१२ द्वादशोऽध्यायः

चरमस्तु विशेषाणामनेकांशायुतस्तु यः

अथ द्वादशोऽध्यायः

मैत्रेय उवाच–

चरमस्तु विशेषाणामनेकांशायुतस्तु यः ।

परमाणुः स विज्ञेयो नृणामैक्यभ्रमो यतः ॥ १ ॥

तात्पर्यम्

कालपरिमाणं दर्शयितुं द्रव्यपरिमाणं दृष्टान्तत्वेन दर्शयति । ‘मनुष्या देव-लोकेऽपि विशेषेणैव दर्शने । अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः । चरमो विशेष इति तं मुनयो बूयुरञ्जसा । परमाणुः स विज्ञेयः कणादाद्या निरंशिनम् । अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रान्तिदर्शनात् । ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि । अनन्तत्वाद्विवेकार्थमस्योक्ता परमाणुते’ति तत्त्वविवेके । अनेकांशैरासमन्ताद्युतः ॥ १ ॥

पदरत्नावली

हरेरुभयानन्त्यज्ञानं मोक्षैकफलमित्ययमर्थोऽस्मिन्नध्याये निरूप्यते । तत्र कालाख्यं लक्षणं ब्रह्मन्निति विदुरप्रश्नं परिहरिष्यन् परमाणुकालज्ञानाय द्रव्यपरमाणुपरिमाणमाह– चरम इति ॥ तुशब्द एवार्थे । एकश्चार्थे । यो विशेषाणां पार्थिवादिपदार्थानां चरमोऽन्त्यो विशेषः । तर्हि निरवयवः किम् ? नेत्याह– अनेकेति ॥ यश्चानेकैरवयवैर् आ समन्तात् सम्यक् युतः । अनेकावयवत्वे चरम इति विशिष्योक्तिः कथमित्यतस्तुशब्देन विशिनष्टि । देवलोके स्थिता मनुष्या विशेषेण सौक्ष्म्येण दर्शने यस्यांशांशित्वविशेषं द्रष्टुं न शक्ताः स एव चरमो विशेष इत्याचक्षते प्रेक्षावन्तः । नृणां कणादादीनां यतो यस्मादैक्यभ्रमः यतः परमाणुर्नास्ति स पदार्थः परमाणुरिति भ्रान्तिः । तेषां भ्रान्तिज्ञानं युक्तमिति दर्शयितुं नृणामित्युक्तम् । नाम्ना परमाणुर्विज्ञेय इत्यर्थः । ‘मनुष्या देवलोकेऽपि विशेषेणैव दर्शने । अंशांशित्वविशेषं तु यस्य द्रष्टुं न शक्नुयुः । चरमो विशेष इति तं मुनयो ब्रूयुरञ्जसा । परमाणुः स विज्ञेयः काणादाद्या निरंशिनम् । अनन्तांशयुतत्वेऽपि यं ब्रूयुर्भ्रुन्तिदर्शनात् । ततोऽपि परमाणुत्वं तदंशानां तु यद्यपि । अनन्तत्वाद् विवेकार्थमस्योक्ता परमाणुता ॥’ इति वचनादस्यैव परमाणुत्वं नान्यस्येति ज्ञायते । अत एव विज्ञेय इति ॥ १ ॥

प्रकाशिका

चरमस्तु विशेषाणामित्यस्य प्रकृतेन सङ्गत्यप्रतीतेस्तामाह ॥ कालपरिमाणमिति । प्राक्प्रतिज्ञातमन्वन्तरादिकालनिरूपणार्थं परमाण्वादिकालपरिमाणं दर्शयितुं दर्शयतीत्यनन्तरं चरम इत्यादि श्लोकद्वयेनेति शेषः । तत्र कालपरिमाणं दर्शयितुं, दृष्टान्तत्वेन द्रव्यपरिमाणं लक्षयति ॥ चरम इति । प्रथमश्लोकेनेत्यपि ग्राह्यम् । अत्र विशेषाणां पार्थिवादिकार्याणां चरमोऽन्त्यो विशेषोऽन्त्यावय-विभूतो घटादिर्यः स परमाणुरित्याद्यन्यथाप्रतीतिवारणाय श्लोकतात्पर्यं प्रमाणेनैवाह ॥ मनुष्या इति । यज्ञादिकं कृत्वा देवलोकादिकं गता इत्यर्थः ॥ देवलोकेऽपीति । विशेषेण दर्शनसंपादकेऽपीत्यर्थः । विशेषेणैव वस्तुगताशेषविशेषेणैव दर्शने शक्ता अपीति शेषः । यस्य पदार्थस्यांशांशित्वविशेषमेतैरंशैरय-मंशीति विशेषम् । तुशब्दस्तत्र तस्य विद्यमानत्वसूचकः । विद्यमानमपि द्रष्टुं न शक्नुयुरित्यर्थः । परमाणुः स विज्ञेय इत्यनेनोत्तरार्धाद्यपादस्यात्राप्यन्वय इति सूचयति । द्रव्यपरमाणुलक्षणान्तरकथनाय नृणामैक्येति मूलम् । तत्तात्पर्यमाह ॥ कणादाद्या इति । आद्यशब्देन गौतमाद्या ग्राह्याः । अनेकांशायुत इत्यस्य तात्पर्यम् ॥ अनन्तांशयुतत्वेऽपीति । यं निरंशिनं ब्रूयुरित्यन्वयः । निर्गता अंशा यस्मात्स निरंशः, स एव निरंशी । स्वार्थे इन् । भ्रान्तिदर्शनाद्भ्रान्तिरूपज्ञानात् । परमाणुः स विज्ञेय इति सम्बन्धः । तदंशानां परमाणुत्वेनाभिमतपदार्थांशानाम् अनन्तत्त्वात्ततोऽपि परमाणुत्वं परमाणुशब्दवाच्यत्वं यद्यप्यस्ति तथाऽप्यस्योक्तरूपस्य परमाणुता परमाणुत्वेन लक्ष्यताऽत्र मूले उक्ता । किमर्थं विवेकार्थम् । परमाण्वादिरूपकालपरिमाणज्ञापनार्थमित्यर्थः । अनेकैरंशैर् युत इति व्याख्याने कथमनन्तांशयुतत्वरूपं प्रमाणोक्तं तात्पर्यमस्य लक्ष्यत इत्याशङ्कायामनेकांशायुत इत्यस्योक्ततात्पर्यानुकूलं व्याख्यानं दर्शयति ॥ अनेकांशैरिति । आ इत्यनुवादेन समन्तादिति व्याख्यानम् ॥ ततश्चायं श्लोकार्थः ॥ विशेषाणां पार्थिवादिकार्याणां यश्चरमो विशेषस्तस्य चरमत्वं प्रमाणोक्तरीत्या देवलोकस्थमानुषाणां विशेषाकारेण प्रत्यक्षत्वप्रयोजकमहत्वाभावरूपं वैवक्षिकमिति दर्शयितुं तुशब्दः । तर्हि स किं निरवयवो, नेत्याह ॥ अनेकेति । द्वितीयस्तुशब्दोऽप्यर्थः । आ समन्तादनेकैरंशैर् युतोऽपीत्यर्थः । विज्ञेयो विवेकार्थमत्र परमाणुतया विवक्षित इत्यर्थः । लक्षणान्तरमाह ॥ नृणामिति । कणादादीनामपीत्यर्थः । यतो यस्मिन् ऐक्यभ्रमो निरंशत्वभ्रमो भवति स परमाणुरित्यन्वयः । तादृशश्च जालसूर्यरश्मिषु दृश्यमानत्र्यणुक-षष्ठभागरूप इति ज्ञातव्यम् ॥ १ ॥

सत एव पदार्थस्य स्वरूपावस्थितस्य यत् ।

कैवल्यं परममहानविशेषो निरन्तरः ॥ २ ॥

तात्पर्यम्

कालतो देशतो गुणतश्च परममहत्त्वं सतः परब्रह्मण एव । सच्छब्दोऽन्यत्राप्युप-चारतो भवतीत्यतः पदार्थस्येति । सत्पदस्य यो मुख्याभिधेयस्तस्य । ‘मुख्याभिधेयस्त्वर्थः स्याद्वाच्यमन्यच्च भण्यते । अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेदि’ति ब्रह्मतर्के । ‘‘यद्वेव समः प्लुषिणे’’त्यादिनाऽन्यत्र स्थितस्य तत्परिमाणत्वमप्यस्तीत्यतः स्वरूपावस्थितस्येति । जगदावरकस्य स्वरूपस्य ततः किञ्चिन्महत्वमित्यतः कैवल्यमिति । तत्रापि बहुविधानि रूपाणि तस्य सन्तीत्यविशेष इति । सर्वगते प्रादेशमात्रमपि विद्यत इत्यतो निरन्तर इति । परब्रह्मणो यः केवलभावः । अण्डाद्यन्तःप्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशं च विना यत्सर्वगतं रूपं तदेव परममहान् । ‘कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटि-विहीनत्वं देशानन्त्यं तथैव च । गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् । तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् । तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते । परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्या-द्व्यवहारार्थमेव च । गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतोऽप्यस्ति सर्व-रूपेषु यद्यपि । न च भेदः क्वचित्तेषामणुमात्रोऽपि विद्यते । तथापि विद्यतेऽणुत्वं यस्मा-दैश्वर्ययोगतः । तस्माद्बुध्द्यवतारार्थमव्याप्तत्वं च भण्यते । यत्तस्य व्यापकं रूपं परं नारायणाभिधम् । शून्यं ब्रह्मेति तत्प्राहुर्द्वितीयं स्रष्टृ यत्ततः । परमः पुरुषो नाम मितं तद्देशतो विभोः । तृतीयं वासुदेवाख्यं जगदावरकं मितम् । देशतो जगदाविष्टं तुरीयं विष्णुनामकमि’ति ब्रह्मतर्के ॥ सर्वगतस्यापि ब्रह्मरूपस्य कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्तिकान्तर्भावा त्तदन्यस्मिन्ननवस्थानाच्च स्वरूपावस्थितस्येत्युक्तम् । ‘देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम् । उच्यतेऽनन्यगं यस्मादात्मवत्सा हरेर्विभोः । महदादिगतं यत्तु तदन्यगतमुच्यत’ इति ब्राह्मे ॥ २ ॥

पदरत्नावली

अणुपरिमाणं निरूप्य महत्परिमाणं दर्शयति– सत इति ॥ सतः परब्रह्मण एव यत् कैवल्यं यः केवलभावः स परममहानित्यन्वयः । कालतो देशतो गुणतश्चानन्तत्वं सतः परब्रह्मण एव मुख्यमित्यर्थः । सन् घट इत्यादौ सच्छब्दवृत्तिदर्शनादित्यतः– पदार्थस्येति ॥ सदित्यनुवर्तते सत्पदमुख्याभिधेयस्य । ‘मुख्याभिधेयस्त्वर्थः स्याद् वाच्यमन्यच्च भण्यते । अमुख्येष्वर्थशब्दस्तु नीचोपरि हितो भवेत् ॥’ इति वचनात् । मुख्यस्योपपत्तावमुख्यस्वीकारायोगात् । अणुतरवस्तुनि स्थितस्य सत्पदमुख्याभिधेयस्य तत्परिमाणत्वेन भाव्यं, समः प्लुषिणेत्यादौ दर्शनादित्यतः स्वरूपावस्थितस्येति ॥ स्वरूपमेवावष्टभ्य स्थितस्य । स्वे महिम्नीति श्रुतेः । जगदावरकस्य वासुदेवाख्यस्य हरेर्जगत्प्रविष्टरूपात् किञ्चिन्महत्त्वात् स्वरूपावस्थितत्वाच्च तद्व्यावृत्तिः कथमित्यतः– कैवल्यमिति ॥ जगदावरणादि-व्यापारोदासीनतया स्थितम् । तादृशरूपाणामनेकत्वात् कथं निर्णय इत्यतः– विशेष इति ॥ तादृग्रूपविशेषरहितः । सर्वगतस्यापि प्रादेशमात्रतया स्थितत्वेन विशेषवत्त्वात् कथमविशेष इत्यतो निरन्तर इति ॥ प्रादेशमात्रादिविशेषरहितः । एतदुक्तं भवति । परब्रह्मणः यः केवलभावोऽण्डान्तः-प्रविष्टं तदावरकं तस्यैव परमपुरुषादिरूपान्तरं तदेकदेशप्रादेशमात्रादिविशेषं च विना यत् सर्वगतं स्वरूपं तदेव परममहानित्युच्यते । ‘कालकोटिविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशानन्त्यं तथैव च । गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् । तस्य सर्वस्वरूपेष्वप्यानन्त्यं तु त्रिलक्षणम् । तथापि देशतस्तस्य परिच्छेदोऽपि विद्यते । परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्याद् व्यवहारार्थमेव च । गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतोऽप्यस्ति सर्वरूपेषु यद्यपि । न च भेदः क्वचित् तेषामणुमात्रोऽपि विद्यते । तथापि विद्यतेऽणुत्वं यस्मादैश्वर्ययोगतः । तस्माद् बुद्ध्यवतारार्थमव्याप्तत्वं च भण्यते । यत् तस्य व्यापकं रूपं परं नारायणाभिधम् । शून्यं ब्रह्मेति यत् प्राहुर्द्वितीयं स्रष्टृ यत् ततः । परमः पुरुषो नाम मितं तद्देशतो विभोः । तृतीयं वासुदेवाख्यं जगदावरकं मितम् । देशतो जगदाविष्टं तुरीयं विष्णुनामकम् ॥’ इति वचनेन मन्दमतीनां शङ्कोपद्रवाः परिहृता इति ज्ञातव्यम् । किञ्च सर्वगतस्यापि कालादिरूपया प्रकृत्या समव्याप्तावपि दार्ष्टान्तिकेऽन्तर्भावात् तदन्यस्मिन्ननवस्थानात् स्वरूपावस्थितस्येत्युक्तम् । ‘देव्यां कालादिरूपिण्यां स्थितं ब्रह्मापि सर्वगम् । उच्यते नान्यगं यस्मादात्मवत् सा हरेर्विभोः । महादादिगतं यत् तु तदन्यगतमुच्यते ॥’ इति च ॥ २ ॥

प्रकाशिका

परममहाकालपरिमाणं दर्शयितुं दृष्टान्ततया परममहापरिमाणं द्रव्यं दर्शयति ॥ सत एवेति श्लोकेन । तत्र सतः सच्छब्दप्रतिपाद्यस्यैव यत्स्वरूपं स परममहानिति व्याख्यानेऽव-धारणानुपपत्तिः । कालादेरपि परममहत्त्वस्य वक्ष्यमाणत्वात् । सच्छब्दस्येतरसाधारण्याच्च । अतोऽत्र विवक्षितं परममहत्त्वं दर्शयंस्तदाश्रयं सच्छब्दवाच्यं दर्शयति ॥ कालत इति । तथा च त्रिविधपरम-महत्त्वस्यान्यत्र कुत्राप्यभावादवधारणमुपपद्यत इति भावः । सत इत्यनुवादेन परब्रह्मण इति व्याख्यानम् । पदार्थस्येत्यादिविशेषणपञ्चकस्य क्रमेण प्रयोजनान्याह ॥ सच्छब्द इत्यादिना । निर्दुष्ट-वाचकः सच्छब्दोऽन्यत्र विष्णुव्यतिरिक्ते भवति प्रयुज्यते । तत्र च त्रिविधं परममहत्त्वं न सम्भवतीति भावः । नन्वमुख्यार्थस्यापि प्रतिपाद्यत्वेनार्थत्वात्कथमनेन परिहार इत्यत आह ॥ सत्पदस्येति । अर्थ-शब्देन कथमयमर्थो लभ्यत इत्यतोऽत्राभिधानमाह ॥ मुख्याभिधेय इति । चशब्दोऽवधारणे । अन्यद्वाच्यमित्येव भण्यते न त्वर्थ इतीत्यर्थः । नन्वमुख्येष्वप्यर्थशब्दप्रयोगो दृश्यत इत्यत आह ॥ अमुख्येष्विति । नीचोपरीति लुप्तोपमा । यथा नीचोपरि हितः प्रणिहितः स्थापितस्तदयोग्योऽ-लङ्कारस्तथेत्यर्थः । अन्यत्र ब्रह्माण्डादौ स्थितस्य तत्परिमाणत्वं ब्रह्माण्डादिपरिमाणत्वं परममहत्त्वमपि तत्रास्तीति सूचनायापिशब्दः । तस्य तत्र लोकैर्दृश्यमानत्वाभावाद् ब्रह्माण्डादिसमपरिमाणस्यैव दृश्य-मानत्वाद्व्यावर्त्यत्वमिति ज्ञातव्यम् । एवमेवाग्रेऽपि वक्ष्यमाणानां जगदावरकादिरूपाणां परिच्छिन्न-परिमाणवत्तयैव दृश्यमानत्वाद्व्यावर्त्यत्वं ज्ञातव्यम् । नन्वत्र ब्रह्माण्डादौ स्थितस्य तत्परिमाणत्वं कुतो, येन व्यावर्त्यता स्यादित्यत उक्तम् ॥ यद्वेव सम इति । आदिपदेन समो मशकेनेत्यादेर्ग्रहणम् । अस्तीत्यवगम्यत इति शेषः । स्वरूपावस्थितस्येत्यस्यान्यत्रानाश्रितस्येत्यर्थः । तेनोक्तरूपव्यावृत्तिरिति ध्येयम् । जगदावरकस्येत्यनेन जगद्बाह्यत्वोक्त्याऽन्यत्रानाश्रितत्वं दर्शयति । ततो जगदन्तर्गतात्कैवल्यम् । स्वार्थे ष्यञ् प्रत्ययः । लिङ्गव्यत्ययेन केवल इत्यर्थः । जगदनावरक इति यावत् । तत्रापि जगदावरक-रूपाद्बहिरपि बहुविधानि रूपाणि परिच्छिन्नपरिमाणतयैव । दृश्यमानानीति शेषः । अविशेषशब्दस्य तादृशरूपविशेषा अपि नेत्यर्थः । प्रादेशमात्रं प्रादेशादिपरिमितैकदेशः । निरन्तरशब्देन कथं तदप्राप्ति-रित्यतस्तस्य तात्पर्यमाह ॥ परब्रह्मण इति । य इत्यनेन यदित्येतल्लिङ्गव्यत्ययेनात्र सम्बध्यत इति सूचयति । केवलोऽखण्डो भवतीति भावः, रूपविशेषः । अनेन प्रथमान्तानां विशेष्यमुक्तमिति ज्ञातव्यम् । व्याप्ततयैव दृश्यमानो रूपविशेष इति यावत् । निरन्तरशब्देनात्र विवक्षित इति शेषः ।

नन्वेवं सतः परब्रह्मणो यो निरन्तरः केवलो भावः स एव परममहानित्येवास्तु किं पूर्वविशेषणैरिति चेत् । सत्यम् । न तानि लक्षणशरीरानुप्रविष्टानि किन्तु क्रमेणात्र रूपविशेषे बुद्ध्यवतारायैवोक्तानि । अतो न कोऽपि दोषः । वक्ष्यति चैतत् । तस्माद्बुद्ध्यवतारार्थमिति । उक्तमर्थं बुद्ध्यारोहाय पिण्डी-कृत्याह ॥ अण्डाद्यन्तरिति । समः प्लुषिणेत्यादिश्रुत्युक्तम् । तदावरकमण्डावरकं तस्यैव परब्रह्मण एव । परमपुरुषेति वचनं वक्ष्यमाणप्रमाणे परमपुरुषस्य ग्रहणात् । यत्सर्वगतं रूपं योगिभिः सर्वगतत्वेनैव दृश्यमानं शून्यनामकं रूपं तदेव परममहान् । परममहत्परिमाणवत्तयाऽत्र विवक्षितमित्यर्थः । कालतो देशतो गुणतश्च परममहत्त्वं ब्रह्मण एवेत्युक्तं प्रपञ्चयितुं प्रमाणं पठति ॥ कालेति । कोटिशब्दोऽव-ध्यर्थः । कालानन्त्यं कालतः परममहत्त्वम् । एवमग्रेऽप्यानन्त्यशब्दार्थो वर्णनीयः । गुणानामप्रमेयत्वम् । सङ्ख्यापरिमाणाभ्यामिति शेषः । हरेरेवेत्येवकारसम्बन्धः । तदेव विवृणोति । नान्यस्येति ।

ननु ब्रह्मणः सर्वरूपेष्वपि त्रिविधानन्त्यस्य श्रुत्यादिसिद्धत्वात्कथमण्डाद्यन्तस्थादीनां रूपाणां व्यावर्त्यत्वोक्तिरित्याशङ्क्याह ॥ तस्येति । अपिरभिव्याप्तौ । तुशब्दो यद्यपीत्यर्थः । परिच्छेदोऽपि विद्यते । योगिभिः स्पष्टतया दृश्यमान इति शेषः । तथा चाण्डाद्यन्तस्थादिषु केचिद्रूपेषु महत्परिमाण-सत्वेऽपि तद्योगिभिः सर्वदा न दृश्यते । देशतः परिच्छेद एव दृश्यतेऽतस्तेषां दृश्यमानपरिमाणमपेक्ष्य व्यावर्त्यत्वमुपपद्यत इति भावः । ऐश्वर्यादेवेत्येवशब्दसम्बन्धः । कृष्ण आगतो गत इत्यादिव्यवहारार्थं च परिच्छेदो विद्यत इत्यन्वयः । विष्णुरूपाणां देशतः परिच्छेदवत्कालतो गुणतश्च परिच्छेदोऽपि विद्यते किं नेत्याह ॥ गुणत इति । नैवेति सम्बन्धः । कुत्रचित्केषुचिद्धरिरूपेषु । ‘‘तस्य सर्वस्वरूपेष्वि’’त्यादि-नोक्तमेव विशदयति ॥ व्याप्तत्वमिति ॥ यद्यपीति । तथा च न तेषु केषाञ्चिदुक्तविशेषण-व्यावर्त्यत्वमिति शङ्काशेषः । युक्त्यन्तरमाह ॥ न चेति । तेषां व्यावर्त्यतयोक्तरूपाणां भेदः परम-महत्परिमाणतयाऽत्रोच्यमानशून्यनामकरूपादिति शेषः । तथा च परममहत्परिमाणवत्तयाऽत्राभिमत-शून्यनामकब्रह्माभिन्नत्वादुक्तरूपाणां न व्यावर्त्यत्वमिति भावः ॥

तथाऽपीति । केषुचिद्रूपेष्वैश्वर्ययोगतोऽणुत्वं स्पष्टतया दृश्यमानं यस्माद्विद्यते तस्मात्तेषु । चशब्दोऽवधारणे । अव्याप्तत्वमेव भण्यते । श्रुत्यादाविति शेषः । बुद्ध्यवतारार्थं लक्ष्यतयाऽभिमते रूप इति शेषः । अत्र लक्ष्यतयाऽभिमतरूपस्य व्यावर्त्यतयोक्तरूपाणां च नामरूपे दर्शयति ॥ यत्त-स्येत्यादिना । यत्ततो जातं तद् द्वितीयम् । स्रष्टृशुद्धसृष्टेरिति शेषः । तस्य परमपुरुष इति नाम । विभोर्व्याप्तस्य तद्रूपं देशतो मितम् । मितत्वेन दृष्टमतो निर्विशेषपदव्यावर्त्यं वासुदेवाख्यं देशतो मितम् अतस्तत्कैवल्यपदव्यावर्त्यम् । जगदाविष्टं विष्णुनामकं तुरीयं चतुर्थं तत्स्वरूपावस्थितपदव्यावर्त्यम् । नन्वत्र ‘‘यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः । स तु नारायणनामा नराणामयनत्वतः । रूपं द्वितीयं भवति दीपाद्दीपान्तरं यथा । सिसृक्षोस्तस्य पुरुष इत्याहुस्तद्विदो जना’’ इति द्वितीयतात्पर्येण विरोधः । तत्र पुरुषनामकवासुदेवस्य द्वितीयतयोक्तत्वादिति चेत् । न । तत्रापि पुरुषशब्देन द्वितीयतया परमपुरुषस्य तृतीयतया वासुदेवस्य च ग्रहणात् ।

ननु परममहत्परिमाणे वस्तुनि निरूपणीये शून्यनामकं ब्रह्मैव कस्माद्वक्तव्यम् । ब्रह्मसमव्याप्तानां कालाकाशादीनां तदभिमानिन्या रमायाश्च सत्वात् समः प्लुषिणेति न्यायेन शून्यनामकब्रह्मणोऽपि कालादिरूपप्रकृतिगतत्वेनोक्तरूपस्वरूपावस्थितत्वासंभवाच्चेत्याशङ्क्य परिहरति ॥ सर्वगतस्यापीत्या-दिना । अपिशब्दद्वयं शङ्काद्वयानुवादसूचकम् । प्रकृत्यादिसर्वगतस्यापीत्यर्थः । अनेन द्वितीयशङ्काया अनुवादः । समव्याप्तावपीत्यन्तेनाद्यशङ्कायाः । कालादिरूपया कालाद्यभिमानिन्या । आद्यशङ्काया उत्तरमाह ॥ दार्ष्टान्तिकेति । अत्र हि कालादिपरिमाणं दर्शयितुं दृष्टान्ततया द्रव्यपरिमाणं निरूप्यते । कालशब्दस्य देशाद्युपलक्षकत्वात् । ततश्च यावत्कालादिकं तदभिमानिप्रकृत्यादिकं वा ब्रह्मसमं व्याप्तं तावदत्र परममहत्परिमाणवत्तया प्रदर्शनीयं तत्र च दृष्टान्ततयोक्तं रूपं ब्रह्मैव वक्तव्यम् । नान्यत् । तस्य सर्वस्य दार्ष्टान्तिकान्तर्भावात् । उपलक्षणया वक्ष्यमाणदाष्टान्तिककालशब्दार्थान्तर्गतत्वादित्यर्थः । द्वितीयशङ्काया उत्तरमाह ॥ तदन्यस्मिन्निति । दार्ष्टान्तिकतयाऽत्र विवक्षितं कालाद्यभिमानिप्रकृत्यादिकं तदिति परामृश्यते । तदन्यस्मिन्महदादावित्यर्थः । चशब्दोऽवधारणे । तथा च स्वरूपावस्थितस्येत्यनेन यद्दार्ष्टान्तिकतया विवक्षितं व्याप्तं कालादिकं तदतिरिक्ते परिच्छिन्नपरिमाणे महादादावेवानवस्थानं विवक्षितं न स्वस्वरूपातिरिक्ते सर्वत्रातो नासम्भव इति भावः । ननु स्वरूपावस्थितस्येत्यनेनानन्यगतत्व-मेवोच्यते न तूक्तरीत्या सङ्कोच इत्यतोऽत्र प्रमाणमाह ॥ देव्यामिति । अपि यद्यपि । तथाऽप्यनन्यगं स्वरूपावस्थितमुच्यते । आत्मवत्स्वरूपवदन्तरङ्गत्वादिति भावः । सा प्रकृतिस्तदभिमन्यमानं कालादिकं च । तर्हि स्वरूपावस्थितस्येत्यनेन किं व्यावर्त्यमित्यत उक्तम् ॥ महदादीति । तुशब्दोऽवधारणे । तदेवान्यगतमुच्यते । अतस्तदेव व्यावर्त्यमिति भावः ॥

ततश्चायं श्लोकार्थः ॥ सतो निर्दोषस्य । यद् य भावो रूपविशेषः स एव परममहानित्यन्वयः । ननु सच्छब्द उपचारेणान्यत्र मुक्तादावप्यस्ति । अतस्तेष्वपि परममहत्त्वप्राप्तिरित्यत उक्तम् ॥ पदार्थस्येति । सत्पदमुख्याभिधेयस्येत्यर्थः । तथा च परब्रह्मण इत्यर्थः । नन्वेवं परब्रह्मणो जगदाविष्टं यद्रूपं तत्रापि प्राप्तिः । तस्य परिच्छिन्नतया दृश्यमानत्वेनालक्ष्यत्वादत उक्तम् ॥ स्वरूपावस्थितस्येति । अन्यत्र महदादावनवस्थितस्येत्यर्थः । नन्वेवमपि जगदनावरकतया जगत्यनवस्थिते वासुदेवेऽपि प्रसङ्ग इत्यत उक्तम् ॥ कैवल्यमिति । व्यत्ययेन केवल इत्यर्थः । जगदनावरक इति यावत् । ननु तथाऽपि परब्रह्मणः परमपुरुषादिरूपेषु वासुदेवाद्बहिरपि विद्यमानतया जगदनावरकेषु प्राप्तिरित्यत उक्तम् ॥ अविशेष इति । दृश्यमानपरिच्छिन्नपरिमाणैतादृशरूपविशेषा अपि नेत्यर्थः । नन्वेवं लक्ष्यतयाऽभिमते रूपे हस्त-वितस्त्यादिपरिमितस्यैकदेशस्य प्राप्तिरत उक्तम् ॥ निरन्तर इति । तादृशैकदेशविशेषोऽपि नेत्यर्थः । व्याप्ततयैव दृश्यमान इति यावत् । तादृशो रूपविशेषः शून्यनामा नारायण एव स एव महान्दृश्यमान-त्रिविधानंत्यवानित्यर्थः । अत्र परब्रह्मणो योगिभिर्दृश्यमानपरममहत्परिमाणरूपं लक्ष्यम् । दृश्यमान-परिच्छिन्नपरिमाणानि रूपाण्यलक्ष्याणीति विवेकः ॥ २ ॥

एवं कालोऽप्यनुमितः सौक्ष्म्ये स्थौल्ये च सत्तम ।

संस्थानभुक्त्या भगवानव्यक्तोऽव्यक्तभुग् विभुः ॥ ३ ॥

स कालः परमाणुर्वै यो भुङ्क्ते परमाणुताम् ।

सतोऽविशेषभुग् यस्तु स कालः परमो महान् ॥ ४ ॥

तात्पर्यम्

अनुमितः शास्त्रलोकानुसारेण ज्ञातः । ‘अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजमि’ त्यभिधानम् ॥ ‘यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत् । महाप्राज्ञो देवजूकः स कालः परमाणुकः । सर्गाद्यैरनवच्छिन्नस्तदनन्तर इत्यपि । तथैव परमाण्वादिविशेषात्मापि नो भवेत् । पूर्वापरादिभेदो न स कालः परमो महानि’ति ब्रह्मतर्के ॥ स्वरूपावस्थितस्य कैवल्य-मविशेषो निरन्तर इत्येतानि विशेषणानि क्रमेण परममहतः कालस्याप्यत्रोक्तानि । ‘देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः । यथानन्त्यं न चान्यस्य प्रकृतेर्देशकालतः । तथाशब्दस्य कालस्य देशानन्त्यं न कालतः । कालशब्दात्मिका सैव तथापि तु हरेः सदा । नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि । ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरास्ततः । अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशय’ इति ब्रह्मवैवर्ते ॥ ‘अण्वादिकालसंस्थानभोक्तृत्वात्परमेश्वरः । अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयत’ इति च ॥ सतो ब्रह्मणो ऽविशेषं स्वरूपं यः कालः कालान्तर्यामी तदेव ब्रह्म भुंक्ते । तदपि ब्रह्म परममहान् । तस्यापि त्रिधा परिच्छेदा-भावात् । सर्वं सर्वत्र भोक्ताऽपि विशेषादेकभोक्त्तृवत् । स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुरि’ति ब्रह्मतर्के ॥ ३-४ ॥

पदरत्नावली

उक्तमर्थं दार्ष्टान्तिके करोति– एवमिति ॥ सौक्ष्म्ये परमाणुत्वे स्थौल्ये परममहत्वे वर्तमानः कालोऽप्येवमनुमितः । कला मुहूर्ता इत्यादिशास्त्रेण साक्षिप्रत्यक्षानुगृहीतव्याप्तिमल्लिङ्गज्ञानवता जनेनानुमितो ज्ञात इत्यन्वयः । ‘अनुमेति द्वयं प्राहुर्यथाज्ञानं च लिङ्गजम्’ इत्यभिधानादर्थद्वयं सेत्स्यति । ‘यावन्तं देवलोकस्थो मानुषस्त्ववधारयेत् । महाप्राज्ञो देवजूकः सकालः परमाणुकः ॥ सर्गाद्यैरनवच्छिन्नस्तदनन्तर ।’ इति शास्त्रवचनं चात्र प्रमाणम् । यज्ञादिकर्मणा प्रीतदेवताप्रसादेन प्राप्तैश्वर्यो मानवो देवजूक इति । न केवलमुभयविधः कालोऽनुमितः किन्तु तदन्तर्यामी तदाख्यो हरिरपि अनुमित इत्यभिप्रेत्याह– संस्थानभुक्त्येति ॥ विभुर्व्याप्तो भगवान् संस्थानभुक्त्या संस्थानयोः परमाणुत्वेन परममहत्त्वेन व्यवच्छिन्नयोः कालयोः स्थित्या तदन्तर्यामित्वेनाव्यक्तोऽदृश्यः परमाणुः परममहानित्यनुमित इत्यन्वयः । तत्र स्थित्वा किङ्करोतीत्यत उक्तम्– व्यक्तभुगिति ॥ व्यक्तं तत्काल-वृत्तिजगत् सृजति पाति संहरतीति व्यक्तभुगिति । यद्वा स्वसमानधर्मवत्त्वादव्यक्त प्रकृतिरूपं सृष्ट्यादौ प्रवर्तयतीति । अत्र विशेषस्तु ‘देशतः कालतश्चैव वस्तुतश्च त्रिधा हरेः । यथाऽनन्त्यं न चान्यस्य प्रकृतेर्देशकालतः । तथा शब्दस्य कालस्य देशानन्त्यं च कालतः । कालशब्दात्मिका सैव तथापि तु हरेः सदा । नास्याः सामर्थ्यलेशोऽपि ज्ञानानन्दगुणेष्वपि । ज्ञेयस्तदवरो वायुः शेषवीन्द्रहरस्ततः । अवरास्तत इन्द्राद्या गुणैः सर्वैर्न संशयः ॥’ इति वचनादवगन्तव्यः । किञ्च कालान्तर्यामिणः परमाण्वादिनामवाच्यत्वं तत्तद्विशेषभोक्तृत्वात् । तदुक्तम्– ‘अण्वादिकालसंस्थान-भोक्तृत्वात् परमेश्वरः । अण्वादिनामवाच्योऽसौ कालश्चेत्यभिधीयते ॥’ इति ॥

सामान्यत उक्तं विशिनष्टि– स काल इति ॥ यः कालः कालन्तर्यामी हरिश्च परमाणुत ‘चरमस्तु विशेषाणाम्’ इत्याद्युक्तलक्षणवत्तां भुङ्क्ते स कालः हरिश्च परमाणुर्वै परमाणुनाम्ना वाच्य इत्युक्तस्मृति-प्रसिद्धमित्यर्थः । सतो ब्रह्मणोऽविशेषं स्वरूपं स्वरूपावस्थितकैवल्याद्यविशेषं निरन्तरलक्षणं परममहद्रूपं यः कालः कालान्तर्यामी च भुङ्क्ते स कालः कालान्तर्यामिब्रह्मरूपं परममहानिति नाम्ना वाच्यम् । तस्य कालान्तर्यामिणोऽपि त्रिधा परिच्छेदाभावात् । तदुक्तम्– ‘सर्वं सर्वत्र भोक्तापि विशेषादेव भोक्तृवत् । स्थितो हरिरचिन्त्यात्मा निजैश्वर्यादजो विभुः’ इति । अनेन सत एव पदार्थस्येत्यादिना यानि विशेषणानि परममहतो ब्रह्मणः कथितानि तानि महत्कालान्तर्यामिणोऽपि सन्तीत्युक्तं भवति । तथाहि यः सच्छब्दस्य मुख्यार्थः परमाण्वादिकालान्तर्यामिस्वरूपव्यावृत्तस्तथा मन्वन्तरादिकालान्तर्यामिस्वरूपव्यावृत्तस्ततोऽपि स्थूलपरार्धपरादिकालान्तर्यामिस्वरूपव्यावृत्तो यश्चा-खण्डितत्वेऽपि तदेकदेशाद्यवतारभेदव्यावृत्तत्वेन परममहद्रूपभोक्ता स परममहानिति । यावता कालेन परमाणुपरममहतोरुत्पत्तिप्रलयौ स्यातां तौ कालौ परमाणुपरममहान्तावित्ययमर्थः प्रमाणशून्यत्वा-दुपेक्षणीयः ॥ ३,४ ॥

प्रकाशिका

एवं परमाणुपरममहती द्रव्ये दृष्टान्ततया लक्षयित्वेदानीं तदुभयलक्षणं दार्ष्टान्तिको-भयविधकाले दर्शयति ॥ एवमिति । अत्रानुमितशब्दस्य लिङ्गजज्ञानविषयमात्रपरत्वे दृष्टान्तयो-र्लिङ्गाकथनादुत्तरत्रापि तदकथनाद्योग्यताभाव इत्याशङ्कापरिहारायानुमितशब्दमनूद्य तस्यार्थमाह ॥ शास्त्रेति । अत्र लोकशब्देन लोकसिद्धदृष्टान्तगृहीतव्याप्तिमूलकानुमानमुच्यते । तथा चानुमितशब्दवाच्यं द्विविधम् । शास्त्रानुसारेण यथावज्ज्ञातं लिङ्गानुसारेण यथाज्ञातं चेति । अत्राभिधानमाह ॥ अनुमेतीति । द्वयं द्विविधम् । तुशब्दो यथाज्ञानस्य शास्त्रजत्वरूपविशेषसूचकः । लिङ्गजमित्यत्रापि यथाज्ञानमित्यनुवर्तनीयम् । तथा चानुमितमपि द्विविधमिति भावः । उक्तलक्षणवत्तयोभयविधकालज्ञापकं शास्त्रं तावद्दर्शयति ॥ यावन्तमिति । चरमस्तु विशेषाणामिति यद्द्रव्यपरमाणुलक्षणं देवलोकस्थमानुषै-रंशांशिविभागं विना दृश्यमानत्वरूपमुक्तं तदेवात्र परमाणुरूपे कालेऽनेनोच्यते । यावन्तमनन्तांशोपेतमपि त्र्यणुककालषष्ठभागपरिमितं कालम् । तु शब्दोंऽशांशित्वविभागं विनेत्यर्थकः । अवधारयेत्पश्येत् । देवजूको यज्ञादिना प्राप्तदेवप्रसादः । परमाणुकः परमाणुरूपतया ज्ञातव्यः । स्वरूपावस्थितस्येत्यादिना यत्परममहद्द्रव्यलक्षणमुक्तं तत्परममहति काले दर्शयति ॥ सर्गाद्यैरिति । सर्गस्थितिसंहारैरनवच्छिन्नो न युक्त इत्यर्थः । सर्गकालादिकालत्रिकभिन्न इति यावत् । तस्मात्कालत्रयादनन्तरः किञ्चिदधिक इति शब्देनाप्यनवच्छिन्नो युक्तो न । एतादृशशब्दप्रतिपाद्यकालोऽपि नात्र लक्ष्यतयाऽभिमत इत्यर्थः । अपितथाशब्दौ समुच्चये । नो भवेदेवेत्येवकारान्वयः । पूर्वापरादिभेदस्तद्रूप एकदेशोऽप्यत्र विवक्षितो नेत्यर्थः । स कालः प्रवाहतोऽपरिच्छिन्नः परमो महान्परममहच्छब्दवाच्यतया ज्ञेय इत्यर्थः ।

ननु मूले एवंशब्देन स्वरूपावस्थितेत्यस्य यत्कैवल्यमित्यादिनोक्तं यत्परममहद्द्रव्यलक्षणं तद्दार्ष्टान्तिके परममहतिकालेऽतिदिष्टमुदाहृततत्प्रमाणे त्वन्यथैव तल्लक्षणमुक्तमतो विरोध इत्यत आह ॥ स्वरूपा-वस्थितस्येति । अत्रापीत्यन्वयः । प्रमाणेऽप्यर्थत उक्तानीत्यर्थः । स्वरूपावस्थितेत्यस्य तात्पर्यम् ॥ सर्गाद्यैरनवच्छिन्न इति । तदनन्तर इत्यपीति कैवल्यमित्यस्यार्थः । अविशेषमित्यस्यार्थः ॥ परमाण्वा-दीति । निरन्तर इत्यस्य पूर्वापरादिभेदो नेत्यर्थ इति द्रष्टव्यम् । विमतः कालः परमाणुपदवाच्य-स्तल्लक्षणवत्त्वाद् द्रव्यपरमाणुवद् विवादास्पदः कालः परममहानिति व्यवहर्तव्यस्तल्लक्षणवत्त्वात् शून्यनामकब्रह्मवत् । इत्यनुमानेऽप्यत्र द्रष्टव्ये ।

नन्वत्र कालशब्दस्योपलक्षकतया प्रकृत्यादिकमपि दार्ष्टान्तिकान्तर्भूतमित्युक्तम् । तत्र कुत्रापि त्रिविधानन्त्यरूपं परममहत्त्वं नास्ति । कुतः । गुणत आनन्त्यस्यान्यत्र क्वाप्यभावात् । अतोऽत्र कालान्तर्यामी हरिरेव दार्ष्टान्तिकतया विवक्षित इति वक्तुमन्यत्र त्रिविधानन्त्याभावे तावत्प्रमाणमाह ॥ देशत इति । हरिरेवेति सम्बन्धः । चशब्दोऽवधारणे । तथाचाऽन्यस्य नैवेत्यर्थः । एतदेव विशदयति ॥ प्रकृतेरित्यादिना । देशकालतो देशकालाभ्याम् । आनन्त्यमिति वर्तते । कालतश्चानंत्यमिति सम्बन्धः । नन्वचेतनेषु प्रकृत्यादिषु गुणानन्त्यासम्भवेऽपि कालाद्यभिमानिन्यां चेतनप्रकृतौ तत्सम्भावित-मित्याशङ्कामपाकरोति ॥ कालशब्दात्मिकेति । शब्दो वर्णात्मकः । कालशब्दात्मिका तदुभयाभि-मानिनी । तुशब्दो यद्यपीत्यर्थे । सैव चेतनप्रकृतिरेव । हरेः सामर्थ्यलेशो हरिसामर्थ्यलेशसमानं सामर्थ्यमस्या नेत्यर्थः । ज्ञानानन्दादिगुणेष्वपि हरिसाम्यं नेत्यर्थः । नन्वथाऽपि न चान्यस्येत्युक्त-मयुक्तम् । सर्वोत्तमानां वाय्वादीनां तत्सम्भवादित्याशङ्कां कैमुत्येनापाकरोति ॥ ज्ञेय इत्यादिना । इन्द्राद्या अवरा इति वर्तते । तथा च गुणानन्त्यशून्यप्रकृत्यपक्षेयाऽपि तारतम्येनावरेषु वाय्वादिषु गुणानन्त्यम-सम्भावितमेवेति भावः । एवमन्यत्र । त्रिविधानंत्यरूपपरममहत्त्वस्य बाधितत्वात्तदुपपत्तये कालान्तर्यामिहरिरूपमेव दार्ष्टान्तिकतयाऽत्र विवक्षितमित्याशयेनैवं कालोऽप्यनुमित इति श्लोकद्वयतात्पर्यं प्रमाणेनैवाह ॥ अण्वादीति । आदिपदेनापरिच्छिन्नकालग्रहणम् । संस्थानं परमाण्वाद्यवस्था तद्भोक्तृत्वं तन्नियामकतया तादृशावस्थयैव तत्र स्थितत्वं तस्मादित्यर्थः । अण्वादिनामवाच्योऽसावित्यन्तेन द्वितीयश्लोकस्य तात्पर्यमुक्तम् । कालश्चेत्यनेनाद्यस्य । परमेश्वर इत्यनेन भगवानित्येतदुक्ततात्पर्यम् । परमात्मनि युगपदणुत्वमहत्वोपपादकमेतत् । स कालः परमो महानिति पदद्वयतात्पर्यमुक्तम् । अण्वादिनामवाच्योऽसाविति । कालश्चेत्यनेन कालशब्दतात्पर्यमुक्तम् ।

सतोऽविशेषभुगित्यादिकमप्रतीत्या व्याख्याति ॥ सतो ब्रह्मण इति ॥ शून्यनामकस्येत्यर्थः । अविशेषमखण्डस्वरूपमवस्थां भुंक्तेऽनुभवति । प्राप्नोतीति यावत् । दृष्टान्तदार्ष्टान्तिकयोर्भेदशङ्कानिरासा-योक्तम् । तदेव ब्रह्मेति । अनेन मूले तुशब्दार्थो दर्शित इति ज्ञातव्यम् ।

नन्वेवं दार्ष्टान्तिकस्य दृष्टान्ताभेदे पुनर्वचनं व्यर्थमित्याशङ्कां परिहरन् स कालः परमो महा-नित्यस्यार्थमाह ॥ तदपीति । अपरिच्छिन्नकालान्तर्गतमपीत्यर्थः । दृष्टान्तीकृतरूपसमुच्चयार्थोऽपिशब्दः । तथा च रूपविशेषापेक्षया पुनर्वचनमिति भावः । अत्र सतोऽविशेषभुगित्यनेन सूचितं हेतुं दर्शयति ॥ तस्यापीति । नन्वपरिच्छिन्नकालगतोऽपि हरिः सर्वज्ञत्वात्परमाण्ववस्थां भुङ्क्ते । एवं परमाणुकालगतोऽपि सतोऽविशेषभुक् । तथा च कथमिदमसङ्कीर्णतयोच्यत इत्याशङ्कां प्रमाणेनैव परिहरति ॥ सर्वं सर्वत्रेति । विशेषादेवासाधरण्यादेव भोक्तृवत्तत्तद्वस्तुभोक्तृवत्स्थितः । कुत इत्यत उक्तम् ॥ निजैश्वर्यादिति । अचिंत्यात्मेत्यादिविशेषणानि निजैश्वर्यस्याघटितघटकत्वमुपपादयितुम् ॥

ततश्चायं श्लोकद्वयार्थः ॥ न केवलं परमाणुपरममहती द्रव्ये एवोक्तविधेऽनुमिते शास्त्रादिना यथावत्ज्ञाते किन्तु कालोऽपि कालान्तर्यामी कालनामा हरिरपि सौक्ष्म्ये परमाणुत्वे विषये स्थौल्ये परममहत्त्वे च विषये एवमुक्तलक्षणवत्तयाऽनुमितः शास्त्रानुसारेण लिङ्गानुसारेण च यथावत्ज्ञातः । कथम्भूतः सौक्ष्म्ये कथंभूतश्च स्थौल्येऽनुमित इति विविच्याह ॥ संस्थानेति । भगवान्परमेश्वरः संस्थानम् । अण्वादिकालावस्था तद्भुक्तिस् तादृशावस्थयैव तन्नियामकतया तत्रावस्थितिः । तया अव्यक्तोऽस्मदाद्यप्रत्यक्षः परमाणुरूपद्रव्यसाम्यभुक् सौक्ष्म्ये विषयेऽनुमितः । व्यक्तभुक् व्यक्तं व्याप्ततयैव दृश्यमानं यच्छून्यनामकं रूपं तत्साम्यमनुभवतीति व्यक्तभुक् । अत एव विभुः कालान्तर्यामी हरिः स्थौल्येऽनुमितः ॥

एतदेव विशदयति ॥ स काल इति । कालः कालान्तर्यामी तन्नामा हरिः परमाणुः परमाणु-कालसंस्थानभागेन परमाणुः परमाणुशब्दवाच्यः । वै शास्त्रलिङ्गानुसारेण प्रसिद्धः । स कः । यः परमाणुतां पूर्वं दृष्टान्ततयोक्तः परमाणुद्रव्यसमानतां भुङ्क्ते प्राप्नोति स कालः कालान्तर्यामी परम-महाकालसंस्थानभोगेन परमो महान्परममहाकालशब्दवाच्यः सः को यः सतः शून्यनामकस्य ब्रह्मणोऽ-विशेषः । साम्यं तद्भुक् तद्वान् । तुशब्दोऽत्र दृष्टान्तदार्ष्टान्तिकयोर्भेदाभावरूपविशेषसूचकः ॥ ३-४ ॥

अणुर्द्वौ परमाणू स्यात् त्रसरेणुस्त्रयः स्मृतः ।

जालार्करश्म्यवगतः खमेवानुपतन्नगात् ॥ ५ ॥

तात्पर्यम्

अगाद् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः ॥ ५ ॥

पदरत्नावली

इदानीं परमाणुपरममहतोरन्तरालकालावयवानां सङ्ख्यायोगेन नामान्याह– अणुर्द्वाविति ॥ द्वौ परमाणू मिलितौ द्व्यणुकनामकालः स्यात् । उत्तरत्राप्येवमेव ज्ञातव्यानि । त्रयो द्व्यणुका मिलितास्त्रसरेणुस्त्र्यणुकः कालः । सोऽयमयोगिप्रत्यक्षसिद्ध इत्याह– जालेति ॥ जालं गवाक्षम् । तत्र वर्तमानार्करश्मिनावगतः खमेवानुपतन् अगाद् दृष्टिविषयं प्राप्य ज्ञात इत्यर्थः । अत्र सर्वत्र तत्त-त्कालावयवान्तर्यामित्वेन तत्तच्छब्दवाच्यत्वेन तत्तत्कालवर्तिद्रव्यप्रवर्तकत्वेन स्थितं सच्चिदानन्दलक्षण-मनन्तसंज्ञं स्वरूपमनुभवतीति ज्ञातव्यम् । अत एव सर्वत्र सर्वभोगेत्युक्तम् ॥ ५ ॥

प्रकाशिका

इदानीं परमाणुपरममहतोर्मध्यगतानां कालावयवानां परिमाणानि नामानि च वक्तुं तावदादौ द्व्यणुकत्र्यणुकनामकद्रव्यस्वरूपं दर्शयति ॥ अणुरिति । द्वौ परमाणू अणुर्द्व्यणुकापरनामा । त्रयोऽणवस्त्रसरेणुनामकः । स तु प्रत्यक्ष इत्याह ॥ जालार्केति । जालं गवाक्षम् । तत्र वर्तमानार्क-रश्मिनाऽवगतः । कोऽसौ । योऽतिलघुत्वेन खमेवानुपतन्नगाज् ज्ञातः । अत्र नगादिति पदच्छेद-भ्रमवारणाय पदच्छेदं दर्शयति ॥ अगादिति । नगादिति छेदेऽर्थासम्भव इति भावः ॥ ५ ॥

त्रसरेणुत्रिकं भुङ्क्ते यः कालः सा त्रुटिः स्मृता ।

तत्त्रिभागस्तु वेधः स्यात् तैस्त्रिभिस्तु लवः स्मृतः ॥ ६ ॥

पदरत्नावली

तासां त्रिसॄणां त्रुटीनां भागो भजनं यस्य स तत्त्रिभागः । तिस्त्रस्त्रुट्यो वेध इत्युक्तं भवति ॥ ६ ॥

प्रकाशिका

इदानीं त्रुटिकालमारभ्य कालस्वरूपं दर्शयति ॥ त्रसरेणुत्रिकमिति । त्रसरेणु-नामकद्रव्यसाम्यं भुङ्क्ते प्राप्नोति । त्रुटिस्त्रुटिनामकः कालः । अत्र त्रुट्याद्यन्तर्गतस्तन्नामा हरिरपि विवक्षितः । अत एव भुङ्क्ते इत्युक्तम् । अत्र द्व्यणुकसाम्यभुक् द्व्यणुकनामकः कालस्त्र्यणुकसाम्यभुक् त्र्यणुकसंज्ञकः काल इत्यपि वक्तव्यम् । शास्त्रेणानयोरव्यवहारान्न स्वशब्देनोपपादनमिति ज्ञातव्यम् । ता उक्तरूपास्तिस्रस्त्रुट्यो भागा यस्य स वेधो वेधनामकः कालः । तैर्वेधैः । तुशब्दोऽवधारणे ॥ ६ ॥

निमेषस्त्रिलवो ज्ञेय आम्नातास्ते त्रयः क्षणः ।

क्षणान् पञ्च विदुः काष्ठां लघु ता दश पञ्च च ॥ ७ ॥

पदरत्नावली

निमेषा अङ्गुलिस्फोटेन ज्ञेयाः । ताः काष्टाः पञ्चदश लधु ॥ ७ ॥

प्रकाशिका

ते निमेषास्त्रयः क्षण इत्याम्नातः । ताः काष्टा दशपञ्च च लघु लघुसंज्ञकः कालः ॥

लघूनि वै समाम्नाता दश पञ्च च नाडिका ।

ते द्वे मुहूर्तं प्रहरः षड् यामः सप्त वा नृणाम् ॥ ८ ॥

तात्पर्यम्

राशिभेदात् । ऊनातिरेकात्सप्त वेति ॥ ८ ॥

पदरत्नावली

पञ्चदशलधूनि नाडिका । ते द्वे नाडिके मुहूर्तं विदुः । षण्णाडिकाः प्रहरः । सप्तनाडिका यामः । यामः सूर्यगतिलक्षितराशिभेदादूनातिरेकाद् वेति विकल्पः ॥ ८ ॥

प्रकाशिका

दश पञ्च च लघूनि नाडिका घटिका । ते द्वे नाडिके मुहूर्तम् । षण्णाडिकाः प्रहरः । दिवसस्य पञ्चमो भागः । सप्त वा नाडिका यामो दिवसस्य चतुर्थो भागः । अत्र सप्त वेति विकल्पः कुत इत्यतोऽभिप्रायमाह ॥ राशिभेदादिति । अत्र राशिशब्देन सङ्क्रमणं लक्ष्यते । तथा च कर्कादिसङ्क्रमणभेदमपेक्ष्येत्यर्थः । ऊनातिरेकात् । नाडीनामिति शेषः । ततश्च कर्कसङ्क्रमणमारभ्य धनुःसंक्रमणपर्यन्तं नाडीनामूनात्क्रमेण न्यूनत्वाद्धनुसंक्रमणसमये यामस्य सप्तनाडीत्वम् । मकरसङ्क्रमण-मारभ्य मिथुनसङ्क्रमणपर्यन्तं नाडीनां क्रमेणातिरेकादाधिक्यान्मिथुनेऽष्टनाडीत्वम् । मेषतुलयोः सार्धसप्तनाडीत्वमित्यादिविशेषसूचनाय वेति विकल्प इति भावः ॥ ८ ॥

द्वादशार्धपलोन्मानं चतुर्भिश्चतुरङ्गुलैः ।

स्वर्णमाषैः कृतच्छिद्रं यावत् प्रस्थजलं पिबेत् ॥ ९ ॥

तात्पर्यम्

काकणिकाचतुष्कं तु विंशांशेत्यभिधीयते । कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकम् । चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये । यावत्स्यात्परिणाहेन तावद्द्वारं विधीयते । प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले । भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति । अतिशैत्ये कलङ्के च ना(मान्द्ये)द्ये नैव तु पूरणम् । तस्माद्वसन्ते काले तु प्रयागस्थोदकेन तु । नाडीशुद्धिः परीक्षा स्यादन्यथा न समं भवेदि’ति पाद्मे ॥ निर्मलेन समोष्णेन नित्यसूर्यांशुवारिणा । प्रवाहगेन कार्या स्यात्कालशुद्धिः सदैव त्वि’ति ब्रह्माण्डे ॥ ९ ॥

पदरत्नावली

नाडिकावधिं वक्तुं तत्पात्रलणमाह– द्वादशेति ॥ द्वादशार्धैः षड्भिः पलैः कृत-मुन्मानम् उत्कृष्टमानं यस्य तद् द्वादशार्धपलोन्मानम् । चतुर्भिश्चतुरङ्गुलदीर्घैः स्वर्णमाषैः कृतच्छिद्रं कृतद्वारम्, एवं रचितं नाडीपात्रं यावत् प्रस्थजलं पिबेद् यावता कालेन प्रस्थजले स्थापितं तज्जलं पीत्वा निमज्जति सा नाडिकेत्यन्वयः । इदमुक्तं भवति । चतसृभिः काकिणिकाभिः कृतो विंशांशः, तैश्चतुर्भिर्युतो माषः । चतुरङ्गुलदीर्घे माषचतुष्टये कृते सति यावत् परिणाहः स्यात् तावता तत्कृतद्वारं षट्पलरूपं नाडिपात्रमतिशैत्यकलङ्कमान्द्यादिदोषवर्जितं निर्मलं समोष्णं नित्यं सूर्यरश्मिसुतप्तं प्रवाहगतं वसन्तकालीनं प्रयागगतं वा जलं पिबति स कालो नाडिकेत्युच्यते । तदुक्तम्– ‘काकिणिकाचतुष्कं च विंशांशेत्यभिधीयते । कृष्णलेत्यपि तं ब्रूयुस्तैश्चतुर्भिस्तु माषकः । चतुरङ्गुलदीर्घे तु कृते माषचतुष्टये । यावान् स्यात् परिणाहेन तावद् द्वारं विधीयते । प्रस्थस्य नाडीपात्रस्य षट्पलस्य शुभे जले । भाराधिक्येनोदकेन क्षिप्रं पूर्तिर्भविष्यति । अतिशैत्यकलङ्के च मान्द्ये नैव तु पूरणम् । तस्माद् वसन्तकाले च प्रयागस्थोदकेन च । नाडीशुद्धिः परीक्ष्या स्यादन्यथा नैव सम्भवेत् ॥’ इति । ‘निर्मलेन समोष्णेन नित्यं सूर्यांशुवारिणा । प्रवाहगेन कार्या स्यात् कालशुद्धिः सदैव तु ॥’ इति च ॥ ९ ॥

प्रकाशिका

नाडिकापरिज्ञानाय तत्पात्रलक्षणमाह ॥ द्वादशार्धेति । अत्राप्रतिपत्तिविप्रतिपत्ति-निरासाय श्लोकतात्पर्यं प्रमाणेनैव दर्शयन् माषशब्दार्थं वक्तुं तदुपयुक्तं तावदाह ॥ काकणिकेति । काकणिकविंशाशब्दौ मानविशेषवाचकौ । तं काकणिकाचतुष्कम् । तैः कृष्णलैः । तुशब्दोऽवधारणे । माषशब्दोऽपि मानविशेषपरः । अनेन मूले माषशब्द उक्तार्थः । तुशब्दोऽवधारणे । माषाणां चतुष्टयं यस्य तत् तथोक्तं तस्मिन् । सुवर्ण इति शेषः । चतुरङ्गलदीर्घे चतुरङ्गुलसमविस्तारदीर्घदण्डाकारेण कृते सति परिणाहेन तद्दंडविस्तारेण द्वारं यावत्तावद्विधीयते । नाडीपात्रस्य नाडीज्ञापकपात्रस्य । अनेनोन्मीयते नाड्यनेनेत्युन्मानशब्दार्थो दर्शित इति ज्ञेयम् । द्वारमिति सम्बन्धः । अनेन चतुर्भिरित्यादेश् छिद्र-मित्यन्तस्य तात्पर्यमुक्तम् । कथम्भूतस्य षट्पलस्य । षट्पलपरिमितताम्रमयस्य । अनेनद्वादशार्धेत्यस्य । शुभे जले प्रस्थस्य प्रकर्षेण स्थितस्य । प्रस्थजलपूर्तिर्यस्येति वा । शुभशब्दार्थं सूचयंस्तद्व्यावर्त्यं दर्शयति ॥ भाराधिक्येनेति । क्षिप्रं पूर्तिर्भविष्यति नाडीपात्रस्य । प्रस्थजलेनेति शेषः । तथा च भाराधिक्यादिदोषशून्यत्वमेव जलस्य शुभत्वमिति भावः । एतादृशशुभजलप्राप्त्यै देशकालावाह ॥ तस्मादिति । तुचशब्दाववधारणे । न समं भवेत् । उक्तरीत्या नाडीपात्रस्य प्रस्थजलपानं नाडीकालेन समं न भवेदित्यर्थः । प्रयागोदकालाभेनाडीशुद्धिप्रकारं प्रमाणेनाह ॥ निर्मलेनेति । भाराधिक्यादि-दोषशून्येनेत्यर्थः । सूर्यस्यांशवो यस्मिंस्तत्सूर्यांशुस्तद्वारि च । अत एव समोष्णेन । भावप्रधानो निर्देशः । शैत्यसमोष्णेन ॥ तथा चायं श्लोकार्थः ॥ उन्मीयतेऽनेनेत्युन्मानं पात्रं द्वादशार्धपलं षट्पलपरिमितं ताम्रमयं तच्च तदुन्मानं च । चतुर्भिः स्वर्णमाषैश्चतुरङ्गुलैश्चतुरङ्गुलविस्तारदण्डाकारेण परिणतैश्चतुरङ्गुल-विस्तारपरिमितदैर्घ्येण माषचतुष्कस्वर्णनिर्मितदण्डेनेति यावत् । कृतं छिद्रं यस्य तत्पात्रं, यावद्यावता कालेन प्रस्थं प्रस्थपरिमितं जलं पिबेत् । तेन जलेन पूरितः सन्निमज्जति । तावान्कालः । नाडिकेति शेषः । अत्र पलच्छिद्रयोराधिक्ये शीघ्रं पूर्तिरल्पत्वे च विलम्बेनात उभयोर्नियम उक्तः ॥ ९ ॥

यामाश्चत्वारश्चत्वारो मर्त्यानामहनी उभे ।

पक्षः पञ्चदशाहानि शुक्लः कृष्णश्च मानद ॥ १० ॥

तात्पर्यम्

यत्रोभयोः स शब्दः स्यात्तत्र द्विवचनेऽप्युभ’ इत्यभिधानम् ॥ १० ॥

पदरत्नावली

उभे अहनी अहोरात्रे । अहनी इत्युक्तोऽह्नो द्वित्वं, रात्रिर्न सिध्यतीत्यत उक्तम् उभे इति । ‘यत्रोभयोः स शब्दः स्यात् तत्रद्विवचनेऽप्युभे’ इत्यभिधानात् ॥ १० ॥

प्रकाशिका

अहनी अहोरात्रे । अत्र द्विवचनेनैव विवक्षितोभयलाभे पुनरुभे इति व्यर्थमित्या-शङ्कां तत्सार्थक्याभिधायकप्रमाणेनैव परिहरति ॥ यत्रेति । यत्र वाक्ये उभयोः । विजातीययोरिति शेषः । सशब्द एक एव शब्दः प्रयुक्तः स्यात् । तत्र द्विवचनेऽपि द्विवचने प्रयुक्तेऽपि विजातीयद्वयग्रहणाय उभे इति पुनः प्रयोक्तव्यमेवेत्यर्थः । अन्यथा सजातीयद्वयग्रहणमात्रेण द्विवचनपर्यवसानेऽपेक्षितस्य विजातीयद्वयस्य बोधो न स्यादिति भावः ॥ १० ॥

तयोः समुच्चये मासः पितॄणां तदहर्निशम् ।

द्वौ तावृतुः षडयनं दक्षिणं चोत्तरं दिवि ॥ ११ ॥

पदरत्नावली

उत्तरलिङ्गापेक्षया तदित्युक्तम् । स मनुष्यमासः पितृणामहोरात्रे । तौ द्वौ मासावृतुः । षट्ऋतवो दक्षिणायनम् उत्तरायणमिति संज्ञिताः ॥ ११ ॥

प्रकाशिका

विधेयलिङ्गापेक्षया तदित्युक्तम् । तन्मनुष्यमासः पितॄणामहर्निशमहोरात्रे । द्वौ मासौ ऋतुः । षण्मासोऽयनम् । तत्तु दक्षिणं चोत्तरमिति द्विविधमित्यर्थः । दिवीत्यस्योत्तरत्रान्वयः

॥ ११ ॥

अयने अहनी प्राहुर्वत्सरो द्वादश स्मृतः ।

संवत्सरशतं नॄणां परमायुर्निरूपितम् ॥ १२ ॥

पदरत्नावली

दिवि स्वर्गे देवानां द्वे अयने अहनी अहोरात्रे । रात्रिक्रियाभावाद् रात्रिप्यहः-शब्देनोच्यत इत्यहनी इत्युक्तम् । मानुषद्वादशमासा वत्सरः ॥ १२ ॥

प्रकाशिका

दिवि स्वर्गे देवानामयने द्वेऽहनी अहोरात्रे । रात्रिरपि तेषामहस्तुल्येति ज्ञापनाय उभे इति नोक्तम् । द्वादशमनुष्यमासा एको वत्सर इत्यर्थः । परमुत्तमम् ॥ १२ ॥

ग्रहर्क्षताराचक्रस्थः परमाण्वादिना जगत् ।

संवत्सरावसानेन पर्येत्यनिमिषो विभुः ॥ १३ ॥

पदरत्नावली

सूर्यादिनवग्रहाणाम् अश्विन्यादिनक्षत्राणां ध्रुवादितारकाणां चक्रस्थो मण्डलस्थः । प्राणिनां पुण्यपापकर्मदर्शनादनिशं मिषणाद् दमनाद् वा, मिष गतौ विकासे च, अनिमिषो विभुः । परमाण्वादिसंवत्सरावसानेन कालेन पर्येति, जगदिति शेषः । ‘सर्वदा दर्शनात् तस्यानिमिषत्वं विदुर्बुधाः । सततं गमनाद् वाऽपि कालस्थस्य महात्मनः ॥’ इति । अनेनापि मुख्यतः कालशब्दवाच्यो हरिरिति सिद्धम् ॥ १३ ॥

प्रकाशिका

आदित्यादिज्योतिश्चक्रम् । परमाण्वादिकालो वा । स्वपरिभ्रमणेनैव नृणामायुः प्रवर्तयतीत्यत आह ॥ ग्रहेति । ग्रहाः सूर्यादयः । ऋक्षाण्यश्विन्यादीनि । तारा ध्रुवाद्याः । ग्रहनक्षत्र-ताराणां चक्रम् । चंक्रमणाच्चक्रनामकं मण्डलं तत्र स्थितः । परमाण्वादिना संवत्सरावसानेन कालेन सह जगन्मनुष्यादिरूपं पर्येति सततं गच्छति । हरिरेव सूर्यादीनां मण्डलेषु स्थित्वा परमाण्वादिकाल-विशेषान्सृष्ट्वा तन्नियामकेन तत्तन्नामकेन स्वरूपविशेषेण सह मनुष्याद्यायुः प्रवर्तयति न सूर्यादय एव तेषामस्वतन्त्रत्वादिति भावः । अनिमिषशब्दव्याख्यानमुत्तरत्र भविष्यति । विभुः समर्थः । अनेन ग्रहादीनामस्वातन्त्र्यं सूचयति ॥ १३ ॥

संवत्सरः परिवत्सर इडावत्सर एव च ।

अनुवत्सरो वत्सरश्च विदुरेवं प्रभाष्यते ॥ १४ ॥

तात्पर्यम्

इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः । तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः । वत्सरो यः स्थितस्त्वह्नां षष्ट्युत्तरशतत्रये । गुर्वावर्तद्वादशांशे यः स्थः स परिवत्सरः । सौरद्वादशके मासे यः स्थः संवत्सरो हरिः । एवं स कालनामाऽपि कालस्थः परमेश्वर’ इति ब्रह्मतर्के ॥ ‘सर्वदा दर्शनात्तस्यानिमिषत्वं विदुर्बुधाः । सततं गमनाद्वापि कालस्थस्य महात्मन’ इति च ॥ १४ ॥

पदरत्नावली

तत्तत्संज्ञकालस्थत्वेन तन्नियन्तृत्वेन तत्तन्नामवानित्याह– संवत्सर इति ॥ सौरद्वादशमासाः सङ्क्रमणावसानास्तेषु द्वादशमासेषु स्थितः संवत्सरः । द्वादशराशिषु बृहस्पतेरावृत्त्या यः कालस् तस्य द्वादशमे भागे यस्तिष्ठति स परिवत्सराख्यः । सप्तविंशन्नक्षत्राणि तद् द्वादशमासेषु स्थित इडावत्सरनामा । तिथीनां द्वादशावर्तो यो द्वादशमासरूपस्तत्र स्थितो हरिरनुवत्सरः । अह्नां षष्ठ्युत्तरशतत्रयात्मकद्वादशमासेषु स्थितो हरिर्वत्सरनामा । कालान्तर्यामी हरिरेवंरूपो प्रभाष्यत इत्यन्वयः । तदुक्तम्– ‘इडावत्सरनामाऽसौ नक्षत्रद्वादशे स्थितः । तिथीनां द्वादशावर्ते यो हरिः सोऽनुवत्सरः । वत्सरो यः स्थितस्त्वह्नां षष्ठ्युत्तरशतत्रये । गुर्वावर्ते द्वादशांशे यः स्थितः परिवत्सरः । सौरद्वादशमासेषु यः स्थः संवत्सरो हरिः । एवं स कालनामाऽपि कालस्थः परमेश्वरः ॥’ इति । स्मृतिसिद्धत्वाद् इदं ग्राह्यम् ॥ १४ ॥

प्रकाशिका

उक्तरीत्या कालविशेषवाचकपरमाण्वादिशब्दवाच्यो हरिरेवेत्यत्र युक्तिमाह ॥ संवत्सर इति । प्रभाष्यते । वेदादाविति शेषः । तथा च हरिः परमाण्वादिकालविशेषवाचकशब्दाभि-धेयस्तत्समानयोगक्षेमसंवत्सरवत्सरादिशब्दवाच्यतया श्रुत्यादिसिद्धत्वादिति युक्तिरुक्ता भवतीति ज्ञातव्यम् । अत्र संवत्सरादिशब्दानामर्थविशेषं भगवत्परत्वं च प्रमाणेनैव दर्शयति ॥ इडेति । असौ हरिरश्विन्यादिसप्तविंशतिनक्षत्राणां द्वादशवारमावृत्तौ यावान्कालस्तस्मिन्काले नियामकत्वेन स्थित इत्यर्थः । तिथीनां शुक्लप्रतिपदमारभ्यामावाश्यादिपर्यन्तानां त्रिंशत्सङ्ख्याकानां द्वादशवारमावर्तम् आवृत्ति-र्यस्मिन्सद्वादशावृत्तस्तस्मिन्काले स्थित इत्यनुवर्तते । अनुवत्सरोऽनुवत्सरनामा । वत्सरः वत्सरनामा अह्नां षष्ठ्युत्तरशतत्रयेति । यं कञ्चन दिवसमारभ्य गणनायां यावता कालेनान्हां षष्ठ्युत्तरशतत्रयं भवति तावति काले स्थित इत्यर्थः । तिथीनां द्वादशावृत्ते तु वृद्धिह्राससम्भवेनान्हां षष्ठ्युत्तरशतत्रयत्वनियमः । अतोऽस्य ततो भेद इति ज्ञातव्यम् । गुरोर्बृहस्पतेर्मेषादिराशिष्वावर्त आवृत्तिर्यस्मिन्द्वादशवत्सरात्मके काले स गुर्वावर्तस् तस्य द्वादशे द्वादशमेंऽशे भागे यः स्थः स्थितः स परिवत्सरस्तन्नामा । सौरे सूर्य-सम्बन्धिनि द्वादशके सङ्क्रमणभेदेन द्वादशसङ्ख्याके मासे माससमुदाये संवत्सरस्तन्नामा । एवं कालविशेषवाचकशब्दाभिधेयत्वमुक्त्वेदानीं कालशब्दाभिधेयत्वमाह ॥ एवमिति । अनेनैवं कालोऽ-प्यनुमित इत्यादौ ये कालशब्दास्तेषां तात्पर्यमुक्तमेवेत्यवगन्तव्यम् । इदानीमनिमिषपदमप्रतीत्या प्रमाणे-नैव व्याख्याति ॥ सर्वदेति । महात्मनस्तस्य हरेरनिमिषत्वमनिमिषशब्दवाच्यत्वं सर्वदा दर्शनान् निमित्तात् । चक्षुर्निमीलनं निमिष इत्युच्यते स यस्य न विद्यत इत्युक्तेऽनिमिषशब्देनार्थात्सर्वदा दर्शन-मेवायातीति भावः । वाशब्दस्तुशब्दार्थः । कालस्थस्य तस्य सततं गमनाद्वा निमित्तादित्यर्थः । मिष गताविति धातोः । मिषो गमनं निकृष्टो मिषो निमिषो न विद्यते निमिषो यस्येति विग्रहे सततं गमनं लभ्यते । तच्च कालस्य तदन्तस्थस्य हरेश्चास्तीति प्रदर्शनाय कालस्थस्येत्युक्तम् । अनेन यतः पर्येत्यतोऽनिमिषोऽनिमिषशब्दवाच्य इति मूलयोजनां सूचयति । यद्यपीदं पदं पूर्वश्लोकस्थं पूर्वमेव व्याख्येयं तथाप्युत्तरश्लोकेऽपि कर्तृसमर्पकतयाऽस्य सम्बन्धोऽस्तीति ज्ञापनाय तद्व्याख्यानानन्तरं व्याख्यानमिति ज्ञातव्यम् ॥ १४ ॥

यः सृज्यशक्तिमुरुधोच्छ्वसयन् स्वशक्त्या

पुंसोऽभ्रमाय दिवि धावति भूतभेदः ।

कालाख्यया गुणमयीं क्रतुभिर्वितन्वन्

तस्मै बलिं हरत वत्सरपञ्चकाय ॥ १५ ॥

तात्पर्यम्

अभ्रमाय । भूतभेदकः । क्रतुभिः स्वप्रज्ञाभिः । ‘भूतानां ज्यैष्ट्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये । बोधयन्सृज्यशक्तिं च कालस्थो वर्तते हरिरि’ति तन्त्रप्रकाशिकायाम् ॥ १५ ॥

पदरत्नावली

वत्सरादिनामकारणप्रयोजनमाह– य इति ॥ यः कालान्तर्यामी हरिः क्रतुभिः स्वप्रज्ञाभिः स्वेच्छानुरूपाभिः कालाख्यया स्वशक्त्या प्रकृत्या गुणमयीं सत्त्वादिगुणविकाररूपां सृज्य-शक्तिं स्रष्टव्यपदार्थविषयां प्रकृतिम् उरुधोच्छ्वसयन् जृम्भयन् पदार्थान् वितन्वन् विस्तारयन् पुंसोऽभ्रमायाज्ञाननिवृत्तये । भूतानां भेदो ज्यैष्ट्यकानिष्ठ्यविवेकज्ञानं यस्मात् स तथोक्तः । ‘भूतानां ज्यैष्ठ्यकानिष्ठ्यज्ञप्त्यै यज्ञादिवृत्तये । बोधयन् सृज्यशक्तिं च कालस्थो वर्तते हरिः ॥’ इति च । दिवि व्योमि्न धावति सूर्यस्थो भूत्वा वेगेन गच्छति । तस्मै वत्सरपञ्चकाय संवत्सरादिपञ्चकान्तर्यामिणे बलिं हरत कुरुतेत्यन्वयः । अनेकार्थत्वाद् धातूनाम् ॥ १५ ॥

प्रकाशिका

एतादृशकालनियामको हरिः परमोपकारित्वात्सर्वैः पूजनीय इत्याशयेनाह ॥ य इति । अत्र भ्रमायेति पदच्छेदेऽर्थासम्भवमालोच्याकारप्रश्लेषेण छेदं दर्शयति ॥ अभ्रमायेति । भूतभेद इत्यत्र षष्ठीतत्पुरुषो बाधितार्थकः । अतो भूतानां भेदो यस्मादिति व्यधिकरणो बहुव्रीहिरित्याशयेन तत्तात्पर्यमाह ॥ भूतभेदक इति । क्रतुभिरित्यस्य यज्ञार्थत्वेऽसङ्गतिमालोच्यात्र विवक्षितमर्थं दर्शयति ॥ क्रतुभिरिति । प्रज्ञानामसु पाठादिति भावः । भूतानां भेदस्य स्वत एव सिद्धत्वात्कथमस्य भूतभेदकत्वं कथं चाभ्रमायेत्यस्य प्रयोजनवत्वमित्यतः श्लोकतात्पर्यं प्रमाणेनैवाह ॥ भूतानामिति । तथा च भेदपदं ज्यैष्ठ्यादिरूपधर्मपरम् । तेन तत्ज्ञानमुपलक्षणीयमिति भावः । अभ्रमायेत्यस्य तात्पर्यम् ॥ यज्ञादिवृत्तय इति । आदिपदेन प्रातरादिकालविहितकर्मान्तरग्रहणम् । कालपरिज्ञानाभावे सङ्गवादिकालेषु मध्यन्दिनत्वादिभ्रमप्रसङ्गेन यज्ञादिप्रवृत्तिः सम्यङ्न भवतीति भावः । सृज्यानामङ्कुरादीनां प्रतिदिनं वर्धने शक्तिं सृज्यविषये कारणशक्तिमिति वा बोधयन् उद्बोधयन् । अनेन सृज्यशक्तिमुच्छ्वसयन्नित्येतदुक्तार्थं, कालस्थ इत्यनेन वत्सरपदमुक्तार्थम् । वर्तत इत्यनेन वर्तत इत्यध्याहार्यमिति सूचयति ॥

ततश्चायं श्लोकार्थः ॥ यः कालान्तर्यामी हरिः सृज्यशक्तिमुरुधाऽनेकप्रकारेणोच्छ्वसयन् उद्बोधयन्पुंसो विहितकर्मकर्तुरभ्रमाय यज्ञादिकर्माङ्गकालभ्रमाभावाय । यज्ञादिप्रवृत्तय इति यावत् । दिव्यन्तरिक्षे धावति । ज्योतिश्चक्रं गत इति शेषः । प्रयोजनान्तरमाह ॥ भूतभर्द इति । भूतानां प्राणिनां भेदो ज्यैष्ठ्यकानिष्ठ्यभेदज्ञप्तिर्यस्मादिति । कालाख्यया स्वशक्त्येत्यन्वयः । स्वरूपशक्त्या सहकारिशक्त्या चेत्यर्थः । प्रयोजनान्तरमाह ॥ गुणमयीमिति । क्रतुभिः स्वप्रज्ञाभिः सत्त्वादिमयीं प्रकृतिं वितन्व-न्विस्तारयन् सृष्टिकाले रजोमयीं, स्थितिकाले सत्त्वमयीं, संहारकाले तमोमयीं, विस्तारयन्यो वर्तते तस्मै संवत्सरपञ्चकस्थाय तन्नाम्ने हरये बलिं पूजां हरत कुरुतेति ॥ १५ ॥

विदुर उवाच–

पितृदेवमनुष्याणामायुः परमिदं स्मृतम् ।

परेषां गतिमाचक्ष्व ये स्युः कल्पाद् बहिर्विदः ॥ १६ ॥

पदरत्नावली

विदुर उक्तार्थमनूद्य वक्तव्यार्थं विज्ञापयति– पितृदेवेति ॥ ये विदो ज्ञानिनः कल्पाद् लोकत्रयाद् बहिर्महर्लोकादिषु वर्तमानाः स्युस् तेषां परेषामुत्तमानां गतिं स्थितिमाचक्ष्वेत्यन्वयः

॥ १६ ॥

प्रकाशिका

इदं वर्षशतगणितमायुर्मानं नृणामितरेषां दिनमानादिकं च कल्प्यते प्रतिदिनं सृज्यत इति कल्पस्त्रैलोक्यं तस्माद्बहिर्महरादिषु ये विदो ज्ञानिनः स्युस्तेषां परेषामुत्तमानां गतिं स्थितिं दिनमानादिरूपामाचक्ष्व ॥ १६ ॥

भगवान् वेद कालस्य गतिं भगवतो ननु ।

विश्वं विचक्षते धीरा योगराद्धेन चक्षुषा ॥ १७ ॥

पदरत्नावली

मैत्रेयस्य वक्तव्यार्थे ज्ञानपाटवमस्तीत्याह– भगवानिति ॥ कालस्य कालान्त-र्यामिणो भगवतो गतिं गमनं वर्तनं वेद ननु । कुतः ? धीरा धीषु रममाणा ज्ञानिनो योग-राद्धेनाष्टाङ्गयोगसिद्धेन चक्षुषा विश्वं विचक्षते । भगवानपि तेष्वेक इति यत् तस्मादिति शेषः ॥ १७ ॥

प्रकाशिका

मैत्रेयस्य वक्तव्यार्थे ज्ञानमस्तीत्याह ॥ भगवानिति । कालस्य कालान्तर्यामिणो गतिं स्थितिं मानं वा कुतो यस्माद्धीरा भवदादयो योगराद्धेन योगसिद्धेन चक्षुषा । ज्ञानदृष्ट्येति यावत् । विश्वं सर्वं विचक्षते विशेषेण पश्यन्ति तस्मादित्यर्थः ॥ १७ ॥

मैत्रेय उवाच–

कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम् ।

दिव्यैर्द्वादशसाहस्रैः सावधानं निरूपितम् ॥ १८ ॥

पदरत्नावली

महर्लोकादिस्थितानामायुर्वक्ष्यन् कृतादिचतुर्युगतत्सन्ध्याकालपरिमाणं वक्ति– कृतमिति ॥ दिव्यैर्देवानां विद्यमानैः ॥ १८ ॥

प्रकाशिका

त्रैलोक्याद्बहिः स्थितानां दिनादिमानं वक्ष्यन्नादौ तावत्कृतादिचतुर्युगानां तत्सन्ध्या-कालानां च परिमाणं वक्ति ॥ कृतमिति । दिव्यैर्देवानां विद्यमानैः । निरूपितं विद्वद्भिः ॥ १८ ॥

चत्वारि त्रीणि द्वे चैकं कृतादिषु यथाक्रमम् ।

संख्यातानि सहस्राणि द्विगुणानि शतानि च ॥ १९ ॥

पदरत्नावली

एतदेव विवेचयति– चत्वारीति ॥ एवं कृतादिषु दशसहस्राणि एकैकह्रासक्रमेण संख्यातानि द्विगुणानि शतानि चावशिष्टद्विसहस्रगतशतानि कृतादिपूर्वापरसन्ध्यारूपाणि कलियुगपूर्वापर-सन्ध्यामारभ्य द्विगुणानि ज्ञेयानि । तथाहि– कलियुगपूर्वापरसन्ध्ये शतं द्वापरपूर्वापरसन्ध्ये द्विशतं त्रेतायुगपूर्वापरसन्ध्ये त्रिशतं कृतयुगपूर्वापरसन्ध्ये चतुःशतम्, एवं विंशच्छतानां युगेभ्यो द्विगुणित्वम्

॥ १९ ॥

प्रकाशिका

द्वादशसहस्रवर्षाणां चतुर्षु युगेषु त्रिसहस्ररूपैश्चतुर्भिर्भागैः किं साम्येन निरूपणं नेत्याह । चत्वारीति । कृतयुगे चत्वारि सहस्राणि त्रेतायुगे त्रीणि, द्वापरे द्वे सहस्रे, कलियुगे त्वेकं सहस्रमिति दशसहस्राणां विनियोगः । अवशिष्टसहस्रद्वये विंशतिशतानि भवन्ति । तेषां चतुर्युग-सन्ध्यांशयोर्विनियोगः । स कथमित्यपेक्षायामाह ॥ द्विगुणानि शतानि चेति । कलियुगपूर्वापर-सन्धिमारभ्य द्विगुणानि ज्ञेयानीत्यर्थः । तथा हि । कलियुगपूर्वापरसन्ध्ययोरेकैकं शतं द्वापरपूर्वापरसन्ध्य-योर्द्वे शते त्रेतायुगपूर्वापरसन्ध्ययोस्त्रीणि त्रीणि शतानि । कृतयुगपूर्वापरसंध्ययोश्चत्वारि चत्वारीति ॥१९॥

सन्ध्यासन्ध्यांशयोरन्तर्यः कालः शतसंख्ययोः ।

तमेवाहुर्युगं तज्ज्ञा यत्र धर्मो विधीयते ॥ २० ॥

सन्ध्यांशयोरन्तरेण यः काल इति वि.ध्व.पाठः ।

पदरत्नावली

एवं तर्हि कृतादियुगत्वं कस्य कालस्येति तत्राह– सन्ध्येति ॥ शतसंख्ययोः सन्ध्यांशयोरन्तस्थो यः कालः, यत्र तत्तद्युगधर्मो विधीयते, तमेव युगज्ञा युगमानमाहुः । कृतादिषु सन्ध्याकालाः पूर्वापरकोटिसंबद्धा, द्वारस्थाः कालविशेषाः सन्ध्यांशख्या इति ॥ २० ॥

प्रकाशिका

एवं तर्हि कृतादियुगत्वं कियतः कालस्येत्यपेक्षायामाह ॥ सन्ध्यासन्ध्यांशयो-रिति । सन्ध्यासन्ध्यांशयोरन्तस्थो यः काल इत्यन्वयः । कृतादियुगपूर्वापरकोटिसम्बन्धी कालः सन्ध्या तदुत्तरकालविशेषः सन्ध्यांश इति ज्ञातव्यम् । शतसंख्ययोरुक्तक्रमेणैकत्वादिविशेषितशतसंख्ययोः । धर्मो युगधर्मः ॥ २० ॥

धर्मश्चतुष्पान्मनुजान् कृते समनुवर्तते ।

स एवान्येष्वधर्मेण व्येति पादेन वर्धता ॥ २१ ॥

पदरत्नावली

कृतादिषु यो धर्मो विधीयते स किमवयवो वर्तत इति तद्वृत्तिप्रकारं वक्ति– धर्म इति ॥ तपः सत्यं दया शौचमिति चतुष्पान् मनुजान्, उद्दिश्येति शेषः । अन्येषु त्रेतादिषु स्वनामानु-सारेण तपो विरोधिना वर्धता वर्धमानेनाधर्मेण व्येति ह्रसति, क्रमेणेति योज्यम् ॥ २१ ॥

प्रकाशिका

युगधर्मस्थितिं दर्शयति ॥ धर्मश्चतुष्पादिति । धर्मः सत्यादिरूपश्चतुष्पात्सम्पूर्णः । मनुजानुद्दिश्य स एवान्येषु त्रेतादियुगेषु । अधर्मेणासत्यादिरूपेण हेतुना प्रतियुगं पादेन वर्धता व्येति क्रमेण ह्रसति ॥ २१ ॥

त्रैलोक्याद् युगसाहस्रं बहिराब्रह्मणो दिनम् ।

तावत्येव निशा तात यन्निमीलति विश्वसृक् ॥ २२ ॥

पदरत्नावली

तत्र ‘ये स्युः कल्पाद् बहिर्विदः’ इति प्रश्नपरिहारमारभते– त्रैलोक्यादिति ॥ त्रैलोक्याद् बहिर् आब्रह्मणः ब्रह्मपर्यन्तं तल्लोकपर्यन्तमित्यर्थः । तावत्पर्यन्तं वर्तमानं चतुर्युगसहस्रं ब्रह्मण एकं दिनमहः । तावत्येव चतुर्युगसहस्री तस्य निशा । यद् यस्यां निशायां विश्वसृक् ब्रह्मा निमीलति निद्रामुद्रितलोचनो भवति ॥ २२ ॥

प्रकाशिका

एवमुपयुक्तमुक्त्वेदानीं परेषां गतिमाचक्ष्वेति पृष्टस्योत्तरमाह ॥ त्रैलोक्यादिति । त्रैलोक्याद्बहिर्महर्लोकमारभ्य आब्रह्मणः सत्यलोकपर्यन्तं युगसाहस्रं चतुर्युगसाहस्रं दिनमुच्यत इत्यर्थः । तावत्येव चतुर्युगसहस्रस्यैव यद्यस्यां विश्वसृक् ब्रह्मा निमीलति चक्षुर्निमीलनं करोति । स्वपितीति यावत् ॥ २२ ॥

निशावसान आरब्धो लोककल्पोऽनुवर्तते ।

यावद् दिनं भगवतो मनून् भुञ्जंश्चतुर्दश ॥ २३ ॥

तात्पर्यम्

दिनस्थो भगवान्भोक्ता ॥ २३ ॥

पदरत्नावली

चतुर्युगसहस्ररूपनिशावसाने पुनर्ब्रह्मणोऽर्थायारब्धो लोककल्पः लोकानां जनानां तथा भूरादिलोकानां कल्पः सृष्ट्यादिलक्षणस् तावदनुवर्तते, यावद् भगवतो ब्रह्मणश्चतुर्दशमनून् भुञ्जन् भुञ्जानं दिनं स्यादिति शेषः । दिनस्य भोक्तृत्वं नामोपचारमात्रं, तत्र यज्ञादिमूर्त्यावतीर्णस्य हरेर्मुख्य-भोक्तृत्वमित्येतज्ज्ञापनाय भुञ्जन्निति लिङ्गव्यत्ययः ॥ २३ ॥

प्रकाशिका

तत्र दिनस्थितिमाह ॥ निशावसान इति सार्धैश्चतुर्भिः । लोकानां भूरादीनां जनानां कल्पः सृष्ट्यादिरूपस्तावदनुवर्तते यावद्भगवतो ब्रह्मणो दिनं स्यात् । कथम्भूतं दिनम् । चतुर्दश मनून् भुञ्जन् भुञ्जानम् । नन्वत्र कथं जडस्य दिनस्य भोक्तृत्वमुच्यत इत्यतोऽभिप्रायमाह ॥ दिनस्थ इति । भगवदभिप्रायेण भोगोक्तिः । अत एव भुञ्जन्निति पुल्लिङ्गप्रयोग इति भावः । अत्र भोगोऽनुभवः प्राप्तिर्वा ॥ २३ ॥

स्वं स्वं कालं मनुर्भुङ्क्ते साधिका ह्येकसप्ततिः ।

मन्वन्तरेषु मनवस्तद्वंश्या ऋषयः सुराः ।

भवन्ति चैते युगपत् सुरेशाश्चानु ये च तान् ॥ २४ ॥

तात्पर्यम्

‘युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् । वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्त-रम् । शतानां प्रलयश्चैव पञ्चोत्तरमथापि च । आद्येषु षट्सु प्रथमे द्विसहस्रं प्रकीर्तितम् । वत्सराणां मनोरन्तरेवमिन्द्रादीनां भवेदि’ति महावाराहे ॥ २४ ॥

पदरत्नावली

मनूनां भोज्यमन्वन्तरकालमाह– स्वं स्वमिति ॥ सार्धाष्टादशलक्षवर्षाधिकैक-सप्ततिचतुर्युगावसानं मनुकाल इत्यर्थः । तदुक्तम्– ‘युगैकसप्ततेरूर्ध्वं सार्धाष्टादशलक्षकम् । वत्सराणां मनोर्भुक्तिः सहस्रं चतुरुत्तरम् । शतानां प्रलयश्चैव पञ्चोत्तरमथापि च । आद्येषु षट्षु प्रथमे द्विसहस्रं प्रकीर्तितम् ॥ वत्सराणां मनोरन्तरेवमिन्द्रादिनां भवेत्’ ॥ इति । मन्वन्तरेष्वधिकृतमन्वादीनाह– मन्वन्तरेष्विति ॥ तद्वंश्या मनुवंशभवा राजानः सुरेशा इन्द्रादयः, ये च ताननु इन्द्रादीननुचरन्तो गन्धर्वाद्याः, एते सर्वे युगपदेककाल एव भवन्तीत्यन्वयः ॥ २४ ॥

प्रकाशिका

यद्येकस्मिन्दिने चतुर्दशमनवो भवन्ति तर्हि ते किं युगपदेन दिनं भुञ्जते । क्रमतश्चेदेकैकस्य कियान्काल इत्यपेक्षायामाह ॥ स्वं स्वमिति । तथा च न युगपद्भोग इति भावः । द्वितीयस्योत्तरमाह ॥ साधिकेति । महायुगानां किञ्चिदधिकैकसप्ततिर्मनुकाल इत्यर्थः । अत्राधिक्यं कियता कालेनेत्यपेक्षायां श्लोकतात्पर्यं प्रमाणेनैवाह ॥ युगैकेति । महायुगैकसप्ततेरित्यर्थः । सार्धाष्टादश-लक्षकमित्यनेन साधिकेत्येतद्व्याख्यातमिति ज्ञातव्यम् । मनुप्रलयकालोऽपि साधिकेत्यत्राधिकशब्देन विवक्षित इत्याशयेन मनूनां प्रलयकालपरिमाणमाह ॥ सहस्रमिति । शतानां चतुरुत्तरं वत्सराणां सहस्रमेव मनोः प्रलयकालश्चेत्यन्वयः । शतचतुष्टयेनाधिकं वत्सरसहस्रमेकैकस्य मनोः प्रलयकाल इत्यर्थः। आद्येषु षट्सूक्तस्यापवादमाह ॥ पञ्चोत्तरमिति । शतानां पञ्चोत्तरं पञ्चशतोत्तरं वत्सराणां सहस्रमित्यर्थः । अथापि चेति निपातसमुदायस् त्रिशतोत्तरमिति पक्षान्तरद्योतकः । तत्रापि प्रथमेऽपवाद-माह ॥ प्रथम इति । स्वायम्भुवमन्वन्तरे वत्सराणां द्विसहस्रं मनोरन्तर्मनुप्रलयकाल इति प्रकीर्तितम् । शास्त्र इति शेषः । तथा चाद्येषु षट्सु प्रथमे द्विसहस्रं, द्वितीये पञ्चशतोत्तरं सहस्रं, तृतीये चतुः-शतोत्तरं, शिष्टेषु त्रिशतोत्तरमिति ज्ञेयम् । मनुषूक्तप्रकारम् इन्द्रादावतिदिशति ॥ एवमिति । इन्द्रादीनाम् । आदिपदम् ऋष्यादिसङ्ग्रहार्थम् । भवेत् । भुक्तिकालः प्रलयकालश्चेति शेषः । अनेन ऋषयः सुरा इत्यादिकमुक्तार्थम् । मन्वन्तरेष्वधिकृतानाह ॥ मन्वन्तरेष्विति । तद्वंश्या मनुवंशभवा राजानः क्रमेण भवन्ति । मनवो ऋषयः सुराः सुरेशा इन्द्राश्च । तान् सुरेशान् । अनुचरतो ये गन्धर्वादयस्तेऽपीत्येते युगपदेव भवन्तीत्यर्थः ॥ २४ ॥

एष दैनन्दिनः सर्गो ब्राह्मस्त्रैलोक्यवर्तनः ।

तिर्यङ्नृपितृदेवानां संभवो यत्र कर्मभिः ॥ २५ ॥

पदरत्नावली

ब्राह्मः ब्रह्मकृतः । दैनन्दिनः ब्रह्मणो दिने दिने क्रियमाणः । त्रैलोक्यं वर्तयतीति त्रैलोक्यवर्तनः । यत्र यस्मिन् दैनन्दिनसर्गे तिर्यगादीनां सम्भव उत्पत्तिः ॥ २५ ॥

प्रकाशिका

ब्राह्मो ब्रह्मकृतः । त्रैलोक्यं वर्तयतीति त्रैलोक्यवर्तनः । सम्भव उत्पत्तिः ॥ २५ ॥

मन्वन्तरेषु भगवान् बिभ्रत् सत्त्वं स्वमूर्तिभिः ।

मन्वादिभिरिदं विश्वमवत्युदितपौरुषः ॥ २६ ॥

पदरत्नावली

मन्वादयो जगत्पालनादि कुर्वन्तीति यत् तद् भगवदनुगृहीतमेवेत्याह– मन्वन्तरे-ष्विति ॥ सत्त्वं सत्त्वगुणम् । उदितपौरुषः नित्योदितपराक्रमः ॥ २६ ॥

प्रकाशिका

मन्वादीनां जगत्पालकत्वममुख्यं मुख्यतो भगवानेवैतेषु स्थित्वा जगत्पालयतीत्याह ॥ मन्वन्तरेष्विति । सत्त्वं सत्त्वगुणं बिभ्रत्कार्योन्मुखं कुर्वन्स्वमूर्तिभिः स्वस्य मूर्तिर्येषु तैः । स्वरूपविशेषावेश-वद्भिः । स्वस्य प्रतिमाभूतैरिति वा । यज्ञतापसादिस्वमूर्तिभिर्मन्वादिभिर्द्वारभूतैरिति वा । उदितपौरुष आविष्कृतपराक्रमः ॥ २६ ॥

तमोमात्रामुपादाय प्रतिसंरुद्धविक्रमः ।

कालेनानुगतः शेष आस्ते तूष्णीं दिनात्यये ॥ २७ ॥

तात्पर्यम्

‘ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशी’ति ब्राह्मे ॥ २७ ॥

पदरत्नावली

जगत्पालनमेव भगवन्नियतं न प्रलय इति मन्दां शङ्कां निवारयति– तमोमात्रा-मिति ॥ दिनात्यये ब्रह्मादिनापगमे रात्रिसमये भगवांस्तमोमात्रां स्वनियततमोगुणप्रवर्तककाल– सङ्कर्षणरुद्रादिरूपम्, उपादाय प्रतिसंरुद्धविक्रमः कालेन कालनाम्ना ब्रह्मणानुगतः कल्पप्रलयोदके शेषे अनन्तभोगपर्यङ्के तूष्णीं निवृत्तजगद्व्यापार आस्ते शेत इत्यर्थः । ‘ब्रह्मणा कालनाम्ना तु सह शेते हरिर्निशि’ इति वचनात् कालेनेति न प्रलयकालोऽत्र विविक्षितस्तस्य दिनात्यय इत्यनेन गतार्थत्वात् ॥ २७ ॥

प्रकाशिका

रात्रिस्थितिमाह पञ्चभिः । तमोमात्रां तमोगुणम् । मात्राशब्दस्य गुणपरत्वेनान्यत्र व्याख्यातत्वात् । उपादाय कार्योन्मुखीकृत्य । प्रतिसंरुद्धः प्रत्याहतो विक्रमः पालनानुकूलो व्यापारो यस्य स तथोक्तः । दिनात्यये रात्रौ शेषे प्रलयजलगतानन्तभोगपर्यंके तूष्णीमास्ते शेत इत्यर्थः । अत्र काले-नानुगत इत्यर्धस्यार्थं प्रमाणेनैव दर्शयति ॥ ब्रह्मणेति । तुशब्दः प्रसिद्धकालव्यावृत्त्यर्थः । अनेन काले-नेत्येतदुक्तार्थम् । अनुगत इत्यस्यार्थः ॥ सहेति । तूष्णीमास्त इत्यस्य तात्पर्यम् ॥ शेत इति । पूर्व-श्लोकस्थं भगवानिति पदमत्रानुवर्तनीयमित्याशयेन हरिरित्युक्तम् । दिनात्यय इत्यस्यार्थः ॥ निशीति

॥ २७ ॥

तमेवानुविलीयन्ते लोका भूरादयस्त्रयः ।

निशायामनुवृत्तायां निर्मुक्तशशिभास्करे ॥ २८ ॥

पदरत्नावली

देवदत्तस्वापविलक्षणो भगवत्स्वापः । कुतः ? अस्मिंश्चराचराणामनवशेषं विनाशादित्याशयेन तल्लयप्रकारं वक्ति– तमेवेति ॥ लोके निर्मुक्तशशिभास्करे सति ब्रह्मणि च शयन इव हरिं प्रविष्टे सति तन्निशायामनुवृत्तायां सत्यां भूरादयो लोकास्तं ब्रह्माणमनु विलीयन्ते । अनुविधीयन्त इति पाठे शयानं हरिमनुविधीयन्ते ब्रह्मणा सह सुप्ताः क्रियन्त इत्यर्थः ॥ २८ ॥

प्रकाशिका

तमेव प्रसुप्तमेवानुसृत्य । तत्संकल्पानुसारेणेति यावत् । शशिभास्करयोर्निर्मुक्तं निर्मोकोऽ-भावः । निर्मुक्तशशिभास्करस्तस्मिंश्च सति । अन्धकारे सतीति यावत् । परनिपातश्छान्दसः ॥ २८ ॥

त्रिलोक्यां दह्यमानायां शक्त्या सङ्कर्षणाग्निना ।

यान्त्यूष्मणा महर्लोकाज्जनम् ऋभ्वादयोऽर्दिताः ॥ २९ ॥

पदरत्नावली

तमेव लयं स्पष्टयति– त्रिलोक्यामिति ॥ सङ्कर्षणमुखनिर्गताग्निना शक्त्या ज्वालनया ऋभ्वादयो महर्लोकनिवासिनस् तस्मान्महर्लोकाज्जनोलोकं यदा यान्ति ॥ २९ ॥

प्रकाशिका

विलीयन्त इत्येतदेव स्पष्टयन् तदा महर्लोकगतानां स्थितिमाह ॥ त्रिलोक्या-मिति । सङ्कर्षणमुखनिर्गताग्निना सङ्कर्षणशक्त्या च दह्यमानायामित्यर्थः । ऊष्मणा औष्ण्येनार्दिताः सन्तो, जनं जनोलोकम् ॥ २९ ॥

तावत् त्रिभुवनं सद्यः कल्पान्ते विषसिन्धवः ।

प्लावयन्त्युत्कटाटोपचण्डवातेरितोर्मयः ॥ ३० ॥

पदरत्नावली

तावत् तदा विषसिन्धवः सङ्कर्षणमुखविषसंमिश्राः सप्तसिन्धव उत्कट आटोपो यस्य स तथा, अत एव चण्डः, उत्कटाटोपश्चासौ चण्डश्चोत्कटाटोपचण्डस्तादृशेन वातेनेरिता उन्नमिता ऊर्मयो येषु ते तथोक्ताः । आटोपः कोलाहलः ॥ ३० ॥

प्रकाशिका

विषसिन्धवः सङ्कर्षणमुखगतविषमिश्राः सप्तसमुद्रा उत्कट उत्कृष्ट आटोपो वेगो यस्य स उत्कटाटोपोऽत एव चण्डः क्रूरो वातस्तेनेरिता उज्जृंभिता ऊर्मयो येषु ते तथोक्ताः ॥ ३० ॥

अन्तः स तस्मिन् सलिल आस्तेऽनन्तासनो हरिः ।

योगनिद्रामीलिताक्षः स्तूयमानो जनालयैः ॥ ३१ ॥

पदरत्नावली

कल्पप्रलयोदके हरेः स्थितिप्रकारं वक्ति– अन्तरिति ॥ अनन्तासन इत्यनेन हरेः स्वापः प्रलयार्थमुपचर्यते न तु तात्त्विक इत्यवगम्यते ॥ ३१ ॥

प्रकाशिका

जनालयैर्महर्लोकादागतैरन्यैश्च ॥ ३१ ॥

एवंविधैरहोरात्रैः कालगत्योपलक्षितैः ।

अपेक्षितमिवास्यापि परमायुर्वयःशतम् ॥ ३२ ॥

तात्पर्यम्

अस्य ब्रह्मणः । ब्रह्मणो दिनमित्युक्तत्वात् ॥ ३२ ॥

पदरत्नावली

एवंविधाहोरात्रवर्णनेन किं प्रयोजनम् ? अत्राह– एवमिति ॥ अस्य ब्रह्मणोऽप्येवंविधैरहोरात्रैर्वयःशतं परमायुस्तथापि पुनरपेक्षितमिवेत्यन्वयः । कीदृशैः कालनाम्नः सूर्यान्तर्यामिणो हरेर्गत्युपलक्षितैः । ब्रह्मकालस्य सूर्यगत्योपलक्षणं मनुष्यकालस्य तु दर्शनमिति विवेकः । अस्येति न परमात्मन उच्यते । ‘नायुर्मानं भगवतः कस्मिन् रूपेऽपि विद्यते । अनादित्वाद-मध्यत्वादनन्तत्वाच्च सोऽव्ययः ॥’ इति वचनेन हरेः कल्पितायुर्निषेधात् । बहिराब्रह्मणो दिनमिति तस्याप्रस्तुतत्त्वाच्च ॥ ३२ ॥

प्रकाशिका

एवं ब्रह्माहोरात्रयोः स्थितिमुक्त्वेदानीं तदायुःप्रमाणं दर्शयति ॥ एवंविधैरिति । अतिस्थूलप्रमाणैरित्यर्थः । उपलक्षितैर्ज्ञातैः । अत्रास्येत्यनेन प्रकृतस्य हरेः परामर्शे परमायुर्वयः शत-मित्येतद्बाधितार्थकं स्यात् । हरेरायुर्मानाभावस्य वक्ष्यमाणत्वादतस्तत्परामृश्यं दर्शयति ॥ अस्य ब्रह्मण इति । नन्वप्रकृतस्य ब्रह्मणः कथं परामर्श इत्यत आह ॥ ब्रह्मण इति । बहिराब्रह्मणो दिनमिति पूर्वमुक्तत्वाद् ब्रह्मापि प्रकृत एवेति भावः । यद्वा । यावद्दिनं भगवत इत्यत्र भगवतो ब्रह्मणो दिन-मित्युक्तत्वान्न तस्याप्रकृतत्वमित्यर्थः । वयःशतमिति मूले वर्षशतरूपं यत्परनामकमायुस्तदप्यस्य ब्रह्मणोऽपेक्षितमिव हरिसेवोपयोगित्वादपेक्षितम् । वस्तुतः परमविरक्तस्यानपेक्षितमेवेति द्योतनायेवशब्दः

॥ ३२ ॥

यदर्धमायुषस्तस्य परार्धमभिधीयते ।

पूर्वः परार्धोऽपक्रान्तो ह्यपरार्धोऽद्य वर्तते ॥ ३३ ॥

पूर्वस्यादौ परार्धस्य ब्राह्मो नाम महानभूत् ।

कल्पो यत्राभवद् ब्रह्मा शब्दब्रह्मेति यं विदुः ॥ ३४ ॥

पदरत्नावली

ब्रह्मण आयुरधुनैतावद् गतमिति ज्ञापयितुं तदायुर्विभजति– यदर्धमिति ॥ यत्र यस्मिन् कल्पे स ब्रह्मा सर्वस्मात् प्रथममभवत् । पाद्मादिकल्पेषु पद्माद्युत्पत्त्यनन्तरं ब्रह्मोत्पत्तेः । यं ब्राह्मं ब्रह्माणं वा शब्दब्रह्मेति वेदवेद्यमिति विदुः, ज्ञानिन इति शेषः ॥ ३३,३४ ॥

प्रकाशिका

यदर्धमायुष इत्यारभ्य चतुर्भिर्वस्तुस्थितिकथनम् ॥ पूर्वस्य परार्धस्यादौ । ब्रह्मा विराट्संज्ञः । ग्रन्थान्तरविरोधपरिहारायाह ॥ शब्देति । यं ब्रह्माणं शब्दब्रह्मेति वेदवेद्यमिति विदुर्ज्ञानिनः

॥ ३३,३४ ॥

तस्यैव चान्ते कल्पोऽभूद् यं पाद्ममभिचक्षते ।

यद्धरेर्नाभिसरस आसील्लोकसरोरुहम् ॥ ३५ ॥

पदरत्नावली

प्रथमपरार्धावसाने कल्पमाह– तस्यैवेति ॥ यद् यस्मिन् कल्पे ॥ ३५ ॥

प्रकाशिका

पूर्वपरार्धान्ते च जातं कल्पमाह ॥ तस्यैवेति । पूर्वपरार्धस्यैवेत्यर्थः । अन्ते चेत्यन्वयः । पाद्मत्वे हेतुमाह ॥ यदिति । यद्यस्मिन्कल्पे । यस्मादिति वा ॥ ३५ ॥

अयं तु कथितः कल्पो द्वितीयस्यापि भारत ।

वाराह इति विख्यातो यत्रासीत् सूकरो हरिः ॥ ३६ ॥

पदरत्नावली

द्वितीयपरार्धस्याद्यकल्पमाह– अयमिति ॥ द्वितीयपरार्धस्यायं वाराह इति विख्यातः प्रथमः कल्पः ॥ ३६ ॥

प्रकाशिका

द्वितीयपरार्धस्यार्धकल्पमाह ॥ अयं त्विति । द्वितीयपरार्धस्यायं वाराह इति विख्यातः कल्पः । तुशब्दस्तस्याद्यत्वरूपविशेषसूचकः । आद्यत्वेन कथित इत्यर्थः । वाराहत्वे निमित्तमाह ॥ यत्रेति । प्रथममिति शेषः ॥ ३६ ॥

कालोऽयं द्विपरार्धाख्यो निमेष उपचर्यते ।

अव्याकृतस्यानन्तस्य ह्यनादेर्जगदात्मनः ॥ ३७ ॥

तात्पर्यम्

‘नायुर्मानं भगवतः कस्मिन्रूपेऽपि विद्यते । अनादित्वादमध्यत्वादनन्तत्वाच्च सोऽव्यय’ इति हरिवंशेषु ॥ ३७ ॥

पदरत्नावली

हरेः कालमितायुर्मानं नास्तीति स्पष्टयति– काल इति ॥ निमेषस्त्रिलव इत्युपचर्यते न तु परमार्थः, हरेरिति शेषः । तस्य निमेषोऽस्ति चेत् तद्धर्मत्वेन कालाभिभूतत्वमायात-मिति मन्दाशङ्कां प्रत्याह– अव्याकृतस्येति ॥ यः परमाण्वादिर्द्विपरार्धान्तस्तवेरितः कथितः यश्च धाम्नां लोकानां मानिनां ममाहमित्यभिमानवतां ब्रह्मादीनां प्रभुर् अन्यथाकर्ता, ईश्वरः स कालो भूम्नो देशतः कालतो गुणतश्च पूर्णस्य नैवेष्टे नैवैश्वरो न प्रभुर्नान्यथा कर्तुं समर्र्र्थश्चेति यस्मात् तस्माद्ज्ञबोधनाय निमेष इत्युक्तम् । अत एवोपचर्यत इत्युक्तम् । भूमत्वमुपपादयति– अव्याकृतस्येत्यादिना ॥ अव्याकृतस्य निमेषादिविकाररहितस्य । परिच्छिन्नत्वेन विकारसम्भवः स्यादित्यत उक्तम्– अनन्तस्येति ॥ देशाद्यन्तत्रयरहितस्य । ‘आकाशो नीलिमोदेति’ इति श्रुतेरनन्तस्याप्याकाशस्येव जनिमत्त्वं किं न स्यात् ? अत उक्तम्– अनादेरिति ॥ कारणशून्यस्य । विचित्रजगत्सु एकं किं कारणं न स्याद् ? अत उक्तम्– जगदात्मन इति ॥ जगत्स्वामिनः । हीत्यनेनानादित्वादमध्यत्वादनन्तत्वादिति हेतुत्रयं स्मृत्युक्तं सूचितम् । अत्र कालशब्देन बहूनामभिधेयत्वेऽपि सर्वसंहत्रीं श्रीदुर्गैवाभिधीयते । तस्या एव ब्रह्मादिप्रभुत्वात् । अन्यथा चेतनसन्निधानरहितस्य पाषाणादेरपि प्रभुत्वं स्यात्, न चेदं क्वापि दृष्टमित्यभिप्रायेणाचार्यैः ‘यमः कालो मानुषाणां तस्य कालः सुदर्शनः । तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गापि तस्य तु ॥’ इत्याद्युदाहृतम् ॥ ३७ ॥

प्रकाशिका

एवं भगवत्सृष्टानां कालकृतमायुर्मानमुक्त्वेदानीं भगवतो यत्त्रिविधानन्त्यरूपं परममहत्त्वमुक्तं तदुपपादयन्नादौ तावत्कालानन्त्योपपादनाय तस्य कालकृतमायुर्मानं नास्तीत्याह ॥ काल इति । अत्र यत्रासीत्सूकर इति वराहरूपस्य कालकृतपरिच्छेदश्रवणात् । मूलरूप एवायुर्मानाभाव उच्यत इति प्रतीतिवारणाय श्लोकतात्पर्यं प्रमाणेनैवाह ॥ नायुर्मानम् इति । कस्मिन्रूपेऽपीत्यनेन मूले सर्वेषु रूपेष्विति पूरणीयमिति सूचयति । अनादित्वादित्यादिना द्वितीयार्धतात्पयर्मुक्तम् । अव्याकृतस्येत्यस्यार्थः ॥ अमध्यत्वादिति । पञ्चमीप्रयोगेनाव्याकृतस्येत्यादिकं हेतुगर्भमिति दर्शयति । आयुर्मानाभावात्सः सर्वरूपोऽपि भगवान् अव्ययः कालपरिच्छेदशून्य इत्युच्यत इत्यर्थः । तथा चासीदित्यादिप्रयोगो लोकदर्शनमपेक्ष्योपपादनीय इति भावः ॥ ततश्चायं मूलार्थः ॥ निमेषस्त्रिलव इत्युपचर्यते । न मुख्यवृत्त्योच्यते । हरेरिति शेषः । मुख्यत्वाभावे निमित्तमाह ॥ अव्याकृतस्येति । व्याकृतं विकारानन्तरं विद्यमानं मध्यावस्थं न व्याकृतमव्याकृतं तस्येत्यर्थः । हेतुगर्भाणीमानि विशेषणानि । तथा च मध्यावस्थाशून्यत्वादन्तशून्यत्वादादिशून्यत्वादिति हेतुत्रयमायुर्मानाभावे उक्तमिति ज्ञातव्यम् । जगदात्मनो जगदन्तर्यामिणः । सर्वेष्वपि रूपेषु निमेष उपचर्यत इति सम्बन्धः । हिशब्द उक्तप्रमाणप्रसिद्धिद्योतकः ॥

कालोऽयं परमाण्वादिर्द्विपरार्धान्त ईरितः ।

नैवेष्टे यः प्रभुर्भूम्न ईश्वरो धाममानिनाम् ॥ ३८ ॥

तात्पर्यम्

‘यमः कालो मानुषाणां तस्य कालः सुदर्शनः । तस्यापि रुद्रस्तत्कालो ब्रह्मा दुर्गाऽपि तस्य तु । सा ब्रह्मप्रलये देवी वर्तते चक्ररूपिणी । संहरन्ती सदा लोकान्सैव ब्रह्मादिषु स्थिता । तस्या नियामको विष्णुः परः कालः स उच्यते । कालाभिमानिनी सैव प्रभुर्न जगदीशितुः । तस्याः प्रभुः स एवेशो विष्णुः सर्वेश्वरेश्वर’ इति च ॥ ३८ ॥

प्रकाशिका

एवं कालकृतमायुर्मानं हरेर्नास्तीत्युक्त्वेदानीं तदधीनत्वमपि तस्य नास्तीत्याह ॥ कालोऽयमिति । अत्र कालशब्दवाच्यो न जडः कालः । तस्येशितृत्वासम्भवात् । नापीश्वरः । तस्य भूम्न इति पृथगुक्तत्वेनार्थासम्भवात् । नापि यमादिः । तत्र धाममानिनामित्यस्यासम्भवात् । अतोऽत्र विवक्षितं कालं ज्ञापयितुं श्लोकतात्पर्यं प्रमाणेनैवाह ॥ यम इति । सुदर्शनश् चक्राभिमानी कामः । तुशब्दोऽवधारणे । तस्यापि ब्रह्मणोऽपि दुर्गैव कालः संहारकर्त्री । एतदेव दर्शयति ॥ सेति । ग्रन्थान्तरविरोधपरिहाराय चक्ररूपिणीत्युक्तम् । सैव ब्रह्मादिसंस्थिता । प्रेरणायेति शेषः । अनेन धाममानिनामीश्वर इत्येतदुक्ततात्पर्यम् । प्रभुरित्यस्य तात्पर्यं तस्या नियामक इति । स कालो भूम्नो नैवेष्ट इत्यस्य तात्पर्यम् ॥ कालाभिमानिनीति । निगमयति ॥ तस्या इति । अनेन मूले दुर्गैव कालाभिमानिनी कालशब्दवाच्यतया ग्राह्या । अन्यथा वाक्यार्थासंभवादिति ज्ञापितं भवति ॥ ततश्चैवं श्लोकयोजना ॥ योऽयं कालः कालाभिमानिनी सर्वसंहर्त्री दुर्गेरितः पूर्वं परमाण्वादिद्विपरार्धान्तस्तव कथितोऽस्या अपि पूर्वग्रन्थे दार्ष्टान्तिकान्तर्भूततयाऽभिप्रेतत्वात् । यश्च धाममानिनां लोकाभिमानिनां ब्रह्मादीनामीश्वरः सा दुर्गा भूम्नः पूर्णगुणस्य हरेर्नैवेष्टे प्रेरणाय न समर्था । यतः स भूमैव तस्याः प्रभुरिति मूलं योज्यमिति भावः ॥ ३८ ॥

विकारैः षोडशैर्युक्तो विशेषादिभिरावृतः ।

आण्डकोशो बहिरयं पञ्चाशत्कोटिविस्तृतः ॥ ३९ ॥

दशोत्तराधिकैर्यत्र प्रविष्टः परमाणुवत् ।

लक्ष्यन्तेऽन्तर्गताश्चान्ये कोटिशो ह्यण्डराशयः ॥ ४० ॥

तात्पर्यम्

‘दशेन्द्रियाणि च मनो भूतान्यण्डगतानि तु । विकारा इति विज्ञेया भूताहंमहतः पर’ इति च ॥ ‘पृथिवीं विशेष इत्याहुः शब्दादीनां बहुत्वतः । सा सूक्ष्मत्वाद्वृणोत्यण्डं द्विगुणा तु दशोत्तराः । अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृता’ इति च । अन्तर्गताः शरीराणि । शरीराणां बहुत्वेन अतीतानागतैस्तथा । अस्यैव देवकायेषु प्रतिप्रति च दर्शनात् । विष्णु-सामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेदि’ति ब्रह्मतर्के ॥ ‘एकमण्डं बहुत्वेन प्रत्येकं रोम-कूपगम् । ब्रह्माऽपश्यत्तथाऽऽत्मानं हरेस्तेषु पृथक्पृथगि’ति ब्रह्माण्डे ॥ ‘बृहदण्डमभूदेकमि’ति च भारते ॥ ३९,४० ॥

पदरत्नावली

प्रकारान्तरेण भगवन्माहात्म्यं कथयति– विकारैरिति ॥ अन्तः दशेन्द्रिय-पञ्चभूतमनआख्यैः षोडशविकारैर्युक्तः । ‘दशेन्द्रियाणि च मनो भूतान्याण्डगतानि तु । विकाराः’ इति वचनात् । बहिर् द्विगुणया विशेषनाम््नया पृथिव्या आवृतः । ततः परत आदिशब्दगृहीतैर् दशोत्तरैर् अप्तेजोवाय्वाकाशाहङ्कारमहत्तत्वप्रकृतिभिः पृथिव्या सहाष्टप्रकृतिसंज्ञां गतैरावृतः । ‘पृथ्वीं विशेष इत्याहुः शब्दादीनां बहुत्वतः । सा सूक्ष्मत्वाद् वृणोत्यण्डं द्विगुणा तु दशोत्तरः । अबादयः प्रकृत्यन्ता अष्ट प्रकृतयः स्मृताः ॥’ इति च । कियत्सङ्ख्याविस्तार इत्यत उक्तम्– पञ्चाशदिति ॥ एवंविधोऽण्ड-कोशोऽयं यत्र हरौ प्रविष्टः परमाणुवल्लक्ष्यते तस्मिन्नण्डकोशेऽन्तर्गताश्चान्ये च कोटिशो हरेः शरीररूपा अण्डराशयो लक्ष्यन्ते ॥ ३९-४० ॥

प्रकाशिका

एवं कालकृतायुर्मानाभावेन कालानन्त्यमुपपाद्य तस्य देशानन्त्यमुपपादयति ॥ विकारैरिति । अत्र विकारशब्देन विशेषादिशब्देन च भूतादीनां ग्नहणेऽण्डकोशस्य तद्युक्तत्वं तदावृतत्वं चोच्यमानं विरुद्धमतस्तद्धटनाय प्रमाणमेव पठति ॥ दशेन्द्रियाणीति । तुशब्दोऽवधारणे । अण्ड-गतान्येवोपादानतयाऽण्डानुस्यूतान्येव । विकारा इति बहुवचनान्तेन शब्देन वाच्यतया विज्ञेयानि । भूताहंमहतो भूतानि चाहं च महांश्च भूताहंमहान्तः । सुपां सुलुगित्यादिना जसः शसादेशः । अतो महत इति द्वितीयाबहुवचनं साधु । परेऽनुपादानभूता ब्रह्माण्डाद्बहिरपि सन्तीत्यर्थः। तथा चोपादान-तयाऽनुस्यूतैर्भूतादिभिर्युक्तत्वं बहिर्विद्यमानैरावृतत्वमतो न विरोध इति भावः ।

ननु विशेषादिभिरित्यत्र विशेषशब्दाभिधेयं पृथिवी चेत्तस्यास्तच्छब्दवाच्यत्वे किं निमित्तम् । तस्या आदिपदेन गृहीताबादीनां च परिमाणं किं सममुत विषममिति शङ्कापरिहाराय प्रमाणमेव पठति ॥ पृथिवीमिति । शब्दादीनां गुणानां बहुत्वतः पञ्चत्वसङ्ख्यायाः सत्वादित्यर्थः । परान्वयेन शब्दादि-पञ्चगुणाधारत्वात् पृथिवीविशेषशब्दवाच्येति भावः । सा पृथिवी द्विगुणा । अण्डकटाहापेक्षया द्विगुणा सती अण्डं वृणोत्यावृणोति । नन्वण्डस्यापि तथात्वे कथमावृतत्वमित्यत आह ॥ सूक्ष्मत्वादिति । अण्डकटाहस्येति शेषः । तथा चाण्डकटाहापेक्षया द्विगुणा पृथिवी । अतस्तस्यास्तदावरकत्वं युक्तमिति भावः । यद्वा । असूक्ष्मत्वादिति पदच्छेदः । अण्डापेक्षयेति शेषः । अबादयः प्रकृत्यन्ताः । गुण-त्रयान्तास्तु दशोत्तरा दशगुणितपरिमाणाः । अतस्तेषां युक्तं पूर्वावरकत्वम् । ग्रन्थान्तरविरोधपरिहारा-याह । अष्टप्रकृतय इति । यत्राष्टप्रकृतिभिरावृतत्वमुक्तं तत्राप्यष्टप्रकृतिशब्देनोपादनत्वनिमित्तेन विशेषादय एव प्रकृत्यन्ता विवक्षिताः । अतो न विरोध इति भावः ॥

ततश्चायं श्लोकद्वयार्थः ॥ विक्रीयन्त इति विकारा एकादशेन्द्रियपञ्चभूताख्यास्तैः षोडशैः षोडश-सङ्ख्याकैर्युक्तो विकृतः । विशिष्यत इति विशेषः पृथिवी साऽऽदिर्येषां ते तथोक्तास्तैः । अतद्गुण-संविज्ञानत्वेनाबादिभिर्बहिरपि विद्यमानैर्दशोत्तराधिकैर् आवृतः पञ्चाशत्कोटिविस्तृतोऽयमण्डकोशो यत्र हरौ प्रविष्टः परमाणुवल्लक्ष्यते । न केवलमयमेक एवाण्डकोशः सावरणे हर्यंतर्गतः किं त्वन्येपीत्याह ॥ लक्ष्यन्त इति । ब्रह्मणा दृश्यन्त इत्यर्थः । अनेन योगिप्रत्यक्षं प्रमाणमत्र दर्शयति । हिशब्दः प्रमाण-प्रसिद्धिद्योतकः । अत्र युगपदेव ब्रह्माण्डबहुत्वमुक्तं तत्कथमित्यतस्तदुपपादयितुमपेक्षितं पूरयति ॥ अन्तर्गता इति । अत्र शरीराणीति द्वितीयान्तपदमध्याहृतम् । तथा च शरीराण्यन्तर्गताः शरीराणामन्तः कोटिशो ह्यण्डराशयो गताः प्रविष्टा इति । विष्णुशरीरबहुत्वेन तद्गतानामण्डानां बहुत्वमित्युक्तं भवति । उक्तमर्थमर्थान्तरं च प्रतिपादयत्प्रमाणं पठति ॥ शरीराणामिति । विष्णुशरीराणामित्यर्थः । बहुत्वे-नाण्डानां बहुत्वमुच्यमानं भवेदित्यन्वयः । प्रकारान्तरमाह ॥ अतीतानागतैरिति । अण्डानां बहुत्वं भवेदित्यन्वयः । तथा च मूलेऽतीतानागतब्रह्माण्डाभिप्रायेण वा लक्ष्यन्तेऽतर्गताश्चान्य इत्युक्तमिति भावः ।

ननु शरीराणां बहुत्वेऽपि कथमण्डानां बहुत्वमित्यतस्तदुपपादयति ॥ अस्यैवेति । देवस्य विष्णोः कायेष्वस्यैकस्यैव ब्रह्माण्डस्य प्रतिप्रतिकायं विष्णुसामर्थ्यतो दर्शनाच्चाण्डानां बहुत्वं भवेत् । अन्यथा घटादिवद्भिन्नानां बहुत्वं बहुत्वोक्तेरर्थो न भवेदित्यर्थः । एवं विष्णुशरीरबहुत्वेनाण्डबहुत्वमुपपाद्येदानी-मेकस्मिन्नेव विष्णुशरीरे रोमकूपबहुत्वेनापि तदुपपादयत्प्रमाणं दर्शयति ॥ एकमण्डमिति । हरेः रोमकूपगमिति सम्बन्धः । प्रत्येकमित्यस्य रोमकूपेत्यनेन बुद्ध्या विविक्तेनान्वयः । तेषु प्रत्येकं रोमकूप-गेषु ब्रह्माण्डेषु तथाऽण्डवदात्मानं च पृथक् पृथक् स्थितं ददर्शेत्यर्थः । एकस्यैवाण्डस्यानेकत्वे प्रमाणान्तरमप्याह बृहदण्डमिति । एकमण्डं बृहदनेकमभूदित्यर्थः ॥ ३९,४० ॥

यमाहुरक्षरं ब्रह्म सर्वकारणकारणम् ।

विष्णोर्धाम परं साक्षात् पुरुषस्य महात्मनः ॥ ४१ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे द्वादशोऽध्यायः ॥

तात्पर्यम्

**धाम गृहमण्डराशयः ॥ ४१ ॥ **

इति तृतीयतात्पर्ये द्वादशोऽध्यायः ॥ १२ ॥

पदरत्नावली

परमाणुपरममहच्छब्दवाच्यः पदार्थः साक्षान्नारायण एव न पार्थिवाद्यन्यतम इत्याह– यमिति ॥ यम् अण्डाधारं भगवन्तम् अक्षरं ब्रह्म सर्वकारणानां ब्रह्मादीनामपि कारणमाहुः, तस्य महात्मनः महत् परिमाणोपेतस्य साक्षात् पुरुषस्यात्यन्ताणुतरशरीरेषु सरणाद् वर्तमानात् पुरुषनाम्नो विष्णोरयमण्डकोशः परं धाम केवलगृहवद् वर्तते । हिशब्देन तदन्तर्गता अण्डराशयोऽपि गृहवद् वर्तमानाः । एकमेवाण्डं बहुत्वेन प्रत्येकं रोमकूपगतत्वादनन्तमित्यादि विशेषस्मृतिप्रसिद्धं सूचयति । तदुक्तम्– ‘अन्तर्गताः शरीराणि । शरीराणां बहुत्वेन अतीतानागतैस्तथा । अस्यैव देवकायेषु प्रति प्रति च दर्शनात् । विष्णुसामर्थ्यतोऽण्डानां बहुत्वं नान्यथा भवेद् ॥’ इति । ‘एकमण्डं बहुत्वेन प्रत्येकं रोमकूपगम् । ब्रह्माऽपश्यत् तथाऽत्मानं हरेस्तेषु पृथक् पृथक् ॥’ इति च । अतोऽतीतानागत-वर्तमानानन्तब्रह्मादिपरमभागवतैरनवरतागणिताचिन्त्यमहिमत्वादायुर्मानहीत्वात् तस्य देशकालगुणानन्त्य-ज्ञानस्यानन्तकालीनतत्सामीप्यादिनिर्वाणमुख्यसाधनत्वात् तस्मिन् निरतिशयभक्त्या तज्ज्ञानं सर्वथा संपाद्यं मुमुक्षुणेति भावः ॥ ४१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे द्वादशोऽध्यायः ॥

प्रकाशिका

इदानीं गुणतोऽप्यानन्त्यं हरेर्दर्शयन् ब्रह्माण्डाधारे तस्मिन् ब्रह्माण्डान्तर्गतत्व-मप्यस्तीत्याह ॥ यमाहुरिति । अत्र यमाहुस्तद्धामेत्यन्वयभ्रमवारणायान्वयं दर्शयन् अत्र विवक्षितं धाम शब्दार्थमाह ॥ धामेति । तथा चाण्डराशय इति पूर्वानुवृत्त्याऽन्वय इति भावः ॥ ततश्चायं मूलार्थः ॥ यमक्षरं देहनाशरहितं सर्वकारणानां ब्रह्मादीनां कारणं विष्णुं ब्रह्म गुणपूर्णमाहुस्तस्य महात्मनः पुरुषस्य विष्णोरण्डराशयो धाम गृहभूताः । आश्रया इति यावत् । तथा चाण्डान्तर्बहिश्चास्तीति तस्य देशत आनंत्यं युक्तमिति भावः ॥ ४१ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां द्वादशोऽध्यायः ॥ ३-१२ ॥