निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः
अथ अष्टादशोऽध्यायः
मैत्रेय उवाच–
निशम्यात्मभुवा गीतं कारणं शङ्कयोज्झिताः ।
ततः सर्वे न्यवर्तन्त त्रिदिवाय दिवौकसः ॥ १ ॥
पदरत्नावली
अनन्यवध्ययोर्हिरण्यकशिपुहिरण्याक्षयोर्निहन्तुर्हरेरमितमहिम्नोऽवगतत्वादस्मिन् भगवति भक्तिः कर्तव्येति तन्महिमा प्रतिपाद्यतेऽस्मिन्नध्यायद्वये । तत्रादौ देवानां त्रिदिवगमनं वक्ति– निशम्येति ॥ आत्मभुवा ब्रह्मणा । गीतं कथितम् ॥ १ ॥
प्रकाशिका
आत्मभुवा ब्रह्मणा गीतं कथितम् ॥ १ ॥
दितिस्तु भर्तुरादेशादपत्यपरिशङ्किनी ।
पूर्णे वर्षशते साध्वी पुत्रौ प्रसुषुवे यमौ ॥ २ ॥
पदरत्नावली
अपत्यपरिशङ्किनी अपत्ययोर्हरेर्नाशशङ्कावती । यमौ यमलौ ॥ २ ॥
प्रकाशिका
अपत्यपरिशङ्किनी अपत्ययोर्हरेर्नाशशङ्कावती । यमौ यमलौ ॥ २ ॥
उत्पाता बहवस्तत्र निपेतुर्जायमानयोः ।
दिवि भुव्यन्तरिक्षे च लोकस्य च भयावहाः ॥ ३ ॥
पदरत्नावली
आभ्यां दैत्याभ्यां यथा जनोपद्रवा भवन्ति तथा सूचकानुत्पातानाह– उत्पाता इति ॥ ३ ॥
प्रकाशिका
तत्र तदा निपेतुरुद्बभूवुः ॥ ३ ॥
सहाचला भुवश्चेलुर्दिशः सर्वाः प्रजज्वलुः ।
सोल्काश्चाशनयः पेतुः केतवश्चार्तिहेतवः ॥ ४ ॥
पदरत्नावली
सहाचलाः सपर्वताः । प्रदेशबहुलत्वाद् भुव इति बहुवचनम् । सोल्का उल्कापातसहिताः । अशनयः निर्घाताः, केतवश्चोदयं चक्रुः ॥ ४ ॥
प्रकाशिका
सहाचलाः सपर्वता भुवः प्रदेशाः सोल्का उल्कापातसहिताः । अशनयो निर्घाताः केतवश्च । उदयाञ्चक्रुरिति शेषः । आर्तिहेतवो दुःखसूचकाः ॥ ४ ॥
ववौ वायुः सुदुःस्पर्शः फट्काररववान् (फट्काराराववान्)मुहुः ।
उन्मूलयन् नगपतीन् वात्यानीको रजोध्वजः ॥ ५ ॥
तात्पर्यम्
‘फट्कारश्चैव फूत्कारस्तथा किलकिलादयः । अनुकारशब्दा विज्ञेया ये चान्ये तादृशा मता’ इत्यभिधानम् ॥ ५ ॥
पदरत्नावली
‘फट्कारश्चैव फूत्कारस्तथा किलकिलादयः । अनुकारशब्दा विज्ञेया ये चान्ये तादृशा मताः ॥’ इत्यभिधानात् फट्कारोऽनुकारशब्दः । तद्वान् फट्काराराववान् । तादृशा इति टङ्कारादयः । वात्यानां मण्डलवायूनामनीकं समूहो यस्य स तथा । रज एव ध्वजो यस्य स रजोध्वजः
॥ ५ ॥
प्रकाशिका
फट्काररववानित्येतत् फट्कार इति शब्दवानिति प्रतीतिवारणाय प्रमाणेनैव व्याख्याति ॥ फट्कार इति । अनुकरणशब्दा एवेत्यन्वयः । विज्ञेयाः । वायुसम्बन्धेनोक्ता इति शेषः । ये चान्ये सृगालादिसम्बन्धित्वेनोक्ताष् टङ्कारादयस्तेऽपि तादृशाः फट्कारादिशब्दसदृशा अनुकारशब्दा एवेत्यर्थः । अनेनाग्रेतनं टङ्कारस्वात्कारशब्दव्याख्यानमपि प्रमापितमिति ज्ञातव्यम् । मूले नगपती-न्महावृक्षान् वात्यानां चक्रवातानामनीकं समूहो यस्य स तथा । रज एव ध्वजो यस्य स तथा ॥ ५ ॥
उल्लसत्तटिदम्भोदघटया नष्टभागणे ।
व्योमि्न प्रविष्टतमसा न स्म व्यादृश्यते पदम् ॥ ६ ॥
पदरत्नावली
उल्लसन्त्यस्तटितो येषु ते तथा उल्लसत्तडिदम्भोदः मेघाः । तेषां घटया मालया नष्टो भानां नक्षत्राणां गणो यस्मिंस्तत् तथा तस्मिन् । ‘तारकं तारका’ इतिवत् ‘भं भा’ इति नामद्वयम्
॥ ६ ॥
प्रकाशिका
उल्लसंत्यो तटितो येषु ते । उल्लसत्तटितस्ते च तेऽम्भोदा मेघाश्च तेषां घटया समूहेन । नष्टो भानां सूर्यादिप्रभाणां गणो यस्मिंस्तत्तथा । तस्मिन् । पदं स्थानं न व्यादृश्यते स्म ॥६॥
चुक्रोश विमना वार्धिरुदूर्मिक्षुभितोदरः ।
सोदपानाश्च सरितश्चुक्षुभुः शुष्कपङ्कजाः ॥ ७ ॥
पदरत्नावली
वार्धिः समुद्रः । सोदपाना वापीकूपादिभिः सहिताः । शुष्कानि म्लानानि पङ्कजानि यासु तास्तथा ॥ ७ ॥
प्रकाशिका
वार्धिः समुद्रो विमना इवोदपानैर्वापीकूपादिभिः सहिताः । शुष्काणि पङ्कजानि यासु ताः ॥ ७ ॥
मुहुः परिधयोऽभूवन् सराह्वोः शशिसूर्ययोः ।
निर्घातरवनिर्ह्रादा विवरेभ्यः प्रजज्ञिरे ॥ ८ ॥
पदरत्नावली
परिधयः परिवेषाः । निर्घातरवो निर्मेघगर्जनशब्दस् तस्य निर्हादाः प्रतिध्वनयः । विवरेभ्यः पर्वतगुहादिभ्यः ॥ ८ ॥
प्रकाशिका
परिधयः परिवेषाः । सराह्वोः राहुग्रस्तयोः । निर्घातरवा निर्मेघगर्जितानि तेषां निर्ह्रादाः प्रतिध्वनयः । विवरेभ्यः पर्वतगुहाभ्यः ॥ ८ ॥
अन्तर्ग्रामेषु मुखतो वमन्त्यो वह्निमुल्बणम् ।
सृगालाश्चापि टङ्कारैः प्रणेदुरशिवाः शिवाः ॥ ९ ॥
तात्पर्यम्
टङ्कारोऽप्यनुकारशब्दः । सृगालास्तत्र पुमांसः । ‘नाशस्तत्र सृगालानां शिवानां चान्यथास्वर’ इत्याग्नेये ॥ ९ ॥
पदरत्नावली
सृगालाः पुमांसः । शिवाः सृगालस्त्रियः । अपि टङ्कारैर् निन्दितानुकारस्वरैः । प्रणेदुरित्यनेन नाश सूचयति । तदुक्तम् ‘अपि सम्भावनाप्रश्नगर्हाशङ्कासमुच्चये ।’ ‘नाशस्तत्र सृगालानां शिवानां चान्यथास्वरे’ इति ॥ ९ ॥
प्रकाशिका
शिवा अपीत्यन्वयः । अत्र टङ्कारशब्दमप्रतीत्या व्याख्याति ॥ टङ्कारोऽपीति । न केवलं पूर्वोक्तफट्कारादिरेवेत्यर्थः । ननु शिवानामपि सृगालत्वात्कथं न पुनरुक्तिरित्यत आह ॥ सृगाला इति । तत्र सृगालशिवयोर्मध्ये । अतो न पुनरुक्तिरिति शेषः । कुत इत्यतोऽन्यत्रापि सहप्रयोगदर्शना-दित्यभिप्रेत्य सृगालादीनामन्यथास्वरस्यानिष्टसूचकत्वे समाख्यां दर्शयति ॥ नाश इति । जातिस्वरा-पेक्षयाऽन्यथास्वरे टङ्कारादिरूपे नाशः । विज्ञेय इति शेषः । तथा च टङ्कारैः स्वजातिस्वरापेक्षयाऽ-न्यथाभूतटङ्काररूपानुकारशब्दैरिति मूलं व्याख्येयमिति भावः ॥ ९ ॥
सङ्गीतवद् रोदनवदुन्नमय्य शिरोधरान् ।
व्यमुञ्चन् विविधा वाचो ग्रामसिंहास्ततस्ततः ॥ १० ॥
पदरत्नावली
ग्रामसिंहाः सारमेयाः । शिरोधराः कण्ठाः । तानुन्नमय्य ऊर्ध्वीकृत्य । सङ्गीत-वन्नाट्यगानवत् ॥ १० ॥
प्रकाशिका
ग्रामसिंहाः श्वानः । शिरोधराः कण्ठास्तानुन्नमय्योर्ध्वीकृत्य ॥ १० ॥
खरोष्ट्राः कर्कशैः क्षत्तः खुरैर्घ्नन्तो धरातलम् ।
खात्काररभसा मत्ताः पर्यधावन् वरूथशः ॥ ११ ॥
तात्पर्यम्
खात्कारोऽप्यनुकारशब्दः ॥ ११ ॥
पदरत्नावली
खराः क्रूरा उष्ट्राः खरोष्ट्राः । खात्कारोऽप्यनुकारशब्दः । तस्य रभसा वेगेन
॥ ११ ॥
प्रकाशिका
खराश्चोष्ट्राश्च खरोष्ट्राः । खात्कारेत्यस्याप्रतीत्याऽर्थमाह ॥ खात्कारोऽपीति । तथा च खात्काररूपानुकारशब्देन रभो हर्षो वेगो वा येषां ते तथेति मूलार्थ इति भावः ॥ ११ ॥
रुदन्तो रासभत्रस्ता नीडादुदपतन् खगाः ।
घोषेऽरण्ये च पशवः शकृन्मूत्रमकुर्वत ॥ १२ ॥
पदरत्नावली
रासभा गर्दभाः । गर्दभादिध्वनित्रस्ताः खगाः पक्षिणो नीडादुदपतन् ॥ १२ ॥
प्रकाशिका
रासभत्रस्ता रासभध्वनित्रस्ता इत्यर्थः ॥ १२ ॥
गावोऽत्रसन्नसृग्दोहास्तोयदाः पूयवर्षिणः ।
व्यरुदन् देवलिङ्गानि द्रुमाः पेतुर्विनाऽनिलम् ॥ १३ ॥
पदरत्नावली
गावः सौरभेय्यः । अत्रसन् भीताः । देवलिङ्गानि प्रतिमाः ॥ १३ ॥
प्रकाशिका
गावोऽत्रसन् भीता असृग्दोहाश्च बभूवुः । देवलिङ्गानि प्रतिमाः । व्यरुदन्प्रति-मानामश्रुपात आसीदित्यर्थः ॥ १३ ॥
ग्रहान् पुण्यतमानन्ये भगणांश्चापि दीपिताः ।
अतिचेरुर्वक्रगत्या युयुधुश्च परस्परम् ॥ १४ ॥
पदरत्नावली
अन्ये दुष्टग्रहाः ॥ १४ ॥
प्रकाशिका
पुण्यतमान् ग्रहान् बृहस्पत्यादीन् । भगणान् बहूनि नक्षत्राणि च । अन्ये क्रूरग्रहा मङ्गलादयोऽतिचेरुरतिक्रम्य जग्मुः । वक्रगत्या परावृत्य परस्परं युयुधुश्च ॥ १४ ॥
दृष्ट्वाऽन्यांश्च महोत्पातान् न तत्तत्त्वविदः प्रजाः ।
ब्रह्मपुत्रानृते भीता मेनिरे विश्वसम्प्लवम् ॥ १५ ॥
पदरत्नावली
अन्यान् भूकम्पादीन् । न तयोर् जयविजययोस् तत्त्वं शापादिनिमित्तं विदन्ति जानन्ति । न तेषामुत्पातादीनां तत्त्वं जयविजयनिमित्तं विदन्तीति वा ॥ १५ ॥
प्रकाशिका
तेषां दुर्निमित्तानां तत्त्वं निमित्तं विदन्तीति विदः । ब्रह्मपुत्रान् सनकादीन् । ऋते विना ॥ १५ ॥
तावादिदैत्यौ सहसा व्यज्यमानात्मपौरुषौ ।
ववृधातेऽश्मसारेण कायेनाद्रिपती इव ॥ १६ ॥
पदरत्नावली
इदानीं दैत्ययोर्भावं वक्ति– ताविति ॥ सहसा बलेन । पौरुषं पराक्रमः । अश्मवत् सारेण दृढेन ॥ १६ ॥
प्रकाशिका
आदिदैत्यौ आदिदैत्याभ्यामाविष्टौ सहसा बलेन । पौरुषं पराक्रमः । अश्म-सारेणाश्मसार इव दृढेन ॥ १६ ॥
दिविस्पृशौ हेमकिरीटकोटिभि-
र्निरुद्धकाष्ठौ स्फुरदङ्गदैर्भुजैः ।
गां कम्पयन्तौ चरणैः पदे पदे
कट्या सुकाञ्च्यार्कमतीत्य तस्थतुः ॥ १७ ॥
पदरत्नावली
कोटिभिरिति बहुवचनं चतुरस्रापेक्षया । काष्ठा दिशः ॥ १७ ॥
प्रकाशिका
कोटिभिरिति बहुवचनं किरीटयोश्चतुष्कोणत्वाभिप्रायेणेत्याहुः । वस्तुतस्तु जाताविदं बहुवचनम् । तेन कोटिभ्यामित्यर्थलाभः । काष्ठा दिशः ॥ १७ ॥
प्रजापतिर्नाम तयोरकार्षीद्
यः प्राक् स्वदेहाद् यमयोरजायत ।
तं वै हिरण्यकशिपुं विदुः प्रजाः
यं तं हिरण्याक्षमसूत साऽग्रतः ॥ १८ ॥
पदरत्नावली
तयोर्नामकरणं वक्ति– प्रजापतिरिति ॥ प्रजापतिः कश्यपस् तयोर्नाम अकार्षी-दित्यन्वयः । कथम् ? अत्राह– य इति ॥ यमयोस्तयोर्मध्ये यः स्वदेहात् प्रागजायत जातस्तं हिरण्य-कशिपुं विदुर्वै । तयोर्माता सा ततः पश्चाद् यमसूत प्रजास्तं हिरण्याक्षं विदुरित्यर्थः ॥ १८ ॥
प्रकाशिका
प्रजापतिः कश्यपः । यः स्वदेहात्स्ववीर्यात्प्रागजायत योनिपुष्पं प्राविशत् । तं नामकरणानन्तरं हिरण्यकशिपुनामानं विदुः । सा दितिर्यं वीर्यद्वारा पश्चात्स्वयोनिपुष्पं प्रविष्टमग्रतोऽसूत तं हिरण्याक्षनामानं विदुः । गर्भाधानसमये पुरुषेण सिक्तं वीर्यं द्विधा विभक्तं सद् यदा आदिपश्चाद्भावेन योनिपुष्पं प्रविशति तदा यमौ भवतः । तत्र पश्चाद्वीर्यद्वारा यो योनिपुष्पं प्रविष्टः स एव प्रथमं प्रसूयते । पूर्वं प्रविष्टः पश्चादिति हि स्थितिस्तदभिप्रायेण प्राक् स्वदेहादजायताग्रतः साऽसूतेत्युक्तमिति ज्ञातव्यम्
॥ १८ ॥
चक्रे हिरण्यकशिपुर्दोर्भ्यां ब्रह्मवरेण च ।
वशे सपालान् लोकांस्त्रीनकुतोमृत्युरुद्धतः ॥ १९ ॥
पदरत्नावली
पूर्वजस्य जयस्य दिग्विजयं वक्ति– चक्र इति ॥ न कुतोऽपि बहिरन्तः शुष्कादेरपि मृत्युर्यस्य सोऽकुतोमृत्युः ॥ १९ ॥
प्रकाशिका
ब्रह्मवरेणाकुतोऽपि मृत्युः ॥ १९ ॥
हिरण्याक्षोऽनुजस्तस्य प्रियः प्रीतिकृदन्वहम् ।
गदापाणिर्दिवं यातो युयुत्सुर्मृगयन् रणम् ॥ २० ॥
पदरत्नावली
अनुजस्य दिशां जयं विस्तृत्याह– हिरण्याक्ष इति ॥ युयुत्सुर्योद्धुकामः ॥ २० ॥
प्रकाशिका
रणं युद्धम् ॥ २० ॥
तं वीक्ष्य (दुःसह)दुस्तरजवं रणत्काञ्चननूपुरम् ।
वैजयन्त्या स्रजा जुष्टमंसन्यस्तमहागदम् ॥ २१ ॥
पदरत्नावली
रणत्काञ्चननूपुरं क्कणत्कनकपादवलयम् । ‘पुष्पैश्चतुर्गुणां मालां वैजयन्तीं विदुर्बुधाः’ इत्यभिधानाच्चतुर्गुणिता वैजयन्ती नाम ॥ २१ ॥
प्रकाशिका
‘‘पुष्पैश्चतुर्गुणां मालां वैजयन्तीं विदुर्बुधाः’’ इति वचनात्पुष्पैश्चतुर्गुणिता कृता वैजयन्ती ॥ २१ ॥
मनोवीर्यमदोत्सिक्तमधृष्यमकुतोभयम् ।
भीता निलिल्यिरे देवास्तार्क्ष्यत्रस्ता इवाहयः ॥ २२ ॥
पदरत्नावली
मनोभिमतवीर्यमदेनोत्सिक्तमुद्रिक्तम् । निलिल्यिरे निलीनाः । तार्क्ष्यो गरुडस्तेन
॥ २२ ॥
प्रकाशिका
मनसा धैर्येण वीर्यमदेन चोत्सिक्तमुद्रिक्तं निलिल्यिरे निलीनाः । तार्क्ष्यो गरुडः
॥ २२ ॥
स वै तिरोहितान् दृष्ट्वा महसा स्वेन दैत्यराट् ।
सेन्द्रान् देवगणान् क्लीबानपश्यद् व्यनदद् भृशम् ॥ २३ ॥
पदरत्नावली
महसा बलेन ॥ २३ ॥
प्रकाशिका
महसा बलेन ॥ २३ ॥
ततो निवृत्तः क्रीडिष्यन् गम्भीरं भीमनिस्वनः ।
विजगाहे महासत्त्वो वार्धिं मत्त इव द्विपः ॥ २४ ॥
प्रकाशिका
विजगाहे विलोडयामास ॥ २४ ॥
तस्मिन् प्रविष्टे वरुणस्य सैनिकाः
यादोगणाः सन्नधियः ससाध्वसाः ।
अहन्यमाना अपि तस्य वर्चसा ।
प्रधर्षिता दूरतरं प्रदुद्रुवुः ॥ २५ ॥
पदरत्नावली
सन्नधियो नष्टबुद्धयः । प्रधर्षिता अभिभूताः ॥ २५ ॥
प्रकाशिका
सन्नधियो नष्टबुद्धयः । ससाध्वसा भयसहिताः । प्रधर्षिता अभिभूताः सन्तः ॥२५॥
स वर्षपूगानुदधौ महाबल-
श्चरन् महोर्मीः श्वसनेरिता मुहुः ।
गुर्व्याभिजघ्ने गदया विभावरी
मासेदिवांस्तात पुरं प्रचेतसः ॥ २६ ॥
पदरत्नावली
तात विदुर । प्रचेतसो वरुणस्य नाम्ना विभावरीं पुरमासेदिवान् प्राप्तः, महत्या गदयाऽभिजघ्न इत्यन्वयः ॥ २६ ॥
प्रकाशिका
हे तात विदुर । प्रचेतसो वरुणस्य विभावरीं विभावरीनामपुरमासेदिवान्प्राप्तः
॥ २६ ॥
तत्रोपलभ्यासुरलोकपालको यादोगणानामृषभं प्रचेतसम् ।
स्मयन् प्रलब्धुं प्रणिपत्य नीचवत् जगाद मे देह्यधिराज सङ्गरम् ॥ २७ ॥
पदरत्नावली
प्रलब्धुं विप्रलब्धुम् । स्मयन् माद्यन् । नीचवन् म्लेञ्च्छवदेकहस्तेन नत्वा ॥२७॥
प्रकाशिका
प्रलब्धुमुपहसितुं स्मयन् गर्वयुक्तः सन् । नीचवन्म्लेञ्छवत्प्रणिपत्यैकेनैव हस्तेन नत्वा ॥ २७ ॥
त्वं लोकपालाधिपतिर्बृहच्छ्रवाः
वीर्यावहो दुर्मदवीरमानिनाम् ।
विजित्य लोकेऽखिलदैत्यदानवान्
यद् राजसूयेन पुराऽयजत् प्रभो ॥ २८ ॥
पदरत्नावली
बृहच्छ्रवा लोकव्याप्तकीर्तिः । दुष्टो मदो दुर्मदस्तेन वीरा वयमित्यात्मानं मन्तुं शीलमेषामस्तीति दुर्मदवीरमानिनः । तेषां वीर्यमात्मन्यावहति सन्निधापयतीति वीर्यरहितान् करोतीति वीर्यावहः । एतदेव विवृणोति– विजित्येति ॥ राजसूयेन यज्ञेनायजदिति यदतो दुर्मदवीरमानिनां वीर्या-वहत्वादधिराजत्वाच्च मे युद्धं देहीति गतेनान्वयः ॥ २८ ॥
प्रकाशिका
बृहच्छ्रवा व्याप्तकीर्तिः । दुष्टो मदो दुर्मदस्तेन वीरान् आत्मनो मन्यन्ते इति वीरमानिनस्तेषां वीर्यमावहत्यपहरतीति वीर्यावहः । राजसूययज्ञेन भवानयजदिति यद्यस्मात्तस्माद्वीर्यावह इत्यन्वयः ॥ २८ ॥
स एवमुत्सिक्तमदेन विद्विषा
दृढं प्रलब्धो भगवानपांपतिः ।
रोषं समुत्थं शमयन् स्वया धिया
व्यवोचदङ्गोपशमं गता वयम् ॥ २९ ॥
पदरत्नावली
वि निषेधमेवावोचत् । कथमित्यत उक्तम्– ओति ॥ यद्वा वि पृथग्भूतं पुरुषमेवावोचत् ॥ २९ ॥
प्रकाशिका
हे अङ्ग । उपशमं युद्धादिकौतुकादुपरमम् ॥ २९ ॥
पश्यामि नान्यं पुरुषात् पुरातनाद्
यः संयुगे त्वां रणमार्ग (रङ्ग) कोविदम् ।
आवारयिष्यत्यसुरर्षभाहितं
मनस्विनो यं वृणुते भवादृशाः ॥ ३० ॥
पदरत्नावली
स क इति तत्राह– पश्यामीति ॥ आवारयिष्यति आवृणोति सम्यक् निरोत्स्यतीति वा । तत्र रुचिं जनयति– मनस्विन इति ॥ ३० ॥
प्रकाशिका
अहितं वैरिणम् । असुरर्षभेहितमिति पाठे एहि गच्छेति व्याख्येयम् ॥ ३० ॥
तं वीरमारादभिपद्य विस्मयः
शयिष्यसे वीरशये श्वभिर्वृतः ।
यस्त्वद्विधानामसतां प्रशान्तये
रूपाणि धत्ते सदनुग्रहेच्छया ॥ ३१ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे अष्टादशोऽध्यायः ।
तात्पर्यम्
‘न देवानां प्रजापानां विजेता वरतो विना । बलेन विद्यया वापि न समस्तत्पतीन्विना । वरोऽपि तादृशो यावच्छरीरं नान्यदेहग’ इति तत्त्वनिर्णये ॥ ३१ ॥ इति तृतीयतात्पर्ये अष्टादशोऽध्यायः ॥ १८ ॥
पदरत्नावली
स कुत्रेति विचारो मा भूदित्याह– तमिति ॥ वीरं शूरम् । आरान् निकट-मधुनैव । वीराः शेरतेऽस्मिन्निति बाहुलकाधिकरणे अच् । यद्वा पुंसि संज्ञायां घः प्रायेणेत्यधिकरणे घः । वीरशयोरणाङ्गणस्तस्मिन् । मम विरूपेण तेन सङ्गमः कथं घटत इति शङ्का मा भूदित्याह– यस्त्वद्विधानामिति ॥ प्रशान्तये विनाशाय । वराहादिरूपाणि । यस्तु औत्पत्तिकजयभाजनानां देवा-दीनां जयोऽनयोः कथमिति शङ्का इयं ‘न देवानां प्रजापानां विजेता वरतो विना । बलेन विद्यया वापि न समस्तत्पतीन् विना । वरोऽपि तादृशो यावच्छरीरं नान्यदेहगः ॥’ इत्यनेन परिहर्तव्येति ॥ ३१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे अष्टादशोऽध्यायः ॥
प्रकाशिका
आराच्छीघ्रं, विस्मयो विगतगर्वो, वीराः शेरतेऽस्मिन्निति वीरशयो रणाङ्गण-स्तस्मिन् । अत्र स्वर्गस्थानां देवानां वरुणस्य च हिरण्याक्षात्पराभव उक्तः स कथं देवानां पार्षदा-पेक्षयोत्तमत्वाद्दैत्ययोश्च दुर्बलत्वादतोऽत्राभिप्रायं प्रमाणेनैवाह ॥ न देवानामिति । वरतो वरम् । प्रसङ्गादाह ॥ वरोऽपीति । तादृशः सर्वदेवजयप्रदो नान्यदेहगः । दैत्यविषयमेतत् । अतः ‘‘सर्वैरजेयः स च कुम्भकर्णः पुरातने जन्मनि धातुरेव । वरादिति’’ भारततात्पर्यनिर्णयविरोधो नेति ध्येयम् । तस्य पार्षदविषयत्वात् । तथा चात्र हिरण्याक्षस्य वरेणैव जय उक्तो न स्वाभाविकबलेनातो न विरोध इति भावः ॥ ३१ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीभागवतटिप्पण्यामष्टादशोऽध्यायः ॥ ३-१८ ॥