१७ सप्तदशोऽध्यायः

इति तद् गृणतां तेषां मुनीनां योगधर्मिणाम्

अथ सप्तदशोऽध्यायः

ब्रह्मोवाच–

इति तद् गृणतां तेषां मुनीनां योगधर्मिणाम् ।

प्रतिनन्द्य जगादेदं विकुण्ठनिलयो विभुः ॥ १ ॥

पदरत्नावली

दुस्तरापत्तिपरिहाराय भक्त्या हरिरेव प्रार्थनीय इत्ययमर्थः प्रतिपाद्यतेऽस्मि-न्नध्याये । तत्रादौ भक्तपराधीनोऽहमिति प्रकटयिष्यतो हरेः सनकादीन् प्रति स्नेहवचनप्रकारमाह– इतीति ॥ योगः भक्तियोगः स एव धर्म एषामस्तीति योगधर्मिणस् तेषामिदं वक्ष्यमाणं तत् स्तवनं प्रतिनन्द्य । वैकुण्ठनिलय इत्यनेन प्रतीतं परिछिन्नत्वं निवारयति– विभुरिति ॥ ‘विभुः सर्वगते पत्यौ’ इति यादवः ॥ १ ॥

प्रकाशिका

योगो भक्तियोगः स एव धर्मो येषामस्तीति योगधर्मिणस्तेषाम् ॥ १ ॥

श्री भगवानुवाच–

एतौ वै पार्षदौ मह्यं जयो विजय एव च ।

कदर्थीकृत्य मां यद् वो बह्वाधत्तामतिक्रमम् ॥ २ ॥

पदरत्नावली

मह्यमिति व्यत्ययेन जयविजययोः पार्षदप्राधान्यं सूचयति । मां कदर्थीकृत्या-विगणय्याल्पप्रयोजनीकृत्येति वा । तत्कुत इति तत्राह– यद् व इति ॥ बह्विति क्रियाविशेषणम् । यथा बहुः पूर्णो भवति तथातिक्रममपराधमाधत्तामकुर्वतां यत् तस्मादिति शेषः ॥ २ ॥

प्रकाशिका

दुस्तरापत्तिपरिहाराय भक्त्या हरिरेव प्रार्थनीय इत्ययमर्थः प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादौ भक्तभक्तिपराधीनोऽहमिति दर्शयतो हरेः सनकादीन् प्रति स्नेहपूर्वकवचनप्रकारं दर्शयति ॥ एतावित्येकादशभिः । मह्यं मम । कदर्थीकृत्य अविगणय्य । तुच्छीकृत्येति यावत् । मम ब्राह्मण-भक्तत्वेन तदपराधाचरणस्य ममानिष्ठत्वात् । बहु यथा स्यात्तथाऽतिक्रममपराधमाधत्तामकुर्वताम् । यद्यस्मात्तस्माद्यस्त्वेतयोरित्युत्तरेणान्वयः ॥ २ ॥

यस्त्वेतयोर्धृतो दण्डो भवद्भिर्मामनुव्रतैः ।

स एवानुमतोऽस्माभिर्मुनयो देवहेलनात् ॥ ३ ॥

पदरत्नावली

तर्हि भवताप्येतौ दण्ड्याविति शङ्कित्वा युष्माकमस्माकं चैकमनस्कत्वाद् युष्माभिर्दत्त एव दण्डोऽस्मार्भिर्दत्त इत्याह– यस्त्विति ॥ देवहेलनात् ‘यावतीर्वै देवता’ इति श्रुत्युक्त-देवापमानादित्यर्थः ॥ ३ ॥

प्रकाशिका

देवहेलनाद्ब्रह्मादिदेवानामप्यपराधात् ॥ ३ ॥

तद् वः प्रसादयाम्यद्य ब्रह्म दैवं परं हि मे ।

तद्ध्येवात्मकृतं मन्ये यत् स्वपुंभिरसत्कृताः ॥ ४ ॥

पदरत्नावली

किञ्चात इति तत्राह– तद् व इति ॥ तत् तेन दण्डानुज्ञानेन । किमेषां प्रसादनम् ? अत्राह– ब्रह्मेति ॥ सर्वेषामिति पदमध्याहृत्यान्वेतव्यम् । मे मम भक्तियुक्तं ब्रह्म विप्रकुलं सर्वेषां परदैवं पूज्यं हि प्रसिद्धम् । मे परं मत्तात्पर्ययुक्तमिति वा । अन्यकृतापराधस्य स्वात्मन्यारोपणं कथम् ? अत्राह– तद्धीति ॥ ४ ॥

प्रकाशिका

हि यस्माद् ब्रह्म ब्राह्मणकुलं मे परं दैवमिव प्रीतिपात्रं तत्तस्मात् । अद्य वः प्रसादयामि । तव कोऽपराधो येनास्मत्प्रसादनं त्वया क्रियत इत्यत आह ॥ तद्ध्येवेति । स्वपुंभिः स्वभृत्यैः ॥ ४ ॥

यन्नामानि च गृह्णाति लोको भृत्ये कृतागसि ।

सोऽसाधुवादस्तत्कीर्तिं हन्ति त्वचमिवामयः ॥ ५ ॥

पदरत्नावली

एतदेवोपपादयति– यन्नामानीति ॥ ततः का हानिरित्यत आह– स इति ॥ आमयः कुष्ठलक्षणः । ‘‘अम रोग’’ इत्यस्माद्धातोः स्वार्थे यञ्प्रत्ययः । (अमम्)रोगमङ्गभङ्गं यापयतीत्यस्मिन्नर्थे णिचि वा ॥ ५ ॥

प्रकाशिका

एतदेवोपपादयति ॥ यन्नामानीति । ततः का हानिरित्यत आह ॥ स इति । आमयः कुष्ठाभिधो रोगः ॥ ५ ॥

यस्यामृतामलयशः श्रवणावगाहः

सद्यः पुनाति जगदाश्वपचं विकुण्ठः ।

सोऽहं भवद्भ्य उपलब्धसुतीर्थकीर्ति-

श्छिन्द्यां स्वबाहुमपि वः प्रतिकूलवृत्तिम् ॥ ६ ॥

पदरत्नावली

लोके पूज्यत्वाय हरिर् ब्राह्मणेषु परमप्रियत्वं प्रतिपादयति– यस्येत्यादिना ॥ यस्य ममामलामृतत्वप्रदयशःश्रवणादिलक्षणोऽवगाहः स्नानरूपप्रवेशः सद्यस्तत्क्षणादेव आश्वपचं जगत् पुनाति । भवद्भ्य उपलब्धा विस्तृता सुतीर्था सुपावनी कीर्तिर्यस्य स तथा सोऽहं विकुण्ठः वो युष्माकं प्रतिकूलवृत्तिं स्वबाहुमपि छिन्द्यामित्यन्वयः । ‘‘सर्वोत्तमोऽपि भगवान् विप्रादेः पूजनाय च । गुणलब्धिं ततो ब्रूते नित्यपूर्णगुणोऽपि सन् । ब्रूयुश्चान्ये क्वचित् तत्तु तदुक्तेरनुसारतः । उपादत्ते वरांश्चापि लोकानां मोहनाय च’ इति वचनेन कथं पूर्णगुणस्य स्वतस्तृप्तस्य हरेरन्यतो गुणलब्धिरिति चोद्यं निरस्तम् ॥ ६ ॥

प्रकाशिका

मे ब्रह्म दैवमित्युक्तं ब्राह्मणप्रियत्वं ब्राह्मणेभ्यः कस्तवोपकारो येन ते तव प्रिया जाता इत्याशङ्कां परिहरन् विशदयति ॥ यस्यामृतमिति । यस्य ममामलामृतत्वप्रदयशःश्रवणलक्षणोऽव-गाहः स्नानं सद्यस्तत्क्षणादेव आश्वपचं श्वपचमभिव्याप्य विद्यमानं जगत् पुनाति । भवद्भ्यो हेतुभूतेभ्य उपलब्धा प्राप्ता । विस्तृतेति यावत् । सुतीर्था सुपावनी कीर्तिर्यस्य स तथा । अनेन स्वस्य ब्राह्मण-कृतोपकारो दर्शितः । स्वबाहुं स्वस्य बाहुजातं क्षत्रियं राजानमपि हन्यां काऽन्यस्य कथेत्यर्थः । अत्र स्वोत्कर्षवर्णनं ब्राह्मणोत्कर्षप्रतिपादनायैवेति ज्ञातव्यम् ॥ ६ ॥

यत्सेवया चरणपद्मपवित्ररेणोः

सद्यः क्षताखिलमलं प्रतिलब्धशीलम् ।

न श्रीर्विरक्तमपि मां विजहाति यस्याः

प्रेक्षालवार्थमितरन्नियमोऽर्हते मत् ॥ ७ ॥

तात्पर्यम्

‘सर्वोत्तमोऽपि भगवान् विप्रादेः पूजनाय तु । गुणलब्धिं ततो ब्रूते नित्यपूर्ण-गुणोऽपि सन् । ब्रूयुश्चान्ये क्वचित्तत्तु तदुक्तेरनुसारतः । उपादत्ते वरांश्चापि लोकानां मोहनाय चे’ति कौर्मे ॥ विप्राणां चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलं श्रीर्न जहातीति यत् । अतश्छिन्द्याम् । ‘अनुक्ताश्च गुणा विष्णोरुक्ता दोषा न तस्य तु । अज्ञानाद्दोषविज्ञानं गुणज्ञानं यथार्थत’ इति पैङ्गिश्रुतिः ॥ ‘विप्राणां चापि भक्तानामन्येषां च जनार्दनः । ब्रह्मणः शङ्कराद्वापि देवताभ्यस्तथैव च । आत्मनश्च श्रियश्चैव सकाशात् प्रियतामपि । पूज्यतामत्ययुक्तं च वदेत्क्वापि विमोहयन्’ इति स्कान्दे ॥ ७ ॥

पदरत्नावली

विप्राणां चरणपद्मपवित्ररेणोः सेवया सेवाविडम्बनेन प्रतिलब्धशीलं विडम्बित-तत्स्वभावम् । इदं केवलं विडम्बनार्थं मोहनार्थमुच्यत इति भावेनात्मानं विशिनष्टि– सद्य इति ॥ नामसङ्कीर्तनादिना सद्यस्तत्क्षणादेव क्षतं नष्टम् अखिलं जनस्य मलम् अघं येन स तथा तम् । ‘मलं क्लिष्टाघयोर्न स्त्री’ इति यादवः । स्वरतत्वेन विरक्तं तदपेक्षारहितमिव स्थितमपि मां श्रीर्न जहातीति यद् यस्मात् स्वबाहुमपि च्छिन्द्यामिति पूर्वेणान्वयः । ‘अनुक्ताश्च गुणा विष्णोरुक्ता दोषा न तस्य तु । अज्ञानाद् दोषविज्ञानं गुणज्ञानं यथार्थतः ॥’ इति श्रुत्या विप्रचरणसेवया हरेर्विनष्टमलत्वं किं न स्यादिति चोद्यं निरस्तम् । सन्दिग्धवचनं तु मोहार्थत्वादिति ज्ञायते । ‘विप्राणां चापि भक्तानाम् अन्येषां च जनार्दनः । ब्रह्मणः शङ्कराद्वाऽपि देवताभ्यस्तथैव च । आत्मनश्च श्रियश्चैव सकाशात् प्रियतामपि । पूज्यतामत्ययुक्तं च वदेत् क्वापि विमोहयन् ॥’ इत्यनेन परिहर्तव्यम् ।

स्त्रीत्वाविशेषान् मां न जहातीति किं माहात्म्यं विशिष्योच्यत इति तत्राह– यस्या इति ॥ मदितरेषां ब्रह्मादीनां नियमस् तपोलक्षणो यस्याः श्रियः प्रेक्षालवार्थं कटाक्षनिरीक्षणलेशार्थमर्हत इत्यन्वयः । यद्वा मदितरेषां नियमो यस्याः प्रेक्षालवार्थमर्हते सा श्रीर् मम चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलं, निरन्तरं मदुपासनास्वभावमिति क्रियाविशेषणं, मां न जहतीति यत् तस्मादेवं-विधमाहात्म्योऽहं युष्मद्विरोधकरं स्वबाहुमपि च्छिन्द्यामिति । विप्रेभ्यः किमपि प्रयोजनमपेक्षमाणं किम् ? नेत्याह– सद्य इति ॥ सद्य इत्यनेनेतरसेवकेभ्यः स्वसेवकानां कालक्षेपमन्तरेण फलप्राप्तिं ध्वनयति । श्रियो मत्तः प्रयोजनसद्भावेऽपि न मम तस्या अर्थ इत्याह– विरक्तमिति ॥ वौ विशिष्टे मयि रक्तं स्वरतमित्यर्थः । स्वरतस्यान्यतः प्रयोजनापेक्षां धिक्करोति– अपीति ॥ ७ ॥

प्रकाशिका

हरिः स्वस्य ब्राह्मणसेवया गुणलब्धिं वक्तीत्याह ॥ यत्सेवयेति । विप्राणां चरणपद्मपवित्ररेणोः सेवया सद्यस्तत्क्षणादेव क्षतानि नष्टान्यखिलानि मलानि पापानि यस्य स तथा तम् । अत एव प्रतिलब्धशीलं प्राप्तश्रीवत्सलाञ्छनस्वभावं प्राप्तैश्वर्यादिगुणस्वभावं वा विषयेषु विरक्तमपि मां श्रीर्न विजहाति । त्वत्स्त्रीत्वात्त्वां न जहाति, अतः को विशेषोऽनेनेत्यत आह ॥ यस्या इति । प्रेक्षालवार्थं कृपाकटाक्षलेशार्थं मदितरन्मदपेक्षयेतरेषां नियमो व्रतानुष्ठानादिरूपोऽर्हते योग्यो भवति सा श्रीरित्यन्वयः । अत्र ब्राह्मणसेवया सर्वोत्तमस्य भगवतो गुणप्राप्तिर्लक्ष्मीप्राप्तिश्चोच्यमाना प्रमाणबाधिताऽ-तोऽत्राभिप्रायं प्रमाणेनैव दर्शयति ॥ सर्वोत्तमोऽपीति । विप्रादेरित्यत्रादिपदेन देवानां सङ्ग्रहः । तुशब्दोऽवधारणे । पूजनायैव पूज्यत्वप्रदर्शनायैव । ततो विप्रादेः सकाशात् । गुणलब्धिं गुणप्राप्तिं स्वात्मनो ब्रूते । ननु हरिवचनमेवं पूज्यत्वप्रदर्शनार्थमित्यस्तु । तथाऽप्येवमेव ब्रह्मणा देवान्प्रति, मैत्रेयेण विदुरं प्रति, शुकेन परीक्षितं प्रति, सूतेन शौनकादीन् प्रति कथमुच्यत इत्यत आह ॥ ब्रूयुरिति । अन्ये च ब्रह्मादयः क्वचिद्ग्रन्थे यद्येवमेव ब्रूयुः । तुशब्दोऽवधारणे । तदुक्तेरनुसारत एव हरिवचनानुवादरूपमेव तद् अतो न दोष इति भावः । उक्तन्यायमन्यत्राप्यतिदिशति ॥ उपादत्त इति । विप्रादेरिति वर्तते । चशब्द उक्तवचनसमुच्चयार्थः । अपिशब्दस्य यद्यपि सर्वोत्तमस्तथाऽपीत्यर्थः । मोहनाय चेति चशब्देन पूजनाय चेत्यस्य समुच्चयः । अत्र यत्सेवयेत्यस्यैकपदत्वे येषां सेवया क्षताखिलमलं प्रतिलब्धशीलं चेत्यन्वये चरणपद्मपवित्ररेणोरित्यस्यानन्वयः । भिन्नपदत्वे च येषां चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलं मां श्रीर्न विजहाति । तेषां वः प्रतिकूलवृत्तिं स्वबाहुं छिन्द्यामित्यन्वयलाभेऽपि शीलादिगुणप्राप्तेः श्रीपरित्यागाभावस्य च न साक्षाच्छिन्द्यामित्यत्र हेतुत्वलाभस्तत्ज्ञापकाभावात् । अतो विप्राणामित्यध्याहारं यदित्यस्य हेत्वर्थत्वं तस्याध्याहृतेति शब्देनान्वयं चाभिप्रेत्य योजनां दर्शयति ॥ विप्राणामिति । छिन्द्यामित्यनन्तरमितिसम्बन्ध इति शेषः । क्षताखिलमलमित्यनेन विष्णौ दोषप्रसक्तिः प्रतीयतेऽतस्तदभिप्रायं श्रुत्यैव दर्शयति ॥ अनुक्ताश्चेति । श्रुत्यादावुक्ता अनुक्ताश्च गुणा ग्राह्याः । दोषा उक्ता अपि न तु नैव ग्राह्याः । तर्हि कथं दोषप्रसक्तिरित्यत उक्तम् ॥ अज्ञानादिति । तद्वाक्य-तात्पर्यस्याज्ञानात् । विपरीततया ज्ञानादित्यर्थः । यथार्थतो यथार्थतात्पर्यज्ञानात् । पैङ्गिश्रुतिर्यतो ऽतो दोषप्रतीतिजनकवाक्यस्य न स्वार्थे । तात्पर्यमिति शेषः । स्वार्थे तात्पर्याभावे तादृशवचनानां कुत्र तात्पर्यमित्यपेक्षायां प्रमाणेनैव दर्शयति ॥ विप्राणां चेति । अपिशब्दो वक्ष्यमाणप्रियत्वपूज्यत्व-शून्यानामपीत्यर्थे । पूज्यानामपीत्यन्वयः । अत्ययुक्तम् । सद्यः क्षतमित्यादिकं क्वाप्येव विमोहयन्नेवेत्येव-कारयोः सम्बन्धः । तथा चासुरजनमोहन एव तादृशवचनानां तात्पर्यमिति भावः । इतरे नियमान्वहन्ते इत्यपि क्वचिन्मूलपाठः ॥ ७ ॥

नाहं तथाऽद्मि यजमानहविर्वितानै-

श्च्योतद्घृतप्लुतमदन् हुतभुङ्मुखेन ।

यद् ब्राह्मणस्य मुखतश्चरतोऽनुघासं

तुष्टस्य मय्यवहितैर्निजकर्मपाकैः ॥ ८ ॥

पदरत्नावली

वदान्यान् पुरुषान् शिक्षमाण इव पुनरपि विप्रान् स्तौतीत्याह– नाहमिति ॥ अहं वितानैर् उत्तमकल्पैर् यज्ञैः करणैश्चोतद् गलद् घृतं, तेनाज्येन प्लुतं स्यन्दमानं यजमानस्य हविर्हुत-मभुङ्मुखेनादन् तथा तृप्तिं न यामि अहं यथा मय्यवहितैरर्पितैर्निजकर्मणां पाकैः फलैस्तुष्टस्य चरतो भुञ्जानस्य ब्राह्मणस्य मद्भक्तिलक्षणस्य विप्रस्यानुघासं प्रतिकवलं मुखेनाद्मि अदनेन प्रीतो भवामीति यत् तस्मान्मेऽतिप्रियत्वाद् विप्राः पूज्या इति भावः ॥ ८ ॥

प्रकाशिका

इतोऽपि विप्राः पूज्या इत्याशयेनाह ॥ नाहमिति । अहं वितानैर्विस्तृतैर्मन्त्रैर्दत्तं च्योतद्गलद्धृतं तेन प्लुतं मिश्रितं यजमानस्य हविश्चरुपुरोडाशादिरूपं हुतभुङ्मुखेनाग्निलक्षणेन मुखेनादन् अश्नन्नपि तथा न अद्मि नाश्नामि । तथा न तृप्तिं यामीति यावत् । यद्यथा मय्यवहितैरर्पितैर्निजकर्मणां पाकैः फलैस्तुष्टस्य । निष्कामकर्मकरणेनैव तुष्टस्येति यावत् । चरतो भुञ्जानस्य ब्राह्मणस्य ब्रह्मज्ञानवतो मुखेनानुघासं प्रतिकवलमद्मि । अदनेन प्रीतो भवामि तथेत्यन्वयः ॥ ८ ॥

येषां बिभर्म्यहमखण्डविकुण्ठयोग-

मायाविभूतिरमलाङ्घ्रिरजः किरीटैः ।

विप्रांस्तु को न विषहेत यदर्हणांभः

सद्यः पुनाति सहचन्द्रललामलोकान् ॥ ९ ॥

पदरत्नावली

इदानीं स्पष्टमसुरजनमोहकवचनमिदमिति प्रकटयन् विप्रान् स्तौतीत्याह– येषामिति ॥ अखण्डा पूर्णा विकुण्ठा विगतभेदा च । योगमाया स्वरूपेच्छा तया विभूतिर्विविधभवनं ‘आदित्यानामहं विष्णुः’ इत्यादिरूपं यस्य स तथोक्तः । अहं किरीटैर्येषां विप्राणाममलाङ्घ्रिरजो विभर्मिको नु पुमान् तान् विप्रान् न विषहेत ? सोढा न भवेदित्यन्वयः । एकस्मिन्नवतारेऽपि विप्राव-ज्ञानं नास्तीति द्योतनाय किरीटैरिति बहुवचनं केवलं विप्रबहुमानार्थं तदङ्घ्रिरजोभरणमित्याशयेनात्मानं विशिनष्टि– यदर्हणेति ॥ यदर्हणाम्भः यस्य मम ब्रह्मणा कृतपादप्रक्षालनोदकं गङ्गाख्यमम्भश् चन्द्रललामेन चन्द्रशेखरेण सह वर्तमानान् लोकान् जनान् पुनाति ॥ ९ ॥

प्रकाशिका

पुनरसुरजनमोहनाभिप्रायेणैवाह ॥ येषामिति । अखण्डा पूर्णा विकुण्ठाऽप्रतिहता योगमाया योगसामर्थ्यं तया प्राप्तविभूतिः प्राप्तपरमैश्वर्योऽप्यहं यस्य ममार्हणाम्भो ब्रह्मकृतपादप्रक्षालनोदकं तद्रूपगङ्गाख्यमंभश्चन्द्रललामेन चन्द्रभूषणेन रुद्रेण सहितान् लोकान् पुनाति । सोऽहमेवं परमपावनोऽपि किरीटैर्येषां विप्राणाममलाङ्घ्रिरजो बिभर्मि तान्विप्रान् अपकुर्वतोऽपि कोऽन्यो न विषहेत तदपराधान्न सहेत । बहुष्ववतारेषु बिभर्मीति सूचनाय किरीटैरिति बहुवचनम् ॥ ९ ॥

ये मे तनूर्द्विजवरान् दुदुहुर्मदीयान्

भूतान्यलब्धशरणानि च भेदबुध्द्या ।

द्रक्ष्यन्त्यघक्षतदृशो ह्यभिमन्यवस्तान्

गृध्रा रुषा मम कृषन्त्यधिदण्डनेतुः ॥ १० ॥

पदरत्नावली

इदमपि महिमान्तरकथनम् । विप्रद्वेषोऽपि मद्द्वेष एव अधःपातहेतुत्वादित्याह– ये म इति ॥ ये पुरुषा मे तनूः प्रतिमास्थानीयान् मदीयान् मद्भक्तान् द्विजवरान् तथा, ‘शरणं गृह-रक्षित्रोः’ इत्यभिधानादलब्धशरणानि रक्षकरहितानि भूतानि भेदबुद्ध्या वैलक्षण्यबुद्ध्या दुदुहुः पीडयाञ्चक्रुर् ये चाघेन क्षतदृशो ऽन्धीकृतदृष्टयो ऽभितो मन्युर् येषां ते तथा द्रक्ष्यन्ति तन् ममाधि-नेतुर् दण्डनायकस्य यमस्य गृध्राः श्येनाः कृषन्ति नेत्राण्युत्पाट्य भक्षयन्तीत्यन्वयः ॥ १० ॥

प्रकाशिका

सर्वथा ब्राह्मणद्रोहो न कार्योऽनर्थहेतुत्वादित्याह ॥ ये म इति । तनूः प्रतिमा-भूतान्मदीयान्मद्भक्तान्दुदुहुस्तदीयवित्तादिकं गृहीतवन्तः । दुद्रुहुरिति पाठे द्रोहं कृतवन्त इत्यर्थः । ये चाघेन क्षतदृशोऽन्धीकृतनेत्राः सन्तोऽलब्धशरणानि रक्षकरहितानि भूतानि प्राणिनो भेदबुद्ध्या स्वपाल्य-पुत्रादिवैलक्षण्यबुद्ध्या द्रक्ष्यन्ति पश्यन्ति तान्मम मया अधि अधिकृतो यो दण्डनेता दण्डकारी यमस्तस्याभिमन्यवोऽभितो मन्युर्येषां ते तथा गृध्राः । रुषा कृषन्ति चञ्चुभिश्छिन्दन्ति ॥ १० ॥

ये ब्राह्मणान् मयि धिया क्षिपतोऽर्चयन्ति

तुष्यद्धृदः स्मितसुधोक्षितपद्मवक्त्राः ।

वाण्यानुरागकलयात्मजवद्गृणन्तः

सम्बोधयन्त्यहमिवाहमुपाकृतस्तैः ॥ ११ ॥

पदरत्नावली

इदानीं मद्भक्तब्राह्मणसत्कारपरिपाकं वच्मीत्याह– ये ब्राह्मणानिति ॥ तुष्यद्धृदः हृष्यन्मनसः स्मिताख्यसुधया उक्षितमासिक्तं पद्मवक्त्रं येषां ते तथा । अनुरागकलया स्नेहबुद्ध्या । कल बन्धन इति धातोः । वाण्या आत्मजवद् गृणन्तः प्रशंसन्तः, अहमिव यथाहं विप्रान् संबोधयामि तथा संबोधयन्ति, ये मद्भक्ता रुषा क्षिपतः भर्त्सयतः ब्राह्मणानर्चयन्ति । कथम् ? मयि धिया हरिरेषु विशेषतः सन्निहित इति बुद्ध्या । अहं तैर्विप्रार्चकैरुपाकृतो वशीकृत इत्यन्वयः ॥ ११ ॥

प्रकाशिका

इदानीं ब्राह्मणपूजयैवाहं वशो भवामीत्याह ॥ ये ब्राह्मणानिति ॥ ये क्षिपतो भर्त्सयतोऽपि ब्राह्मणांस्तुष्यद्धृदो हृष्यन्मनसः । स्मितमेव सुधा तयोक्षितमासिक्तं पद्मतुल्यं वक्त्रं येषां ते तथा । अनुरागकलया स्नेहसम्बद्धया । ‘‘कल बन्धन’’ इति धातोः । वाण्या वाचाऽऽत्मजवत्कु्रद्धं पितरं पुत्र इव गृणन्तः स्तुवन्तः सन्तोऽहमिव यथाऽहं विप्रान्सम्बोधयामि तथैव सम्बोधयन्ति । मयि धिया हरिरेषु विशेषतः सन्निहित इति बुद्ध्याऽर्चयन्ति च तैरहमुपाकृतो वशीकृतः ॥ ११ ॥

तन्मे स्वभर्तुरवसायमलक्षमाणौ

युष्मद्व्यतिक्रमगतिं प्रतिपद्य सद्यः ।

भूयो ममान्तिकमितां तदनुग्रहो मे

यत् कालतोऽप्यविरमो हृतयोर्विवासः ॥ १२ ॥

पदरत्नावली

नन्वेवमुभयेषां युष्माकं शापोऽभिमतश्चेत् कदापि शापमोक्षो नेत्यतस्तन्मोक्षमाह– तन्मे स्वभर्तुरिति ॥ विप्राणां ममात्यन्तं प्रियत्वात् तद्विरोधिनो मद्विरोधिन एवेति यस्मात् तस्माद् युष्मद्व्यतिक्रमगतिं युष्मदपराधफलमसुरत्वादिलक्षणं प्रतिपद्य सद्यः भूयो ममान्तिकमितामागच्छता-मित्यन्वयः । भगवतोक्तमिदं तात्कालिकं न तु तत्वमित्यत्राह– मे स्वभर्तुरिति ॥ स्वभर्तुर्मेऽवसायं विप्रानुरागलक्षणं निश्चयम् अलक्षमाणौ विप्रार्चनादिलक्षणैरप्यजानन्तौ । अज्ञानं च ब्रह्मशापनिमित्तं तयोरिति ध्वनयति । न हि वैकुण्ठे अज्ञानादिसंभवोऽस्ति । ननु ममांतिकमितामित्यनेन शापमोक्षलक्षणः कोऽनुग्रहविशेषो ध्वनितः स्यादिति तत्राह– तदनुग्रह इति ॥ हृतयोर्युष्मच्छापेन सुरेतरगतिं गति-तयोरेतयोर्विवासः वैकुण्ठादसुरादिव्यवस्थापनं कालतः बहुना कालेनाप्यविरमोऽवसानरहितमिति यद् यस्मात् तस्मात् स मेऽनुग्रहः पुनर्मम लोकप्राप्तिलक्षणः शापमोक्ष इत्यर्थः । मदनुग्रहाभावे बलवता ब्राह्मणशापेन कदाप्यसुरयोनिमोक्षो न स्यादिति भावः । हिशब्देन सनकादीनामपि शापमोक्षानुमति-रस्तीति द्योतयति । यतः स्वामिनोऽभिमतं भृत्यैरप्यनुमन्तव्यम् ॥ १२ ॥

प्रकाशिका

इदानीं स्वभृत्ययोः शापमोक्षं प्रार्थयते ॥ तन्म इति । तत्तस्मान्मेऽवसाय-मभिप्रायमलक्षमाणावजानन्तौ युष्मद्व्यतिक्रमगतिं युष्मदपराधोचितगतिं सद्यः प्रतिपद्य प्राप्य ममान्तिकं मत्समीपमितामागच्छताम् । तत्पुनः समीपागमनं ममानुग्रहः स एव मयि क्रियमाणो भवद्भिरनुग्रहः । कुत एवं प्रार्थ्यत इत्यत आह ॥ यदिति । यद्यस्माद्भवच्छापेन हृतयोः स्थानभ्रंशितयोर्विवासो देहान्तरावस्थानरूपः कालतोऽपि बहुनापि कालेनाविरमोऽवसानहीनः स्यात् । अतोऽयमनुग्रहो प्रार्थ्यत इति भावः ॥ १२ ॥

ब्रह्मोवाच–

अथ तस्योशतीं देवीमृषिकुल्यां सरस्वतीम् ।

आस्वाद्य मन्युदष्टानां तेषामात्माऽप्यतृप्यत ॥ १३ ॥

तात्पर्यम्

देवीं द्योतमानाम् । ऋषिकुल्याम् ऋषिकुलस्तुतिपराम् ।

पदरत्नावली

कोपाहिदष्टानां तेषां शापमोक्षानुमतिः कथं संगच्छत इति तत्राह– अथेति ॥ तस्य हरेर् उशतीमभीष्टप्रदाम् ऋषिकुल्यामृषिकुलस्तुतिपराम्, अन्यत्र मुनिकुलप्रियां देवीमभिधेयमणिभि-र्द्योतमानाम् । अन्यत्र देवादिस्नानक्रीडायोग्यां सरस्वतीं वाचम् अन्यत्र नदीम् । आस्वाद्य श्रवणादि-नाऽन्यत्र स्नानादिना । भगवद्दिदृक्षाभङ्गाङ्कुरितेन मन्युना सर्पेण दष्टानां तेषां सनकादीनामात्मा मनो ऽन्यत्र प्रकृतिस्थितोऽभूदित्यर्थः ॥ १३ ॥

प्रकाशिका

तस्य हरेरुशतीमभीष्टप्रदां सरस्वतीं वाचमास्वाद्य तन्माधुर्यमनुभूय मन्युदष्टानामपि मन्युलक्षणाहिना दष्टानामपि तेषामात्मा मनः । अत्र देवीम् ऋषिकुल्यामितिपदयोः प्रकृतोपयुक्तमर्थं दर्शयति ॥ देवीमिति ॥ चित्रपदोपेततया गम्भीरवाक्योपेततया अबाधितार्थतया च द्योतमानामित्यर्थ ऋषिकुलस्तुतिपरामृषिकुलस्तुतौ तात्पर्योपेताम् । अनेनाबाधितार्थत्वमुपपादितमिति ज्ञातव्यम् ॥ १३ ॥

सतीं व्यादाय शृृण्वन्तो लघ्वीं गुर्वर्थगह्वराम् ।

विगाह्यागाधगम्भीरं न विदुस्तच्चिकीर्षितम् ॥ १४ ॥

पदरत्नावली

वचनमाधुर्यास्वादनेन मनसस्तृप्तिर्न त्वर्थज्ञानेन । तस्यानवगाहादिति भावेनाह– सतीमिति ॥ मुखं व्यादाय शृृण्वन्तः, शब्दतो लब्धीं मितां गुरुणा महताऽर्थेन गह्वरामप्रवेश्यां वाचां विगाह्य विचार्य, ‘‘गाध प्रतिष्ठायाम्’’ इति धातोर् अगाधमतलस्पर्शमत एव गम्भीरमवगाढुमशक्यं तस्य हरेश्चिकीर्षितं किञ्चिन् कर्तुमिष्टं कञ्चन क्षेप्तुं वेति न विदुः । ‘‘कृ विक्षेपे’’ इति धातुः ॥ १४ ॥

प्रकाशिका

व्यादाय प्रसार्य । कर्णौ दत्वेति यावत् । लघ्वीं मिताक्षरीं गुरुभिरर्थैर्गह्वराम् अप्रवेश्यामगाधाम् अभिप्रायतो गम्भीरामर्थतः । अनेन गुर्वर्थगह्वरत्वमुपपादितमिति ज्ञातव्यम् । विगाह्य विचार्य । उक्तवाक्यानामापातप्रतीतमर्थं तस्य हरेश्चिकीर्षितं प्रतिपादयितुमिष्टं न विदुः ॥ १४ ॥

ते योगमाययाऽऽरब्धपारमेष्ठ्यमहोदयम् ।

प्रोचुः प्राञ्जलयो विप्राः प्रहृष्टा हृषि (कम्पि)तत्वचः ॥ १५ ॥

तात्पर्यम्

‘तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यमि’त्युक्तम् ॥ १५ ॥

पदरत्नावली

तर्हि यावज्ज्ञानमपि किञ्चन नोचुः किमिति तत्राह– ते योगेति ॥ सनकादयः योगमायया स्वरूपेच्छया जातेन भ्रूभङ्गेनारब्ध उत्पादितः पारमेष्ठ्यमहोदयः ब्रह्मपदसंबन्धिप्रभूतैश्वर्यं यस्य स तथा तं, हरिं प्रोचुरित्यन्वयः । कम्पितत्वचः रोमाञ्चितगात्राः ॥ १५ ॥

प्रकाशिका

ते सनकादयो योगमायया भ्रूविजृंभादिरूपस्वरूपसामर्थ्येनारब्ध उत्पादितः पारमेष्ठ्यमहोदयो ब्रह्मपदसम्बन्धिप्रभूतैश्वर्यं यस्य स तथा हरिम् । हृषितत्वचो रोमाञ्चितत्वचः । अत्र योगमायाशब्दो नानिर्वाच्याविद्यापरः किं तूक्तार्थपर एवेत्यभिप्रेत्य समाख्यामाह ॥ तद्भ्रूविजृम्भ इति । परमेष्ठिधिष्ण्यं परमेष्ठिधिष्ण्यजनक इति यतः पूर्वमुक्तमतोऽत्रापि स एवार्थो वर्णनीय इत्यर्थः ॥ १५ ॥

ऋषय ऊचुः–

न वयं भगवन् विद्मस्तव देव चिकीर्षितम् ।

कृतो मेऽनुग्रहश्चेति यदध्यक्षः प्रभाषसे ॥ १६ ॥

पदरत्नावली

किमूचुरित्याशङ्क्य न विदुस्तच्चिकीर्षितमिति हृद्गतं वाचोद्गलयन्तीत्याह– न वयमिति ॥ अध्यक्षः सर्वेश्वरस्त्वं ‘स एवानुमतो दण्डः’ ‘तदनुग्रहो मे’ इत्यादिना ममानुग्रहः कृत इति प्रभाषस इति यत् तस्मात् तव चिकीर्षितं न विद्म इति ॥ १६ ॥

प्रकाशिका

चिकीर्षितमुक्तवाक्यैः प्रतिपादयितुमिष्टम् । न विद्मस्तद्वाक्यानामापातप्रतीतार्थस्त्व-त्तात्पर्यविषयो न भवतीति विद्म इत्यर्थः । एतदेवाहुः ॥ कृतो म इत्यादिना । यद्यस्मादध्यक्षोऽधि-पतिरितरानुग्रहापेक्षाविधुरोऽपि सन् तदनुग्रहो म इति वाक्येन मेऽयमेवानुग्रहः कृत इति प्रभाषसे तस्मादयमेवार्थो न तवेष्टः किं त्वन्य एवेति जानीम इत्यर्थः ॥ १६ ॥

ब्रह्मण्यस्य परं दैवं ब्राह्मणाः किल ते प्रभो ।

विप्राणां देवदेवानां भगवानात्मदैवतम् ॥ १७ ॥

पदरत्नावली

अस्मदुक्तेरन्यथाकरणासंभवात् कस्मादज्ञानं भवतामित्याशङ्क्यास्मद्वचनाद् इत्याहुरित्याह– ब्रह्मण्यस्येति ॥ किलेत्यनेनास्मदितरेषां मोहकम् अस्माकं तु स्तुतिपरमिदमिति सूचितम् । तत्कथमित्यत्राहुरित्याह– विप्राणामिति ॥ हे देव, आत्मदैवतं कुलदेवतम् ॥ १७ ॥

प्रकाशिका

ब्रह्म दैवं परं हि म इत्येतदपि वचनं न प्रतीतार्थपरमित्याहुः ॥ ब्रह्मण्यस्येति । ब्राह्मणपूज्यस्य ते ब्राह्मणाः परं दैवं किल । किलेत्यनेन प्रतीतार्थो बाधित इति सूचयति । कुतो भगवतो ब्राह्मणपूज्यत्वमित्यत आह ॥ विप्राणामिति । देवदेवानां देवपूज्यानां विप्राणां भगवानात्मदैवतं स्वदैवतम् । कुलदेवतेति यावत् ॥ १७ ॥

त्वत्तः सनातनो धर्मो रक्ष्यते तनुभिस्तव ।

धर्मस्य परमो गुह्यो निर्विकारो भवान् मतः ॥ १८ ॥

तात्पर्यम्

धर्मस्यापि दुर्ज्ञेयः ॥ १८ ॥

पदरत्नावली

कुतो हेतोरित्यत उक्तम्– त्वत्त इति ॥ विप्रादिसर्ववर्णैर्ब्रह्मचर्याद्याश्रमिभि-श्चानुष्ठेयः सनातनो वेदवेद्यत्वेन नित्यो धर्मस्त्वत्तो भूत्वा वर्तते क्षेत्रादिवत् । कालतो द्रव्यतो नोत्साद्यते । कथं वृत्तिरत्राहुरित्याह– रक्ष्यत इति ॥ तनुभिर्मत्स्याद्यवतारैः । ‘यदा यदा हि धर्मस्य ग्लानिर्भवति भारत’ इत्यादेः । लटा सनातनत्वमवधारयति । भवान् क इति तत्राहुरित्याह– धर्मस्येति ॥ ‘वायुना वै गौतम सूत्रेण’ इत्यादिश्रुत्या सर्वधारकत्वेन मतो धर्मो वायुस्तस्य मातृत्वेन परोत्तमा मा श्रीर्यस्य स तथोक्तः । लक्ष्म्यादिमुक्तसमुदायाद् वाय्वाद्यमुक्तजगतोऽपि श्रेष्ठो भवानित्यर्थः । अत्र किं प्रमाण-मित्युक्तम्– गुह्य इति ॥ धर्मस्येत्यनुवर्तते । अपीतिपदमध्याहृत्य वाक्ययोजना । ‘‘गुह संवरण’’ इति धातोर् वायोरपि गुह्यः संवार्यः दुर्ज्ञेय इत्यर्थः । नीलिम्ना आकाशादिवत् केनापि विकारेण ज्ञेयः किं न स्याद् इत्यत उक्तम्– निर्विकार इति ॥ उक्तचोद्यस्य किमुत्तरमित्यत उक्तम्– मत इति ॥ भवानिति वर्तते । मनु अवबोधन इति धातोः । ‘एष सर्वेश्वरः’ इत्यादिना ‘निर्विकार सदा शुद्धः’ इत्यादिना च भवानवबुद्धः सम्यक् ज्ञात इत्यादिकं मानमुत्तरमुक्तं भवति । अनेन वायोरपि दुर्ज्ञेयत्वे शशशृृङ्ग-तुल्यमिदमिति चोद्यं निरस्तम् । तेन तद्विषयज्ञानसाकल्यं निषिध्यते । न तु ज्ञानमात्रम् । अत एव गुह्य इत्युक्तं समाधिना ज्ञातुं शक्यो न घटादिवत् सुज्ञेय इति । यद्वा धर्मस्य मुख्यविषयो भवानेव । न स्वर्गादिरित्याहुरित्याह– धर्मस्येति ॥ कुतो न स्वर्गादिरित्यत उक्तम्– निर्विकार इति ॥ स्वर्गादेः प्राकृतत्वेनानित्यत्वादस्य तु निर्गुणत्वेन स्वतोऽन्यतो वा तद्धर्मराहित्यात् । धर्मकारयितृत्वेन निरुपाधि-स्वातन्त्र्यात् तत्फलदत्वस्य च नित्यत्वसम्भवादिति भावः ॥ १८ ॥

प्रकाशिका

कुत इत्यतस्तैरनुष्ठीयमानधर्मरक्षकत्वात्तवेत्याहुः ॥ त्वत्त इति । त्वत्तो मूलरूपात् । तव तनुभिः कपिलाद्यवतारैश्च । ब्रह्म दैवं परं हि म इति वाक्यमितोऽपि न प्रतीतार्थपरमित्याहुः ॥ धर्मस्येति । धर्मस्याचेतनस्य गुह्य इत्येतदसम्भावितार्थकमतो व्याख्याति ॥ धर्मस्यापीति । धर्माभिमानिनो यमस्यापीत्यर्थः । गुह्य इत्यस्यार्थः दुर्ज्ञेय इति । इतरेषां दुर्ज्ञेयत्वे किमु वाच्यमिति कैमुत्यार्थोऽपिशब्दो मूलेऽध्याहार्य इति सूचयति । अनेन ब्राह्मणैरनुष्ठीयमानधर्माभिमानिनो यमधर्मस्यापि सकाशाद्भगवान्परम उत्तमः । कुतः । यतस्तस्यापि गुह्यो दुर्ज्ञेयः । तर्ह्यव्यक्तवद्विकारी स्यादित्यत उक्तम् । निर्विकार इति । मतः श्रुत्यादिभिरेवं ज्ञातः । अतस्तव कथं ब्राह्मणा देवाः स्युरिति शेषः ॥ १८ ॥

तरन्ति ह्यञ्जसा मृत्युं निवृत्ता यदनुग्रहात् ।

योगिनः स भवान् किंस्विदनुगृह्येत यत् परैः ॥ १९ ॥

पदरत्नावली

मुक्तामुक्तप्रपञ्चोत्तमत्वमर्थादुक्तम् । तदिदानीं घटयन्तीत्याह– तरन्तीति ॥ निवृत्ता निवृत्तिधर्मनिष्ठा योगिनो ज्ञानिनो यस्यानुग्रहान् मृत्युं संसारमञ्जसा तरन्ति हि । ‘यस्य प्रसादात्’ इत्यादिश्रुतिसिद्धत्वात् । संसारोन्मूलकत्वेन स मुक्तामुक्तोत्तमो भवान् परैरन्यैर्ब्राह्मणादिभिरनुगृह्येतानु-ग्रहपात्री क्रियेतेति यत् तत् किंस्वित् ? विप्रस्तुतिमन्तरेण न किमपीत्यर्थः ॥ १९ ॥

प्रकाशिका

इतोऽपि तदनुग्रहो म इति वाक्यं न प्रतीतार्थपरमित्याहुः ॥ तरन्तीति । निवृत्ता निवृत्तधर्मनिष्ठाः । स भवान् परैरन्यैर्ब्राह्मणादिभिरनुगृह्येतानुग्रहोपजीवनं क्रियेतेति यत्तत्किंस्वित् । विप्रस्तुतिमन्तरेण न किमपीत्यर्थः ॥ १९ ॥

यं वै विभूतिरुपयात्यनुवेलमन्यै-

रर्थार्थिभिः स्वशिरसा धृतपादरेणुः ।

धन्यार्पिताङ्घ्रितुलसीनवदामधाम्नो

लोकं मधुव्रतपतेरिव कामयाना ॥ २० ॥

तात्पर्यम्

मधुव्रतपतेः सारग्राहिणां पतेः । अङ्घ्रिस्थतुलसीलोकं स्थानमुरसिस्थापि स्पर्धयेव कामयाना । ‘लब्ध्वाऽपि वक्षसि पदमि’ति च ॥ २० ॥

पदरत्नावली

लक्ष्म्या उत्तमत्वं स्पष्टयन्तीत्याह– यं वा इति ॥ वा इत्यनेन ‘मम योनि-रप्स्वन्तः’ इत्यादिवाक्यं प्रमाणयति । विभूतिः श्रीर् अन्यैर्ब्रह्मादिभिर् विरक्तिभक्त्याद्यर्थार्थिभिः । नित्यप्राप्तभगवदनुग्रहाया नित्यमुक्तायाः प्राप्यप्रयोजनान्तराभावादनुधावनं किमर्थमित्याशङ्क्य सेवाया आनन्दैकरूपत्वेन स्वभावत्वेऽपि लोकविडम्बनमेव प्रयोजनमिति भावेन विशिंषन्तीत्याह– धन्येति ॥ धन्यैर्भक्तिज्ञानादिगुणपूर्णत्वेन स्वर्गादिफलानिच्छुभिरर्पितमङ्घ्रितुलसीनवदाम यत् तस्य धाम्नो धारकस्य तव तुलस्या लोकं स्थानं चरणयुगलमुच्चोरसि स्थिता स्पर्धयेव कामयमाना ममैतत्स्थानं भूयादिति भावं दर्शयन्ती यं निषेवत इत्यर्थः । न चेदमविज्ञातं हरिणेति भावेनोक्तम्– मधुव्रतपतेरिति ॥ मधुनो रसस्य व्रतं भुक्तिर्येषां ते मधुव्रताः सारभोजिनस् तेषां पत्युः । ‘व्रतं विष्णुवर्षेज्यातपोमासाग्निभुक्तिषु’ इत्यभि-धानात् । लब्ध्वापि वक्षसि पदमित्यस्मादुक्त एवार्थः ॥ २० ॥

प्रकाशिका

यच्चोक्तं विप्राणां चरणपद्मपवित्ररेणोः सेवया प्रतिलब्धशीलमित्यादि तदपि न प्रतीतार्थपरमित्याहुः । यं वा इति श्लोकद्वयेन । अत्र मधुव्रतपतेरित्यस्य प्रकृतोपयुक्तं यौगिकार्थं दर्शयति ॥ मधुव्रतपतेरिति । सारग्राहिणां सारभोजिनाम् । अनेन मधुनः सारस्य व्रतं भुक्तिर्येषां ते मधुव्रतास्तेषां पतेः पत्युरिति योगं दर्शयति । अस्य धन्यार्पिताङ्घ्रितुलसी नवदामधाम्नो लोकमित्यनेनान्वय इत्यभिप्रेत्य तत्पदद्वयतात्पर्यमाह ॥ अङ्घ्रिस्थेति । अङ्घ्रिस्थतुलसीत्यनेन धाम्न इत्यन्तस्य तात्पर्यमुक्त-मित्यवगन्तव्यम् । स्थानमङ्घ्रिरूपम् । अनेन धन्यैरर्पितमङ्घ्र्योर्यत्तुलस्या नव दाम तद्धाम्नस्तत्स्वरूपस्य लोकं स्थानमिति मूलं व्याख्येयमिति सूचयति । धामशब्दस्य स्वरूपार्थकत्वद्योतनायैवाङ्घ्रिस्थ-तुलसीत्येवोक्तम् । यं वै विभूतिरित्यत्र योग्यताबललब्धमध्याहारं दर्शयति ॥ उरसिस्थाऽपीति । इवशब्दस्याध्याहृतस्पर्धयेत्यनेनान्वयमभिप्रेत्य योजयति ॥ स्पर्धयेवेति । अस्या एवमुत्तमस्थानं कुत इति स्पर्धयेवेत्यर्थः । कामयाना कामयमाना । अत्र प्रमाणसंवादमाह ॥ लब्ध्वाऽपीति । ‘‘लब्ध्वाऽपि वक्षसि पदं किल भृत्यजुष्टमि’’त्यादिरूपं वचनं यतोऽस्त्यत उक्त एवार्थः ॥

ततश्चायं श्लोकार्थः ॥ यमिति यच्छब्दस्य सत्त्वमित्युत्तरेणान्वयः । वैशब्दः प्रमाणप्रसिद्धिद्योतकः । विभूतिर्महालक्ष्मीरुरसि स्थिताऽपि मधुव्रतपतेः सारग्राहिणां पत्त्युस्तव, धन्यैर्भक्तैरर्पितमङ्घ्र्योर्विद्यमानं यत्तुलस्या नव दाम तद्धाम्नस्तत्स्वरूपस्य दामरूपेणाङ्घ्रिस्थतुलस्या इति यावत् । दामग्रहणं चरणयोर्बहु-तुलसीसमावेशाय । लोकं स्थानम् अङ्घ्रियुगलम् । स्पर्धयेव न वस्तुतस्तस्याः स्पर्धाऽस्तीति सूचनायेव-शब्दः । कामयाना कामयमाना सती यमनुवेलं प्रति प्रातरादिकालं सेवितुमुपयाति । कथम्भूता । अर्थार्थिभिश्चतुर्विधपुरुषार्थार्थिभिर्ज्ञानभक्त्याद्यर्थिभिर्वा अन्यैः (ब्रह्मादिभिः) ब्राह्मणादिभिः स्वशिरसा धृतः पादरेणुर्यस्याः सा । अनेन ब्राह्मणसेव्यरमासेव्यस्य तव ब्राह्मणपादरेणुसेवया श्रीर्मां न विजहातीति वचनं न प्रतीतार्थमित्युपपादितमिति ज्ञातव्यम् । तर्हि श्रीर्मां कुतो न विजहातीत्यतः स्वभावादेवेति वक्तुं यं वै इत्यादि शिष्टं वाक्यम् । अत्रैवमुत्प्रेक्षा । ब्रह्माद्युत्तमा लक्ष्मीः स्वयमुरसि संस्थिताऽपि तुलसी स्थानमङ्घ्रिमुरोलक्षणस्वस्थानवदधिकमिति मत्वाऽङ्घ्रिस्थानमपि तुलसी स्पर्धयेव कामयाना सती स्वभावादेव भगवन्तमनुवेलं सेवितुमुपयातीति लक्ष्म्याः स्वस्थानवत्तुलसीस्थानस्याङ्घ्रेः कथमुत्तमत्वं ज्ञातं येन तदपेक्षया सेवितुमुपयातीत्यत उक्तम् ॥ मधुव्रतपतेरिति । इदमुक्तं भवति । भगवता हि तुलस्या अङ्घ्रियुगलं स्थानं दत्तम् । अत एव भक्तैः सा तत्रैव दामादिस्वरूपाऽर्प्यते । तुलसी चातीव भगवतः प्रिया प्रसिद्धा । तस्य सारग्राहिपतित्वात् । तुलस्याश्च तद्ग्राह्यसारवत्वात् । न हि तस्या अनुत्तमं स्थानं भगवान् दास्यति । अतोऽङ्घ्रिलक्षणं तुलसीस्थानं मत्स्थानवदुत्तममेव भवितुमर्हतीति ज्ञातव्यमिति ॥२०॥

यस्तां विविक्तचरितैरनुवर्तमानां

नात्याद्रियत् परमभागवतप्रसङ्गः ।

स त्वं द्विजानुपथपुण्यरजःपुनीतिः

श्रीवत्सलक्ष्म किमगा भगभाजनत्वम् ॥ २१ ॥

तात्पर्यम्

परमभागवतत्वेन तस्यामत्यादरः । न तु कामात् । ‘हरिभक्तिर्हरेः प्रीति-र्ज्ञानानन्दादयो गुणाः । अधिकारे च मुक्तौ च ब्रह्मवाय्वोश्च तत्स्त्रियोः । शेषवीन्द्रहराणां च तत्स्त्रीणां वासवादिनाम् । यथाक्रमं तु विज्ञेया भूमौ कारणतोऽन्यथा । देहस्य लक्षणं नैव भूमावप्यन्यथा भवेत् । ब्रह्मादिषु क्रमेणैव नित्यं स्याद्देहलक्षणम् । श्रियोऽधिका गुणाः सर्वे सर्वेभ्यो नियमेन तु । उक्ताश्चैवाप्यनुक्ताश्च ततो विष्णोर्न संशय’ इति तत्त्वनिर्णये ॥ २१ ॥

पदरत्नावली

एवमितरेभ्योऽधिकं निषेवमाणायामस्यां किमपि प्राप्यप्रयोजनान्तराभावात् पूर्वस्मादपरविशेषो नास्ति । किन्तु भागवतानां गुणतारतम्यप्रस्तावे परमभागवतत्वेन प्रशंसाप्रसङ्ग एवेत्याह– यस्तामिति ॥ विविक्तचरितैरनन्यसाधारणसेवाकरणैरनुवर्तमानां तां श्रियं यः नात्याद्रियद् गुणानां प्रतीयमानत्वात्तदधिकार्थोक्त्या आदर नाकरोत् । किन्तु परमभागवतत्वेन प्रसङ्गो यस्य स तथोक्तः । एवंविधमहान्त्यः स त्वं द्विजानामनुपथेनानुगमनेन तत्पादपुण्यरजसा पुनीतिः शुद्धिर्यस्य स द्विजानुपथपुण्यरजःपुनीतिः । ‘‘पथ गतौ’’ इति धातुः । श्रीवत्सलक्ष्म श्रीवत्साख्यलाञ्छनमगाः किम् ? भगभाजनत्वं सौभाग्यपात्रत्वं वा अगच्छः किमित्याक्षेपः । अत इदं भगवदुक्तं सर्वं विप्रस्तुति-परमिति सिद्धम् । यद्ययं शास्त्रतात्पर्यार्थः स्यात् तर्हीदं स्तुतिपरं स्यात् तत्कुत इतीयमाशङ्का ‘हरिभक्ति-र्हरेः प्रीतिर्ज्ञानानन्दादयो गुणाः । अधिकारे च मुक्तौ च ब्रह्मवाय्वोश्च तत्स्त्रियोः । शेषवीन्द्रहराणां च तत्स्त्रीणां वासवादिनाम् । यथाक्रमं तु विज्ञेया भूमौ कारणतोऽन्यथा । देहस्य लक्षणं चैव भूमावप्यन्यथा भवेत् । ब्रह्मादिषु क्रमेणैव नित्यं स्याद्देहलक्षणम् । श्रियोऽधिकगुणाः सर्वे सर्वेभ्यो नियमेन तु । उक्ताश्चैवाप्यनुक्ताश्च ततो विष्णोर्न संशयः ’ इत्यनेन परिहृतेति ॥ २१ ॥

प्रकाशिका

यदपि ‘‘विरक्तमपि मां न विजहातीति वैराग्यवचनं तदपि तस्यां न सर्वथा रागाभावपरं किन्तु कामप्रयुक्तरागाभावपरमेवेत्याहुः ॥ यस्तामिति । अत्र परमभागवतेषु प्रकृष्टः सङ्ग स्नेहो यस्य स भगवान् तां नात्याद्रियदितीतरभगवद्भक्तापेक्षया रमायां भगवत आदराभावः प्रतीयतेऽ-तोऽत्र विवक्षितं तात्पर्यं दर्शयति ॥ परमेति । परमभागवतत्वेन निमित्तेन । अनेन परमभागवतपदं भावप्रधानं तृतीयान्तं समस्तमिति दर्शितम् । तस्यां रमायामित्यनेन परमभागवतपदं नेतरभागवतपरं किन्तु रमापरमेवेति सूचितम् । प्रसङ्गशब्दस्य व्याख्यानम्– अत्यादर इति ॥

ततश्चायमर्थः ॥ यो भगवान् विविक्तचरितैरसाधारणपरिचरणैरनुवर्तमानां सेवमानां तां श्रियं नात्याद्रियत्स्त्रैणवन्न कामितयाऽऽद्रितवान् ।

ननु तर्हि रमायां भगवदादरसद्भावप्रतिपादकवाक्यविरोध इत्यत उक्तम् ॥ परमभागवतत्वेनेति । परमभागवतत्वेन सर्वोत्तमभगवद्भक्तत्वेन तस्यां प्रसङ्गः प्रकृष्टः सङ्गः स्नेहो यस्य स तथोक्तः । तथा चादरप्रतिपादकवाक्यानां तादृशादरपरत्वान्न विरोध इति भावः । स्यादेवं यदि परमभागवतत्व-प्रयोजकगुणवत्त्वं तस्याः प्रसिद्धं स्यात्तदेव कुत इत्यतोऽत्र प्रमाणमाह ॥ हरिभक्तिरिति । अधिकारे पारमेष्ठ्यादिपदाधिपत्यकाले । यथाक्रमं तु यथाक्रममेव । नन्वेतेषामवतारेषु भक्त्यादिगुणव्यत्यासोऽपि दृश्यतेऽतः कथमुक्तनियम इत्यत आह ॥ भूमाविति । कारणतो मानुषान्नोपभोगादिकारणतः । अन्यथोक्तगुणव्यत्यासः । दृश्यत इति शेषः । ननु भूमौ तेषां ज्ञानादिह्रासवल्लक्षणह्रासोऽपि भवति किं नेत्याह ॥ देहस्येति । लक्षणं द्वात्रिंशल्लक्षणेषु येषां यावत्क्लृप्तं तावदित्यर्थः । अन्यथा व्यत्यस्तम् । लक्षणमपि ब्रह्मादिषु तारतम्येनैवास्तीति प्रसङ्गादाह ॥ ब्रह्मादिष्विति । तुशब्दो भूम्यादौ सर्वत्रेत्यर्थकः । एवशब्दस्य विष्णोरित्यनेन सम्बन्धः । अपिशब्दोऽधिका इत्यस्यानुकर्षणार्थकः । अनेन विविक्त-चरितैरनुवर्तमानामित्येतद्विविक्तैः सेवकतारतम्यान्तगैश्चरितैर्भक्त्यादिपूर्वकपरिचरणैरिति व्याख्यानेन रमायाः परमभागवतत्वोपपादकमिति सूचयति । इदानीं विप्राणां पादपद्मरेणोः सेवया प्रतिलब्धशीलमित्येतदपि न प्रतीतार्थपरमित्याहुः ॥ सत्वमिति । यो द्विजानामनुपथेनानुगमनेन । पथ गताविति धातोः । पुण्यं यत्स्वपादरजस् तेन द्विजानां पुनीतिः शुद्धिर्यस्मात् स त्वं, स्वपादरजसा द्विजपवित्रकरस्त्वं, द्विजपाद-पद्मरेणुसेवया श्रीवत्सलक्ष्म श्रीवत्सलाञ्छनवत्वस्वभावं, भगभाजनत्वमैश्वर्यादिगुणपात्रस्वभावं वाऽगा अगच्छः । किमित्याक्षेपः । अत इदं भवदुक्तं सर्वमस्मत्स्तुतिपरमसुरजनमोहनपरं चेत्येव वयं जानीम इति भावः ॥ २१ ॥

धर्मस्य ते भगवतस्त्रियुग त्रिभिः स्वैः

पद्भिश्चराचरमिदं द्विजदेवतार्थम् ।

नूनं भृतं तदभिघाति रजस्तमश्च

सत्त्वेन नो वरदया तनुवा निरस्य ॥ २२ ॥

तात्पर्यम्

‘धारणाद्भगवान्धर्मो यमनाद्यम उच्यते’ इति शब्दनिर्णये । ‘अनन्तासन-वैकुण्ठक्षीरसागरगैस्त्रिभिः । रक्षां करोति भगवान् कपिलः सत्ववर्धनात् । असत्वोऽपि रजश्चैव तमश्चापि निरस्य तु’ इति मूर्तिभेदे ॥ ‘कपिलो वरदश्चैव विकलश्चेति कथ्यते’ इति च । अतः सत्वस्य करणत्वमात्रं कपिलो वरदा तनुः ॥ २२ ॥

पदरत्नावली

इतोऽपि द्विजकुलस्य गोपनीयत्वाभिप्रायेण भगवता द्विजावनादिकं क्रियत इति विज्ञापयन्तीत्याहुः– धर्मस्येति ॥ नूनमन्यत्प्रयोजनमन्तरेण धर्मस्य सर्वधारकस्य । ‘धारणाद् भगवान् धर्मः’ इत्यादेः । भगवतस्ते तव स्वैः स्वरूपभूतैस्त्रिभिरनन्तासनवैकुण्ठक्षीरसागरशायिभिः पद्भिरंशै-र्मूर्तिभिश्चराचरमिदं विश्वं द्विजानां देवतानां प्रयोजनमुद्दिश्य भृतं रक्षितमित्यन्वयः । हे त्रियुग त्रियुगेष्ववतारो यस्य स तथा तस्य सम्बुद्धिः । तत्प्रतिषेधपक्षनिर्मूलनाभावे रक्षणं कथं सङ्गच्छत इत्यत उक्तम्– तदभिघाति ॥ तपआद्यनुष्ठानविरोधिरजस्तमश्च तनुवा मूर्त्या निरस्याभिभूय । कथं मूर्तिरित्यत उक्तम्– नो वरदयेति ॥ अस्माकं ज्ञानप्रदाननिरतया । किमाख्ययेत्यस्यापि इदमेवोत्तरं वरदया कपिलाख्यया । ‘कपिलो वरदश्चैव विकलश्चेति कथ्यते’ इत्यतो गुणवाचकस्य विशेष्याभिधेयत्वं कथमिति निरस्तम् । तापसस्य शान्तस्य कपिलस्य क्षत्रियवदायुधाद्यग्रहणात् कथं विरोधिविनाशकत्व-मित्यत उक्तम्– सत्त्वेनेति ॥ सत्त्वगुणवर्धनेन । निरास इति शेषः । तृतीयया सत्त्वगुणस्य कारणमात्रत्वम् । न मुख्यत्वम् । कपिलस्यैव मुख्यत्वं ज्ञायते । शरेण राम इतिवत् । एवं विशेषार्थः कस्मादयं कल्प्यत इति चोद्यं ‘अनन्तासनवैकुण्ठक्षीरसागरगैस्त्रिभिः । रक्षां करोति भगवान् कपिलः सत्त्ववर्धनात् । असत्त्वोऽपि रजश्चैव तमश्चापि निरस्य तु ॥’ इत्यनेन निरस्तम् ॥ २२ ॥

प्रकाशिका

कुतो भवत्स्तुतिर्मया कर्तव्येत्यपेक्षायां ब्राह्मणानां जगद्धारकधर्मप्रवर्तकत्वा-दित्याशयेनाहुः ॥ धर्मस्येति । अत्र धर्मस्य त इति सामानाधिकरण्येन भगवतो धर्मशब्दवाच्यत्वमुक्तम् । तत्केन निमित्तेनेत्यपेक्षायां तत्र निमित्तं प्रमाणेनाह ॥ धारणादिति । त्रिभिः स्वैः पद्भिस्तपःशौचदया-रूपैरिति नो वरदया, सत्त्वेन सत्त्वमूर्त्येति च व्याख्यानं, प्रमाणविरुद्धमित्याशयेन श्लोकं प्रमाणेनैव व्याख्याति ॥ अनन्तासनेति । त्रिभिः । स्वरूपांशैरिति शेषः । अनेन त्रिभिः स्वैः पद्भिरित्ये-तदुक्तार्थम् । भृतमित्यस्य तात्पर्यम् ॥ रक्षां करोतीति । वरदया तनुवेत्यस्य तात्पर्यम् ॥ कपिल इति । सत्त्वेनेत्यस्य सत्त्वात्मकमूर्त्येति व्याख्यानमसदिति भावेनाह । असत्त्वोऽपि सत्त्वगुणात्मकशरीररहितोऽपि सत्त्ववर्धनादिति । रजस्तमश्च निरस्थेत्यस्य व्याख्यानम् ॥ रजश्चैवेति । चशब्दौ परस्परसमुच्चये । एवशब्दस्य निरस्यैवेति सम्बन्धः । अपिशब्दः सत्त्वविघातित्वरूपविशेषसमुच्चायकः । तुशब्दस्तदुभयकार्य निरासरूपविशेषसूचकः । वरदया तनुवेत्यत्र वरदशब्दः कपिलपर एवेत्याशयेन तत्राभिधानं पठति ॥ कपिल इति । वरदादिशब्देन कपिल एव कथ्यत इत्यन्वयः ।

प्रमाणोदाहरणफलं दर्शयति ॥ अत इति । यतः प्रमाणे असत्त्वोऽपि सत्त्ववर्धनादित्युक्तम् । यतश्च वरदशब्दः कपिलपरत्वेनाभिधानसिद्धोऽत इत्यर्थः । सत्त्वस्य सत्त्वेनेति तृतीयान्तपदेनोक्तस्य करणत्वमात्रमुच्यते । रजस्तमोनिरसन इति शेषः । नतु मूर्त्येत्यर्थकस्य वरदया तनुवेत्यत्र विशेषणत्व-मित्यर्थः । कपिलो वरदा तनुः, वरदया तनुवेत्यत्रोक्तः कपिल एवाङ्गीकार्यः स एव कर्तेत्याशयः ॥ ततश्चायं श्लोकार्थः ॥ त्रिष्वेव युगेष्ववतारकरणात्त्रियुगस्तस्य सम्बुद्धि हे त्रियुग । धारणाद्धर्मनामकस्य ते । स्वैः स्वरूपभूतैस्त्रिभिः पद्भिरनन्तासनवैकुण्ठक्षीरसागरगतैरंशैश्चराचरमिदं विश्वं द्विजानां देवतानामर्थं प्रयोजनमुद्दिश्य । द्विजैर्देवतोद्देश्यकधर्मप्रवृत्त्यर्थमिति यावत् । नूनं निश्चयेन भृतं पालितम् । धर्मोपयोगि- कृतमिति यावत् । किं कृत्वा । तदभिघाति देवतोद्देशेन द्विजैः क्रियमाणधर्माभिघाति रजस्तमश्च राजसां-स्तामसांश्च वरदया तनुवा कपिलाख्येनावतारेण कर्त्रा नोऽस्माकं ब्राह्मणानां सत्त्वेन सत्त्वगुणवर्धनरूपेण करणेन निरस्य निरासं कृत्वेति यावत् ॥ २२ ॥

न त्वं द्विजोत्तमकुलं यदिहात्मगोपं

गोप्ता वृष स्वर्हणेन सुसूनृतेन ।

तर्ह्येव नङ्क्ष्यति शिवस्तव देव पन्थाः

लोकोऽग्रहीष्यदृषभस्य हि यत् प्रमाणम् ॥ २३ ॥

तात्पर्यम्

आत्मैव गोपो गोपको यस्य तदात्मगोपम् ॥ २३ ॥

पदरत्नावली

हे वृष इन्द्र परमैश्वर्यवारिधे । यो द्विजदेवतारक्षैकनिरतः स त्वं यद् यदीह जगति आत्मैव गोपो गोपको यस्य तदात्मगोपं द्विजोत्तमकुलं सुसूनृतेन शोभना मधुरा वाग् यस्य तत् तथा तेन स्वर्हणेन लोकमान्यसत्कारेण न गोप्ता न रक्षितासि देव क्रीडादिगुणपूर्ण तर्हि तदानीमेव तव शिवः शुद्धः पन्थास् तत्त्वविषयो ज्ञानमार्गः शिष्टाचारश्च नङ्क्ष्यति उत्सन्नो भविष्यति । तत्र हेतुगर्भ-विशेषणमाह– लोक इति ॥ लोक इतरो जनः । ऋषभस्य सद्धर्मप्रवृत्तिसमर्थस्य यत् प्रमाणं तद्ध्येवा-ग्रहीष्यत् । ‘यद्यदाचरति श्रेष्ठः’ इत्यादेः ॥ २३ ॥

प्रकाशिका

धर्मप्रवर्तकानां द्विजानां स्तोत्रादिकं यदि त्वं न करोषि तर्हि बाधकमाहुः ॥ न त्वमिति । अत्रात्मगोपमित्येतदात्मनः स्वस्य गोपं गोप्त्रिति प्रतीतिनिरासाय व्याख्याति ॥ आत्मैवेति । गोपो गोप्ता रक्षकः ॥ ततश्चायमर्थः ॥ हे वृष हे श्रेष्ठ हे देव क्रीडादिगुणविशिष्ट । त्वमात्मैव गोपो यस्य तदात्मगोपम् । द्विजोत्तमकुलमिह जगति सु शोभनं सूनृतं मधुरभाषणं यस्मिंस्तेन स्वर्हणेन समीचीनसत्कारेण यदि न गोप्ता रक्षिता तर्हि तदानीमेव तव शिवः शुद्धः पन्थाः स्वप्रीतिसाधनधर्ममार्गो नङ्क्षयत्युत्सन्नो भविष्यति । हि यस्माल्लोक इतरो जनो ऋषभस्य सद्धर्मप्रवर्तकस्य यत्प्रमाणं यद्वाक्यादिमूलकमाचरणं तदेवागृहीष्यत् । यद्यदाचरति श्रेष्ठ इत्यादेः । अतस्त्वया ब्राह्मणानर्हणे कृते लोकोऽपि तथैव करिष्यति । ततश्च धर्ममार्गोच्छेदो भविष्यतीति भावः ॥ २३ ॥

तत्तेऽनभीष्टमिव सत्त्वनिधेर्विधित्सोः

क्षेमं जनाय निजशक्तिभिरुद्धतारेः ।

नैतावता त्र्यधिपतेर्बत विश्वभर्तु-

स्तेजःक्षतिस्त्ववनतस्य स ते विनोदः ॥ २४ ॥

तात्पर्यम्

‘असुरा अप्रियाश्चापि नित्यानन्दान्न लोकवत् । निषेध्यबुद्धिविषयमप्रियं हि हरेर्मतमि’ति च । तस्मादनभीष्टमिव ॥ २४ ॥

पदरत्नावली

ततः किमनिष्टं तत्राह– तत्त इति ॥ यस्मादसुरा अप्रिया अपि लोकस्य यथा दुःखजनकत्वेन न तथा हरेः । नित्यानन्दपूर्णत्वात् । दुःखप्रवेशानवकाशात् । किन्तु निषेधयोग्य-ज्ञानविषयमप्रियं भगवतो मतम् । तदुक्तम् ‘अप्रिया असुराश्चापि नित्यानन्दान्न लोकवत् । निषेध्य-बुद्धिविषयमप्रियं हि हरेर्मतम् ॥ इति’ । तस्मादनभीष्टमित्युक्तम् । सत्त्वनिधेरित्ययं हेतुः । सुखकर-मार्गनाशनं तत्ते तवानभीष्टमिव, न दुःखजनकत्वेन । किन्तु निषेध्यत्वेनैवानभीष्टम् । कुत इति तत्राह– विधित्सोरिति ॥ अशक्तस्येच्छया कोऽर्थ इति तत्राह– नैतावतेति ॥ विप्रावनतस्य तवावनत इत्येतावता तेजःक्षतिर् मानभङ्गलक्षणतेजोभङ्गो नास्ति । तत्र हेतुगर्भविशेषणमाह– त्र्यधीति ॥ न केवलं त्रिलोकीमात्रस्याधिपतिस्तत्रत्यानां समस्तानामविशेषेण वोढेत्याह– विश्वभर्तुरिति ॥ न चानेन किमपि प्रयोजनमित्याह– स त इति ॥ विप्रप्रणामो विनोदो लीलाविलासः । तुशब्देन प्रयोजनान्तरं निवारयति

॥ २४ ॥

प्रकाशिका

नश्यतु को दोष इत्यत आह ॥ तत्ते इति । तद्धर्ममार्गनाशनम् । अनभीष्ट-मिवाप्रियमिव । अत्र वस्तुतोऽभीष्टमेवेति प्रतीतिवारणायेवशब्दसूचितमर्थं दर्शयितुं प्रमाणं पठति ॥ असुरा इति । चापिशब्दौ यद्यपि तथाऽपीत्यर्थौ । नित्यानन्दात् हरेर्नित्यानन्दस्वरूपात् । न लोकवत् । अप्रिया इति शेषः । लोके यथा दुःखजनका अप्रिया इत्युच्यन्ते न तथा हरेरसुरा अप्रिया दुःख-प्रसक्तेरेवाभावादिति भावः । तर्ह्यसुरेषु हर्यप्रियत्वं कीदृशमित्यत आह ॥ निषेध्येति । इदं मा भूदिति निषेधत्वेन निषेध्यबुद्धिविषयत्वेनाप्रियं हर्यप्रियशब्दवाच्यं मतं संमतमित्यर्थः । इदानीमनभीष्ट-मिवेत्यत्रत्येवशब्दं व्याख्याति ॥ तस्मादिति । यस्मात्प्रमाणे हर्यप्रियशब्दवाच्यमन्यदेवोक्तं तस्मा-दित्यर्थः । तथा च धर्ममार्गनाशनं वस्तुतो निषेधबुद्धिविषयरूपमप्रियं भवत्येव । तथाऽपि लोकवद्दुःख-जनकरूपमप्रियं न भवतीति सूचनाय मूले इवशब्द इति भावः । मूले सत्त्वनिधेर्बलज्ञानपूर्णस्य सुखपूर्णस्येति वा । विधित्सोर्विधातुमिच्छोर्निजशक्तिभिः स्वाभाविकज्ञानबलरूपशक्तिमद्भिर्व्यासकपिल-रामकृष्णाख्याभिरुद्धतारेर्विनाशितधर्मप्रतिपक्षस्य तेऽनभीष्टमिव दुःखजनकमिवानन्दपूर्णस्य तव दुःखा-भावेऽपीदं मा भूदिति निषेधबुद्धिविषयं भवत्येवातस्तव ब्राह्मणसत्कारो युक्त एवेति भावः । नन्वेवं-विधस्य मम नीचेषु विप्रेषु प्रणामादिर्मानभङ्गकर इत्यत आह ॥ नैतावतेति । धर्मरक्षण-प्रयोजनेनावनतस्य प्रणतस्य तेजःक्षतिर्मानभङ्गो न । कुतः । यतः स प्रणामादिस्ते विनोदः क्रीडारूपः । तुशब्दोऽवधारणे । विनोद एवेत्यन्वयः ॥ २४ ॥

यं वाऽनयोर्दममधीश भवान् विचष्टे

वृत्तिं च वा तदनुमन्महि निर्व्यलीकम् ।

अस्मासु वा य उचितो ध्रियतां स दण्डो

येऽनागसौ वयमयुङ्क्षमहि किल्बिषेण ॥ २५ ॥

पदरत्नावली

अधीश निरुपमचरिताखण्डेश भवाननयोर्यथावद् यं दमं दण्डं विचष्टे पश्यति अथवात्रैव वृत्तिं स्थितिलक्षणां वयं तत् तयोरेकं निर्व्यलीकं मन्महि अनुजानीमहे । पूर्वदण्डादल्पो दण्डोऽभिमतश्चेत् सोऽस्त्वित्यभिप्रेत्य यं वा दममित्युक्तम् । ये वयमनागसौ स्वतो निष्पापौ किल्बिषेण दोषेणायुंक्ष्महि योजितवन्तस्तेष्वस्मासु य उचितो दण्डः स वा ध्रियतामित्यनेनापि हरेर् विप्रप्रियत्व-मुक्तम् । दण्डाबलत्वं च ध्वनितम् । किलेर्बुक्चेति सूत्रात् किल श्वैत्यक्रीडनयोरित्यस्माद्धातोष् टिषच्-प्रत्ययो भवति बुगागमश्च । दोषेऽभिधेयेऽनेन किल्बिषमिति भवतीति । अनेन स्वत एतौ निर्दोषौ निमित्तात् सदोषाविति सूचितम् ॥ २५ ॥

प्रकाशिका

शापाग्रहं परित्यज्य विज्ञापयन्ति ॥ यं वेति । भो अधीश अखण्डेश । भवान् अनयोर्यं दमं दण्डम् अस्मत्कृतमन्यं वा विचष्टे उचिततया पश्यसि । वृत्तिं वाऽत्रैव स्थितिलक्षणां वा । यदि विचष्टे तत्सर्वं वयं निर्व्यलीकं यथा स्यात्तथाऽनुमन्महि अनुमन्यामहे । ये वयमनागसौ निरपराधौ त्वत्पार्षदौ किल्बिषेण शापेनायुंक्ष्महि योजितवन्तस्तेष्वस्मासु वा य उचितो योग्यो दण्डः स ध्रियतां क्रियताम् ॥ २५ ॥

भगवानुवाच–

एतौ सुरेतरगतिं प्रतिपद्य सद्यः

संरम्भसम्भृतसमाध्यनुबद्धयोगौ ।

भूयः सकाशमुपयास्यत आशु यो वः

शापो मयैव विहितस्तदवैत विप्राः ॥ २६ ॥

तात्पर्यम्

अन्तर्भक्ता बहिःक्रुद्धा हिरण्याद्या हरिं प्रति । सर्वक्रुद्धाः शम्बराद्या अन्तः क्रोधवशास्तथे’ति च ॥ २६ ॥

पदरत्नावली

सनकाद्युक्तेरुत्तरत्वेन पुनरुक्तिं करोति– एताविति ॥ संरम्भो द्वेषोत्कर्षः । तेन सम्भृतः सम्पादितो यः समाधिर्मनस एकाग्रतारूपस्तेनानुबद्धो योगो भक्तियोगो ययोस्तौ तथा । उपयास्यत उपयातमिति । व्यत्ययः, तत्क्रियायाः ‘अन्तर्भक्ता बहिःक्रुद्धा हिरण्याद्या हरिं प्रति । सर्वक्रुद्धाः शम्बराद्या अन्तःक्रोधवशास्तथा ॥’ इति विशेषं सूचयति तयोः ॥ २६ ॥

प्रकाशिका

सर्वप्रेरकेण मयैव शापस्य कारितत्वान्न युष्माकमपराध इत्याश्वासयंस्तन्मोक्षं प्रार्थयते ॥ एताविति । सुरेतरगतिमसुरदेहम् । समुदायापेक्षयैकवचनम् । संरम्भो द्वेषोत्कर्षस्तेन सम्भृतः सम्पादितो यः समाधिश्चित्तैकाग््रयतादिरूपस्तेनानुबद्धो दृढीकृतो योग उपायो ययोस्तौ तथा । उपयास्यत उपयाताम् । यो वो युष्मत्कर्तृकशापः सोऽपि मयैव विहितः प्रेरित इति तच्छापदानमवैत जानीत । अत्र संरम्भसमाध्यनुबद्धयोगयोः कथमेकदैकत्रावस्थानमुच्यते तयोर्विरोधादित्याशङ्कायां समाधानं प्रमाणेनैवाह ॥ अन्तर्भक्ता इति । अन्तः स्वरूपमनसि । बहिर्बाह्ये जडमनसि । क्रुद्धा द्वेषिणः । आद्यशब्देन बल्यादीनां ग्रहणम् । सर्वक्रुद्धाः सर्वत्रान्तर्बहिश्च क्रुद्धा इत्यर्थः । क्रोधवशाः क्रोधवशनामानोऽसुराः, अन्तः स्वरूपमनसि तथा क्रुद्धाः । बहिर्भक्ता इत्यपि ग्राह्यम् । तथा च भक्तिद्वेषाधिकरणयोर्मनसोरत्र भेदान्न विरोध इति भावः ॥ २६ ॥

ब्रह्मोवाच–

अथ ते मुनयो दृष्ट्वा नयनानन्दभाजनम् ।

वैकुण्ठं तदधिष्ठानं विकुण्ठं च स्वयम्भुवम् ॥ २७ ॥

भगवन्तं परिक्रम्य प्रणिपत्यानुमान्य च ।

प्रतिजग्मुः प्रमुदिताः शंसन्तो वैष्णवीं श्रियम् ॥ २८ ॥

तात्पर्यम्

‘स्वरूपश्रीस्तथा भार्या द्वेधा श्रीस्तु हरेर्मते’ति च ॥ २८ ॥

पदरत्नावली

अथोत्तरकथाप्रसङ्गः क इति तत्राह– अथेति ॥ शापमोक्षानन्तरम् । अनुमान्य अनुज्ञाय । श्रियं स्वरूपभूताम् । ‘स्वरूपश्रीस्तथा भार्या द्वेधा श्रीस्तु हरेर्मता’ इति ॥ २७,२८ ॥

प्रकाशिका

अनुमान्य सम्यङ्मानयित्वा वैष्णवीं विष्णुसम्बन्धिनीं श्रियं शंसन्तः सन्तः । अत्र श्रीशब्देन लक्ष्मीग्रहणेऽसङ्गतिमालोच्यान्यां तद्वाच्यां श्रियं प्रमाणेनैव दर्शयति ॥ स्वरूपश्रीरिति । सौन्दर्यमित्यर्थः । भार्या लक्ष्मीः । द्वेधेत्यतः पूर्वमितिशब्दोऽध्याहार्यः । हरेर् हरिसम्बन्धित्वेनोच्यमाना श्रीर् अनेन वैष्णवीमित्येतदुक्तार्थम् । तुशब्दो भार्यापेक्षया स्वरूपश्रियो विशेषसूचकः । तथा च विष्णुसम्बन्धिनीं स्वरूपश्रियं शंसन्त इति मूलं व्याख्येयमिति भावः ॥ २७,२८ ॥

भगवाननुगावाह यातं मा भैष्टमस्तु शम् ।

ब्रह्मतेजः समर्थोऽपि हन्तुं नेच्छे मतं तु मे ॥ २९ ॥

पदरत्नावली

मा भैष्टं भयं न कुरुतम् । शं सुखमस्तु । इच्छे इच्छामि । अपराधान्तर-सद्भावान्मतमित्युक्तम् ॥ २९ ॥

प्रकाशिका

मा भैष्टं भयं न कुरुतम् । नेच्छे नेच्छामि । यतस्तन्मे मतं संमतम् ॥ २९ ॥

एतत् पुरैव निर्दिष्टं रमया क्रुद्धया यदा ।

तदापवारिता द्वारि विशन्ती मय्युपारते ॥ ३० ॥

पदरत्नावली

कोऽसावपराध इति तत्राह– एतदिति ॥ अपवारिता निवारिता । उपारते योगनिद्रामुपगते ॥ ३० ॥

प्रकाशिका

कुतो मतमित्यतस्तत्र कारणान्तरमप्याह ॥ एतत्पुरैवेति । एतद्भवद्दण्डनम् । अपवारिता निवारिता । उपारते योगनिद्रामुपागते सति ॥ ३० ॥

मयि संरम्भयोगेन निस्तीर्य ब्रह्महेलनम् ।

प्रत्येष्यतं निकाशं मे कालेनाल्पीयसा पुनः ॥ ३१ ॥

तात्पर्यम्

‘अन्तर्भक्ता बहिर्वैरा हिरण्याद्या हरेर्मताः । तत्र भक्त्याऽभवन्पूता द्वेष आवेश-कान्गतः । ब्रह्मजा असुरा ये तु विष्णोः पार्षदौ गताः । बल्यादींश्च हरेर्द्वेषं ततः कृत्वा तमोगता’ इति च ॥ तस्मात्संरम्भोऽल्पफलः कथ्यत एव । भक्तियोग एव ब्रह्महेलन-निस्तारकः ॥ ३१ ॥ इति तृतीयतात्पर्ये सप्तदशोऽध्यायः ॥ १७ ॥

पदरत्नावली

ब्रह्मशापसन्ताराय संरम्भ एव भक्तियोगवरमुपदिशन्निवाह– संरम्भेति ॥ एतयोर्भक्तियोगोऽस्तीति कस्मादवगतमितीदं चोद्यम् ‘अन्तर्भक्ता बहिर्वैरा हिरण्याद्या हरेर्मताः’ । तत्र भक्त्याभवनपूता द्वेष आवेशकान् गतः । ब्रह्मजा असुरा ये तु विष्णोः पार्षदतां गताः । कल्याद्याश्च हरेर्द्वेषमन्तःकृत्वा तमो गताः’ इत्यनेन निरस्तम् । अनेन संरम्भो नीचफलो भक्तियोग एव ब्रह्मशाप-निस्तारक इत्युक्तं भवति । पुनः शापाद् व्यावृत्तौ स्वरूपावाप्तौ कालक्षेपो नास्तीत्याशयेनोक्तम्– कालेनेति ॥ ३१ ॥

प्रकाशिका

संरम्भयोगेन द्वेषपूर्वकभक्तियोगेन । प्रत्येष्यतं प्रत्येष्यथः । निकाशं समीपम् । अत्र ब्रह्महेलननिस्तरणकारणत्वं भक्तियोगवत्संरम्भस्यापि कथ्यत इति भाति अन्यथा द्वेषस्य फलान्तरा-वचनेनात्रोक्त्यसम्भवादित्यतोऽत्र प्रमाणोदाहरणपूर्वकं तात्पर्यं दर्शयति ॥ अन्तर्भक्ता इति । भक्त्या स्वरूपभूतभक्त्यैव पूता ब्रह्महेलनं निस्तीर्य शुद्धा जाता इत्यर्थः । तर्हि बाह्यमनसि विद्यमानद्वेषस्य वैफल्यमित्यत आह ॥ द्वेष इति । आवेशकान् आविष्टकान् गतः प्राप्तः फलदानायेति शेषः । के ते आविष्टा इत्यत आह ॥ ब्रह्मजा इति । तुशब्दः प्रसिद्धार्थः । पार्षदौ जयविजयौ गताः प्रविष्टा बल्यादींश्च गताः । यत एवं बाह्यमनसि विद्यमानसंरम्भ आवेशकान् गतो न भक्तेषु फलप्रदस्तस्माद्योग एव भक्तियोग एव ब्रह्महेलननिस्तारक इत्यन्वयः । नन्वेवमसुरावेशप्रयुक्तबाह्यमनोगतद्वेषेण भक्तानां फलाभावे मूले शुभफलसाधनतया तदुक्तिः कथमित्यत आह ॥ तस्मादिति । संरम्भो भक्तानामसुरावेशेन जायमानो द्वेषो यतोऽल्पफलोऽल्पकाले ज्ञानभक्त्यादिह्रासफलकोऽतोऽल्पत्वा-त्तदविवक्षया द्वेषस्यापि शुभफलहेतुत्वमेव कथ्यतेऽसुरजनमोहनार्थमेवेति भावः । कथ्यत एवेत्येवकारेण कथनस्य न स्वार्थे तात्पर्यमिति सूचयति ॥ ३१ ॥

द्वाःस्थावादिश्य भगवान् विमानश्रेणिभूषणम् ।

सर्वातिशयया लक्ष्म्या जुष्टं स्वं धिष्ण्यमाविशत् ॥ ३२ ॥

तौ तु गीर्वाणऋषभौ दुस्तराद्धरिलोकतः ।

हतश्रियौ ब्रह्मशापादभूतां विगतस्मयौ ॥ ३३ ॥

पदरत्नावली

द्वाःस्थौ द्वारपालौ ॥ दुर्मदानां दण्ड एव मदशान्तिहेतुरिति भावेनाह– तौ त्विति ॥ गीर्वाणऋषभौ इति सन्धिकार्याभावादेव श्रेष्ठ्यमौपचारिकमिति दर्शयति । दुस्तराद् ब्रह्मशापतः विगतस्मयौ नष्टमदावभूतामित्यन्वयः ॥ ३३ ॥

प्रकाशिका

गीर्वाणा देवा ऋषभाः श्रेष्ठा ययोस्तौ दुस्तराद् ब्रह्मशापादित्यन्वयः । हरिलोकतो हरिलोक एव । विगतस्मयौ नष्टगर्वौ ॥ ३२,३३ ॥

तदा विकुण्ठधिषणात् तयोर्निपतमानयोः ।

हाहाकारो महानासीद् विमानाग्रेषु पुत्रकाः ॥ ३४ ॥

पदरत्नावली

मदाभावात् तत्रैवावस्थानमभूत् किम् ? नेत्याह– तदेति ॥ विकुण्ठधिषणाद् वैकुण्ठलोकात् । विमानाग्रेषु स्थितानामिति शेषः ॥ ३४ ॥

प्रकाशिका

विमानाग्रेषु । स्थितानामिति शेषः । पुत्रका हे देवाः ॥ ३४ ॥

तावेव ह्यधुना प्राप्तौ पार्षदावृषभौ हरेः ।

दितेर्जठरमाविष्टं काश्यपं तेज उल्बणम् ॥ ३५ ॥

पदरत्नावली

कथाप्रसङ्गं प्रकृते सङ्गमयति– तावेवेति ॥ दितेरुदरं प्रविष्टं कश्यपस्य विद्यमानं काश्यपं तेजो वीर्यं प्राप्तौ ॥ ३५ ॥

प्रकाशिका

काश्यपं तेजो वीर्यं प्राप्तौ ॥ ३५ ॥

तयोरसुरयोरद्य तेजसा यमयोर्हि वः ।

आक्षिप्तं तेज एतर्हि भगवांस्तद् विधित्सति ॥ ३६ ॥

पदरत्नावली

असुरयोरसुराविष्टयोर् आक्षिप्तमभिभूतम् । तस्य प्रतीकारमुपदिशति– एतर्हीति ॥ एतर्हि इदानीम् । तत् तस्य प्रतीकारं विधित्सति कर्तुमिच्छति । कालान्तरे क्रियमाणत्वादपराधपूरणस्य चापेक्षितत्वादिदानीमिच्छैवेत्यतो विधित्सतीति ॥ ३६ ॥

प्रकाशिका

तेजसा प्रभावेनाक्षिप्तं तिरस्कृतं तेजः सूर्यादिकम् । एतर्हीदानीं तत्तस्य प्रतीकारं विधित्सति कर्तुमिच्छति ॥ ३६ ॥

विश्वस्य यः स्थितिलयोद्भवहेतुराद्यो

योगेश्वरैरपि दुरत्यययोगमार्गः ।

क्षेमं विधास्यति स नो भगवांस्त्र्यधीश-

स्त्रातास्मदीयविमृशेन कियानिहार्थः ॥ ३७ ॥

इति श्रीमद्भागवते सप्तदशोऽध्यायः ॥

पदरत्नावली

अधुनैव भवतैव कश्चिदुपायो निरूपणीय इत्याशङ्क्योक्तमेव विवृणोति– विश्व-स्येति ॥ विश्वस्य स्थित्यादिहेतुरित्यनेनास्य तत्कर्तुकत्वं सूचयति । योगेश्वरैर्ब्रह्मादिभिरपि दुरत्ययो दुर्ज्ञेयो योगमार्ग उपायप्रकारो यस्य स तथा । क्षेमं प्राप्तरक्षां विधास्यतीत्यनेन नेदानीं काल इति सूचयति । उत्तरकाले को निश्चय इत्यत उक्तम्– त्रातेति ॥ त्राणशीलत्वात् करिष्यत्येवेति निश्चयोपपत्तेः । हेत्वन्तरं चाह– त्र्यधीश इति ॥ त्रयाणां लोकानामीश्वरा इन्द्रादयस्तेषामीश्वर ऐश्वर्यकर्तृत्वेन स्वामी । त्राणोपेक्षायामिन्द्राद्यैश्वर्यमपि न स्यादिति । फलितमाह– अस्मदीयेति ॥ अस्मदीयेन विमर्शेनोपाय निर्मार्गणेन कियानर्थः ? न कोऽपीत्यर्थः । ‘स्यादध्यधिक ईश्वरे’ इति यादवः ॥ ३७ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे सप्तदशोऽध्यायः ॥

प्रकाशिका

अधुनैव भवता कश्चिदुपायोऽत्र विचारणीय इत्यत आह ॥ विश्वस्येति । विश्वस्येत्यनेन तस्यैव प्रकृतकार्यकर्तृत्वं मुख्यमिति सूचयति । योगेश्वरैर्ब्रह्मादिभिर्दुरत्ययो दुर्ज्ञेयो योगमार्ग उपायप्रकारो यस्येत्यनेनोपायाभिज्ञत्वम् । क्षेमं प्राप्तरक्षां विधास्यतीत्यनेन नायमवसर इति सूचयति । उत्तरकालेऽपि करिष्यतीति कथं निश्चय इत्यत उक्तम् ॥ त्रातेति । त्राणशीलत्वात्करिष्यत्येवेति निश्चय इति भावः । हेत्वन्तरं चाह ॥ त्र्यधीश इति । त्रयाणां लोकानामधीश्वरा इन्द्रादयस्तेषामपीश्वर इत्यर्थः । भवत्पालन एव बद्धदीक्ष इति यावत् । फलितमाह ॥ अस्मदीयेति । विमृशेनोपायविचारेण जायमानोऽर्थः कियानल्प एवेत्यर्थः ॥ ३७ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां सप्तदशोऽध्यायः ॥ ३-१७ ॥