१५ पञ्चदशोऽध्यायः

निशम्य कौशारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः

अथ पञ्चदशोऽध्यायः

शुक उवाच–

निशम्य कौशारविणोपवर्णितां हरेः कथां कारणसूकरात्मनः ।

पुनः स पप्रच्छ समुद्यताञ्जलिर्न चातितृप्तो विदुरो धृतव्रतः ॥ १ ॥

पदरत्नावली

रुद्रादीनां हर्याज्ञाकारित्वेन तद्वशत्वान्निरुपमचरितस्वातन्त्र्यगुणाकरे हरौ मनोरतिः कर्तव्या पुरुषेणेति विधीयतेऽस्मिन्नध्याये । तत्रादौ विदुरः पुनर्मुनिना वर्णितं वराहचरितमाकर्ण्य हरिकथायामलम्बुद्धिरहितो विशेषतः श्रोतुकामो मैत्रेयं पृच्छतीति शुकः परीक्षितं कथयति– निशम्येति ॥ समुद्यताञ्जलिर्हरिमुद्दिश्येति शेषः । कुत एवमवगतमित्यत उक्तम्– न चेति ॥ अनेन हरिकथाश्रवणतृष्णातिशयं ध्वनयति । ततो हरिप्रसादेन हरिकथाश्रवणं स्यादिति शिरसि मुकुलित-करकमल इत्यर्थः । कथाश्रवणविघ्नपरिहाराय धृतव्रत इति ॥ १ ॥

प्रकाशिका

स्वस्यादरप्रदर्शनाय समुद्यतांजलिः । हरिमुद्दिश्येति शेषः ॥ १ ॥

विदुर उवाच–

तेनैव च मुनिश्रेष्ठ हरिणा यज्ञमूर्तिना ।

आदिदैत्यो हिरण्याक्षो हत इत्यनुशुश्रुम ॥ २ ॥

पदरत्नावली

पूर्वं लयोदके स्वयमेव मग्नां पृथिवीमुद्धरत आदिदैत्यं हिरण्याक्षं च मारयतः श्रीवराहचरितं श्रुत्वा पुनः कश्यपाद् दित्यामुत्पन्नस्य पार्षदाविष्टस्य हिरण्याक्षदैत्यस्य हन्तुस्तस्यैव श्रीवराहकथां श्रोतुकामो विदुरो मैत्रेयं पृच्छति । उक्तकथांशे वक्तव्यं नास्तीति द्योतयितुं श्रुतं सामान्यतो अनुवदति विदुर इत्याह– तेनेति ॥ येन लयोदके मग्ना भूरुदहारि तेनैव रूपान्तरेण ॥ २ ॥

प्रकाशिका

येन लयोदके मग्नां भुवमुद्धरता यज्ञाङ्गजनकमूर्तिना हरिणा वराहरूपेण ब्रह्मजो हिरण्याक्षो हतस्तेनैव हरिणाऽऽदिदैत्यो हिरण्याक्षः स एव कश्यपजपार्षदविजयदेहाविष्टः पुनर्हत इत्यनुशुश्रुम ग्रन्थान्तरे ज्ञानिमुखात् ॥ २ ॥

तस्य चोद्धरतः क्षोणीं स्वदंष्ट्राग्रेण लीलया ।

दैत्यराजस्य च ब्रह्मन् कस्माद्धेतोरभून्मृधः ॥ ३ ॥

पदरत्नावली

तत्र श्रोतव्यांशं पृच्छति– तस्येति ॥ रणोत्पत्तौ महताऽपराधेन भवितव्यम् । तादृशोऽपराधः क इति प्रश्नार्थः ॥ ३ ॥

प्रकाशिका

तद्विस्तरतो वर्णयेत्याशयेन पृच्छति ॥ तस्य चेति । क्षोणीं समुद्रजले तेन मज्जिताम् । दैत्यराजस्य पार्षददेहाविष्टस्य । मृधो युद्धम् ॥ ३ ॥

मैत्रेय उवाच–

साधु वीर त्वया पृष्टमवतारकथां हरेः ।

यत् त्वं पृच्छसि मर्त्यानां मृत्युपाशविनाशनीम् ॥ ४ ॥

पदरत्नावली

मैत्रेयो विदुरप्रश्नं स्तौतीत्याह– साध्विति ॥ साधु सत्सभासूचितम् । वेर्हरेरिच्छायां रमत इति वीरः । तस्य संबुद्धिः । पुरुषार्थोपयोगित्वात् साधुत्वमस्येत्याह– यत् त्वमिति ॥ ४ ॥

प्रकाशिका

प्रश्नस्य साधुत्वं कुत इत्यत आह ॥ अवतारेति । यद्यस्मात्त्वं मृत्युपाशविनाशनीं विच्छेदिनीं हरेरवतारकथां पृच्छसि । तथा च पुरुषार्थसाधनीभूतकथाविषयकत्वादस्य प्रश्नस्य साधुत्व-मिति भावः ॥ ४ ॥

ययोत्तानपदः पुत्रो मुनिना गीतयाऽर्भकः ।

मृत्योः कृत्वेह मूध््नर्यङ्घ्रिमारुरोह हरेः पदम् ॥ ५ ॥

पदरत्नावली

न केवलं संसारलक्षणमृत्युपाशविनाशनी विच्छेदनी हरिकथा, अपि त्वैहिका-मुष्मिकसिद्धिकरीति निदर्शयति– ययेति ॥ मुनिना नारदेन अर्भकः पञ्चवर्षः । अस्याः प्रपञ्चश्चतुर्थे वक्ष्यते ॥ ५ ॥

प्रकाशिका

हरिकथाया मृत्युपाशविनाशकत्वमेव न किं त्वैहिकामुष्मिकसकलपुरुषार्थसाधकत्व-मिति दृष्टान्तमुखेनाह ॥ ययेति । मुनिना नारदेन अर्भकः पञ्चवर्षो ध्रुवः । इह जीवलोके मृत्योर्मूध््नर्यङ्घ्रिं कृत्वा । मृत्युं जित्वेति यावत् । अनेन सशरीर एव हरेः पदं स्थानं ध्रुव आरुरोहेति गम्यते ॥ ५ ॥

अथात्रापीतिहासोऽयं श्रुतो मे वर्णितः पुरा ।

ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् (अनुश्रुण्वतां) ॥ ६ ॥

पदरत्नावली

श्रोतृणां श्रद्धातिशयजननार्थं विदुरप्रश्नपरिहारत्वेन पुरावृत्तं कथयति– अथेति ॥ अथशब्देन पूर्वत्र ब्रह्मपुत्रो हिरण्याक्षो वराहहरिणा हतो न तु दितिपुत्रः, स एव पार्षदाविष्टो निहन्यत इति कथाविशेष आरभ्यत इति सूचयति । वधस्यैककर्तृकत्वाद् दुष्टजनमोहनार्थत्वाच्च एवं कथनं सम्भावितमित्यपिपदेन वक्ति । श्रुतो वक्ष्यत इति शेषः ॥ ६ ॥

प्रकाशिका

तयोः सङ्ग्रामहेतुत्वं वक्तुं पुरावृत्तं कथयति ॥ अथेति । अथ तस्माद्धरिकथा-विषयकत्वदीयप्रश्नोत्तरस्यावश्यं वक्तव्यत्वात् । न केवलमत्रार्थे मदीयवचनं किं त्वयं वक्ष्यमाणेति-हासोऽपि मे मया श्रुतोऽस्ति । तमेव प्रश्नोत्तरत्वेन वक्ष्यामीति शेषः ॥ ६ ॥

दितिर्दाक्षायणी क्षत्तर्मारीचं कश्यपं पतिम् ।

अपत्यकामा चकमे सन्ध्यायां हृच्छ्रयार्दिता ॥ ७ ॥

पदरत्नावली

कोऽयमिति तत्राह– दितिरिति ॥ दाक्षायणी दक्षस्य पुत्री नाम्ना दितिः । मारीचं मरीचेः पुत्रम् । रामवैरिमारीचव्यावृत्त्यर्थं हृच्छ्रयः कामः, तेनार्दिता पीडिता ॥ ७ ॥

प्रकाशिका

इतिहासमेवाह ॥ दितिरिति । दाक्षायणी दक्षस्य पुत्री । दितिर्नामतः । मारीचं मरीचिपुत्रम् । रामशरहतमारीचव्यावृत्त्यर्थं कश्यपमिति । तथा साङ्केतितपुरुषान्तरव्यावृत्तये मारीचमिति । चकमे कामितवती । सन्ध्यायां सन्ध्याकाले । तत्र हेतुर्हृच्छ्रयः कामस्तेनार्दितेति ॥ ७ ॥

इष्ट्वाऽग्निजिह्वं पयसा पुरुषं यजुषां पतिम् ।

निम्लोचत्यर्क आसीनमग्न्यागारे समाहितम् ॥ ८ ॥

पदरत्नावली

मारीचं विशिनष्टि– इष्ट्वेति ॥ अग्निरेव जिह्वा यस्य स तथा तम् । यजुषां पतिं यजुर्वेदगतमन्त्राणां विषयत्वेन स्वामिनम् । निम्लोचति अस्तं गच्छति । अग्न्यागारे अग्निगृहे ॥ ८ ॥

प्रकाशिका

तदप्यग्निहोत्रगृहे तत्रापि समाहितं समाधियुक्तम् । चकम इत्याह ॥ इष्ट्वेति । अग्निरेव जिह्वा यस्य स तथा तं यजुषां पतिं यजुर्वेदप्रतिपाद्यं यज्ञाराध्यं पुरुषं पूर्णषड्गुणं विष्णुम् । निम्लोचत्यस्तंगच्छति । अग्न्यागारेऽग्निगृहे ॥ ८ ॥

दितिरुवाच–

एष मां त्वत्कृते विद्वन् काम आत्तशरासनः ।

दुनोति दीनां विक्रम्य रम्भामिव मतङ्गजः ॥ ९ ॥

पदरत्नावली

मनसैव चकमे न तु वाक्पूर्वकमिति तत्राह– एष इति ॥ त्वत्कृते त्वामुद्दिश्य रम्भां कदलीम् ॥ ९ ॥

प्रकाशिका

त्वत्कृते त्वामुद्दिश्य दुनोति पीडयति । विक्रम्य शौर्यमाविर्भाव्य । रम्भां कदलीम्

॥ ९ ॥

तद् भवान् दह्यमानानां सपत्नीनां समृद्धिभिः ।

प्रजावतीनां भद्रं ते मय्यायुङ्क्तामनुग्रहम् ॥ १० ॥

पदरत्नावली

न केवलं विषयभोगेच्छुरहं त्वां याचे । किन्तु प्रयोजनान्तरेच्छयाऽपीत्याह– तद् भवानिति ॥ प्रजावतीनां पुत्रवतीनाम् । मयि आयुङ्क्तामिति पदच्छेदः । सम्भ्रमादिकारशिरा अकारो न लुप्तः ॥ १० ॥

प्रकाशिका

न केवलं भोगेच्छुरहं त्वां याचे किंतु प्रयोजनांतरेच्छयाऽपीत्याह ॥ तद्भवानिति । प्रजावतीनां पुत्रवतीनां, ते भद्रमस्तु । आयुङ्क्तां सर्वतो युनक्तु सम्यक् करोतु । मय्ययुङ्क्तामिति पाठेऽडागमश् छांदसः ॥ १० ॥

भर्तर्याप्तोरुमानानां लोकानाविशते यशः ।

पतिर्भवद्विधो यासां प्रजया ननु जायते ॥ ११ ॥

पदरत्नावली

अस्मदनुग्रहात् किं तव प्रयोजनमिति तत्राह– भर्तरीति ॥ सप्तमीयम् पञ्चम्यर्थे । भर्तुराप्तोरुमानानामित्यर्थः । मानमपि पुत्रावाप्तिलक्षणमित्याशयेनाह– पतिरिति ॥ ११ ॥

प्रकाशिका

अनुग्रहसाध्यं प्रयोजनं दर्शयति ॥ भर्तरीति । सप्तमी पञ्चम्यर्थे । भर्तुः प्राप्तबहुमानानामित्यर्थः । स्त्रीणामिति शेषः । मानमपि पुत्रप्राप्तिलक्षणमित्याशयेनाह ॥ पतिरिति । प्रजया पुत्ररूपेण । तज्जाया जाया भवति यदस्यां जायते पुनरिति श्रुतेरिति भावः ॥ ११ ॥

पुरा पिता नो भगवान् दक्षो दुहितृवत्सलः ।

कं वृणीत वरं वत्सा इत्यपृच्छत नः पृथक् ॥ १२ ॥

स विदित्वाऽऽत्मजानां नो भावं सन्तानभावनः ।

त्रयोदशाददात् तासां यास्ते शीलमनुव्रताः ॥ १३ ॥

पदरत्नावली

श्रुतगुणत्वेन स्नेहोदर्कया मया भवान् वृत इत्यतोऽपि मदनुग्रहः कार्य इत्याशयेनाह– पुरेति ॥ भावं हृद्गताभिप्रायम् । अददाद् अदात् ॥ १२,१३ ॥

प्रकाशिका

नोऽस्माकं पिता नोऽस्मान्पृथगपृच्छत् । भावमभिप्रायमददाददात् ॥ १२,१३ ॥

अथ मे कुरु कल्याण कामं कञ्जविलोचन ।

आप्तोपसर्पणं भूमन्न मोघं हि महीयसि ॥ १४ ॥

पदरत्नावली

उपसंहरति– अथेति ॥ अथ तस्मात् । भवतो महत्तमत्वान्मम भवच्छरणगमनं सफलं स्यात् तथा दृष्टत्वादिति भावेनाह– आप्तेति ॥ महीयसि पुरुषे । आप्तत्वेनोपसर्पणं शरणगमनम्

॥ १४ ॥

प्रकाशिका

अथ तस्मान्महीयसि त्वादृशे महत्तमे पुरुषे आप्तत्वेनोपसर्पणं शरणगमनम् ॥१४॥

मैत्रेय उवाच–

इति तां वीर मारीचः कृपणां बहुभाषिणीम् ।

प्रत्याहानुनयन् वाचा प्रवृद्धानङ्गकश्मलाम् ॥ १५ ॥

पदरत्नावली

एवं प्रार्थयमानामेनामगणय्य मारीचः किं तूष्णीमभूत् ? यत्किञ्चिदुत्तरमवददुत इति संशयो मा भूदिति भावेनाह– इतीति ॥ १५ ॥

प्रकाशिका

भो वीर । कृपणाम् । एष मां त्वत्कृते विद्वन्निति श्लोकद्वये पूर्वं कृपणत्व-स्योक्तत्वात् । भर्तरीत्यादिश्लोकचतुष्टयोक्तरीत्या बहुभाषिणीं प्रवृद्धोऽनंगः कामस्तेन कृतं कश्मलं चित्तक्षोभलक्षणं यस्याः सा तथा ताम् ॥ १५ ॥

एष तेऽहं विधास्यामि प्रियं भीरु यदिच्छसि ।

तस्याः कामं न कः कुर्यात् सिद्धिस्त्रैवर्गिकी यतः ॥ १६ ॥

पदरत्नावली

यतः यस्या भार्यायास् त्रैवर्गिकी त्रयाणां धर्मार्थकामानां सम्बन्धिनी सिद्धिः

॥ १६ ॥

प्रकाशिका

अथाऽपि काममेनं त इत्यादिना स्वेन वक्ष्यमाणमङ्गीकारयितुं भार्यां स्तौति ॥ एष त इति पञ्चभिः । यतो यस्याः सकाशात् । त्रैवर्गिकी त्रयाणां धर्मार्थकामानां सम्बन्धिनी सिद्धिः प्राप्तिः

॥ १६ ॥

सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् ।

व्यसनार्णवमत्येति जलयानैर्यथार्णवम् ॥ १७ ॥

पदरत्नावली

एतदेव विशदयति– सर्वाश्रमानिति ॥ कलत्रवान् प्रशस्तभार्यायुक्तः स्वाश्रमेण गार्हस्थ्याश्रमेणान्नदानादिना ब्रह्मचर्यादिसर्वाश्रमानुपादाय सम्भाव्य संसाराख्यव्यसनसमुद्रमत्येतीत्यन्वयः

॥ १७ ॥

प्रकाशिका

सर्वाश्रमान् ब्रह्मचर्याद्याश्रमयुक्तान् । स्वाश्रमेण गार्हस्थ्याश्रमानुष्ठानेनोपादायान्न-दानादिना सम्भाव्य ॥ १७ ॥

यामाहुरात्मनो ह्यर्धं श्रेयस्कामस्य भामिनि ।

यस्यां स्वधुरमध्यस्य पुमांश्चरति विज्वरः ॥ १८ ॥

पदरत्नावली

‘अर्धो वा एष आत्मनो यत् पत्नी’ इति हि श्रुतिः । एतस्या व्याख्यानरूपोऽयं श्लोकः– यामाहुरिति ॥ श्रतौ आत्मशब्दविशेषणं श्रेयस्कामपदम् । यथा पत्नी भर्तृकृतपुण्यस्यार्धभागिनी इति श्रुत्यर्थोऽनेन श्लोकेन स्पष्टीकृतः । स्वधुरं स्वव्यापारभारम् । अध्यस्य निक्षिप्य ॥ १८ ॥

प्रकाशिका

आत्मनो देहस्यार्धमग्निहोत्रादिकर्मसु द्वयोः सहाधिकारात् । यच्छब्दानां तां त्वामिति वक्ष्यमाणेनान्वयः । हे भामिनि । ‘‘सुन्दरी रमणी रामा कोपना सैव भामिनी’’त्यभिधानात् । कोपयुक्ते सुन्दरीत्यर्थः । स्वधुरं दृष्टादृष्टकर्मभारम् । अध्यस्य निक्षिप्य विज्वरो निश्चिंतः ॥ १८ ॥

यामाश्रित्येन्द्रियारातीन् दुर्जयानितराश्रमैः ।

वयं जयेम हेलाभिर्दस्यून् दुर्गपतिर्यथा ॥ १९ ॥

पदरत्नावली

इतोऽपि त्वं सम्भाव्येत्याह– यामिति ॥ इन्द्रियाण्येवारातयः शत्रव इन्द्रियारात-यस्तान् । इन्द्रियाणामरातयो विषयास्तानिति वा । एवं चेद् दृष्टान्तोऽपि सङ्गच्छते । उभयेषामपि बाह्यत्वात् । पूर्वत्र सम्भावनामात्रतयोक्तम् ॥ १९ ॥

प्रकाशिका

इन्द्रियाण्येवारातयः शत्रवस्तान् । इतर आश्रमो येषां तैर्हेलाभिर्लीलाभिर्जयेम । सभार्यस्येन्द्रियाणि प्रायेणेतस्ततो न गच्छन्तीति भावः ॥ १९ ॥

न वयं प्रभवस्तां त्वामनुकर्तुं गृहेश्वरि ।

अप्यायुषा वा कार्त्स्न्येन ये चान्ये गुणगृध्रवः ॥ २० ॥

पदरत्नावली

वक्ष्यमाणस्ववाक्यार्थम् अङ्गीकारयितुं मुनिर् अतिस्तुतिं करोति– न वयमिति ॥ भवन्तो न प्रभवश्चेदन्यो भवादृशो नेति तत्राह– ये चेति ॥ येऽन्ये च गुणगृध्नवः गुणलुब्धाः पुरुषास्तेऽपि भार्यामनुकर्तुं न प्रभव इत्यर्थः ॥ २० ॥

प्रकाशिका

तामनेकोपकारकर्त्रीं त्वां कार्त्स्न्येनानुकर्तुं प्रत्युपकारैरनृणीभवितुं न प्रभवो न समर्थाः । गुणगृध्रवो गुणलुब्धाः पुरुषास्तेऽपि न समर्थाः । आयुषाऽपि सम्पूर्णेनाप्यायुषा । वाशब्दा-ज्जन्मान्तरे(रैर)ऽपि न प्रभव इति सूचयति ॥ २० ॥

अथापि काममेनं ते प्रजायै करवाण्यलम् ।

यथा मां नातिवाचन्ति मुहूर्तं प्रतिपालय ॥ २१ ॥

पदरत्नावली

किमिति स्तोत्रेण निष्प्रयोजनेनेति मा भूच्छङ्केत्याह– अथापीति ॥ यद्यप्येव-मथापि । तर्हि किमिति कालः क्षिप्यत इति तत्राह– यथेति ॥ अतिवाचन्ति निन्दन्ति । तर्हीदं वचनं गुडजिह्विकाकल्पमित्यत उक्तम्– मुहूर्तमिति ॥ प्रतिपालय प्रतीक्षस्व ॥ २१ ॥

प्रकाशिका

यद्यपि त्वदनुकरणमशक्यमथाऽपि प्रजायै पुत्रोत्पत्यै । यथा येन मुहुर्तेन नाति-वाचन्ति न निन्दन्ति ज्ञानिनस्तदेकं मुहूर्तं प्रतिपालयानिष्टकारि यथा न स्यात्तथा कुरु । एतन्मुहूर्तगमनपर्यन्तं धैर्यं कुर्विति यावत् ॥ २१ ॥

एषा घोरतमा वेला घोराणां घोरदर्शना ।

चरन्ति यस्यां भूतानि भूतेशानुचराणि ह ॥ २२ ॥

पदरत्नावली

प्रतीक्षायां किं कारणमत्राह– एषेति ॥ घोराणां वेलेत्युक्तं स्पष्टयति– चरन्तीति

॥ २२ ॥

प्रकाशिका

घोरवेलेत्युक्तं स्पष्टयति ॥ चरन्तीति ॥ २२ ॥

एतस्यां साध्वि सन्ध्यायां भगवान् भूतभावनः ।

परीतो भूतपार्षद्भिर्वृषेणाटति भूतराट् ॥ २३ ॥

पदरत्नावली

भवत्सामर्थ्येन भूतानि किं कुर्वन्तीति तत्राह– एतस्यामिति ॥ २३ ॥

प्रकाशिका

भूतान्यस्माकं किं करिष्यन्तीत्यत आह ॥ एतस्यामिति । भूतान्येव पार्षदा भृत्यास्तैः । पार्षदशब्दपर्यायः पार्षच्छब्दः । वृषेण वृषमारुह्य । तथा च भूतराट् रुद्रोऽघ-कारिणोऽस्मान्दण्डयिष्यतीति भावः ॥ २३ ॥

श्मशानचक्रानिलधूलिधूम्रविकीर्णविद्योतजटाकलापः ।

भस्मावकुण्ठामलरुक्मदेहो देवस्त्रिभिः पश्यति देवरस्ते ॥ २४ ॥

पदरत्नावली

अस्मात् पशुपतेरपि किं भयमित्याशङ्क्य तस्मादस्मदवद्यदर्शने भयमित्याशय-वानाह– श्मशानेति ॥ श्मशाने विद्यमानश्चक्रानिलो वात्यावायुः श्मशानमण्डलवर्ती वातस् तस्मा-दुत्पन्नया धूल्या धूम्रो धूमवर्णः विशीर्णश्च विद्योतश्च जटाकलापो यस्य स तथा । विशिष्टः द्योतः प्रकाशो यस्य स तथा । भस्मनाऽवकुण्ठोऽवरूषणं यस्य स तथोक्तः । अमलं रुक्मं रजतम् । भस्माऽवकुण्ठश्च रजतवद्धवलो देहो यस्य स तथा । त्रिभिः, नेत्रैरिति शेषः । ते तव देवरः सहोदर्याः सत्याः पतिः ॥ २४ ॥

प्रकाशिका

तर्हि तदज्ञाता भवानीत्यतस्तदज्ञातत्वं तवाशक्यमित्याशयेनाह ॥ श्मशानेति । तत्कर्तृकदर्शनमपि भयप्रदमिति द्योतनायैतानि विशेषणानि । श्मशाने विद्यमानश्चक्रानिलश्चक्राकार-वातस्तेनोत्पन्ना या धूलिस्तया धूम्रवर्णो विकीर्णो विक्षिप्तो विद्योतो विशिष्टद्युतिमान् जटाकलापो यस्य स तथा । भस्मनावकुण्ठोऽवरूषणं यस्य सः । अमलं रुक्मं रजतम् । भस्मावकुण्ठोऽमलरुक्मवद्धवलदेहो यस्य स तथा । त्रिभिर् नेत्रैरिति शेषः । अस्मिन्मुहूर्तेऽघकारिणो निलीनानपि तृतीयनेत्रेण पश्यतीति भावः । ते तव देवरः सहोदर्याः सत्याः पतिः । इदं लज्जोत्पादनार्थमुक्तम् ॥ २४ ॥

न यस्य लोके स्वजनः परो वा नात्यादृतो नोत कश्चिद्विगर्ह्यः ।

वयं व्रतैर्यच्चरणापविद्धामाशास्महेऽजां बत भुक्तभोगाम् ॥ २५ ॥

पदरत्नावली

गर्भिणीवधनोदार्थं पिशाचचर्याया हर्याज्ञाकारित्वेन हरेः प्रियत्वात्, अतस्तदप्रियं तस्याप्यप्रियमितीदानीमिदं न कार्यमित्यभिप्रेत्य तस्य हरेरतिशयितमाहात्म्यमाह– न यस्येति ॥ व्रतैर्हरिप्रीतिकरैर्यस्य चरणापविद्धां पदा तिर्यक् प्रहृतां भुक्तभोगामप्यजां गृहभार्यापुत्रादिरूपां प्रकृति-शब्दवाच्यां श्रियमाशास्महे इच्छामः । बतेत्यनेन हरिमाहात्म्यमचिन्त्यमित्यास्वादयति ॥ २५ ॥

प्रकाशिका

ननु स्वजनानामस्माकं स दण्डं न करिष्यतीत्यत आह ॥ न यस्येति । स्वजनो बन्धुः, परो वैरी योग्यतातिरेकेण नास्तीत्यर्थः । एवमग्रेऽपि । विगर्ह्यो विशेषेण निंद्यः । वयमपि तादृशाश्चेत्कुतोऽस्माकं तद्भयमित्यत आह ॥ वयमिति । येन चरणेनापविद्धां तिर्यक् प्रहतां भुक्ता भोगा यया तामप्यजां गृहभार्यादिरूपां प्रकृतिं व्रतैस्तमाराध्याशास्महे इच्छामः । बत इत्यनेनास्माकं न तादृशवैराग्यमिति सूचयति । अतस्तद्भयमस्माकमस्त्येवेति भावः ॥ २५ ॥

यस्यानवद्याचरितं मनीषिणो

गृह्णन्त्यविद्यापटलं बिभित्सवः ।

निरस्तसाम्यातिशयोऽपि यः (हरेः) स्वयं

पिशाचचर्यामचरत् सतां गतिः ॥ २६ ॥

पदरत्नावली

अविद्यालक्षणं पटलं दर्शनप्रतिबन्धकनेत्रदोषं बिभित्सवो भेत्तुकामा मनीषिणो यस्यानवद्याचरितं जगत्सृष्ट्यादिकर्म गृह्णन्ति, श्रवणादिनेति शेषः । यश्च हरिर्निरस्तसाम्यातिशयस्तस्य हरेराज्ञया देवेन्द्रादिसतामाश्रयो हरः पिशाचचर्यामचरदित्यन्वयः । ‘पिशाचचर्यामचरद् रुद्रो विष्ण्वाज्ञयैव तु । गर्भिणीवधनोदार्थमहो विष्णुर्विडम्बकृद्’ इति वचनबलान्मध्ये हर्याज्ञयेति पदमध्या-ह्रियते । पशुपतावुक्तगुणानामसम्भवाच्च । ‘अहं रुद्राय धनुरातनोमि’ इति पराधीनताप्रतीतेश्च ॥ २६ ॥

प्रकाशिका

नन्वयं पिशाचचर्यामाचरन्दृश्यतेऽतः पिशाचवदेवाकिंचित्कर इत्यत आह ॥ यस्येति । यस्य महारुद्रस्यानवद्यानि विषयरागादिशून्यान्याचरितानि हरिध्यानादिरूपाणि मनीषिणो नारदाद्याः, अविद्यालक्षणं पटलं ज्ञानदृष्टिप्रतिबन्धकं, बिभित्सवो भेत्तुमिच्छव इन्द्रादिसर्वजीवेषु, निरस्तौ साम्यातिशयौ यस्य स तथा । सतां नारदादीनां गतिरुपदेशार्थं गम्यः । एतादृशोऽपि स्वयं कारणविशेषेणैव पिशाचचर्यामचरत् । अतः कथमकिंचित्कर इति भावः ॥ २६ ॥

हसन्ति यस्याचरितं हि दुर्भगाः

स्वात्मन् रतस्याविदुषः समीहितम् ।

यैर्वस्त्रमाल्याभरणानुलेपनैः

श्वभोजनं स्वात्मतयोपलालितम् ॥ २७ ॥

पदरत्नावली

ननु केचिद्धरेश्चरितमपि निन्दन्ति तत् कथमित्याशङ्क्य ते तमःप्राप्तियोग्या असुरजना इति भावेनाह– हसन्तीति ॥ यैः शुनो भोजनमन्नमिदं शरीरं वस्त्रादिभिः स्वात्मतया निज-स्वरूपतया उपलालितं ते पुरुषाः, समीहितं विडम्बनरूपचेष्टाविशेषम् अविदुषोऽविद्वांसोऽज्ञानवन्तोऽत एव दुर्भगा दुःखरूपतम आप्तुं योग्याः । स्वात्मनि स्वरूप एव रतस्याचरितमुपनयाज् ज्येष्ठविवाहाच्च पूर्वं पुत्रोत्पत्त्यादिरूपं हसन्ति । ‘न देवचरितं चरेत्’ इति द्योतको हिशब्दः ॥ २७ ॥

प्रकाशिका

नन्वेवंचेत्केचिदेनं कस्माद्धसन्तीत्यत आह ॥ हसन्तीति । स्वात्मन्स्वात्मनि स्वांतर्यामिणि समीहितमभिप्रेतमविदुषोऽविद्वांसः । सुपां सुलुगिति जसः शसादेशः । श्वभोजनं शुनो भोजनमन्नमिदं शरीरं, वस्त्रादिभिः स्वात्मतयेदमेव स्वात्मेति बुद्ध्योपलालितं पोषितम् ॥ २७ ॥

ब्रह्मादयो यत्कृतसेतुपाला यत्कारणं विश्वमिदं च मायया ।

आज्ञाकरी तस्य पिशाचचर्या अहो विभूम्नश्चरितं विडम्बनम् ॥ २८ ॥

तात्पर्यम्

पिशाचचर्यामचरद् रुद्रो विष्ण्वाज्ञयैव तु । गर्भिणीवधनोदार्थमहो विष्णु-र्विडम्बकृदि’ति वाराहे ॥ २८ ॥

पदरत्नावली

इतोऽपि ब्रह्मरुद्राद्यचिन्त्यमहिमा परमात्मेत्याह– ब्रह्मादय इति ॥ ब्रह्मादयो देवा येन हरिणा कृतं धर्मसेतुं तदाज्ञया पालयन्ति इति तत्कृतसेतुपालाः । इदं विश्वं यो हरिः कारणं निमित्तं यस्य तद् यत्कारणम् । तत्कारणत्वं च मायया स्वेच्छया न पराधीनतया । हिशब्देन ‘स हि कर्मफलोज्झितः’ इति मानं सूचयति । तस्य हरेराज्ञां करोतीति आज्ञाकरी । केयम् ? शिवस्य पिशाचचर्या । हरेराज्ञया शिवः पिशाचचर्यामकरोदित्युक्तं भवति । ततः किम् ? तत्राह– अहो इति ॥ विभूम्नः परिपूर्णस्य हरेर् विडम्बनं लोकानुकारिरूपं चरितम् अहो जगत्पूज्यान् रुद्रादीनपि स्वाज्ञाकर्मणि प्रवर्तयतीति । अत्र रुद्रविषयत्वेन यथास्थितव्याख्यानस्यानुपपत्तिरुक्तेति नेह प्रपञ्च्यते ॥ २८ ॥

प्रकाशिका

केनचित्कारणेन रुद्रः पिशाचचर्यामचरदित्युक्तम् । किं तत्कारणमित्यपेक्षायामाह ॥ ब्रह्मादय इति । अत्र यच्छब्दाभ्यां रुद्रपरामर्शे ब्रह्मादीनां तत्कृतसेतुपालनत्वासम्भवात् तस्य रुद्रस्या-ज्ञाकर्यन्यस्य पिशाचचर्येत्यर्थप्रतीतिप्रसङ्गाच्च विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ पिशाचचर्यामिति । गर्भिणी काचन तस्या वधजनितपापनाशार्थं या विष्ण्वाज्ञा तयैवेति योज्यम् । तुशब्दो भक्तिपूर्वकत्वादि-विशेषसूचकः । अनेन मूले यच्छब्दद्वयं तच्छब्दश्च विष्णुपराः । पिशाचचर्येत्यतः पूर्वं रुद्रस्येति शेष इति दर्शयति । ननु रुद्रस्य ज्ञानिनः कथं गर्भिणीवधेन पापप्रसक्तिर्यन्नाशार्थं विष्णुना पिशाचचर्याऽऽ-ज्ञापितेत्यत आह ॥ अहो विष्णुरिति । विष्णुर्विडम्बकृल्लोकानुकरणकर्ता । लोके हि भृत्यैः पापे कृते तत्प्रायश्चित्तार्थं तत्स्वामिभिः किञ्चिद्व्रतं विधीयते । तथा तस्य पापाभावेऽपि लोकशिक्षार्थं चकारेति भावः । अहो आश्चर्यम् । एतादृशानपि स्वाज्ञाकारिणः करोतीति । अनेन मूलेऽहो विभूम्न इति चतुर्थपादतात्पर्यमुक्तमिति ज्ञातव्यम् । ततश्चायं श्लोकार्थः । ब्रह्मादयो देवा येन विष्णुना कृतं सेतुं धर्ममर्यादां पालयन्तीति यत्कृतसेतुपालाः । तस्याज्ञाकरीत्यत्रेदं हेतुतयोक्तमिति ज्ञातव्यम् । अत्रापि हेतुं सूचयन्नाह ॥ यत्कारणमिति । इदं विश्वं यः हरिः कारणं निमित्तं यस्य तद् यत्कारणं तद्यत्कारणम् । विश्वकारणत्वं चेच्छयैवेत्याह । माययेति । चशब्दोऽवधारणे । माययैवेत्यर्थः । तस्य विष्णोराज्ञाकरी गर्भिणीवधजनितपापनाशाय या विष्णुना कृताऽऽज्ञा तत्करणरूपा रुद्रस्य पिशाचचर्या । ननु रुद्रस्य ज्ञानिनः पापप्रसक्तेरेवाभावात्कथमेवमाज्ञा विष्णुना कृतेत्यत आह ॥ अहो विभूम्न इति । विशेषेण पूर्णस्य विष्णोश्चरितं रुद्राद्याज्ञापनं विडम्बनं लोकानुकरणरूपमहो आश्चर्यम् । एतादृशानपि स्वाज्ञाकर्मणि प्रवर्तयतीति ॥ २८ ॥

मैत्रेय उवाच–

एवं संवेदिता भर्त्रा मन्मथोन्मथितेन्द्रिया ।

जग्राह वासो ब्रह्मर्षेर्वृषलीव गतत्रपा ॥ २९ ॥

पदरत्नावली

हरेर्माहात्म्यं दुरवबोधं यदैवं ज्ञापितया दित्या पापकर्मणि प्रवृत्तमिति भाववान् मैत्रेय एवमुक्त्या तया किमकारीति वैदुरीं मनश्शङ्कां परिहरन्नाह– एवमिति ॥ संवेदिता सम्यग्ज्ञापिता । वासः परिधानम् ॥ २९ ॥

प्रकाशिका

संवेदिता सम्यग्ज्ञापिता । वासः परिधानम् । वृषलीव वेश्येव ॥ २९ ॥

संविदित्वाथ भार्यायास्तन्निर्बन्धं विकर्मणि ।

नत्वा दिष्टाय रहसि तया चोपविवेश ह ॥ ३० ॥

पदरत्नावली

निर्बन्धं दुराग्रहम् । दिष्टाय कर्मसाक्षिणे देवाय । ‘निर्वेश उपभोगः स्यादुपवेशस्तु मैथुनम्’ इत्यभिधानम् । प्रत्यारम्भे प्रसिद्धे हेत्यभिधानाद्धेत्यनेन प्रत्यारम्भं सूचयति ॥ ३० ॥

प्रकाशिका

निर्बन्धं दुराग्रहं विकर्मणि निषिद्धकर्मणि दिष्टाय कर्मसाक्षिणे देवाय । उपविवेश । ‘‘निर्वेश उपभोगः स्यादुपवेशस्तु मैथुनमि’’त्यभिधानान्मैथुनं कृतवानित्यर्थः । हेति हरिसङ्कल्प एतादृश इत्यास्वादने ॥ ३० ॥

अथोपस्पृश्य सलिलं प्राणानायम्य वाग्यतः ।

ध्यायन् जजाप विरजं ब्रह्म ज्योतिः सनातनम् ॥ ३१ ॥

पदरत्नावली

अप्सरामुग्धमुनिवदाकल्पं मारीचेन तयोपविष्टम् ? नेत्याह– अथेति ॥ अथ वीर्यपातानन्तरमेव । आचम्य सुप्तं तेन किम् ? अत्राह– ध्यायन्निति ॥ ज्योतिः स्वज्योतीरूपं विरजं कञ्जलादिरजोमलविधुरं ब्रह्म ध्यायन् सनातनं प्रणवनादेन सहितं ब्रह्म गायत्र्यात्मकं मन्त्रं जजापेत्यन्वयः

॥ ३१ ॥

प्रकाशिका

उपस्पृश्य स्नात्वा जजाप । गायत्रीमिति शेषः ॥ ३१ ॥

दितिस्तु व्रीडिता तेन कर्मावद्येन भारत ।

उपसङ्गम्य विप्रर्षिमधोमुख्यभ्यभाषत ॥ ३२ ॥

पदरत्नावली

दित्या पुनश्च ‘किं कार्यमभूत् । अथ किम् ?’ इति गर्वीभूय स्थितं क्रियान्तर-मारब्धमुत इति तत्राह– दितिस्त्विति ॥ स्वकर्मणा जातेनावद्येन ॥ ३२ ॥

प्रकाशिका

कर्मावद्येन कर्मजनितदोषेण ॥ ३२ ॥

दितिरुवाच–

न मे गर्भमिमं ब्रह्मन् भूतानामृषभोऽवधीत् ।

रुद्रः पतिर्हि भूतानां यस्याकरवमंहसम् ॥ ३३ ॥

पदरत्नावली

स्वकृतपापकर्मप्रतीकारोपायमाह किम् ? नेत्याह– न म इति ॥ भूतानामृषभ इत्यस्य व्याख्यानं पतिरित्यादि । अंहसमपराधम् ॥ ३३ ॥

प्रकाशिका

नावधीन् मा हंत्वित्यर्थः । वधशंकाबीजमाह ॥ यस्येति । अंहसमपराधमकरवं कृतवती ॥ ३३ ॥

नमो रुद्राय महते देवायोग्राय मी•हुषे (मीढुषे) ।

शिवाय न्यस्तदण्डाय धृतदण्डाय मन्यवे ॥ ३४ ॥

पदरत्नावली

समस्तापराधानां प्रतीकारो नमस्कारादन्यो नास्तीति मत्वा तमेव तद्दोषनिरास-पटुगुणविशिष्टत्वेन करोति– नम इति ॥ रुद्रायापराधलक्षणरोगद्रावकाय । रोदनाद् रुद्र’ इति शिशुस्वाभावो न युक्त इत्याह– महत इति ॥ तस्य लोकानुकरणार्थत्वान्न दोषाय स्यादिति भावः । यक्षादेरपि महत्वादित्यत उक्तम्– देवायेति ॥ तस्यापि देवयोनित्वादित्यत उक्तम्– उग्रायेति ॥ उद्धतं सर्वं ग्रसतीत्युग्रस्तस्मै । तर्ह्यसौ सर्वभक्षको, न तु निजाभीष्टवर्षीत्यत उक्तम्– मीढुष इति ॥ मिह सेचन इति धातुः । स्वयं सुखित्वेन वर्तते चेन्निजाय सुखं ददातीति तत्कथमित्यतः– शिवायेति ॥ अनेन प्रसिद्धनामकरणेन, कृत्यकर्तरि न्यस्तदण्डाय तद्विरुद्धकर्तरि धृतदण्डायेति तत्तद्योग्यतातिरेकेण क्रियां न करोतीत्युक्तम् । उभयार्थसूचकविशेषणमाह– मन्यव इति ॥ मननशीलाय क्रोधात्मने वा । गुणदोषौ मत्वा निग्रहानुग्रहौ करोतीति । अनेन ‘इमा रुद्राय स्थिरधन्विने गिरः क्षिप्रेषवे देवाय स्वधाम्ने’ इत्यादिमन्त्रो दर्शितः ॥ ३४ ॥

प्रकाशिका

नतानां न भयमिति मत्वा रुद्रं नमति ॥ नम इति ॥ रुद्राय भक्तापराध-रूपरुग्द्रावणकर्त्रे । उग्राय दुष्टानामतिक्रूराय । मी•हुषे भक्ताभीष्टसेचकाय । साधुषु न्यस्तदण्डाय दुष्टेषु धृतदण्डायात एव मन्यवे क्रोधवते मननशीलायेति वा ॥ ३४ ॥

स नः प्रसीदताद् भीमो भगवानुर्वनुग्रहः ।

व्याधस्याप्यानुकम्प्यानां स्त्रीणां देवः सतीपतिः ॥ ३५ ॥

पदरत्नावली

फलितमाह– स न इति ॥ मा भीरिति भीमः । प्रसादकर्तृत्वे हेतुमाह– व्याध-स्येति ॥ व्यध हिंसायामिति धातोः सततहिंसाशीलस्य । अपिपदेन कैमुत्यलक्षणो हेतुरुक्तः ॥ ३५ ॥

प्रकाशिका

मा भीर्यस्मादसौ भीमः । प्रसादकरणे हेतुं कैमुत्येनाह ॥ व्याधस्येति । हिंस-कस्यापीत्यर्थः । सतीपतिरित्यनेन स्वभगिनीपतित्वरूपमपि हेतुं सूचयति ॥ ३५ ॥

मैत्रेय उवाच–

स्वगर्भस्याशिषं लोक्यामाशासानां प्रवेपतीम् ।

निवृत्तसन्ध्यानियमो भार्यामाह प्रजापतिः ॥ ३६ ॥

पदरत्नावली

गर्भः सर्वथा रक्षणीय इति लौकिकी लोक्या । तामनुसरन्तीम् । आशासानां कामयमानाम् । प्रवेपतीं कम्पमानाम् ॥ ३६ ॥

प्रकाशिका

लोक्यां लोकदयार्हाम् । आशिषं शुभम् । आशासानां कामयमानां प्रवेपतीं कंपमानां, सन्ध्यायां यो नियमः स निवृत्तो यस्य स तथा ॥ ३६ ॥

कश्यप उवाच–

अप्रायत्यादात्मनस्ते दोषान्मौहूर्तिकादुत ।

मन्निर्देशातिचारेण देवानां चैव हेलनात् ॥ ३७ ॥

पदरत्नावली

आत्मनः मनसोऽप्रायत्याद् उपशमनलक्षणप्रयत्नाभावात् । व्यवायाख्यदोषात् । मन्निर्देशातिचारेण मदाज्ञातिक्रमणेन । हेलनादवज्ञानात् ॥ ३७ ॥

प्रकाशिका

आत्मनो मनसोऽप्रायत्यान्निग्रहे प्रकृष्टयत्नाकरणान्मौहूर्तिकाद्दोषात् । सन्ध्याकाल-रूपमुहूर्तसम्बन्धिमैथुनजनितदोषात् । उतापि । मन्निर्देशातिचारेण मदाज्ञातिक्रमेण । रुद्रादिदेवानां हेलनादवज्ञानाच्च ॥ ३७ ॥

भविष्यतस्तवाभद्रावभद्रे जाठराधमौ ।

लोकान् सपालांस्त्रींश्चण्डि मुहुराक्रन्दयिष्यतः ॥ ३८ ॥

पदरत्नावली

जाठराधमौ पुत्राधमौ । अधमत्वमुपपादयति– लोकानिति ॥ ३८ ॥

प्रकाशिका

जाठराधमौ पुत्राधमावेव । अधमपुत्रत्वमेवोपपादयति ॥ लोकानिति । भो चण्डि क्रूरे ॥ ३८ ॥

प्राणिनां हन्यमानानां दीनानामकृतागसाम् ।

स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु ॥ ३९ ॥

पदरत्नावली

प्राणिनां हन्यमानानां, सतामकृतापराधानां, स्त्रीणां निगृह्यमाणानां सतीनां, महापुरुषेषु कोपितेषु सत्सु ॥ ३९ ॥

प्रकाशिका

प्राणिनामिति श्लोके त्वत्पुत्राभ्यामिति शेषः । हन्यमानानां सतां निगृह्यमाणानां सतीनाम् । कोपितेषु सत्सु ॥ ३९ ॥

तदा विश्वेश्वरः क्रुद्धो भगवान् लोकभावनः ।

हनिष्यत्यवतीर्यासौ यथाद्रींश्छतपर्वधृक् ॥ ४० ॥

पदरत्नावली

शतपर्वधृक् देवेन्द्रः ॥ ४० ॥

प्रकाशिका

शतपर्वधृग्वज्रधर इन्द्रः ॥ ४० ॥

दितिरुवाच–

वधं भगवता साक्षात् सुनाभोदारबाहुना ।

आशासे पुत्रयोर्मह्यं मा क्रुद्धाद् ब्राह्मणात् प्रभो ॥ ४१ ॥

पदरत्नावली

भर्त्रैवमुक्ता दितिः किमाहेति तत्राह– वधमिति ॥ सुनाभेन चक्रेण युक्त उदारो महान् बाहुर्यस्य स तथोक्तः । ‘उदारो महति ख्याते’ इति यादवः । तेन मह्यं मम आशसे इच्छामि । किन्तु विशेषोऽस्तीत्याह– मा क्रुद्धादिति ॥ ४१ ॥

प्रकाशिका

सुनाभेन सुदर्शनचक्रेण युक्त उदारः महान् बाहुर् यस्य तेन । आशासे इच्छामि । मह्यं मम महात्मसु कोपितेष्वित्युक्ते शंकितचित्ता सती प्रार्थयते ॥ मा क्रुद्धाद्ब्राह्मणादिति । एकवचनं समुदायाभिप्रायम् । ब्राह्मणानां शापादित्यर्थः ॥ ४१ ॥

न ब्रह्मदण्डदग्धस्य न भूतभयदस्य च ।

नारका(क्य)श्चानुगृह्णन्ति यां यां योनिमसौ गतः ॥ ४२ ॥

पदरत्नावली

ब्रह्मशापेन हतस्य को दोष इति तत्राह– न ब्रह्मेति ॥ एतादृशः कोऽन्योऽ-स्तीति तत्राह– न भूतेति ॥ नारक्यः नरके पच्यमानाः प्रजाः । असौ ब्रह्मशापदग्धः भूतभयदो वा । चशब्दो वार्थे ॥ ४२ ॥

प्रकाशिका

ब्रह्मशापेन हतस्य किमनिष्टं भवतीत्यत आह ॥ न ब्रह्मेति । दण्डः शापो नार(क्य)का नरके पतिता अपि । तथा यां यां योनिमसौ ब्रह्मदण्डदग्धो भूतभयदो वा गतो भवति । तत्रस्थाश्च नानुगृह्णन्ति न कृपां कुर्वन्ति ॥ ४२ ॥

कश्यप उवाच–

कृतशोकानुतापेन सद्यः प्रत्यवमर्शनात् ।

भगवत्युरुमानाच्च भवे मय्यपि चादरात् ॥ ४३ ॥

पदरत्नावली

सुनाभायुधात् पुत्रयोर्वधं सद्गतिमाशास इति यत् तच्चाभिलषितं तद्भक्तस्य, न त्वभक्तस्यायोग्यस्यासुरस्य । तदुक्तम्– ‘विष्णुहस्तवधाल्लोको भक्तस्यान्यस्य न क्वचित् । तथाप्यसुर-मोहाय न विविक्तं क्वचित् क्वचित् ॥’ इत्याशयवान् कश्यपः प्रकारान्तरेण तयोः सद्गतिः स्यादिति ध्वनयन्नुत्तरं वक्ति– कृतशोकेति ॥ कृतपापकर्मनिमित्तशोकाज्जातेनानुतापेन पश्चात्तापेन ॥ ४३ ॥

प्रकाशिका

कृतशोकानुतापेन कृतपापनिमित्तशोकजातेन पश्चात्तापेन । प्रत्यवमर्शनाद्युक्तायुक्त-विचारानुसंधानादुरुमानाद्बहुमानात् । भवे रुद्रे ॥ ४३ ॥

पुत्रस्यैव च पुत्राणां भवितैकः सतां मतः ।

गायन्ति यद् यशः शुद्धं भगवद्यशसा समम् ॥ ४४ ॥

पदरत्नावली

तव पुत्रस्य हिरण्यकशिपोः पुत्राणां मध्ये सतां सम्मत एकः पुत्रो भविता । स तव पुत्रस्य सद्गतेर्हेतुः स्यादिति शेषः । तदुक्तम्– ‘हिरण्यकशिपुश्चापि भगवन्निन्दया तमः’ इत्यादि । न पुत्रमात्रात् पित्रादेः सद्गतिः । किन्तु निर्वैरादिगुणविशिष्टादिति भावेन तद्गुणमाह– गायन्तीति ॥ भगवद्यशसोऽविनाभूतत्वात् सममित्युक्तम् ॥ ४४ ॥

प्रकाशिका

पुत्रस्य हिरण्यकशिपुनामकस्य पुत्राणां मध्ये भविता भविष्यति । तमेव वर्णयति ॥ गायन्तीति सार्धैः पञ्चभिः । गायन्ति गास्यन्ति । समं सह ॥ ४४ ॥

योगैर्हेमेव दुर्वर्णं भावयिष्यन्ति साधवः ।

निर्वैरादिभिरात्मानं यच्छीलमनुवर्तितुम् ॥ ४५ ॥

पदरत्नावली

साधवो यस्य प्रह्लादस्य शीलं शमादिस्वभावम् अनुवर्तितुमात्मनि कर्तुं निर्वैरादिभि-र्यथास्थितवस्तुदर्शनादिगुणैर् आत्मानमन्तःकरणं भावयिष्यन्ति शमादिमत् कुर्वन्ति, दोषानपनीय । कथमिव ? योगैरौषध्याद्युपायैर्दुर्वर्णं दुष्टवर्णं हेमेव । यथा भावयन्ति, अष्टादशदोषान् निरस्य स्वस्वरूपस्थितं कुर्वन्ति तथेत्यर्थः । अनेन निदर्शनेनात्रेदं तात्पर्यमवगन्तव्यम् । तथाहि– हिरण्यकशिपौ द्वौ चेतनौ स्तस् तत्रैकः सद्गतियोग्यः । अनादिभक्तिलक्षणयोग्यतौषधेन दुःसङ्गदोषलक्षणदुर्वर्णमपनीय पुत्रादिः सच्चेतनस्य सद्गतिहेतुः स्यात् । न विष्णुभक्तिविधुरस्य । अतोऽन्यद् दुष्टजनमोहनार्थम् । तदुक्तम्– ‘स्वतः सद्गतियोग्यस्य पुत्रादेर्हेतुता भवेत् । योग्यता अनादिभक्तिः स्यादयोग्यस्य कुतो गतिः ॥’ इति ॥ ४५ ॥

प्रकाशिका

साधवो, यस्य त्वत्पौत्रस्य शीलं शमदमादिस्वभावम् । अनुवर्तितुमनुगन्तुं प्राप्तुं निर्वैरादिभिर्योगैरुपायैरात्मानमन्तःकरणं भावयिष्यन्ति शोधयिष्यन्ति । किमिव । योगैर्दाहविशेषादि-रूपैर्दुर्वर्णं हीनवर्णं हेमेव सुवर्णमिव ॥ ४५ ॥

यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् ।

शश्वद्दृक् भगवान् यस्य तोष्यतेऽनन्यया दृशा ॥ ४६ ॥

पदरत्नावली

तव पौत्रस्य प्रह्लादस्य माहात्म्यं भगवत्प्रसादायत्तमिति भावेनाह– यत्प्रसादा-दिति ॥ यस्य हरेः प्रसादात् । प्रसन्नत्वे हेतुमाह– यदात्मकमिति ॥ यदात्मकं यत्स्वामिकं येन व्याप्तं च । शश्वद्दृक् सर्वदैकप्रकारज्ञानो भगवान् । यस्यानन्यया ‘सर्वोत्तमो हरिर् एतत्सदृशोऽन्यो नास्ति’ इत्येवं विशिष्टया दृशा ज्ञानेन तोष्यते ॥ ४६ ॥

प्रकाशिका

यस्य भगवतः प्रसादादिदं विश्वं ब्रह्मादिकं प्रसीदति प्रसन्नं भवति । अत एव यदात्मकं यत्स्वामिकं यः शश्वद्दृक् सर्वदैकप्रकारज्ञानः स भगवान्यस्य त्वत्पौत्रस्यानन्यया दृशा सर्वोत्तमो हरिरेव तत्समोऽन्यो नास्तीत्येवंरूपज्ञानेन तोष्यते तोषं प्राप्स्यति ॥ ४६ ॥

स वै महाभागवतो महात्मा महानुभावो महतां महिष्ठः ।

प्रवृद्धभक्त्या ह्यनुभाविताशये निवेश्य वैकुण्ठमतद् विहास्यति ॥ ४७ ॥

पदरत्नावली

स वा इति ॥ स एव पौत्रो महात्मा एतादृशमहिमा अतत् तस्माद्धरेरन्यत् सर्वमनित्यमसारं हीनं चेति निरूप्य विहास्यति त्यक्ष्यतीत्यन्वयः । महानुभावः महाप्रभावः, वैष्णव-सिद्धान्ते महानिश्चयो वा । वैकुण्ठं नारायणम् ॥ ४७ ॥

प्रकाशिका

भगवत्तोषनिमित्तांतराण्याह ॥ स वा इत्यादिना । महात्मा श्रेष्ठांतःकरणः । महानुभावो महाप्रभावो महतां मध्ये महिष्ठोऽतिशयेन महान् । अनुभाविताशये शोधिते मनसि वैकुण्ठं नारायणम् । अतद्धरेरन्यत् । आब्रह्मस्तंबपर्यन्तं जगदसारमनित्यं चेति मत्वा विहास्यति त्यक्ष्यति ॥४७॥

अलम्पटः शीलधरो गुणाकरो

हृष्टः परार्थे व्यथितेषु दुःखितः ।

अभूतशत्रुर्जगतः शोकहर्ता

नैदाघिकं तापमिवोडुराजः ॥ ४८ ॥

पदरत्नावली

निर्वैरादिभिरित्यत्रादिशब्दोक्तान् गुणानाह– अलम्पट इत्यादिना ॥ अलम्पटो विरक्तः । शीलधरः ‘‘शील समाधौ’’ इति धतोः समाधिं कुर्वाणः । गुणाकरः गुणनिधिः । व्यथितेषु दुःखितेषु परेषु दुःखितः, तद्दुःखमात्मीयं करोतीत्यर्थः । अभूतशत्रुरजातशत्रुः । नैदाधिकमुष्ण-कालजातम् ॥ ४८ ॥

प्रकाशिका

निर्वैरादिभिरित्यत्रादिपदोक्तान् गुणानाह ॥ अलंपट इत्यादिना । अलंपटो विषयासक्तिशून्यः । शीलधरः ‘‘शील समाधावि’’ति धातोः समाधिं कुर्वाणो गुणाकरः शमादिगुणाश्रयः परार्थे परेषां प्रयोजने सति स्वयं हृष्टः । परर्ध्येति पाठे परेषामृद्ध्या समृद्ध्येति व्याख्येयम् । परेषु व्यथितेषु दुःखितेषु सत्सु स्वयं दुःखितः । अभूतशत्रुरजातशत्रुः । शोकहर्ता तत्त्वोपदेशेन । नैदाघिकमुष्णकालजातम् ॥ ४८ ॥

अन्नर्बहिश्चानिलवच्चरन्तं (अन्तर्बहिश्चामलमब्जनेत्रं) स्वपूरुषेच्छानुगृहीतरूपम् ।

पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डिताननम् ॥ ४९ ॥

पदरत्नावली

अतद्धास्यतीत्यनेन ब्रह्मेतरजगद्धास्याति, न तु ब्रह्मेति ध्वनितमर्थं स्पष्टयति– अन्तर्बहिरिति ॥ श्रियो ललनायाः स्त्रियो ललामं तिलकस्थानीयम् । द्रष्टा द्रक्ष्यति ॥ ४९ ॥

प्रकाशिका

श्रीसंज्ञाया ललनायाः स्त्रियो ललाममलंकारस्थानीयम् । द्रष्टा दृक्ष्यति ॥ ४९ ॥

मैत्रेय उवाच–

श्रुत्वा भागवतं पौत्रममोदत दितिर्भृशम् ।

पुत्रयोश्च वधं कृष्णाद् विदित्वाऽऽसीन्महामनाः ॥ ५० ॥

इति श्रीमद्भागवते तृतीयस्कन्धे पञ्चदशोऽध्यायः ।

तात्पर्यम्

‘विष्णुहस्तवधाल्लोको भक्तस्यान्यस्य न क्वचित् । तथाप्यसुरमोहाय न विविक्तं क्वचित्क्वचिदि’ति च स्कान्दे ॥ ‘हिरण्यकशिपोश्चापि भगवन्निन्दया तम’ इति च । ‘स्वतः सद्गतियोग्यस्य पुत्रादेर्हेतुता भवेत् । योग्यताऽनादिभक्तिः स्यादयोग्यस्य कुतो गतिरि’ति ब्रह्मतर्के ॥ ५० ॥ इति तृतीयतात्पर्ये पञ्चदशोऽध्यायः ॥ १५ ॥

पदरत्नावली

एतच्छ्रुत्वा दित्या किमकारीति तत्राह– श्रुत्वेति ॥ अमोदतेत्यनेन दितिरपि सद्गतियोग्येति निरूपितमिति ॥ ५० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे पञ्चदशोऽध्यायः ॥

प्रकाशिका

अमोदत पौत्रेण पुत्रयोः सद्गतिर्भविष्यतीति भावेनामोदतेत्यर्थः । कृष्णाद्धरेमः । महामनाः सोत्साहचित्ता । अत्र कृष्णहस्तवधमात्रेण सर्वेषामपि सद्गतिर्भवतीत्युच्यत इति प्रतीयतेऽतोऽत्र तात्पर्यं प्रमाणेनैवाह ॥ विष्णुहस्तेति । लोक ऊर्ध्वो ऽन्यस्याभक्तस्य । तर्ह्येवं मूले विविच्य कस्मान्नोक्तमित्यत आह ॥ तथाऽपीति । न विविक्तं न विविच्योक्तं क्वचिद्ग्रन्थे । ननु कुत एवं सङ्कोचः । अभक्तानामपि विष्णुहस्तवधेनोर्ध्वलोकः किं न स्यादित्यतोऽत्र बाधकमाह ॥ हिरण्येति । यद्यभक्तस्यापि विष्णुहस्तवधादूर्ध्वलोकस्तर्हि भगवद्भक्तस्य हिरण्यकशिपोस्तमः प्रवेशप्रसक्तिरत्रोच्य-मानाऽनुपपन्ना स्यादिति बाधकमनेनोक्तमिति ज्ञातव्यम् । श्रुत्वा भागवतं पौत्रममोदतेत्युक्त्या पुत्रयोः पौत्रेण सद्गतिर्भविष्यतीत्यभिप्रेतं तदपि नाभक्तविषयमित्याशयेन प्रमाणं पठति । स्वत इति । स्वभावत एव न तु दक्षिणातर्पितवैष्णवर्त्विगनुग्रहेण सद्गतियोग्यस्य पितुः । सद्गतिप्राप्ताविति शेषः । का स्वतः सद्गतियोग्यतेत्यत उक्तम् ॥ योग्यतेति । कुत एवं सङ्कोच इत्यत उक्तम् । अयोग्यस्येति । अनादि-भक्तिरूपयोग्यताशून्यस्येत्यर्थः । गतिः सद्गतिः कुतो न कुतोऽपीत्यर्थः । तथा च स्वपुत्रयोर्जीवद्वय-समावेशाद् अनादिभक्तिमतोः पौत्रेण सद्गतिर्भविष्यतीत्यमोदतेति तात्पर्यमत्रेति भावः ॥ ५० ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां पञ्चदशोऽध्यायः ॥ ३-१५ ॥