१६ षोडशोऽध्यायः

प्राजापत्यं तु तत् तेजः परतेजोहनं दितिः

अथ षोडशोऽध्यायः

मैत्रेय उवाच–

प्राजापत्यं तु तत् तेजः परतेजोहनं दितिः ।

दधार वर्षाणि शतं शङ्कमानाऽसुरार्दनात् ॥ १ ॥

पदरत्नावली

जयविजययोः शापमोक्षयोः प्रदानरूपसनकादिमहिम्नो वर्णनेन तेषां भगव-त्समाधिसमुद्रेकसमुद्भूतमाहात्म्येन निरुपचरितमहिमा हरिरिति निरूप्यतेऽस्मिन्नध्याये । तत्रादौ दित्या पुनः किमकारीति विदुरस्य हार्दं प्रश्नं परिहरति– प्राजापत्यमिति ॥ प्रजापतेः कश्यपस्येदमिति यथाविहितप्रत्ययः । परेषां तेजस्विनां तेजो हन्ति हरतीति परतेजोहनम् । असुरार्दनाद्धरेर्वधं शङ्कमाना

॥ १ ॥

प्रकाशिका

प्राजापत्यं प्रजापतेः कश्यपस्य सम्बन्धि तेजो वीर्यं, परेषां तेजः सामर्थ्यं हंतीति परतेजोहनम् । असुरार्दनाद्धरेर्वधं शङ्कमाना सती ॥ १ ॥

लोके तेन हृतालोके लोकपाला हतौजसः ।

न्यवेदयन् विश्वसृजे ध्वान्तव्यतिकरं दिशाम् ॥ २ ॥

पदरत्नावली

किमतस्तत्राह– लोक इति ॥ तेन गर्भेण लोके हृतालोके अपहृतप्रकाशे सति तत्परिहारार्थं हृतौजसो नष्टसामर्थ्या इन्द्रादिलोकपाला दिशां ध्वान्तव्यतिकरमन्धकारेण प्राप्तं व्यत्ययम् उपद्रवमित्यर्थः ॥ २ ॥

प्रकाशिका

तेन गर्भेण हृतालोके निरस्तसूर्यादिप्रकाशे तत्परिहारार्थं हतौजसो नष्टसामर्थ्याः । विश्वसृजे ब्रह्मणे । ध्वान्तेन कृतं व्यतिकरं व्यत्यासम् । दिगन्तरे दिगन्तरभ्रममिति यावत् ॥ २ ॥

देवा ऊचुः–

तम एतद् विभो वेत्थ संविग्ना यद् वयं भृशम् ।

न ह्यव्यक्तं भगवतः कालेनास्पृष्टवर्त्मनः ॥ ३ ॥

पदरत्नावली

यद् येन सिंविग्ना भ्रान्ता वयम् एतत् तमो वेत्थ जानासि । तत्रा निमित्तं वदन्ति– न हीति ॥ कालादिव्यवधानेनाज्ञानं स्यादित्यत उक्तम्– कालेनेति ॥ अस्पृष्टमव्यवहितं ज्ञानवर्त्म यस्य सः । तथा तस्य, अप्रतिबद्धज्ञानमार्गस्येत्यर्थः ॥ ३ ॥

प्रकाशिका

वेत्थ जानासि । यद्यतो वयं संविग्ना भ्रान्ता हि यस्माद्भगवतस्तवाव्यक्तमज्ञानं न । कुत इत्यत उक्तम् । कालेनेति । कालेन कालादिनाऽस्पृष्टमतिरोहितं वर्त्म ज्ञानमार्गो यस्य स तथा

॥ ३ ॥

देवदेव जगद्धातर्लोकनाथ शिखामणे ।

परेषामपरेषां वा त्वं भूतानामसि भाववित् ॥ ४ ॥

पदरत्नावली

एतदेव विवृणोति– देवदेवेति ॥ परेषामुत्तमानामपरेषामधमानामतीतानागतानां च भूतानां भाववित् हृदयज्ञोऽसीति यदतो व्यक्तं जानासीति भावः ॥ ४ ॥

प्रकाशिका

तस्य सार्वज्ञ्यमेव विशदमाहुः ॥ देवदेवेति । परेषामुत्तमानामपरेषामधमानां भावविदभिप्रायज्ञोऽसि । केनाभिप्रायेण दितेर्गर्भोऽवर्धत इति जानासीत्यर्थः ॥ ४ ॥

नमो विज्ञानवीर्याय माययेदमुपेयुषे ।

गृहीतगुणभेदाय नमस्तेऽव्यक्तयोनये ॥ ५ ॥

पदरत्नावली

सर्वस्मात् प्रणतिरेव प्रसादजननीति मत्वा तत्पूर्वकं स्तुवन्ति– नम इति ॥ विज्ञानवीर्याय अप्रतिबद्धज्ञानाय । तदेव विशदयति– माययेति ॥ मायया श्रीनारायणानुगृहीतप्रज्ञाबलेन इदं विश्वमुपेयुषे ज्ञातवते । रजआदिगुणेन ज्ञानप्रतिबन्धः सम्भाव्यत इत्यत उक्तम्– गृहीतेति ॥ हर्याज्ञया अनुपद्रावकत्वेन गृहीतरजआदिगुणविशेषाय । इतोऽपि ज्ञानवीर्यं तवैवेति भावेन स्तुवन्ति– नमस्त इति ॥ व्यक्तं ब्रह्माण्डं तस्य योनये कारणाय । सृज्येषु वस्तुषु ब्रह्माण्डसर्जनस्यातिबहुल-ज्ञानसापेक्षत्वात् । तस्य स्रष्टुर्ब्रह्मणोऽतिशयितज्ञानमस्तीति किं वक्तव्यमिति निरूपितम् । सर्वेषां ज्ञानादिगुणप्रतिबन्धका रजआदिगुणाः कथमस्य न विरोधकाः ? । हरिप्रसादादिति चेत् तत्प्रसादसम्भवोऽपि कथमित्यतो वाह– अव्यक्तेति ॥ अव्यक्तं ब्रह्म यद् योनिः कारणं यस्य स तथा तस्मै । ‘यो ब्रह्माणं विदधाति’ इति श्रुतेः । ‘तेने ब्रह्म हृदा य आदिकवये’ इति च । अतः स्वपुत्र-त्वेन सर्वानुग्रहपात्रत्वान्न तस्य सत्त्वादिगुणाः परिपन्थिन इति ॥ ५ ॥

प्रकाशिका

प्रकृतोपद्रवशान्तिकरणाय स्तुतिपूर्वकं नमन्ति ॥ नम इति । विज्ञानवीर्याय विशेषज्ञानलब्धपराक्रमाय । मायया हरेरिच्छयेदं पारमेष्ठ्यं पदमुपेयुषे ज्ञातवते । गृहीतः सर्जनो-न्मुखीकृतो गुणभेदो गुणविशेषो रजोगुणो येन स तथा तस्मै । अव्यक्तं परं ब्रह्म योनिः कारणं यस्य तस्मै ॥ ५ ॥

ये त्वाऽनन्येन (त्वामनन्य-)भावेन भावयन्त्यात्मभावनम् ।

आत्मनि प्रोतभुवनं परं सदसदात्मकम् ॥ ६ ॥

पदरत्नावली

यस्य यदभीष्टं तत्प्राप्तये तेन तथानुष्ठेयमिति मन्वाना दितिगर्भनिमित्ततिमिरप्राप्त-पराभवपरिहरणाय तादृशगुणविशिष्टत्वेन स्तुवन्तीत्याह– य इति ॥ ये पुरुषा अनन्यभावेन हरेरन्यः स्वतन्त्रो नास्तीति ज्ञानदृढीकृतभक्त्या त्वां भावयन्ति निरन्तरोपासनया वशीकृर्वन्ति तेषां पुंसां न कुतश्चित् पराभव इत्यन्वयः । पराभवकर्तृणां त्वत्सृष्टजीवान्तर्गतत्वेन त्वन्नियतत्वान्न ते तावकान् द्रुह्यन्तीति भावेनोक्तम्– आत्मभावनमिति ॥ आत्मनो जीवान् भावयन्युत्पादयतीत्यात्मभावनस्तम् । आत्मनः परमात्मनो भावनया निरन्तरोपासनया प्रवृद्धतदनुग्रहस्य तवासाध्यं नास्तीत्यतो वा– आत्म-भावनमिति ॥ आत्मनो भावनं यस्य स तथा तम् । न केवलं जीवजातं त्वदुत्पन्नत्वेन त्वदधीनम् । किन्तु चेतनाचेतनात्मकं सर्वमपि त्वया धृतमित्याहुरित्याह– आत्मनीति ॥ त्वमपि जीवेष्वेक इति मन्दाशङ्कां निवारयति– परमिति ॥ परं सर्वोत्तमम् । अनेन जीवोत्पादकत्वेऽनुपपत्तिः परिहृता । महदादिकार्यकारणव्यापित्वेन सर्वोत्तमत्वं युक्तमिति भावेनोक्तम्– सदसदात्मकमिति ॥ न केवलं भारधरदेवदत्तवज्जगद्धारकत्वमस्य । किन्तु अन्तर्बहिर्व्याप्तत्वेनापीत्यतो वोक्तम्– सदसदात्मकमिति ॥ सन्त आत्मनो मुक्ताः, असन्त आत्मनोऽमुक्ताः, येषामुभयेषामपि कं सुखं यस्मात् तत् तथोक्तम् ॥६॥

प्रकाशिका

दितिगर्भप्राप्ततिमिरकृतोपद्रवपरिहारः सर्वोपद्रवनाशकत्वादुपासकानामस्माकमवश्यं भविष्यतीत्येवेत्याशयेनाहुः ॥ ये त्वेति । ये पुरुषास्त्वा त्वामनन्येन भावेनायमेवास्माकं मुख्य गुरुरिति-भक्त्या भावयन्ति ध्यायन्ति तेषां पुंसां न कुतश्चित्पराभव इत्यन्वयः । कुतोऽस्य मुख्यगुरुत्वमित्यत उक्तम् । आत्मभावनमिति । आत्मानं परमात्मानं भावयति ध्यायत्युपदिशति वेत्यात्मभावनस्तम् । ध्याने उपसंहार्यान् गुणान्दर्शयन्ति । आत्मनीति । आत्मनि परमात्मनि प्रोतानि ग्रथितानि स्थापितानि भुवनानि येन स तथा तम् । अत एव परं सर्वजीवोत्तमं सदसदात्मकं कार्यकारणप्रपञ्चव्याप्तम् ॥ ६ ॥

तेषां सुव्यक्तयोगानां जितश्वासेन्द्रियात्मनाम् ।

लब्धयुष्मत्प्रसादानां न कुतश्चित् पराभवः ॥ ७ ॥

पदरत्नावली

विशिष्टध्यानमनस एवैवंविधफलवत्त्वं, न तु तन्मात्रस्य । तन्मात्रेण योगादीनां परिपाकाभावेन युष्मत्प्रसादानुत्पत्तिरितिभावेन तान् विशिंषन्तीत्याह– सुव्यक्तेति ॥ अष्टाङ्गलक्षणो योगः

॥ ७ ॥

प्रकाशिका

भावयन्तीत्युक्तध्यानोत्तरभावीन्यवान्तरफलानि दर्शयन्त आहुः । तेषां सुव्यक्त-योगानामित्यादि । त्वयि मुख्यगुरुत्वादिना सम्यग्ध्याते हरिविषयकध्यानादिरूपो योगः सम्यग्व्यक्तो भवति । प्राणेन्द्रियजयश्च सम्पद्यते । अनन्तरं मोक्षहेतुर्युष्मत्प्रसादश्च भवतीत्यर्थः ॥ ७ ॥

यस्य वाचा प्रजाः सर्वा गावस्तन्त्येव यन्त्रिताः ।

हरन्ति बलिमायत्तास्तस्मै मुख्यात्मने नमः ॥ ८ ॥

पदरत्नावली

विधिनिषेधलक्षणया वेदवाचा प्रवर्तमानाः प्रजाः स्वस्वकर्मानुसारेण सुखादिक-मश्नन्ति तत्रायं कुत्रोपयुज्यत इत्याशङ्क्य तया त्वदीयया नियतास्तदुक्तप्रकारेण त्वत्पूजां कुर्वन्ति तदनुसारेण भवान् फलं प्रयच्छतीत्यतस्त्वं सर्वोत्तम इत्याहुरित्याह– यस्येति ॥ यस्य तव तन्त्या गोबन्धनाय रचितया दीर्घया रज्ज्वा यन्त्रिता बद्धाः । यत्रि निबन्धन इति धातुः । हरन्ति नयन्ति । मुख्यात्मने सर्वेभ्यो जीवेभ्यो मुख्याय ॥ ८ ॥

प्रकाशिका

भगवत्पूजात्मककर्मोपदेष्टृत्वाच्चायं मुख्यो गुरुरित्याहुः ॥ यस्य वाचेति ॥ यस्य तव वाचा वेदरूपया, (ब्रह्मणः सर्ववेदद्रष्टृत्वात्) । प्रजा ब्राह्मणादिरूपास्तंत्या गोबन्धनाय रचितया दीर्घया रज्ज्वा यन्त्रिता बद्धाः । यन्त्र बन्धन इति धातोः । हरन्त्याहरन्ति बलिं स्वविहितं भगव-त्पूजादिकम् । आयत्ता अधीनाः सत्यः, मुख्यात्मने सर्वजीवनियामकाय ॥ ८ ॥

स त्वं विधत्स्व शं भूमन् तमसा लुप्तकर्मणाम् ।

अदभ्रदयया दृष्ट्या प्रपन्नानर्हसीक्षितुम् ॥ ९ ॥

पदरत्नावली

भवतां महता संरम्भेण स्तवनाभिप्रायः क इत्यतस्तमाहुरित्याह– स त्वमिति ॥ स इति तच्छब्देन पूर्वोक्तवैशिष्ट्यं स्मारयन्ति । दितिगर्भनिमित्ततिमिरेण लुप्तसन्ध्यादिकर्मणाम् । तदर्थमयमेवोपाय इति विज्ञापयन्तीत्याह– अदभ्रेति ॥ अदभ्रा पूर्णा दया यस्यां सा तथोक्ता तया दृष्ट्या ईक्षितुं द्रष्टुम् ॥ ९ ॥

प्रकाशिका

प्रकृतं विज्ञापयन्ति ॥ स त्वमिति । लुप्तकर्मणामहोरात्रविभागाज्ञानेन लुप्तानि कर्माणि येषाम् ॥ ९ ॥

एष देव दितेर्गर्भ ओजः काश्यपमर्पितम् ।

दिशस्तिमिरयन् सर्वा एधतेऽग्निरिवैधसि ॥ १० ॥

पदरत्नावली

किमिदानीं भयनिमित्तमिति तद् विज्ञापयन्तीत्याह– एष इति ॥ काश्यपं कश्यपस्य विद्यमानं दित्यामर्पितम् ओजस्तेज एष गर्भः सर्वा दिशस्तिमिरयन् अन्धकारयन् । लोक-प्रदीपानां सूर्यादिग्रहाणां तेजोऽवष्टम्भेन दिशामन्धकारितत्वम् । अतोऽस्य त्वया परिहारो द्रष्टव्य इति यावत् ॥ १० ॥

प्रकाशिका

तमसः कारणं स्वयमेवोत्प्रेक्ष्याहुः ॥ एष इति । गर्भे कुक्षौ यदोजो वीर्यमर्पितं निक्षिप्तं स एष दितेर्गर्भस्तिमिरयंस्तमोव्याप्तं कुर्वन् एधसि काष्ठे निक्षिप्तोऽग्निरिव ॥ १० ॥

मैत्रेय उवाच–

स प्रहस्य महाबाहो भगवान् शब्दगोचरः ।

प्रत्याचष्टात्मभूर्देवान् प्रीणन् रुचिरया गिरा ॥ ११ ॥

पदरत्नावली

स्वप्रज्ञाधिगमं स्तुवतां तेषामुत्तरं प्रतिजानीने ब्रह्मेति मैत्रेयो विदुरं वक्ति– स प्रहस्येति ॥ शब्दगोचरः मिथो व्यवहारविषयः, वेदवेद्यो वा । प्रीणन् प्रीणयन् । प्रत्याचष्ट भवदुक्तस्योत्तरं वक्ष्यामीत्याह ॥ ११ ॥

प्रकाशिका

दितेः कुकर्म ज्ञात्वा प्रहस्य । शब्दगोचरो देवस्तुतिरूपशब्दविषयः । प्रीणन्प्रीणयन्

॥ ११ ॥

ब्रह्मोवाच–

मानसा मे सुता युष्मत्पूर्वं वै सनकादयः ।

चेरुर्विहायसा लोकान् लोकेषु विगतस्पृहाः ॥ १२ ॥

पदरत्नावली

स्ववचनमध्ये तत्प्रश्नो मा भूदिति मन्वान आदित एव वक्तुं प्रारभते– मानसा इति ॥ मम मनसो जाताः । अन्तरिक्षदिलोकान् । किम्प्रयोजनवन्त इत्यत आह– लोकेष्विति ॥१२॥

प्रकाशिका

मानसा मनोजाताः । विहायसाऽऽकाशमार्गेण । किं प्रयोजनापेक्षया चेरुर्नेत्याह ॥ लोकेष्विति । लोकस्थविषयेषु विगतेच्छाः । अथाऽपि तेषां लोकसञ्चरणं लोकतत्त्वविवित्सयेत्याशयः ॥

त एकदा भगवतो वैकुण्ठस्यामलात्मनः ।

ययुर्विकुण्ठनिलयं सर्वभूत(लोक)नमस्कृतम् ॥ १३ ॥

पदरत्नावली

ततः किम् ? अत्राह– त इति ॥ विकुण्ठाख्यं निलयं गृहम् । नितरां लीयतेऽ-स्मिन् सर्वमिति ॥ १३ ॥

प्रकाशिका

विकुण्ठाख्यं निलयं लोकम् ॥ १३ ॥

वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तयः ।

ये नित्यमनिमित्तेन धर्मेणाराधयन् हरिम् ॥ १४ ॥

तात्पर्यम्

अनिमित्तेन विष्ण्वर्पणेन ॥ १४ ॥

पदरत्नावली

शून्यागारत्वभ्रान्तिं निवारयति– वसन्तीति ॥ ये नित्यमनिमित्तेन अः विष्णु-र्निमित्तं यस्य सोऽनिमित्तः, तेन विष्ण्वर्पणबुद्ध्या क्रियमाणेनेत्यर्थः । धर्मेण हरिमाराधयंस्ते यत्र वसन्तीत्यन्वयः । वैकुण्ठवन्मूर्तिर्येषां ते तथोक्ताः । सारूप्यभाज इत्यर्थः ॥ १४ ॥

प्रकाशिका

तं वर्णयति ॥ वसन्तीत्यादिद्वादशभिः । वैकुण्ठस्य हरेरिव मूर्तिर्येषां ते तथा । सारूप्यभाज इत्यर्थः । अत्रानिमित्तेनेत्यस्य विवक्षितं तात्पर्यं दर्शयति ॥ अनिमित्तेनेति । विष्णोरर्पणं कारयितृत्वाद्यनुसंधानरूपं यस्मिन्स तथा तेनेत्यर्थः । अनेन अः परमात्मा स एव निमित्तं कारयि-तृतयोद्देश्यतया चानुसन्धानरूपं यस्मिन्निति मूलं व्याख्येयमिति सूचयति ॥ १४ ॥

यत्र चाद्यः पुमानास्ते भगवान् शब्दगोचरः ।

सत्त्वं विष्टभ्य विरजं स्वानां नो मृडयन् वृषः ॥ १५ ॥

पदरत्नावली

यत्र लोके वृषः श्रेष्ठः, आद्यः सर्वैरुपजीव्यो, भगवान् स्वैर्भगैर्मूर्तिमद्भिरुपेतः, शब्दगोचरो ऽनन्तानां मूर्तिधराणां वेदानां विषयः, पुमान् नारायणो, विरजं दूरीकृतरजोगुणं सत्त्वं बलज्ञानसमाहारात्मकत्वमवष्टभ्य स्वानां नो यदस्ति तत् सर्वं मृडयन् रक्षन् आस्त इत्यन्वयः ॥ १५ ॥

प्रकाशिका

शब्दगोचरो मूर्तिमद्भिर्वेदैः स्तुतः । सत्त्वं ज्ञानबलसमाहारात्मकं देहं विष्टभ्य । सत्त्वं सत्त्वगुणं विष्टभ्य कार्योन्मुखीकृत्येति वा । मृडयन् रक्षन् स्वानां नोऽस्माकं वृषः श्रेष्ठः ॥ १५ ॥

यत्र नैश्रेयसं नाम वनं कामदुघैर्द्रुमैः ।

सर्वर्तुश्रीभिर्विभ्राजत्कैवल्यमिव मूर्तिमत् ॥ १६ ॥

वैमानिकाः सललनाश्चरितानि यत्र

गायन्ति लोकशमलक्षपणानि भर्तुः ।

**अन्तर्जले तु विलसन्मधुमाधवीनां **

गन्धेन खण्डितधियोऽप्यनिलं क्षिपन्तः ॥ १७ ॥

तात्पर्यम्

मुक्ताश्चैवाधिकारस्था द्वेधा वैकुण्ठलोकगाः । अमुक्तानां भ्रमः क्वापि न मुक्तानां क्वचिद्भवेदि’ति भविष्यत्पुराणे । ‘कृष्णात्मनां न रज आदधुरि’ति च ॥ १७ ॥

पदरत्नावली

कैवल्यं ब्रह्म । ‘कैवल्यममृतमक्षरं ब्रह्म’ इत्यभिधानम् । ज्ञानपुष्पसाध्यत्वा-न्नैश्रेयसम् ॥ सललना ललनाभिः स्त्रीभिः सहिताः, वैमानिका विमानेन चरन्तः पुरुषाः, लोकस्य जनस्य शमलक्षपणानि पापनाशनानि भर्तुर्हरेश्चरितानि यत्र गायन्ति । नन्वत्र गानं वदनव्यादानेन न घटते पुष्पसौरभ्यसमावेशादिनेन्द्रियक्षोभसम्भवादित्याशङ्क्य परिहरति– अन्तर्जल इति ॥ अत्रान्तःशब्दः समीपवचनः । जलसमीपे तटे विलसन्तीनां मधौ वसन्ते विद्यमानानां माधवीनां वासन्तीलतापुष्पाणां गन्धेन खण्डितधियो विक्षुब्धबुद्धयो नित्यं गन्धनायकं वायुं क्षिपन्तः परिहरन्तः । तुशब्देन भेदवाचिना ‘मुक्ता अमुक्ताश्चेत्युभये सन्ति । तत्र मुक्तानां क्वचिदपि पुष्पगन्धवायुनेन्द्रियक्षोभलक्षणो भ्रमो नास्ति, अमुक्तानां क्वचित् स्यात्’ इति तात्पर्यं निरूप्यते । ‘मुक्ताश्चैवाधिकारस्था द्विधा वैकुण्ठलोकगाः । अमुक्तानां भ्रमः क्वापि न मुक्तानां क्वचिद् भवेत् ॥’ इति वचनात् ॥ १६,१७ ॥

प्रकाशिका

तत्रत्यवनं वर्णयति ॥ यत्रेति चतुर्भिः । द्रुमैर्विभ्राजत् । कथंभूतैर्द्रुमैः । सर्वर्तुश्रीभिः सर्वेषु ऋतुषु विद्यमाना या श्रीः पुष्पादिसम्पद्येषां तैः । कामितार्थदाने दृष्टान्तः । मूर्तिमद्व्यक्तमूर्तिधरं कैवल्यं ब्रह्मवत् स्थितमिति । सललनाः स्त्रीभिः सहिता वैमानिका विमानेन चरन्तः पुरुषा लोकस्य जनस्य शमलक्षपणानि पापनाशकानि भर्तुर्हरेश्चरितानि यत्र वने गायन्ति । कथंभूताः । अन्तर्जले जलस्यान्तस्तु विशेषेण विलसन्त्यो या मधुमाधव्यो मधुमकरंदस्तद्युक्ता माधव्यो वसन्तकालीना लतास्तासां, विकसन्मधवः प्रसरन्मकरन्दा माधव्यस्तासामिति वा । गन्धेन वायुना । नीतेनेति शेषः । खण्डितधियोऽपि हरेर्भ्रंशितबुद्धयोऽपि अनिलं गन्धप्रापकं क्षिपन्तस्तिरस्कुर्वन्तो गायन्ति । अनेन तेषां विषयसन्निधानेन चित्तक्षोभेऽपि न भगवद्रतिरपगतेति सूचयति । अत्र गन्धेन खण्डितधीत्वं न मुक्तानां युक्तमतोऽत्र विवक्षितान्वैमानिकान्पुरुषान्प्रमाणेनैवाह ॥ मुक्ताश्चेति । अमुक्तानां भ्रमश्चित्तक्षोभः । तथा चात्र वैमानिकाः पुरुषा अमुक्ता आधिकारिका एव विवक्षिता इति भावः । एतेषाम् एवंविधविशेष-सूचनायैव तुशब्दः वैमानिका इत्यनेन सम्बन्धनीयः । मुक्तानामेवैवंविधः क्षोभः किं न स्यादित्यतोऽत्र बाधकमाह ॥ न रज इति ॥ ‘‘येषां बृहत्कटितटस्मितशोभिमुख्यः कृष्णात्मनां न रज आदधुरुत्स्मया-द्यै’’रित्युत्तरवाक्ये मुक्तानां विषयसम्बन्धेऽपि चित्तक्षोभाभावस्योक्तत्वेन तद्विरोधप्रसङ्गोऽन्यथेत्यर्थः

॥ १६-१७ ॥

पारावतान्यभृतसारसचक्रवाक

दात्यूहहंसशुकतित्तिरबर्हिणाद्यैः ।

कोलाहले विरचिते चिरमात्रयोच्चै-

र्भृङ्गाधिपे हरिकथामनुगायमाने ॥ १८ ॥

तात्पर्यम्

‘तिरश्चीनाः स्थावराश्च सर्वे ज्ञानाद्विकुण्ठगाः । अमुक्ता मुक्तिमायान्ति नियमात्कर्मणः क्षय’ इति च ॥ १८ ॥

पदरत्नावली

तत्रत्यानां भक्तानां हरेश्चरणारविन्दार्चनावसरः कदात्विति तत्राह– पारावते-त्यादिना ॥ भृङ्गाधिपे हरिकथामनुगायमाने सप्तस्वरसमाहारेण गातुमुपक्रान्ते सति तद्गानमनुकूजद्भिः पारावतादिपक्षिगणैश्चिरमात्रया त्रिमात्रादिस्वरेण कोलाहले कलकललक्षणे कूजने विरचिते सत्ययं समय इति मत्वा ॥ १८ ॥

प्रकाशिका

गायनस्यान्यकण्ठोत्थध्वनिविशेषसाहित्येऽनुगाने च सति शोभा भवत्यत-स्तदुभयमत्रास्तीत्याह ॥ पारावतेति । अन्यभृताः कोकिलाः । दात्यूहश्चातकश्चिरमात्रया त्रिमात्रादि-स्वरेण कोलाहले कण्ठोत्थध्वनिविशेषे विरचिते कृते सति भृङ्गाधिपे भ्रमरश्रेष्ठे हरिकथामनुगायमाने सति गायन्तीति पूर्वेणान्वयः । ननु तिरश्चां पारावतादीनां कथं पुरुषकृतगायनोपयोगिध्वनिविशेषादिकर्तृत्वं लोकेऽदर्शनादित्यतोऽत्र समाधानं प्रमाणैनैव दर्शयति ॥ तिरश्चीना इति । स्थावराश्चेत्यनेनोत्तर-श्लोकस्थमन्दारादीनां ग्रहणम् । ये पारावताद्यास्तिरश्चीना ये च मन्दराद्याः स्थावरा अमुक्तास्ते सर्वे हरिज्ञानान्नियमान्नियमेन प्रारब्धकर्मणः क्षये मुक्तिमायान्ति । पश्चाद्विकुण्ठलोकगा भवन्तीत्यर्थः । अतो मुक्तानां पारावतादीनां गायनोपयुक्तध्वनिकर्तृत्वादिकमुपपन्नमिति भावः ॥ १८ ॥

मन्दारकुन्दकुरबोत्पलचम्पकोर्ण-

पुन्नागनागबकुलाम्बुजपारिजाताः ।

गन्धेऽर्चिते तुलसिकाभरणेन तस्या

यस्मिंस्तपः सुमनसो बहुमानयन्ति ॥ १९ ॥

तात्पर्यम्

भक्तैरर्चिते सति भगवता तुलसिकाभरणे कृते तस्या गन्धार्थं तपो बहु मानयन्ति ॥ १९ ॥

पदरत्नावली

यस्मिन् वैकुण्ठे तुलसीदले मन्दारादिपुष्पराशौ च भक्तैरङ्घ्रिमूलेऽर्चिते सति तुलसिकाभरणेन तुलसीमालाधारिणा हरिणाऽन्यपुष्पदलमपहाय हस्तेन तुलसीदलमुद्धृत्य तद्गन्धे घ्राणेनार्चिते सम्भाविते सति मन्दाराद्याः सुमनसो मन्दारादिशब्दवाच्यास्तद्देवतास्तस्यास्तुलस्यास्तपो बहुमानयन्ति । गन्धार्थमिति शेषः । ‘तिरश्चीनाः स्थावराश्च सर्वे ज्ञानाद् विकुण्ठगाः । अमुक्ता मुक्ति-मायान्ति नियमात् कर्मणः क्षये ॥’ इति वचनाज् ज्ञानान्मुक्तत्वात् तत्तत्समयज्ञानं गानं प्रशंसनं च भृङ्गाधिपादिनां तिर्यञ्चां मन्दारादीनां स्थावराणां च युज्यते । यद्वा तुलसिकाभरणेन तुलसिकाभरणे कृते सति गन्धार्थं तपो बहुमानयन्ति । गन्ध इति तादर्थ्ये सप्तमी । ऊर्णं करवीरपुष्पम् । नागो नागकेसरः । पुन्नागः सुरकर्णिकारः ॥ १९ ॥

प्रकाशिका

मन्दारपारिजातौ सुरतरुविशेषौ । कुरबस्तिलकवृक्षः । ऊर्णं करवीरपुष्पं नागो नागकेसरः पुन्नागः सुरकर्णिकारः । बहुवचनमाद्यर्थे । एतदाद्याः सुमनसः पुष्पजातयो यस्मिन्वने, तुलसिकाभरणेन हरिणा तुलस्या गन्धैरर्चिते सति तस्यास्तपो बहुमानयन्तीति यथाश्रुतोऽर्थः । अत्र हरिकर्तृकं तुलसीगन्धार्चनं प्रमाणबाधितमतोऽत्र विवक्षितमध्याहृत्याबाधितां योजनामाह ॥ भक्तैरिति । भगवता तुलसिकाभरणे कृत इत्यध्याहार्यम् । अन्यथा तुलसिकाभरणेनेत्यनुवादायोगादिति ज्ञातव्यम् । तस्यास्तुलस्या गन्ध इति ‘‘सप्तमी तादर्थ्य’’ इत्याशयेनोक्तं गन्धार्थमिति ॥ ततश्चायमर्थः । मन्दरादिपारिजातांता मुक्ताः स्थावरजीवा यस्मिन्वने भगवति भक्तैः स्वस्वपुष्पैस्तुलस्या चार्चिते सति भगवता तानि पुष्पाणि विहाय तुलसिकाभरणे कृते सति तुलसिकाभरणेन कृतेन निमित्तेन तस्यास्तुलस्या गन्धे गन्धार्थं तपः बहुमानयन्ति । किमनया हरिप्रीतिकरगन्धार्थं तपः कृतम् । येनास्मान्विहाय हरिणे-त्थमाभरणीकृतेति पूजयन्तीत्यर्थ इति । एवं भूतं वनं यत्र तं विकुण्ठनिलयं ययुरिति पूर्वेणान्वयः ॥१९॥

यत् सङ्कुलं हरिपदानतिमात्रतृप्तै-

र्वैडूर्यमारकतहेममयैर्विमानैः ।

येषां बृहत्कटितटाः स्मितशोभिमुख्यः

कृष्णात्मनां न रज आदधुरुत्स्मयाद्यैः ॥ २० ॥

पदरत्नावली

बृहन्तः कटितटाः श्रोणीभागा यासां तास्तथोक्ताः । स्तितशोभिमुख्यः स्मितेन शोभमानवक्त्राः स्त्रियः । उत्स्मयाद्यैर् मन्दहासशृृङ्गारादिरसविशेषैः । कृष्णे हरावात्मा मनो येषां ते तथा तेषां येषां रजो रागं न आदधुर्नाकुर्वन् तेषां विमानैर्यद् वैकुण्ठाख्यं स्थानं सङ्कुलं व्याप्तम् । मञ्चस्थ-पुरुषन्यायेन विमानानि विशिनष्टि– हरीति ॥ हरिपदयोरानतिमात्रेण तृप्तैः कृतार्था वयमिति भाववद्भिः । यद्वा हरिपदे व्योमि्न आनतिमात्रतृप्तैः सञ्चरणमात्रप्रयोजनैः । वैडूर्यं पद्मरागम् । मरकतमिन्द्रनीलम् । हेम सुवर्णम् । एतैर्विराजितैः ॥ २० ॥

प्रकाशिका

पुनर्वैकुण्ठमेव वर्णयति ॥ यत्सङ्कुलमिति । यद्वैकुण्ठस्थानं सङ्कुलं व्याप्तं भवति । कैर् विमानैः । कथंभूतैः । हरेः पदयोरानतिर्भक्तिपूर्वकप्रणामस्तन्मात्रेण तृप्ताः पुरुषा येषु तैर् वैडूर्यं पद्मरागं मरकतमिन्द्रनीलं तदेव मारकतं, हेम सुवर्णमेतैर्विरचितैर् येषां विमानस्थानां बृहन्ति कटितटानि नितम्बप्रदेशा यासां ताः । स्मितशोभीनि मुखानि यासां ताः । एवंविधा अपि स्त्रियः, कृष्णे आत्मा मनो येषां तेषां रजो रागमुत्स्मयाद्यैरुत्कृष्टगर्वपूर्वकशृृङ्गारचेष्टाविशेषैर्नादधुर्न जनयामासुः । तेषां विमा-नैरिति सम्बन्धः ॥ २० ॥

श्री रूपिणी क्वणयती चरणारविन्दं

लीलाम्बुजेन हरिसद्मनि मुक्तदोषा ।

संल्लक्ष्यते स्फटिककुड्य उपेतहेमि्न

सम्मार्जतीव यदनुग्रहणेऽन्ययत्नाः ॥ २१ ॥

पदरत्नावली

वैकुण्ठस्येतोऽधिकं माहात्म्यं किं वक्तव्यमिति भावेनाह– श्रीरिति ॥ अन्येषा-मुपासकानामस्मदादीनाम् उपासनादिप्रयत्ना यस्या अनुग्रहणेऽनुग्रहार्थं स्युः सा नूपुरालङ्कृतचरणारविन्दं क्वणयती जननादिसमस्तदोषैर्मुक्ता रूपिणी सौन्दर्यसागरमूर्तिः श्रीर्यत्र वैकुण्ठे हरिवेश्मनि अन्तःपुरे उपेतहेमि्न सुवर्णखचिते स्फटिककुड्ये नीलाम्बुजेनावकरधूननसाधनस्थानीयेन सम्मार्जयन्तीव संलक्ष्यत इत्यन्वयः । कुड्यं गृहभित्तिः ॥ २१ ॥

प्रकाशिका

श्रीर्महालक्ष्मी रूपिणी प्रत्यक्षरूपधारिणी नूपुरालङ्कृतचरणारविन्दं क्वणयती शब्दयन्ती शनैरितस्ततः । पयर्टन्तीति यावत् । लीलार्थं गृहीतेनाम्बुजेन सहिता हरिसद्मनि । मुक्त-श्चाञ्चल्यलक्षणदोषो यया सा । इतरसद्मसु चाञ्चल्यं न तया कुत्रापि मुक्तमिति भावः । स्फटिकमये कुड्ये संमार्जयतीव संलक्ष्यते । कथंभूते कुड्ये । उपेतं मध्ये मध्ये शोभार्थं प्राप्तं हेमपट्टिकारूपं यस्मिंस्तस्मिन् । कीदृशी श्रीः । यस्या अनुग्रहणे अनुग्रहसम्पादनायान्येषां ब्रह्मादीनां यत्ना उपासनादि-रूपाः प्रयत्ना भवन्ति सा श्रीरित्यन्वयः । अयं भावः । हरिसद्मनि लीलांबुजं भ्रामयती शनैश्चरन्ती श्रीः स्फटिकमये स्वच्छे कुड्ये प्रतिबिम्बिता भवति । तदा लोकैस्तत्प्रतिबिंबं दृष्ट्वा श्रीरेव संमार्जनीस्थानीये-नाम्बुजेन कुड्यं संमार्जयन्ती शोधयतीत्येवं संल्लक्ष्यत इति । वस्तुतः संमार्जनाभावादिवशब्दः ॥ २१ ॥

वापीषु विद्रुमतटास्वमलामृताप्सु(स्वमृतामलाप्सु)

प्रेष्यान्विता निजवने तुलसीभिरीशम् ।

अभ्यर्चती स्वलकमुन्नसमीक्ष्य वक्त्र-

मुच्छेषितं भगवतेत्यमताङ्ग यच्छ्रीः ॥ २२ ॥

पदरत्नावली

अङ्ग हेे देवा यद् यत्र प्रेष्याभिर्दासीभिरन्विता निजवने कमलवने तुलसीभिरीश-मभ्यर्चती रूपिणी सौन्दर्यसागरमूर्तिः श्रीरमृतामलाप्सु विद्रुमरत्नबद्धतटासु वापीषु सुखावतारकूलासु प्रतिबिम्बितं स्वलकं शोभनकुन्तलम्, उन्नसं किञ्चिदुन्नतनासिकं वक्त्रमुद्वीक्ष्य हरिणेदं चुम्बित-मित्यमतेत्यन्वयः ॥ २२ ॥

प्रकाशिका

अङ्ग हे देवाः । वचनव्यत्ययः । यद्यस्मिंल्लोके विद्रुममयानि तटानि यासां तास्वमला अमृततुल्या आपो यासु तासु । वापीषु सुखावतारकूलासु निजवने कमलवने प्रेष्याभिः परिचारकाभिरन्विता तुलसीभिरीशं स्वपतिमभ्यर्चती पूजयन्ती तदा तदुदके प्रतिबिम्बितं स्वलकं शोभनकुन्तलमुन्नसमुत्कृष्टनासिकायुक्तम् । सर्वलक्षणोपलक्षकमेतत् । स्ववक्त्रं वीक्ष्य प्रतिबिंबेन बिम्बभूतं स्ववक्त्रमपि । तादृशमनुमायेति यावत् । इदं मदीयमतिसुन्दरं सर्वलक्षणोपेतं वक्त्रम् । भगवतोच्छेषित-मुच्छिष्टं कृतम् । चुंबितमिति यावत् । अहो अहं धन्येत्येवम् अमत अमंस्त मेने ॥ २२ ॥

यन्न व्रजन्त्यघभिदोऽरचनानुवादाः

शृण्वन्ति येऽन्यविषयाः कुकथा मतिघ्नीः ।

यास्तु श्रुता हतभगैर्नृभिरात्तवीर्या-

स्तास्तान् क्षिपन्त्यशरणेषु तमःसु हन्त ॥ २३ ॥

तात्पर्यम्

अरचनानुवादाः ॥ २३ ॥

पदरत्नावली

स्वर्गादीनामसुरादिगम्यत्वादस्य तदभावात् ततोऽतिशयमाहात्म्यमस्तीति भावेनाह– यन्न व्रजन्तीति ॥ अघभिदः संसारदुःखहेतुभूतपापानां भेत्तुः कृष्णस्य रचनानां बालक्रीडादिचरितानां जगत् सृष्ट्यादिकर्मणां वा अनुवादा न विद्यन्ते येषां ते अरचनानुवादा असुरा यत् स्थानं न व्रजन्ति । अनुवादाः श्रवणमननादिलक्षणाः । ये चान्यविषया मतिघ्नीर् यथार्थज्ञाननाशनीः कुकथाः कुत्सितरतिवर्णनादिरूपाः कथा शृण्वन्ति ते च यत् स्थानं न यान्ति । तासां कथानामेतत्स्थानप्राप्तिप्रतिबन्धकत्वमेव न फलं, किन्तु तमःप्रापकफलमपीत्याह– या इति ॥ हतभगैर्विनष्टभक्त्यादिभाग्यैर्नृभिः श्रुता या कथास्ता अशरणेषु निराश्रयेषु तमस्सु क्षिपन्ति । आत्तवीर्यास् तमःपातने बह्वभ्यासेन समुन्नद्धशक्त्यः । हन्त अहो कष्टम् । तुशब्दोऽधःपतितानां तारतम्यद्योतकः ॥ २३ ॥

प्रकाशिका

स्वर्गादिवन् न सर्वगम्योऽयं लोक इत्याह ॥ यन्न व्रजन्तीति । अत्र रचनानुवादा इति पदछेदभ्रान्तिं परिहरति ॥ अरचनानुवादा इति । अन्यथा तेषां निन्दनमत्र क्रियमाणमनुपपन्नं स्यादिति ध्येयम् ॥ ततश्चायं श्लोकार्थः ॥ यद्वैकुण्ठस्थानमघं भिनत्तीत्यघभित्तस्य हरेर् न विद्यते रचनानां जगत्सृष्ट्यादिकर्मणामनुवादो येषां ते तथा । न केवलमेतावत् । किन्तु अन्यविषया मतिघ्नीर्यथार्थ-ज्ञाननाशिनीरत एव कुकथा रतिवर्णनादिरूपाः कथाः शृृण्वन्ति । तासां कथानामेतत्स्थानप्राप्ति-प्रतिबन्धकत्वमेव न फलं किन्तु तमःप्रापकत्वमपीत्याह ॥ या इति । तुशब्दः श्रवणे आदरसूचकः । अन्यथा दूषणार्थं तच्छ्रवणेऽपि तमःप्राप्तिप्रसङ्गात् । हतभगैर्ज्ञानभक्त्यादिरूपभाग्यशून्यैरात्तं सम्यगुन्नद्धं वीर्यं तमःपातनसामर्थ्यं याभिस्ताः, आत्तं स्वीकृतं श्रोतॄणां वीर्यं पुण्यं याभिरिति वा । अशरणेषु रक्षकरहितेषु । हन्तेति खेदे ॥ २३ ॥

येऽभ्यर्थितामपि च नो नृगतिं प्रपन्ना

ज्ञानं च तत्त्वविषयं सहधर्म यत्र ।

नाराधनं भगवतो वितरन्त्यमुष्य

संमोहिता विततया ननु मायया ते ॥ २४ ॥

तात्पर्यम्

ये नृगतिं ज्ञानादियोग्यां न प्रपन्नास् ते मोहाद्भगवदाराधनं न कुर्वन्ति । धर्मज्ञानवर्जिता मानुषा एव न भवन्तीत्यर्थः ॥ २४ ॥

पदरत्नावली

केचिज् ज्ञानसाधनयोग्यां मनुष्ययोनिं प्राप्यापि तत्साधनं न कुर्वन्ति । तत्रा किं कारणमित्याशङ्क्य असुरत्वमिति भावेनाह– येऽभ्यर्थितामिति ॥ ये पुरुषा नोऽस्माकम् अभ्यर्थितां ज्ञानादिप्राप्तियोग्यत्वादाकाङ्क्षितां नृगतिं मनुष्ययोनिं प्राप्य यत्र यस्यां नृगतौ सहधर्म धर्मेण सह वर्तमानं तत्त्वविषयं ज्ञानं च प्रपन्नास् ते अमुष्य हरेर् जगति विततया मायया बन्धकशक्त्या धर्मज्ञानप्राप्ताव-योग्यत्वेन सम्मोहिता न भगवत आराधनं कुर्वन्ति । न वितरन्ति । अर्थिभ्यो नोपदिशन्ति । अतो धर्मज्ञानादिवर्जिता असुरत्वात् ते न मनुष्या इतीममर्थं ध्वनयति नन्वित्यनेन ॥ २४ ॥

प्रकाशिका

वैकुण्ठलोकप्राप्तिसाधनं धर्मज्ञानादिकमप्यवश्यमनुष्ठेयमित्याशयेन तदभाववतो मानुषान्निन्दति ॥ येऽभ्यर्थितामिति । अत्र नोऽस्माकं देवानामभ्यर्थितां नृगतिं प्रपन्ना इति व्याख्याने देवानां नृगतेरप्रार्थ्यत्वाच्छापादिना कथञ्चित्प्राप्यत्वाच्चार्थासम्भवमालोच्य विवक्षितां योजनां दर्शयति ॥ ये नृगतिमिति । सहधर्मज्ञानं यत्रेत्यस्य तात्पर्यम् ॥ ज्ञानादियोग्यामिति । आदिपदेन धर्मग्रहणम् । योग्यामित्यनेनोत्पत्तुमर्हतीति शेषं सूचयति । नो इत्यस्य निषेधार्थत्वं प्रपन्ना इत्यनेनान्वयं चाभिप्रेत्याह ॥ न प्रपन्ना इति । द्वितीयार्धेऽन्वयं दर्शयन्किञ्चिद्व्याख्याति ॥ ते मोहादिति । मोहादित्यनेन संमोहिता इत्येतन्नाराधनं वितरन्तीत्यत्र हेतुतया योज्यमिति सूचयति । वितरन्तीत्यस्यार्थः ॥ कुर्वन्तीति । नन्वेवं ये नृगतिं न प्रपन्नाः पश्वादयस्ते मोहाद्भगवदाराधनं न कुर्वन्तीति पश्वादीनां स्वरूपं कथ्यत इत्येव प्राप्तं न धर्मज्ञानविवर्जितानां मानुषाणां निन्दनमित्यतः पूर्वार्धाभिप्रायं दर्शयति ॥ धर्मज्ञानवर्जिता इति । अनेन यत्र नृगतौ सहधर्मज्ञानमुत्पत्तुमर्हति । तां तत्त्वज्ञानादियोग्यां नृगतिं ये नो प्रपन्ना न प्राप्ता इति विशिष्टनिषेधस्य विशेषणनिषेधे पर्यवसानेन लब्धार्थो दर्शित इति ज्ञातव्यम् । मानुषा एव न भवन्तीत्यनेन चशब्दोऽवधारणार्थः । नृगतिं नो प्रपन्ना इत्यस्यावृत्तिरिति सूचयति ॥ ततश्चायं श्लोकार्थः ॥ ये पुरुषाः सहधर्म धर्मेण सह वर्तमानं तत्त्वविषयं ज्ञानं यत्र नृगतावुत्पत्तुमर्हति तां साधुभिरभ्यर्थितामपि नृगतिं तत्त्वज्ञानादियोग्याम् । नृगतिमिति यावत् । नो प्रपन्नाः । नृगतिं प्राप्यापि तत्त्वज्ञानादिवर्जिता इति यावत् । ते नृगतिं नो प्रपन्नाः । चशब्दोऽवधारणे । मानुषा एव न भवन्तीत्यर्थः । तेषां मानुषजन्म व्यर्थं भवतीति भावः । कुत एवं नृगतिं प्राप्ता अपि ज्ञानादिवर्जिता भवन्तीत्यतोऽत्र हेतुं वदन् उक्तमेव विशदयति ॥ नाराधनमिति । ते नृगतिं प्रपन्ना यतोऽमुष्य भगवतो विततया मायया बन्धकशक्त्या संमोहिता अतो भगवत आराधनं तत्त्वज्ञानपूर्वकं स्वविहितभगवदर्चनरूपं कर्म न वितरन्ति न कुर्वन्ति तत्त्वज्ञानादिवर्जिता भवन्तीत्यर्थः ॥ २४ ॥

यत्र व्रजन्त्य(प्रयान्त्य)निमिषामृषभानुवृत्त्या

दूरेयमा ह्युपरि नः स्पृहणीयशीलाः ।

भर्तुर्मिथः सुयशसः कथनानुराग

वैक्लव्यबाष्पकलया पुलकीकृताङ्गाः ॥ २५ ॥

पदरत्नावली

सन्तो देवप्रकृतय एव भगवत आराधनं कृत्वा तज्ज्ञानेन यत्र स्थितं हरिं प्राप्नुवन्तीत्याह– यत्रेति ॥ ते यत्र नोऽस्माकम् उपरि वैकुण्ठस्थितं हरिं प्रयान्तीत्यन्वयः । ये अनिमिषां देवानाम् ऋषभस्य स्वामिनो हरेरनुवृत्त्या निरन्तरसेवया दूरेयमा दूरीकृतयमलोकाः, अत एव सर्वैः स्पृहणीयशीलाः सुयशसो भर्तुर्हरेर्गुणगणानां मिथः कथने योऽनुरागस् तस्मादुत्पन्नं यद् वैक्लव्यं पारवश्यं तन्निमित्तेन जाता या बाष्पकलानन्दाश्रुधारा तया पुलकीकृतान्यङ्गानि शरीरतदवयवा येषां ते तथोक्ताः । सुयशस इति भागवतानां विशेषणं वा । वैकुण्ठादप्युपरि शिवलोक इति केचिदाचक्षते । तस्याप्रस्तुतत्वादनुपपन्नत्वादिति हेतुद्वयं हीत्यनेन सूचयति ॥ २५ ॥

प्रकाशिका

नन्वेतादृशा न व्रजन्ति चेत्कीदृशास्तं व्रजन्तीत्यपेक्षायामाह ॥ यत्रेति । अनिमिषां देवानामृषभः श्रेष्ठो हरिस्तस्यानुवृत्त्या निरन्तरसेवया दूरीकृतो यमो येषां ते तथा । अत एव सर्वैः स्पृहणीयशीलाः । सुयशसः पुण्यकीर्तेर्भर्तुः स्वामिनो हरेः । कथने योऽनुरागस्तेनोत्पन्नं यद्वैक्लव्यं पारवश्यं तेन जाता या बाष्पकलाऽऽनन्दाश्रुधारा तया । पुलकीकृतानि रोमाञ्चितान्यङ्गानि येषां ते तथोक्ताः । न उपरि विद्यमानं यत्र यत्स्थानं व्रजन्ति तदिति पूर्वेणोत्तरेण वा सम्बन्धः ॥ २५ ॥

तद्विश्वगुर्वधिकृतं भुवनैकवन्द्यं

दिव्यं विचित्रविबुधाग्य्रविमानशोचिः ।

आपुः परां मुदमपूर्वमुपेत्य

योगमायाबलेन मुनयस्तदथो विकुण्ठम् ॥ २६ ॥

तस्मिन्नतीत्य मुनयः षडसज्जमानाः

कक्ष्याः समानवयसस्त्त्वथसप्तमायाम् ।

देवावचक्षत गृहीतगदौ परार्घ्य

केयूरकुण्डलकिरीटविटङ्कवेषौ ॥ २७ ॥

पदरत्नावली

प्रकृतमनुसरति– तद्विश्वगुर्वधिकृतमिति ॥ अथ मुनयः परां मुदमापुरित्यन्वयः । भगवत्समाधिना नित्यतृप्तानां मुनीनां कादाचित्कमोदप्राप्तौ किं कारणम् ? उच्यते– तद् विकुण्ठ-स्थानमुपेत्य । कीदृशम् ? ‘उतामृतत्वस्येशानो यदन्नेनातिरोहति’ इत्यादिना यो मुक्तामुक्तप्रपञ्चा-धारत्वेन श्रुतः स चासौ विश्वगुरुस्तेन मुक्तामुक्तप्रपञ्चगुरुणा हरिणाऽधिकृतं विशेषतः स्वामित्वे-नाभिमतम् । भुवनशब्देन तत्स्थाः पुरुषा लक्ष्यन्ते । तैः शिवलोकोत्तमतया वन्द्यम् । दिव्यमप्राकृतम् । विचित्राणि नानावर्णानि विबुधाग्य्राणां विमानानि शोचयति दीपयति इति विचित्रविबुधाग्य्र-विमानशोचिः । ‘‘शुचि दीप्तौ’’ इति धातुः । अपूर्वं पूर्वमदृष्टम् । योगमायाबलेन भगवदुपासना-लब्धज्ञानबलेन प्राप्येत्यर्थः ॥

मुदमुपेत्य बहिरेवावतिष्ठन् ते, उतान्तराविशन् ? आविश्य च किं चक्रुरिति तत्राह– तस्मि-न्निति ॥ तस्मिन् वैकुण्ठे षट्कक्ष्या गोपुरद्वाराणि, अतीत्य तत्रासज्जमाना अनिवार्यमाणाः सप्तमायां कक्ष्यायां स्थितौ देवावचक्षत अपश्यन्नित्यन्वयः । केयूरादिभिर्विटङ्कोऽलंकृतो वेषो ययोस्तौ तथोक्तौ

॥ २६,२७ ॥

प्रकाशिका

प्रकृतमनुसरति ॥ तदिति । अथो गमनानन्तरं मुनयः सनकादयस्तद्वैकुण्ठाख्यं स्थानं योगमायाबलेन उपासनादिजनितज्ञानसामर्थ्येनोपेत्य परां मुदमवापुः । वैकुण्ठस्य मोदजनकत्व-मुपपादयितुं तद्विश्वगुर्वधिकृतमित्यादीनि विशेषणानि । स चासौ विश्वगुरुश्च तेनाधिकृतं पालितम् । दिव्यं लोकविलक्षणम् । विचित्राणि नानावर्णानि विबुधाग््रयाणां देवश्रेष्ठानां विमानानि शोचयति दीपयतीति विचित्रविबुधाग््रयविमानशोचिः । शुचि दीप्ताविति धातोः । अपूर्वं पुनः पुनर्दर्शनेऽपि पूर्वादृष्टमिव स्थितम् । तस्मिन्वैकुण्ठे षट्कक्ष्याः प्राकारद्वाराणि अतीत्य । असज्जमानास्तत्रानिवार्यमाणा देवौ द्वारपालौ । अचक्षतापश्यन् । परार्ध्यैः केयूरादिभिर्विटङ्कोऽलङ्कृतो वेषो ययोस्तौ ॥ २६,२७ ॥

मत्तद्विरेफवनमालिकया निवीतौ

विन्यस्तयाऽसितचतुष्टयबाहुमध्ये ।

वक्त्रभ्रुवा कुटिलया स्फुटनिर्गतेन

रक्तेक्षणेन च मनाग् रभसं दधानौ ॥ २८ ॥

तात्पर्यम्

वक्त्रस्थया भ्रुवा सह निर्गतेन ॥ २८ ॥

पदरत्नावली

तयोर्भावं वर्णयति– मत्तेति ॥ असितानां श्यामानां बाहूनां चतुष्टयस्य मध्ये वक्षसि विन्यस्तया, मत्ता द्विरेफा भृङ्गा यस्यां सा मत्तद्विरेफा वनमालिका वनमाला तया, निवीतौ परिवृत्तौ । कुटिलया वक्रया वक्त्रस्थितया भ्रुवा सह स्फुटं निर्गतेन रक्तेक्षणेन रक्तान्तकटाक्षनिरीक्षणेन मनाक् किञ्चिद् रभसं कोपं दधानौ अनुसन्धानं कुर्वन्तौ । अन्तः प्रविशतो निर्गच्छतश्च जनान् ज्ञात्वा तिष्ठत इत्यर्थः ॥ २८ ॥

प्रकाशिका

तावेव वर्णयन्ति ॥ मत्तेति । मत्ता द्विरेफा भ्रमरा यस्यां तया वनमालिकया निवीतौ परिष्कृतौ । कथंभूतया । असितानां नीलानां बाहूनां चतुष्टयस्य मध्ये उरसि विन्यस्तया । अत्र वक्त्रभ्रुवेत्यस्य विवक्षितमर्थं वदन् अन्वयं दर्शयति ॥ वक्त्रस्थयेति । तथा च कुटिलया वक्रया वक्त्रस्थितभ्रुवा सह स्फुटं यथा स्यात्तथा निर्गतेन रक्तेक्षणेन रक्तान्तनिरीक्षणेन । वक्रभ्रूसहितरक्त-निरीक्षणयुक्तवक्त्रेणेति यावत् । अन्यथा वक्त्रेत्येस्य वैय्यर्थ्यप्रसङ्गात् । मनागीषद्रभसं कोपाटोपं दधानौ तथाऽनुमीयमानाविति मूलयोजना द्रष्टव्या । वक्रभ्रूरक्तनिरीक्षणयुक्तमुखत्वस्य कोपाविनाभूतत्वादिति भावः ॥ २८ ॥

द्वार्येतयोर् नि(प्र)विविशुर्मिषतोरपृष्ट्वा

पूर्वा यथाऽऽरपुटवज्रकपाटिका याः ।

सर्वत्र ते ह्यविषया मुनयः स्वदृष्ट्या

ये सञ्चरन्त्यविहता विगताभिशङ्काः ॥ २९ ॥

पदरत्नावली

ये मुनयः सर्ववस्तुषु स्वस्य स्वतन्त्रस्य हरेर्दृष्ट्यान्तर्यामित्वदर्शनेन अविषया निस्पृहाः, अत एव विगताभिशङ्काः, अविहता अप्रतिहतगतयः सर्वत्र सञ्चरन्ति हि यस्मात् तस्मात् ते मुनयस् तावपृष्ट्वा मिषतोः पश्यतोस्तयोर्द्वारि तथा प्रविविशुरित्यन्वयः । यथा पूर्वाः षड्द्वारः प्रविविशुर् निश्शङ्कतया । कीदृशीर्द्वारः ? या आरपुटवज्रकपाटिका आरेण पित्तलेनालंकृतं पुटं यस्याः सा आरपुटवज्रशिलया कृतकपाटिका आरपुटवज्रकपाटिका यासां तास्तथा । ‘लोहमप्यारकूटं स्यात् पित्तलं चारमस्त्रियाम्’ इति यादवः ॥ २९ ॥

प्रकाशिका

एतयोर्मिषतोः पश्यतोः सतोर्द्वारि सप्तमायां द्वारि एतावपृष्ट्वा । अनादृत्येति यावत् । विविशुः कथम् । या आरपुटवज्रकपाटिका आरेण पित्तलेन सुवर्णेन वाऽलङ्कृतं पुट उपरितनभागो यासां तास्तथोक्ताः । आरपुटा वज्रशिलामयाः कपाटा यासां तास्तथा ताः पूर्वाः षट् द्वारः । यथाऽपृष्ट्वैव विविशुस्तथैव । अप्रश्ने हेतुकथनाय सर्वत्र ते ह्यविषया इत्यादीनि विशेषणानि । हि यस्मात्ते सर्वत्राविहता अनिवारिता अत एव विगताभिशङ्काश्चरन्ति । अत्रापि हेतुः स्वस्य स्वतन्त्रस्य परमात्मनो दृष्ट्या ज्ञानेनाविषया अविद्यमानविषयाभिलाषा यत इति मुनय इत्यन्वयः ॥ २९ ॥

तान् वीक्ष्य वातरशनांश्चतुरः कुमारान्

वृद्धान् दशार्धवयसो विदितात्मतत्त्वान् ।

वेत्रेण चास्खलयतामतदर्हणांस्तौ

तेजो विहस्य भगवत्प्रतिकूलशीलौ ॥ ३० ॥

तात्पर्यम्

‘जयस्य विजयस्यापि कदाचिद् ब्रह्मशापतः । कृष्णावतारपर्यन्तं प्रातिकूल्यं च जायत’ इति नारदीये ॥ ३० ॥

पदरत्नावली

ततः किमभूदिति तत्राह– तानिति ॥ वातो वायुरेव रशना वस्त्रं येषां ते तथा तान् । कुमारानित्युक्तं विवृणोति– दशार्धवयस इति ॥ दृष्ट्या पञ्चवर्षान् । विदितात्मतत्त्वान् ज्ञातपरमात्मस्वरूपान् । वेत्रेण यष्ट्या अस्खलयतां प्रवेशप्रतिरोधं चक्रतुः । अतदर्हणान् स्खलना-योग्यान् । तेजस्तेषां प्रभावं विहस्यागणय्य । तत्र निमित्तमाह– भगवदिति ॥ भगवतो हरेः प्रतिकूलं विरुद्धं शीलं ययोस्तौ तथा तौ । ‘जयस्य विजयस्यापि कदाचिद् ब्रह्मशापतः । कृष्णावतारपर्यन्तं प्रातिकूल्यं च जायते’ इति वचनेन शापनिमित्तं प्रातिकूल्यं सावधिकं चेति ज्ञायते । अन्यथा तयोस्तत्रावस्थानमेव न युज्यते । रजआद्यभावस्योक्तत्वात् ॥ ३० ॥

प्रकाशिका

वातो वायुरेव रशनं वस्त्रं येषां ते तथा तान् । नग्नानिति यावत् । वस्तुतो वृद्धान् दशार्धवयसः पञ्चवर्षान्कुमारांस्तथा प्रतीयमानान् विदितं परमात्मतत्त्वं यैस्ते तथा तान् । वेत्रेण दण्डविशेषेण । चशब्दाद्वाचेत्यपि ग्राह्यम् । अस्खलयतां प्रवेशप्रतिरोधं चक्रतुः । अतदर्हणान् स्खलनायोग्यान् । तेजस्तेषां प्रभावं विहस्यागणय्य । अहो अत्राप्येतेषां धार्ष्ट्यमित्युपहासं कृत्वेति वा । ननु भगवतो भक्तवत्सलत्वात्तत्प्रवेश इष्टोऽतः कथं तद्भृत्यावेतौ भगवद्भक्तानां प्रवेशप्रतिरोधं चक्रतुरित्यत उक्तम् ॥ भगवदिति । भगवतः प्रतिकूलं विरुद्धं शीलं स्वभावो ययोस्तौ तथा । अत्र जयविजययोः शीलशब्देन भगवत्प्रातिकूल्यं स्वभाव इति प्रतीयते । न चैतत्संभवति । तयोर्भक्तत्वात् । अतोऽत्र विवक्षितं तात्पर्यं प्रमाणेन दर्शयति ॥ जयस्येति । कदाचित्प्रातिकूल्यं चेति सम्बन्धः । सर्वदा भगवदनुकूलशीलावेव जयविजयौ यत्प्रातिकूल्यं कदाचिदनयोर्भवति तदपि ब्रह्मशापनिमित्तं कृष्णावतार-समाप्तिपर्यन्तमेव नोत्तरत्रातोऽत्र शीलशब्दो न स्वभावार्थः किन्तु गौणवृत्त्या बहुकालावस्थायित्वार्थक इति भावः ॥ ३० ॥

ताभ्यां मिषत्स्वनिमिषेषु निषिध्यमानाः

स्वर्हत्तमा ह्यपि हरेः प्रतिहारपाभ्याम् ।

ऊचुः सुहृत्तमदिदृक्षितभङ्ग ईषत्

कामानुजेन सहसा त उपप्लुताक्षाः ॥ ३१ ॥

पदरत्नावली

न्यस्तदण्डत्वात् प्रतिषिद्धास्ते तूष्णीं यथागतं ययुः किम् ? अत्राह– ताभ्या-मिति ॥ सुष्टु अर्हत्तमाः पूज्यतमाः, सुहृत्तमस्य हरेर्दिदृक्षितस्य दर्शनेच्छाया भङ्गे विघ्ने सति, ईषत्कामानुजेनाल्पकोपेन उपप्लुतानि अतिकलुषीकृतान्यक्षीणि येषां ते तथोक्ताः, प्रतिहारपाभ्यामनिमिषेषु देवेषु मिषत्सु निषिध्यमाना ऊचुरित्यन्वयः ॥ ३१ ॥

प्रकाशिका

सुष्ट्वर्हत्तमाः पूज्यतमा अपि । निषेधानर्हा अपीति यावत् । अनिमिषेषु देवेषु मिषत्सु पश्यत्सु हरेः प्रतिहारपाभ्यां द्वारपालपतिभ्यां ताभ्यां जयविजयाभ्यां प्रतिषिध्यमाना वार्यमाणास्ते मुनयः सुहृत्तमस्य हरेर्दिदृक्षितस्य दर्शनेच्छाया भंगे विघ्ने सतीषत्कामानुजेनाल्पक्रोधेन सहसाऽकस्मा-देवोपप्लुतान्यतिशयेन क्षुभितान्यक्षीणि येषां ते तथाविधा ऊचुरित्यर्थः ॥ ३१ ॥

को वा इहैत्य भगवत्परिचर्ययोच्चै-

स्तद्धर्मिणामपि सतां विषमस्वभावः ।

तस्मिन् प्रशान्तपुरुषे गतविग्रहे वा (वां)

को वाऽत्मवत् कुहकयोः परिशङ्कनीयः ॥ ३२ ॥

तात्पर्यम्

युवयोर्यथा विरुद्धस्वभावत्वं तद्वद्भगवद्विषय इह शङ्कनीयः कः ? तस्मान्निषेधो व्यर्थ इत्यर्थः ॥ ३२ ॥

पदरत्नावली

क्रोधाकुलितनेत्रत्वाद्धितं न किन्त्वहितमेव तत् कीदृशमूचुरिति तत्राह– को वेति ॥ भगवत उच्चैः परिचर्यया समुन्नतपूजादिसेवया इह वैकुण्ठे स्वयोग्यं स्थानमेत्य तद्धर्मिणां तस्य हरेर्ध्यानादिधर्मवतां सतां भागवतानामपि मध्ये कः पुमान् विषमस्वभावः ‘शत्रुरयम्, इदं मित्रम्’ इति तामसशीलः । वा इत्यनेनात्यन्तानुपपत्तिं सूचयति । भगवद्विषये शङ्कनीयोऽस्तीति भवन्निषेधः क्रियत इति तत्राह– तस्मिन्निति ॥ कुहकयोर्मिथ्यादृष्टिमतोर्युवयोरात्मवद् यथात्मा परिशङ्कनीयस्तथेह तस्मिन् भगवति विषये परिशङ्कनीयो विरुद्धस्वभावः को वाऽस्ति न कोऽपीत्यन्वयः । कुतो नास्तीत्यत आह– प्रशान्तेति ॥ लोके अप्रशान्तस्य परेण सहोत्पादितवैरस्य च शङ्कनीयो दृष्टः, तथा नायम् । पुरुषेषु प्रशान्तत्वाद् अनुत्पादितवैरत्वाच्च । किञ्च प्रकृष्टानन्दस्वरूपत्वादनुपहतैश्वर्यादिषड्गुणपूर्णत्वात् सर्वशरीरेषु गतत्वादप्रतिद्वन्द्वत्वादप्राकृतशरीरत्वाच्च । अतोऽस्मिन्निषेधो व्यर्थ इत्यर्थः ॥ ३२ ॥

प्रकाशिका

किमूचुरित्यतस्तेषां वचनमेव दर्शयति ॥ को वा इहेत्यादिश्लोकत्रयेण ॥ अत्र कयोश्चित्कुहकयोरात्मवत्तस्मिन् भगवति परिशङ्कनीयो विषमस्वभावः क इत्यन्यथाप्रतीतिवारणाय द्वितीयार्धस्य विवक्षितमर्थं दर्शयति ॥ युवयोरिति । तथा च कुहकयोरित्यत्र जयविजयावेव विवक्षिताविति भावः । आत्मवदित्येतदपि स्वात्मनोरिवेति व्याख्येयमित्याशयेनोक्तम् ॥ युवयोर्यथेति । विषमस्वभाव इत्यस्यार्थः ॥ विरुद्धस्वभावत्वमिति । भगवद्विषय इत्यनेन तस्मिन्निति विषयसप्तमीति सूचयति । इहेत्यस्यावृत्तिमभिप्रेत्योक्तम् ॥ इहेति । अस्मास्वित्यर्थः । परिशङ्कनीय इत्यस्य क इत्यनेना-न्वय इत्याह ॥ शङ्कनीय क इति । न कोऽपीत्याक्षेपार्थत्वं क इत्यस्येत्याशयेन तत्फलं दर्शयति ॥ तस्मादिति । निषेधोऽस्मत्प्रवेशप्रतिषेधः ॥ ततश्चायं श्लोकार्थः ॥ उच्चैरुत्कृष्टतया भगवतः परिचर्यया तद्धर्मिणां भगवद्धर्मवतां सतामपि परिचर्ययेह वैकुण्ठे एत्य प्राप्य स्थितयोः कुहकयोर्मिथ्याज्ञानिनो-र्युवयोरयं विषमस्वभावः ब्रह्मण्यदेवस्य भगवतः स्वभावेन विरुद्धस्वभावो ब्राह्मणप्रवेशप्रतिषेधरूपः को वा कुत्सित एव । युवयोरयोग्य इत्यर्थः । युष्मासु भगवद्विषये विषमस्वभावशङ्कयाऽयं प्रतिषेधो द्वारपालक-योरावयोर्गुण एवेति शङ्कायामाहुः ॥ तस्मिन्निति । भगवति विषये वां कुहकयोः कुहकाभ्यां युवाभ्या-मात्मवत्स्वात्मनोरिव यथास्वात्मनो भगवत्स्वभावविरुद्धस्वभावत्वं तथेहास्मास्वपि परिशङ्कनीयः सम्यक् शङ्कितुं योग्यो विषमस्वभावो भगवत्प्रातिकूल्याचरणरूपः को वा न कोऽपि तस्मादस्मत्प्रतिषेधो व्यर्थ इत्यर्थः ।

ननु युष्मासु भगवत्प्रातिकूल्याचरणरूपः स्वभावः कुतो न शङ्कनीय इत्यत उक्तम् ॥ प्रशान्तपुरुषे गतविग्रहे वेति । वाशब्दश्चशब्दार्थः । प्रकर्षेण शान्ते भक्तापराधसहिष्णौ पुरुषे सर्वदेहेषु नियामकतया स्थिते, अत एव गतविग्रहे भक्तैः सह गतो विग्रहो विरोधो यस्य तस्मिन् । लोके ह्यपराधासहिष्णौ अनुपकारिणि विरोधकर्तरि च पुरुषविषये अन्येषां विरुद्धस्वभावो दृष्टः । भगवांस्तु न तथा, किन्तु भक्तापराधसहिष्णुरस्मद्देहनियामकतया स्थित इति उपकारी अत एव भक्तेषु गतविग्रहः । तस्मिन्विषये तद्भक्ता वयं कथं विषमस्वभावा भवेम । अस्माकं भक्तत्वं चात्रागमनादेव भवद्भ्यां निश्चितमिति भावः

॥ ३२ ॥

न ह्यन्तरं भगवतीह समस्तकुक्षौ

आत्मानमात्मनि नभो नभसीव धीराः ।

पश्यन्ति यत्र युवयोः सुरलिङ्गिनोः किं

व्युत्पादितं ह्युदरभेदि भयं यतोऽस्य ॥ ३३ ॥

तात्पर्यम्

समस्तकुक्षौ स्थिते भगवति न हि भेदः । अस्मिंल्लोके । अन्तस्थभगवद्रूपं बहिष्ठैक्येन पश्यन्ति नभो नभसीव । तत्र प्रत्युदरभेदनिमित्तं भयं युवाभ्यां व्युत्पादितं किम् ? सर्वान्तर्यामित्वेनाभयस्य भयमस्तीति भावः कुतः? अन्यथा किमिति निवारणम् । ‘सर्वोदरगतं ब्रह्म ये भेदेन विचक्षते । सर्वत्रापि भयं तेषां मृतानां तम एव चे’ति तत्त्वविवेके ॥ ३३ ॥

पदरत्नावली

आपादितदोष एव पुरुषो दण्डयोग्य इति तयोर्दोषित्वमुपपादयन्ति– न हीति ॥ इहास्मिल्लोके स्थिता धीरा ज्ञानिनः समस्तस्य मुक्तामुक्तप्रपञ्चस्य कुक्षयः शरीरकुहराणि यस्यावा-सभूतानि स समस्तकुक्षिस्तस्मिन् । यद्वा समस्तकुक्षौ स्थिते भगवति । अन्तरं छिद्रं भेदं न पश्यन्ति किन्तु यत्र यस्मिन् लोके नभसि महाकाशे नभो घटाकाशमिवात्मानं स्वात्मस्थं भगवद्रूपमात्मनि व्याप्ते भगवद्रूपे पश्यन्ति । तयोरैक्येनेत्यर्थः । ततः किम् ? अत्राह– युवयोरिति ॥ एवं ज्ञानिप्रत्यक्षे जाग्रति सुरलिङ्गिनोर्देवलक्षणवतोर्युवयोर्मनसा यतो भेददर्शनाद् अस्य भेदस्य द्रष्टुः पुंसः, पुर्वत्र दुःखप्रप्तिरूपं भयं भवति तादृशमुदरभेदि उद्गता अरा दोषा यस्मात् तदुदरं ब्रह्म तस्य भेददर्शननिमित्तं भयं व्युत्पादितं किम् ? प्रतिशरीरमन्तर्यामित्वेन स्थितस्याभयस्य हरेरन्यस्माद् भयमस्तीति बुद्धिः कृता । अन्यथास्मान्निवारणं किमिति कृतम् ? हिशब्देन तत् स्वानुभवसिद्धं दर्शयन्ति । यद्वा ‘सर्वोदरगतं ब्रह्म ये भेदेन विचक्षते । सर्वत्रापि भयं तेषां मृतानां तम एव च’ इति वाक्यं प्रमाणयन्ति । युवयोरिति तृतीयार्थे षष्ठी । तया तद्द्वारपालकत्वेन स्वस्वामित्वसंबन्धस्य स्वानुभवसिद्धत्वेन तदपलापेन सर्वापलाप प्रसङ्गाद् भगवदपराध एव कृत इति द्योतयन्ति ॥ ३३ ॥

प्रकाशिका

कुहकयोरित्युक्तं मिथ्याज्ञानित्वं तयोरुपपादयन्ति ॥ न ह्यन्तरमिति । अत्र समस्तकुक्षौ भगवतीति सामानाधिकरण्येनाभेदप्रतीतिवारणायाह ॥ समस्तकुक्षाविति । अधिकरण-सप्तमीबलात्स्थित इत्येतल्लभ्यत इति भावः । अन्तरशब्दस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ न हि भेद इति । न हीत्यस्यानुवादः । अन्तरशब्दस्य भेदवाचकत्वे वाक्यार्थः श्लिष्टतरो भवतीति सूचनाय । इहे-त्यस्य भगवत्परत्वे यत्रेत्यस्य वैय्यर्थ्यमित्यालोच्य विवक्षितमर्थमाह ॥ अस्मिंल्लोक इति । अधिकरण-सप्तमीबललब्धमर्थं दर्शयन् आत्मपदद्वयं जीवपरमिति प्रतीतिवारणाय वाक्यं योजयति ॥ अन्तःस्थेति । आत्मानमित्यस्यार्थः ॥ भगवद्रूपमिति । आत्मनीत्यस्य तात्पर्यम् ॥ बहिष्ठैक्येनेति । तात्पर्यं कस्मादवगतमित्यतो दृष्टान्तबलादेवेत्याशयेन । नभो नभसीवेति दृष्टान्तानुवादः । यत्रेत्युक्तत्वा-त्तत्रेत्यध्याहृतम् । उदरेत्यतः प्राक् प्रतीत्यध्याहारमभिप्रेत्याह ॥ प्रत्युदरभेदनिमित्तमिति । इन्प्रत्ययार्थ-प्रदर्शनाय निमित्तमित्युक्तम् । युवयोरिति षष्ठी कर्तरीत्याशयेन युवाभ्यामित्युक्तम् । किंशब्दोऽत्र निन्दार्थक इति सूचनाय व्युत्पादितं किमित्यन्वयो दर्शितः । अस्येत्यस्य विवक्षितमर्थमाह ॥ सर्वान्तर्यामित्वेनेति । अनेन समस्तकुक्षावित्येतदभयत्वसूचनायोक्तमिति ज्ञापयति । भयं व्युत्पादित-मित्यस्याभिप्रायमाह ॥ भयमस्तीति । भावो भावना ज्ञानमिति यावत् । आवयोरेवं भावोऽस्तीति कथं भवद्भिरवगतमित्यतस्तदभिप्रेतं ज्ञापकमाह ॥ अन्यथेति । तथा च निवारणान्यथाऽनुपपत्तिरेवै-तत्ज्ञापिकेति भावः । अस्त्वेवंविधं ज्ञानं ततः किमित्यतस्तज्जन्यमनिष्टं प्रमाणेनैवाह ॥ सर्वोदरगत-मिति । भयमैहिकं मृतानां चेत्यन्वयः ॥ ततश्चायं श्लोकार्थः ॥ समस्तकुक्षौ सर्वान्तर्नियामकतया स्थिते भगवत्यन्तरं भेदो न हि नास्तीति प्रमाणप्रसिद्धम् । तस्मात्तस्य कुतोऽपि, न भयमस्तीति शेषः । किं तत्प्रमाणमित्यतस्तद्दर्शयन्त आहुः । यत्र भगवतीहास्मिंल्लोके स्थितमात्मानं भगवद्रूपमात्मनि बहिःस्थिते भगवद्रूपे । तदैक्येनेति यावत् । नभो घटाद्यवच्छिन्नमाकाशं बहिःस्थिते नभसीव धीराः स्थानभेदयुक्तेरा-भासत्वं जानन्तः पश्यन्ति, तत्र सुरलिङ्गिनोः सुरचिन्हधारिभ्यां युवयोर्युवाभ्यामुदरभेदिभयम् । अत्रादौ प्रतीत्यध्याहार्यम् । उद्गता अरा दोषा यस्मात्तदुदरं ब्रह्म भेदो भेददर्शनम् अस्य निमित्ततयाऽस्तीति भेदि, प्रत्युदरभेददर्शननिमित्तकमित्यर्थः । वैकुण्ठान्तर्गतभगवद्रूपं प्रतिस्थितम् । तदाभिमुख्येन स्थितमिति यावत् । यदस्मदन्तर्गतरूपं रागादिदोषरहितं ब्रह्म तद्भेदबुद्ध्याऽस्मदाद्यन्तर्गतभगवद्रूपेभ्योऽस्य सर्वान्त-र्नियामकतया भयशून्यस्य वैकुण्ठान्तर्गतस्य भगवद्रूपस्य भयं व्युत्पादितं भावितं किमहो पापिष्ठौ भवन्तावित्याशयः । हीत्यनेन तथा ज्ञानेन महाननर्थः प्रमाणप्रसिद्धोऽस्तीति सूचयति । यत एवम् अनर्थकारि ज्ञानं युवयोरतः पापीयसो लोकान् व्रजतमित्युत्तरेणान्वयः ॥ ३३ ॥

तद् वा अमुष्य परमस्य विकुण्ठभर्तुः

कर्तुं न युक्तमिति धीमहि मन्दधीभ्याम् ।

लोकानितो व्रजतमन्तरभावदृष्ट्या

पापीयसस्त्रय इमे रिपवोऽस्य यत्र ॥ ३४ ॥

तात्पर्यम्

त्रयो रिपवो देहत्रये ॥ ३४ ॥

पदरत्नावली

एवं दोषानुपपाद्य तद्योग्यं दण्डं कर्तुमुपाक्रमन्ते– तद् वा इति ॥ मन्दधीभ्यां कपटबुद्धिभ्यां युवाभ्यममुष्य विकुण्ठभर्तुर्मूलरूपस्य परं पश्चाद् अस्यावतारान्तर्यामिरूपस्य च यद् भेददर्शनं तत् कर्तुं न युक्तमिति धीमहि चिन्तयामः । तद् युवाभ्यां कृतम् अतोऽन्तरभावदृष्ट्या भेद-दर्शनेनेतो वैकुण्ठलोकाद् यत्र येषु त्रिषु इमे त्रयोऽस्य हरे रिपवः स्यु तान् पापीयसोऽतिपापा-ज्जन्मयोग्यान् लोकान् देहान् व्रजतमित्यन्वयः । त्रीनासुरान् देहान् यातमित्यर्थः । वा इत्यनेन ‘यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति’ इत्यादि श्रुतिं प्रमाणयति ॥ ३४ ॥

प्रकाशिका

एवमपराधमुपपाद्य तद्योग्यं दण्डं कुर्वन्त आहुः ॥ तद्वा अमुष्येति । अत्र यत्रेत्यस्य येषु भूरादिलोकेष्विमे त्रयो रिपवस्तांल्लोकानित्यन्यथाप्रतीतिवारणायार्थमाह ॥ त्रयो रिपव इति । यत्रेत्यस्यार्थः ॥ देहत्रय इति । अनेन लोकशब्दो देहपरो न प्रसिद्धभूरादिपर इति दर्शयति । देहत्रयस्यानिष्टत्वोपपादनाय त्रयो रिपवो हरेर्द्वेषिणो भवन्तीत्युक्तम् । अत्र जयविजययोरैक्यविवक्षया तदाविष्टयोरसुरयोर्द्वित्वविवक्षया त्रय इत्युक्तमिति ज्ञातव्यम् । द्वौ स्वभावतोऽरी तत्संसर्गाज्जय-विजययोरप्यरित्वमिति सूचनायापिशब्दः ॥ ततश्चायमर्थः ॥ मन्दधीभ्यां युवाभ्यां परमस्य विकुण्ठ-भर्तुरमुष्य सर्वजगदन्तर्नियामकरूपस्य सकाशाद्यद्भेददर्शनं तत् कर्तुं न युक्तम् । वै प्रमाणप्रसिद्धमेतत् । इति धीमहि चिन्तयामः । तद्युवाभ्यां कृतमतोऽन्तरभावदृष्ट्याऽन्तरं हरौ भेदस्तस्य भावदृष्टिः सद्भावदर्शनं तया तज्जनितपापेन, इतो वैकुण्ठलोकात्पापीयसोऽतिपापांल्लोकान्देहान्व्रजतं यातम् । यत्र देहत्रये इमे प्रसिद्धाः । अस्य हरेस्त्रयोऽपि रिपवो द्वेषिणो भविष्यन्ति तांल्लोकानित्यन्वयः । अत्र द्वौ स्वभावतोऽरी एकत्वेन विवक्षितयोर्जयविजययोस्तु तत्संसर्गादरित्वमतो ‘‘यौ तौ तवारी हतयोः प्रविष्टावि’’ति भारततात्पर्यनिर्णयविरोधो नेति ज्ञातव्यम् । स्वाभाविकारित्वविवक्षया तात्पर्यनिर्णयः प्रवृत्तः । अतो न विरोधः । अत्र देहानां यद्यपि षट्त्वं तथाऽपि द्वयोर्द्वयोरैक्यविवक्षया त्रित्वमुक्तमिति ज्ञातव्यम् ॥ ३४ ॥

तेषामितीरितमुभाववधार्य घोरं

तं ब्रह्मदण्डमनिवारणमस्त्रपूगैः ।

सद्यो हरेरनुचरावुरुबिभ्यतस्तत्

पादग्रहावपततामतिकातरेण ॥ ३५ ॥

पदरत्नावली

स्वतो जयविजयौ सच्चेतनाविति ध्वनयति– तेषामिति ॥ तावुभौ हरेरनुचरौ जयविजयौ उरु बहु बिभ्यत इत्यन्वयः । ब्रह्मास्त्राद्यस्त्रपूगैरनिवारणं प्रतिषेद्धुमशक्यं घोरं तेषाम् इतीरित ब्रह्मदण्डं ब्रह्मशापम् । अवधार्य हृदि कृत्वा । किञ्च तेषां पादौ गृह्णीत इति तत्पादग्रहावपततां, भूमाविति शेषः । अतिकातरेणेति भयातिरेकं दर्शयति । सद्य इति निर्दोषत्वम् ॥ ३५ ॥

प्रकाशिका

शापनिमित्तमेव तयोर्हरिप्रातिकूल्याचरणमिति ज्ञानाय तयोः सत्स्वभावं दर्शयति ॥ तेषामिति । तावुभौ हरेरनुचरौ तेषामीरितं भाषितं घोरं यत्तम् । अस्त्रपूगैः प्रत्यस्त्रसमूहैरनिवारणं न विद्यते निवारणं यस्य तं ब्रह्मदण्डं ब्राह्मणशापमवधार्य निश्चित्य सद्यस्तदुत्तरक्षण एवोरु बहु बिभ्यतो बिभीतः । अनन्तरमतिकातरेणातिकातर्येणातिशयितभयेन तत्पादग्रहौ तेषां पादग्रहणं कुर्वन्तौ सन्तावपतताम् । दण्डवदिति शेषः । ब्राह्मणेभ्य उरु बिभ्यतो हरेरनुचराविति वा ॥ ३५ ॥

भूयानघाद्धि भगवद्भिरकारि दण्डो

यो नौ हरेत सुरहेलनमप्यशेषम् ।

मा वोऽनुतापकलया भगवत्स्मृतिघ्नो

मोहो भवेदिह तु नौ व्रजतोरधोऽधः ॥ ३६ ॥

तात्पर्यम्

**सुरहेलनस्यापि दण्डो भवति । अत्र स्थितयोः पुनः पूर्ववन्मोहो न स्यादंशिनोः **

॥ ३६ ॥

पदरत्नावली

पादयोः पतित्वा ताभ्यां पुनः किं कृतम् ? अत्राह– भूयानिति ॥ हे चतुर्थाश्रमशिखामणयः भगवद्भिर् भवद्भिरस्मत्कृतादघादपराधाद्धि हेतोर् भूयान् महान् दण्डोऽकारि । युक्त एवायमिति ब्रुवाते– य इति ॥ यो दण्डो नौ आवयोर् न केवलं युष्मदपराधमेव हरति । किन्त्वशेषं यथा तथा सुरहेलनं श्रीब्रह्मादिदेवावज्ञानमपि हरेत, हर्तुं समर्थो भवति । तत्रेदं भगवतः प्रार्थयावहे । नावावयोरिह वैकुण्ठे स्थितयोरंशिनोर्वो युष्माकमनुतापकलया पश्चात्तापलेशेन पुनः पूर्ववद् भगवत्स्मृतिघ्नो भगवतो यथास्वरूपज्ञाननाशको मोहो मा भवेन् मा भूत् । कीदृशयोः ? युष्मच्छापेनाधोऽधोऽधरलोकादप्यधरलोकमासुरं व्रजतोर्गच्छतोः । अंशेनेति शेषः ॥ ३६ ॥

प्रकाशिका

नमस्कारानन्तरं तयोः पश्चात्तापेन प्रार्थनाप्रकारं दर्शयति ॥ भूयानिति । अत्र यो दण्डोऽशेषसुरहेलनमपि हरेतेति कथमुच्यतेऽस्य दण्डस्यास्माभिस्तदर्थम् अप्रयोगादित्यतोऽस्याभिप्रायमाह ॥ सुरहेलनस्यापीति । दण्डः प्रायश्चित्तरूपो भवति । अतो हरेतेत्याशय इत्यर्थः । तदर्थमप्ययं दण्डो भवतीत्यभिप्रायो भवतां भवत्वित्याशयः ॥ ततश्चायं मूलार्थः ॥ भगवद्भिः पूज्यैर्युष्माभिर्यो दण्डो नौ अकारि स न केवलं युष्मदवज्ञाजन्यं पापं हरति, किंत्वशेषं यथा स्यात्तथा ब्रह्मादिदेवानामप्यस्माभि-रेवमेव पूर्वमवज्ञा कृता । तज्जन्यमपि पापं हरेत हरेत् । तस्यापि पापस्यायं प्रायश्चित्तरूपो भवतीति भवतामभिप्रायो भवत्वित्याशयः । कुतः । हि यस्मादघादस्मत्कृतापराधाद्भूयान् अस्माभिरल्प एवापराधः कृतो भवद्भिस्त्वसुराविष्टदेहत्रयप्राप्तिरूपो दण्डो भूयान्कृतोऽतः स पूर्वतनदेवावज्ञाजनितपापस्यापि प्रायश्चित्तरूपो भवत्वित्यनुग्रहः कर्तव्य इत्याशयः । अन्यदपि स्वस्वाभीष्टं प्रार्थयन्तावाहतुः ॥ मा व इति । वो युष्माकं सकाशात् । युष्मदनुग्रहादिति यावत् । अनुतापकलयाऽस्माकं पश्चात्तापलेशेन पुनः पूर्ववद्भगवत्स्मृतिघ्नो मोहो मिथ्याज्ञानमिह वैकुण्ठस्थितयोर्नौ आवयोर्मा भवेन्मा भूत् । कथंभूतयोः । अधोऽधोऽत्यन्तनिकृष्टदेहान्व्रजतोर्गच्छतोः । अत्राधोऽधो व्रजतोः कथमिह वैकुण्ठस्थितत्वमुच्यमानं युज्यते, विरोधादित्यतोऽत्र विवक्षितं तात्पर्यमाह ॥ अत्र स्थितयोरिति । इहेत्यस्यार्थो ऽत्रेति । स्थितयोरित्यधिकरणसप्तम्या लब्धार्थप्रदर्शनम् । पुनः पूर्ववदिति प्रसक्तिप्रदर्शनम् । अंशिनोरित्येतत्तु-शब्दार्थप्रदर्शनम् । तथा चांशेनाधोऽधो व्रजतोरप्यावयोरिह वैकुण्ठस्थितयोरंशिनोर्मोहो मा भूदिति तात्पर्यमतो न विरोध इत्यर्थः ॥ ३६ ॥

एवं तदैव भगवानरविन्दनाभः

स्वानां विबुध्य सदतिक्रममार्यहृद्यः ।

तस्मिन् ययौ परमहंसमहामुनीना-

**मन्वेषणीयचरणश्चलयन् **

(मन्वेषणीयचरणो निलयात्) सहश्रीः ॥ ३७ ॥

पदरत्नावली

जयविजययोः सनकादीनां संल्लापो हरेः कर्णताडितः किं नाभूत् ? अत्राह– एवमिति ॥ द्वयोरप्यंशांशिविवक्षया बहुत्वात् स्वानामिति बहुवचनम् । एवं स्वानां स्वपार्षदानां सत्सु सनकादिषु अतिक्रमं प्रतिघातलक्षणमपराधं निशम्य निलयान् मुक्तस्थानात् तदैव तस्मिन् सप्तमकक्ष्या-स्थाने स्थितांस्तान् ययावित्यन्वयः । स्वानां स्वभक्तानां सदतिक्रमं विद्यमानमपराधमिति वा । आर्याणां ज्ञानिनां हृद्यो हृदयङ्गमः । भगवदागमनं सनकादीनां पुण्याधिक्यं ध्वनयति– परमेति ॥ ३७ ॥

प्रकाशिका

तदैव तस्मिन्नेव क्षणे । स्वानामिति बहुवचनं जात्यभिप्रायेण । स्वकीययोरित्यर्थः । सत्सु सनकादिष्वतिक्रममपराधम् । आर्याणां ज्ञानिनां हृद्यो हृदि भवः । सनकादिभिर् ध्येय इत्यर्थः । यत्र ते स्थितास्तस्मिन्देशे । तद्देशमुद्दिश्येति यावत् । अन्वेषणीयचरणश्चलयन्नित्यनेन भगवतो ब्राह्मणेषु भक्तिं दर्शयति ॥ सहश्रीरिति । सकलत्रेणैव गृहस्थेनातिथ्यभ्यागमनादिकं कार्यमिति दर्शयितुं श्रीनिरीक्षणेनापि ते धन्या भवन्त्वित्याशयेन वा तथोक्तम् ॥ ३७ ॥

तं त्वागतं प्रतिहृतौपयिकं स्वपुंभि-

स्तेऽचक्षताक्षविषयं स्वसमाधिगम्यम् ।

हंसश्रियोर्व्यजनयोः शिववायुलोल-

शुभ्रातपत्रशशिकेसरशीकराम्बुम् ॥ ३८ ॥

तात्पर्यम्

केसरा रश्मयः ॥ ३८ ॥

पदरत्नावली

रोषकलुषितशेमुषित्वाद् भृत्यापराधं तत्स्वामिन्यारोप्य तस्मिन्नागते ते मुनय-स्तिर्यग्दृष्टयोऽभूवन् किम् ? अत्राह– तन्त्विति ॥ तुशब्दो रोषस्तत्कालिको माध्यन्दिनचलनार्कवन्न तु चिरकालभावीति निरूपयति । स्वपुंभिः स्वभृत्यैः प्रतिहृतं प्रत्यर्पितमौपयिकमुपायनादिसत्कारद्रव्यं यस्मै स तथोक्तस् तम् । सहसोत्थायागमनात् संक्षिप्तवाहनादिगमनयोग्यसाधनं वा । चक्षुर्विषयमित्यनेन प्राप्तां मायारूपभ्रान्तिमुन्मूलयति– स्वसमाधिगम्यमिति ॥ सच्चिदानन्दलक्षणमपश्यन्नित्यर्थः । तदानीन्तन-वैभववैशिष्ट्यं वर्णयति– हंसश्रियोरिति ॥ हंसवद्धवलश्रियोर्व्यजनयोः शिववायुना सुखस्पर्शवायुना लोलं चञ्चलं शुभ्रं धवलं चातपत्रम् उष्णनिवारणच्छन्नं तदेव शशी चन्द्रमास्तस्य केसरेभ्यो रश्मिभ्यो निःसृतानि शीकराणि वातास्त एव चाम्बूनि वारीणि यस्मिन् सः शिववायुलोलशुभ्रातपत्रशशिकेसर-शीकराम्बुस् तम् ॥ ३८ ॥

प्रकाशिका

तुशब्द आगमने उक्तविशेषसूचकः । तत्रत्यैः स्वपुंभिः स्वभृत्यैः । प्रतिहृत-मभ्यर्पितमौपयिकमुपायनादिसत्कारद्रव्यं यस्मै स तथोक्तस् तम् । प्रतिहृतमानीतमौपयिकं गमनोपयुक्तं छत्रचामरपादुकादि यस्येति वा । अचक्षतापश्यन् । कथं भूतम् । अन्तः स्वसमाधिगम्यो यस्तमेव बहिरक्षविषयं चक्षुर्विषयं सन्तम् । पुनः कथम्भूतम् । हंसवद्धवला श्रीर्ययोस्तयोः । उभयतश्चलतो-र्व्यजनयोर्यः शिवोऽनुकूलो वायुस्तेन लोलं चञ्चलं शुभ्रं धवलमातपत्रं छत्रं तदेव शशी चन्द्रमास्तस्य केसरेभ्यो गलन्ति शीकराम्बूनि कणभूतामृतानि यस्मिन्स तथोक्तस्तम् । अत्र प्रकृतोपयुक्तं केसरशब्दार्थं दर्शयति ॥ केसरा रश्मय इति । यथा कौस्तुभादिकं ब्रह्मादिरूपं तथा छत्रमपि चन्द्रमसो रूपम् । तथा च तस्य रश्मिभ्यो गलन्ति शीकरांबूनीति युक्तमिति ध्येयम् ॥ ३८ ॥

कृत्स्नप्रसादसुमुखं स्पृहणीयधाम-

स्नेहावलोककलया हृदि संस्पृशन्तम् ।

श्यामे पृथावुरसि शोभितया श्रिया स्व

ग्रीवामणिं सुभगयन्तमिवात्मधिष्ण्यम् ॥ ३९ ॥

तात्पर्यम्

‘कौस्तुभो ब्रह्मणो रूपं प्राणश्चूडामणिस्तथे’ति च ॥ ३९ ॥

पदरत्नावली

कृत्न््नसः पूर्णः प्रसादः प्रसन्नता यस्य तत् तथा, सु प्रशस्तमेवंविधं मुखं यस्य स तथा तम् । स्पृहणीयधाम कमनीयतेजःपुञ्जम् इच्छाविषयस्थानं वा । स्नेहोद्भूतयावलोककलया कटाक्षकलया भक्तानां हृदि संस्पृशन्तं त्वगिन्द्रियसुखं कुर्वन्तम् । श्यामे इन्द्रनीलरत्नकान्तिनिभे पृथौ विस्तीर्णे उरसि शोभितया श्रिया श्रीवत्सरूपया आत्मनश्चतुर्मुखस्य धिष्ण्यं गृहस्थानीयरूपम् । ‘कौस्तुभो ब्रह्मणो रूपं प्राणश्चूडामणिस्तथा’ इति वचनात् । स्वग्रीवायां स्थितं मणिं कौस्तुभं नाम सुभगयन्तमिव विकासयन्तमिव स्थितम् ॥ ३९ ॥

प्रकाशिका

पुनस्तमेव विशिनष्टि ॥ कृत्स्नप्रसादेत्यादि चतुर्भिः । कृत्स्नप्रसादेन पूर्णप्रसादेन सु शोभनं विकसितं मुखं यस्य तम् । स्पृहणीयानां गुणानां धाम स्थानम् । स्नेहावलोककलया सप्रेम-कटाक्षेण हृदि संस्पृशन्तं त्वगिन्द्रियसुखं कुर्वन्तम् । श्यामे इन्द्रनीलकान्तिमति । पृथौ विस्तीर्णे । उरसि शोभितया । श्रिया श्रीवत्सरूपया । कान्त्येति शेषः । स्वग्रीवास्थं मणिं कौस्तुभाख्यम् । कथंभूतम् । आत्मधिष्ण्यमात्मन आवासस्थानम् । सुभगयन्तमिव सुभगयन्कश्चित्तद्वत्स्थितं शोभनकान्तियुक्तं कुर्वन्तमिवेति यावत् । अत्र श्लोकचतुष्टये विद्यमानानां द्वितीयान्तानां पदानामचक्षतेति पूर्वेण वा नेमुरित्युत्तरेण वाऽन्वयः । अत्रात्मधिष्ण्यमित्यस्यात्मनो ब्रह्मण आवासस्थानमित्यभिप्रेत्य तत्र प्रमाण-संवादं दर्शयति ॥ कौस्तुभ इति । रूपं प्रतिमा । प्राणो मुख्यप्राणश्चूडामणिश्चूडामणिस्थः ॥ ३९ ॥

पीतांशुकं पृथुनितम्बमधिस्फुरन्त्या

काञ्च्याऽलिभिर्विरुतया वनमालया च ।

वल्गुप्रकोष्ठवलयं विनतासुतांसे

विन्यस्तहस्तमितरेण धुनानमब्जम् ॥ ४० ॥

पदरत्नावली

पीतांशुकं पृथुनितम्बमधि पीताम्बरावीतविस्तीर्णकटितटोपरि स्फुरन्त्या सहस्त्र-गुणया काञ्च्या अलिभिर्विरुतया शब्दितया वनमालया च शोभमानम् । वल्गुनि सुन्दरे प्रक्रोष्ठे मणिबन्धस्थाने वलयः कङ्कणो यस्य स तथा तम् । इतरेण दक्षिणेन करेणाब्जं कमलं धुनानं कम्पयन्तम् ॥ ४० ॥

प्रकाशिका

पीतमंशुकं वस्त्रं यस्मिंस्तं, पृथुनितम्बं विस्तीर्णकटितटम् । अधि अधिकृत्य । तत्परित इति यावत् । स्फुरन्त्या कांच्याऽलिभिर्भ्रमरैर्विरुतया शब्दितया वनमालया च शोभमानम् । वल्गौ सुन्दरे प्रकोष्ठे मणिबन्धस्थाने विद्यमाना वलयाः कङ्कणा यस्य तम् । विनतासुतो गरुडस्तदंसे विन्यस्तवामहस्तम् । इतरेण दक्षिणहस्तेन धुनानं कम्पयन्तम् ॥ ४० ॥

विद्युत्क्षिपन्मकरकुण्डलमण्डनार्ह

गण्डस्थलोन्नसमुखं मणिमत्किरीटम् ।

दोर्दण्डखण्डविवरे चरता परार्घ्य-

हारेण कन्धरगतेन च कौस्तुभेन ॥ ४१ ॥

पदरत्नावली

कान्त्यादिगुणैर्विद्युतं क्षिपती निरस्यती मकराकारकुण्डले विद्युत्क्षिपन्मकरकुण्डले तयोर्मण्डनार्हे अलङ्कारयोग्ये गण्डस्थले यस्मिंस्तत् तथा, तच्चोन्नसम् उन्नतनासिकं मुखं च यस्य स तथा तम् । प्रशस्ता मणयोऽस्य सन्तीति मणिमत् तादृशं किरीटं यस्य स तथा तम् । दोर्दण्डानां खण्डस्य समूहस्य विवरे मध्ये चरता वर्तमानेन परार्ध्यहारेण अनर्घ्यमुक्तामालया कन्धरगतेन कौस्तुभेन मणिना च युक्तम् । एवंविशिष्टभगवन्तमचक्षतेति पूर्वेणान्वयः ॥ ४१ ॥

प्रकाशिका

विद्युतं क्षिपती निरस्यती ये मकराकारे कुण्डले तयोर्मण्डनार्हेऽलङ्कारयोग्ये गण्डस्थले यस्मिंस्तत्तथा । तच्च तदुन्नसमुन्नतनासिकं मुखं च यस्य तथा तम् । दोर्दण्डानां खण्डः समूहस्तस्य विवरे मध्ये चरता वर्तमानेन परार्ध्यहारेणानर्घ्यमुक्तामालया कन्धरगतेन कन्धरायां ग्रीवायां स्थितेन । ह्रस्वच्छान्दसः । कौस्तुभेन च ॥ ४१ ॥

अत्रोपसृष्टमिति चोत्स्मितमिंदिरायाः

स्वानां धिया विरचितं बहुसौभगा(सौष्ठवा)ढ्यम् ।

मह्यं भवस्य भवतां भजनीयमङ्गं

नेमुर्निरीक्ष्य नवितृप्तदृशो मुदा कैः ॥ ४२ ॥

तात्पर्यम्

‘अविद्यमानकरणं विद्यमानस्मृतिस्तथा । उभयं रचनं प्रोक्तं पूर्वसिद्धेषु तु स्मृतिरि’ति शब्दनिर्णये ॥ ४२ ॥

पदरत्नावली

योऽन्तर्गर्भितभक्त्युद्रेको भगवद्दर्शनानन्तरं बहिरपि निर्गत इति भावेनाह– अत्रेति ॥ ते मुनयो हरेरङ्गं वीक्ष्य मुदा नवितृप्तदृशो ऽलम्बुध्द्यप्राप्तनेत्राः कैः शिरोभिर्नेमुरनाधार-दण्डवद् भुवि पेतुरित्यर्थः । अङ्गाङ्गिनोरणुरपि भेदो नास्तीति तस्येति विशिष्यावचनमित्यतस्तदङ्गं विशिनष्टि– अत्रेति ॥ चशब्दोऽप्यर्थः । यथा ब्रह्मादिभिराराध्येन्दिराया लक्ष्म्या अपि अत्रास्मिन्काले उपसृष्टमुद्भूतमित्युत्स्मृतम् । यद्वात्र केशादिपादावयवविशिष्टे वपुषि इदं मयोपसृष्टमवसितं निश्चितं नातः परमिति । तथापि स्वानां स्वभक्तानां धिया विरचितं स्मृतम् ‘केचित् स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम्’ इत्यादिना । ‘अविद्यमानकरणं विद्यमानस्मृतिस्तथा । उभयं रजनं प्रोक्तं पूर्वसिद्धेषु तु स्मृतिः ॥’ इत्यभिधानाच्च । तस्माद् रचनाशब्दस्य स्मरणार्थत्वं च सिद्धम् । इतोऽपि भक्तधिया स्मृतं, न कृतम् । कृतस्य न्यूनतातिरेकसम्भवादितिभावेनाह– बह्विति ॥ विपुलानेकयोर्बहुरिति वचनादनन्त-सौन्दर्यादिगुणपूर्णम् । इतोऽपि मायाविरचितं नेत्याह– मह्यमिति ॥ मह्यं मम प्रदर्शितमिति वा ॥४२॥

प्रकाशिका

अत्र मदीयस्थाने उरसि उपस्पृष्टं मत्समीपे स्थितमिति हेतोः । चशब्दोऽप्यर्थे । इन्दिराया अपि उत्स्मितमुत्कृष्टस्मयो जात इति । स्वानां धिया विरचितं स्मृतम् । आस्मृतमिति पाठे हारेण कौस्तुभेन चेन्दिराया अप्युप समीपे सृष्टं सम्बध्य स्थितमिति आ सम्यक् स्मृतं भक्तैर्ध्यातम् । अहो हारकौस्तुभयोर्भाग्यं याभ्यां भगवदङ्गे उत्तमाया अपि रमायाः समीपे स्थीयत इति । ध्यातमिति यावत् । उत्स्मृतमिति पाठेऽप्ययमेवार्थः । आस्मृतमिति पाठे स्वानां धिया विरचितं स्मृतमिति पृथग्विशेषणम् । विरचितशब्दस्य कृतौ रूढत्वात्कथं स्मृतमिति व्याख्यानमित्यतो रचनशब्दस्य स्मरणेऽपि विद्वद्रूढिं प्रमाणेनैव दर्शयति ॥ अविद्यमानकरणमिति । उभयोरपि रचनशब्दार्थत्वेऽत्र स्मृतिरेव ग्राह्येति कुत इत्यत उक्तम् ॥ पूर्वसिद्धेष्विति । तुशब्दोऽवधारणे । स्मृतिरेव रचनशब्दार्थतया, ग्राह्येति शेषः । प्रकृते च भगवदङ्गं पूर्वं सिद्धमतस्तद्धिया विरचितमित्यस्य स्वबुद्ध्यनुसारेण स्मृतमित्येव व्याख्येयमिति भावः । बहुसौभगाढ्यमपरिमितैश्वर्यादिगुणपूर्णम् । न विशेषेण तृप्ता दृशो नेत्राणि येषां ते तथा । कैः शिरोभिर्मुदा नेमुः ॥ ४२ ॥

तस्यारविन्दनयनस्य पदारविन्द-

किञ्जल्कमिश्रतुलसीमकरन्दवायुः ।

अन्तर्गतः स्वविवरेण चकार तेषां

सङ्क्षोभमक्षरजुषामपि चित्ततन्वोः ॥ ४३ ॥

तात्पर्यम्

अक्षरजुषामपि तद्रूपसेवाभ्यासिनामपि ॥ ४३ ॥

पदरत्नावली

अर्थक्रियाकारित्वान् नेदं मायाविरचितमित्याह– तस्येति ॥ स्वविवरेण स्वनासिकारन्ध्रेणान्तर्गतः प्रविष्टस्तस्य हरेः पदारविन्दयोः किञ्चल्कैः केसरैरिव स्तितैः रजोभिर्मिश्रा सम्पृक्ता या तुलसी तस्या मकरन्देन मधुना युक्तो मन्दो वायुस्तेषां सनकादीनां चित्ततन्वोः संक्षोभं कञ्चन विकारं चकारेत्यन्वयः । विकारानुत्पत्तौ का उपपत्तिरिति तत्राह– अक्षरजुषामिति ॥ वैराग्यादिगुणैरक्षरजुषां ब्रह्मसेवतां न्यासिनामपि । अनेन यद्यप्यपूर्वविकारसम्भावनाप्राप्तिर्नास्ति तथापि हरिचरणार्पिततुलसीमहिमातिशयद्योतनाय मनोविकासलक्षणविकारादानन्दाश्रुधारासंपातस्तदनु संक्षोभाद् रोमाञ्च इति सूचितम् । ‘‘क्षुभ सञ्चलन’’ इति धातोः ॥ ४३ ॥

प्रकाशिका

तेषु भगवदङ्गोपाङ्गप्रदेशे दण्डवत्पतितेषु तत्रत्यो वायुस्तेषां हर्षं चकारेत्याह ॥ तस्येति । पदयोरर्पितानि यान्यरविन्दानि तेषां किञ्जल्कैः केसरैर्मिश्रा या तत्रैवार्पिता तुलसी तस्या मकरन्देन स्वादुरसमिश्रगन्धेन युक्तो वायुः स्वविवरेण नासिकारन्ध्रेणान्तर्गतः प्रविष्टस्तेषां सनकादीनां चित्ततन्वोः क्षोभं कञ्चन विकारं चित्तेऽतिहर्षं तनौ रोमाञ्चं चकारेत्यर्थः । कथम्भूतानाम् । अक्षरजुषामपि । अत्राभिप्रेतमर्थं दर्शयति ॥ अक्षरजुषामपीति । तथा चाक्षरशब्देन प्रकृतं भगवद्रूपमेव ग्राह्यम् । तज्जुषां तत्सेवाभ्यासिनामपीत्यर्थः । धातुबलात्सेवामात्रलाभेऽपि अपिशब्दबलादभ्यासोऽपि सूचित इति ज्ञातव्यम् । अनेन भगवच्चरणार्पितारविन्दादिकिञ्जल्कसामर्थ्यमेतादृशमिति तन्माहा-त्म्यातिशयो दर्शित इति ज्ञातव्यम् ॥ ४३ ॥

ते वा अमुष्य वदनासितपद्मकोश-

मुद्वीक्ष्य सुन्दरतराधरकुन्दहासम् ।

लब्धाशिषः पुनरवेक्ष्य तदीयमङ्घ्रि

द्वन्द्वं नखारुणमणिश्रयणं निदध्युः ॥ ४४ ॥

पदरत्नावली

मनश्चलनेनेन्द्रियचलनं तस्मात् तनोः सञ्चलनमिति नियमादतोऽयमपि कश्चन संक्षोभ इति ध्वनयन्नाह– ते वा इति ॥ यो नित्यं स्वहृदन्तरपरोक्षीक्रियते स एवायमित्यतोऽमुष्येति । ‘‘षिञ् बन्धन’’ इति धातोः सितं बद्धं मुकुलितम्, असितं नवोत्फुल्लं वदनमेवासितपद्मकोशम् । अन्यथा सितं शुक्लम् असितं कृष्णमिति शापप्रदानस्यानभीष्टत्वेन मुखस्य कार्ष्ण्यं जातम् । तदयुक्तम् उत्तरत्र शापानुमतिप्रतीतेः । यद्वा नेत्रयोर्नीलवर्णत्वेन तद्युक्तत्वाद् वदनाख्यनीलपद्मकोशमुद्वीक्ष्य स्वयं वामनत्वाद्धरेः प्रांशुत्वादूर्ध्वमुखा दृष्ट्वा लब्धाशिषः भगवदवयवेषु मुख्यमुखदर्शनात् प्राप्तपुण्योच्चयाः । सुन्दरतराधरश्च कुन्दवल्गुहासश्च यस्मिन् स तथा तम् । पुनर्मुखदर्शनानन्तरं नखा एवारुणा रक्ता मणयस्तेषां श्रयणम् आश्रयणम् आश्रयं तदीयमङ्घ्रिद्वन्द्वमवेक्ष्य अवाङ्मुखा दृष्ट्वा मुखमारभ्य पादाद्यन्तं सर्वाङ्गमवलोक्य नितरां दध्युरित्यन्वयः । हृदि च निदध्युः । आलोकयन्निति वा । बहिष्ठस्य हृद्गतस्य चैकत्वमपश्यन् इत्यर्थः ॥ ४४ ॥

प्रकाशिका

तेषां हर्षकारितं सम्भ्रममाह ॥ ते वा इति द्वाभ्याम् । ते वै किल । वदनमेव सितपद्मकोशं कृष्णकमलकुड्मलम् । सुन्दरतराधरश्च कुन्दपुष्पवद्धवलो हासश्च यस्मिन्स तथा तम् । उद्वीक्ष्योर्ध्वं दृष्ट्वा स्वेषां ह्रस्वत्वान्मुखान्युन्नमय्य दृष्ट्वेति यावत् । लब्धाशिषः प्राप्तमनोरथाः सन्तो नखा एवारुणमणयस्तेषां श्रयणमाश्रयभूतमङ्घ्रिद्वन्द्वं पुनरवेक्ष्याधो वीक्ष्य । मुखमारभ्य पादपर्यन्त-मवलोक्येति यावत् । निदिध्युर्नितरां हृदि स्थापितवन्तः ॥ ४४ ॥

पुंसां गतिं मृगयतामिह योगमार्गै-

र्ध्यानास्पदं बहुमतं नयनाभिरामम् ।

ते तद्वपुर्दर्शयानमनन्यसिद्धै-

रौत्पत्तिकैः समगृणन् युतमष्टभोगैः ॥ ४५ ॥

पदरत्नावली

मनःसङ्कल्पेन वागिन्द्रियप्रवृत्तिदर्शनादयमपि कश्चन संक्षोभः सञ्जात इत्यभि-नयन्तः स्तुवन्तीत्याह– पुंसामिति ॥ ध्यानास्पदम् उपासनाविषयम् । ‘‘बहु पूर्णतायाम्’’ इति धातोः, बहुत्वेन पूर्णत्वेन मतं ज्ञातम् । नयनान्यभिरमयति सुखयतीति नयनाभिरामम् । एवंविधं तद्वपुर् दर्शयानं दर्शयन्तम् । अनन्यसिद्धैरन्यैरननुभूतैरौत्पत्तिकैः सहजैरष्टभोगैरणिमाद्यष्टैश्वर्यैर्युतं मिश्रितमभिन्नं हरिं समगृणन्नित्यन्वयः । ‘‘गृण स्तुतौ’’ इति धातुः ॥ ४५ ॥

प्रकाशिका

योगमार्गैर्गतिं मोक्षं मृगयतां पुंसां ध्यानास्पदं ध्यानस्य विषयभूतं, बहुमत-मत्यादरास्पदम् । पूर्णत्वेन मतं ज्ञातमिति वा । नयनान्यभिरामयति सुखयतीति नयनाभिरामं तद्वपु-र्दर्शयानं दर्शयन्तम् । अनन्यसिद्धैरन्येष्वसिद्धैरसाधारणैरोत्पत्तिकैः स्वाभाविकैरष्टभोगैर्युतं समगृणन् सम्यगस्तुवन् ॥ ४५ ॥

कुमारा ऊचुः–

योऽन्तर्हितो हृदि गतोऽपि दुरात्मनां त्व-

मद्यैषि नो नयनमूलमनन्तराद्धः ।

यर्ह्येव कर्णविवरेण गुहां गतो नः

पित्राऽनुवर्णितरहो भवदुद्भवेन ॥ ४६ ॥

पदरत्नावली

गुरूपदिष्टगुणानुसङ्कीर्तनरूपत्वादियं स्तुतिः पारमर्थिकी, न लौकिकीत्याशयेनाह– योऽन्तर्हित इति ॥ यस्त्वं दुरात्मनामशुभमनस्कानां हृदि गतोऽपि अन्तर्हितोऽसि । अत्यन्त-समीपवर्तिनोऽदर्शनवचनं स्तुतित्वाद् युज्यतां नाम, न परमार्थत इत्यत उक्तम्– अनन्तराद्ध इति ॥ अनवसितमाहात्म्यादिदमपि किञ्चन माहात्म्यमित्यर्थः । स त्वमद्य नो नयनमूलमेषि चक्षुर्विषयं गतोऽसि । किं गुणविशिष्टत्वेनेत्यत आह– यर्हीति ॥ भवत उद्भवो जननं यस्य स तथा तेन, नः पित्रा, नाम्ना ब्रह्मणा, यर्हि येन लक्षणेनानुवर्णितरहः यथावदुपदिष्टरहस्यः हरिरस्मत्कर्णविवरेण हृदय-गुहां गतोऽभूत्, तल्लक्षणविशिष्टत्वेनेति शेषः । अनेन सच्चिदानन्दलक्षणं भगवन्तमद्राक्षन् न तु मायामयमित्युक्तं भवति । एवकारेणोपदिष्टदृष्टयो रूपयोेरेकत्वं द्रढयति ॥ ४६ ॥

प्रकाशिका

हे अनन्त । यस्त्वं हृदि गतोऽपि दुरात्मनां दुष्टमनसामन्तर्हितोऽसि स नोऽस्माकमद्य नयनमूलं दृष्टिपथमेषि । कथमित्यत उक्तम् ॥ राद्ध इति । अघटितघटकसामर्थ्य-सिद्धिपूर्णो यत इत्यर्थः । कदाऽप्येवमहं भवद्भिर्नानुभूतः किमित्यतोऽन्तरेवानुभूत इत्याहुः । यर्ह्येवेति । एवशब्दोऽप्यर्थः । यद्यपि भवत उद्भवो जननं यस्य तेन । नः पित्रा नाम्ना ब्रह्मणा अनुवर्णितरहो यथावदुपदिष्टरहस्यः हरिरस्मत्कर्णविवरेण नो गुहां हृदयगुहां गतोऽभूदन्तरेव ध्यातऽस्तथाप्यद्य बहिरपि नयनमूलं गतः । अहो अस्मद्भाग्यमिति भावः ॥ ४६ ॥

तं त्वा विदाम भगवन् परमात्मतत्त्वं

सत्त्वेन सम्प्रति रतिं रचयन्तमेषाम् ।

यत् तेऽनुभावविदितैर्दृढभक्तियोगै-

रुद्ग्रन्थयो हृदि विदुर्मुनयो विरागाः ॥ ४७ ॥

पदरत्नावली

इतोऽपि नेदं तत्कालोपपन्नमायामयरूपं किन्तु साक्षाज्जगज्जन्मादिकारणमिति-भावेन स्तुवन्तीत्याह– तं त्वामिति ॥ हे भगवन्, नः पित्रा यो जन्मादिकारणत्वेनोपदिष्टस् तथेदानीं चक्षुर्विषयश्च तं त्वां परमात्मनः परब्रह्मणस्तत्त्वमनारोपितं रूपं विदाम विद्मः । कीदृशं त्वाम् ? सम्प्रति इदानीमेषां लोकानां सत्त्वेन गुणेन रतिं सुखं रचयन्तमुत्पादयन्तम् । सृष्ट्यादौ प्रवर्तमानस्यानारोपितरूपत्वे किं प्रमाणमित्याशङ्क्य सम्यज्ज्ञानिज्ञानं मानमित्याहुरित्याह– यत् त इति ॥ ते तवानुभावस्य जगत् सृष्ट्यादिमहिम्नोऽनुभावेन निश्चयज्ञानेन विदितैर्लब्धैर्दृढैर्भक्तियोगैर्विरागा विषयेषु शोभनाध्यासबुद्धिविधुरा अत एवोद्ग्रन्थय उन्मूलिताहङ्कारबन्धा उत्पाटितपुत्रभार्यादि-स्नेहरूपहृदयग्रन्थयो वा मुनयः सर्वज्ञाः परमहंसा यत् तत्त्वं विदुरुपास्यापरोक्षीकुर्वते तादृक् तत्त्वात्मकं त्वां विद्म इत्यन्वयः ॥ ४७ ॥

प्रकाशिका

ननु भवत्पित्रोपदिष्टः परमात्मा नाहं तस्याव्यक्तत्वात् । मम तु भवद्भिर्दृष्टत्वा-दित्यतस्स एव त्वं तल्लक्षणवत्वेनास्मत्प्रत्यभिज्ञाविषयत्वादित्याहुः ॥ तं त्वामिति । भो भगवन् । त्वामस्मद्दृष्टिविषयं परमात्मनस्तत्त्वं लक्षणं यस्यास्मत्पित्रोपदिष्टस्य तमेव विदाम विद्मः प्रत्यभिजानीमः । किं तल्लक्षणं भवत्पित्रा चोपदिष्टं यद्वत्त्वात्प्रत्यभिज्ञया भवतामपि परमात्मबुद्धिरित्यतो लक्षणद्वयमाहुः ॥ सत्त्वेनेति । संप्रति स्थितिकाले सत्त्वेन गुणेन । तदभिवर्धनेनेति यावत् । एषां लोकानां रतिं सुखं रचयन्तमुत्पादयन्तम् । अनेन पालकत्वं विष्णुलक्षणमुक्तमिति मन्तव्यम् । यद् यम् । तेऽनुभावः सामर्थ्यविशेषः । कृपेति यावत् । तेन विदितैर्लब्धैर्दृढभक्तिरूपयोगैर्मोक्षोपायैः । विरागा विषयेषु शोभनाध्यासविधुरा अत एवोद्ग्रन्थय उन्मूलिताहङ्कारबन्धा मुनयो हृदि विदुर्दृष्टवन्तस्तं विद्म इत्यन्वयः । अनेन योगिभिर्दृश्यत्वं लक्षणमुक्तमिति ज्ञातव्यम् ॥ ४७ ॥

नात्यन्तिकं विगणयन्त्यपि ते प्रसादं

किं चान्यदर्पितभयं भ्रुव उन्नयैस्ते ।

येऽङ्ग त्वदङ्घ्रिशरणा भवतः कथायाः

कीर्तन्यतीर्थयशसः कुशला रसज्ञाः ॥ ४८ ॥

तात्पर्यम्

‘भक्तिज्ञानपरीपाकात्किञ्चित्पूर्वं च मुच्यते । दर्शनेन हरेस्तत्र नाऽनन्दः पूर्णतां व्रजेदि’ति ब्रह्मतर्के ॥ अतोऽनपेक्षाणामानन्दोद्रेको मोक्षेच्छुभ्यः । तेषां परिपाकतः पूर्वं ब्रह्मदृष्ट्या मुक्तिप्राप्तेः । ‘मुमुक्षोः केवलो भक्तो मुक्तावपि सुखी भवेदि’ति च ॥ ४८ ॥

पदरत्नावली

इतोऽप्युपनिषत्कामिन्या परिष्वक्तं ब्रह्म त्वमेव, यतो भवत्कथारसायनस्वादुज्ञा मुक्तावानन्दसमृद्धिहेतुभूतभक्तिज्ञानमन्तरेण दर्शनमात्रेणापरिपक्वभक्तिज्ञानानां पुंसां योग्यां मुक्तिं नाकाङ्क्षन्त इत्याहुरित्याह– नात्यन्तिकमिति ॥ आत्यन्तिकं प्रसादं भगवद्दर्शनमात्रेण लिङ्गशरीरात्यय-समये विद्यमानभक्तिज्ञानपरिपाकाभावात् सम्यगनभिव्यक्तानन्दं मोक्षमपि न विगणयन्ति विशिष्टोऽयमिति न बहुमन्यन्ते ‘भक्तिज्ञानपरिपाकात् किञ्चित् पूर्वं च मुच्यते । दर्शनेन हरेस्तत्र नानन्दः पूर्णतां व्रजेत् ॥’ इति वचनात् । तव भक्त्या कथामृतपानतृप्तत्वाद् भ्रुव उन्नयैरुज्जृम्भणविशेषैरर्पितभयम् अन्यत् पारमेष्ठ्यादिपदम् । किञ्च किमु वक्तव्यम् । कुशला इत्यनेन ‘मुमुक्षोः केवलो भक्तो मुक्तावपि सुखी भवेत् ’ इत्यतो मोक्षेच्छुभ्योऽनपेक्षकाणां मुक्तावानन्दोद्रेकः स्यादिति भक्त्यापादनमेव साधनीयमिति बुद्धिपाटवं सूचयति । कीर्तन्यं कीर्तनीयं तीर्थं शुद्धं यशो यस्य स तथा तस्य । अत्र मुक्तीनां बाहुविध्यात् तदधिकारिणां च तथात्वान्मुक्तावपि भेदः पारमार्थिकः । तद्दातुरेकत्वेनाणुरपि स्वगतो भेदो नास्ति । अनेकत्वे मिथो वैषम्यैण नाश्यत्वापत्तेः प्रमाणविरोधाच्चेति द्योतितम् ॥ ४८ ॥

प्रकाशिका

मुनयः किमितरसाधारणमोक्षादिकमुद्दिश्य हृदि विदुर्नेत्याह ॥ नात्यन्तिकमिति । अत्र ये भवतः कथाया रसज्ञा भगवत्कथाश्रवणादिजनितापरोक्षज्ञानेन स्वरूपसुखानुभववन्तस्ते आत्यन्तिकं प्रसादमत्यर्थं प्रसादं तदुत्तरभाविनं मोक्षमपि न विगणयन्तीत्युक्त्या जीवन्मुक्तानां ब्रह्मदर्शनेन मोक्षात्पूर्वमपि स्वरूपानन्दाभिव्यक्तिरूपा मुक्तिरस्तीति प्रतीयते । सा कथम् । पुनः श्रवणाद्यनुष्ठान-वैय्यर्थ्यप्रसङ्गादतोऽत्राभिमतानन्दाभिव्यक्तिं प्रमाणेनैव दर्शयति ॥ भक्तिज्ञानेति । भक्तिज्ञानपरिपाकात् । तत्साध्यादात्यन्तिकप्रसादात्पूर्वमपि हरिदर्शनेन किञ्चिन्मुच्यते प्रायः स्वरूपानन्दाभिव्यक्तिमान् भवतीत्यर्थः । तर्हि पुनः श्रवणादिवैयर्थ्यमित्यत उक्तम् ॥ तत्रेति । तत्र तदा पूर्णताम् । स्वयोग्यता-पेक्षया । तदर्थं पुनः श्रवणादिकमिति भावः ।

नन्वेवं कथमेतेषामात्यन्तिकप्रसादाविगणनं मूलोक्तं संभवति । स्वयोग्यानन्दपूर्त्यर्थं तदपेक्षाया अवश्यकत्वादित्यतोऽत्राभिप्रेतमर्थं दर्शयति ॥ अत इति । यत एवं ज्ञानिनां ब्रह्मदर्शनमात्रेण प्रायः स्वरूपानन्दाभिव्यक्तिः प्रमाणसिद्धाऽतः साऽनपेक्षाणामुत्तमाधिकारिणां मोक्षेच्छुभ्योऽधमाधिकारिभ्यः । तदपेक्षयेति यावत् । आनन्दोद्रेक उत्कृष्टानन्दाभिव्यक्तिरूपो भवतीत्यर्थः । अत्रानपेक्षाणामित्युक्त्या स्वयोग्यानन्दपूर्त्यपेक्षाऽपि तेषां नास्तीति सूचयति । ततश्च किमित्यत आह ॥ तेषामिति । अनपेक्षाणामुत्तमाधिकारिणामित्यर्थः । परिपाकतः । भक्तिज्ञानयोरिति शेषः । मुक्तिप्राप्तेरधमाधिकारि-प्राप्यमुक्त्यपेक्षयाऽप्यधिकमुक्तिप्राप्तेरधमाधिकारिभिः प्राप्तमात्यन्तिकप्रसादमपि न विगणयन्ति । इत्युक्त-मिति शेषः । तथा चोत्तमाधिकारिणो ये कथाया रसज्ञा ब्रह्मसाक्षात्कारप्राप्तस्वरूपानन्दानुभववन्त-स्तेऽधमाधिकारिषु जायमानमात्यन्तिकप्रसादमपि न विगणयन्ति । स्वेषामिदानीमेव तन्मोक्ष-सुखापेक्षयाऽधिकसुखस्य लाभादिति मूलाभिप्राय इति भावः । ब्रह्मदर्शनमात्रेणानपेक्षाणां मोक्षेच्छुमुक्त्य-पेक्षयाऽधिकानन्दप्राप्तिर्भवतीत्येव कुत इत्यतोऽत्र प्रमाणमाह ॥ मुमुक्षोरिति । केवलो निरपेक्षः सुखी अधिकसुखवान् । अपिशब्देन न केवलं जीवन्मुक्तावित्यस्य लाभात्प्रकृतसिद्धिरिति ज्ञातव्यम् ॥ ततश्चायं श्लोकार्थः ॥ हे अङ्ग । ये, त्वदङ्घ्रिरेव शरणमाश्रयो येषां ते तथा । त्वद्भक्ता इति यावत् । कीर्तन्यं कीर्तनीयं तीर्थं शुद्धं यशो यस्य स तथा तस्य भवतः कथाया रसज्ञाः । तच्छ्रवणादिप्राप्तब्रह्मदर्शनाभि-व्यक्तकिञ्चित्स्वरूपसुखानुभववन्तः कुशला नीचोच्चविदस्ते उत्तमाधिकारिणस्ते तव अधमाधिकारिषु जायमानमात्यन्तिकं भक्तिज्ञानपरिपाकानन्तरभाविनं मोक्षाव्यवहितपूर्वकालीनं प्रसादमपि । तज्जन्यं मोक्षमपीति यावत् । न विगणयन्ति न बहु मन्यन्ते स्वेषामिदानीमेव तदपेक्षयाऽधिकसुखप्राप्तेः । ते भ्रुव उन्नयैरुजृंभणविशेषैरर्पितं पतनभयं यस्य तदन्यत्स्वर्गादिकं न विगणयन्तीति किमु वक्तव्यमिति ॥ ४८ ॥

कामं व्रजेम वृजिनैर्निरयेषु नष्टा-

श्चेतोऽलिवद् यदि नु ते पदयो रमेत ।

वाचश्च नस्तुलसिवद् यदि तेऽङ्घ्रिशोभाः

पूर्येत ते गुणगणैर्यदि कर्णरन्ध्रः ॥ ४९ ॥

तात्पर्यम्

‘यावत्परमभक्तैस्तु भुज्यते दुःखमुल्बणम् । तावन्मुक्तौ सुखोद्रेकस्तत्र चेद्भक्तिवर्धनमि’ति च ॥ ४९ ॥ इति तृतीयतात्पर्ये षोडशोऽध्यायः ॥ १६ ॥

पदरत्नावली

वयमपि त्वदङ्घ्र्येकशरणत्वादिदमेवाकाङ्क्षामहे नान्यदिति विज्ञापयन्तीत्याह– काममिति ॥ अङ्घ्री शोभयन्तीत्यङ्घ्रिशोभाः । स्तुतिद्वारेणेति शेषः । निरयेषु पश्वादियोनिषु वृजिनै-र्दुःखैर्नष्टाः क्लिष्टाः । ‘यावत् परमभक्तैस्तु भुज्यते दुःखमुल्बणम् । तावन्मुक्तौ सुखोद्रेकस्तत्र चेद् भक्तिवर्धनम् ॥’ इति वचनार्थमभिप्रेत्य निरयप्राप्तिप्रार्थना क्रियत इत्यभिप्रायः ॥ ४९ ॥

प्रकाशिका

इदानीं त्वत्पार्षदयोः शापप्रदानजनितपापफलं दुःखमस्माकमवश्यं भवत्वित्याशयेन प्रार्थयन्ते ॥ काममिति । वृजिनैः शापप्रदानजनितैः पापैर्निरयेषु नष्टाः क्लिष्टा अलिवदलिर्यथा कण्टकैराविद्धमानोऽपि पुष्पेष्वेव रमते तद्वच्चेतस्त्वत्पदयोर्विघ्नानगणय्य यदि रमेत । अङ्घ्रिभ्यां शोभा यासां तास्तथा । तुलसीवदित्यस्य तुलसी यथा त्वत्प्रीत्यैव त्वदङ्घ्रिभ्यां शोभते तथाऽस्मदीयवाचोऽपि त्वत्प्रीत्यैव स्तुतिद्वारा त्वदङ्घ्रिभ्यां शोभेत शोभेरन्निति भावः । अत्र पापफलदुःखभोगः कथं प्रार्थ्यते दुःखस्यानिष्टत्वेन द्वेष्यत्वात् । तत्र च मनआदीनां भगवद्विषयकत्वरूपभक्तिवर्धनं च किमर्थं प्रार्थ्यत इत्यतोऽत्राभिप्रायं प्रमाणेनैव दर्शयति ॥ यावदिति । तुशब्देन दुःखे कायक्लेशादिरूपतपोजन्यत्वं वोत्तमापराधादिरूपपापजन्यत्वं वा सूचितमिति ज्ञातव्यम् । सुखोद्रेकस्तेषाम् । भवतीति शेषः । चेतोऽलिवदित्यादेस्तात्पर्यम् ॥ तत्र चेदिति । तथा च हरिभक्त्यविलोपेन दुःखभोगे आनन्दोद्रेक-रूपफलसद्भावादेवं प्रार्थनं युक्तमिति भावः ॥ ४९ ॥

प्रादुश्चकर्थ यदिदं पुरुहूत रूपं

तेनेश निर्वृतिमवापुरलं दृशो नः ।

तस्मा इदं भगवते नम उद्विधेम

योऽनात्मनां दुरुदयो भगवान् प्रतीतः ॥ ५० ॥

इति श्रीमद्भागवते तृतीयस्कन्धे षोडशोऽध्यायः ।

पदरत्नावली

सत्यां भक्तौ सर्वत्रानन्दोद्रेकः स्यात् तवापरोक्षसंभवाद् यथेहास्मदपराधम-विगणय्येति भावेनाहुरित्याह– प्रादुरिति ॥ पुरु विस्तीर्णं हुतं यशो यस्य स तथा हे पुरुहूत अलं निर्वृतिमापुरित्यनेनान्तर्दृष्टेर् बाह्यदृष्टेः स्पष्टत्वं सूचयति । तस्येयं प्रत्युपक्रियेत्याहुरित्याह– तस्मा इति ॥ यो भगवान् प्रतीतः पे्रक्षितो भक्तैरिति शेषः । यश्च दुरात्मनां दुरुदयः दुष्प्रकाशस्तस्मै भगवते इदमुत्कृष्टं नमः विधेम कुर्म इत्यर्थः ॥ ५० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे षोडशोऽध्यायः ॥

प्रकाशिका

एतद्रूपदर्शनेन वयं कृतार्था इत्याहुः ॥ प्रादुश्चकर्थेति । भो पुरुहूत पुरु बहु हुतं यशो यस्येत्यर्थः । यदिदं रूपं प्रादुश्चकर्थ प्रकटितवानसि । दृशो नेत्राण्यनात्मनामजितेन्द्रियाणां दुरुदयो दुष्प्रकाशः । इदं नमः प्रत्युपकाराय विधेम कुर्मः । य उत्प्रतीत उत्कृष्टतयेदानीं साक्षात्कृतः ॥ ५० ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां षोडशोऽध्यायः ॥ ३-१६ ॥