तदेवमाकर्ण्य जलेशभाषितं
अथ एकोनविंशोऽध्यायः
मैत्रेय उवाच–
तदेवमाकर्ण्य जलेशभाषितं
महामनास्तद्विगणय्य दुर्मदः ।
हरेर्विदित्वा गतिमङ्ग नारदाद्
रसातलं निर्विविशे (संविविशे) त्वरान्वितः ॥ १ ॥
पदरत्नावली
एकमर्थमनेकधा प्रतिपद्यमानो महामनाः । तद् वरुणोक्तं विगणय्यावगणय्य । विचार्य वा । आगच्छेति । यद्यपि विशतेः संपूर्णस्य स्वापार्थत्वं तथाप्यत्र जले नेत्रे निमील्य प्रवेशाभिप्रायेणोक्तम् ॥ १ ॥
प्रकाशिका
प्रतियोद्धारं श्रुत्वा महामनाः । शयिष्यस इति यदुक्तं तद्विगणय्यागणयित्वा । अवज्ञायेति यावत् । यतो दुर्मदः । नारदाद्धरेः रसातलं प्रति गतिं गमनं विदित्वा श्रुत्वा ॥ १ ॥
ददर्श तत्राविजितं धराधरं
प्रोन्नीयमानावनिमग्रदंष्ट्रया ।
मुष्णन्तमक्ष्णाम्बुरुहारुणश्रियं
जहास चाहो वनगोचरो मृगः ॥ २ ॥
पदरत्नावली
अग्रदंष्ट्रया दंष्ट्राग्रेण प्रकर्षेणोर्ध्वं नीयमानावनिर्येन स तथा तं धराधरम् । पर्वतं किम् ? नेत्याह– अविजितमिति ॥ अक्ष्णा अम्बुरुहारुणश्रियं रक्तपद्यदलकान्तिं मुष्णन्तं चोरयन्तं वने जले गवि च भूमौ चरतीति वनगोचरो मृगो वराहः ॥ २ ॥
प्रकाशिका
धराधरमित्येतदेव विवृणोति ॥ अग्रदंष्ट्रयेति । दंष्ट्राग्रेण । प्रकर्षेणोर्ध्वं नीयमा-नाऽवनिर्येन स तथा तम् । अम्बुरुहारुणश्रियं रक्तपद्मकान्तिं मुष्णन्तं चोरयन्तम् । तिरस्कुर्वन्त-मिति यावत् । वनगोचरो वनभूचरो मृगो वराहः । अहो विचित्रम् । अयं कथं मां प्रतिवीरत्वेनोक्त इति जहासेत्यर्थः ॥ २ ॥
आहैनमेह्यज्ञ महीं विमुञ्च नो
रसौकसां विश्वसृजेयमर्पिता ।
न स्वस्ति यास्यस्यमुया मयेक्षितः
सुराधमासादितसूकराकृते ॥ ३ ॥
पदरत्नावली
ननु भुवि यतमानो वने जले च दृग्विषयोऽभूदहो इति प्रहस्य तिरश्चीनो गतः किम् ? नेत्याह– आहेति ॥ विश्वसृजा ब्रह्मणा रसौकसां दैत्यानामर्पिता दत्ता । अमुया भूम्या । सुरा अधमा यस्मात् स सुराधम इति तात्पर्यार्थः । अनेन हिरण्याक्षस्यान्तर्भक्तिं ध्वनयति । प्रातीतिकेन द्वेषं प्रकटयति । यथासम्भवमुत्तरत्राप्येवमूहनीयम् ॥ ३ ॥
प्रकाशिका
रसौकसां रसातलवासिनां नोऽस्माकं विश्वसृजा ब्रह्मणाऽर्पिता दत्ता यतोऽमुया भूम्या इहेक्षितो ऽतः । हे सुराधम । यतस्त्वमस्मद्वञ्चनार्थं प्राप्तसूकराकृतिरित्यभिप्रेत्याह ॥ आसादितेति ॥३॥
त्वं नः सपत्नैरभयाय किं वृतो
यो मायया हंस्यसुरान् परोक्षजित् ।
त्वां योगमायाबलमल्पपौरुषं
संस्थाप्य मूढं प्रमृजे सुहृच्छुचः ॥ ४ ॥
पदरत्नावली
अस्माकं शत्रुभूतैर्देवैरभयाय वृतत्वान्मायया सूकरादिव्याजेनासुरान् नो हंसि मारयसि । अन्यत्र नोऽभयाय सपत्नैर्वृतः किं यस्त्वं मायया असुरान् हंसीति । कीदृशस्त्वम् ? परोक्षजित् परोक्षेणाप्रत्यक्षतया चौर्येण जयतीति । अक्षाणीन्द्रियाणि जयतीत्यक्षजिद् अत एव परः । योगमायाबलं कपटोपायबलम् अत एवाल्पपौरुषं त्वां संस्थाप्य हत्वा सुहृदां शुचः प्रमृज इत्यन्वयः । स्वरूपेच्छाबलं स्वसमपुरुषसमूहरहितम् एकचित्ते सम्यक् स्थापयितुं योग्यम् ऊढं भक्त्या हृतं कृत्वा सर्वत्र सुहृदहं संसारशुचः प्रमृज इत्यन्वयः ॥ ४ ॥
प्रकाशिका
सपत्नैः शत्रुभिर्देवैरभयाय वृतः किं यस्त्वं मायया सूकरादिरूपधारणेनासुरान्हंसि । अप्रत्यक्षतया चौर्येणैव जयतीति परोक्षजित् । योगमायाबलं कपटोपायबलम् । अत एवाल्पपौरुषं त्वां संस्थाप्य हत्वा सुहृदां शुचः शोकान् प्रमृजे नाशयामि ॥ ४ ॥
त्वयि स्थिते गदया शीर्णशीर्ष-
ण्यस्मद्भुजच्युतया ये च तुभ्यम् ।
बलिं हरन्त्यृषयो ये च देवाः
स्वयं सर्वे न भविष्यन्त्यमूलाः ॥ ५ ॥
पदरत्नावली
इदानीं बाह्यद्वेषमुद्गलयति– त्वयीति ॥ अमूला मूलाश्रयरहिताः ॥ ५ ॥
प्रकाशिका
शीर्णशीर्षणि ध्वस्तमस्तके त्वयि स्थिते संस्थिते । मृत इति यावत् । स्वयं स्वयमेव यत्नं विनैव न भविष्यन्ति मृता भविष्यन्ति । अमूला मूलाश्रयरहिताः सन्तः ॥ ५ ॥
स तुद्यमानोऽरिदुरुक्ततोमरैर्दंष्ट्राग्रगां गामुपलभ्य भीताम् ।
तोदं मृषन् निरगादम्बुमध्याद् ग्राहाहतः सकरेणुर्यथेभः ॥ ६ ॥
पदरत्नावली
तस्यान्तरभक्तिं विदधान इव बाह्यद्वेषं सहमानो यदर्थं जलमज्जनं तत् करोमीति मन्यमान उदमज्जदित्याह– स इति ॥ उपलभ्य दृष्ट्वा । करेणुर्हस्तिनी ॥ ६ ॥
प्रकाशिका
स हरिररेर्दुरुक्तान्येव तोमराः शस्त्रविशेषास्तैस्तुद्यमानो व्यथ्यमानो दंष्ट्राग्रगतां पृथ्वीं, तोदं दुरुक्तिव्यथां मृषन् सहमानः । निरगान्निर्गतः । सकरेणुर्हस्तिनीसहितः ॥ ६ ॥
तं निःसरन्तं सलिलादनुद्रुतो
हिरण्यकेशो द्विरदं यथा झषः ।
करालदंष्ट्रोऽशनिनिःस्वनोऽब्रवीद्
गतह्रियां किं न्वसतां विगर्हितम् ॥ ७ ॥
पदरत्नावली
हरेरभीष्टकार्यमध्ये हिरण्याक्षेण किमकारीत्याह– तमिति ॥ अनुद्रुतोऽनुयातः । हिरण्यकेशो हिरण्याक्षः ॥ ७ ॥
प्रकाशिका
हिरण्यकेशो हिरण्याक्षः । द्विरदं गजम् । गतह्रियां गतलज्जानामसतां विगर्हितं निन्दितं किं नु? न किमपि, निन्दितमपि तेषामनिन्दितमेवेत्यर्थः । प्रकृते च युद्धे तव पलायनं निन्दितमिति भावः ॥ ७ ॥
स गामुदस्तात् सलिलस्य गोचरे
विन्यस्य तस्यामदधात् स्वसत्त्वम् ।
अभिष्टुतो विश्वसृजां प्रसूनै-
रापूर्यमाणो विबुधैः पश्यतोऽरेः ॥ ८ ॥
पदरत्नावली
त्रिलोक्यामेकीभूयागतायामप्यबिभ्यतो हरेः किमेकेन हिरण्याक्षेणानुयातेनेति भावेन भूमेः प्रतिष्ठापनप्रकारं वक्ति– स गामिति ॥ गां भूमिम् । उदस्तादुपरि । गोचरे अदूरप्रदेशे । स्वसत्त्वं स्थैर्यलक्षणं स्वबलम् ॥ ८ ॥
प्रकाशिका
स हरिर्गां भूमिं सलिलस्य जलस्योदस्तादुपरि गोचरे भुवो वासयोग्यस्थले विन्यस्य संस्थाप्य स्वसत्त्वं स्वबलं जलमध्येऽचाञ्चल्येनावस्थानायादधात्स्थापितवान् । विबुधैरभिष्टुतः पश्यतः सतः
॥ ८ ॥
परानुषक्तं तपनीयोपकल्प-
महागदं काञ्चनचित्रिताङ्गम् ।
मर्माण्यभीक्ष्णं प्रतुदन्तं दुरुक्तैः
प्रचण्डमन्युः प्रहसंस्तं बभाषे ॥ ९ ॥
पदरत्नावली
अथ जले भूमिं प्रतिष्ठाप्य पृष्टतोऽनुद्रुतं रिपुमविगणय्य हरिणा किं कृतम् ? अत्राह– परानुषक्तमिति ॥ परानुषक्तं पृष्टतोऽनुगतम् । तपनीयोपकल्पा सुवर्णाभरणभूषिता महती गदा यस्य तथा तम् । काञ्चनैराभरणैश्चित्रितान्यलङ्कृतान्यङ्गान्यवयवा यस्य स तथा तम् । प्रहसन्नित्यनेन बाह्यकोपलक्षणं निरुणद्धि । इदं महतां लक्षणम् ॥ ९ ॥
प्रकाशिका
परानुषक्तं वैरिणमनुयान्तं, तपनीयोपकल्पमहागदं सुवर्णाभरणभूषिता महती गदा यस्य स तथा तम् । काञ्चनैराभरणैश्चित्रान्यलङ्कृतान्यङ्गान्यवयवा यस्य स तथा तम् । प्रतुदन्तं व्यथयन्तम् । प्रहसन्नित्यनेन कोपाच्छादनं कृत्वेति लभ्यते ॥ ९ ॥
भगवानुवाच–
सत्यं वयं भो वनगोचरा मृगाः
युष्मद्विधान् मृगये ग्रामसिंहान् ।
न मृत्युपाशैः प्रतियुक्तस्य वीराः
विकत्थनं तव गृह्णन्त्यभद्र ॥ १० ॥
पदरत्नावली
किमाहेत्यत आह– सत्यमिति ॥ जलशायित्वाद् वनगोचरा जलविषया ज्ञानिभिर्मृग्यत्वान् मार्गणाच्च मृगा इत्येतत् सत्यम् । तत्र तेषां मार्गणं क्रियत इत्यत उक्तम्– युष्मद्विधा-निति ॥ ग्रामसिंहान् शुनः । मृत्युपाशैः प्रतियुक्तस्य बद्धस्य पुंसो विकत्थनमसम्बद्धभाषणम् ॥ १० ॥
प्रकाशिका
ग्रामसिंहान् शुनः । प्रतियुक्तस्य बद्धस्य । विकत्थनमसम्बद्धभाषणम् । अश्लाघ्यं वा ॥ १० ॥
एते वयं न्यासहरा रसौकसां
गतह्रियो गदया द्रावितास्ते ।
तिष्ठामहेऽथापि कथञ्चिदाजौ
स्थेयं क्व यामो बलिनोत्पाद्य वैरम् ॥ ११ ॥
पदरत्नावली
न्यासहरा निक्षेपहारिणः । रसौकःसु स्थितेषु कथं निक्षेपहरणमित्यत उक्तम्– गतह्रिय इति ॥ तद्वद् गतह्रीत्वेन भवानपि द्रवति चेत् तुल्यः समाधिरित्यत उक्तम्– तिष्ठामह इति ॥ बलिना रिपुणा वैरमुत्पाद्य कथञ्चिदाजौ स्थेयं स्थातव्यम् । क्व कुत्र यामः ? गन्तव्यप्रदेशाभावात् । अथ तस्मात् तिष्ठामहे आत्मानं प्रकाश्य स्थितिं कुर्मः । प्रकाशनस्थेयाख्ययोश्चेति सूत्रादात्मनेपदप्रयोगः
॥ ११ ॥
प्रकाशिका
न्यासहरा निक्षेपहारिणः । द्राविताः पलायनं कारिताः । अथाऽपि तिष्ठामहे । यतो गतह्रियः ॥ ११ ॥
त्वं यद् रथानां किल यूथपाधिपो
घटस्व नोऽस्वस्तय आश्वदुद्रुहः ।
संस्थाप्य चास्मान् प्रमृजाश्रु स्वकानां
यः स्वां प्रतिज्ञां नातिपिपर्त्यसभ्यः ॥ १२ ॥
पदरत्नावली
नाहं बलीति नेत्याह– त्वमिति ॥ रथानामिति रथिनो लक्ष्यन्ते । रथानां रथिनां यूथपाधिपस्त्वं नोऽस्मान् अस्वस्तये नाशाख्यामङ्गलायादुद्रुहः द्रोहमकार्षीरिति यत् तत् किल क्रीडनम् । असुराणां हिंसनं विहारस्वभावो हि । अतो युद्धाय घटस्वेत्यन्वयः । किल श्वैत्यक्रीडनयोर् इति धातुः । ततः किं फलम् ? अत्राह– संस्थाप्येति ॥ इयं तव प्रतिज्ञा । अस्या अपालने तवाप्रशस्तकर्मत्वं स्यादित्याह– यः स्वामिति ॥ अतिपिपर्ति प्रशस्य पालयति । पृ पालनपूरणयोः । ‘अतिः स्यादधि-कार्थोक्तौ प्रशंसायामतिक्रमे’ इति ॥ १२ ॥
प्रकाशिका
रथानामिति रथिनो लक्ष्यन्ते । यस्त्वं नोऽस्मान् अदुद्रुहो दुरुक्त्यादिना द्रोह-मकार्षीः स त्वं यद्यस्माद्रथिनां यूथपाधिपः किल । तस्मान्नोऽस्माकमस्वस्तयेऽमङ्गलायाशु घटस्व यतस्व । संस्थाप्य हत्वा । अतिपिपर्ति पूरयति पालयति वा ॥ १२ ॥
सोऽधिक्षिप्तो भगवता प्रलब्धश्च रुषा भृशम् ।
आजहारोल्बणं क्रोधं क्रीड्यमानोऽहिराडिव ॥ १३ ॥
पदरत्नावली
आविष्टासुरभावनिमित्तं बाह्यक्रोधभावमाह– स इति ॥ प्रलब्धः वाचा वञ्चितः क्रीड्यमानोऽनिष्टक्रीडाविषयं क्रियमाणः पीड्यमान इति ॥ १३ ॥
प्रकाशिका
अधिक्षिप्तः ‘सत्यं वयं भो’ इति श्लोकेनोक्तरीत्या । प्रलब्ध उपहसितश्चैते वयमिति द्वाभ्यामुक्तप्रकारेण । क्रीड्यमानोऽनिष्टक्रीडां कार्यमाणः । पीड्यमान इति वा पाठः ॥ १३ ॥
विसृजन्नहिवच्छ्वासं मन्युप्रचलितेन्द्रियः ।
आसाद्य तरसा दैत्यो गदयाऽभ्यहनद्धरिम् ॥ १४ ॥
पदरत्नावली
मन्युना प्रचलितानि स्वस्थानच्युतानीन्द्रियाणि यस्य सः ॥ १४ ॥
प्रकाशिका
मन्युना प्रचलितानि क्षोभितानीन्द्रियाणि यस्य ॥ १४ ॥
भगवांस्तु गदावेगं विसृष्टं रिपुणोरसि ।
अवञ्चयत् तिरश्चीनो योगारूढ इवान्तकम् ॥ १५ ॥
पदरत्नावली
योगारूढो योगाविष्टः ॥ १५ ॥
प्रकाशिका
अन्तकं मृत्युम् ॥ १५ ॥
पुनर्गदां स्वामादाय भ्रामयन्तमभीक्ष्णशः ।
अभ्यधावद्धरिः क्रुद्धः संरम्भाद् दष्टदच्छदः ॥ १६ ॥
पदरत्नावली
दष्टो दच्छदोऽधरोष्ठो येन स तथा ॥ १६ ॥
प्रकाशिका
दष्टो दच्छदोऽधरोष्ठो येन स तथा ॥ १६ ॥
ततः स्वगदयाऽऽरातिं दक्षिणांसभुवि प्रभुः ।
आजघ्ने स तु तां सौम्य गदया कोविदोऽहनत् ॥ १७ ॥
पदरत्नावली
आजघ्न इत्यस्य सकर्मकत्वस्य द्योतनाय दक्षिणांसभुवीत्युक्तम् । ‘‘आङो यमाहन’’ इत्यात्मनेपदम् । कोविदो गदायुद्धमार्गप्रभेदज्ञानपटुः ॥ १७ ॥
प्रकाशिका
अंसभुवि अंसप्रदेशे । भो सौम्य विदुर । तां गदामप्राप्तामेवाहनत् । कोविदो गदायुद्धमार्गनिपुणः ॥ १७ ॥
एवं गदाभ्यां गुर्वीभ्यां हर्यक्षो हरिरेव च ।
जिगीषया सुसंरब्धावन्योन्यमभिजघ्नतुः ॥ १८ ॥
पदरत्नावली
हर्यक्षो हिरण्याक्षः । हरिरच्युतः ॥ १८ ॥
प्रकाशिका
हर्यक्षो हिरण्याक्षः । जिगीषयैवेत्यन्वयः ॥ १८ ॥
तयोः स्पृधोः स्निग्धगदाहताङ्गयोः
क्षतस्रवाघ्राणविवृद्धयुद्धयोः ।
विचित्रमार्गांश्चरतोर्जिगीषया
व्यभादिलायामिव शुष्मिणोर्मृधः ॥ १९ ॥
पदरत्नावली
स्पृधोः स्पर्धमानयोः । क्षतस्रवस्य रुधिरस्याघ्राणेन विवृद्धं युद्धं ययोस्तौ तयोः । इलायां भुवि शुष्मिणोर् मत्तवृषभयोः ॥ १९ ॥
प्रकाशिका
स्पृधोः स्पर्धमानयोः । क्षतस्रवस्य रक्तस्याघ्राणेन विवृद्धं युद्धं ययोस्तौ तयोरिलायां निमित्तभूतायां शुष्मिणोवीर्यवतोर्वृषभयोरिव मृधो युद्धं व्यभाद्विशेषेण प्रकाशितम् । दृष्टान्ते इला गौर् दार्ष्टान्तिके इला भूमिः ॥ १९ ॥
दैत्यस्य यज्ञावयवस्य मायया
गृहीतवाराहतनोर्महात्मनः ।
कौरव्य मह्यां द्विषतोर्विमर्दनं
दिदृक्षुरागाद् ऋषिभिर्वृतः स्वराट् ॥ २० ॥
पदरत्नावली
इदं युद्धं काकग्राम्यकर्मवदविज्ञातं न, किन्तु ब्रह्मादिदेवैर्दृष्टमिति भावेन ब्रह्मा-गमनं वक्ति– दैत्यस्येति ॥ यज्ञास्तत्साधनानि चावयवेषु यस्य स तस्य । मायया स्वेच्छया । स्वं स्वतन्त्रं परमात्मानं राजयति दीपयति प्रकाशयतीति स्वराट् ब्रह्मा । तदुपदिष्टब्रह्मज्ञानेन हि सर्वेषां मुक्तिरिति ॥ २० ॥
प्रकाशिका
यज्ञास्तत्साधनानि चावयवेषु यस्य स तथा तस्य । मायया स्वेच्छया । मह्यां निमित्तभूतायां द्विषतोः । स्वराडूर्ध्वलोकपालो ब्रह्मा ॥ २० ॥
आसन्नशौण्डीरमपेतसाध्वसं
कृतप्रतीकारमहार्यविक्रमम् ।
विलक्ष्य दैत्यं भगवान् सहस्रणी-
र्जगाद नारायणमादिसूकरम् ॥ २१ ॥
तात्पर्यम्
अनेककल्पजननेतृत्वात् सहस्रणीः ॥ ‘अक्षतः क्षतवद्विष्णुरसमः समवत्तथा । अजितो जितवच्चैव ज्ञोऽज्ञवच्च प्रकाशयेत् । सर्वरूपेष्वनन्तोऽपि ब्रह्माद्याश्चैव तन्मतेः । अनुसारितया ब्रूयुः कुर्युश्च स न दुःखभागि’ति ब्रह्माण्डे ॥ २१ ॥
पदरत्नावली
न केवलं युद्धदर्शनाय ब्रह्मण आगमनम् । किन्तु दैत्यबधोपायनिवेदनलक्षण-कार्यान्तरज्ञापनाय चेत्यनेनाशयेन हरिं प्रति ब्रह्यविज्ञापनप्रकारं वक्ति– आसन्नेति ॥ अनेन कोविदे-नापदि तत्परिहारप्रकारो वक्तव्य इति न्यायदर्शनार्थमुक्तं न तु हरेरुपायाज्ञानादिति तात्पर्यम् । आसन्न-शौण्डीरं प्राप्तपाटवम् । अहार्य आहर्तुमशक्यो विक्रमो यस्य स तथा तम् । विलक्ष्य दृष्ट्वा । सहस्राणीर् अनेककल्पजननेतृत्वाद् ब्रह्मणो योगनाम ॥ २१ ॥
प्रकाशिका
आसन्नशौण्डीरमुपात्तं युद्धकौशलं येन । अपेतसाध्वसं गतभयम् । अहार्योऽप-हर्तुमशक्यो विक्रमो यस्य स तथा । तं विलक्ष्य दृष्ट्वा । भगवान् ब्रह्मा । सहस्रणीशब्दमप्रतीत्या व्याख्याति ॥ अनेकेति । अत्र कल्पशब्दो दैनन्दिनपरः । अत्र क्षतस्रवेत्युक्त्या भगवतो क्षतं, क्षतशुष्मिणोरिवेत्युक्त्या वैरिसमत्वं, उत्तराध्याये ‘‘सा हता तेन गदया विगता भगवत्करात्’’ इत्यादिना पराजितत्त्वं, ‘‘जगाद नारायणम्’’ इत्यादित्यादिना भगवतश्चतुर्मुखोपदेशोक्त्याऽज्ञत्वं च प्रतीयतेऽतोऽत्र तात्पर्यं प्रमाणेनैवाह ॥ अक्षत इति । क्षतवत्क्षतवानिवाज्ञ इवेत्यन्वयः । अनुसारितयैवेत्यन्वयः । असुरजनमोहनार्थमिति भावः । तथा च मूले जगाद नारायणमित्यादिकं हर्यभिप्रायानुसारेणासुरजन-मोहनायैवेत्युक्तं, क्षतादिकं च तदर्थमेव प्रदर्शितमिति भावः ॥ २१ ॥
ब्रह्मोवाच–
एष ते देव देवानामङ्घ्रिमूलमुपेयुषाम् ।
विप्राणां सौरभेयीणां भूतानामप्यनागसाम् ॥ २२ ॥
पदरत्नावली
प्रथमतो दैत्यस्य बध्यत्वे दोषानाह– एष इति ॥ २२ ॥
प्रकाशिका
दैत्यस्य वध्यत्वप्रयोजकान् दोषानाह ॥ एष इति । हे देव ॥ २२ ॥
आगस्कृद् भयकृद् दुष्कृदस्मल्लब्धवरोऽसुरः ।
अन्वेषयन्नप्रतिरथो लोकानटति कण्टकः ॥ २३ ॥
मैनं मायाविनं दृप्तं निरङ्कुशमसत्तमम् ।
आक्रीड बालवद् देव यदाशीविषमुत्थितम् ॥ २४ ॥
पदरत्नावली
द्रव्यदाराद्यपहारेणागस्कृत् । ‘आगो मन्तुश्च विप्रियम्’ इति । वधादिना भयकृत् । अग्निहोत्रादिदूषणेन दुष्कृत् । तत्र निमित्तमाह– अस्मल्लब्धेति ॥
क्रीडाया अकरणे कारणमाह– यदिति ॥ आशीविषं कृष्णसर्पविषयम् । उत्थितम् उज्ज्वलितम् । यत् तस्मादिति ॥ २३,२४ ॥
प्रकाशिका
द्रव्यदाराद्यपहारेणागस्कृद्वधादिना भयकृदग्निहोत्रादिनाशेन दुष्कृत् । तत्र निमित्तमाहुः ॥ अस्मल्लब्धेति । अन्वेषयन् । प्रतिभटमिति शेषः । कण्टकः कण्टकवद्दुःखप्रदः ॥ मा आक्रीड । यद्यस्मादाशीविषमित्यत्र विषशब्दस्यावृत्तिः सर्पविषमुत्थितमुज्वलितं तस्मात् ॥ २३,२४ ॥
न यावदेष वर्धेत स्वां वेलां प्राप्य दारुणः ।
स्वां देव मायामास्थाय तावज्जह्येनमच्युत ॥ २५ ॥
पदरत्नावली
स्वां वेलामासुरिमपराह्नाम् । तावत् ततः पूर्वमेव । स्वां मायां महिमानम् । त्वदन्येन न हन्यत इत्यर्थः । ब्रह्मा अच्युतेत्यनेन ‘अक्षतः क्षतवद् विष्णुरसमः समवत् तथा । सर्वरूपेष्वनन्तोऽपि ब्रह्माद्याश्चैव तन्मतेः । अनुसारितया ब्रूयुः कुर्युश्च न स दुःखभाग् ॥’ इति वाक्यं द्योतयति ॥ २५ ॥
प्रकाशिका
स्वामासुरीम् । हे देव मायां महिमानम् ॥ २५ ॥
एषा घोरतमा सन्ध्या लोकशम्बट्करी प्रभो ।
उपसर्पति सर्वात्मन् सुराणां जयमावह ॥ २६ ॥
तात्पर्यम्
‘आदरं तु मुखं विद्याच्छम्बट्कारं तु भक्षणमि’त्यभिधानम् ॥ २६ ॥
पदरत्नावली
कीदृश्यासुरी वेलेति तत्राह– एषेति ॥ ‘आदरं तु मुखं विद्याच्छम्बट्कारं तु भक्षणम्’ इत्यभिधानाद् लोकशम्बट्करी सर्वजनभक्षिणी ॥ २६ ॥
प्रकाशिका
आसुरीं वेलामेवाह ॥ एषेति । अत्र लोकशम्बट्करीत्यस्यार्थाप्रतीतेस्तत्ज्ञाप-नायाभिधानं पठति ॥ आदरमिति । भक्षणं नाशनं विद्यादित्यन्वयः । तथा च नाशकरीति तदर्थ इति भावः ॥ २६ ॥
अधुनैवाभिजिन्नाम योगो मौहूर्तिकोऽभ्यगात् ।
शिवाय नस्त्वं सुहृदामाशु निस्तर दुस्तरम् ॥ २७ ॥
दिष्ट्या त्वा विहितं मृत्युमयमासादितः स्वयम् ।
विक्रम्यैनं मृधे हत्वा लोकानाधेहि शर्मणि ॥ २८ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे एकोनविंशोऽध्यायः ।
तात्पर्यम्
‘मध्याह्नस्त्वभिजित्प्रोक्त आषाढोत्तर एव च । श्रवणस्यापि पूर्वार्धो विषुवं चाभिजित्स्मृतमि’ति च ॥ २७ ॥ इति तृतीयतात्पर्ये एकोनविंशोऽध्यायः ॥ १९ ॥
पदरत्नावली
इदानीं समीचीनो योगः क इति तत्राह– अधुनेति ॥ ‘मध्याह्नस्त्वभिजित् प्रोक्त आषाढोत्तर एव च । श्रवणस्यापि पूर्वार्धो विषुवं चाभिजित् स्मृतम् ॥’ इत्यतोऽभिजिद्योगो मध्यन्दिनमुहूर्तम् ॥ अस्यानन्यवध्वत्वं स्पष्टं ध्वनयति– दिष्ट्येति ॥ मृत्युं मारकं त्वा त्वां शर्मणि सुखे आधेहि स्थापय ॥ २७,२८ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे एकोनविंशोऽध्यायः ॥
प्रकाशिका
वधे अयमेव समीचीनः काल इत्याह ॥ अधुनैवेति । अस्मिन्नेव समये । मौहूर्तिकः सुमुहूर्तसम्बन्धी योगोऽभिजिन्नामकालविशेषोऽभ्यगात्प्राप्तः । अतः सुहृदां नः शिवाय दुस्तरमेनं निस्तर जहि । अत्राभिजिच्छब्दार्थं प्रमाणेनैव दर्शयति ॥ मध्याह्नस्त्विति । आषाढोत्तर उत्तराषाढोत्तरार्धः । एवशब्दोऽत्रोक्त एव कालोऽभिजिन्नामा नान्य इत्यर्थकः । विषुवं विषुवकालः । दिवारात्र्योः साम्यवान्काल इति यावत् । तथा चात्र मध्याह्न एवाभिजिच्छब्देन विवक्षित इति भावः
॥ २७,२८ ॥
॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां
श्रीमद्भागवतटिप्पण्यामेकोनविंशोऽध्यायः ॥ ३-१९ ॥