१४ चतुर्दशोऽध्यायः

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप

अथ चतुर्दशोऽध्यायः

शुक उवाच–

निशम्य वाचं वदतो मुनेः पुण्यतमां नृप ।

भूयः पप्रच्छ कौरव्यो वासुदेवकथादृतः ॥ १ ॥

पदरत्नावली

अस्मिन् अध्याये हरेरवतारकथाश्रवणादिना साक्षात् पुरुषार्थः स्यादिति निरूप्यते । श्रीशुकः परीक्षिते पुनरपि विदुरप्रश्नप्रकारं वक्ति– निशम्येति ॥ १ ॥

विदुर उवाच–

स वै स्वायम्भुवः सम्राट् प्रियः पुत्रः स्वयम्भुवः ।

प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥ २ ॥

पदरत्नावली

स्वधर्माचारैः स्वपतिं स्वर्गं नयतीति पत्नी । तां प्रतिलभ्य । तत इत्यनेन व्यापारान्तरं निषेधति ॥ २ ॥

चरितं तस्य राजर्षेरादिराजस्य सत्तम ।

ब्रूहि मे श्रद्दधानाय विष्वक्सेनाश्रयो ह्यसौ ॥ ३ ॥

पदरत्नावली

कोऽसौ वैदुरिकः प्रश्न इत्यत्राह– चरितमिति ॥ मे मह्यम् । वक्तव्यत्वे हेतुमाह– विष्वक्सेनेति ॥ विष्वक् सर्वत्र सेना ज्ञानलक्षणा यस्य स तथोक्तः ॥ ३ ॥

प्रकाशिका

वक्तव्यत्वे हेतुमाह ॥ विष्वक्सेनेति । हि यस्माद्विष्वक् सर्वत्र सेना यस्य हरेस्तदाश्रयस्तद्भक्तः ॥ ३ ॥

श्रुतस्य पुंसः सुचिरश्रमस्य नन्वञ्जसा सूरिभिरीडितोऽर्थः ।

यत् तद्गुणानुश्रवणं मुकुन्दपादारविन्दं हृदयेषु येषाम् ॥ ४ ॥

पदरत्नावली

विष्वक्सेनचरितं तद्भक्तचरितं चेति द्वयमेव पुरुषार्थान्तरङ्गत्वेन मुमुक्षुणा श्रोतव्यं सूरिभिरीडितत्वादित्याह– श्रुतस्येति ॥ सुचिरं श्रम आयासो यस्य स तथा तस्य पुंसः श्रुतस्य वेदाद्यर्थश्रवणस्य अञ्जसा तत्वेन सूरिभिरीडितार्थोऽयं ननु इदं फलं हि । यत् तस्य हरेर्गुणानुवादश्रवणं येषां ह्लदयेषु मुकुन्दस्य पादारविन्दं, लसतीति शेषः, तेषां पुंसां चरितश्रवणं च ज्ञानिभिरभिष्टुतोऽर्थ इति यस्मात् तस्मात् स्वायम्भुवमनोर्विष्वक्सेनकथाऽविनाभूतत्वात् तत्कथां ब्रूहीति भावः ॥ ४ ॥

प्रकाशिका

हरिचरितं तद्भक्तचरितं चेति द्वयमेव मुमुक्षुणा श्रोतव्यम् । सूरिभिः सर्ववेदादि-श्रवणफलत्वेन तयोः कथितत्वादित्याह ॥ श्रुतस्येति । सुचिरं श्रमो देहायासो यस्य स तथा । तस्य । पुंसः, श्रुतस्य कर्मपरवेदाद्यर्थश्रवणस्याञ्जसा मुख्यतया । तस्य हरेर्गुणानुश्रवणम् । येषां हृदयेषु मुकुन्द-पादारविन्दं लसति तद्गुणानुश्रवणं च सूरिभिरीडितः स्तुतोऽर्थः । ननु फलं खलु । यद्यस्मात्तस्माद्ब्रूहीति पूर्वेणान्वयः ॥ ४ ॥

शुक उवाच–

इति ब्रुवाणं विदुरं विनीतं सहस्रशीर्ष्णश्चरणोपधानम् ।

प्रहृष्टरोमा भगवत्कथायां प्रणीयमानो मुनिरभ्यचष्ट ॥ ५ ॥

पदरत्नावली

श्रीशुकः परीक्षिते विदुरप्रश्नप्रकारं वक्तीति वक्ति सूतः शौनकादिभ्य इत्याह– इति ब्रवाणमिति ॥ सहस्रशीर्ष्णो हरेश्चरणोपधानं पादपीठायितम् । भगवत्कथायां प्रणीयमानः प्रेर्यमाणो ऽभ्यचष्ट आहेत्यन्वयः ॥ ५ ॥

प्रकाशिका

सहस्रशीर्ष्णो हरेश्चरणोपधानं पादपीठायितं सहस्रशीर्ष्णः श्रीकृष्णस्य चरणा-वुपधीयेते यस्मिन्, श्रीकृष्णः प्रीत्या यस्योत्संगे चरणौ प्रसारयतीत्यर्थ इति वा । तमभ्यचष्टाभाषत । भगवत्कथायां प्रणीयमाणः प्रेर्यमाणः ॥ ५ ॥

मैत्रेय उवाच–

यदा स्वभार्यया साकं जातः स्वायम्भुवो मनुः ।

प्राञ्चलिः प्रणतश्चेदं वेदगर्भमभाषत ॥ ६ ॥

त्वमेकः सर्वभूतानां जन्मकृद् वृत्तिदः पिता ।

अथापि नः प्रजानां ते शुश्रूषा केन वा भवेत् ॥ ७ ॥

तद् विधेहि नमस्तुभ्यं कर्मस्विज्यात्मशक्तिषु ।

यत् कृत्वेह यशो विष्वगमुत्र च भवेद् गतिः ॥ ८ ॥

पदरत्नावली

सम्भाषणानन्तरमन्यकथाप्रसङ्गो नास्तीति भावेनाह– यदेति ॥ नायमञ्जलि-र्दाम्भिक इति भावेनोक्तम्– प्रणत इति ॥

ननु किमियं भाषा गुह्याद्यन्यतमा साङ्केतिकी वा ? न द्वितीया । अप्रस्तुतत्वादसम्भवाच्च । प्रथमा च समाधिरेवेति भावेनाह– त्वमेक इति ॥ अथ जन्मकृत्वाद् वृत्तिदत्वात् पितृत्वाच्च पोष्यैः शुश्रूषा कर्तव्या । सा केन कर्मणा स्यादित्यर्थः । अपिशब्देन कार्याकरणे पातकं सूचयति ॥

तदिति ॥ तत् कर्म । इतोऽपि भगवच्छुश्रूषा कर्तव्येत्याह– कर्मस्विति ॥ आत्मशक्तिषु स्वकेषु नित्यनैमित्तिकेषु कर्मस्विज्या पूजा । तत् कर्म विशिनष्ठि– यत् कृत्वेति ॥ इह लोके सर्वत्र यशोऽमुत्र परलोके गतिः सुखप्राप्तिलक्षणा स्यात्, तादृशमिति शेषः ॥ ६-८ ॥

प्रकाशिका

सर्वभूतानां जन्मकृदतः पिता, वृत्तिदः पोषकश्च त्वमेकस्त्वमेवातस्तव यद्यप्यन्या-पेक्षा नास्ति अथाऽपि नोऽस्माकमिज्यात्मशक्तिष्विज्यारूपेषु भगवत्पूजारूपेषु स्वशक्तिविषयेषु च कर्मसु मध्ये ते शुश्रूषा केन येन कर्मणा भवेत्तद्विधेहि । विष्वक् सर्वतोऽमुत्र परलोके । गतिरात्यन्तिक-सुखप्राप्तिः ॥ ६-८ ॥

ब्रह्मोवाच–

प्रीतस्तुभ्यमहं तात स्वस्ति स्याद् वां क्षितीश्वर ।

यन्निर्व्यलीकेन हृदा शाधि मेत्यात्मनार्पितम् ॥ ९ ॥

पदरत्नावली

सच्छिष्ये सद्गुरुणा एवमनुग्रहः कर्तव्य इति भावं ध्वनयन् ब्रह्मा प्रतिवक्ति– प्रीत इति ॥ यद् यस्मात् । शाधि शिक्षस्व । आत्मना परप्रेरणामन्तरेण ॥ ९ ॥

प्रकाशिका

वां युवाभ्यां यद्यतो मा मां शाधि अनुशिक्षयेत्यात्मना स्वयमेवार्पितं निवेदितमतः प्रीतोऽस्मि ॥ ९ ॥

एतावत्यात्मजैरेवं कार्या ह्यपचितिर्गुरौ ।

शक्त्याऽप्रमत्तैर्गृह्येत शासनं गतमत्सरैः ॥ १० ॥

पदरत्नावली

इयमेका गुरोः क्रियमाणा पूजेत्याह– एतावतीति ॥ अपचितिः पूजा । एता-वतीति केयमित्यत्राह– शक्त्येति ॥ अथ गुरोर्नियोगानन्तरमेव शक्त्या शासनमाज्ञा गृह्येतेति यत् सेयमित्यर्थः ॥ १० ॥

प्रकाशिका

गुर्वाज्ञाकरणमेव तत्पूजेत्याह ॥ एतावतीति । अपचितिः पूजा । शासनमाज्ञा गृह्येत इति यत्सेयमित्यर्थः ॥ १० ॥

स त्वमस्यामपत्यानि सदृशान्यात्मनो गुणैः ।

उत्पाद्य शाधि धर्मेण गां यज्ञैः पुरुषं यज ॥ ११ ॥

पदरत्नावली

आज्ञामाह– स त्वमिति ॥ अस्यां शतरूपायाम् ॥ ११ ॥

प्रकाशिका

आज्ञामाह ॥ स त्वमिति । गां भूमिं शाधि पालय ॥ ११ ॥

परं शुश्रूषणं मह्यं स्यात् प्रजारक्षया नृप ।

भगवांस्ते प्रजाभर्तुर्हृषीकेशोऽनुतुष्यति ॥ १२ ॥

पदरत्नावली

केन वेत्यस्य प्रश्नं परिहरति– परमिति ॥ अनेनाज्ञाग्रहणमेकम् इतरत् प्रजा-पालनमिति द्वयं शुश्रूषणमुक्तं भवति । पुरुषस्य पुरुषार्थाय श्रीनारायणप्रसाद एव, ततः प्रजापालनेन किम् ? तत्राह– भगवानिति ॥ १२ ॥

प्रकाशिका

त्वच्छुश्रूषणेनापि किमित्यत आह ॥ भगवानिति ॥ १२ ॥

येषां न तुष्टो भगवान् यज्ञलिङ्गो जनार्दनः ।

तेषां श्रमोऽप्यपार्थाय यदात्मा नादृतः स्वयम् ॥ १३ ॥

पदरत्नावली

बाधकमाह– येषामिति ॥ यज्ञो लिङ्गं ज्ञापको यस्य स तथा । श्रम इदं नः श्रेयःसाधनम् इत्यनुष्ठानाद्यायासः । आत्मा परमात्मा ॥ १३ ॥

प्रकाशिका

भगवत्तोषणेनापि किमित्यत आह ॥ येषामिति । यज्ञलिङ्गो यज्ञप्रवर्तकदेहः । श्रमो यज्ञानुष्ठानायासः । अपार्थायापगतोऽर्थो यस्मात् । केवलं श्रमायैवेत्यर्थः । यद्यस्माद् आत्मा परमात्मा स्वयं स्वेन ॥ १३ ॥

मनुरुवाच–

आदेशेऽहं भगवतो वर्तयाम्यरिसूदन ।

स्थानं त्विहानुजानीहि प्रजानां मम च प्रभो ॥ १४ ॥

पदरत्नावली

ब्रह्मणा प्रजापालनायोपदिष्टो मनुस्तदाज्ञामादाय ब्रह्माणं प्रार्थयते– आदेशेऽह-मिति ॥ कामाद्यरिसूदन । अनुजानीहि अनुज्ञापय आदिशेत्यर्थः ॥ १४ ॥

प्रकाशिका

अनुजानीहि अत्र स्थातव्यमित्यनुज्ञापय ॥ १४ ॥

यदोकः सर्वसत्त्वानां मही मग्ना महाम्भसि ।

अस्या उद्धरणे यत्नो देव देव्या विधीयताम् ॥ १५ ॥

पदरत्नावली

भूम्याख्ये स्थाने स्थितिं विधाय प्रजापालनं कर्तव्यमित्याज्ञां तावदाशङ्क्य परिहरति– यदोक इति ॥ सर्वसत्त्वानां पिपीलिकादिसर्वप्राणिनां यदोक आवासस्थानं सा मही महाम्भसि प्रलयजले मग्नाऽभूत् । हे देव, अस्या देव्या भूमेरुद्धरणे यत्नः क्रियतामित्यन्वयः ॥ १५ ॥

प्रकाशिका

पृथिव्यामेव स्थातव्यमित्यत आह ॥ यदोक इति । सर्वसत्त्वानां सर्वप्राणिनां यदोक आवासस्थानं सा मही महांभसि प्रलयजले मग्नाऽभूत् । हे देव । अस्या देव्या भूमेः ॥ १५ ॥

मैत्रेय उवाच–

परमेष्ठी त्वपां मध्ये तथा सन्नामवेक्ष्य गाम् ।

कथमेनां समुन्नेष्य इति दध्यौ धिया चिरम् ॥ १६ ॥

पदरत्नावली

पूर्वमेव भूमेरभावं जानन्नपि ब्रह्मा प्रार्थनापूर्वकं कृतमेवोपकृतं स्यादिति मन्वानो भूमेरुद्धारमालोचयतीत्याह– परमेष्ठीति ॥ यथोन्नेतुमशक्त्या तथा सन्नां मग्नाम् ॥ १६ ॥

प्रकाशिका

सन्नां मग्नाम् । समुन्नेष्ये उद्धरिष्यामि ॥ १६ ॥

पीतं मया जलं (जलं मया) सर्वं पृथिवी च निवेशिता ।

तथापि किमिदं साऽद्य प्लाव्यते पुनरम्बुभिः ॥ १७ ॥

पदरत्नावली

मज्जने निमित्तमाह– पीतमिति ॥ यावता पीतेन जलस्योद्रेकः शाम्यति तावत् सर्वमित्युच्यते । न तु निश्शेषत्वेन । अन्यथा वार्भिः प्लाव्यमानेत्यसङ्गतं स्यात् । निवेशिता निवेशनीकृता

॥ १७ ॥

प्रकाशिका

चिन्ताप्रकारमेवाह ॥ पीतमिति । प्रायेण पीतमित्यर्थः । न तु निःशेषतया । वार्भिः प्लाव्यमानेत्यनेन विरोधप्रसङ्गात् ॥ १७ ॥

प्रजा देवासुरपितृमनुष्यपशुपक्षिणः ।

सरीसृपान् नगान् नागान् भूतान्युच्चावचानि च ॥ १८ ॥

सृजतो मे क्षितिर्वार्भिः प्लाव्यमानालयं गता ।

अथात्र किमनुष्ठेयमस्माभिः सर्गयोजितैः ॥ १९ ॥

पदरत्नावली

वार्भिर्जलैः प्लाव्यमाना चञ्जलीक्रियमाणा । लयं गता मग्ना । प्रजानां भारेणेति शेषः । सृजतः सतः । अत्र अस्यामवस्थायाम् ॥ १९ ॥

प्रकाशिका

देवादिप्रजाः सृजतः सत इत्यन्वयः । प्लाव्यमाना चञ्चलीक्रियमाणा । आलयं रसातलम् । अथ तस्मात् । अत्रास्यामवस्थायां सर्गे ईश्वरेण नियुक्तैः किमनुष्ठेयम् ॥ १८,१९ ॥

यस्याहं हृदयादासं स ईशो विदधातु मे ।

इत्यभिध्यायतो नासाविवरात् सहसानघ ।

वराहतोको निरगादङ्गुष्ठपरिमाणतः ॥ २० ॥

पदरत्नावली

इदमेवानुष्ठेयमित्याह– यस्येति ॥ सत्यसङ्कल्पस्य हरेर्भक्तत्वाद् ब्रह्मापि सत्यसङ्कल्प इतीममर्थं ध्वनयन् हरेः प्रादुर्भावप्रकारमाह– इतीति । नासाविवरान्नासाबिलात् । सहसा सद्यो निरूपितत्वेन । वराहतोको वराहशिशुः ॥ २० ॥

प्रकाशिका

स एव विदधातु संपादयतु । शमिति पाठे सुखमित्यर्थः । नासाविवरान्नासाबि-लात् । वराहतोकः सूक्ष्मवराहः ॥ २० ॥

तस्याभिपश्यतः खस्थः क्षणेन किल भारत ।

गजमात्रः प्रववृधे तदद्भुतमभून्महत् ॥ २१ ॥

पदरत्नावली

तस्य ब्रह्मणः । खस्थ आकाशे स्थितः ॥ २१ ॥

प्रकाशिका

खस्थ आकाशे स्थितः ॥ २१ ॥

मरीचिमुख्यैर्विप्रैश्च कुमारैर्मनुना सह ।

दृष्ट्वा तत् सौकरं रूपं तर्कयामास चित्रधा ॥ २२ ॥

पदरत्नावली

कुमारैः सनकादिभिः ॥ २२ ॥

प्रकाशिका

कुमारैः सनकादिभिः । चित्रधाऽनेकधा ॥ २२ ॥

किमेतत् सौकरव्याजं सत्त्वं दिव्यमवस्थितम् ।

अहो बताश्चर्यमिदं नासाया मे विनिःसृतम् ॥ २३ ॥

दृष्टोऽङ्गुष्ठशिरोमात्रः क्षणाद् गण्डशिलोपमः ।

अपिस्विद् भगवानेष यज्ञो मे खेदयन्मनः ॥ २४ ॥

पदरत्नावली

सौकरं सूकरस्य विद्यमानम् । तर्कयामास मीमांसितवान् । मीमांसाप्रकारं वक्ति– किमेतदिति ॥ अहो इत्यनेन निकटवर्तिनो मुनीन् मुखीकरोति । बत खेदयत् ॥

किं बहुना ? इदं महाश्चर्यम् । अङ्गुष्ठशिरोमात्रो ऽङ्गुष्ठाग्रपरिमाणः । ‘गलिताः स्थूलपाषाणा गण्डशैला इति स्मृताः’ । एष वराहः मे मनः खेदयन् यज्ञो भगवानपि स्वित् ? ॥ २३,२४ ॥

प्रकाशिका

अङ्गुष्ठशिरोमात्रोंऽगुष्ठाग्रप्रमाणकः । गण्डशिला गिरिगलितस्थूलपाषाणस्तत्सम एष वराहो यज्ञो विष्णुः खेदयन् अनलंबुद्धिं प्रापयन् ॥ २३,२४ ॥

इति मीमांसतस्तस्य ब्रह्मणः सह सूनुभिः ।

भगवान् यज्ञपुरुषो जगर्जागेन्द्रसन्निभः ॥ २५ ॥

पदरत्नावली

ब्रह्मणः सहसोत्पन्नाज्ञाननिरासप्रकारमाह– इतीति ॥ मीमांसतः मीमांसमानस्य सतः । मरीच्यादिसूनुभिः ॥ २५ ॥

प्रकाशिका

सूनुभिर्मरीच्यादिभिः । जगर्ज गर्जनं कृतवान् । अगेन्द्रसन्निभो गिरीन्द्रतुल्यः

॥ २५ ॥

ब्रह्माणं हर्षयामास हरिस्तांश्च द्विजोत्तमान् ।

स्वगर्जितेन ककुभः प्रतिस्वनयता विदुः ॥ २६ ॥

पदरत्नावली

गर्जितफलमाह– ब्रह्माणमिति ॥ प्रतिस्वनयता प्रतिध्वनिमतीः कुर्वता गर्जितेन

॥ २६ ॥

प्रकाशिका

गर्जनप्रयोजनमाह ॥ ब्रह्माणमिति । प्रतिस्वनयता प्रतिध्वनिमतीः कुर्वता ॥२६॥

निशम्य तद् घर्घरितं स्वखेदक्षयिष्णु मायामयसूकरस्य ।

जनस्तपःसत्यनिवासिनस्ते त्रिभिः पवित्रैर्मुनयोऽगृणन् स्म ॥ २७ ॥

पदरत्नावली

अयं हरिरिति ज्ञात्वा एतैः किमकारीति तत्राह– निशम्येति ॥ मायामयसूकर-स्येच्छामयवराहस्य स्वखेदक्षयिष्णु स्वखेदविनाशकरं घर्घरितं सूकराणां नादविशेषं श्रुत्वा जनादिलोक-निवासिनो मुनयस्त्रिभिः पवित्रैर्निर्दोषवेदैस्तं यज्ञपुरुषमगृणन्नित्यन्वयः । स्मेत्यनेन गुणानुस्मरणपूर्वकस्तुतिं सूचयति । जनस्तप इति छान्दोभङ्गभयाद् वेदानुकारित्वाद् वा विसर्गान्तम् ॥ २७ ॥

प्रकाशिका

तस्य वराहस्य घर्घरितं स्वजात्यनुकरणध्वनिम् । कथंभूतम् । स्वखेदक्षयिष्णु स्वदुःखविनाशनशीलम् । मायया महिम्ना मयः पूर्णः स चासौ सूकरश्च तस्य त्रिभिर्वेदैः पवित्रैर्निर्दोषैः । अगृणन् अस्तुवन् ॥ २७ ॥

तेषां सतां वेदवितानमूर्तिं ब्रह्मावधार्यात्मगुणानुवादम् ।

ननर्द भूयो विबुधोदयाय गजेन्द्रलीलो जलमाविवेश ॥ २८ ॥

पदरत्नावली

स्तुतिस्तत्प्रसादजननी समभूदिति भावेनाह– तेषामिति ॥ वेदानां वितानेन विस्तारेण प्रतिपादिता मूर्तिर्यस्य स तथा । यद्वा वेद एव वितानमुल्लोचमुपरिपतदवकरनिवारणवस्त्रं यस्याः सा वेदविताना, तादृशी मूर्तिर्यस्य स तथा । यज्ञवितानमूर्तिरिति पाठे यज्ञविस्तारेषु गृहीत-मूर्तिरित्यर्थः । आत्मनो ज्ञानानन्दादिगुणानामनुवादो यस्मिन् तथा । ब्रह्मस्तुतिलक्षणं वेदमवधार्य ननर्द ननाद । भूय इत्युभयत्र सम्बध्यते । प्रलयजलम् ॥ २८ ॥

प्रकाशिका

तेषां स्तुत्या प्रसन्न इत्याह ॥ तेषामिति । वेदैर्वितन्यते विस्तृतयोच्यत इति वेद-विताना । तथाविधा मूर्तिर्यस्य तत् तथा । ब्रह्म स्तुतिरूपं वेदम् । यज्ञवितानमूर्तिरिति पाठे यज्ञ-विस्तारांगजनकमूर्तिरित्यर्थः । आत्मनः स्वस्य गुणानामनुवादो यस्मिंस्तत् । भूयो ननर्द ननाद । जलं प्रलयजलम् ॥ २८ ॥

उत्क्षिप्तबालः (उत्क्षिप्तवालः) खचरः कठोरसटा विधुन्वन् खररोमशत्त्वक् ।

खुराहताभ्रः सितशृङ्ग ईक्षाज्योतिर्विभासो भगवान् महीध्रः ॥ २९ ॥

पदरत्नावली

तत्तद्योनिजानां तत्तत्क्रियायां तत्तद्भावोऽनिवार्य इति जलप्रवेशे तद्भावं वक्ति– उत्क्षिप्तेति ॥ स भगवान् महीध्रः श्रीनारायणाख्यः पर्वतः कं प्रलयजलमविशदित्यन्वयः । तं विशिनष्टि उत्क्षिप्तवाल उद्धृतपुच्छो ऽन्यत्रोन्नतकपोलः । ‘वालं तु कपिलं वज्रं ह्रीबेरं दीर्घरोमकम्’ इत्यभि-धानात् । ह्रीबेरं वा । खे आकाशे चरतीति खचरः । उभयत्र समानम् । कठोराः परिदृढाः सटा बहुलकेसरान् धुन्वन् कम्पयन् । अन्यत्र सटा लताविशेषाः । खराः परुषा रोमशा रोमवती त्वग् यस्य स तथोक्तः । अन्यत्र रोमशः पिचुमन्दः । खरा पिचुमन्दस्य त्वग् यस्मिन् स तथा । खुरैराहतमभ्रं येनासौ खुराहताभ्रः सन्ताडितमेघः । अन्यत्र खुरैः शृङ्गैः । सितशृृङ्गः धवलदंष्ट्रः । अन्यत्र स्पष्टम् । ईक्षाया नेत्रस्य ज्योतिस्तारा कनीनिका तया विभासो विभासनं दीप्तिर्यस्य स तथोक्तः । यद्वा दर्शनाख्याग्निज्वालया शोभमानः ॥ २९ ॥

प्रकाशिका

जलमाविशन्तं तमुपवर्णयति द्वाभ्याम् । तत्राद्येन पर्वतसाम्येन वर्णनम् । भगवान्महीध्रो नारायणाख्यपर्वतः कं जलमाविशदित्युत्तरेणान्वयः । कथंभूतः । उत्क्षिप्तबाल उद्धृतपुच्छः । अन्यत्रोद्धृतह्रीबेरः । बालं तु कपिलं वज्रं ह्रीबेरं दीर्घरोमकमित्यभिधानात् । खे आकाशे चरतीति खेचरः । उभयत्र समम् । कठोराः कठिणाः सटाः स्कन्धगतरोमविशेषाः । विधुन्वन्कंपयन् । अन्यत्र सटा लताविशेषाः । खरा परुषा रोमशा रोमवती त्वग्यस्य स तथोक्तः । अन्यत्र रोमशः पिचुमन्दः खररोमशस्य पिचुमन्दस्य त्वग्यस्मिन्स तथा । खुरैराहतमभ्रं येनासौ खुराहताभ्रः खुरसन्ताडितमेघः । अन्यत्र खुरैः शृृङ्गैः । सितशृृङ्गो धवलदंष्ट्रः । अन्यत्र धवलसानुः । ईक्षा निरीक्षणं तदेव ज्योतिरग्निज्वाला तेन विभासो विभासनं यस्य स तथा ॥ २९ ॥

घ्राणेन पृथ्व्याः पदवीं विजिघ्रन् क्रोडापदेशः स्वयमध्वराङ्गः ।

करालदंष्ट्रोऽप्यकरालदृग्भ्यामुद्वीक्ष्य विप्रान् गृणतोऽविशत् कम् ॥ ३० ॥

पदरत्नावली

घ्राणेन्द्रियेण विजिघ्रन् घ्राणोपादानं कुर्वन् क्रोडापदेशः देवकार्यनिमित्तेन वराहः, न तु साक्षाद् वराहः, किन्तु स्वयं स्वतोऽध्वराङ्गः यज्ञमूर्तिः श्रीनारायणः । पूर्वत्र पर्वतोपमत्वेन दंष्ट्रोक्तिः । अत्राशान्तत्वद्योतनायेति न पुनरुक्तिः । अध्वरस्य यज्ञस्य अङ्गानि कुशादीनि साधनानि यस्मिन् सोऽध्वराङ्ग इति वा । ‘अपदेशो लक्षणे स्यान्निमित्तव्याजयोरपि’ इति यादवः ॥ ३० ॥

प्रकाशिका

पदवीं स्थितिं मार्गं वा विजिघ्रन्विमार्गयन् । तज्जात्यनुकरणमेतत् । क्रोडापदेशो देवकार्यव्याजेन क्रोडः । अत एव न प्रसिद्धक्रोडसदृश इत्याह ॥ स्वयमिति ॥ स्वयं स्वतोऽध्वराङ्गो यज्ञोपयुक्तकुशादिजनकाङ्गः । गृणतः स्तोतॄन्विप्रान् । उद् ऊर्ध्वं वीक्ष्य ॥ ३० ॥

स वज्रकूटाङ्गनिपातवेगविशीर्णकुक्षिः स्तनयन्नुदन्वान् ।

उत्सृष्टदीर्घौर्मिकरैरिवार्तश्चुक्रोश यज्ञेश्वर पाहि मेति ॥ ३१ ॥

पदरत्नावली

जलप्रवेशसमये समुद्रेण स्तुतिरेवाकारि, नत्वाक्रोश इत्याशयेनाह– स वज्रेति ॥ स उदन्वान् समुद्रो हे यज्ञेश्वर मां पाहीति भावेन चुक्रोशाजुहावोन्ननादेत्यर्थः । रक्षाप्रार्थनायां कः क्लेशः प्राप्त इत्यत उक्तम्– वज्रेत्यादि ॥ वज्रकूटवदयोघनवद् गरिम्णोपेतस्याङ्गस्य निपातवेगेन विशीर्णोऽति-निष्पिष्टः कुुक्षिर्यस्य स तथा । अत एवोदरवेदनया स्तनयन् शब्दं कुर्वन् । आर्त इव उत्सृष्टा ऊर्ध्वं गता अत एव दीर्घा ऊर्मय एव करास्तैः । उदरादिवेदनार्तः पुरुषो यथा आक्रोशति तथेति लौकिकार्थः । अध्यात्मस्तु स्तुतिरेव कृतेत्यर्थः ॥ ३१ ॥

प्रकाशिका

तदानीन्तनं समुद्रमुत्प्रेक्षते ॥ स वज्रेति । स उदन्वान्समुद्रः स्तनयन् शब्दं कुर्वन् आर्तः सन् । भो यज्ञेश्वर मां पाहीति चुक्रोशाजुहाव । आर्तत्वे निमित्तमाह ॥ वज्रकूटेति । वज्रकूट-वदयोघनवद्गुरुतममङ्गं तस्य निपातवेगेन विशीर्णः कुक्षिर्यस्य स तथा । आर्तसाम्यमाह ॥ उत्सृष्टेति । उत्सृष्टोर्ध्वं गता दीर्घा ऊर्मय एव करास्तैः । उदरविदारणार्तः पुमान्यथोर्ध्वबाहुः सन् विदारकं प्रति मां पाहीत्याक्रोशति तथाऽयमप्युक्तरीत्याऽक्रोशतीवेति भावः । इदं तु वचनं जडजलराश्यपेक्षया । अभिमानिविवक्षायां स्तुतिरेवेयमिति ज्ञातव्यम् ॥ ३१ ॥

खुरैः क्षुरप्रैर्दरयंस्तदाप उत्पारवारं त्रिवरू रसायाम् ।

ददर्श गां तत्र सुषुप्सुरग्रे यां जीवधानीं स्वयमभ्यधत्त ॥ ३२ ॥

पदरत्नावली

खरतरतरणिकिरणपरितप्तलोकवराहवन्न हरेर्जलप्रवेशः किन्तु यद्दर्शनार्थं प्रावेशि तद्दर्शनमनेन कृतमित्याह– खुरैरिति ॥ उत्पारवारमिति क्रियाविशेषणम् । पारे तीरान्तरे स्थितं वा जलं यथोद्गतं भवति तथा । क्षुरप्रैः क्षुरसाधर्म्यं पूरयन्तीति क्षुरवन्निशितैरित्यर्थः । यद्वा अर्धचन्द्रैः । ‘अर्धचन्द्रः क्षुरप्रः स्यात्’ इति यादवः । खुरैस्तस्य समुद्रस्यापि दारयन् भिन्दन् । त्रिभिर्वेदैर्व्रियत इति त्रिवरुः । त्रिषु युगेषु अवतारं वृणोतीति वा स्थानत्रयं वृणोतीति वा । गुरुशब्दवत् प्रक्रिया । ‘ढ्रलोपे पूर्वस्य दीर्घोऽणः’ इति दीर्घः । अग्रे सर्वं विलाप्य सुषुप्सुर् निद्रां कर्तुकामः स हरिर्यां जीवधानीं सर्वप्राण्याधारभूतामभ्यधत्त जलस्योपरि निहितवान् तां गां तत्र रसायां पाताले ददर्शेत्यन्वयः । ‘वरुः सुगलरेखा स्याद् वराहस्य च विस्तृता’ इत्यभिधानाद् वलित्रयाङ्कितगलो वा । पारं वृणोतीति पारवारः, कर्मण्यणित्यण्प्रत्ययः, पक्ष्यादिप्राणिजातं तद् यथोद्गतं स्यात् तथेति वा ॥ ३२ ॥

प्रकाशिका

यद्दर्शनार्थं तस्य जलप्रवेशस्तद्दर्शनं जातमित्याह ॥ खुरैरिति । क्षुरप्रैः क्षुरव-न्निशितैः । अर्धचन्द्रः क्षुरप्रः स्यादित्यभिधानाद् अर्धचन्द्राकारैरिति वा । उत्पारवारमिति क्रिया-विशेषणम् । पारे तीरान्तरे स्थितं वारं जलं यथोद्गतं भवति तथा तस्य समुद्रस्यापो विदारयन् त्रिभि-र्वेदैर्विव्रीयत इति त्रिवरुः । ढ्रलोपे पूर्वस्य दीर्घोऽण इति दीर्घः । रसायां रसातले गां भूमिम् । कथम्भूताम् । तत्राप्सु सुषुप्सुर्योगनिद्रां कर्तुकामः सन् अग्रे पूर्वं, जीवा धीयन्तेऽस्यामिति जीवधानी तां सर्वप्राण्याधारभूतां गां स्वयं स्वयमेवाभ्यधत्त । प्रलयजले तां मग्नां कृतवान् ॥ ३२ ॥

स्वदंष्ट्रयोद्धृत्य महीं विलग्नां स उत्थितः संरुरुहे रसायाः ।

तत्रापि दैत्यं गदयाऽऽपतन्तं सुनाभसन्दीपिततीव्रमन्युः ॥ ३३ ॥

जघान रुन्धानमसह्यविक्रमः सलीलयेभं मृगराडिवाम्भसि ।

तद्रक्तपङ्काङ्किततुण्डगण्डो यथा गजेन्द्रो जगतीं विभिन्दन् ॥ ३४ ॥

पदरत्नावली

भगवता महीं दृष्ट्वा किमकारीति तत्राह– स्वदंष्ट्रयेति ॥ विलग्नां रसातले बन्दी-गृहवत् स्थितां महीं स्वदष्ट्रयोद्धृत्य रसाय उत्थिताः स आदिवराहः संरुरुहे उपर्यारुरोह । रसालयैरसुरैः स्वभूतभूम्युन्नयनसमये निद्रितं किम् ? तत्राह– तत्रापीति ॥ स हरिस्तत्र भूम्युद्धरणसमयेऽपि स्वं रुन्धानं गदयाऽऽपतन्तं दैत्यमादिहिरण्याक्षं दंष्ट्रया जघानेत्यन्वयः । कीदृशः ? सुनाभवच्चक्रवत् सन्दीपिततीव्रमन्युः प्रज्वालितात्युग्रकोपः । अत एवासह्यविक्रमः मृगराट् सिंह इमं गजं यथा तथा । अम्भसीत्यनेन रसातलवत् किञ्चिदूर्ध्वमागत्येति सूचयति । तस्य दीप्तिविशेषमाह– तद्रक्तेति ॥ यथा जगतीं तटभूमिं विभिन्दन् तिर्यग्दन्तप्रहारेण प्रोल्लिखन् तत्पङ्काङ्किततुण्डगण्डो भवति तथा दंष्ट्रया हिरण्याक्षं हत्वा तस्य रक्तपङ्केनाङ्किततुण्डगण्ड उच्चकाश इति शेषः । अनेन विशेषणेन हिरण्याक्षौ द्वौ, तत्रैको दंष्ट्रया हत इतरस्त्वन्येनायुधेनेति ज्ञायते । १‘ब्रह्मजस्तु हिरण्याक्षः प्रथमं दंष्ट्रया हतः । स एव पार्षदाविष्टो द्वितीयः कर्णताडनात् ॥ पूर्वं लयोदके मग्नां द्वितीयां तेन मज्जिताम् । भुवमुद्धरतैवासौ हरिणा क्रोडमूर्तिना ॥’ इत्यवगन्तव्यः । अत्रैवोत्तरग्रन्थे विदुरप्रश्नं परिजिहीर्षुणा हरिणा हिरण्याक्ष एक एव व्यत्यस्योच्यते । तद् दुष्टमोहनार्थमविविच्य कथनं, देवानां प्रियार्थं चेति । तदुक्तम्– ‘व्यत्यासेनापि चोच्यन्तेऽविवेकेन कुत्रचित् । दुष्टानां मोहनार्थाय तत्र तत्र कथाः क्वचित् ॥’ इति । अविवेको नाम अविविच्यकथनं न वक्तुर्हरेरज्ञानम् । ‘सर्वज्ञस्य कुतोऽज्ञानं व्यासस्योदारकर्मणः’ इति वचनात्

॥ ३३-३४ ॥

प्रकाशिका

विलग्नां रसातले विशेषेण सम्बद्धां रसाया रसातलादुत्थित उद्गतः सन् संरुरुहे उपरितनदेशमारुरुहे । तत्राप्यारोहसमयेऽपि दैत्यमादिहिरण्याक्षं गदया सह गदामुद्यम्य पतन्तमागच्छन्तं रुन्धानं स्वगमनप्रतिबन्धकं, सोढुं शक्यः सह्यः, न सह्योऽसह्यः विक्रमो यस्य सोऽसह्यविक्रमः स वराहोंऽभसि मृगराट् सिंहो गजमिव स्वदंष्ट्रया लीलया जघान । कथम्भूतः । सुनाभस्य सुदर्शनस्य सन्दीपितः प्रज्वालितस्तीव्रो मन्युर्येन भगवता सुदर्शनमुपेक्ष्य स्वदंष्ट्रया दैत्यहनने कृते सति ममात्र किं कृत्यमिति सुदर्शनस्य तस्मिन्समये कोप उत्पादित इति भावः । गजेन्द्रो जगतीं गैरिकाद्युपेतभूमिं क्रीडया स्वदंष्ट्रया विभिन्दन् यथाऽरुणपङ्काङ्किततुण्डगण्डो भवति तथा तस्य रक्तमेव पङ्कस्तेनाङ्कितौ गण्डौ तुण्डं च यस्य स तथोक्तः । जघानेति पूर्वेणान्वयः ॥ ३३,३४ ॥

तमालनीलं सितदन्तकोट्या क्ष्मामुत्क्षिपन्तं गजलीलयाऽङ्ग ।

प्रज्ञाय बद्धाञ्जलयोऽनुवाकैर्विरिञ्चमुख्या उपतस्थुरीशम् ॥ ३५ ॥

पदरत्नावली

अयं हरिरेव, न लोकवराह इति ज्ञापनाय विरिञ्चप्रमुखानां देवानामुपसत्तिविधिं वक्ति– तमालेति ॥ उत्क्षिपन्तम् उद्धरन्तम् । अनुवाकैरियत्सङ्ख्याविशिष्टैर्वेदवाक्यैः ॥ ३५ ॥

प्रकाशिका

उत्क्षिपन्तमुद्धरन्तं प्रज्ञाय हरिरयमिति ज्ञात्वाऽनुवाकैर्वेदवाक्यैरुपतस्थुस्तुष्टुवुः

॥ ३५ ॥

देवा ऊचुः–

जितं जितं तेऽजित यज्ञभावन त्रयीतनुं स्वां परिधुन्वते नमः ।

यल्लोमगर्तेषु निलिल्युरब्धयस्तस्मै नमः कारणसूकराय ते ॥ ३६ ॥

पदरत्नावली

उपस्थाय किं कृतम् ? तत्राह– जितं जितमिति ॥ त्रयीतनुं त्रिवेदप्रतिपाद्यां मूर्तिं परिधुन्वते रोमजलत्यागाय कम्पमानाय । निलिल्युर्निलीनाः । ते तुभ्यम् ॥ ३६ ॥

प्रकाशिका

भो अजित । ते त्वया जितं जितमिति संभ्रमे द्विरुक्तिः । यज्ञभावन यज्ञोपयुक्त- कुशाद्युत्पादक । त्रयीतनुं वेदप्रतिपाद्यां मूर्तिं स्वां स्वरूपभूतां, परिधुन्वते रोमजलत्यागाय कंपयते । निलिल्युर्लीना बभूवुः । भूम्युद्धरणादिरूपकारणेन सूकरावताराय ॥ ३६ ॥

रूपं तवैतन्ननु दुष्कृतात्मनां

दुर्दर्शनं देव यदध्वरात्मकम् ।

छन्दांसि यस्य त्वचि बर्हिरोम

स्वाज्यं दृशि त्वङ्घ्रिषु चातुर्होत्रम् ॥ ३७ ॥

पदरत्नावली

अनेन विष्णुरयं, न लोकवराह इत्यस्य किमायातमिति तत्राह– रूपमिति ॥ दुष्कृतात्मनामिति विशेषणेन सुकृतात्मनां सुदर्शनमिति ध्वनितम् । अत इदमेवास्य परब्रह्मत्वे मानं सूचितम् । अध्वरात्मकं यज्ञसाधनप्रसूतिकारणम् । अनेनापि न केवलभूम्युद्धरणाय, किन्तु सकलयज्ञ-साधनप्रसूतय इदं रूपमिति सूचितम् । यद्वा यज्ञाख्यपरमात्मरूपम् । ‘यज्ञो विष्णुर्देवता’ इति श्रुतेः । अनेन ब्रह्मत्वं स्पष्टमुक्तं भवति । ‘अयमात्मा ब्रह्म’ इति च । अस्य यज्ञात्मकत्वं स्पष्टयति– छन्दांसी-त्यादिना ॥ सप्तच्छन्दांसीत्यादयो यस्य तव त्वगादिषु वर्तन्ते । ते तुभ्यं नम इत्यन्वयः । बर्हिर्दर्भः । दृशि चक्षुषि । चतुर्भिर्होतृभिः क्रियमाणं कर्म चातुर्होत्रम् ॥ ३७ ॥

प्रकाशिका

अध्वरात्मकमित्यनेनोक्तं यज्ञाङ्गपदार्थजनकत्वं प्रपञ्चयन्तः स्तुवन्ति ॥ छन्दांसी-त्यादिना । गायत्र्यादिछन्दःप्रभृतियज्ञाङ्गं त्वगादिभगवदवयवेषु । आसीज्जातमाश्रितं चेत्यर्थः । बर्हिर्दर्भः । अत्र दीर्घाभावश्छान्दसः । दृशि चक्षुषि । चातुर्होत्रं चतुर्भिर्होत्रादिभिः क्रियमाणं कर्म ॥ ३७ ॥

स्रुक् तुण्ड आसीत् स्रुव ईश नासयो-

रिडोदरे चमसः कर्णरन्ध्रे ।

प्राशित्रमास्ये रसने ग्रहास्तु

यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३८ ॥

पदरत्नावली

इडा यज्ञपात्रम् । चमसश् चतुष्कोणसन्निवेशो यज्ञपात्रम् । प्राशित्रं यज्ञपात्रं पुरोडाशादिर्वा । द्वादशसोमग्रहाः । रसने जिह्वाक्रियायाम् । चर्वणं दन्तैश्चूर्णनम् । ‘चर्वणं चूर्णनं दन्तैः’ इति यादवः ॥ ३८ ॥

प्रकाशिका

इडा भक्षणपात्रं, चमसश्चतुष्कोणो यज्ञपात्रविशेषः । प्राशित्रं ब्रह्मभागपात्रं, ग्रहा द्वादशसोमग्रहाः । रसने जिह्वाव्यापारे । यच्चर्वणं दन्तैश्चूर्णनं तत्र ॥ ३८ ॥

दीक्षात्मजन्मोपसदः शिरोध-

स्त्वं प्रायणीयोदयनीयदंष्ट्रः ।

जिह्वा प्रवर्ग्यस्तव शीर्षणं क्रतोः

सभ्यावसथ्यौ चितयोऽसवो हि ते ॥ ३९ ॥

पदरत्नावली

आत्मजन्म तव जननं दीक्षा व्रतसङ्ग्रह उपसद उपसन्नामानो यज्ञविशेषा उपसत्तिविशेषा वा । शिरोधो ग्रीवा । त्वं प्रायणीयोदयनीयदंष्ट्रः यस्य तव दंष्ट्रयोरुपक्रमावसानकर्मणी इष्टी प्रायणीयोदनीयसंज्ञे वर्तेते स तथोक्तः । क्रतुः सङ्कल्पः । क्रतोरिति पाठे क्रतोः सत्यसङ्कल्पस्य सर्वक्रत्वाधारस्य वा तव शीर्षणं शिरः सभ्यावसथ्यौ । अग्निचितयः सप्तक्रतवस्तवासवः प्राणाः । जन्मभूमयश् चितस्य इतीष्टकाबन्धनविशेषो वा ॥ ३९ ॥

प्रकाशिका

आत्मजन्म स्वाभिव्यक्तिः । दीक्षा दीक्षणीयेष्टिर्व्रतसङ्ग्रह इति वा । उपसद उपसन्नामानो यज्ञविशेषाः । उपसत्तिविशेषा वा । शिरोधो ग्रीवा, प्रायणीया दीक्षानन्तरेष्टिः । उदयनीया समाप्तेष्टिः । त एव दंष्ट्रे यस्य स तथोक्तः । प्रवर्ग्यो महावीरः प्रत्युपसदं पूर्वं क्रियमाणः सभ्यो होम-रहितोऽग्निरावसथ्य औपासनाग्निः । क्रतोर्यज्ञरूपस्य ज्ञानरूपस्य वा तव शीर्षणं शिरः । चितय इष्टिका-बन्धनविशेषास्तवासवः पञ्चप्राणाः । क्रतुरिति पाठे क्रतुः सङ्कल्पः शीर्षणं सभ्यावसथ्यौ, चितयश्च तवासव इति व्याख्येयम् । हिशब्दः प्रमाणप्रसिद्धिद्योतकः ॥ ३९ ॥

सोमस्तु रेतः सवनान्यवस्थितिः

संस्थाविभेदास्तव देहधातवः ।

सत्राणि सर्वाणि शरीरसन्धि-

स्त्वं सर्वयज्ञक्रतुरिष्ठिबन्धनः ॥ ४० ॥

पदरत्नावली

सोमो लता । प्रातरादित्रीणि सवनानि । अवस्थितिर्निश्चलत्वेन गतिनिवर्तनम् । संस्थाविभेदा अग्निष्टोमादयः सप्त । ‘अग्निष्टोमादयः संस्थाभेदाः सप्तास्य तन्तवः’ इति यादवः । त्वगादिसप्तदेहधातवः । अत्र श्लोकद्वये ‘‘सप्तसु प्रथमे’’ति सूत्रात् प्रथमायाः सप्तमीत्वं युक्तम् । त्वचीत्यादिसप्तमीप्रयोगाच्च । सर्वाणि सत्राणि बहुभिः सम्भूय कर्तव्यानि दीर्घकालीनानि यज्ञविशेष-कर्माणि । किं बहुनोक्तेनेत्युपसंहरति– त्वं सर्वेति ॥ ऐकाहिकव्द्याहिकादिसर्वयज्ञस्थापकेच्छावान् । इष्टिबन्धनस् तव देहबन्धने संहनने इष्टिः प्रतिपत्तिथ्यादिषु क्रियमाणकर्मविशेषो वर्तत इत्यर्थः ॥ ४० ॥

प्रकाशिका

सोमो लताविशेषः । प्रातरादीनि त्रीणि सवनानि । अवस्थितिर्निश्चलत्वे-नैकत्रावस्थानम् । संस्थाविभेदा अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्तसंस्थाविभेदाः । त्वङ्मांसादिसप्तदेहधातवः । सत्राणि बहुभिः संभूय कर्तव्ययज्ञात्मकानि कर्माणि । असोमा यज्ञाः ससोमाः क्रतवस्ते सर्वेऽपि त्वमित्यर्थः । इष्टिः प्रतिपत्तिथ्यादिषु क्रियमाणकर्मविशेषः बन्धनं देहस्य संहननं यस्य स तथोक्तः । अत्र दीक्षेत्यादिश्लोकद्वये दीक्षादीनां भगवदवयवादिना सामानाधिकरण्येन निर्देशेऽपि तत्तदवयवादिजन्यत्वादिकमेवार्थतया वाच्यम् । न त्वैक्यम् । यस्माद्य-ज्जायते चाङ्गात्तत्तदङ्गाभिधं भवेदिति पूर्वं प्रमाणोदाहृतत्वादिति ज्ञातव्यम् ॥ ४० ॥

नमो नमस्तेऽखिलमन्त्रदेवता

द्रव्याय सर्वक्रतवे क्रियात्मने ।

वैराग्यभक्त्याऽऽत्मजयानुभावित

ज्ञानाय विद्यागुरवे नमो नमः ॥ ४१ ॥

पदरत्नावली

उक्तानुक्तविशेषणानि समुच्चीय विशिंषन्ति– अखिलेत्यादिना ॥ सत्ताप्रदत्वेन मन्त्रादिषु सन्निहितत्वादखिलमन्त्रदेवताद्रव्याय । सर्वे क्रतवः सङ्कल्पाः स्याद् भवन्ति स सर्वक्रतुस् तस्मै । क्रियात्मने कर्मकारयितृत्वेन तद्व्याप्ताय । आत्मजया आत्मनस्तव प्रसादाज्जातया वैराग्यजृम्भित-भक्त्या अनुभावितं स्वस्वयोग्यतानुसारेण समुत्पादितं स्वविषयं ज्ञानं येन स तथा तस्मै, वेदादि-परविद्यागरवे ॥ ४१ ॥

प्रकाशिका

पूर्वोक्तमेव सपरिकरं कथयन्तः प्रणमन्ति ॥ नमो नम इति । मन्त्रादिसत्ताप्रदत्वेन मन्त्रादिषु स्थितत्वात्तन्नामकाय । सर्वक्रतवे सर्वविषयकज्ञानरूपाय । क्रियात्मने विहितक्रियादानादिकर्त्रे । वैराग्यं च भक्तिश्चात्मनो मनसो जयश्च तैरनुभावितं योग्यतानुसारेणोत्पादितं ज्ञानं स्वसाक्षात्कारो येन स तथा तस्मै । अत एव विद्यागुरवे । विद्यानामादिवक्त्रे इति वा ॥ ४१ ॥

दंष्ट्राग्रकोट्या भगवंस्त्वया धृता

विराजते भूधर भूः सभूधरा ।

यथा वनान्निस्सरतो दता धृता

मतङ्गजेन्द्रस्य सपत्रपद्मिनी ॥ ४२ ॥

पदरत्नावली

पूर्वमनाथत्वेन विलग्नामित्यनेन स्त्रीणां मध्ववत् कृशत्वं ध्वनितम् । अधुना सनाथत्वेन पर्वताद्यवयवपुष्टा भूमिर्विराजत इति स्तुवन्तीत्याह– दंष्ट्राग्रकोट्येति ॥ दता दन्तेन । मतङ्गजेन्द्रस्य सपत्रपद्मिनी सपत्रा बिसिनी ‘नलिन्यां तु बिसिनीपद्मिनीमुखाः’ इत्यमरः । अनेन हरेर्धरणीधरेति नाम सार्थकमिति सूचितम् ॥ ४२ ॥

प्रकाशिका

हे भूधर । सभूधरा सपर्वता वनाज्जलान्निःसरतो निर्गच्छतो मतङ्गजेन्द्रस्य दता दन्तेन । पत्रैः सहिता पद्मिनी सरसी ॥ ४२ ॥

त्रयीमयं रूपमिदं च सौकरं

भूमण्डलं नाथ दता धृतेन ते ।

चकास्ति शृृङ्गोढघनेन भूयसा

कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ४३ ॥

पदरत्नावली

इतरसंयोगेनेतरेषां विराजनम् । हरेः स्वात्मनैवेति भावेन स्तुवन्तीत्याह– त्रयीमयमिति ॥ भूमण्डलं धृतेन दता चकास्ति विराजते । चकासृ दीप्ताविति धातुः, अदादिः । शृङ्गेणोढेन धृतेन घनेन । विभ्रमः कान्तिविशेषः ॥ ४३ ॥

प्रकाशिका

त्वया धृता भूर्विराजत इत्युक्तम् । इदानीं भूमण्डलेन त्वद्रूपं विराजत इत्याहुः ॥ त्रयीमयमिति । वेदप्रतिपाद्यम् । ते रूपं कर्तृ । अथेत्यर्थान्तरे । चकास्ति शोभते । शृृङ्गेणोढेन धृतेन घनेन मेघेन । भूयसा महता । विभ्रमो विलासः ॥ ४३ ॥

संस्थापयैनां जगतां सतस्थुषां

लोकाय (हिताय) पत्नीमसि मातरं पिता ।

विधेम यस्यै नमसा सह त्वया

यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ४४ ॥

पदरत्नावली

ब्रह्माद्यभीष्टं जानतोऽप्येनां किं करोमीति हरेः प्रश्नात् प्रागेनं स्वाभीष्टं विज्ञाप-यन्तीत्याह– संस्थापयेति ॥ जगतां जङ्गमानां तस्थुषां स्थावराणां मातरं तव पत्नीमेनां संस्थापय, जलस्योपरीति शेषः । कीदृशस्त्वम् ? पितासि सर्वस्येति शेषः । यद्वा त्वं जगतां पिताऽसि । तस्थुषां मातरमेनामिति । त्वत्कृतोपकारप्रत्युपकारमन्यमपश्यन्तो वयमिमं नमस्कायं कुर्म इति विज्ञापयन्तीत्याह– विधेमेति ॥ उभयोर्मातृत्वं पितृत्वं च एतस्मादिति व्यञ्जयन्तो विशिंषन्तीत्याह– यस्यामिति ॥ अनेन भूमेर्माहान्त्यं च सूचितम् । अरणिर् अग्निमथनदारुविशेषः ॥ ४४ ॥

प्रकाशिका

ते पत्नीमेनां भूमिं लोकाय लोकोपकाराय जलस्योपरि संस्थापय । हितायेत्यपि क्वचित्पाठः । सतस्थुषां स्थावरैः सहितानां जगतां जङ्गमानां मातरम् । यतस्त्वं पिताऽसि । एवं सति तत्र तत्र स्थिताः सन्तस्त्वया सहास्यै मात्रे नमसा नमनं विधेम कुर्मः । मातृत्वं पितृत्वं च स्पष्टयन्त आहुः ॥ यस्यामिति । यस्यां भूम्यां स्वतेजः स्ववीर्यमरणावग्निमथनदारुविशेषे याज्ञिका मन्त्रतोऽग्नि-मिवाधा निहितवानसि ॥ ४४ ॥

कः श्रद्धधीतान्यतमस्तव प्रभो

रसां गताया भुव उद्विबर्हणम् ।

न विस्मयोऽसौ त्वयि विश्वविस्मये

यो माययेदं ससृजेऽतिविस्मयः ॥ ४५ ॥

पदरत्नावली

त्वदन्येनेदं कर्म निरूपयितुमशक्यं, किं पुनः करणमिति विज्ञापयन्तीत्याह– क इति ॥ उद्विबर्हणम् उद्धरणम् । इदमस्माकमेवाश्चर्यं न तवेति श्रावयन्तीत्याह– नेति ॥ इतोऽप्यधिक-विस्मयोऽस्तीति विज्ञापयन्तीत्याह– य इति ॥ अतिविस्मयोऽतिशयितविस्मयः ॥ ४५ ॥

प्रकाशिका

त्वदन्येनेदं कर्म मनसा ज्ञातुमशक्यं किं पुनः कर्तुमिति विज्ञापयन्ति ॥ क इति । श्रद्धधीत करिष्यामीत्यध्यवस्येत । अन्यतमोऽन्यस्तव त्वया कृतं भुव उद्विबर्हणमुद्धरणं तवेदं नाश्चर्य-मित्याहुः ॥ न विस्मय इति । असौ भूम्युद्धरणरूपो व्यापारो विश्वविस्मये सर्वाश्चर्यवति । एतदेवो-पपादयति । यो भवान्यतो मायया स्वेच्छयेदं विश्वं ससृजेऽतोऽतिविस्मयो ऽतिशयेन विस्मयवान् ॥४५॥

विधुन्वता वेदमयं निजं वपु-

र्जनस्तपस्सत्यनिवासिनो वयम् ।

सटाशिखोद्धूतशिवाम्बुबिन्दुभि-

र्विमृज्यमाना भृशमीश पाविताः ॥ ४६ ॥

पदरत्नावली

वाचा तव गुणगणानां सङ्कीर्तनेन मनसा संस्मरणेन अन्तःशुद्धा बहिस्तव सटाग्र-समुद्भूतशुद्धजलबिन्दुभिः पाविता वयमिति विज्ञापयन्तीत्याह– विधुन्वतेति ॥ तृतीया षष्ठ्यर्थे । विधुन्वतस्तव । यद्वा विधुन्वता त्वया पाविताः । तत् कथमित्यतो विशिंषन्ति– सटेति ॥ त्वया पाविता इति यत् सटाग्रशिवाम्बुबिन्दुभिरिति ॥ ४६ ॥

प्रकाशिका

विस्मयमेव दर्शयन्त आहुः ॥ विधुन्वतेति । वेदमयं वेदप्रतिपाद्यम् । सटानां शिखाभिरग्रैरुद्धूता उत्क्षिप्ता ये शिवा अम्बुबिन्दवस्तैर्विमृज्यमानाः सिच्यमाना विशेषेण शुद्ध्यन्त इति वा । पाविताः पवित्रीकृताः । सर्वकर्मस्वधिकृता इति यावत् ॥ ४६ ॥

स वै बत भ्रष्टमतिस्तवैषते

यः कर्मणां पारमपारकर्मणः ।

त्वद्योगमायागुणमोहितात्मनां

विस्रंसतां नो भगवन् विधेहि शम् ॥ ४७ ॥

पदरत्नावली

वराहस्य गण्डशिलाद्युपमत्वेन परिच्छिन्नत्वात् कर्मणोऽपि तथात्वान्नायं विष्णु-रित्याशङ्क्य तथा मन्वानो भ्रष्टमतिरित्याह– स वा इति ॥ यः पुरुषोऽपारकर्मणोऽनन्तविक्रमस्य तव कर्मणां भूम्युद्धरणादिलक्षणानां पारमन्तमेषते सम्यगिच्छति स भ्रष्टमतिः । वा इत्यनेन नरकपातं लक्षयति । नोऽस्माकं तादृशज्ञानेन दुःखोदर्को लोको मा भूत्, किन्तु सुखोदर्क एव स्यादिति प्रार्थयन्त इत्याह– त्वद्योगेति ॥ तव बन्धकशक्त्या भ्रष्टमनस्कत्वेन विस्रंसतां गलिततत्वज्ञानानां नः शं सुखसाधनज्ञानसाध्यं लोकं विधेहीत्यन्वयः ॥ ४७ ॥

प्रकाशिका

अपारकर्मणस्तव कर्मणां भूम्युद्धरणादीनां पारमन्तं य एषते ज्ञातुमिच्छति स भ्रष्टमतिर्मूर्खः । वै, वा इति प्रमाणप्रसिद्धमेतत् । बतेत्यास्वादने । कर्मणां पारज्ञानप्रसक्तिरेव कुत इत्यतोऽत्र कारणं दर्शयन्तोऽपारत्वज्ञानदार्ढ्याय प्रार्थयन्ते ॥ त्वद्योगमायेति । तव योगमाया बन्धकशक्तिस्तस्या गुणः सामर्थ्यं तेन मोहितात्मनां मोहयुक्तमनसामत एव विस्रंसतामदृढज्ञानानां शं ज्ञानदार्ढ्यप्रयुक्तं सुखम् ॥ ४७ ॥

मैत्रेय उवाच–

प्रत्युपस्थीयमानस्तैर्मुनिभिर्ब्रह्मवादिभिः ।

सलिले स्वखुराक्रान्त उपादत्ताविताऽवनिम् ॥ ४८ ॥

पदरत्नावली

भक्तवत्सलोऽहमिति भावयंस्तदुक्तं करोति हरिरित्याह– प्रत्युपस्थीयमान इति

॥ ४८ ॥

प्रकाशिका

अविता रक्षकोऽवनिं भूमिम् ॥ ४८ ॥

स इत्थं भगवानुर्वीं विश्वक्सेनः प्रजापतिः ।

रसाया लीलयोन्नीतामप्सु न्यस्य ययौ हरिः ॥ ४९ ॥

पदरत्नावली

हरिस्ततःपरं किं चकारेति तत्राह– स इत्थमिति ॥ प्रजापतिः प्रजापालन-शीलः ॥ उन्नीताम् उद्धृताम् ॥ ४९ ॥

य एवमेतां हरिमेधसो हरेः

कथां सुभद्रां कथनीयमायिनः ।

श्रुण्वीत भक्त्या श्रवयेत वोशतीं

जनार्दनोऽस्याशु हृदि प्रसीदति ॥ ५० ॥

पदरत्नावली

अस्य वराहस्य विक्रमस्य पुरुषार्थैकहेतुत्वादयं हरिरेवेति भावेन तच्छ्रवणादि-फलमाह– य इति ॥ हरिमेधसः संसारसंहारिबुद्धेः । कथनीयमायिनः कथनयोग्यसामर्थ्यस्य । उशतीमभीष्टदोग्ध्रीम् ॥ ५० ॥

प्रकाशिका

इयं कथा यथावस्थितार्थैवेत्याशयेन तद्वेत्तुः फलमाह ॥ य एवमिति । हरेर्मेधा धारणवती बुद्धिर्यस्मात्स तथोक्तस्तस्य हरेर्हर्यवताराख्यवराहस्य कथनीयमायिनः कथनीयमाहात्म्यस्य श्रुण्वीत, श्रावयेत् । ह्रस्वं छान्दसम् । उशतीं कमनीयाम् ॥ ५० ॥

तस्मिन् प्रसन्ने सकलाशिषां प्रभौ

किं दुर्लभं ताभिरलं लवात्मभिः ।

अनन्यभक्त्या भजतां गुहाशयः

स्वयं विधत्ते स्वगतिं परः पुमान् ॥ ५१ ॥

पदरत्नावली

तत्प्रसादफलमाह– तस्मिन्निति ॥ लवात्मभिर् लवकालरूपाभिः पश्चान्नश्वरी-भिस्ताभिः स्वर्गाद्याशीर्भिः । प्रसादोऽपि गाथाश्रवणादिना न स्यादिति ध्वनयन्नाह– अनन्यभक्त्येति

॥ ५१ ॥

प्रकाशिका

तत्प्रसादेनापि किमित्यत आह ॥ तस्मिन्निति । सकलाशिषाम् । प्रभौ दातरि किं दुर्लभं न किमपि । सकला अप्याशिषः सुलभा इत्यर्थः । यद्यपि सुलभास्तथाऽपि न प्रार्थनीया इत्याह ॥ ताभिरिति । आशीर्भिरलं ता न प्रार्थनीया इत्यर्थः । लवात्मभिस्तुच्छाभिः । तर्हि त्वद्भजनं व्यर्थमिति नाशङ्कनीयमित्याह ॥ अनन्येति । स्वगतिं स्वलोकम् । स्वलक्षणगम्यमिति वा । गुहाशय इत्यनेन भक्तिपूर्वकभजनज्ञानं तस्यास्तीति सूचयति ॥ ५१ ॥

को नाम लोके पुरुषार्थसारवित्

पुराकथानां भगवत्कथासुधाम् ।

आपीय कर्णाञ्जलिभिर्भवापहा-

महो विरज्येत विना नरेतरम् ॥ ५२ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे चतुर्दशोऽध्यायः ।

तात्पर्यम्

‘ब्रह्मजस्तु’ हिरण्याक्षः प्रथमं दंष्ट्रया हतः । स एव पार्षदाविष्टो द्वितीयं कर्ण-ताडनात् । पूर्वं लयोदके मग्नां द्वितीयं तेन मज्जिताम् । भुवमुद्धरतैवासौ हरिणा क्रोडमूर्तिने’ति ब्रह्माण्डे ॥ ‘व्यत्यासेनापि चोच्यन्ते अविवेकेन कुत्रचित् । दुष्टानां मोहनार्थाय तत्र तत्र कथाः क्वचिदि’ति स्कान्दे ॥ अविवेकेनेत्यस्य विविच्य नोच्यत इत्यर्थः । न तु कर्तुरविवेकः । ‘सर्वज्ञस्य कुतोऽज्ञानं व्यासस्योदारकर्मणः’ इत्युक्तत्वात् (इत्युत्तरात्) । दुष्टानां मोहनार्थाये’ति च ॥ ५२ ॥ इति तृतीयतात्पर्ये चतुर्दशोऽध्यायः ॥ १४ ॥

पदरत्नावली

ननु कञ्चित् कालं हरिकथां निषेव्य पश्चान्मुञ्चन्तो दृश्यन्ते । तत्र सारत्वं कथमित्याशङ्क्य ते पशुकल्पा इत्याह– को नामेति ॥ नामशब्दः कुत्सने । को नाम कः कुत्सितः । पुराशब्दः पुराणे निकटातीतेऽनागते च वर्तते । पुराणकथानां निकटातीतकथानाम् अनागतकथानां च मध्ये सारभूतम् । तामिति शेषः । ‘प्रबन्धे निकटातीते पुराणेऽनागते पुरा’ इति यादवः । सु पूजिते मोक्षे धत्ते, सुखं धापयतीति वा सुधा । डुधाञ् धारणपोषणयोर् धेट्, पान इति धातू । भवापहां संसारविनाशनीयम् । भद्रावहां वा । ‘पपौ शशाविति प्राज्या’ इति सूत्रात् पकारस्य वकारः । ‘भवो भद्रे’ इति यादवः । नरेतरं पशुम् ॥ ५२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे चतुर्दशोऽध्यायः ॥

प्रकाशिका

अवश्यमियं कथा सारज्ञेन सादरं श्रोतव्येत्याशयेनाह ॥ को नामेति । पुराकथानां पूर्वतनकथानां मध्ये विद्यमानां भगवत्कथालक्षणसुधामापीय सादरमाकर्ण्य पश्चात्को नाम पुरुषार्थ-सारविद्विरज्येत न कोऽपि । ननु दृश्यते तादृश इत्यत उक्तम् ॥ नरेतरं पशुं विनेति । तथा च योऽत्र विरक्तः स पशुरिति भावः ।

नन्वत्र वराहहतत्वेनोच्यमानो हिरण्याक्षः कः किमादिसर्गे ब्रह्मज उतैतन्मन्वन्तरे कश्यपाद्दित्यां जातः । नाद्यः । उत्तराध्यायेषु विदुरप्रश्नपूर्वकमुक्तस्यास्य हिरण्याक्षस्य कश्यपपुत्रत्वावगमात् । न द्वितीयः । तमादिदैत्यं गदया पतन्तमित्यत्रादिदैत्यो हिरण्याक्ष इत्युत्तरत्र च तस्यादिदैत्यत्ववचनात् । किं चात्र हतस्य दंष्ट्रया हननमुच्यते । अत एव तद्रक्तपङ्काङ्कितगण्डतुण्ड इत्युक्तम् । दंष्ट्रहतत्वं विना रक्त-पङ्काङ्किततुण्डत्वाद्यनुपपत्तेः । उत्तराध्याये च करेण कर्णमूलेऽहन्नित्युक्तम् । न ह्येकदैकस्य दंष्ट्रया हननं, कर्णमूले करेण हननं च सम्भवति । किं चात्र प्रलयजले मग्नाया भुव उद्धरणमुक्तम् । तत्कथं कश्यप-जहिरण्याक्षस्य वधे विवक्षिते सम्भवति । तदा प्रलयजलाभावात् । अतः कथमेतदित्याशङ्कायामे-तदध्यायसमुदायतात्पर्यं प्रमाणेनैवाह ॥ ब्रह्मजस्त्विति । तुशब्दोऽवधारणे । तेन कश्यपजत्वं व्यावर्तयति । प्रथमं पूर्वम् । अनेनैतदध्यायतात्पर्यमुक्तम् । उत्तराध्यायानां तात्पर्यमाह ॥ स एवेति । पार्षदो विजयः । द्वितीयं पश्चात्कर्णताडनात्कर्णमूले करेण ताडनात् । हत इत्यनुवर्तते । तथा चादिसर्गे ब्रह्मजो यो हिरण्याक्षः स एव वराहेण दंष्ट्रया हत इत्यस्मिन्नध्याये उच्यते । उत्तराध्यायेषु तस्यैव भगवत्पार्षदविजयदेहाविष्टस्य पुनः करेण हननम् । अत एकस्यैव देहभेदेन हननद्वयमत्राध्यायसमूहे विवक्षितमतो न कोऽपि विरोध इति भावः ।

नन्वेवं द्वितीयहनने प्रलयजलाभावात्कथं भुव उद्धरता हननमित्यत आह ॥ पूर्वमिति । लयोदके भगवत एव मग्नां भुवमुद्धरता क्रोडमूर्तिना हरिणाऽसौ ब्रह्मजो हिरण्याक्षः पूर्वमेव हतः । द्वितीयं पश्चात्तु तेन पार्षदाविष्टेन सामुद्रजले मज्जितां भुवमुद्धरता हतः । अतस्तदा प्रलयजलाभावेऽपि न दोष इति भावः । नन्वेवं विविच्यात्र कस्मान्नोक्तमित्यतोऽत्र प्रयोजनं प्रमाणेनैवाह ॥ व्यत्यासेनापीति । कुत्र-चिद्ग्रन्थे तत्र तत्र प्रदेशेषु कथाः, व्यत्यासेन कालव्यत्यासेन पुरुषव्यत्यासेनपि चोच्यन्ते । यथा श्रीकृष्णगमनानन्तरं भीमः सुयोधनं प्राहसदिति क्वचिद्वचनम् । यथा वाऽत्रैव ग्रन्थे दशमे राजसूय-कथनावसरे दिग्विजयकथनान्तरं जरासन्धवधकथनम् । पुरुषव्यत्यासेन वचनं तु श्रीकृष्णेन द्रौपदीं प्रति धनञ्जयशरैर्हतान्दुर्योधनादींस्ते दर्शयिष्य इत्यादिकं क्वचिदुक्तं तदेव द्रष्टव्यम् । न विद्यते विवेको विविच्य वचनं यस्मिन्वाक्ये तदविवेकं तेनेत्यर्थः । कुत्रचिद्ग्रन्थे । उभयत्र प्रयोजनमाह ॥ दुष्टानामिति । अत्राविवेकेनेत्यस्य कर्तुः सम्यग्ज्ञानाभावेनेत्यर्थ इति प्रतीतिवारणाय तात्पर्यमाह ॥ अविवेकेनेत्यस्येति । अक्षरार्थस्तु पूर्वमेवोक्तः कर्तुरविवेक एव किं न स्यादित्यतोऽत्र बाधकं वक्तुमाह ॥ न त्विति । नैवेत्यर्थः । कुत इत्यत आह ॥ सर्वज्ञस्येति । उक्तत्वात् स्कन्दपुराण एवोत्तरत्र विद्यमानवाक्या-त्तद्विरोधादित्यर्थः । अन्तरङ्गज्ञापकमप्याह ॥ दुष्टानामिति । दुष्टानां मोहो ह्येतादृशव्यासवचनस्यात्र प्रयोजनतयोच्यते । व्यासस्य विवेकवचने तदभिप्रायानुसारेणैव दुष्टैर्वाक्यार्थस्य ज्ञातत्वान्न मिथ्याज्ञानरूपो मोहस्तेषां स्यात् । अतोऽत्र विविच्यावचनमेवाविवेकशब्दार्थतया वर्णनीयमिति ज्ञायत इति भावः । अस्योदाहरणं तु प्रकृतहिरण्याक्षवधकथनादिकमिति मन्तव्यम् ॥ ५२ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां चतुर्दशोऽध्यायः ॥ ३-१४ ॥