इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः
अथ त्रयोदशोऽध्यायः
मैत्रेय उवाच–
इति ते वर्णितः क्षत्तः कालाख्यः परमात्मनः ।
महिमा वेदगर्भोऽथ यदस्राक्षीन्निबोध मे ॥ १ ॥
पदरत्नावली
अत्र हरेरानन्त्यज्ञानं यथा प्रीतिजनकत्वेन मुक्तिसाधनं तथा ब्रह्मादितारतम्यज्ञानं चेत्येतदर्थं सृष्टिप्रकारः कथ्यते । तत्राविद्याया हेयेषु प्राथम्यात् तत्सृष्टिं वक्तुं वृत्तमनूद्य वक्तव्यार्थं प्रतिजानीते– इतीति ॥ आदिकृद् ब्रह्मा अग्रे तमः ससर्जेत्यन्वयः । अथ मोहादिकम् । अत्रैवं वचनं न यथातारतम्येन सृष्टिरिति ज्ञापनायेति ज्ञातव्यम् । क्रमस्तु ‘तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः । तदाग्रहो महामोहस्तामिस्रः कोध उच्यते । मरणं त्वन्धतामिस्रमविद्या पञ्चपर्विका ॥’ इत्युक्त एव । ‘तमोऽज्ञानं विपर्यासो मोहोऽन्ये तु तदाग्रहाः’ इति वचनात् । एषां मूलकारणमाह– अज्ञानेति ॥ अज्ञानाद् वृत्तिर्येषां ते तथा ॥ १-२ ॥
प्रकाशिका
वेदगर्भो विराण्णामको ब्रह्मा । अथ वैकारिकदेहसृष्ट्यनन्तरम् ॥ १ ॥
ससर्जाग्रेऽन्धतामिस्रमथ तामिस्रमादिकृत् ।
महामोहं च मोहं च तमश्चाज्ञानवृत्तयः ॥ २ ॥
तात्पर्यम्
‘तमस्तु शार्वरं प्रोक्तं मोहश्चैव विपर्ययः । तदाग्रहो महामोहस्तामिस्रः क्रोध उच्यते । मरणं त्वन्धतामिस्रमविद्या पञ्चपर्विके’ति भारते ॥ तमोऽज्ञता विपर्यासो मोहोऽन्ये तु तदाग्रहा’ इति हरिवंशेषु ॥ २ ॥
प्रकाशिका
अग्रे वैकारिकसृष्टेः पूर्वम् । ‘‘षष्ठस्तु तामसः सर्ग’’ इत्युक्तप्रपञ्चोऽयमिति ज्ञातव्यम् । अत्रान्धतामिस्रादिशब्दार्थान् प्रमाणेनैव दर्शयति ॥ तमस्त्विति । इतराविद्यावृत्तिवैलक्षण्य-सूचकस्तुशब्दः । शर्वर्यां भवं शार्वरम् । अन्धकाररूपम् । अन्धकारवैलक्षण्यसूचनाय चशब्दस्तुशब्दार्थः । विपर्यय एव मिथ्याज्ञानमेव । उच्यत इति सर्वत्र सम्बध्यते । तदाग्रहो विपर्ययाग्रहः । मरणं मरण-कालीनक्लेशनिमित्ता मूर्च्छा । एवमविद्या पञ्चपर्विका पञ्चवृत्त्युपेता । अनेनाज्ञानवृत्तय इति मूल-मुक्तार्थम् । प्रबलकार्यक्रममपेक्ष्य मूलेंऽधतामिस्रादितया निर्देशः । दुर्बलकार्यक्रमानुसारेण प्रमाणे तम-आदितयेति ज्ञातव्यम् । प्रकारान्तरेण तमआदिस्वरूपं प्रमाणेन दर्शयति ॥ तमोऽज्ञतेति । अज्ञता सम्यग्ज्ञाननाशः । अविद्याकार्यस्यैवात्र प्रकृतत्वात् । अन्ये त्विति । तुशब्दस्तरतमादिरूपविशेषसूचकः । तथा चान्ये महामोहतामिस्रान्धतामिस्राः क्रमेण विपर्यासाग्रहाग्रहतराग्रहतमरूपा इत्यर्थः । एतेषां मूल-कारणं किमित्यपेक्षायामाह ॥ अज्ञानवृत्तय इति । एतेंऽधतामिस्रादयो भावरूपाविद्याकार्यभूता इत्यर्थः
॥ २ ॥
दृष्ट्वा पापीयसीं सृष्टिं नाऽत्मानं बह्वमन्यत ।
भगवद्ध्यानपूतेन मनसाऽन्यांस्ततोऽसृजत् ॥ ३ ॥
तात्पर्यम्
कालतो बलतश्चैव ज्ञानानन्दादिकैरपि । सर्वैर्गुणैर्विष्णुरेव श्रेष्ठस्तदवमा रमा । अनन्तांशेन कालात्तु समा तस्याश्चतुर्मुखः । अवरो बहुलांशेन तत्समो वायुरुच्यते । नियमा-द्वायुरेवैको ब्रह्मत्वं याति नापरः । तस्मात्समानता मुक्तौ वायुत्वे किञ्चिदूनता । दशवर्षं तु तत्पश्चाज्जननं तत्स्त्रियोरपि । आनन्दादिस्तद्दशांशः कालः संवत्सरात्परः । यावत्पश्चाज्ज-निस्तावत्पूर्वं देहक्षयो भवेत् । ब्रह्मवाय्वोस्तु ये देव्यौ तद्दशांशः सुखादिकः । शेषस्य गरुडस्यापि कालो दिव्यसहस्रकः । शेषरुद्रौ ब्रह्मवायू यथा तद्वत्परस्परम् । तद्देव्यस्तद्दशांशाः स्युस्त-तस्त्विन्द्रादयो मताः । एवं मुक्तौ च पूर्वं च नान्यथा क्वचिदिष्यते । अन्यथोक्तिर्यत्र च स्या-त्तन्मोहार्थं भविष्यति । पूर्वापरविपर्यासो बहुरूपत्वहेतुत’ इति विष्णुकृततत्त्वविवेके ॥ ‘अथात आनन्दस्य मीमांसा’ । ‘देवासुरेभ्यो मघवान्प्रधान’ इत्यादि च । ‘इन्द्राद्याः सनकाद्याश्च दक्षाद्या येऽपि चापरे । ऋषयो मनवो देवास्तद्वशा ये च केचन । उमाया अवराः सर्वे गुणैः सर्वैर्न संशयः । तत्समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा । ऋते हरिं ब्रह्मवायू शेष-वीन्द्रान्सभार्यकान् । शङ्करं चेति वेत्तव्यमन्यन्मोहार्थमुच्यत’ इति विष्णुकृततत्त्वनिर्णये ॥ ४ ॥
पदरत्नावली
अविद्या हेयेत्याह– दृष्ट्वेति ॥ ततस्तर्हि सृष्टिर्निवृत्ता किम् ? नेत्याह– भगव-द्ध्यानेति ॥ अनेन सर्वप्रायश्चित्तरूपोपायः भगवद्ध्यानमिति सूचितम् ॥ ३ ॥
प्रकाशिका
अत्र सनकं च सनन्दं चेत्यादिना सनकाद्युत्पत्तिमादावुक्त्वा पश्चाद्रुद्रोत्पत्तिं वक्ष्यति । सृष्टिक्रम एव तारतम्यज्ञापकोऽतो रुद्रापेक्षया सनकादीनामुत्तमत्त्वं प्राप्तमित्याशङ्कायामादि-सृष्टिक्रम एव तारतम्यज्ञापको नार्वाचीनसृष्टिक्रमः । अत्रोक्ता तु न आदिसृष्टिरतो न कोऽपि विरोध इति परिहारमभिप्रेत्य देवानां तारतम्यं तज्ज्ञापकमादिसृष्टिक्रमं च प्रमाणेनैव दर्शयति ॥ कालत इत्यादिना । अनन्तांशेन तदवमा विष्णोर्नीचा । कालतोऽप्यवमत्वे प्राप्ते सत्यपवादमाह ॥ कालादिति । तुशब्दश्च-शब्दार्थो देशादपीत्यनुक्तसमुच्चायकः । बहुलांशेन कोटिगुणांशेन । समत्वे हेतुमाह ॥ नियमादिति । मुक्तावित्यस्य व्यावर्त्यमाह ॥ वायुत्व इति ॥ वायुत्वावस्थायां किञ्चिदूनता । तत्पदस्येति शेषः । वायुर्ब्रह्मापेक्षया कालतोऽप्यून इत्याह ॥ दशवर्षमिति । तुशब्दो वर्षाणां दिव्यत्वरूपविशेषसूचकः । तथा च दिव्यदशवर्षं यथा स्यात्तथा तस्य ब्रह्मणः पश्चाद्वायोर्जननमित्यर्थः । तत्स्त्रियोर्ब्रह्मवायुस्त्रियोः सरस्वतीभारत्योस्तद्दशांशो ब्रह्मवाय्यानन्दादिशतांशन्यून इत्यर्थः । कालस्तत्स्त्रियोर्जननकालः । वायूत्पत्त्यनन्तरं संवत्सरात्परः पश्चात्तनः ।
उत्पत्तिक्रमवत्तद्विपरीतलयक्रमोऽपि तारतम्यज्ञापक इत्याशयेन मध्ये लयक्रममप्याह ॥ यावदिति । देहक्षयः । उक्तानां वक्ष्यमाणानां च । महाप्रलय इति शेषः । यो यदपेक्षया यावता कालेन पश्चाज्जातः स तदपेक्षया तावता कालेन पूर्वमेव देहक्षयं प्राप्नोतीत्यर्थः । तुशब्दः प्रकृतत्वानुसंधानार्थः । तद्दशांशो ब्रह्मवायुदेव्योरानन्दादिः शतांशन्यून इत्यर्थः । कालो भारतीसरस्वत्योरुत्पत्त्यनन्तरभाविशेषगरुड-योर्जननकालो देवतावर्षसहस्रात्मक इत्यर्थः । नन्वत्र रुद्रस्यानुक्तिः किमित्यतस्तस्य शेषसमत्त्वाच्छेषग्रहणे रुद्रोऽपि गृहीत एवेत्याशयेनाह ॥ शेषरुद्राविति । यथा परस्परं समौ वायुत्वे किंचिदूनता । तद्वत्तथा परस्परं समौ । रुद्रत्वे किंचिदूनतेत्यर्थः । तद्देव्यः शेषगरुडरुद्रदेव्यः । तद्दशांशास् तदानन्दादिशतांश-न्यूनानन्दादिका इत्यर्थः । ततस्ताभ्यः । तुशब्दः शतांशन्यूना इत्यस्य समुच्चायकः । क्वचित्काले देशे च ।
नन्वेवं सर्वेषां देवानां साम्यमेव न तारतम्यमिति वचनानां का गतिरित्यत आह ॥ अन्यथोक्ति-रिति । चशब्दोऽवधारणे । मोहार्थमेवेत्यन्वयः । नन्वेवं तारतम्यस्य सृष्टिक्रमो यदि ज्ञापकस्तर्हि मूले सनकाद्युत्पत्त्यनन्तरं रुद्रोत्पत्तेरत्रोक्तत्वात्तस्य तदपेक्षया न्यूनत्वं स्यादित्यत आह ॥ पूर्वापरेति । आदिसृष्टौ पूर्वोत्पन्नपश्चादुत्पन्नयोर्विपर्यासो वैपरीत्येन वचनं पूर्वोत्पन्नस्य बहुरूपत्वनिमित्तादित्यर्थः । आदिसृष्टिक्रम एव तारतम्यज्ञापकोऽतोऽर्वाचीनसृष्टावुत्तमस्य रूपान्तरेण नीचानन्तरमप्युत्पत्तिकथनेऽपि न तारतम्यभङ्ग इति भावः । किञ्च देवतातारतम्यं श्रुत्योत्तरग्रन्थेन चोक्तरीत्यैवाभिहितमतः सनकादेर्न रुद्रापेक्षयोत्तमत्वमित्याशयेनाह ॥ अथात इति ॥ इत्यादि च वाक्यमुक्तरीत्यैव देवतातारतम्यम् । ज्ञापयतीति शेषः । विशिष्य सनकादीनां रुद्रापेक्षया नीचत्वं कैमुत्येन प्रतिपादयत्प्रमाणं दर्शयति ॥ इन्द्राद्या इति । उमाया अवरास्तदा रुद्रादवरा इति किं वाच्यमित्याशयः । इति वेत्तव्यं तत्समो नेति वाक्ये पूरणीयमित्यर्थः । अन्यदुमाया एव सर्वोत्तमत्वम् । न बह्वमन्यतेति मूलं नाभ्यनन्ददित्यर्थः । भगवद्ध्यानपूतेनेति वचनं मनःसृष्टानां सनकादीनां न पूर्ववदसाधुत्वमिति प्रदर्शनाय ॥ ३ ॥
सनकं च सनन्दं च सनातनमथाऽत्मभूः ।
सनत्कुमारं च मुनिं निष्क्रियानूर्ध्वरेतसः ॥ ४ ॥
पदरत्नावली
आत्मभूर्ब्रह्मा । वसिष्ठादिव्यावृत्त्यर्थं निष्क्रियानिति परमहंसान् । ऊर्ध्वरेतस इत्यनेनैव स्वाज्ञाविमुखा एत इति जानन्नपि ॥ ४ ॥
प्रकाशिका
आत्मभूर्ब्रह्मा । निष्क्रियान्परमहंसान् । अत एवोर्ध्वरेतसः ॥ ४ ॥
तान् बभाषे स्वभूः पुत्रान् प्रजाः सृजत पुत्रकाः ।
तन्नैच्छन् मोक्षधर्माणो वासुदेवपरायणाः ॥ ५ ॥
पदरत्नावली
ब्रह्मा सृष्ट्यन्तरकरणाशयो वक्ति– तानिति ॥ स्वो विष्णुस्तस्मादुद्भूतवानिति स्वभूः । तत् सृष्टिकर्म । मोक्षधर्माणो निवृत्तिमार्गस्थाः ॥ ५ ॥
प्रकाशिका
स्वः स्वतन्त्रः परमात्मा । तस्माद्भवतीति स्वभूर्ब्रह्मा । भो पुत्रकाः । तत् प्रजासर्जनम् । मोक्षधर्माणो मुच्यतेऽनेनेति मोक्षो ज्ञानं स एव धर्मो येषां ते तथोक्ताः । ज्ञानमार्ग एव रता इत्यर्थः ॥ ५ ॥
सोऽवज्ञातः सुतैरेवं प्रत्याख्यातानुशासनैः ।
क्रोधं दुर्विषहं जातं नियन्तुमुपचक्रमे ॥ ६ ॥
पदरत्नावली
कथमवज्ञात इत्यत उक्तम्– प्रत्याख्यातेति ॥ निरस्तमनुशासनम् आज्ञाकरणं यैस्ते तथा तैः । चुक्रोधेति शेषः । क्षणिकोऽयं कोपश्चतुर्मुखस्य न दीर्घकालीन इति भावेनाह– क्रोधमिति ॥ ६ ॥
प्रकाशिका
अवज्ञामेव दर्शयन्नाह ॥ प्रत्याख्यातेति । प्रत्याख्यातं निराकृतमनुशासनमाज्ञापनं यैस्ते तथोक्तास्तैः । अनेनाज्ञातिक्रम एवावज्ञेति दर्शितं भवति । जातम् । स्वात्मनीति शेषः ॥ ६ ॥
धिया निगृह्यमाणोऽपि भ्रुवोर्मर्ध्यात् प्रजापतेः ।
सद्योऽजायत तन्मन्युः कुमारो नीललोहितः ॥ ७ ॥
पदरत्नावली
प्रजापतेर्ब्रह्मणः । स चासौ मन्युः क्रोधस् तन्मन्युः । सद्यो नियमनात् पूर्वक्षणमेव । क्रोधसमये भ्रुकुटी नीलशिरा नेत्रं रोहितं स्यादित्यतो नीललोहित इति । कारणगुणाः कार्ये समवयन्तीति न्यायात् । अनेन सद्योजातो नीललोहित इति नामद्वयं निरुक्तम् ॥ ७ ॥
प्रकाशिका
प्रजापतेर्ब्रह्मणः । स चासौ मन्युश्च तन्मन्युः । सद्यो नियमात्पूर्वमेव । अनेन सद्योजातशब्दार्थो दर्शित इति ज्ञातव्यम् । नीललोहितो रुद्रः ॥ ७ ॥
स वै रुरोद देवानां पूर्वजो भगवान् भवः ।
नामानि कुरु मे धातः स्थानानि च जगद्गुरो ॥ ८ ॥
पदरत्नावली
लोके बालस्वभावप्रवर्तनाय तस्य तं वक्ति– स वा इति ॥ इन्द्रादिदेवानां पूर्वजः
॥ ८ ॥
प्रकाशिका
रुद्रनामार्थं वक्तुमाह ॥ स वा इति ॥ ८ ॥
इति तस्य वचः पाद्मो भगवान् परिपालयन् ।
अभ्यधाद् भद्रया वाचा मा रोदीस्तत् करोमि ते ॥ ९ ॥
पदरत्नावली
पाद्मो ब्रह्मा । मा रोदीरिति पदम् ॥ ९ ॥
प्रकाशिका
तन्नामादिकम् ॥ ९ ॥
यदरोदीः सुरश्रेष्ठ सोद्वेग इव बालकः ।
ततस्त्वामभिधास्यन्ति नाम्ना रुद्र इति प्रजाः ॥ १० ॥
पदरत्नावली
प्रधाननामाह– यदिति ॥ १० ॥
प्रकाशिका
बालक इव ॥ १० ॥
हृदिन्द्रियाण्यसुर्व्योमवायुरग्निर्जलं मही ।
सूर्यश्चन्द्रस्तपश्चैव स्थानान्येकादशैव ते ॥ ११ ॥
पदरत्नावली
हृन्मनः ॥ ११ ॥
प्रकाशिका
हृन्मनः ॥ ११ ॥
मन्युर्मनुर्महानासो महाञ्छिव ऋतध्वजः ।
मरुरेता भवः कालो वामदेवो धृतव्रतः ॥ १२ ॥
पदरत्नावली
नामानीति नामबहुलस्य प्रार्थितत्वात् कथं रुद्रेत्येकनामकरणमिति तत्राह– मन्युरिति ॥ मरुरेताः ‘मरुरग्निः कृष्णवर्त्मा शुचिर्वह्निरुषर्बुधः । धूमध्वजश्चित्रभानुर्दहनो हव्यवाहनः ॥’ इत्यभिधानाद् वह्निवीर्य इत्यर्थः । ऊर्ध्वरेतस्त्वादिव्रतधारणाद् धृतव्रतः । ‘ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः’ इति श्रुतिः ॥ १२ ॥
प्रकाशिका– मरुरेताः । मरुर्वह्निः । ‘‘मरुरग्निः कृष्णवर्त्मे’’त्यभिधानात् । तद्वद्दाहकं रेतो यस्य स मरुरेताः ॥ १२ ॥
धीर्वृत्तिरशलोमा च नियुत् सर्पिरिलाम्बिका ।
इरावती सुधा दीक्षा रुद्राण्यो रुद्र ते स्त्रियः ॥ १३ ॥
पदरत्नावली
रुद्राण्यो रुद्रभार्यास्ते तुभ्यं, दत्ता इति शेषः ॥ १३ ॥
प्रकाशिका
हे रुद्र । एताः स्त्रियस्ते दत्ता अतो रुद्राण्यः । भविष्यन्तीति शेषः ॥ १३ ॥
गृहाणैतानि नामानि स्थानानि च सपोषणम् ।
आभिः सृज प्रजा बह्वीः प्रजानामसि यत् पतिः ॥ १४ ॥
पदरत्नावली
सपोषणमिति क्रियाविशेषणम् । पुष्णात्यनया गार्हस्थ्यधर्ममिति पोषणा भार्या । प्रजानां पतिरसि यद् यस्मात् तस्माद् प्रजाभावेन तत्पतित्वमपि गच्छतीति ॥ १४ ॥
प्रकाशिका
पुष्णात्यनया धर्ममिति पोषणा भार्या । सपोषणमिति क्रियाविशेषणम् । आभिः स्थानैर्नामभिश्च युक्तः । यद्यस्मात्प्रजानां पतिरसि । प्रजानामभावे तत्पतित्वं ते मृषा भविष्यतीति भावः
॥ १४ ॥
इत्यादिष्टः स गुरुणा भगवान् नीललोहितः ।
सत्त्वाकृतिस्वभावेन ससर्जात्मसमाः प्रजाः ॥ १५ ॥
पदरत्नावली
गुरुणा ब्रह्मणा । सत्त्वाकृतिर्वीर्याकृतिः, सत्त्वं बलमाकृतिर्मूर्तिः । स्वभावे-नोग्रत्वादिगुणैरात्मसमाः ॥ १५ ॥
प्रकाशिका
गुरुणा पित्रा ब्रह्मणा । सत्त्वं बलमाकृतिर्मूर्तिः । स्वभाव उग्रत्वम् । द्वन्द्वैक-वद्भावः । तेन । आत्मसमाः स्वसमाः ॥ १५ ॥
रुद्राणां रुद्रसृष्टानां समन्ताद् ग्रसतां जगत् ।
निशाम्यासंख्यशो यूथान् प्रजापतिरशङ्कत ॥ १६ ॥
प्रकाशिका
रुद्राणां क्रूराणां यूथान्दृष्ट्वेत्यन्वयः ॥ १६ ॥
अलं प्रजाभिः सृष्टाभिरीदृशीभिः सुरोत्तम ।
त्वया सह दहन्तीभिर्दिशश्चक्षुर्भिरुल्बणैः ॥ १७ ॥
तप आतिष्ठ भद्रं ते सर्वभूतसुखावहम् ।
तपसैव यथापूर्वं स्रष्टा विश्वमिदं भवान् ॥ १८ ॥
पदरत्नावली
प्रवृत्तं कर्म निवार्य पुनः किं व्यधत्तेति तत्राह– तपेति ॥ तपो बहुविधम् । तत्रेदं कीदृशम् ? अत्राह– सर्वेति ॥ भगवद्गुणस्मरणलक्षणं तप अतिष्ठेत्यर्थः । तप आलोचन इति धातोः । सृष्टावनुपयुक्तेनानेन किमिति मा भूच्छङ्केति वक्ति– तपसेति ॥ भवांस्तपसैव यथापूर्वं तथेदं विश्वं स्रष्टा सम्भविष्यतीत्यन्वयः ॥ १८ ॥
प्रकाशिका
यथा पूर्वं तथा स्रष्टा ॥ भविष्यतीति शेषः । स्रष्टा सृक्ष्यतीति वा ॥ १८ ॥
तपसैव परंज्योतिर्भगवन्तमधोक्षजम् ।
सर्वभूतगुहावासमञ्जसा विन्दते पुमान् ॥ १९ ॥
पदरत्नावली
निर्विषयेणानेन किमिति तत्राह– तपसेति ॥ स्वविषयेण तपसोपलब्धस्य हरेः प्रसादेन लब्धज्ञानो भवान् स्रष्टा भविष्यतीति भावः । सूर्यादिज्योतिर्वैलक्षण्यात् परम् । तर्हि निराकारं किम् ? नेत्याह– भगवन्तमिति ॥ ऐश्वर्यादिगुणशालिनम् । तर्हि किं न दृश्यत इत्यत उक्तम्– अधोक्षजमिति ॥ अबाह्येन्द्रियज्ञानविषयम् । तर्हि शशशृृङ्गतुल्यमित्यत उक्तम्– सर्वेति ॥ नन्विदं जीववदतत्त्वं किम् ? नेत्याह– अञ्जसेति ॥ इदमेव तत्त्वं नान्यदित्यर्थः । ‘अञ्जसा त्वरिते तत्त्वेऽप्यहहोऽद्भुतखेदयोः ’इति यादवः । ‘तत्त्वेऽप्यद्धाञ्जसा द्वयम्’ इत्यमरश्च ॥ १९ ॥
प्रकाशिका
मोक्षसाधनमपि तप एवेत्याह ॥ तपसैवेति । आलोचनादिरूपेणैवेत्याशयः । विन्दते प्राप्नोति ॥ १९ ॥
मैत्रेय उवाच–
एवमात्मभुवाऽऽदिष्टः परिक्रम्य गिरां पतिम् ।
बाढमित्यमुमामन्त्र्य विवेश तपसे वनम् ॥ २० ॥
पदरत्नावली
सत्त्वाकृतिः स्वभावेनेत्युक्तसत्त्वस्वभावोऽस्य स्पष्टः, गुर्वाज्ञाकरणादिति भावेनाह– एवमिति ॥ वनं जलम् ॥ २० ॥
प्रकाशिका
आत्मभुवा ब्रह्मणा । गिरां पतिं सरस्वतीपतिं ब्रह्माणम् ॥ २० ॥
अथाभिध्यायतः सर्गं दश पुत्राः प्रजज्ञिरे ।
भगवच्छक्तियुक्तस्य लोकसन्तानहेतवः ॥ २१ ॥
पदरत्नावली
तपस्तप्त्वा रुद्र एव सृष्टिशेषं करिष्यतीति मत्वा ब्रह्मणा तूष्णीं स्थितं किम् ? तत्राह– अथेति ॥ भगवतो हरे रजोमिश्रसत्त्वशक्त्या युक्तस्य चतुर्मुखस्य, ओभ्य इति शेषः ॥ २१ ॥
प्रकाशिका
प्रजज्ञिरे । ओभ्य इति शेषः ॥ २१ ॥
मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।
भृगुर्वसिष्ठो दक्षश्च दशमस्तत्र नारदः ॥ २२ ॥
उत्सङ्गान्नारदो जज्ञे दक्षोऽङ्गुष्ठात् स्वयम्भुवः ।
प्राणाद् वसिष्ठः सञ्जातो भृगुस्त्वचि करात् क्रतुः ॥ २३ ॥
पदरत्नावली
किन्नामानस्त इति चोद्यानवकाशायाह– मरीचिरित्यादिना ॥ कस्मात् कस्मादङ्गादेषां जन्मेति तत्राह– उत्सङ्गादिति ॥ उत्सङ्गादूरोः ॥ २२,२३ ॥
प्रकाशिका
कस्मात्कस्मादङ्गादेतेषामुत्पत्तिरित्यपेक्षायामाह ॥ उत्सङ्गादिति । अङ्कादित्यर्थः
॥ २२,२३ ॥
पुलहो नाभितो जज्ञे पुलस्त्यः कर्णयो ऋषिः ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४ ॥
धर्मः स्तनाद् दक्षिणतो यत्र नारायणः स्वयम् ।
अधर्मः पृष्टतो यस्मान्मृत्युर्लोकभयङ्करः ॥ २५ ॥
पदरत्नावली
सकलतत्त्वनिर्णायकेऽस्मिन् शास्त्रेऽयथातारतम्यसृष्टिकथनं दुष्टजनमोहनाय । तस्यापि शास्त्रतात्पर्यार्थत्वात् । महतां प्रियत्वाच्च । सृष्टेश्च बहुविधत्वात् । तत्सृज्यानां च बहुरूपत्वात् । अतो निर्णायकग्रन्थान्तरानुसारेणास्य तात्पर्यमवगन्तव्यम् । तदुक्तम्– ‘कालतो बलतश्चैव ज्ञानानन्दादि-कैरपि । सर्वैर्गुणैर्विष्णुरेव श्रेष्ठस्तदवरा रमा । अनन्तांशेन कालात् तु समा तस्याश्चतुर्मुखः ॥ अवरो बहुलांशेन तत्समो वायुरुच्यते । नियमाद् वायुरेवैको ब्रह्मत्वं याति नापरः ॥ तस्मात् समानता मुक्तौ वायुत्वे किञ्जिदूनता । दश वर्षं तु तत्पश्चाज्जननं तत्स्त्रियोरपि ॥ आनन्दादिस्तद्दशांशः कालः संवत्सरात् परः । यावत् पश्चाज्जनिस्तावत् पूर्वं देहक्षयो भवेत् ॥ ब्रह्मवाय्वोस्तु ये देव्यौ तद्दशांशः सुखादिकः । शेषस्य गरुडस्यापि कालो द्विव्यसहस्रकः ॥ शेषरुद्रौ ब्रह्मवायू यथा तद्वत् परस्परम् । तद्देव्यस्तद्दशांशाः स्युस्ततस्त्विन्द्रादयो मताः ॥ एवं मुक्तौ च पूर्वं च नान्यथा क्वचिदिष्यते । अन्यथोक्तिर्यत्र च स्यात् तन्मोहार्थं भविष्यति ॥ पूर्वापरविपर्यासो बहुरूपत्वहेतुतः ॥’ इति वचनात् । ‘इन्द्राद्याः सनकाद्याश्च दक्षाद्या येऽपि चापरे । ऋषयो मनवो देवास्तद्वंश्या ये च केचन ॥ उमाया अवराः सर्वे गुणैः सर्वैर-संशयः । तत्समो न भविष्यो वा न भूतोऽद्यतनोऽपि वा ॥ ऋते हरिब्रह्मवायुशेषवीन्द्रान् सभार्यकान् । शङ्करं चेति वेत्तव्यमन्यन्मोहार्थमुच्यते ॥’ इत्यन्यत्रापि ॥
यत्र यस्य धर्मस्य गृहे नारायणः स्वयं हरिनारायणकृष्णनाम्ना जात इति शेषः । यस्माद् अधर्मान्मृत्युर्देहवियोगलक्षणः ॥ २४,२५ ॥
प्रकाशिका
ब्रह्मणोऽङ्गेभ्योऽन्येषामुत्पत्तिमाह ॥ धर्म इत्यादिना । दक्षिणतो दक्षिणात् । यत्र यस्मान्नारायणः । स्वयं प्रसन्नो भवतीति शेषः । पृष्ठतः पृष्ठभागात् । मृत्युर्नरकाद्यनर्थः । भवतीति शेषः
॥ २४,२५ ॥
हृदि कामो भ्रुवोः क्रोधो लोभश्चाधरदच्छदात् ।
आस्याद् वाक् सिन्धवो मेढ्रान्निर्ऋतिः पायोरघाश्रयः ॥ २६ ॥
पदरत्नावली
उत्पत्यनन्तरमपि स्वकारणं मुक्त्वा न तिष्ठन्तीत्याह– हृदीति ॥ अधरदच्छदा-दधरोष्ठात् । वाङ्मानुषी । वायोर्गोलकाद् अघाश्रयः दुःखाद्यभिमानी ॥ २६ ॥
प्रकाशिका
हृदि मनसि । अधरदच्छदादधरोष्ठात् । सिंधवस्तदभिमानी वरुणो, मेण्ढ्रा-द्गुह्येन्द्रियात् । अघाश्रयोऽधर्माभिमानी । अधर्म इत्यत्रोक्तोऽधर्मस्त्वसुर एवेति ज्ञेयम् ॥ २६ ॥
छायायाः कर्दमो जज्ञे देवहूत्याः पतिः प्रभुः ।
मनसो देहतश्चेदं जज्ञे विश्वकृतो जगत् ॥ २७ ॥
पदरत्नावली
शरीराच्छायायाः । कर्दमोऽन्योऽस्तीति देवहूत्याः पतिरिति । संक्षिप्य फलित-माह– मनस इति ॥ २७ ॥
प्रकाशिका
विश्वकृतो ब्रह्मणः ॥ २७ ॥
वाचं दुहितरं तन्वीं स्वयम्भूर्हरतीं मनः ।
अकामां चकमे क्षत्तः सकाम इति नः श्रुतम् ॥ २८ ॥
पदरत्नावली
भगवन्महत्त्वविद्भिर्महद्भिरसुरजनमोहनं कर्तव्यमिति नियममवेक्षमाणस्य ब्रह्मणः कामिजनविडम्बनप्रकारमाह– वाचमिति ॥ दुहितरं शृङ्गाररसदोग्ध्रीं तन्वीं सुन्दरीम् अकामामकुत्सितां वाचं मानुषीम् । नोऽस्माकं श्रुतं वार्तामात्रं, न तु तथ्यमित्यर्थः ॥ २८ ॥
प्रकाशिका
ब्रह्मणोऽसुरजनमाहेनाय कामिजनविडम्बनप्रकारमाह ॥ वाचमिति । आस्या-दुत्पन्नां तन्वीं सुंदरीं नोऽस्माभिः श्रुतम् ॥ २८ ॥
तमधर्मे कृतमतिं विलोक्य पितरं सुताः ।
मरीचिमुख्या मुनयो विस्रम्भात् प्रत्यषेधयन् ॥ २९ ॥
नैतत् पूर्वैः कृतं त्वद्य न करिष्यन्ति येऽपरे ।
यः स्वां दुहितरं गच्छेदनिगृह्याङ्गजं प्रभुः ॥ ३० ॥
पदरत्नावली
भगवदुपासनया तेन तत्र नित्यसन्निहितमनस्कत्वाददुष्टमनसः स्वयम्भुवो दुष्टजन-मोहनरीतिमाह– तमिति ॥ कथमब्रुवन्निति तत्राह– नेति ॥ योऽङ्गजं काममनिगृह्य स्वां दुहितरं गच्छेत् तस्य एतत् कर्म पूर्वैस्त्वदन्यैर्न कृतम् । ये अपरे पश्चात्तनास्तेऽपि न करिष्यन्तीत्यन्वयः ॥ २९,३० ॥
प्रकाशिका
योऽङ्गजं काममनिगृह्य स्वां दुहितरं गच्छेत्तस्यैतत्कर्म पूर्वैस्तदन्यैर्न कृतम् । अद्य अद्यतना न कुर्वन्ति । येऽपरे पश्चात्तनास्तेऽपि न करिष्यंतीत्यन्वयः ॥ २९, ३० ॥
तेजीयसामपि ह्येतन्न सुश्लोक्यं जगद्गुरो ।
यद्वृत्तमनुतिष्ठन् वै लोकः क्षेमाय कल्प्यते ॥ ३१ ॥
पदरत्नावली
ननु पामरस्येदं दुष्करम्, अग्निवद् दुष्कर्मेन्दनभस्मीकरणसमर्थस्य न मद्विधस्येति तत्राह– तेजीयसामिति ॥ एकस्य चेदिदं दुष्कीर्तिकरं न बहूनामिति मन्दाशङ्कानिरासाय तेजीयसामिति बहुवचनम् । बहुभिरनुष्ठितमपि सुरापानं यथा निन्द्यं तथेदमपीति हिशब्देन लोकप्रसिद्धिं सूचयति । इतोऽप्यनुपपन्नमित्याह– यद्वृत्तमिति ॥ अनेन जगद्गुरुत्वेनैतत्त्वद्वृत्तकरणेनेतरेषामनर्थः स्यादिति ध्वनितम्
॥ ३१ ॥
प्रकाशिका
ननु ममापरोक्षज्ञानित्वान्नैतल्लेप इत्याशङ्क्याह ॥ तेजीयसामिति । अपरोक्ष-ज्ञानिनामपीत्यर्थः । न सुश्लोक्यं सत्कीर्तिप्रदं जगद्गुरुत्वाच्च नैतत्तव योग्यमित्याशयेन जगद्गुरो इति सम्बोधनम् । अत्राप्रयोजकतापरिहाराय विपक्षे बाधकं सूचयन्नाह ॥ यद्वृत्तमिति । यदाचारमित्यर्थः । तस्य नैतत्सुश्लोक्यमित्याशयः । तथाच ‘‘यद्यदाचरति श्रेष्ठ’’ इति वचनाद् लोकस्याप्येतादृशाचार-प्रसक्तावनर्थप्राप्तिरेव स्यादिति बाधकं सूचितमिति ज्ञातव्यम् ॥ ३१ ॥
तस्मै नमो भगवते य इदं स्वेन रोचिषा ।
आत्मस्थं व्यञ्जयामास स धर्मं पातुमर्हति ॥ ३२ ॥
पदरत्नावली
क्रोधभीत्या सान्त्वयन्तो नमन्तीत्याशयेनाह– तस्मा इति ॥ संल्लापेन प्रार्थयमाना इति भावेनाह– य इति ॥ स्वेन स्वयंप्रतिभासमानेन रोचिषा ज्ञानेनात्मस्थं परमात्मस्थम् इदं विश्वं व्यञ्जयामास, स ब्रह्मा स्वसृष्टं धर्मं पातुर्महतीत्यन्वयः ॥ ३२ ॥
प्रकाशिका
क्रोधभीत्या नमन्तः प्रार्थयन्तीत्याह ॥ तस्मा इति । रोचिषा ज्ञानेनात्मस्थं परमात्मस्थमिदं जगद्व्यञ्जयामासोत्पादयामास ॥ ३२ ॥
स इत्थं गृणतः पुत्रान् पुरो दृष्ट्वा प्रजापतीन् ।
प्रजापतिपतिस्तन्वीं तत्याज व्रीडितस्तदा ॥ ३३ ॥
तात्पर्यम्
‘यां तत्याज विभुर्ब्रह्मा मानुषी वाक्च सा स्मृता । सरस्वती निजा भार्या दैवीं वाचं तु तां विदुरि’ति च ॥ ३३ ॥
पदरत्नावली
त्यागात्यागौ त्वितरप्रार्थनया महतां स्वभाव इति भावेनाह– स इत्थमिति ॥ अथापि सह स्थितत्वान्नेयं निजा सरस्वती किन्त्वन्यैव । त्यागात् सा केति मन्दाशङ्का ‘यां तत्याज विभुर्ब्रह्मा मानुषी वाक् तु सा स्मृता । सरस्वती निजा भार्या दैवीं वाचं तु तां विदुः ॥’ इति वाक्येन परिहर्तव्या ॥ ३३ ॥
प्रकाशिका
तन्वीं वाचं तत्याजेत्युक्त्या सरस्वतीत्यागः प्रतीयतेऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति ॥ यां तत्याजेति । तुशब्दोऽवधारणे । मनुष्यसम्बन्धिनी वागेव कणादादि-निर्मितकुशास्त्ररूपा । तदभिमानिनीति यावत् । तां देवीमेव । वाचं वेदादिरूपवागभिमानिनीं ज्ञानिनो विदुरित्यर्थः ॥ ३३ ॥
तां दिशो जगृहुर्घोरां नीहारं यद् विदुस्तमः ।
कदाचिद् ध्यायतः स्रष्टुर्वेदा आसंश्चतुर्मुखात् ॥ ३४ ॥
पदरत्नावली
दिश इति दिक्स्था जना लक्ष्यन्ते । अन्यथा मानुषीति विशेषोक्तिर्व्यर्था स्यात् । तथा च यद् यस्या उत्पन्नं नीहाराख्यं तमो विदुरित्यर्थः ॥ वेदादितदभिमानिनां सृष्टिरुर्वरितेति सुप्त-प्रतिबुद्ध इव तत्सृष्टिं कथयति– कदाचिदिति । चतुर्मुखादिति चतुर्भ्यो मुखेभ्य इत्यर्थः ॥ ३४ ॥
प्रकाशिका
मूले दिशो दिशि विद्यमाना जनाः, नीहारमिव नीहारं बाष्पवत्सम्यग्ज्ञान-प्रतिबन्धकं तमो मिथ्याज्ञानं यद्यस्याः सकाशाद्भवतीति विदुर्ज्ञानिनस्तामित्यर्थः । चतुर्मुखाच्चतुर्भ्यो मुखेभ्यः । पाद्मकल्पेऽप्येवमेव वेदादिसृष्टिरिति प्रदर्शनायैवमुक्तमिति ज्ञातव्यम् । एवमग्रेऽपि ॥ ३४ ॥
कथं स्रक्ष्याम्यहं लोकान् समवेतान् यथा पुरा ।
चातुर्होत्रं कर्मतन्त्रमुपवेदनयैः सह ।
धर्मस्य पादाश्चत्वारस्तथैवाश्रमवृत्तयः ॥ ३५ ॥
पदरत्नावली
चातुर्होत्रकर्मादिकमपि भगवद्ध्यानपूर्वकं सृष्टत्वाद् ग्राह्यमिति भावेनाह– कथमिति ॥ कर्मणा समवेतानुपपन्नाल्लोकान् कथं स्रक्ष्यामि द्रक्ष्यामीति ध्यायतो ब्रह्मणो वाचा कर्मतन्त्रं कर्मशास्त्रं समुत्पन्नम्, उपवेदैः स्मृतिलक्षणैर्नयैरुपोद्धातग्रन्थैः सह । अत्र विशेषस्तु– ‘अभिमानिनः शब्दतश्च ब्रह्मा वेदान् ससर्ज ह । यज्ञादींश्चक्लृपे वाचा तथा सर्वाभिमानिनः ॥ इतिहास-पुराणे तु श्रुत्वा हरिमुखात् स्वयम् । भारतादीन् विना पश्चाद्धरिणान्यैश्च निर्मितान् ॥’ इत्यनेन ज्ञातव्यः । आश्रमवृत्तय आश्रमाश्च तदाचारश्च ॥ ३५ ॥
प्रकाशिका
ध्यानप्रकारं दर्शयति ॥ कथमिति । स्वस्वविहितकर्मादिसमवेतान् युक्तानिति ध्यायत इत्यन्वयः । न केवलं वेदा एवासन् किंतु कर्मादयोऽपीत्याह ॥ चातुर्होत्रमिति । होत्रादीनां चतुर्णां सम्बन्धि कर्म, तन्त्रं यज्ञविस्तारः । उपवेदा गन्धर्वादयो, नया नीतिशास्त्राणि तैः सह धर्मस्य चत्वारः पादा वक्ष्यमाणाः, आश्रमा ब्रह्मचर्यादयस्तद्वृत्तयस्तदाचारास्तज्जीवनोपाया वा । आसन्नित्यनु-वर्तते ॥ ३५ ॥
विदुर उवाच–
स वै विश्वसृजामीशो वेदादीन् मुखतोऽसृजत् ।
यद् यद् येनासृजद् देवस्तन्मे ब्रूहि तपोधन ॥ ३६ ॥
पदरत्नावली
विदुरः स्वयं विभागं जानन्नपि लोकहितार्थं विविच्य वक्तव्यमिति पृच्छतीत्याह– विदुर इति ॥ ३६ ॥
मैत्रेय उवाच–
ऋग्यजुःसामाथर्वाख्यान् वेदान् पूर्वादिभिर्मुखैः ।
शस्त्रमिज्यां स्तुतिस्तोमं प्रायश्चित्तं व्यधात् क्रमात् ॥ ३७ ॥
पदरत्नावली
मैत्रेयोऽपि लोकहिताय विस्तरतो विदुरप्रश्नं परिहरतीत्याह– ऋग्यजुरिति ॥ पूर्वादिभिः पूर्वदक्षिणपश्चिमोत्तरदिग्भेदभिन्नैः, शस्त्रं मन्त्रम् ऋग्वेदगतम्, इज्यां मन्त्रं याजुषं, स्तुति-स्तोममन्त्रौ सामवेदगौ, स्तोमः क्रियमाणकर्मपुरतः क्रियमाणस्तुतिविशेषः, अन्यदा क्रियमाणा स्तुतिः, प्रायश्चित्तमाथर्वणं, व्यधात्, विभागं कृतवान् । वेदानां पूर्वमेवोद्धृतत्वात् ॥ ३७ ॥
प्रकाशिका
पूर्वादिभिः पूर्वदक्षिणपश्चिमोत्तरदिग्भेदभिन्नैः । चातुर्होत्रसृष्टिक्रममाह ॥ शस्त्रमिति । शस्त्रम् ऋग्वेदमन्त्रशंसनं होतुः कर्म । इज्यां यागं, अध्वर्योः कर्म । स्तुतिस्तोमशब्दौ सामवेदगस्तोत्रविशेषपरौ । तच्छंसनमौद्गात्रं कर्म । प्रायश्चित्तं ब्राह्मम् ॥ ३७ ॥
आयुर्वेदं धनुर्वेदं गान्धर्वं वेदमात्मनः ।
स्थापत्यं चासृजद् वेदं क्रमाद् पूर्वादिभिर्मुखैः ॥ ३८ ॥
पदरत्नावली
आयुर्वेदं वैद्यशास्त्रम् । धनुर्वेदमायुधविद्याम् । गान्धर्वं भरतशास्त्रम् । स्थापत्यं वेदं तक्षशास्त्रम् ॥ ३८ ॥
प्रकाशिका
उपवेदसृष्टिक्रममाह ॥ आयुर्वेदमिति । आत्मनो मुखैरायुर्वेदं वैद्यशास्त्रम् । धनुर्वेदमायुधविद्याम् । गान्धर्वं भरतशास्त्रं, स्थापत्यं तक्षशास्त्रम् ॥ ३८ ॥
इतिहासपुराणं च पञ्चमं वेदमीश्वरः ।
सर्वेभ्य एव वक्त्रेभ्यः ससृजे सर्वदर्शनः ॥ ३९ ॥
पदरत्नावली
इतिहाससहितं पुराणम् । शब्दत एव रचनं न त्वर्थतस् तस्य वैदिकत्वात् । वेदस्य व्यक्तिमात्रमेव कारणम् । न च जनिवादिनो वाक्यस्याविषयत्वेनाप्रामाण्यम् । तस्य स्वाभिमान्युत्पत्त्या चरितार्थत्वात् । ‘अभिमानिनः शब्दतश्च ब्रह्मा वेदान् ससर्ज ह’ इत्यादेः । सर्वदर्शनः सर्वज्ञः । अनेन ब्रह्मोक्तस्याप्तिमूलत्वं दर्शितम् । सर्वाणि दर्शनानि यस्मादुत्पन्नानि स तथोक्त इति वा ॥ ३९ ॥
प्रकाशिका
सर्वदर्शनः । सर्वज्ञः । अनेनाप्तत्वं सूचयति ॥ ३९ ॥
षोडश्युक्थौ पूर्ववक्त्रात् पुरीष्याग्निष्टुतावथ ।
आप्तोर्यामातिरात्रौ च वाजपेयं सगोसवम् ॥ ४० ॥
पदरत्नावली
षोडश्यादयो यज्ञविशेषाः । तद्भेदः कल्पतो बोद्धव्यः । अथ पुरीष्याग्निष्टुतादिकं द्वयं द्वयं च दक्षिणादिवक्रेभ्य उत्पन्नम् ॥ ४० ॥
प्रकाशिका
षोडश्यादयो यज्ञविशेषाः । तद्भेदः कल्पतोऽवगन्तव्यः । पुरीष्याग्निष्टुदादिकं च द्वयं दक्षिणादिवक्त्रेभ्य उत्पन्नम् ॥ ४० ॥
तपः शौचं दया सत्यं धर्मस्येति पदानि च ।
आश्रमांश्च यथासंख्यमसृजत् सह वृत्तिभिः ॥ ४१ ॥
तात्पर्यम्
‘अभिमानितः शब्दतश्च ब्रह्मा वेदान्ससर्ज ह । यज्ञादींश्चक्लृपे वाचा तथा सर्वाभिमानिनः । ‘इतिहासपुराणे तु श्रुत्वा हरिमुखात्स्वयम् । भारतादीन्विना पश्चाद्धरिणाऽ-न्यैश्च निर्मितानि’ति ॥ ४१ ॥
पदरत्नावली
तपआदिधर्मपादानामपि वक्त्रचतुष्टयाज्जन्मेति ज्ञातव्यम् । यथासंख्यं ब्रह्मचर्या-द्याश्रमांश्च पूर्वादिवक्त्रेभ्यः ससर्ज, भैक्ष्यचर्यादिवृत्तिभिः सहः ॥ ४१ ॥
प्रकाशिका
तपआदिधर्मपादानामपि पूर्वादिमुखेभ्यो जन्मेति ज्ञातव्यम् । वृत्तिभिर्भैक्ष्यचर्या-दिभिः सहाश्रमान् ब्रह्मचर्यादीन् यथासङ्ख्यं ब्रह्मचर्यं पूर्वमुखादित्यादिक्रमेण । अत्र वेदानामपौरुषेय-त्वात्कथं सर्जनमुच्यते । इतिहासपुराणानां च मूलरूपेण हरिणा व्यासेन च कृतत्वात्कथं ब्रह्मकर्तृत्व-मित्याशङ्कां प्रमाणेनैव परिहरति ॥ अभिमानित इति ॥ वेदान्ससर्जेत्यस्य वेदाभिमानिनो देवतादेहा-न्ससर्जेत्येवार्थो न त्वितरशास्त्रवच्छब्दतः सर्जनमित्यर्थः ॥ शब्दत इति । पूर्वकल्पीयवेदक्रमादितुल्य-क्रमादिविशिष्टस्य वेदस्य ब्रह्मबुद्धिक्रमजन्यत्वादित्याशयः । षोडश्युक्थादीनां सर्जनं कीदृशमित्य-पेक्षायामाह ॥ यज्ञादीनिति । आदिपदात्तपआदेर्ग्रहणम् । वाचा तत्प्रतिपादकशास्त्रकरणेन चक्लृपे प्रदर्शितवान् । प्रकारान्तरमाह ॥ तथेति । सर्वेषां यज्ञादीनामभिमानिन इत्यर्थः । तथा च षोडश्यादि-शब्दैस्तदभिमानिनामेव ग्रहणात्तत्सृष्टिरेवात्राभिप्रेतेति भावः । तुशब्दस्तयोर्हरिकृतत्वरूपविशेषसूचकः । तथा च पूर्वं हरिकृते इतिहासपुराणे हरिमुखात् श्रुत्वा स्वयं चक्लृप इत्यन्वयः । तर्हि किं भागवत-भारतादिकं च ब्रह्म चकार नेत्याह ॥ भारतादीन्विनेति । कुत इत्यतस्तत्र हेतुं सूचयन्नाह । पश्चादिति । हरिणा व्यासरूपिणाऽन्यैश्च मार्कण्डेयादिभिः । पश्चाद्ब्रह्मनिर्मितेतिहासाद्यनन्तरम् । तथा च भारतादीनां पश्चाद्व्यासादिभिः कृतत्वान्न तान् ब्रह्मा चकारेति भावः ॥ ४१ ॥
सावित्रं प्राजापत्यं च ब्राह्मं चाथ बृहत् तथा ।
वार्ताऽसञ्चयशालीनं शिलोञ्छ इति वै गृहे ॥ ४२ ॥
तात्पर्यम्
‘प्राजापत्यं ब्रह्मचर्यमेकभार्यर्तुगामिते’ति व्यासस्मृतौ ॥ ‘वार्ता यायावरं ज्ञेयमेकाहित्वमसञ्चय’ इति च ॥ ४२ ॥
पदरत्नावली
यथासंख्यामित्यनेनाश्रमचतुष्टयावान्तरभेदमाह– सावित्रमिति ॥ गुरुकुले ब्रह्मचारिणो द्वादशवर्षपर्यन्तमध्ययनकर्म सावित्रम् । प्राजापत्यं ब्रह्मचर्यम् एकभार्यर्तुगमनम् । ‘प्राजापत्यं ब्रह्मचर्यमेकभार्यर्तुगामिता’ इति वचनात् । ब्राह्मं ब्रह्मचर्यं यावद्विवाहमध्ययनम् । बृहन्नाम ब्रह्मचर्यं यावज्जीवम् एकाहित्वं, तद्दिनार्जितव्रीह्यादेस्तद्दिन एव व्ययः । शालीनं तु वत्सरपर्यन्तं स्ववृत्तिहेतोः कुसूलमञ्जूषादिषु व्रीहिधान्यादिग्रहणम् । शिलोञ्छस्तु व्रीहिसस्यक्षेत्रेषु गलितव्रीह्यादिना देहयात्रावर्तनम् । ‘वार्ता यायावरं ज्ञेयमेकाहित्वमसञ्चयः’ इति ॥ ४२ ॥
प्रकाशिका
ब्रह्मचर्याश्रमावान्तरभेदोत्पत्तिमाह ॥ सावित्रमिति । इति चतुर्विधं ब्रह्मचर्यम-सृजदित्यन्वयः । अत्र सावित्रं ब्रह्मचर्यमुपनयनादारभ्य वेदग्रहणपर्यन्तं गायत्रीमधीयानस्य व्रतम् । ब्राह्मं द्वादशवर्षपर्यन्तं गुरुकुले वेदमधीयानस्य व्रतम् । बृहत्तु यावज्जीवं ब्रह्मचर्यं नैष्ठिकापरनामकम् । प्राजापत्यं ब्रह्मचर्यं तु कीदृशमित्यपेक्षायां प्रमाणेनैव दर्शयति ॥ प्राजापत्यमिति । गृहस्थस्यापीति शेषः। तथा च यस्य गृहस्थस्यैकैव भार्या तस्यां च ऋतुकाल एव गमनं तदप्येकं ब्रह्मचर्यं तदेव प्राजापत्य-नामकमित्यर्थः । गृहस्थाश्रमस्यापि वृत्तिभेदेन चातुर्विध्यमाह ॥ वार्तेति । अत्र वार्ता कृष्यादिना वृत्तिरसञ्चयः सर्वथा सञ्चयाभाव इत्यन्यथाप्रतीतिवारणाय वार्तासञ्चयेत्येतत्प्रमाणेनैव व्याख्याति ॥ वार्तेति । यायावर्यं भैक्षचर्यविशेषः । एकाहित्वं तद्दिनार्जितव्रीह्यादेस्तद्दिन एव व्ययः । शालीनं वत्सरपर्यन्तं स्ववृत्तिहेतुधान्यादिसङ्ग्रहः । शिलोञ्छस्तु क्षेत्रेषु गलितव्रीह्यादिना वृत्तिः । सुपां सुलुगित्या-दिना बहुवचनस्यैकवचनादेशः । इति वृत्तिभेदेन गृहे गृहस्थाश्रमे चातुर्विध्यम् । भवतीति शेषः ॥४२॥
वैखानसा वालखिल्यौ(ल्यो)दम्बराः फेनपा वने ।
न्यासे कुटीचकः पूर्वं बहूदो हंसनिष्क्रियौ ॥ ४३ ॥
तात्पर्यम्
‘वैखानसा मूलभक्षाः फलभक्षा उदुम्बराः । वालखिल्याः सर्वभक्षाः फेनपा वत्सफेनपा’ इति च ॥ ४३ ॥
पदरत्नावली
वने वानप्रस्थाश्रमे । ‘वैखानसा मूलभक्षाः फलभक्षा उदुम्बराः । वालखिल्याः सर्वभक्षाः फेनपा वत्सफेनपाः ॥’ इत्यनेन व्याख्यातोऽयं श्लोकः । वत्समुखगलितपयःफेनपानेन जीवन्तः । न्यासे यत्याश्रमे पूर्वं कुटीचकः कुट्यां स्वगृह एव पुत्रादिदत्तान्नादिना चकते तृप्यति अलम्बुद्धिमाप्नोतीति । चक तृप्ताविति धातुः । द्वितीयो बहूदः सवनत्रयस्नानं विना त्वकाले तीर्थजलदर्शने तत्र स्नानं कुर्वंस्त्रिदण्डी । तृतीयचतुर्थौ हंसनिष्क्रियौ । हंस एकदण्डी यज्ञोपवीती च । निष्क्रिय एकदण्डी हिंसादिक्रियारहितः परमहंसः ॥ ४३ ॥
प्रकाशिका
वृत्तिभेदेन वानप्रस्थाश्रमेऽपि चातुर्विध्यं दर्शयति ॥ वैखानसा इति । अत्र वैखानसा अकृष्टपच्यवृत्तयो, वालखिल्या नवेऽन्ने लब्धे पूर्वसंचितान्नत्यागिनः । औदुम्बराः प्रातरुत्थाय यां दिशं प्रथमं पश्यन्ति तत आहृतैः फलादिभिर्जीवन्तः । फेनपाः स्वयं यत्पश्यन्ति तैः फलादिभि-र्जीवन्त इति व्याख्यानं प्रमाणविरुद्धमित्याशयेन वैखानसादिशब्दान्प्रमाणेनैव व्याख्याति ॥ वैखानसा इति । वत्सफेनपा गोवत्समुखगलितक्षीरफेनपा इत्यर्थः । वने वानप्रस्थाश्रमे वसन्तोऽप्येवं चतुर्विधा इति शेषः । न्यासे संन्यासाश्रमे वसन्तोऽपि चतुर्विधा इति शेषः । तान्निर्दिशति ॥ कुटीचक इति । कुट्यां स्वगृह एव पुत्रादिदत्तान्नादिना चकति तृप्यति । चक तृप्ताविति धातोः । स कुटीचकः पूर्वं प्रथमः । बहूदस्तीर्थयात्रापरस्त्रिदण्डी द्वितीयः । हंसनिष्क्रियौ तृतीयचतुर्थौ । हंस एकदण्डी यज्ञोपवीती च । निष्क्रिय एकदण्डी हिंसादिक्रियारहितो यज्ञोपवीतधारणशून्यः परमहंसः ॥ ४३ ॥
आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस्तथैव च ।
एवं व्याहृतयश्चासन् प्रणवेनास्पदं गताः ॥ ४४ ॥
तात्पर्यम्
‘आन्वीक्षिकी तन्त्रविद्या सा च वेदानुसारिणी । विष्णुप्रोक्ता शिवाद्युक्ता ज्ञेया वेदबहिष्कृता । दण्डनीती राजधर्मस्त्रयी वेदाः प्रकीर्तिताः । वार्ता वाणिज्यकादिः स्यादे-ताभिर्यत्तु जीवनम् । तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरे’ति च । प्रणवः पूर्ववक्त्रात् । प्रणवः पूर्ववक्त्रेण भूराद्याश्च मुखत्रयात् । प्रदक्षिणमवर्तन्त वेदाश्चैवाश्रमास्तथे’ति ब्राह्मे ॥४४॥
पदरत्नावली
आन्वीक्षिकी वेदानुसारिणी तन्त्रविद्या । त्रयी त्रयो वेदाः । वार्ता वाणिज्यादि । दण्डनीतिः राजधर्मः । एते यथा ब्रह्मणो वक्रचतुष्टयादासन् एवं भूरादिव्याहृतयश्च अजस्य मुख-चतुष्टयादभिव्यक्ताः प्रणवेन सह तद्वक्त्रस्यास्पदं गताश्चेत्यन्वयः । त्रय्या सह पाठान्न शिवप्रोक्ता-न्वीक्षिकी । तस्या वेदबहिष्काराद् । विष्णुप्रोक्तेयम् । तदुक्तम्, ‘आन्वीक्षिकी तन्त्रविद्या सा च वेदानु-सारिणी । विष्णुप्रोक्ता शिवाद्युक्ता ज्ञेया वेदबहिष्कृता ॥ दण्डनीती राजधर्मस्त्रयी वेदाः प्रकीर्तिताः ॥’ इति । आन्वीक्षिक्या त्रय्या च ब्राह्मणानां जीवनं, दण्डनीत्या राज्ञां, वार्तया वैश्यादीनामित्येतद् द्योतयितुं च पुनस्त्रयीग्रहणम् । ‘वार्तां वाणिज्यकादि स्यादेताभिर्यत् तु जीवनम् । तदान्वीक्षिक्यादिनाम ब्रह्मणा निर्मितं पुरा ॥ ’ इति च । यद्वा प्रणवेन सहास्पदं ब्रह्म गतास्तत्प्रतिपादकत्वेन तदेकविषयत्वं प्राप्ता इत्यर्थः । प्रणवेनेति तृतीयया प्रणवस्याप्राधान्यं न श्रद्धेयम् । तस्य पूर्ववक्त्रजत्वात् । तदुक्तम्– ‘प्रणवः पूर्ववक्त्रेण भूराद्याश्च मुखत्रयात् । प्रदक्षिणमवर्तन्त वेदाश्चैवाश्रमास्तथा ॥’ इति । तस्मात् प्रणवं मुखीकृत्य ब्रह्म प्राप्ता इत्येवमर्थं तृतीयेति ॥ ४४ ॥
प्रकाशिका
ब्राह्मणादिवर्णानां वृत्तयोऽपि यथासंख्यं पूर्वादिमुखेभ्यो जाता इत्याह ॥ आन्वीक्षिकीति । अत्रान्वीक्षिक्यादिशब्दान्प्रकृतोपयुक्ततया प्रमाणेनैव व्याख्याति ॥ आन्वीक्षिकीति । तन्त्रविद्या । तर्कविद्या वेदबहिष्कृता, अतोऽत्र न सा ग्राह्येति भावः । राजधर्मो राज्यपरिपालनम् । आदिशब्देन त्रैवर्णिकशुश्रूषणं ग्रहणम् । नन्वेतेषां कथं ब्राह्मणादिवृत्तित्वमित्यत आह ॥ एताभिरिति । आन्वीक्षिक्या त्रय्या च ब्राह्मणानां जीवनम् । राजनीत्या क्षत्रियाणाम् । वार्तया वैश्यादीनामिति विवेकः । तथा च मूले आन्वीक्षिक्यादिशब्दैस्तदुपजीवनं लक्षणया व्याख्येयमिति भावः । एवशब्दः शिवाद्युक्तव्यावृत्त्यर्थः । व्याहृतयो भूर्भुवःस्वरिति तिस्रः प्रणवेन सहास्पदं ब्रह्मणः पूर्ववक्त्रादिरूपम् । गताः प्राप्ता आसन्नभिव्यक्ता इत्यर्थः । अत्र व्याहृतीनां प्राधान्येन निर्देशात्तासामेव पूर्ववक्त्रादिजातत्वं प्रतीयतेऽतोऽभिप्रायमाह ॥ प्रणव इति । अत्र प्रमाणमाह ॥ प्रणव इति । प्रदक्षिणं यथा स्या-त्तथाऽऽवर्तन्तेऽभिव्यक्ताः । वेदाश्चैवाश्रमास्तथेत्यनेन कदाचिद्ध्यायतस्तस्य वेदा आसंश्चतुर्मुखात्’’
इत्यादिनोक्तमपि प्रमापितमिति ज्ञातव्यम् ॥ ४४ ॥
तस्योष्णिगासील्लोमभ्यो गायत्री च त्वचो विभोः ।
त्रिष्टुप् मांसात् स्नुतोऽनुष्टुब् जगत्यस्थ्नः प्रजापतेः ।
मज्जायाः पङ्क्तिरुत्पन्ना बृहती प्राणतोऽभवत् ॥ ४५ ॥
पदरत्नावली
तस्य ब्रह्मणो रोमादिभ्यः सप्तच्छन्दसां सर्गप्रकारमाह– तस्येति ॥ अत्र क्रमव्यत्ययः ‘तस्योष्णिग् लोमानि’ इत्यादिश्रुत्यनुसारात् कारणानुगुण्याच्च ॥ ४५ ॥
प्रकाशिका
ब्रह्मणो रोमादिभ्यः सप्तछन्दसां सर्गमाह ॥ तस्येति । स्नुतः स्नायुतः ॥ ४५ ॥
स्पर्शास्तस्याभवन् जीवात् स्वरो देह उदाहृतः ।
ऊष्माण इन्द्रियाण्याहुरन्तस्था बलमात्मनः ॥ ४६ ॥
तात्पर्यम्
‘स्पर्शास्तस्याभवञ्जीवात्स्वरा देहात्प्रजज्ञिरे । ऊष्माणम् इन्द्रियेभ्यश्च अन्तस्था बलतो विभोरि’ति च ॥ ‘यस्माद्यज्जायते चाङ्गात्तत्तदङ्गाभिधं भवेदि’ति च ॥ ४६ ॥
पदरत्नावली
पञ्चाशद्वर्णानामपि ब्रह्मणोऽभिव्यक्तिप्रकारमाह– स्पर्शा इति ॥ कादयो मावसानाः स्पर्शास्तस्य ब्रह्मणो जीवाच्चैतन्यादभवन् अभिव्यक्ता आसन् । वर्णानां नित्यत्वादभिव्यक्ति-रेव । स्वरोऽकारादिर्देहः देहादुदाहृत उद्धृतः । शषसहा ऊष्माणः श्रोत्रादीन्द्रियाणि इन्द्रियेभ्य उत्पन्ना इत्याहुः । यरलवा अन्तस्था आत्मनो ब्रह्मणो बलं बलादभिव्यक्ताः । अत्र सामानाधिकरण्यवचनम् ‘यस्माद् यद् जायते चाङ्गात् तत् तदङ्गाभिधं भवेत्’ इति वचनाद् युक्तम् । प्रथमा पञ्चम्यर्थे । अकुहविसर्जनीयानां कण्ठ इत्यादिस्थानभेदवद् ग्रन्थान्तरे स्थानभेदसम्भवे कथमत्रोक्तमेव स्थानमिति निर्णय इतीदं चोद्यम् । ‘स्पर्शास्तस्या भवन् जीवात् स्वरा देहात् प्रजज्ञिरे । ऊष्माणम् इन्द्रियेभ्यश्च अन्तस्था बलतो विभोः ॥’ इत्यनेन परिहर्तव्यम् ॥ ४६ ॥
प्रकाशिका
वर्णानामपि ब्रह्मणोऽभिव्यक्तिमाह ॥ स्पर्शा इति । स्पर्शाः कादयो मावसानाः । जीवाच्चैतन्यात् । स्वरोऽकारादिः । देहो देहात् । ऊष्माणः शषसहाः । इन्द्रियाणीन्द्रियेभ्यः । अन्तस्था यरलवाः । बलं बलात् । आत्मनो ब्रह्मणः । अत्र देहादिशब्दाः पञ्चम्यर्था एव सप्तसु प्रथमेति सूत्रा-दित्याशयेन समाख्याप्रमाणं पठति ॥ स्पर्शा इति । पञ्चम्यर्थत्वाभावेऽपि प्रथमान्तानां देहादिशब्दानां तज्जन्यपरत्वस्य प्रमाणसिद्धत्वान्न सामानाधिकरण्यानुपपत्तिरित्याशयेनाप्याह ॥ यस्मादिति ॥ यत्स्वरादिकं यस्माद्देहादेरङ्गाज्जायते तत्स्वरादिकं तदङ्गाभिधं तदङ्गाभिधायकशब्दवाच्यं तज्जन्यत्वनिमित्तेन भवेदित्यर्थः । तथा च स्वरादिर्देहादिजन्य इत्यर्थस्य विवक्षितत्वान्न सामानाधिकरण्यानुपपत्तिरिति भावः
॥ ४६ ॥
स्वराः सप्त विहारेण भवन्ति स्म प्रजापतेः ।
शब्दब्रह्मात्मनस्तात व्यक्ताव्यक्तात्मनः प्रभोः ॥ ४७ ॥
तात्पर्यम्
‘शब्दब्रह्मात्मको ब्रह्मा सर्वशब्दाभिधो यतः । ऋते नारायणादीनि नाम्नां स विषयो यतः । व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि च । तद्व्यापकत्वाद्ब्रह्मा तु व्यक्ता-व्यक्तात्मकः स्मृत’ इति च ॥ ४७ ॥
पदरत्नावली
निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त तन्त्रीकण्ठोत्थिताः स्वराः’ इति सप्तस्वराः प्रजापतेर् विहारेण शरीरसञ्जणविशेषेण भवन्ति स्म अभवन्नित्यन्वयः । स्वराणां शब्दविशेषत्वात् तत्सामग्रीमतस्तदुत्पादनसामर्थ्यं स्यात्, तदस्य कथमिति तत्राह– शब्देति ॥ ‘शब्द-ब्रह्मात्मको ब्रह्मा सर्वशब्दाभिधो यतः । ऋते नारायणादीनि नाम्नां स विषयो यतः’ इति वचना-न्नारायणादि नामव्यतिरेकेण सर्ववेदादिशब्दराशेर्विषयत्वात् तदुत्पादनसामर्थ्यमस्तीत्यर्थः । नित्य-वर्णात्मकवेदानां नित्यत्वेन व्याप्तत्वात् परिच्छिन्नस्य ब्रह्मणस्तद्विषयत्वं कथम् ? अत्राह– व्यक्तेति ॥ ‘व्यक्तं ब्रह्माण्डमुद्दिष्टमव्यक्तं महदादि च । तद्व्यापकत्वाद् ब्रह्मा तु व्यक्ताव्यक्तात्मकः स्मृतः ॥’इत्यतो व्याप्तिमत्वात् तद्विषयत्वं युक्तम् । उक्तादन्यत्रापि व्याप्तिशक्तिमत्वात् प्रभोरित्युक्तम् ॥ ४७ ॥
प्रकाशिका
सप्तस्वरा निषादर्षभगांधारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्ततन्त्री-कण्ठोत्थिताः स्वराः, इत्यादिनोक्ताः । प्रजापतेर्विहारेण शरीरसंचरणविशेषेण भवन्ति स्म अभवन्नित्यर्थः। एवंविधस्य सृष्टिकर्तृत्वं ब्रह्मणो नासम्भावितं तस्य भगवन्मात्रवाचकशब्दातिरिक्तसर्वशब्दवाच्यत्वात् । अव्यक्तादिसर्वतत्त्वव्याप्तत्वाच्चेत्याशयेनाह । शब्दब्रह्मेति । अत्र शब्दविस्तराभेदोऽव्यक्तादिसर्वजगदभेदश्च ब्रह्मणः प्रतीयते तदुभयं बाधितमतोऽत्र विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ शब्दब्रह्मात्मक इति । इत्युच्यत इति शेषः । सर्वशब्दाभिधेयत्वतः । तुशब्दो रुद्राद्यपेक्षया विशेषव्याप्तिसूचकः । तथा च शब्द-ब्रह्म नारायणादिनामव्यतिरिक्तं वैदिकशब्दविस्तरं विषयतया आप्नोतीति शब्दब्रह्मात्मा । तस्य । व्यक्तं ब्रह्माण्डमव्यक्तं महदादिकं च व्याप्नोतीति व्यक्ताव्यक्तात्मा तस्य । अत एव प्रभोरिति मूलं व्याख्येय-मिति भावः ॥ ४७ ॥
ब्रह्मानुभावविततो नानाशक्त्युपबृंहितः ।
ततोऽपरामुपादाय स सर्गाय मनो दधे ॥ ४८ ॥
पदरत्नावली
देहात् तदवयवेभ्यो ब्रह्मणः सृष्टिमुक्त्वाऽधुना प्रकारान्तरेण तस्मात् सृष्टिं वक्ति– ब्रह्मेति ॥ ब्रह्मा ततः पूर्वस्मादपरां स्त्रीपुरुषीकरणशक्तिमुपादाय सर्गाय मनो दध इत्यन्वयः । परतन्त्रस्य ब्रह्मणः स्वाधीनसृष्टिः कथम् ? अत उक्तम्– अनुभावेति ॥ अनुभावेन परब्रह्मणा विततस् तस्यानुग्रहामृतेन पूर्ण इत्यर्थः । ब्रह्मानुभाववितत इत्येकं वा पदम् । परब्रह्मणः प्रभावेण विततः हरेरनुकूलेन भावेन सत्तया विततोऽधिकृतो विशेषसन्निधानवानिति वा । अत एव नानाशक्त्युपबृंहितः नानाविधसृष्टिसामर्थ्येन पूर्णः ॥ ४८ ॥
प्रकाशिका
एवं ब्रह्मा स्वदेहात्तदवयवेभ्यश्च सृष्टिं चकारेत्युक्तम् । इदानीं प्रकारान्तरेण सृष्टिं कर्तुं मनश्चकारेत्याह ॥ ब्रह्मेति । स ब्रह्मा ततः पूर्वोक्तादपरां स्त्रीपुरुषसर्जनशक्तिमुपादाय कार्यो-न्मुखीकृत्य सर्गाय नानाविधजगत्सृष्टये मनो बुद्धिं दधे चकार । किं स्वातन्त्र्येण नेत्याह ॥ ब्रह्मेति । ब्रह्मणः परब्रह्मणोऽनुभाव आनुकूल्येन चिन्तनमनुग्रहो वा तेन विततः पूर्णोऽत एव नानाशक्त्युपबृंहितो नानाविधसृष्टिसामर्थ्यपूर्णः ॥ ४८ ॥
ऋषीणां भूरिवीर्याणामपि सर्गमविस्तृतम् ।
ज्ञात्वा तद् हृदये भूयश्चिन्तयामास कौरव ॥ ४९ ॥
अहो अद्भुतमेतन्मे व्यापृतस्यापि नित्यदा ।
न ह्येधन्ते प्रजा नूनं दैवमत्र विघातकम् ॥ ५० ॥
एवं युक्तिमतस्तस्य दैवं चावेक्षतस्तदा ।
कस्य रूपमभूद् द्वेधा यत् कायमभिचक्षते ॥ ५१ ॥
तात्पर्यम्
‘ऋषीणां भूरिवीर्याणामिति सिंहावलोकनम् । यत्र पश्चात्तनः श्रेष्ठस्तत्र सिंहाव-लोकनमि’ति ब्रह्मतर्के ॥ केन प्राप्तत्वात्कायः ॥ ४९,५१ ॥ इति तृतीयतात्पर्ये त्रयोदशोऽध्यायः ॥
पदरत्नावली
तत्र सिंहावलोकनप्रकारेणापरां सृष्टिं चिन्तयतीत्याह– ऋषीणामिति ॥ यत्र पश्चत्तनः श्रेष्ठस्तत्र सिंहावलोकनम्’ इति वचनात् पश्चादुत्पत्स्यमानस्य मनोः श्रैष्ठ्यादत्र सिंहावलोकनं कृतमित्यर्थः । मरीच्यादिऋषीणां सकाशादपि । तत् तस्मादविस्तृतत्वादेव । अनेन महताऽपि पुरुषेण करिष्यमाणं कार्यमालोच्य कर्तव्यं, न सहसेति निदर्शितम् ॥ चिन्तनविधां दर्शयति– अहो इति ॥ सृष्टौ व्यापृतस्य । कुतः ? तत्राह– न हीति ॥ चिन्तया निश्चितमाह– दैवमिति ॥ दैवानुग्रहोऽस्ति चेत् सृष्टिः पूर्वत इति निरचिनोदित्यर्थः ॥ फलितमाह– एवमिति ॥ युक्तिमतः ध्यानवतः दैवानुग्रह-मप्यपेक्षमाणस्य कस्य ब्रह्मणो रूपं द्विधाऽभूत्, यद् रूपं केन ब्रह्मणा प्राप्तत्वात् कायं नाम अभि-चक्षते, निरुक्तज्ञा इति शेषः ॥ ४९-५१ ॥
प्रकाशिका
अपरशक्त्युपादानेन सर्गं वक्तुं तावत्तच्चिन्ताप्रकारमाह ॥ ऋषीणामिति ॥ ननु मरीच्यादिसृष्ट्यनन्तरमेवेयं चिन्ता वक्तव्या प्रस्तुतत्वात् । अतः कथं कदाचिध्द्यायतस्तस्येत्यादिनाऽन्य-दुक्त्वेदानीं तत्कथनमप्रस्तुतत्वादित्यत आह ॥ ऋषीणामिति । सत्यम् । तत्रैवेयं चिन्ता वक्तव्येति । तथाऽपि कदाचिद् ध्यायत इत्यारभ्य स्वराः सप्त विहारेणेत्यन्तेनान्यदुक्त्वा सिंहावलोकनवत्पूर्वोक्ता-मृष्यादिसृष्टिमवलोक्य ब्रह्मचिन्ताऽत्रोच्यतेऽतो नाप्रस्तुतत्वविरोध इत्यर्थः ।
ननु कुत एवं सिंहावलोकनन्यायेन व्यवहितचिन्तोक्तिरित्यतोऽत्रोपपत्तिं प्रमाणेनैवाह ॥ यत्रेति । यत्र यस्मिन्प्रकृतेऽर्थे निरूपणीये तदपेक्षया पश्चात्तनः पश्चान्निरूप्यमाणोऽर्थः श्रेष्ठः श्रोतृबुभुत्सानु-सरणादिना मध्ये निरूपणीयतां प्राप्तस्तत्र तस्मिन्प्रकृतेऽर्थे पुनर्विस्तरतो निरूप्यमाणे सिंहावलोकनं सिंहावलोकनन्यायानुसरणमावश्यकम् । अन्यथाऽप्रस्तुतोक्तित्वप्रसङ्गादित्यर्थः ॥ ततश्चायं मूलार्थः ॥ ऋषीणां मरीच्यादीनां सकाशात् । सृष्टौ व्यापृतस्य । युक्तिमतो मनोयोगवतः । ध्यायत इति यावत् । दैवं दैवानुग्रहं, कस्य ब्रह्मणो रूपं देहः स्त्रीपुरुषरूपेण द्वेधाऽभूत् । ब्रह्मदेहः सरस्वतीब्रह्मदेहद्वयात्मना परिणत इत्यर्थः । यद्रूपद्वयं कायं कायशब्दवाच्यमभिचक्षते निरुक्तिज्ञाः । अत्र रूपद्वये कायशब्दवृत्तौ किं निमित्तमित्यतस्तं शब्दं तत्र निर्वक्ति ॥ केनेति ॥ केन ब्रह्मणा प्राप्तत्वाज्जातत्वात्काय इत्युच्यते देहसमुदाय इत्यर्थः ॥ ४९-५१ ॥
ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ।
यस्तु तत्र पुमान् सोऽभून्मनुः स्वायम्भुवः स्वराट् ॥ ५२ ॥
पदरत्नावली
तद् रूपद्वयं किमभूदिति तत्राह– ताभ्यामिति ॥ तयोर्नामविशेषमाह– यस्त्विति ॥ स्वराट् चक्रवर्ती ॥ ५२ ॥
प्रकाशिका
ताभ्यां ब्रह्मसरस्वतीदेहाभ्याम् । स्वराट् चक्रवर्ती ॥ ५२ ॥
स्त्रीर्याऽऽसीच्छतरूपाख्या महिष्यस्य महात्मनः ।
तदा मैथुनधर्मेण प्रजा एधाम्बभूविरे ॥ ५३ ॥
पदरत्नावली
अस्य मनोरयं योगो विभूतिकर इत्याह– तदेति ॥ तदा तन्मिथुनसृष्टिकालमारभ्य
॥ ५३ ॥
प्रकाशिका
या स्त्री सा । अस्य स्वायम्भुवमनोर्महिषी भार्याऽऽसीत् । एधाम्बभूविरे वृद्धिं प्राप्ताः ॥ ५३ ॥
स चापि शतरूपायां पञ्चापत्यान्यजीजनत् ।
प्रियव्रतोत्तानपादौ तिस्रः कन्याश्च भारत ॥ ५४ ॥
पदरत्नावली
अनेन मनुना कान्यपत्यान्युत्पादितानीति तत्राह– स चेति ॥ तन्नामान्याह– प्रियवतेत्यादिना । यतः कन्यात्रयात् ॥ ५४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे त्रयोदशोऽध्यायः ॥
प्रकाशिका
तदेवाह ॥ स चापीति ॥ ५४ ॥
आकूतिर्देवहूतिश्च प्रसूतिरिति सत्तम ।
आकूतिं रुचये प्रादात् कर्दमाय तु मध्यमाम् ।
दक्षायादात् प्रसूतिं च यत आपूरितं जगत् ॥ ५५ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे त्रयोदशोऽध्यायः ।
प्रकाशिका
यतः कन्यात्रयात् ॥ ५५ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां त्रयोदशोऽध्यायः ॥ ३-१३ ॥