिमत् । प्रहृत्य प्रहारं कृत्वा । असुरः मायया असनशीलः । असेरुरदिति सूत्रात् ‘‘असु क्षेपण’’ इति धातोस्ताच्छील्यार्थ उरत् प्रत्ययो भवति ॥ १५ ॥
प्रकाशिका
अराः सन्त्यस्येति अरि चक्रं तेन । वृक्णे छिन्ने । प्रत्येत्याभिमुखमागत्य । विभूतिर्लक्ष्मीरस्यास्तीति विभूतिमत् ॥ १५ ॥
तेनेत्थमाहते क्षत्तर्भगवानादिसूकरः ।
नाकम्पत मनाक् क्वापि स्रजाहत इव द्विपः ॥ १६ ॥
पदरत्नावली
दैत्यमुष्टिप्रहारेण किं हरिणा पतितं मूर्च्छितं पलायितमिति विदुरस्य मानसीं शङ्कां परिहरति– तेनेति ॥ द्वाभ्यां पिबतीति द्विपो गजः ॥ १६ ॥
प्रकाशिका
मनागीषदपि । क्वाप्यंशे । द्वाभ्यां पिबतीति द्विपो गजः ॥ १६ ॥
अथोरुधाऽसृजन्मायां योगमायेश्वरे हरौ ।
यां विलोक्य प्रजास्त्रस्ता मेनिरेऽस्योपसंयमम् ॥ १७ ॥
पदरत्नावली
अन्तर्धाय दैत्येन किमकारीति तत्राह– अथेति ॥ योगमायेश्वरे स्वरूपभूताना-मणिमादिमहिम्नामधिपतावित्यनेनासुर्यो माया हरेर्बाधिका न स्युरिति सूचितम् । अस्य विश्वस्योपसंयमं प्रलयम् ॥ १७ ॥
प्रकाशिका
योगमायेश्वरे योगसामर्थ्यवतामीश्वरे । अनेनासुर्यो माया हरावकिञ्चित्करा इति सूचयति । अस्य विश्वस्योपसंयमं प्रलयम् ॥ १७ ॥
प्रववुर्वायवश्चण्डास्तमः पांसवमैरयन् ।
दिग्भ्यो निपेतुर्ग्रावाणः क्षेपणैः प्रहिता इव ॥ १८ ॥
पदरत्नावली
पांसवं धूलिमयम् । क्षेपणैः पाषाणक्षेपणयन्त्रैः ॥ १८ ॥
प्रकाशिका
पांसवं धूलिमयम् । ऐरयन् प्रेरितवन्तः । क्षेपणैः पाषाणक्षेपणयन्त्रैः । प्रहिता इव प्रेरिता इव । दिग्भ्यो, ग्रावाणः शिलाः ॥ १८ ॥
द्यौर्नष्टभगणाऽभ्रौघैः सविद्युत्स्तनयित्नुभिः ।
वर्षद्भिः पूयकेशासृग्विण्मूत्रास्थीनि चासकृत् ॥ १९ ॥
पदरत्नावली
द्यौर्व्योमाभ्रौघैर्मेघजालैर् विद्युत् तडित् स्तनयित्नवो गर्जन्मेधा विद्युत्स्तनयित्नवस् तैः सह वर्तन्त इति तैः ॥ १९ ॥
प्रकाशिका
द्यौर् व्योमाभ्रोघैर्मेघसमूहैर्विद्युतस्तटितः स्तनयित्नवो गर्जनानि तैः सहितैः ॥१९॥
गिरयः प्रत्यदृश्यन्त नानायुधमुचोऽनघ ।
दिग्वाससो यातुधान्यः शूलिन्यो मुक्तमूर्धजाः ॥ २० ॥
पदरत्नावली
‘‘युध संप्रहार’’ इति धातोर् नानायुधानि नानाविधसंप्रहारान् मुञ्चन्तीति । दिग्वाससो नग्नाः ॥ २० ॥
प्रकाशिका
दिग्वाससो नग्नाः ॥ २० ॥
बहुभिर्यक्षरक्षोभिः पत्त्यश्वरथकुञ्जरैः ।
आततायिभिरुत्सृष्टा हिंस्रा वाचोऽतिवैशसाः ॥ २१ ॥
पदरत्नावली
अतिवैशसा अतिक्रूराः । यक्षादिभिरुत्सृष्टा उच्चरिताः । हिंस्रा वाचोऽश्रूयन्तेति शेषः ॥ २१ ॥
प्रकाशिका
हिंस्रा हिंसाविषयाः । छिन्धि भिन्धीत्येवंरूपा अतिवैशसा अतिक्रूराः । अश्रूयन्तेति शेषः ॥ २१ ॥
प्रादुष्कृतानां मायानामासुरीणां विनाशनम् ।
सुदर्शनास्त्रं भगवान् प्रायुङ्क्त च ततस्त्रिपात् ॥ २२ ॥
पदरत्नावली
‘यथेच्छयैव सर्वं तु मनसा देहतोऽपि वा । कर्तुं शक्तोऽपि शस्त्राद्या लीलैवानन्तशक्तितः’ इति वचनान् मनआदिना असुरमायाविनाशे समर्थोऽपि भगवान् लीलयैव तन्नाशाय सुदर्शनं प्रायुङ्क्तेत्याह– प्रादुष्कृतानामिति ॥ विनाशनं विनाशकारणम् । ‘अमृतं क्षेममभयम्’ इति त्रयः पादा यस्य सस् त्रिपात् ॥ २२ ॥
प्रकाशिका
विनाशनं विनाशकारणम् । त्रिपात् ‘‘अमृतं क्षेममभयमि’’ति स्वरूपभूतांश-त्रयवान् ॥ २२ ॥
तदा दितेः समभवत् सहसा हृदि वेपथुः ।
स्मरन्त्या भर्तुरादेशं स्तनाच्चासृक् प्रसुस्रुवे ॥ २३ ॥
पदरत्नावली
सुदर्शनप्रयोगेण भगवान् दितेः पुत्रमरणं संज्ञापयति– तदेति ॥ २३ ॥
प्रकाशिका
भर्तुरादेशं त्वत्पुत्रौ भगवान्हनिष्यतीत्येवंभूतम् ॥ २३ ॥
व्युदस्तासु स्वमायासु भूयश्चाव्रज्य केशवम् ।
उपोपगूहमानोऽमुं ददृशेऽवस्थितं बहिः ॥ २४ ॥
पदरत्नावली
प्रभाते नक्तं चरन् स्वमायानाशे पराद्रवत् किम् ? नेत्याह– व्युदस्तास्विति ॥ शस्त्राद्यभावात् कथं युद्धाय प्राप्त इत्याशङ्क्य द्विमुखाहिवत् पदावेष्ट्य निष्पीड्य हन्मीति भावोऽप्य-प्रयोजक इत्याशयेनाह– उपेति ॥ अत्यन्तसमीपे वर्तमानममुं भगवन्तं गूहमानः स्वहस्तवलयाद् बहिरवस्थितं हरिं ददर्श इत्यन्वयः ॥ २४ ॥
प्रकाशिका
उपोपात्यन्तसमीपे वर्तमानममुं भगवन्तं गूहमानः स्वबाह्वन्तर्गतं कुर्वाणः स्वहस्त-बन्धाद्बहिरवस्थितम् ॥ २४ ॥
तं मुष्टिभिर्विनिघ्नन्तं वज्रसारैरधोक्षजः ।
करेण कर्णमूलेऽहन् यथा त्वाष्ट्रं मरुत्पतिः ॥ २५ ॥
पदरत्नावली
मम शत्रुहननादावायुधग्रहणं मन्दजनानुकरणार्थम् । न त्वशक्यत्वतः । स्वहस्तादिनैव, शक्तिरस्तीति ज्ञापयन्, शत्रुं हन्तीत्याह– तमिति ॥ अहन् प्राहरत् । त्वाष्ट्रं त्वष्टुः पुत्रं वृत्रम् । मरुत्पतिरिन्द्रः ॥ २५ ॥
प्रकाशिका
अहन् जघान । त्वाष्ट्रं त्वष्टुः पुत्रं वृत्रम् । मरुत्पतिरिन्द्रः ॥ २५ ॥
समाहतो विश्वसृजा ह्यवज्ञया परिभ्रमद्गात्र उदस्तलोचनः ।
विशीर्णबाह्वङ्घ्रिशिरोधरोऽपतद् यथा नगेन्द्रो लुलितो नभस्वता ॥ २६ ॥
पदरत्नावली
हरेरयं प्रहारो रिपोर्दीर्घनिद्राहेतुरित्याह– समाहत इति ॥ विश्वसृजा हरिणा । अवज्ञया निरायासेन समाहतः । लुलित उन्मूलितः । नभस्वता वायुना ॥ २६ ॥
प्रकाशिका
विश्वसृजा हरिणाऽवज्ञया करताडनमात्रेण परितो भ्रमद्गात्रं शरीरं यस्य । उदस्ते बहि-र्निर्गते लोचने यस्य । विशीर्णा बाह्वादयो यस्य । नगेन्द्रो वृक्षो लुलित उन्मूलितो, नभस्वता वायुना ॥
क्षितौ शयानं तमकुण्ठवर्चसं
करालदंष्ट्रं परिदष्टदच्छदम् ।
अजादयो वीक्ष्य शशंसुरागता
अहो इमां को नु लभेत संस्थितिम् ॥ २७ ॥
पदरत्नावली
वीराणां रणरङ्गे मरणं शस्तम् । किं पुनर्भगवन्निमित्तमितिभावेन ब्रह्मादयोऽस्या-सुरस्य मरणं स्तुवन्तीत्याह– क्षिताविति ॥ सिंस्थितिं मरणम् ॥ २७ ॥
प्रकाशिका
संस्थितिं मरणम् ॥ २७ ॥
यं योगिनो योगसमाधिना हरे-
र्ध्यायन्ति लिङ्गादसतो मुमुक्षवः ।
तस्यैष दैत्यऋषभः पदाहतो
मुखं प्रपश्यंस्तनुमुत्ससर्ज ह ॥ २८ ॥
पदरत्नावली
इतरमरणादस्य मरणस्य वैशिष्ट्ये किं कारणम् ? अत्राह– यमिति ॥ असतोऽमङ्गलात् सूक्ष्मशरीरान् मुमुक्षवः । करपादयोरैक्यादन्योन्यक्रियाशक्तिमत्त्वाच्च पदाहत इत्युक्तम् । योगिनामस्य दैत्यस्य महान् विशेषोऽस्तीति द्योतितं च । हेत्यनेन एतद्देहत्यागेऽपि देहान्तरारम्भोऽस्तीति सूचनात् । अतोऽस्य सुकृताधिक्यं हरिमुखं दृष्ट्वा मरणेन स्यात् । तदपि पार्षदस्यैव । न तदाविष्टस्या-सुरस्य ॥ २८ ॥
प्रकाशिका
असतोऽमङ्गलाल्लिङ्गात्सूक्ष्मदेहात् । वराहस्य करपादयोरैक्यात् करेणाहन्नित्युक्त-त्वेऽपि पदाहत इत्येतद्युज्यत इति ध्येयम् ॥ २८ ॥
एतौ हि पार्षदावस्य शापाद् यातावसद्गतिम् ।
पुनः कतिपयैः स्थानं प्रपत्स्येते ह जन्मभिः ॥ २९ ॥
पदरत्नावली
पार्षदत्वं स्मारयति– एताविति ॥ असद्गतिम् आसुरीं योनिम् । जन्मभिरिति बहुवचनेन शापमोक्षानन्तरं प्राप्य ज्ञानमापद्य वैकुण्ठे मुक्तिस्थानप्राप्तिरिति सूचयति ॥ २९ ॥
प्रकाशिका
असद्गतिमसुराविष्टदेहम् । समुदायाभिप्रायमेकवचनम् । कतिपयैस्त्रिभिर्जन्मभिः । शापफलं भुक्त्वेति शेषः । स्थानं वैकुण्ठं पुनः प्रपत्स्येते । हेति प्रमाणप्रसिद्धिं सूचयति ॥ २९ ॥
नमो नमस्तेऽखिलयज्ञतन्तवे
स्थितौ गृहीतामलसत्त्वमूर्तये ।
दिष्ट्या हतोऽयं जगतामरुन्तुद-
स्त्वत्पादभक्त्या वयमीश निर्वृताः ॥ ३० ॥
पदरत्नावली
इदानीमपरोक्षं स्तुवन्तीत्याह– नम इति ॥ अखिलयज्ञतन्तवे अखिलयज्ञानां प्रवर्तने सन्तानभूताय । स्थितौ निमित्तभूताय । अरुन्तुदो व्यथकः । अयं विक्रमोऽस्माकमपि परमानन्दहेतुरभूदित्याहुरित्याह– त्वत्पादेति ॥ ३० ॥
प्रकाशिका
अखिलयज्ञानां तन्तुर्विस्तारो यस्मात् स्थितौ स्थित्यर्थं, सत्वं ज्ञानबलसमाहार-स्तदात्मकमूर्तये । अरुन्तुदो मर्मभेत्ता । निर्वृता आनन्दभरिताः । अभूमेति शेषः ॥ ३० ॥
मैत्रेय उवाच–
एवं हिरण्याक्षमसह्यविक्रमः(मं)
संसादयित्वा हरिरादिसूकरः ।
जगाम लोकं स्वमखण्डितोत्सवं
समीडितः पुष्करविष्टरादिभिः ॥ ३१ ॥
पदरत्नावली
हिरण्याक्षहननानन्तरं हरिणा को विक्रमोऽकारि ? सोऽस्ति चेत् तमाख्याहीति मानसीं विदुरशङ्कां प्रत्याह– एवमिति ॥ संसादयित्वा निहत्य । नितरां हनने स्वातन्त्र्यं दर्शयति । पुष्करविष्टरादिभिर्ब्रह्मादिभिः ॥ ३१ ॥
प्रकाशिका
संसादयित्वा निहत्य । पुष्करविष्टरः पद्मासनो ब्रह्माऽऽदिर्येषां तैः ॥ ३१ ॥
मया यथानूक्तमथादितो हरेः
कृतावतारस्य सुमित्र चेष्टितम् ।
यथा हिरण्याक्ष उदारविक्रमो
महामृधे क्रीडनवन्निराकृतः ॥ ३२ ॥
पदरत्नावली
हरेर्वराहावतारस्य चरितमुपसंहरति– मयेति ॥ यथा येन प्रकारेण हिरण्याक्षो हतः निराकृतस्तथा तेन विधिना कृतवराहावतारस्य हरेश्चेष्टितं मयानूक्तं श्रुतवत् कथितम् । आदित अथ आरभ्य । ‘अथातोऽनन्तराप्यर्थविकल्पारम्भमङ्गले’ इति यादवः ॥ ३२ ॥
प्रकाशिका
वराहचरितकथनमुपसंहरति ॥ मयेति । अनूक्तं गुरूपदेशमनुसृत्य कथितम् । हे सुमित्र विदुर । क्रीडनवत् क्रीडासाधनवत् ॥ ३२ ॥
शुक उवाच–
इति कौशारवाख्यातामाश्रुत्य भगवत्कथाम् ।
क्षत्ताऽऽनन्दं परं लेभे महाभागवतो नृप ॥ ३३ ॥
अन्येषां पुण्यश्लोकानामुद्दामयशसां सताम् ।
उपश्रुत्य भवेन्मोदः श्रीवत्साङ्कस्य किं पुनः ॥ ३४ ॥
पदरत्नावली
शुकोऽप्येतां कथां श्रोतृशेमुषीमनुकूलयति– इतीति ॥ यथा मम परमानन्दोऽभूत् तथा विदुरस्यापि किमिति परीक्षितो मनःशङ्कां परिहरति शुक इत्यतो वाह– इतीति ॥ अत्र कैमुत्येन परमानन्दं सम्पादयति– अन्येषामिति ॥ ३३,३४ ॥
प्रकाशिका
उपश्रुत्येत्यतःपूर्वं कथा इति शेषः ॥ ३३,३४ ॥
यो गजेन्द्रं झषग्रस्तं ध्यायन्तं चरणाम्बुजम् ।
क्रोशन्तीनां करेणूनां कृच्छ्रतोऽमोचयद् द्रुतम् ॥ ३५ ॥
पदरत्नावली
इतोऽपि हरेः कथाश्रवणात् परमानन्दावाप्तिः स्यादित्याह– य इति ॥ करेणूनां करिणीनाम् । क्रोशन्तीनां रुदन्तीनाम् । कृच्छ्रादासन्नमरणाद् द्रुतं स्मरणानन्तरं कालक्षेपमन्तरेण ॥३५॥
प्रकाशिका
करेणूनां करिणीनाम् ॥ ३५ ॥
तं सुखाराध्यमृजुभिरनन्यशरणैर्नृभिः ।
कृतज्ञः को न सेवेत दुराराध्यमसाधुभिः ॥ ३६ ॥
पदरत्नावली
एवंविधो हरिर्भक्त्यैकसाध्य इत्याह– तमिति ॥ अन्ययोगव्यवच्छेदार्थमाह– दुराराध्यमिति ॥ ३६ ॥
प्रकाशिका
एवंविधो हरिर्भक्त्यैकसाध्य इत्याह– तमिति ॥ अन्ययोगव्यवच्छेदार्थमाह– दुराराध्यमिति ॥ ३६ ॥
यो वै हिरण्याक्षवधं महाद्भुतं
विक्रीडितं कारणसूकरात्मनः ।
शृणोति गायत्यनुमोदतेऽञ्जसा
विमुच्यते ब्रह्मवधादपि द्विजः ॥ ३७ ॥
पदरत्नावली
फलश्रवणे क्षिप्रं प्रवृत्तिः स्यादिति तद् वक्ति– यो वा इति ॥ अपिशब्दोनान्य-दुष्कृतानां संग्रहात् । ब्रह्मपरमात्मतत्त्वं तज्ज्ञानेन वध्यत इति ब्रह्मवधः संसारस् तस्मात् । उक्त-फलेऽधिकारिणमाह– द्विज इति ॥ तस्यैव हरौ निरतिशयभक्तिसम्भवात् ॥ ३७ ॥
प्रकाशिका
कारणेन भूम्युद्धरणादिरूपेण सूकररूपस्य ॥ ३७ ॥
एतन्महापुण्यफलं पवित्रं
धन्यं यशस्यं पदमायुराशिषाम् ।
प्राणेन्द्रियाणां युधि धैर्यवर्धनं (शौर्यवर्धनं)
नारायणोऽन्ते गतिरङ्ग शृण्वताम् ॥ ३८ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे विंशोऽध्यायः ।
पदरत्नावली
गानाद्यशक्तानां श्रवणैकरतानां किं फलम् ? अत्राह– एतदिति ॥ अन्त इति विशेषणात् श्रवणाभ्यासेन मननादिशक्तिसम्भवाद् अपरोक्षज्ञानसामग्य्रां लिङ्गशरीरविनाशे नारायणे गम्यत इति गतिर्भवतीति ध्वनयति ॥ ३८ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे विंशोऽध्यायः ॥
प्रकाशिका
धन्यं धनावहं, यशस्यं कीर्तिकरमायुराशिषां मनोरथानां च पदं स्थानम् । वृद्धिकरमिति यावत् । प्राणानामिन्द्रियाणां च पदम् । गतिर्गम्यः । भवतीति शेषः । हे अङ्ग ॥ ३८ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
**श्रीमद्भागवतटिप्पण्यां विंशोऽध्यायः ॥ ३-२० ॥ **