११ एकादशोऽध्यायः

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः

अथ एकादशोऽध्यायः

विदुर उवाच–

अन्तर्हिते भगवति ब्रह्मा लोकपितामहः ।

प्रजाः ससर्ज कतिधा दैहिकीर्मानसीर्विभुः ॥ १ ॥

पदरत्नावली

अस्मिन्नध्याये नवविधसृष्टिकथनेन निरतिशयमहिमा हरेरुच्यते । तत्र शुको मैत्रेयं प्रति विदुरः पृच्छतीति परीक्षितमाह– अन्तर्हित इति ॥ दैहिकीर्मानसीरिति देहमनोभ्यां सृष्टाः ॥ १ ॥

प्रकाशिका

अन्नर्हित इति ॥ दैहिकीर्मानसीरिति देहमनोभ्यां सृष्टाः ॥ १ ॥

ये च मे भगवन् पृष्टास्त्वय्यर्था बहुवित्तम ।

तान् वदस्वानुपूर्व्येण छिन्धि नः सर्वसंशयान् ॥ २ ॥

प्रकाशिका

मे मया । त्वयि वक्तृतयोपस्थिते सति । वदस्व वद ॥ २ ॥

शुक उवाच–

एवं सञ्चोदितस्तेन क्षत्त्रा कौषारवो मुनिः ।

प्रीतः प्रत्याह तान् प्रश्नान् हृदिस्थानथ भार्गव ॥ ३ ॥

पदरत्नावली

हृदिस्थान्, विदुरस्येति शेषः ॥ ३ ॥

प्रकाशिका

सञ्चोदितः प्रार्थितो हृदिस्थान्स्वहृदि विद्यमानान् । अविस्मृतानिति यावत् । भो भार्गव शौनक ॥ ३ ॥

मैत्रेय उवाच–

विरिञ्चोऽपि तथा चक्रे दिव्यं वर्षशतं तपः ।

आत्मन्यात्मानमावेश्य यथाऽऽह भगवानजः ॥ ४ ॥

तात्पर्यम्

आत्मनि परमेश्वरे मन आवेश्य ॥ ४ ॥

पदरत्नावली

भूयश्च तप आतिष्ठेति हरिणा यदुक्तं तदाज्ञाकरणप्रकारमाह– विरिञ्चोऽपीति ॥ आत्मनि परमेश्वरे । आत्मानं मनः । अवेश्य निधाय ॥ ४ ॥

प्रकाशिका

आत्मन्यात्मानमित्यात्मशब्दद्वयस्यात्माश्रयत्वपरिहारायार्थभेदं दर्शयति ॥ आत्मनीति । आत्मानमित्यस्यार्थः मन इति । अन्यथाऽवेश्येति क्रियाऽनुपपन्नेति दर्शयितुमावेश्येत्येस्यानुवादः ॥ ४ ॥

तद् विलोक्याब्जसम्भूतो वायुना यदधिष्ठितम् ।

पद्ममम्भश्च तत्कालकृतवीर्येण कम्पितम् ॥ ५ ॥

पदरत्नावली

यदात्मनाऽधिष्ठितं तत्पद्मं तत्कालकृतवीर्येण प्रबोधकालकृतपराक्रमेण, तीव्रे-णेत्यर्थः । वायुना कम्पितमम्भश्च कम्पितं विलोक्य ॥ ५ ॥

प्रकाशिका

यत्स्वेनाधिष्ठितं तत्पद्ममंभश्च विलोक्य । कथंभूतम् । स चासौ कालश्च तत्कालः प्रलयकालस्तेन कृतं वीर्यं पराक्रमो यस्य स तथोक्तः । तेन वायुना कंपितम् ॥ ५ ॥

तपसा ह्येधमानेन विद्यया चात्मसंस्थया ।

विवृद्धविज्ञानबलो न्यपाद् वायुं सहाम्भसा ॥ ६ ॥

पदरत्नावली

मूलोन्मूलनन्यायेन अम्भसा सह वायुं न्यपादित्यन्वयः । ‘निपानमुदपानं स्यादापानं पानगोष्ठिकः’ इति हलायुधः ॥ ६ ॥

प्रकाशिका

विवृद्धे विज्ञानबले यस्य स तथोक्तः । न्यपात्पीतवान् ॥ ६ ॥

तद् विलोक्य वियद्व्यापि पुष्करं यदधिष्ठितः ।

अनेन लोकान् प्राग्लीनान् कल्पिताऽस्मीत्यचिन्तयत् ॥ ७ ॥

पदरत्नावली

हरिणा स्रष्टुमुपदिष्टो ब्रह्मा संहर्तुमुपक्रमते किमिदं हन्तेत्याशङ्क्य सर्गाविरोधित्वात् तयोः पानं युक्तमिति भावेनाह– तद् विलोक्येति ॥ वियद्व्यापि आकाशवन्महत्परिमाणोपेतम् ॥ ७ ॥

प्रकाशिका

कल्पितास्मि स्रक्ष्यामि ॥ ७ ॥

पद्मकोशं तदाविश्य भगवान् कर्मचोदितः ।

एकं व्यभाङ्क्षीदुरुधा त्रिधा भाव्य द्विसप्तधा ॥ ८ ॥

पदरत्नावली

एकेन पद्मेन त्रित्वादिङ्ख्याविशिष्टलोकरचनं कथमिति तत्राह– पद्मकोशमिति ॥ यदाऽचिन्तयत् तदैव चतुर्दशभुवननिर्माणनिमित्तेन कर्मणाऽदृष्टेन चोदितः कर्मणा विषयभूतेन हरिणा प्रेरितो भगवान् ज्ञानवैराग्यादिगुणशाली पद्मकोशमाविश्य एकत्वङ्ख्याविशिष्टमुरुधा बहुत्वङ्ख्याविशिष्टत्वेन व्यभाङ्क्षीद् विभक्तवान् । किमनन्तङ्ख्याविशिष्टमकरोत् ? नेत्याह– त्रिधेति ॥ भूम्यन्तरिक्षस्वर्गात्मना त्रिधा भाव्य कृत्वा तत् त्रयं पुनर्द्विसप्तधा चतुर्दशभुवनात्मना, विभक्तवानिति शेषः ॥ ८ ॥

प्रकाशिका

भगवान् ब्रह्मा कर्मणा लोकजनकादृष्टेन चोदितः प्रेरितः कर्मणि जगत्सर्जनरूपे चोदितो हरिणेति वा । एकं पद्ममुरुधाऽनेकप्रकारेण व्यभाङ्क्षीद्विबभाज । उरुधेत्युक्तमेव विवृणोति ॥ त्रिधेति । त्रिधा भूम्यन्तरिक्षस्वर्गात्मना भाव्य कृत्वा द्विसप्तधा चतुर्दशभुवनात्मना । व्यभाङ्क्षी-दित्यनुवर्तते । चतुर्दशभुवनात्मना विभागपक्षे सत्यलोकस्योपचयमात्रमिति द्रष्टव्यम् ॥ ८ ॥

एतावान् जीवलोकस्य संस्थाभेदः समासतः ।

धर्मस्य ह्यनिमित्तस्य विपाकः परमेष्ठिनः ॥ ९ ॥

तात्पर्यम्

अनिमित्तस्य ब्रह्मार्पणबुद्ध्या कृतस्य । ‘अ इति ब्रह्मे’ति श्रुतेः ॥ ९ ॥

पदरत्नावली

न्यूनातिरेकसङ्ख्यां निषेधति– एतावानिति ॥ जीवानां लोकस्यावस्थानस्य संस्थाभेदः व्यवस्थाविभागः, समासतः संक्षेपतः, मया तव कथित इति शेषः । इदमपि न स्वशक्त्या कृतमित्याह– धर्मस्येति ॥ परमेष्ठिनो ब्रह्मणोऽनिमित्तस्य ‘अ निषेधे पुमान् विष्णौ’ इत्यभिधानाद् अः परमात्मा निमित्तं यस्य सोऽनिमित्तः, तस्य ब्रह्मार्पणबुद्ध्या कृतस्येत्यर्थः । धर्मस्य विपाकः विशिष्ट-फलमिति विद्धीति शेषः । ‘अः इति ब्रह्म’ इति श्रुतेर् निर्निमित्तो नार्थः । तपआदीनां भगव-द्विषयत्वोक्तेः ॥ ९ ॥

प्रकाशिका

एवमेव विभागे हेतुमाह ॥ एतावानिति । जीवलोकस्य जीवावस्थानयोग्यलोकस्य संस्थाभेदः स्थितिविशेष एतावान् एतावानेव । अत एवमेव विभागः कृत इति भावः । वैकुण्ठं ब्रह्माण्डबाह्यदेशं च व्यावर्तयितुं समासत इत्युक्तम् । नन्वन्यैः कर्तुमशक्योऽयं लोकविभागः । कथमनेनैव कृत इत्याशङ्कायां तदीयपूर्वार्जितपुण्यफलरूपोऽयमित्याह ॥ धर्मस्येति । अत्रानिमित्तस्येत्यस्य न विद्यते निमित्तं यस्येति व्याख्यानवारणायार्थमाह ॥ अनिमित्तस्येति । तथा च अः परब्रह्म निमित्तमुद्देश्यं यस्येति विग्रहलब्धार्थकथनमेतत् । अशब्दस्य ब्रह्मवाचकत्वे स्यादिदं तदेव कुत इत्यत आह ॥ अ इति । श्रुतेरशब्दो ब्रह्मवाचीत्यवगम्यत इति शेषः । निषेधार्थत्वं तु बाधितम् । लोकानां विजयेच्छये-त्युद्देश्यस्योक्तत्वादिति भावः ॥ ९ ॥

विदुर उवाच–

यदात्थ बहुरूपस्य हरेरद्भुतकर्मणः ।

कालाख्यं लक्षणं ब्रह्मन् यथा वर्णय नः प्रभो ॥ १० ॥

तात्पर्यम्

‘लक्षणं लक्ष्यमात्मा च स्वरूपमिति कथ्यत’ इत्यभिधानम् ॥ १० ॥

पदरत्नावली

श्रुतहरिमहिमा विदुरः कथान्तरप्रसङ्गेन मैत्रेयः भगवत्कथां समापयतीति भीत्या मैत्रेयं पृच्छति– यदिति ॥ बहुरूपस्यानन्तरूपस्य हरेः कालाख्यं लक्षणं स्वरूपं यथा यथावत् । ‘लक्षणं लक्ष्यमात्मा च स्वरूपमिति कथ्यते’ इत्यभिधानान्नान्योऽर्थः किन्तु स्वरूपमेव ॥ १० ॥

प्रकाशिका

यदात्थेति । अत्र लक्षणशब्दस्य स्वरूपार्थत्वमेव नासाधारणधर्मत्वमित्याशयेन तस्य स्वरूपार्थत्वेऽभिधानमाह ॥ लक्षणमिति । स्वरूपं लक्षणं लक्ष्यमात्मेति शब्दैः कथ्यत इत्यर्थः । तथा च ब्रह्मरुद्रविष्णुसंज्ञानि सकलकार्यनियामकानि वा रूपाणि यस्य तस्य यत्कालाख्यं स्वरूपम् अहं च गिरिशश्च विभुः स्वयं चेति उरुप्ररोह इति च बहुरूपत्वेनोक्तस्यैव अनिमिषायेत्यनिमिषशब्देन ब्रह्मस्तुतिकथनव्याजेनात्थ तानि बहूनि रूपाणि तत्कालाख्यं स्वरूपं च यथा यथावद्वर्णयेति मूलार्थ इति भावः ॥ १० ॥

मैत्रेय उवाच–

गुणव्यतिकराकारो निर्विशेषोऽप्रतिष्ठितः ।

पुरुषस्तदुपादानमात्मानं लीलयाऽसृजत् ॥ ११ ॥

तात्पर्यम्

गुणव्यतिकरमाकरोति तद्द्रष्टा । अप्रतिष्ठितोऽन्यत्र । ‘स भगवः कस्मिन्प्रतिष्ठित इति स्वे महिम्नी’ति श्रुतेः । तदुपादानम् । गुणव्यतिकरोपादानकर्तारम् । सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य ब्रह्मविष्णुमहेश्वर इति त्रीणि रूपाण्यात्मना सृष्टानि ॥ ११ ॥

पदरत्नावली

कालस्य सर्वप्रवर्तकत्वेन प्रधानत्वात् सूचीकटाहन्यायेन तत्स्वरूपं वक्ष्यन् मैत्रेयम् आदौ जगत् सृष्ट्याद्यर्थं गुणत्रयोपादानकर्तृभगवद्रूपत्रयप्रादुर्भावप्रकारं वक्ति– गुणेति ॥ प्रलये गुणानां द्रष्टृत्वेन स्थितो गुणानां व्यतिकरं विकारविशेषं सम्यक्करोतीति गुणव्यतिकराकारः । कर्मव्यण्प्रत्ययः । पुरुषः पूर्णषड्गुणः, अत एव निर्विशेषः निर्विकारोऽधिकान्तररहितो वा अत एवाप्रतिष्ठितः, अन्यत्रेति शेषः । ‘स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिमि्न’ इति श्रुतेः । तस्य गुणव्यतिकरस्योपादानं स्वीकारो येन स तथा तं गुणव्यतिकरोपादानकर्तारमित्यर्थः । त्रिरूपत्वेनात्मानं लीलयाऽसृजद् आविर-भावयत् ॥ ११ ॥

प्रकाशिका

तत्र तावदुक्तविधानि हरेर्बहूनि रूपाणि कालाख्यं च रूपं दर्शयन् अण्डबाह्या-भ्यन्तरसृष्टिं निरूपयत्यस्मिन्नध्याये । तत्रादौ तावत्सृष्ट्याद्यर्थं गुणत्रयोपादानकर्तॄणि त्रीणि रूपाणि भगवता प्रकृटीकृतानीत्याह ॥ गुणेति । तत्र गुणव्यतिकराकार इत्यस्याप्रतिपत्तिविप्रतिपत्तिनिरासाय विवक्षितमर्थं दर्शयति ॥ गुणव्यतिकरेति । गुणव्यतिकरं गुणवैषम्यम् । सृष्टिरिति यावत् । आ सम्यक्करोतीति गुणव्यतिकराकार इति शेषः ।

नन्वत्र सृष्टेःपूर्वं विद्यमानस्य पुरुषस्य स्थितिरुच्यते । तस्य कथं करोतीति कर्तृत्वमुक्तमित्यत-स्तात्पर्यं दर्शयति ॥ तद्द्रष्टेति । अत्र करणं नाम तद्विषयकं सम्यग्दर्शनमेव विवक्षितम् । तेन भाविगुण-व्यतिकरोपादानतया गुणत्रयद्रष्टेत्येवार्थ इत्यर्थः । अनेन तां नारायणः पर्यपश्यदिति श्रुतिरप्यनुसृतेति ज्ञातव्यम् । मूले निर्विशेषो विशिष्यत इति विशेषः । स्वापेक्षया विशिष्टरहितो निर्विकार इति वा । अप्रतिष्ठित इत्यस्यासम्भवपरिहारायापेक्षिताध्याहारं दर्शयति ॥ अप्रतिष्ठितोऽन्यत्रेति । स्वस्मिन्नेव प्रतिष्ठित इत्यर्थः । अत्र श्रुतिसंमतिमाह ॥ स भगव इति । भो भगवः । स परमात्मा कस्मिन्नाश्रित इति प्रश्ने स्वे महिम्नीत्युत्तरमित्यर्थः । अत्र स्व इत्येव वक्तव्ये महिम्नीति वचनमेकस्यैवाश्रयत्वमाश्रितत्वं चोपपादयितुम् । श्रुतेः स्वाश्रितत्वम् अवगम्यत इति शेषः । तदुपादानमित्यस्य गुणव्यतिकरस्योपादान-कारणमित्यन्यथाप्रतीतिवारणाय विवक्षितमर्थं दर्शयति ॥ तदुपादानमिति । गुणव्यतिकरपदं स्थिति-प्रलययोरप्युपलक्षकम् । तथा च गुणव्यतिकरादिकमुपादत्ते उद्देश्यं करोतीति तदुपादानस्तमिति मूलार्थ इति भावः । एतदेव दर्शयन् वाक्यार्थमाह ॥ सृष्ट्याद्यर्थत्वेनेति । गुणव्यतिकरशब्दार्थः ॥ सृष्टीति । तस्योपलक्षकत्वद्योतनाय आदीति स्थितिप्रलयोक्तिः । अर्थत्वेनेत्यनेन तदुपपादनं तदुद्देश्यकरणमिति सूचयति । तस्य पुरुषस्य रूपाणि स्वरूपाणि । अनेनात्मानमित्यात्मशब्दः स्वरूपपरः । स्वरूप-समुदायापेक्षया एकवचनमित्युक्तं भवति । आत्मना स्वेन । सृज्यसर्जकरूपयोरभेदसूचनायेदम् । अन्यथा पुरुषेणेत्येव वक्तव्यम् । सृष्टानि व्यक्तीकृतानि । इत्यर्थ इति शेषः ॥ ११ ॥

विश्वं वै ब्रह्मतन्मात्रं संस्थितं विष्णुमायया ।

ईश्वरेण परिच्छिन्नं कालेनाव्यक्तमूर्तिना ॥ १२ ॥

तात्पर्यम्

ब्रह्मनिर्मातृकम् । मायया सामर्थ्येन । तत्र यत्संहर्त्रीश्वराख्यं रूपं तत्कालाख्यम् । कल छेदन इति धातोः । ‘अथ त्रयी वाव प्रकृतिः सत्वं रजस्तम इति तां नारायणः पर्यपश्यदनन्यप्रतिष्ठस् तं वा एतमाहुः पुरुष इति पूर्णो ह्येष भवति स त्रेधा बभूवैषां गुणा-नामुपादानाय विष्णुर्वाव सत्वस्य रजसो ब्रह्मेशानो नाम तमसः स आविवेश । ब्रह्मा ब्रह्माणं नाम चतुर्मुखम् ईश ईशानं नाम पञ्चमुखं यो वा ईश ईशानमाविवेश तं वा एनं काल इत्या-चक्षते काल इत्याचक्षत’ इति सौकरायणश्रुतिः ॥ १२ ॥

पदरत्नावली

स्वार्थाभावेऽप्यन्यस्य किम्प्रयोजनमुद्दिश्य रूपान्तरग्रहणं हरेरिति तत्राह– विश्वमिति ॥ सृष्ट्याद्यर्थत्वेन तस्य पुरुषस्य ब्रह्मा विष्णुरीश्वर इति त्रीणि रूपाण्यात्मना सृष्टानीत्यने-नोच्यते । तथाहि– विश्वं ब्रह्मतन्मात्रं वै, ब्रह्माणं सृष्ट्वा चतुर्मुखत्वेन तं प्रविश्य सृष्टिबृंहणाद् ब्रह्मनाम्ना तेन विष्णुना मितं त्रातं चेति तथोक्तम् । विष्णुनाम्नो हरेर्मायया सामर्थ्येन संस्थितं व्यवस्थापितं, स्वस्वाधिकार इति शेषः । अत्र यदीश्वराख्यं संहर्तृरूपं तत् कालाख्यम् । तेन रुद्रं सृष्ट्वा पञ्चमुखत्वेन तं प्रविश्य कालेन संहर्त्रा अव्यक्तमूर्तिना चक्षुराद्यगम्यस्वरूपेण हरिणा परिच्छिन्नं संहृतमित्यन्वयः । चतुर्मुखं सृष्ट्वा तं प्रविश्य स्वयं चतुर्मुखो ब्रह्मनामा हरिः सृष्टये रजोगुणमुपादत्ते, अन्यरूपप्रवेशमन्तरेण स्वयं विष्णुनामा रक्षार्थं सत्वमुपादत्ते । पञ्चमुखमीशानं सृष्ट्वा पञ्चमुखस्तं प्रविश्येश्वरनामा हरिः संहारार्थं तमोगुणमुपाददातीति तात्पर्यार्थोऽपि वा इत्यनेन श्रुतिप्रसिद्धिद्योतकेन ज्ञायते । ‘अथ त्रयी वाव प्रकृतिः सत्त्वं रजस्तम इति । तां नारायणः परिपश्यत्यन्यप्रतिष्ठस्तं वा एनमाहुः पुरुष इति पूर्णो ह्येष भवति । स त्रेधा बभूवैषां गुणानामुपादानाय विष्णुर्वा व सत्त्वस्य रजसो ब्रह्मेशो नाम तमसः । स आविवेश ब्रह्मा ब्रह्माणं चतुर्मुखम् ईशम् ईशानं पञ्चमुखम् । यो वा ईशम् ईशानमाविवेश तं वा एतं काल इत्याचक्षते काल इत्याचक्षते’ इति सौकरायणश्रुतिः ॥ १२ ॥

प्रकाशिका

सृष्ट्याद्यर्थत्वेनेत्युक्तम् । तत्र किं रूपं कस्य कर्तृ इत्यपेक्षायां तदेव विविच्य दर्शयति ॥ मूले विश्वमिति । अत्र ब्रह्मतन्मात्रमित्यस्य ब्रह्मैव केवलमित्यन्यथाप्रतीतिनिरासाय तात्पर्य-माह ॥ ब्रह्मेति । ब्रह्मा ब्रह्मान्तर्गतो ब्रह्मनामा पुरुषो निर्माता जनको यस्य तदित्यर्थः । अनेन ब्रह्मणा ब्रह्मान्तर्गतेन ब्रह्मनामकेन तेन पुरुषेण मात्रं निर्मितमिति मूलव्याख्यानं सूचयति । माययेत्यस्याविद्या-परत्वप्रतीतिवारणायार्थमाह ॥ माययेति । तथा च विष्णुरूपस्य पुरुषस्य मायया सामर्थ्येन संस्थितं सम्यक् स्थितं तत्पालितमिति मूलार्थ इति भावः । ईश्वरेण रुद्राविष्टेनेश्वरनामकेन रूपेण परिच्छिन्नं परितो नाशितं संहृतमित्यर्थः । अत्रेश्वरस्य कालेनेति विशेषणाभिप्रायमाह ॥ तत्रेति । रूपत्रयमध्ये कालाख्यमिति दर्शयितुं कालेनेति विशेषणमुक्तमिति भावः । तथा च कालाख्यं लक्षणं वर्णयेति यत्प्रार्थितं तस्यापीदमुत्तरमिति दर्शयितुं कालेनेत्युक्तमिति भावः । रुद्रदेहान्तर्गतत्वादव्यक्तमूर्तिनेत्युक्तम् । संहर्तृरूपस्य कालाख्यता कुत इत्यत आह ॥ कल छेदन इति । धातोर्धातुव्याख्यानात् । गुणव्यति-कराकार इत्यादिनोक्तार्थे श्रुतिसंवादं दर्शयति ॥ अथेति । गुणानां गुणकार्याणां सृष्ट्यादीनामुपादानाय तल्लक्षणप्रयोजनायेत्यर्थः । सत्त्वादिशब्दा अपि तत्कार्यस्थित्यादिपराः । ननु सृष्टिसंहारयोः कर्तृत्वेन चतुर्मुखपञ्चमुखयोरेव प्रसिद्धत्वात्कथं विष्णुरूपयोस्तदुच्यत इत्यतस्तयोस्तत्प्रसिद्धौ निमित्तमाह ॥ स आविवेशेत्यादिना । ब्रह्मा ब्रह्मनामा विष्णुरीश ईशनामा सः । अत्र पर्यपश्यदित्यन्तेन गुणव्यति-कराकार इत्येतदुक्तार्थम् । अनन्यप्रतिष्ठ इत्यनेन अप्रतिष्ठित इत्येतत् । पूर्णो हीत्यादिना पुरुष इत्येतत् । स त्रेधा बभूवेत्यनेनात्मानं लीलयाऽसृजदित्येतत् । एषां गुणानामुपादानायेत्यनेन तदुपादानमित्येतत् । विष्णुर्वाव सत्त्वस्येत्यनेन संस्थितं विष्णुमाययेत्येतत् । रजसो ब्रह्मेत्यनेन ब्रह्म तन्मात्रमित्येतत् । ईशानो नाम तमस इत्यनेनेश्वरेण परिच्छिन्नमित्येतद् व्याख्यातमिति ज्ञातव्यम् । यो वा इत्यादिना कालेनेत्येतदुक्ततात्पर्यम् ॥ १२ ॥

यथेदानीं तथा चाग्रे पश्चादप्येतदीदृशम् ।

सर्गो नवविधस्तस्य प्राकृतो वैकृतश्च(स्तु) यः ॥ १३ ॥

तात्पर्यम्

सृष्टिश्च प्रलयश्चैव संसारो मुक्तिरेव च । देवा ऋषिप्रभृतयो लोका भूरादयस्तथा । अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः । जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन । ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते । देवैर्ब्रह्मादिभिः शप्ता ऋषिभिर्मानुषादिभिः । सेतिहासैस्तथा वेदैः सर्वे यान्त्यधरं तमः । सर्वब्रह्मत्ववेत्तारो जीवब्रह्मत्ववेदिनः । अन्यसाम्यविदो विष्णो-र्विष्णुद्वेष्टार एव च । सर्वे यान्ति तमो घोरं न चैषामुत्थितिः क्वचिदि’ति स्कान्दे ॥ १३ ॥

पदरत्नावली

तदुपादानं सोऽव्यक्तलक्षणो बोध उपादानं कार्याधिकरणं यस्य स तथा तं तदुपादानम् आत्मानमेव चेतनाचेतनस्वरूपेणासृजत् । आत्मानमसृजदित्युक्तत्वादाकाशादेरविद्यमान-स्यैवोत्पत्तिः । नैतत् सारं, यतो विश्वमाकाशादितन्मात्रं प्रलयकाले बभूव । तत्कथम् ? संस्थितं प्रलीनं नष्टमिति यावत् । विष्णुमायया व्याप्तस्य ब्रह्मणो मायया अव्यक्तलक्षणया ईश्वरेण ब्रह्मणा परिच्छिन्नं विषयीकृतम् । कालेन कालात्मकेन ज्ञानस्वरूपेण साक्षिणाऽव्यक्तमूर्तिना चक्षुराद्यगम्यस्वरूपेण’ इति त्रैकालिकासत्त्वेन व्याख्यनमयुक्तम् । प्रपञ्चत्रैकालिकाबाध्यत्वस्यानुमानसिद्धत्वादित्याह– यथेति ॥ यथेदानीं सृष्टिकाले अर्थक्रियाकारित्वात् सत्यत्वमनुभूयते तथाग्रे सृष्टेः पूर्वं प्रलये पश्चादुत्तरत्राप्ये-तज्जगदीदृशं सत्यमित्यनुमातव्यम् । यथेदानीं कारणरूपेण सच्चैतन्यं दृश्यमाकाशादिकार्यमुपलभ्यते तथा अग्रे प्रलयकाले च कारणरूपेण सच्चैतन्यं दृश्यमिति चानुमातव्यमिति त्रैकालिकासत्वेऽयं दृष्टान्त इति चेन्न, अस्मदुक्तस्य प्रमाणानुकूल्यादन्यस्यानानुकूल्यादनर्थहेतुत्वाच्च । तदुक्तम्– ‘सृष्टिश्च प्रलयश्चैव संसारो मुक्तिरेव च । देवर्षिप्रभृतयो लोकालोका भूरादयस्तथा । अनाद्यनन्तकालीनाः सर्वदैकप्रकारतः । जगत्प्रवाहः सत्योऽयं नैव मिथ्या कथञ्चन । ये त्वेतदन्यथा ब्रूयुः सर्वहन्तार एव ते ॥’ इत्यादि । प्रवाहरूपेण सत्यस्य विश्वस्य सर्गस्य नवविधत्वाच्च सत्यत्वं सिद्धम् । न हीन्द्रजालवन्मिथ्याभूतस्य नियतसंख्याविषयत्वमनेकविधत्वात् तस्येति भावेनाह– सर्ग इति ॥ तस्य विश्वस्य । ‘विधा विधौ प्रकारः स्यात्’ इत्यभिधानम् । प्रकृतिविकृतिमत्त्वाच्च नानिर्वाच्यमायाकृतमित्याह– प्राकृत इति ॥ यः सर्गः प्राकृतो वैकृतश्चेत्यन्वयः । ‘अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः । तदुपादानकः सर्गः प्राकृतः परिपठ्यते । अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते ॥’ इति वचनात्, अण्डाद् बहिः सर्गः प्राकृतः विकृताण्डान्तस्थः सर्गो वैकृत इति ज्ञातव्यम् । चशब्देन मायामयस्य परिणामादर्शनं लिङ्गमिति सूचयति । स्वरूपादप्रच्युतादन्यथा स्फुरणं मायेत्यङ्गीकारात् ॥ १३ ॥

प्रकाशिका

ननु विश्वस्य दृश्यत्वेन मिथ्यात्वावगमात्कथं विष्णुपाल्यत्वादिकमुच्यते इत्यत आह ॥ यथेदानीमिति । अग्रे पूर्वमीदृशमीदृशमेवेति श्रुत्यादिभिरवगतम् । तथा चानाद्यनन्तकालेष्वेक-प्रकारत्वस्य श्रुत्यादिसिद्धत्वान्मिथ्यात्वानुमानं बाधितविषयमिति भावः । अत्र प्रमाणसंमतिं दर्शयति ॥ सृष्टिश्चेति । अनेन मूलगतैतच्छब्दार्थो दर्शितः । एवकारद्वयस्यानाद्यनन्तकालीना एवैकप्रकारत एवेति सम्बन्धः । तृतीयस्यैवकारस्य सत्य एवेति । कथञ्चन केनापि प्रमाणेन । इदानीमग्रे पश्चादिति पदत्रय-तात्पर्यमनाद्यनन्तकालीना इत्यनेनोक्तम् । ईदृशमित्यस्य तात्पर्यम् ॥ सर्वदैकप्रकारत इति । श्रुत्यादि-भिरवगम्यते यतोऽत इति शेषः । अत एव सेतिहासैस्तथा वेदैरिति वक्ष्यति । विपक्षे बाधकमाह ॥ ये त्वेतदिति । सेतिहासैर्वेदैरिति तदभिमानिभिरित्यर्थः । अन्यथा मिथ्यात्वेन । अनेन मूलेऽपि विपक्षे बाधककथनाय तम इत्यन्तं वाक्यमध्याहार्यमिति सूचयति । ये त्वेतदन्यथा ब्रूयुरित्यध्याहृतस्य विपक्षे बाधकवाक्यस्यार्थान्तरमाह ॥ सर्वब्रह्मत्वेत्यादिना । विष्णुद्वेष्टारो विष्णोरप्यधिकोऽस्तीति ज्ञातारः । तम एवेति सम्बन्धः । अनेनैतज्जीवजडात्मकं विश्वमीदृशं ब्रह्मभिन्नमेव । एतद्विष्णुरूपमीदृशं समाभ्यधिक-शून्यमित्यपि पूर्ववाक्ययोजनां सूचयति । एवं बहुरूपस्येत्यनेन पृष्टानि त्रीणि रूपाण्युक्त्वेदानीं सकलकार्यान्तर्गतानि बहूनि रूपाणि वक्तुं सप्रभेदं सर्गमाह ॥ सर्ग इति । तस्य विश्वस्य यः प्राकृतो वैकृतश्च सर्गः स नवविध इत्यन्वयः ॥ १३ ॥

कालद्रव्यगुणैरस्य त्रिविधः प्रतिसङ्क्रमः ।

आद्यस्तु महतः सर्गो गुणवैषम्यमात्मनः ॥ १४ ॥

तात्पर्यम्

‘तामसस्य पदार्थस्य सत्वं हि लयकारणम् । सात्विकस्य तमश्चैव तयोरपि रजः क्वचित् । गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना । कालतः कालसंख्याको लयः सर्वस्य वस्तुन’ इति ब्रह्मतर्के । तमसो रजस्तु द्विगुणं रजसः सत्वमेव च । परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः । तत्र सत्वं केवलं स्याद्रजस्यपि शताधिकम् । सत्वं रजःशतांशं तु तमस्तत्र प्रकीर्तितम् । तमस्यपि तथा सत्वं तमसस्तु दशोत्तरम् । तद्दशांशेन तु रजो मूलजं यद्रजस्तु तत् । विलये दशांशतः सत्व एकांशेन तमस्यपि । मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः । यदा तु तद्रजः सर्वं तमसा सह सङ्गतम् । तदा त्वाहुर्महत्तत्त्वं तच्चतुर्भागसम्भवम् । तत्र त्रिभागो रजस एकोंऽशस्तमसस्तथा । तदाहुर्ब्रह्मणो रूपं गुणवैषम्यनामकम् । तदेव केवलं सत्वमित-रापेक्षया भवेत् । श्रीर्मूलसत्वं विज्ञेया भूर्मूलं रज उच्यते । मूलं तमस्तथा दुर्गा महालक्ष्मी-स्त्रिमूलिका । गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः । यद्रजो मूलरजसि मूले तमसि यद्रजः । तमश्च मूले तमसि महत्तत्त्वं तदात्मकम् । दशांशास्तत्र सत्वं स्युरेकांशो रज एव तु । तद्दशांशं तमो ज्ञेयम् ॥ १४ ॥

पदरत्नावली

प्रतिपन्नोपाधौ सत्त्वप्रतिषेधवद्बाधाभावाच्च सत्य इति भावेनाह– कालेति ॥ अस्य विश्वस्य प्रतिसङ्क्रमः प्रलयाख्यो नाशः कालद्रव्यगुणनिमित्तभेदेन त्रिविधो ज्ञेयः । शतवर्षादि-सङ्ख्याजातः कालतः । घटादेर् मुसलादिना द्रव्यतः । प्रवृद्धेन सत्त्वेन तामसज्ञानम् उल्बणेन तमसा सात्त्विकं सुखं क्वचिदुद्रिक्तेन रजसा सात्विकतामसयोरपि, क्वचित् सत्त्वेन राजसतामसयोरपीत्यादिको विलयो गुणतः । ‘रजस्तमश्चाभिभूय सत्त्वं भवति’ इत्युदाहृतम् । ‘तामसस्य पदार्थस्य सत्त्वं हि लयकारणम् । सात्त्विकस्य तमश्चैव तयोरपि रजः क्वचित् । गुणतोऽयं लयः प्रोक्तो द्रव्यतस्तु विरोधिना । कालतः कालसंख्याको लयः सर्वस्य वस्तुनः’ इति वचनाच्च विश्वस्य त्रैकालिकासत्त्वलक्षणो बाधो नोपपन्न इति । तत्र प्राकृतवैकृतयोर्मध्ये प्राकृतसर्गमाह– आद्य इति ॥ आत्मनः परमात्मनः सकाशाद् गुणवैषम्यं गुणवैषम्यनामको महतश्चतुर्मुखदेहस्य तदभिमन्यमानमहत्तत्वस्य च प्राकृतेष्वाद्यः सर्ग उच्यते । अत्रेदमाकूतं तमोगुणाद् रजोगुणो द्विगुणः रजोगुणात् सत्त्वगुणो द्विगुणः । एवं प्रकृतिजानां गुणानां परिमाणं स्यात् । तत्र त्रिगुणेषु सत्त्वगुणः केवलो रजस्तमोभ्यामविमिश्रः । रजो-गुणस्तु त्रिविधः । तथाहि मूलरजसि रजोगुणाच्छताधिकः सत्त्वगुणः रजःशतांशस्तमोगुण इति रजोराशिः । मूलतमोगुणोऽपि त्रिविधः । मूलतमसि तमोगुणाद् दशगुणाधिकः सत्त्वगुणः रजस्तमसो दशधाविभक्तादेकांशसम्मितम् । एवं गुणानां निजस्थितिः ।

तत्र प्रलये मूलरज एकादशधा विभक्तं दशांशेन शुद्धसत्त्वेन मिश्रितं भवति । एकांशेन मूलतमस्यपि मिश्रितं स्यात् । एतां गुणानां साम्यावस्थामाहुः । तत्र यदा मूलसत्त्वेन सङ्गतं मूलरजः मूलरजसि सङ्गतं दशांशं तद्रजः सर्वं तन्मूलतमसा सङ्गतं संयुक्तं भवति तदा महत्तत्वं समुत्पन्नमाहुः । तत् केवलसत्त्वगुणमुच्यते । प्रलये मूलसत्त्वेन सङ्गतं मूलरजः मूलतमसि सङ्गतं मूलरजः मूलरजसि स्वाभाविकं रज इति रजांस्येव त्रिभागा एकांशस्तम इति चतुर्भागा एषां संयोगेनोत्पन्नगुणवैषम्यनामकं महत्तत्वं ब्रह्मणो रूपमिति ।

तदुक्तम्– ‘तमसो रजस्तु द्विगुणं रजसः सत्त्वमेव च । परिमाणत एवं स्युस्त्रयः प्रकृतिजा गुणाः । तत्र सत्त्वं केवलं स्याद् रजस्यपि शताधिकम् । सत्त्वं रजःशतांशन्तु तमस्तत्र प्रकीर्तितम् । तमस्यपि तथा सत्त्वं तमसस्तु दशोत्तरम् । तद्दशांशेन तु रजो मूलजं यद्रजस्तु तत् । विलये दशांशतः सत्त्वे एकांशेन तमस्यपि । मिश्रितं भवति ह्येतां साम्यावस्थां विदुर्बुधाः । यदा तु तद् रजः सर्वं तमसा सह सङ्गतम् । तदा त्वाहुर्महत्तत्वं तच्चतुर्भागसम्भवम् । तत्र त्रिभागो रजस एकोंऽशस्तमसतथा । तदाहु-र्ब्रह्मणो रूपं गुणवैषम्यनामकम् । तदेव केवलं सत्त्वमितरापेक्षया भवेत् । श्रीर्मूलसत्त्वं विज्ञेया भूर्मूलं रज उच्यते । मूलं तमस्तथा दुर्गा महालक्ष्मीस्त्रिमूलिका । गुणेभ्यो गुणमूलाच्च योऽतीतः स जनार्दनः ॥’ इति ॥ १४ ॥

प्रकाशिका

कालनामकेन रुद्रेण क्रियमाणसंहारोऽपि त्रिविध इति प्रसङ्गादाह ॥ कालेति । अस्य विश्वस्य प्रतिसङ्क्रमः प्रलयः । अत्र कालादिभिर्जायमानं प्रलयं प्रमाणेनैव दर्शयति ॥ तामस-स्येति । तामसस्य पदार्थस्य दुःखमोहादेः सत्त्वम् । अभिवृद्धमिति शेषः । हीत्यनेन तत्र प्रमाणप्रसिद्धिं द्योतयति । सात्विकस्य पदार्थस्य ज्ञानसुखादेरभिवृद्धं तम एव लयकारणमित्यस्यानुकर्षणार्थश्चकारः । तयोस्तामससात्विकपदार्थयोरभिवृद्धं रजो लयकारणम् । विरोधिनाऽऽलोकेनान्धकारस्य पित्तेन श्लेष्मादेश्च जायमानो लयो द्रव्यजः प्रोक्तः । कालसंख्याको मनुष्याणां वर्षशतमायुष्यमित्यादिरूपः । सर्वस्य वस्तुनः स्थावरजङ्गमात्मकचेतनाचेतनरूपस्य । तत्रादौ तावत्प्राकृतसर्गविभागमाह ॥ आद्यस्त्विति । अत्र गुणवैषम्यशब्दार्थप्रदर्शनाय तदपेक्षितं गुणसाम्यं निरूपयितुमादौ तावद्राशीकृतगुणानां स्थितिं दर्शयति ॥ तमस इत्यादिना । अवधारणार्थस्य तुशब्दस्य द्विगुणमेवेति सम्बन्धः । चशब्दो द्विगुणमित्यस्यानु-कर्षणार्थः । सत्त्वं रजसो द्विगुणमेव । प्रकृतिजा इत्यनेन कार्यभूतानामेवेयं स्थितिर्नापरिच्छिन्न-प्रकृतिरूपाणामिति सूचयति । एवं परिमाणमुक्त्वा तेषां स्वरूपाण्याह ॥ तत्रेति । तेषु मध्ये । केवलं गुणान्तरामिश्रितम् । अपिशब्दौ परस्परगुणान्तरमिश्रितत्वसमुच्चयार्थौ । तुशब्दोऽवधारणे । शतांशं तु शतांशमेव दशोत्तरमेवेत्याद्यन्तयोः सम्बन्धः । शताधिकम् । रजोभागापेक्षयेति शेषः । रजः शतांशं रजसः शतभागमध्ये य एको भागस्तत्परिमितमित्यर्थः । तत्र रजसि । दशोत्तरं दशगुणितं प्रकीर्तितमिति सम्बन्धः । तमसि राशीकृते । तथाशब्द उपमायाम् । तद्दशांशेन तमसो यो दशमोंऽशस्तत्परिमित-मित्यर्थः । प्रकीर्तितमित्यनुवर्तते । रजोराशितमोराश्योः सत्त्वगुणस्याधिक्येऽपीतरगुणयोर्मध्ये यस्य यत्राधिक्यं स राशिस्तन्नाम्नाऽभिधीयत इति ज्ञातव्यम् ।

इदानीं साम्यावस्थामाह ॥ मूलजमिति । अत्रोत्तरत्र च मूलशब्द उपादानत्वेन राशीकृतगुणपरः । तथाच मूलजं राशीकृतगुणजन्यं यन्महत्तत्त्वान्तर्गतं रजस्तदित्यर्थः । विलये विशिष्टलये महाप्रलये प्राप्ते सति दशांशतो दशभागैः सत्त्वे राशीकृते मिश्रितं भवति । एकेनांशेन तमसि तमोराशौ मिश्रितं भवति । अन्येनैकेन भागेन रजोराशौ मिश्रितं भवतीत्यपि ग्राह्यम् । ततश्च महत्तत्त्वस्य गुणत्रये लय उक्तो भवतीति ज्ञातव्यम् । हि यस्मादेवं तस्मादेतां प्रलयावस्थां साम्यावस्थां विदुर्ज्ञातवन्तः । महत्तत्त्व-प्रलयानन्तरं सत्त्वराशेरपि रजोमिश्रितत्वप्राप्त्या त्रयाणामपि गुणानां गुणान्तरमिश्रितत्वेन साम्यात् । नन्वेवं राशीकृतगुणत्रयनाशानन्तरं प्रलयस्य कथं गुणसाम्यावस्थात्वमिति वाच्यम् । महदादीनामिव गुणत्रयाणामप्युपादानभूतसूक्ष्मरूपसत्वेन तदाऽपि तेषां सूक्ष्मरूपेण मिश्रितत्वेनैवावस्थानमित्याशयात् । कथमन्यथा तत्र सत्त्वं केवलं स्यादिति सृष्ट्युपक्रमे सत्त्वस्यैव केवलत्वोक्तिः । इदानीं गुणवैषम्यमाह ॥ यदा त्विति । यदा सृष्टिकाले । तुशब्दस्तस्य गुणत्रयसृष्ट्यनन्तरत्वद्योतकः । तद्रजः सर्वं यत्पूर्वं प्रलये दशभागैः सत्त्व एकेन भागेन तमस्यन्येनैकेन भागेन रजसि प्रविष्टं तद्द्वादशभागात्मकं सर्वं रजः सृष्टिकाले एकादशभागैः रजोराशावेकेन भागेन तमोराशौ प्रविष्टं सत् तमसा तमोराशिस्थेन तमोभागेन सह सङ्गतं मिश्रितं भवति । तदा । तुशब्द उक्तरीत्या महत्तत्त्वारंभकरजोभागानां तमोभागस्य च सृष्टिकाले रजस्तमोराश्यन्तर्गतत्वरूपविशेषसूचकः । तयो रजस्तमसोश्चतुर्भिर्भागैः सम्भव उत्पत्तिर्यस्य स तथा । महत्तत्वमुत्पन्नमित्याहुर्ज्ञानिनः । चतुर्भागसम्भवमित्युक्तमेव विवृणोति ॥ तत्रेति । तत्र महत्तत्त्वे । त्रिभाग इत्येकवचनं समुदायपरम् । महत्तत्त्वस्य चत्वारो भागास्तेषु रजसस्त्रय एकस्तमस इति विवेकः । रजोभागेषु बहुतरं सत्त्वमप्यस्तीति वक्ष्यमाणत्वान्न तत्र सत्त्वाभावशङ्केति ध्येयम् । तन्महत्तत्त्वं ब्रह्मणो रूपम् । अभिमन्यमानतया देहस्थानीयम् । तदेव महत्तत्त्वं विषमसङ्ख्याकगुणात्मकभागवत्त्वाद्गुण-वैषम्यनामकमाहुः । इदमुपलक्षणम् । सृष्टिकाले राशीकृतगुणत्रयेपि सत्त्वगुणस्य केवलत्वेनेतरयोर्मिश्रत्वेन गुणानां वैषम्याद् गुणवैषम्यनामकमित्यपि ग्राह्यम् ।

नन्वेवं ब्रह्मदेहस्य शुद्धसात्विकत्वप्रसिद्धिः कथमित्यत आह ॥ तदेवेति । तदेवोक्तरीत्या चतुर्भागसम्भवमेव । केवलं सत्त्वमित्युच्यत इति शेषः । यतोऽहङ्काराद्यपेक्षयाऽत्र सत्त्वं केवलमधिकं भवेत् । अत इत्यर्थः । तथा चात्र सत्त्वस्य प्राचुर्यात्तथा प्रसिद्धिरित्युक्तं भवति । तत्र त्रिभागो रजस इत्युक्तस्यापि विवरणं यद्रजसो मूलरजसीत्यादिना कर्तुं मूलसत्त्वादिशब्दार्थांस्तावदाह ॥ श्रीर्मूल-सत्त्वमिति । मूलसत्त्वमित्यादिशब्दैः श्रीभूदुर्गा एव वाच्याः । तदभिमन्यमानत्वाद्गुणा अपि त्रीणि मूलान्यंशा यस्याः प्रकृतेः सा त्रिमूलिका तन्नाम्नी महालक्ष्मीरित्यर्थः ।

ननु किमस्वतन्त्रलक्ष्म्यादिनिरूपणेन मोक्षानुपयोगादित्याशङ्कायामाह ॥ गुणेभ्य इति । सत्त्वादिगुणेभ्य इत्यर्थः । गुणमूलाच्चित्प्रकृतेः । तथा चास्वतन्त्रलक्ष्म्यादिनिरूपणस्य हरिसर्वोत्तमज्ञानार्थ-त्वान्न मोक्षानुपयोगस्तन्निरूपणस्येति भावः । इदानीं तत्र त्रिभाग इत्युक्तं विवृणोति ॥ यद्रज इति । मूलरजसि तन्नामकभूम्यभिमन्यमाने राशीकृते रजसि विद्यमानं यद्रज एकादशभागात्मकं मूले तमसि तन्नामिकदुर्गाभिमन्यमाने राशीकृते तमसि विद्यमानं यद्रजो मूले तमसि उक्तरीत्या राशीकृते तमसि विद्यमानं यत्तमस्तदात्मकं तदुपादानम् । इदमुक्तं भवति । महत्तत्त्वे हि चत्वारो भागा उक्तास्तेषु यस्तमोभागः स तमोराशिस्थतमोगुणोपादानकः । त्रिषु रजोभागेष्वेकस्तमोराशिस्थरजोगुणोपादनकः । भागद्वयं रजोराशिस्थरजोगुणोपादानकम् । तत्राप्येको भागो यः पूर्वं प्रलये सत्त्वराशौ प्रविष्टः पुनः सृष्टिकाले रजोराशिस्थिततया पूर्वमुक्तः स एवेति ज्ञातव्यमिति ।

नन्वेवं महत्तत्त्वस्य शुद्धसात्विकत्वप्रसिद्धिः कथमित्याशङ्कायां यत्तदेव केवलं सत्त्वमित्युक्तं तद्विवृणोति ॥ दशांशा इति । तत्र महत्तत्त्वे सत्त्वं सत्त्वस्य रजो रजस एकांश इति सत्त्वापेक्षयैकोंऽश इत्यर्थः । तथा च महत्तत्त्वे एकं तमस्तद्दशांशाधिकं सत्त्वमित्युक्तं भवति । तथा चात्मनः परमात्मनः सकाशाद्यद्गुणवैषम्यं जनकीभूतानां गुणानां न्यूनाधिकभावेन वैषम्यं यस्मात्तद्गुणवैषम्यनामकं तत्त्वं जायते स महतो महत्तत्त्वस्य सर्गः स एव प्राकृतेषु सर्गेष्वाद्य इति मूलार्थ इति ध्येयम् ॥ १४ ॥

द्वितीयस्त्वहमस्तत्र द्रव्यज्ञानक्रियादयः ।

भूतसर्गस्तृतीयस्तु तन्मात्राद्रव्यशक्तिमान् ॥ १५ ॥

चतुर्थ ऐन्द्रियः सर्गो यस्तु ज्ञानक्रियात्मकः ।

वैकारिको देवसर्गः पञ्चमो यन्मयं मनः ॥ १६ ॥

तात्पर्यम्

अहङ्कारस्तदात्मकः । स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु । इतरापेक्षया सत्वं सत्वाद्यास्तद्वदस्य च । तत्तमोंऽशात्सात्विकोंऽशो मन आद्याः प्रकीर्तिताः । रजसोंऽश-स्त्विन्द्रियाणि तमसोंऽशश्च खादय’ इत्यादि तत्त्वविवेके । भूतानि द्रव्यशक्तीनि भूतेषु द्रवणं यतः । तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः । क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि तु । ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः । एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान् । मानुषापेक्षया देवाः सात्विकाः परिकीर्तिताः । तत्रापि सात्विकाः प्रोक्तास्तात्विका यास्तु देवताः । तत्रापि सात्विको रुद्रस्तत्रापि च चतुर्मुखः । अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे । विकारवन्त इन्द्राद्यास्तस्माद्वैकारिका मताः । त एवेन्द्रियरूपेण यतस्त्वतिविकारिणः । ज्ञान-मात्रगुणोद्रिक्तास्तस्मात्तैजसनामकाः । अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु । वैकारिकत्वनामापि ततस्तेषां न विद्यते । यथा विप्रकुले मूर्खो मूर्ख इत्यभिधीयते । विद्यायोग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् । तामसानि हि भूतानि किञ्चिद्व्यवहितत्वतः । ज्ञानस्य सुष्टुज्ञत्वेऽपि पूर्णज्ञानो हरिः स्वयमि’ति च ॥ १५-१६ ॥

पदरत्नावली

द्वितीयसर्गमाह– द्वितीय इति ॥ द्वितीयोऽहंकारस्य सर्गः । तत्राहंकारसर्गे द्रव्याणि वियदादिभूतानि ज्ञानक्रिया ज्ञानेन्द्रियाणि कर्मेन्द्रियाणि आदिशब्दगृहीता मन इन्द्रियाभिमानि- देवाश्च, जायन्त इति शेषः । भूतादीनां सर्गं क्रमेण तृतीयादित्वेनाह– भूतसर्ग इति ॥ भूतानामा-काशादीनां सर्गस् तन्मात्रद्रव्यशक्तिमान् । तन्मात्राः शब्दादयः । आकाशादीनां शब्दादिस्वरूपत्वात् तन्मात्रशक्तिमान् । द्रवणशक्तिमत्वाद् द्रव्यशक्तिमान् । अहङ्कारतत्त्वेऽपि गुणवैषम्यमस्तीति ज्ञातव्यम् । तथाहि– मूले रजसि यद् रजः मूले तमसि यत् तम एतदात्मकं महत्तत्वं ब्रह्मणो रूपमेकादशधा विभज्य दशांशाः सत्त्वं स्युः । एकांशो रजः । रज एकादशधा विभज्यैकांशस्तमः । तस्मात् तमस उत्पन्नोऽहङ्कारः । तदभिमन्यमानमहङ्कारतत्त्वं चेति महतोऽहङ्कारसर्गः । सोऽहङ्कारोऽपि त्रिविधः । तस्मिन्नहङ्कारेऽपि दशांशा सत्त्वम् । एकांशो रजः । तद्रज दशधा विभज्यैकांशस्तमः । तमोंऽशात् तामसाहङ्कारः रजोंऽशात्तैजसोऽहङ्कार सत्त्वांशाद् वैकारिकाहङ्कार इति । तत्रापि तामसाद् भूतसर्गः । तैजसादिन्द्रियसर्गः । वैकारिकाद् देवसर्गः । ‘यद् रजो मूलरजसि मूले तमसि यद् रजः । तमश्च मूले तमसि महत्तत्वं तदात्मकम् । दशांशास्तत्र सत्त्वं स्युरेकांशो रज एव तु । तद्दशांशं तमो ज्ञेय-महङ्कारस्तदात्मकः । स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैव तु । इतरापेक्षया सत्त्वं सत्त्वाद्यास्तद्वदस्य तु । तत्तमोंऽशात् सात्त्विकांशो मन आद्यः प्रकीर्तितः । रजसोंऽशास्त्विन्द्रियाणि तामसांशाश्च खादयः ॥’ इति वचनादिदं तात्पर्यमवगम्यते ॥

ज्ञानक्रियात्मकः ज्ञानेन्द्रियकर्मेन्द्रियात्मकः । पञ्चमो वैकारिकाहंकाराद् वैकारिकनामा देवसर्गः । इन्द्रियप्रेरकत्वेनातिविकारित्वाद् वैकारिकनामवत्त्वं तेषाम् । यस्माद् वैकारिकाहङ्कारादुत्पन्नत्वान्मनश्च यन्मयमित्युच्यते । ‘भूतानि द्रव्यशक्तानि भूतेषु द्रवणं यतः । तथा तन्मात्रशक्तीनि शब्दाद्यात्मकता यतः । क्रियाशक्तीनि वागाद्यानीन्द्रियाणीतराणि च । ज्ञानशक्तीनि मनसा देवाश्च ज्ञानशक्तयः । एतेषां मूलभूतत्वादहङ्कारस्त्रिशक्तिमान् । मानुषापेक्षया देवाः सात्त्विकाः परिकीर्तिताः । तत्रापि सात्त्विकाः प्रोक्तास् तात्त्विका यास्तु देवताः । तत्रापि सात्त्विको रुद्रस्तत्रापि तु चतुर्मुखः । अविकारौ ब्रह्मरुद्रौ देहभेदादिसम्भवे । विकारवन्त इन्द्राद्यास्तस्माद् वैकारिका मताः । त एवेन्द्रियरूपेण यतस्त्वति-विकारिणः । ज्ञानमात्रगुणोद्रिक्तास्तस्मात् तैजसनामकाः । अविकारित्वयोग्यत्वं निवृत्तं हीन्द्रियेषु तु । वैकारिकत्वनामापि ततस्तेषां न विद्यते । यथा विप्रकुले मूर्खो मूर्ख इत्यभिधीयते । विद्याऽयोग्यत्वतः शूद्रो न मूर्खो मूर्ख एव सन् । तामसानीह भूतानि किञ्चिद् व्यवहितत्वतः । ज्ञानस्य सुष्ठुज्ञत्वेऽपि पूर्णज्ञानो हरिः स्वयम् ॥’ इति वचनात् तुशब्दचतुष्टयसूचित एषां विशेषो ज्ञातव्यः ॥ १५,१६ ॥

प्रकाशिका

द्वितीयसर्गमाह मूले ॥ द्वितीयस्त्विति । अत्रोपादानानुक्तेस्तदुक्तिपूर्वकं व्याख्याति ॥ अहङ्कार इति । तदात्मको महत्तत्त्वान्तर्गततमोभागोपादानकः । अहङ्कार इत्यनेनाहम इत्येतदुक्तार्थम् । तदभिमानिनं दर्शयति ॥ स रुद्र इति । सोऽहङ्कारो रुद्रो रुद्राभिमन्यमानः । नन्वेवं रुद्रस्य तामसत्वप्रसिद्धिः कथमित्यत आह ॥ तामस इति । विरिञ्चे न सर्वथा तमः कार्यम् । अत्र तु किञ्चित्कार्यं दृश्यते । अतस्तदपेक्षयैव तामसत्वप्रसिद्धिरित्यर्थः । तुशब्दस्य सत्त्वमित्यनेन सम्बन्धः । कुत इत्यत आह ॥ इतरेति । इन्द्राद्यपेक्षयाऽहङ्कारे सत्त्वं तु विशेषेणास्ति यतोऽत इत्यर्थः । तत्कथ-मित्यत आह ॥ सत्त्वाद्या इति । तद्वन्महत्तत्त्ववत् । अस्य चाहङ्कारस्यापि । तारतम्येन सन्तीति शेषः। भूतसर्ग इत्यारभ्य यन्मयं मन इत्यन्तेन तृतीयादित्त्वेनोक्तानां सर्गाणां न परस्परं कार्यकारणभावः । किं त्वहङ्कारगततमोंऽशजन्यत्वमेवेत्याह ॥ तत्तमोंऽशादिति । तस्याहङ्कारतत्त्वस्य तमोंऽशादित्यर्थः । पुनः सात्विकादिरूपेण त्रिधा विभक्तान्मन आदीनि जातानीति शेषः । एतदेव विविच्याह ॥ सात्विकोंऽश इति । आद्यग्रहणेन देवदेहा गृह्यन्ते । मनआद्या अहङ्कारस्थतमोंऽशीयसात्विकांशोपादानका इत्यर्थः । एवमग्रेऽपि । चार्थतुशब्दाद्बुद्धिप्राणयोः समुच्चयः । चशब्दाच्छब्दादितन्मात्राणां ग्रहणम् । यद्यपि मूले मनोऽन्ते उक्तं तथाऽपि भूतादिसर्गाणामप्युत्तरोत्तरोत्तमत्वमिति ज्ञापनायात्र सात्विकस्य मनआदेः प्रथम-मुक्तिः । भूतसर्ग इत्यारभ्य मन इत्यन्तस्य तात्पर्यं प्रमाणेनैवाह ॥ भूतानीति ।

मूले तन्मात्रद्रव्यशक्तिमानिति भूतसर्गस्य द्रव्यशक्तिमत्वं तन्मात्रशक्तिमत्वं च यदुक्तं तदुप-पादयति ॥ भूतानीति । भूतानि द्रव्यशक्तीनि द्रव्यशक्तिमन्तीत्युच्यन्ते । कुतः । यतो भूतेषु पृथिव्यादिषु विषयेषु द्रवणं धावनम् । लोकानां भवतीति शेषः । तथा च लोककर्तृकद्रवणविषयत्वं यत इत्यर्थः । यथोक्तम् । द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः । पूर्वं वेगाभिसम्बन्धादाकाशस्तु प्रदेशत इति । तथाशब्दः समुच्चये । भूतानि तन्मात्रशक्तीनीत्युच्यन्ते यतस्तेषां शब्दाद्यात्मकता, मीयन्त इति मात्राः शब्दाद्यास्तदात्मकता तत्परिणामरूपता यत इत्यर्थः । ज्ञानक्रियात्मक इतीन्द्रियाणां ज्ञानक्रियाभेद इत्युच्यत इति भाति । अतस्तद्विवक्षितमर्थं दर्शयति ॥ क्रियाशक्तीनिति । वागाद्यानि कर्मेन्द्रियाणि क्रियाजननशक्तीनि । अतः क्रियात्मकानीत्युच्यन्ते । इतराणि चक्षुरादीन्द्रियाणि । तुशब्दो हेत्वर्थः । ज्ञानजननशक्तीनि अतः ज्ञानात्मकनीत्युच्यन्त इत्यर्थः ।

वैकारिको देवसर्ग इत्यर्धस्य विवक्षितमर्थं दर्शयति ॥ मनसेति । यन्मयं मन इत्यस्य तात्पर्यम् ॥ मनसा सहेति । देवसर्ग इत्यस्यार्थः ॥ देवा इति । इन्द्रियाभिमानिनो देवा इत्यर्थः । ज्ञानशक्तय इत्यनेन ज्ञानक्रियात्मक इत्यस्यात्राप्यनुवृत्तिमभिप्रेत्य तत्तात्पर्यमुक्तमित्यवगन्तव्यम् ॥ ज्ञानशक्तयश्चेति । चशब्देन क्रियाशक्तय इत्यपि ग्राह्यम् । इदानीं द्रव्यज्ञानक्रियादय इति यत्पूर्वमहङ्कारस्वरूपमुक्तं तत्तात्पर्यमाह ॥ एतेषामिति । भूतेन्द्रियदेवानामित्यर्थः । त्रयाणां भूतेन्द्रियदेवानां याः शक्तयस्तद्वा-नित्यर्थः । सात्त्विकोंऽश इति देवानां यत्सात्विकत्वमुक्तं तदस्मदाद्यपेक्षयाऽधिकं तारतम्योपेतं चेत्याह ॥ मानुषापेक्षयेत्यादिना । देवा अतात्विकाद्याः सात्विकाः । आधिक्येनेति शेषः । तत्रापि देवेष्वपि । तुशब्दोऽवधारणे । ता एवेति सम्बन्धः । तत्रापि चेति चशब्दः सात्विक इत्यस्यानुकर्षणार्थः ।

ननु ब्रह्मरुद्रगरुडान्विहायेन्द्रियाभिमानिनामिन्द्रादीनामेव वैकारिकशब्दवाच्यत्वे किं निमित्त-मित्येपक्षायामाह ॥ अविकाराविति । ब्रह्मरुद्रपदाभ्यां गरुडोऽप्युपलक्ष्यः । देहभेदेन देहविशेषेण । आदिपदादभिमानिरूपेणापि संभव इत्यर्थः । अस्य पूर्वेणोत्तरेण च सम्बन्धः । वैकारिका वैकारिक-शब्दवाच्याः । नन्वेतेषामेव पुनस्तैजसाहङ्कारकार्येन्द्रियाभिमानितया पुनरुत्पत्तौ विकारातिशयप्राप्त्या वैकारिकनामैव स्यान्न तैजसनामेत्यत आह ॥ त एवेति । ये देहविशेषसम्बन्धेन पूर्वं वैकारिका-हङ्कारादुत्पन्ना वैकारिकनामान इन्द्राद्याः । इन्द्रियरूपेणेन्द्रियाभिमानिरूपेण । यतोऽतिविकारिण-स्तस्मात् । न वैकारिकनामान इति शेषः । तुशब्दोऽवधारणे । तैजसनामका एवेति सम्बध्यते । तत्र निमित्तदर्शनाय यतो ज्ञानमात्रगुणोद्रिक्ता इत्युक्तम् । इन्द्रियैः सह तदभिमानिरूपैर्जननेऽपि न पूर्वज्ञान-विलोपस्तेषामतस्ते तैजसनामका एवेत्यर्थः । नन्वतिविकारित्वे सुतरां वैकारिकनाम स्यादित्यत आह ॥ अविकारित्वेति । स्यादेवं यदि विकारवत्वं विकारशब्दवाच्यत्वे निमित्तं स्यान्न चैवम् । किं त्वविकारित्वयोग्यतानिवृत्तिजनकोत्पत्तिमत्वम् । तच्च पूर्वमविकारिणां देहभेदेन जातानामेव देवानामस्ति । अनयोत्पत्त्या तेषु अविकारित्वयोग्यताया निवृत्तत्वात् । न पुनरिन्द्रियाभिमानितयोत्पन्नानाम् । तेषा-मविकारित्वयोग्यतायाः पूर्वोत्पत्त्यैव निवृत्तत्वेनानयोत्पत्त्या निवृत्त्यभावात् । अतस्त एव वैकारिकनामान इत्यर्थः । अत्र दृष्टान्तमाह ॥ यथेति । विप्रकुले जात इति शेषः । मूर्खो ज्ञानाभाववान् । विद्या-योग्यत्वतो विद्यायोग्यतानिवृत्तिजनकोत्पत्तिमत्वतो मूर्खः सन्नपि शूद्रो मूर्खो नैवोच्यत इत्यर्थः । तथा च यथा न ज्ञानाभावमात्रं मूर्खशब्दप्रवृत्तौ निमित्तं किन्तु विद्यायोग्यतानिवृत्तिजनकोत्पत्तिमत्वविशिष्टं तच्च न शूद्रेऽस्ति । अतो न तत्र मूर्खशब्दप्रवृत्तिस्तथैवेति भावः । ननु यदि ज्ञानमात्रगुणोद्रेकेणेन्द्रियाभि-मानितयोत्पन्नानां देवानां तैजसनामवत्वं तर्हि भूताभिमानितयोत्पन्नानामपि तेषां तैजसनामवत्वं स्यात्तेषामपि ज्ञानोद्रेकस्य सत्त्वादित्यत आह ॥ तामसानीति । भूतानि भूताभिमानिदेवास्तामसानि तामसानीत्येवोच्यन्ते । न तैजसानीति । हिशब्दः प्रमाणप्रसिद्ध्यर्थः । तेषां सुष्टुज्ञत्वेऽपि ज्ञानस्य किञ्चिद्व्यवहितत्त्वतः पूर्ववदुद्रेकाभावादित्यर्थः ।

ननु देवांशानामेषां कथं ज्ञानोद्रेकाभाव इत्यत आह ॥ पूर्णज्ञान इति । हरिः स्वयं स्वयमेक एव सर्वत्र पूर्णज्ञानो नान्य इत्यर्थः ॥ ततश्चायं श्लोकद्वयस्यार्थः ॥ अहमोऽहङ्कारस्य । सर्ग इत्यनुवर्तते । तुशब्दः स रुद्रस्तामसो ज्ञेयो विरिञ्चापेक्षयैवेत्यादिनोक्तविशेषसूचकः । तत्स्वरूपमाह ॥ तत्रेति । तत्राहङ्कारे द्रव्याणि भूतानि । ज्ञानक्रियाशब्दाभ्यां तदर्थानीन्द्रियाणि ग्राह्याणि । आदिपदेन देवदेहा गृह्यन्ते । द्रव्यादिशब्दास्तज्जनकशक्तिपराः । सन्तीति शेषः । तथा चाहङ्कारो भूतेन्द्रियदेवदेह-जनकशक्तिमानित्युक्तं भवति ॥ तृतीयस्त्विति । तुशब्दस्तामसत्वरूपविशेषसूचकः । भूतसर्गस्य स्वरूपमाह ॥ तन्मात्रेति । तन्मात्रशब्देन शब्दादयो ग्राह्याः । तच्छक्तिमत्वं तत्परिणतत्वमेव । द्रव्यशक्तिमत्वं च द्रवणप्राप्यत्वम् ॥

ऐन्द्रियसर्गस्य स्वरूपमाह ॥ यस्त्विति । अत्र तुशब्दो राजसत्वादिविशेषसूचकः । ज्ञान-क्रियात्मकस्तदुभयजनकशक्तिमानित्यर्थः । वैकारिको वैकारिकाहङ्कारकार्योऽत एव वैकारिकनामा देवसर्ग इन्द्रियाभिमानिदेवतादेहसर्ग इत्यर्थः । यन्मयं वैकारिकाहङ्कारजन्यम् ॥ १५,१६ ॥

षष्ठस्तु तमसः सर्गो यस्त्वबुद्धिकृतः प्रभोः ।

षडिमे प्राकृताः सर्गा वैकृतानपि मे शृणु ॥ १७ ॥

तात्पर्यम्

अबुद्धिपूर्वमिव तु ब्रह्मणो हरिबुद्धितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः । तामसानां तु भूतानां सहस्रं सत्वभागिनाम् । शतांशरजसामेकतमसां सर्ववेदिनाम् । केवलस्तामसो योंऽशः साऽविद्या पञ्चपर्विका । जाताऽतिकृष्णा (अतिदुष्टा) तद्देहाद् दैत्यरक्षः-पिशाचकाः । यद्रजो भौतिकं तेन मानुषाणां सदा जनिः । तमोगूढेन रजसा त्वितरस्थास्नु-चारिणाम् ।

भौतिकेन तु सत्वेन गूढं ब्रह्मण आण्डजम् । रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् । तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः । गूहितं भूतरजसा तत्सत्वं मानुषा यदा । देवा एवं गुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः । गुणातीतं च यद्रूपं ब्रह्मादीनां सुखात्मकम् । चिद्रूपं तच्च सत्वस्यैवोत्कर्षो यत्र विद्यते । तच्चोत्कृष्टं तमो यत्र हीनं तत्र स्वभावतः । उपगूहने तु नैवास्ति विशेषो नित्यचिन्मये । प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित् । विशेषः परमे तत्त्वे वासुदेवे कुतः पुनरि’ति च ॥

अव्यक्ताद्याः पृथिव्यन्ताः सर्वाः प्रकृतयः स्मृताः । तदुपादानकः सर्गः प्राकृतः परिपठ्यते । अण्डं तु विकृतं ज्ञेयं तज्जो वैकृत उच्यते ॥ पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा । उद्धृत्य ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता ॥ तत्स्रष्टृत्वज्ञापनाय तस्मात्सा प्राकृता मते’ति च ॥१७॥

पदरत्नावली

तमसोऽविद्यायाः । तुशब्द एवार्थे । अः विष्णुस् तस्मिन् बुद्धिरबुद्धिस् तत्पूर्वमेव कृतः । सदा विष्णुबुद्धित्वेऽपि तमःसंसर्गेण स्वबुद्धिर्भ्रष्टा भवतीति भीत्या विशेषतस्तद्बुद्ध्यैवेत्युक्तम् । सर्वदा तद्बुद्धिद्योतनायैवेति । यो भूतानां तामसोंऽशस्तस्मादंशादविद्या ब्रह्मणोत्पादिता इति द्योतनाय प्रथमस्तुशब्दः । तदुक्तम्– ‘अबुद्धिपूर्वमिव तु ब्रह्मणो हरिबुद्धितः । तामसानां तु भूतानां सहस्त्रं सत्त्वभागिनाम् । शतांशरजसामेकतमसां सर्ववेदिनाम् । केवलस्तमसो योंऽशः साऽविद्या पञ्चपर्विका । जाताऽतिदुष्टा तद्देहाद् दैत्यरक्षःपिशाचकाः ॥’ इति । ‘अबुद्धिपूर्वकस्तस्य प्रादुर्भूतस्तमोमयः । तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः । अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥’ इति श्रीविष्णु-पुराणे । ‘पञ्चपर्वा त्वविद्या तु भूतेभ्यो हरिणा पुरा । उद्धृता ब्रह्मणि क्षिप्ता सा पुनस्तेन निःसृता । तत् सृष्टत्वज्ञापनाय तस्मात् सा तामसा मता ॥’ इति च । मया इमे षट् प्राकृताः सर्गास्तव कथिता इति शेषः । प्राकृतसर्गकथनान्तरम् अन्यः प्रसङ्गो मा भूदिति परीक्षिद्वाक्यस्यानवकाशं वक्ति– वैकृतानिति ॥ १७ ॥

प्रकाशिका

षष्ठस्त्वित्यत्र तुशब्दो भूतानुस्यूततमोभागजन्यत्वरूपविशेषं सूचयति । तमसोऽ-विद्यायाः । द्वितीयस्तुशब्दोऽवधारणे । प्रभोर्ब्रह्मणोऽबुद्धिकृत एवेति सम्बध्यते । इमे प्राकृताः सर्गाः । मया ते कथिता इति शेषः । मे मत्तः । अत्र तमस इत्यस्य तमोगुणस्येति अबुद्धिकृत इत्यस्य च सर्वथा ज्ञानपूर्वकत्वाभाव इति चान्यथाप्रतीतिवारणाय प्रमाणेनैव तात्पर्यमाह ॥ अबुद्धिपूर्वमिवेति । यद्बुद्धि-पूर्वकं न भवति श्वासादिकं तद्वदित्यर्थः । तुशब्दार्थकथनम् ॥ इवेति । तुशब्दोऽवधारणे । एवमेव व्याख्यानमित्यर्थः । कुत इत्यत आह ॥ हरिबुद्धित इति । हरिबुद्धित्वत इत्यर्थः । तदा ब्रह्मणो हरिज्ञानवत्वेन सर्वथा ज्ञानपूर्वकत्वाभावस्य बाधितत्वादिति भावः । सर्वदा ब्रह्मणो हरिबुद्धित्वेऽपि तदा पापभीत्या विशेषतस्तद्बुद्धित्वमिति ध्येयम् । अनेन अः परब्रह्म तस्मिन्या बुद्धिस्तया कृत इति मूलस्य व्याख्यानान्तरं सूचितमिति ध्येयम् । तमःशब्दार्थकथनम् ॥ अविद्येति । साऽपि नाभावरूपेत्याह ॥ पञ्चपर्वेति । तमो मोहो महामोहस्तामिस्रोऽन्धतामिस्र इति पञ्चपर्वाणि वृत्तयो यस्याः सैषा प्रमाणप्रसिद्धा । प्रभोरित्यस्य तात्पर्यम् ॥ महात्मन इति । सर्वज्ञस्येत्यर्थः । एवं मूले तमस इत्यस्या-विद्यापरत्वं षष्ठ्यन्तत्त्वं चाभिप्रेत्य व्याख्यातमिदानीं तस्याविद्योपादानतमोगुणपरत्वं पञ्चम्यन्तत्वं चाभिप्रेत्याविद्योपादानभूतं तमोगुणं वक्तुमाह ॥ तामसानां त्विति । तुशब्दोऽहङ्कारगततमोंऽशजन्यत्वेन तामसत्वमिति विशेषसूचनाय । सहस्रं तमोभागापेक्षया सहस्रसङ्ख्याका ये सत्त्वभागास्तद्वतामित्यर्थः । अलुक्समासोऽयम् । तमोभागापेक्षया शतांशरजसामित्यर्थः । एकतमसामेकांशतमसामित्यर्थः । ततश्च भूतेष्वेकं तमस्तच्छतांशाधिकं रजस्तमःसहस्रांशाधिकं सत्त्वमित्युक्तं भवति । अत एव तदभिमानिनः सर्वज्ञा इत्याह ॥ सर्ववेदिनामिति । पूर्वमपि सुष्टुज्ञत्वेऽपीत्युक्तम् । इदानीमविद्योपादानभूतं तमोगुणं दर्शयति ॥ केवल इति । भूतगतसत्त्वरजोभ्यामविमिश्र इत्यर्थः । तद्देहात्तदभिमानिदेहात् । एवमविद्याया भौतिकतमोगुणजन्यत्वकथनप्रसङ्गाद् अस्मिन्नध्याये या देवदानवमानवादिचराचरसृष्टिरुच्यते सा सर्वाऽपि भौतिकसत्त्वादिगुणजन्यैवेति दर्शयितुमादौ तावन्मानुषाणां भौतिककेवलरजोजन्यत्वमाह ॥ यद्रज इति । भौतिकं भूतानुस्यूतं सदा नियमेन । तमोगूढेन तमसा गूहितवीर्येण । रजसा भौतिकेन । तुशब्द एवार्थः । तमोगूढेनेत्यनेन सम्बध्यते । मानुषेतरे ये स्थास्नुचारिणः स्थावरजङ्गमाश्च तेषामित्यर्थः । सत्त्वेन तु सत्त्वेनैव गूढं गूहितवीर्यं यद्रजो भौतिकम् । तेनेति वर्तते । आण्डजमण्डान्तर्जायमानं रूपं शरीरम् । जायत इति शेषः । तत्रापि ब्रह्मदेहेऽपि रजोगुणापेक्षया शतांशेन तमः । तस्य स्वकार्याक्षमत्वद्योतनाय तुशब्दः । ततस्तु ब्रह्मदेहान्तर्गतसत्त्वगूहिततमोभागादेव । एवं रुद्रदेहवत्पुनर्जनिर्ब्रह्माण्डान्तरुत्पत्ति-रित्यर्थः । देवा यदा मानुषा भवन्ति तदा कथमित्यत आह ॥ गूहितमिति । देवा यदा मानुषा भवन्ति तदा तत्सत्त्वं भौतिकं सत्त्वं भौतिकेन रजसा गूहितमाच्छादितवीर्यम् । भवतीति शेषः । उपसंहरति ॥ एवमिति । तुशब्दोऽवधारणार्थः । व्याप्यैवेति सम्बध्यते ।

नन्वेवं ब्रह्मादीनां गुणत्रयबद्धत्वाविशेषात्तेषां स्वरूपेषु तारतम्यं कथं ज्ञेयमित्यत आह ॥ गुणातीतं चेति । द्वितीयचशब्दस्य चिद्रूपं चेत्यन्वयः । स्वभावतः सत्त्वस्य सत्त्वगुणकार्यस्य ज्ञानादेर् उत्कृष्टमिति । ज्ञेयमिति शेषः । स्वभावतस्तमस्तत्कार्यं द्वेषादिकं यत्रोत्कृष्टं तत्र तच्चैतन्यं हीनमिति ज्ञेयम् । एवं यत्र रजोगुणकार्यमधिकं तन्मध्यममिति ज्ञेयमित्यपि ग्राह्यम् ।

नन्वेवं देवा एव यदा मानुषा भवन्ति तदा सत्त्वस्य रजसा गूहितत्वात्तत्स्वरूपे चिन्मये मूलरूप इवोत्कर्षो न स्यादित्यत आह ॥ उपगूहन इति । सत्वादिगुणानां मध्ये एकस्यान्येनोपगूहने आच्छादने कृतेऽपि । किं त्वनित्यदेह एवेति तुशब्दार्थः । उपगूहनसमयेऽपि तत्स्वरूपं यथास्थितमेव नित्यत्वात् । किन्तु तदा ज्ञापकाभावात्तदुत्कर्षो न ज्ञातुं शक्यत इति भावः ।

नन्वेवं सत्त्वादिसम्बन्धस्यैवोत्कर्षादिज्ञापकत्वे सत्त्वाद्यभिमानिनीनां श्रीभूदुर्गाणां मूलप्रकृत्यभि-मानिन्या लक्ष्म्याश्च सत्त्वादिसम्बन्धेन परस्परनीचोच्चतादिरूपविशेषः स्यादित्यत आह ॥ प्रकृतेरिति । महालक्ष्म्या इत्यर्थः । गुणरूपाया गुणाभिमानिन्या मूलिकाया मूलप्रकृत्यभिमानिन्याः क्वचित्कुत्राप्यवतार इत्यर्थः । गुणरूपाया मूलिकाया इति गुणात्मकदेहाभावोपपादनायोक्तम् । तथा च गुणसम्बन्धमात्रं न नीचतादिहेतुः किन्तु गुणात्मकदेहवत्वम् । तच्च न प्रकृतौ तद्रूपेषु चेति भावः । अनयैव रीत्या गुणत्रयोपादानकर्तरि विष्ण्वादिरूपे हरावपि व्यभिचारपरिहारायाह ॥ परम इति । परमे तत्त्व इति गुणात्मकदेहाभावोपपादनाय ।

ननु ‘‘षडिमे प्राकृताः सर्गा’’ इत्यत्रोक्तः प्राकृतवैकृतविभागोऽनुपपन्नः । वैकृतानामपि प्रकृति-सम्बन्धित्वेन प्राकृतत्वात् । प्राकृतानामपि विकारित्वेन वैकृतत्वादित्याशङ्कायामसङ्कीर्णं प्राकृतवैकृतशब्दार्थं प्रमाणेनैव दर्शयति ॥ अव्यक्ताद्या इति । तस्मिन् जात इति तज्जः । तथा च ब्रह्माण्डाद्बाह्यसर्गः प्राकृतस्तदन्तर्जायमानः सर्गो वैकृतः । अण्डसर्गोऽपि प्राकृत एवोक्तलक्षणत्वादित्यवधेयम् । ननु पञ्चपर्वाविद्यासर्गः कथं प्राकृतत्वेनोक्तः । तस्य ब्रह्माण्डान्तर्ब्रह्मसृष्टत्वेन वैकृतत्वस्यैवौचित्यादित्याशङ्कां प्रमाणशेषेणापाकरोति ॥ पञ्चपर्वेति । अवधारणार्थस्य तुशब्दद्वयस्य भूतेभ्य एवेति हरिणैवेति च सम्बन्धः । उद्धृत्योत्पाद्य । तत्सृष्टत्वज्ञापनाय ब्रह्मणि ब्रह्माण्डान्तर्गते ब्रह्मदेहे क्षिप्ता स्थापिता । तस्मादण्डाद्बहिर्भूतेभ्यः पूर्वमुत्पन्नत्वादित्यर्थः । प्राकृतेत्यत्र ङीबभावश्छान्दसः ॥ १७ ॥

रजोभाजो भगवतो लीलेयं हरिमेधसः ।

सप्तमो मुख्यसर्गस्तु षड्विधस्तस्थुषां च यः ॥ १८ ॥

तात्पर्यम्

एते गुणा हरेः सम्यक्स्वातन्त्र्यविषयाः सदा । स्वतन्त्राः प्रकृतेश्चापि ब्रह्मणोऽ-न्येषु तु क्रमात् । देवेष्वेव तदन्येषु परतन्त्रा हि ते मता’ इति च ॥ १८ ॥

पदरत्नावली

प्राकृतवैकृतसर्गकथनश्रवणेन किं फलमित्याशङ्क्य भगवल्लीलात्वाच्छ्रवणेन मुक्तिरेव फलमिति भावेनाह– रजोभाज इति ॥ सृष्ट्यर्थं रजोगुणप्रवर्तकस्य हरिवत् सूर्याग्निवन्मेधा यस्य स तथा तस्य जाज्वल्यमानबुद्धेरित्यर्थः । भगवतो नारायणस्येयं सृष्टिर् लीला न स्वार्थपरा किन्तु योग्यजनमुक्त्यर्थेत्यर्थः । विरिञ्चविषयत्वे हरौ मेधा यस्य स तथा तस्य । अनेनाबुद्धिकृत इति पदं विवृतम् । विरिञ्चस्यापि श्रीनारायणानुग्रहेण सृष्टिरियं न श्रमजननी किन्तु लीलारूपेत्यनेनाप्यबुद्धि-कृतत्वाच्छ्रमकरीत्यन्यथाप्रतीतिर्निरस्ता । सृष्ट्यादावेते गुणा हरेरेव मुख्याः । तदुक्तम्– ‘एते गुणा हरेः सम्यक् स्वातन्त्र्यविषयाः सदा’ इत्यादि । यस्तस्थुषां स्थावराणां मुख्यः सर्गः स सप्तमः । स च षड्विधः । ‘स्थास्नुभिर्नियमान्मुख्या स्थितेर्गतिरवाप्यते । प्रायः परोपकर्तृत्वात् ते मुख्यस्रोतसस्ततः’ इति मुख्यस्रोतस्त्वं स्थावराणां युक्तम् ॥ १८ ॥

प्रकाशिका

ननु सर्वकामपूर्णस्य हरे रजआदिभिः सृष्ट्यादिकरणेन किं प्रयोजनमित्या-शङ्कायामाह ॥ मूले रजोभाज इति । रजःपदमितरयोरुपलक्षकम् । इयं सृष्ट्यादिरूपा । हरिवत्सूर्यवत् तमःसम्बन्धशून्या मेधा यस्य स तथा तस्य अविद्यास्रष्टृत्वेऽपि न तत्सम्बन्धस्तस्येति सूचनायेदम् । तथा च स्वभावोऽयं हरेरतो न प्रयोजनाय सृष्टिरिति भावः । अत्र रजआदिगुणभाक्त्वं नाम तद्बद्धत्वमिति प्रतीतिवारणाय विवक्षितं गुणभाक्त्वं प्रमाणेनैवाह ॥ एते गुणा इति । सम्यक् परममुख्यतः । स्वातन्त्र्यं यथेष्टविनियोगः । तथा च हरेर्गुणभाक्त्वं तन्नियोजकत्वरूपमेवात्र विवक्षितमिति भावः । नन्वेवं ग्रन्थान्तरविरोधः । रमाया ब्रह्मणो देवानां च स्वातन्त्र्यविषयतया गुणानां तत्र तत्रोक्तत्वादित्यत आह ॥ स्वतन्त्रा इति । स्वतन्त्राः स्वातन्त्र्यविषयाः । ब्रह्मणोऽपीत्यन्वयः । अन्येषु देवेष्विति सप्तम्यौ षष्ठ्यर्थे । तुशब्दोऽप्यर्थः । अन्येषां देवानामप्यमुख्यत्वक्रमादेव स्वतन्त्रता मता । कुतः । हि यस्मात्तदन्येषु भगवदन्येषु रमादिषु ते गुणाः परतन्त्रा हर्यधीना मताः प्रमितास्तस्मादित्यर्थः । तथा चामुख्य-स्वातन्त्र्यविषयत्वमेव तत्राभिप्रेतं न मुख्यमतो न विरोध इति भावः । अमुख्यतायामपि तारतम्यसूचनाय क्रमादित्युक्तम् । यस् तस्थुषां स्थावराणां मुख्यसर्गो मुख्यस्रोतःसंज्ञः सर्गः स सप्तमः । स च षड्विधः । वक्ष्यमाणरीत्या स्थावराणां मुख्यस्रोतस्त्वात्तत्सम्बन्धिसर्गोऽपि मुख्यस्रोतः संज्ञ इति ज्ञातव्यम् ॥ १८ ॥

वनस्पत्योषधिलतास्त्वक्सारा वीरुधो द्रुमाः ।

उत्स्रोतसस्तमःप्राया अन्तःस्पर्शा विशोषिणः ॥ १९ ॥

तात्पर्यम्

स्थास्नुभिर्नियमान्मुख्या स्थितेर्गतिरवाप्यते । प्रायः परोपकर्तृत्वात्ते मुख्यस्रोतसः स्मृताः । नाधो नोर्ध्वं तिरश्चां तु पुनस्तत्रैव यज्जनिः ॥ यज्ञोपयोगं च सतामुपकारं विनाऽपि च । तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः ॥ प्रायोऽधोगमनं यस्मात्प्रयत्नेन विना भवेत् । अर्वाक्स्रोतस इत्येव मानुषाः परिकीर्तिताः । नियमादूर्ध्वगन्तारो देवा मोक्षैकभागिनः । ऊर्ध्वस्रोतस इत्येव तस्मात्ते परिकीर्तिता’ इति ब्राह्मे ।

तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवर्तिनाम् । असुराणां रक्षसां च पिशाचानां तथैव च । अर्वाक्स्रोतस्त्वमुद्दिष्टं नियमादसुरादिनाम्’ इति च । मुख्यस्रोतस इत्यस्यार्थ उत्स्रोतस इति । ‘ऊर्ध्व इत्येव यस्तूच्चतम एवाभिधीयते । ऊर्ध्वस्रोतस एतस्माद्देवा एव न तत्परे । उच्छब्द उच्चमात्रेऽपि तस्मात्स्थास्नुषु भण्यत इति’ च ।

तिरश्चीनाः स्थावराश्च अन्तःस्पर्श इतीरिताः । यत्प्रत्यक्षानुमानाभ्यां हृद्गज्ञानं न शास्त्रत (न शास्रगाः)’ इति पाद्मे । यदप्रयत्नाद्धृदयङ्गमं तदेव जानन्ति नो शास्त्रयुक्तिभ्यामित्यर्थः ॥ १९ ॥

पदरत्नावली

षड्विधमाह– वनस्पतीति ॥ ‘फलन्ति ते विना पुष्पैस्तान् वदन्ति वनस्पतीन्’ इत्यतः पनसादयो वनस्पतयः । ओषधयः फलपाकान्ता व्रीह्यादयः । लताः पराश्रयबलाः । त्वक्सारा वेण्वादयः । वीरुधः काण्डरुहाणि गुल्मानि । द्रुमाश्चूतादयः । प्रमाणवचने यन्मुख्यस्रोतस इत्युक्तं तदेवोत्स्रोतस इति कथ्यते । उत्स्रोतस इत्यस्यार्थ ऊर्ध्वस्रोतस इति किं न स्यात् ? न स्यात् । असम्भवात् । तथाहि ऊर्ध्वगन्तरो देवा मोक्षैकभागित्वात् । तदुक्तम्– ‘नियमादूर्ध्वगन्तारो देवा मोक्षैकभागिनः । ऊर्ध्वस्रोतस इत्येवं तस्मात् ते परिकीर्तिताः ॥’ इति । तर्हि देवानामयमर्थः कथं सम्पत्स्यते ? उच्यते । उच्चतमत्वमूर्ध्वत्वं तदेवोच्छब्दस्यापीति । तदुक्तम्– ‘ऊर्ध्व इत्येव यस्तूच्चतम एवाभिधीयते । ऊर्ध्वस्रोतस एतस्माद् देवा एव न तत्परे ॥’ इति स्थावराणामेतच्छब्दवाच्यत्वमुच्चं वर्धमानेषु मुख्यत्वात् । तदुक्तम्– ‘उच्छब्द उच्चमात्रेऽपि तस्मात् स्थास्नुषु भण्यते ।’ इति । अनेन मुख्यशब्दस्यार्थान्तरं दर्शितम् । तत्स्वभावमाह– तमःप्राया इति ॥ तमःप्राया अज्ञानप्रचुराः । कल्पवृक्षादिव्यावृत्त्यर्थं प्रायःशब्दः । अन्तःस्पर्शाः स्पर्शने सत्यन्तर्ज्ञानवन्तः । विशोषिणश् छेदने सति सपदि शोषवन्तः ॥ १९ ॥

प्रकाशिका

षड्विधत्वमेवाह ॥ वनस्पतीति । ये पुष्पं विना फलन्ति पनसादयस्ते वनस्पतयः । ओषधयः फलपाकान्ता व्रीह्यादयः । लताः परारोहणापेक्षाः । त्वक्सारा वेण्वादयः । वीरुधः काण्डरुहाणि गुल्मानि । ये पुष्पैः फलन्ति चूतादयस्ते द्रुमाः । उदुत्कृष्टं स्रोतो गम्यं येषां त उत्स्रोतसो मुख्यस्थानगन्तारः । तमःप्राया अज्ञानप्रचुराः । कल्पवृक्षादिव्यावृत्त्यर्थं प्रायःशब्दः । विशोषिणो जलाभावे शोषवन्तः । अत्र स्थावराणामुत्स्रोतस्त्वमुक्तम् । अर्वाक्स्रोतस्तु नवम इति मनुष्याणाम् अर्वाक्स्रोतस्त्वं वक्ष्यति । इदमुपलक्षणम् । वक्ष्यमाणानां तिरश्चां तिर्यक्स्रोतस्त्वम् । देवानामूर्ध्वस्रोतस्त्वं च ग्राह्यमित्याशयेन स्थावरादिजीवानां मुख्यस्रोतस्त्वादिविभागं तेषु तच्छब्दनिर्वचनं च प्रमाणेनैवाह ॥ स्थास्नुभिरित्यादिना । परोपकर्तृत्वादिति पञ्चमी तृतीयार्थे । ततश्च यतः स्थास्नुभिः प्रायः परोपकर्तृत्वेन स्थितेर्नियमान्मुख्या गतिरवाप्यते ततस्ते मुख्यस्रोतसस्तच्छब्दवाच्या इत्यर्थः । मुख्यं स्रोतो गम्यं येषां ते तथेति निर्वचनमनेन सूचयति । परोपकारशून्यस्थावराणां नात्रान्तर्भाव इति दर्शयितुं प्राय इत्युक्तम् । तिरश्चां गमनमिति शेषः । तुशब्दो बुद्धिपूर्वप्रवृत्तिमत्वाभावरूपविशेषसूचकः । तथात्वे नार्वाक्स्रोतस्त्वस्य वक्ष्यमाणत्वात् । तत्रैव भूम्यामेव । यद्यस्मात् ।

ननु यज्ञेषु पशुत्वेनोपयुक्तानां वहनादिना सज्जनोपकर्तॄणां चाश्वादीनां श्रुत्यादिषूर्ध्वगतिश्रवणात्कथं नोर्ध्वगमनमित्युक्तमित्यत आह ॥ यज्ञोपयोगमिति । उपकारमपीत्यन्वयः । प्रयत्नेन विना हर्याराधन-रूपप्रयत्नाभावेनेत्यर्थः । हर्याराधनशून्यानामपि मनुष्याणामुत्कटपापेनेहैव जन्मदर्शनात्प्राय इत्युक्तम् । नियमादिति श्लोके यस्मादित्यस्यानुवृत्तिः । मोक्षैकभागिन इति हेतुगर्भविशेषणम् । नन्वेवमपि बुद्धिपूर्वं पापे प्रवर्तमानानां तिरश्चां, तथाविधानां स्थावराणामसुरादीनां च न सङ्ग्रह इत्याशङ्कायां तेषामप्युक्तान्त-र्भावं प्रमाणेनैव दर्शयति ॥ तिरश्चामिति । बुद्धिपूर्वप्रवृत्तीनाम् । पाप इति शेषः । अर्वाक् स्रोतस्त्व-मेवोद्दिष्टमित्यन्वयः । नन्वेवमसुरादीनां न मनुष्यादिभ्यो विशेष इत्यत आह ॥ नियमादिति । असुरादीनाम् । तथा च मानुषादीनां बुद्धिपूर्वं पापे प्रवृत्तिनिबन्धनम् अर्वाक्स्रोतस्त्वं कादाचित्कम् । असुरादीनां तु स्वभावनिबन्धनं सार्वकालिकमिति विशेषोऽनेन सूचितमिति ध्येयम् । ननु स्थावराणां कथमुत्स्रोतस इति संज्ञा मूले उक्ता । प्रमाणे तेषां मुख्यस्रोतस इति संज्ञाया उक्तत्वात् । मुख्यसर्ग इति मूलेऽपि तेषां मुख्यस्रोतस्त्वस्य सूचितत्वादित्यत आह ॥ मुख्यस्रोतस इत्यस्येति । तथा च प्रमाणे यन्मुख्यस्रोतस इत्युक्तं यच्च पूर्वं मुख्यस्रोतस इति सूचितं तस्यैवोत्स्रोतस इत्यनेनार्थः कथ्यते । न पुनरिदमर्थान्तरवाचिनामान्तरमित्यर्थः । उत्कृष्टार्थकोच्छब्दस्य मुख्यशब्दस्य च पर्यायत्वादिति भावः । नन्वेवमुत्स्रोतेभ्यः स्थावरेभ्यो देवानामूर्ध्वस्रोतसां विशेषो न स्यात् । उदूर्ध्वतशब्दयोः पर्यायत्वादित्याशङ्कां प्रमाणेन परिहरति ॥ ऊर्ध्व इत्येवेति । य एवोच्चतमः स एवोर्ध्व इत्यभिधीयत इत्यन्वयः । तथा च यस्मादूर्ध्वशब्द उच्चतमवस्तुवाचकस्तत्समभिव्याहृतस्रोतःशब्द उच्चतमगम्यवद्वाचकः । देवाश्च तादृशाः । एतस्माद्देवा एवोर्ध्वस्रोतसस्तच्छब्दवाच्या इत्यर्थः । उच्चमात्रेऽपि सर्वस्मिन्नप्युच्चे वस्तुनि । वर्तत इति शेषः । तथाच तत्समभिव्याहृतस्रोतशब्दः स्थास्नुषु व्यवह्रीयत इत्यर्थः । अन्तःस्पर्शा इत्यस्य तात्पर्यं प्रमाणेनैव दर्शयति ॥ तिरश्चीना इति । तिरश्चीना इत्येनेनेदं तिरश्चामपि साधारणमिति सूचयति । अत एव मूले तिरश्चां हृद्यवेदिन इत्यन्तःस्पर्शपदसमानार्थं विशेषणमुक्तम् । अनुमानग्रहणं क्वाचित्काभि-प्रायेण । हृद्गस्य ज्ञानमिति विग्रहः । न शास्त्रगा इति पाठे न शास्त्रेणावगच्छन्तीत्यर्थः । यतः प्रत्यक्षानु-मानाभ्यामित्यत्रानुमानपदेन मीमांसारूपानुमानस्यापि ग्रहणे बाधः । हृद्गस्य ज्ञानमित्युक्त्या च न बाह्यविषयकं ज्ञानमिति प्रतीयतेऽतः प्रमाणेनोत्तरार्धतात्पर्यं स्वयमाह ॥ यदप्रयत्नादित्यादिना । यद्धृदयंगमं मनोहरम् । इष्टानिष्टप्राप्तिनिवृत्तितत्साधनरूपं तदेवाप्रयत्नात् प्रत्यक्षेण तत्तुल्येन झडिति व्याप्त्यादिज्ञानसापेक्षेण लिङ्गज्ञानेन वा जानन्ति न शास्त्रमीमांसाभ्यामित्यर्थः । तथाचोदाहृतप्रमाणेऽनु-मानपदं झडिति जायमानानुमापरम् । शास्त्रपदं मीमांसारूपयुक्त्युपलक्षकम् । हृद्गशब्दश्च हृदयङ्गम-वाचीत्युक्तं भवति । ततश्चान्तःस्थं हृदयङ्गमं स्पृशन्ति झडिति जानन्तीत्यन्तःस्पर्शा इति मूलं व्याख्येयमिति भावः ॥ १९ ॥

तिरश्चामष्टमः सर्गः सोऽष्टाविंशद्विधो मतः ।

अविदो भूरितमसो घ्राणज्ञा हृद्यवेदिनः ॥ २० ॥

पदरत्नावली

तिरश्चां तिर्यक् स्रोतसां ‘नाधो नोर्ध्वं तिरश्चां तु पुनस्तत्रैव यज्जनिः । यज्ञोपयोगं च सतामुपकारं विनापि वा । तिर्यक्स्रोतस इत्येव प्रोच्यन्ते ज्ञानिभिस्ततः ॥’ इत्यनेन तिरश्चां तिर्यक्-स्रोतस्त्वं विवृतमिति ज्ञातव्यम् । तिरश्चां लक्षणमाह– अविद इति ॥ अविदः कार्याकार्यविशेष-ज्ञानशून्याः, भूरितमसः शरीरमात्रेऽहंममाभिमानवन्तः । यद्वा आहारनिद्राव्यतिरिक्तविषये ज्ञानरहिताः। घ्राणेनैव जानन्तीति घ्राणज्ञाः । हृद्येव वेदो ज्ञानं येषां ते तथोक्ताः । इदमुभयेषां तस्थुषां तिरश्चां समं लक्षणम् । तदुक्तम्– ‘तिरश्चीनाः स्थावराश्च अन्तःस्पर्शा इतीरिताः । यत् प्रत्यक्षानुमानाभ्यां हृद्गं ज्ञानं न शास्त्रतः ॥’ इति । यदप्रयत्नात् हृदयङ्गमं तदेव जानन्ति न शास्त्रयुक्तिभ्यामित्यर्थः । अष्टा-विंशद्विधत्वं प्रतिज्ञायाधिकोक्तिर्विशेषतो यज्ञेषूपकृतत्वाभिप्रायेण, यो यस्य सदृशः स तत्रान्तर्गत इति ज्ञापनं चेति न दुष्यति । तदुक्तम्– ‘अष्टाविंशद् विशेषेण यज्ञोषूपकृतं यतः । तिरश्चां तावदेतस्माद् भण्यते शास्त्रवेदिभिः ॥’ इति । ‘अष्टाविंशत् प्रधानास्तु तिरश्चां यास्तु जातयः । यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत् । जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः । तेषां जलप्रधानत्वाच्छरीरस्य तु सर्वशः ॥’ इति च ॥ २० ॥

प्रकाशिका

मूले तिरश्चामित्यस्य तिर्यक्स्रोतसामित्यर्थः । तेषां लक्षणमाह ॥ अविद इति । अविदः शास्त्रयुक्तिजनितज्ञानशून्याः । तत्र हेतुर् भूरितमस इति । तमोगुणप्रचुरा यत इत्यर्थः । घ्राणेनैव स्वेष्टमर्थं जानन्तीति घ्राणज्ञाः । हृद्यस्य हृदयङ्गमस्य वेदो वेदनं येषामस्तीति हृद्यवेदिनः । अन्तःस्पर्शा इति यावत् । अत्र घ्राणज्ञा इत्येतदेव लक्षणमतिव्याप्त्याद्यभावात् । इतराणि स्वरूपकथनपराणीति ज्ञातव्यम् । विंशतिपर्यायो विंशच्छब्दः ॥ २० ॥

गौरजो महिषः कृष्णः सूकरो गवयो रुरुः ।

द्विशफाः पशवश्चेमे अविरुष्ट्रश्च सत्तम ॥ २१ ॥

खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ।

एते चैकशफाः क्षत्तः श्रुणु पञ्चनखान् पशून् ॥ २२ ॥

श्वा सृगालो वृको व्याघ्रो मार्जारः शशशल्यकौ ।

सिंहः कपिर्गजः कूर्मो गोधा च मकरादयः ॥ २३ ॥

कङ्कगृध्रबकश्येना भासवल्लूरबर्हिणः ।

हंससारसचक्राह्वकाकोलूकादयः खगाः ॥ २४ ॥

तात्पर्यम्

अष्टाविंशद्विशेषेण यज्ञेषूपकृतं यतः । तिरश्चां तावदेतस्माद्भण्यते शास्त्रवेदिभिः । गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । अव्युष्ट्रौ च खराश्वौ च तथैवाश्वतरोऽपरः । गौरश्च शरभश्चैव चमरी श्वसृगालकौ । वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ । कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथे’ति ब्रह्माण्डे । कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्व प्रदर्शनार्थं पृथगुक्तः । ‘तत्तदाकारसंयुक्तान्सृज्यान्स्रष्टारमेव च । यः सदा संस्मरेद्योगी न स भूयोऽभिजायत’ इति स्कान्दवचनात्प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थमुक्तिः । ‘उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् । अप्रसिद्धज्ञापनार्थं द्विधा शास्त्रवचः स्मृतमि’ति षाड्गुण्ये । ‘वल्लूरो नृत्तपक्षी च सललूकश्च कथ्यत’ इत्यभिधाने ।

‘अष्टाविंशत्प्रधानास्तु तिरश्चां यास्तु जातयः । यो यस्य सदृशस्त्वन्यः स तत्रान्तर्गतो भवेत् । जलजान्तर्गताः सर्पाः कीटाद्या याश्च जातयः । तेषां जलप्रधानत्वाच्छरीरस्य तु सर्वश’ इति सत्यसंहितायाम् ॥ २१ ॥

पदरत्नावली

गवादिगोधान्तैः षड्विंशत् । कूर्ममकरादिभिः सप्तविंशत् । कङ्कादिभिरष्टाविंशत् । तदुक्तम्– ‘गौरजो महिषः कृष्णः सूकरो गवयो रुरुः । अव्युष्ट्रौ च खराश्वौ च तथैवाश्वतरोऽपरः । गौरश्च शरभश्चैव चमरी श्वसृगालकौ । वृको व्याघ्रश्च मार्जारो हरिश्च शशशल्यकौ । कपिर्गजश्च गोधाद्या जलजाः पक्षिणस्तथा ॥’ इति ॥

तत्र कूर्मो जलजत्वेनाष्टाविंशत्स्वन्तर्भूतोऽपि पञ्चनखत्वप्रदर्शनार्थं पृथगुक्तः । ‘तत्तदाकारसंयुक्तान् सृज्यान् स्रष्टारमेव च । यः सदा संस्मरेद् योगी न स भूयोऽभिजायते ॥’ इति वचनात् प्रसिद्धानामपि द्विशफादीनां स्मरणविधानार्थमुक्तिः । ‘उच्यते सुप्रसिद्धं च स्मरणार्थं च कुत्रचित् । अप्रसिद्धं ज्ञापनार्थं द्विधा शास्त्रवचः स्मृतम् ॥’ इति च । ‘वल्लूरो नृत्तपक्षी च स वलूकश्च’ इत्यभिधानम् ॥ २१-२४ ॥

प्रकाशिका

अष्टाविंशतिभेदानेवाह ॥ गौरज इत्यादिना । अत्र कृष्णरुरुगौरा मृगविशेषाः । ननु तिरश्चां बहुविधत्वात्कथमष्टाविंशतिविधत्वोक्तिरित्यतस्तदुक्तेः प्रयोजनं प्रमाणेनैवाह ॥ अष्टा-विंशदिति । उपकृतमुपयुक्तम् । तावदष्टाविंशतिसङ्ख्योपेतं, भण्यते गण्यत इत्यर्थः । ननु गौरज इत्यादिनाऽष्टाविंशत्यधिकानामपि ग्रहणात्कथमष्टाविंशतिविधत्वमित्यतोऽत्र विवक्षितमभिप्रायं प्रमाणे-नैवाह ॥ गौरज इति । अत्र जलजाः पक्षिण इत्यनेन विधाद्वयमुक्तमिति ज्ञेयम् । तथा च गवादि गोधान्तैः कूर्मं विना षड्विंशतिविधोक्ता जलजत्वेनैकीकृतैर्मकरादिभिः सप्तविंशतित्वं, पक्षित्वेनैकीकृतैः कङ्कादिभिरष्टाविंशतित्वम् । अतो मूले नाधिक्यमिति भावः । ननु मकरादय इत्यनेनैव जलजत्वेन कूर्मस्यापि सङ्ग्रहसंभवात्स किमर्थं पृथगुक्त इत्यत आह ॥ कूर्म इति । पृथगुक्तः कपिर्गजः कूर्म इति पञ्चनखैः सह जलजेभ्यः पृथगुक्त इत्यर्थः । ननु गवादीनां द्विशफत्वादिकं प्रसिद्धं किमर्थमत्रोक्त-मित्याशङ्कायामत्र प्रयोजनं प्रमाणेनैव दर्शयति ॥ तत्तदाकारेति । अत्र प्रमाणान्तरमप्याह ॥ उच्यत इति । अप्रसिद्धस्य ज्ञापनार्थम् । दृष्टान्ततयेति शेषः । द्विधा द्विविधाभिप्रायेण शास्त्रवचः शास्त्रे प्रसिद्धानां वचः । पक्षिषु वल्लूरबर्हिण इति वल्लूरो गणितः । तत्र वल्लूरशब्दार्थं दर्शयितुमभिधानं पठति ॥ वल्लूर इति । ननु तिरश्चां बहुविधत्वात्किमर्थमष्टाविंशतिविधानामेव ग्रहणमित्याशङ्कायां यज्ञोपयुक्तत्व-विवक्षयेति पूर्वं प्रमाणेनैव प्रदर्शितमिदानीं तत्र विवक्षान्तरमपि दर्शयत्प्रमाणं पठति ॥ अष्टाविंशदिति । तुशब्दोऽवधारणे । अष्टाविंशदेवेति सम्बन्धः । प्राधान्यमपि यज्ञोपयोगादिनेति द्रष्टव्यम् । इदानीं सर्वानुक्तिर्नेत्याह ॥ यो यस्येति । अन्य उक्तादन्यः । अस्योदाहरणमाह ॥ जलजान्तर्गता इति । कुत इत्यत आह ॥ तेषामिति । सर्वशः सर्वेषाम् । शरीरस्य शरीराणाम् । तथा चानुक्तानामप्यत्रैवान्तर्भावस्य विवक्षितत्वान्न सर्वानुक्तिरिति भावः ॥ २१-२४ ॥

अर्वाक्स्रोतस्तु नवमः क्षत्तरेकविधो नृणाम् ।

रजोऽधिकाः कर्मपरा दुःखे च सुखमानिनः ॥ २५ ॥

तात्पर्यम्

रजोनिष्ठास्तमोनिष्ठा द्वेधाऽर्वाक्स्रोतसः स्मृताः । असुराद्यास्तमोनिष्ठा मानुषास्तु रजोऽधिका’ इति व्योमसंहितायाम् । दुःखे च सुखमानिनोऽसुराः । ‘सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी’ति वचनात् ॥ ‘सुखे सुखैकभावास्तु देवा नैवं तु दानवा’ इति षाड्गुण्ये

॥ २५ ॥

पदरत्नावली

नवमः सर्गोऽर्वाक्स्रोतो नाम । केषाम् ? नृणां विषयाः । तुशब्दादेकविधोऽपि द्विविधः, असुराद्या मानुषा इति । मानुषाणां स्वभावमाह– रजोऽधिका इति ॥ भौतिकरजोंऽश-जातत्वाद् रजोनिष्ठाः । तदुक्तम्– ‘यद् रजो भौतिकं तेन मानुषाणां सदा जनिः । तमोगूढेन रजसात्वितरस्थास्नुचारिणाम् ॥’ इति । अनेन भूरितमस इति पदं विवृतम् । रजोनिष्ठत्वादेव कर्मपराः ‘न हि कश्चित् क्षणमपि जातु तिष्ठत्यकर्मकृत्’ इति वचनात् । किञ्च ‘रजोनिष्ठास्तमोनिष्ठा द्वेधाऽर्वाक् स्नोतसः स्मृताः । असुराद्यास्तमोनिष्ठा मानुषास्तु रजोऽधिकाः ॥’ इति वचनाच्च । मानुषलक्षणमुक्त्वा असुरादिलक्षणमाह– दुःखे चेति ॥ चशब्द एवार्थे । दुःख एव सुखमानिनः । अनेन सर्वार्थेषु विपरीतज्ञानित्वमासुरलक्षणमुक्तं भवति । ‘सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसी’ इति वचनात् । ‘सुखे सुखैकभावास्तु देवा नैवं तु दानवाः’ इति । चशब्दान्मानुषा उभयात्मका इति ज्ञातव्यम् । तर्हि अर्वाक्स्रोतस्त्वं मानुषाणां कथमिति चेत् ? शुभप्रयत्नमन्तरेणाधोगमनात् । तदुक्तम्– ‘प्रायोऽधोगमनं यस्मात् प्रयत्नेन विना भवेत् । अर्वाक्स्रोतस इत्येव मानुषाः परिकीर्तिताः ॥’ इति । ‘तिरश्चां स्थावराणां च बुद्धिपूर्वप्रवर्तिनाम् । असुराणां च बुद्धिपूर्वप्रवर्तिंनाम् । असुराणां रक्षसां च पिशाचानां तथैव च । अर्वाक्स्रोतस्त्वमुद्दिष्टं नियमादसुरादिनाम्’ इति वचनात् तिर्यगादिसाधारणमपि असुरादीना-मर्वाक्स्रोतस्त्वं नियतमिति ज्ञातव्यम् ॥ २५ ॥

प्रकाशिका

मूले नवमः सर्ग इत्यनुवर्तते । अर्वाक्स्रोतसां सम्बन्धित्वादर्वाक्स्रोतोनामकः । स्रोत इति ह्रस्वश् छान्दसः । अस्य नृणामित्युक्त्या मनुष्यमात्रपरत्वे दुःखे च सुखमानिन इति असुर-स्वभावकथनमयुक्तमित्यतोऽस्य तात्पर्यं प्रमाणेनैवाह ॥ रजोनिष्ठा इति । तमोनिष्ठा इत्यनन्तरमिति-शब्दोऽध्याहार्यः । आद्यशब्देन रक्षःपिशाचादीनां ग्रहणम् । तथा च मूले नृणामित्यसुराद्युपलक्षक इति भावः । तुशब्दोऽवधारणे । उपलक्षणयाऽसुरादीनां ग्रहणे मूले ज्ञापकं दर्शयति ॥ दुःख इति । दुःख-यतीति दुःखे दुःखसाधनतया प्रमिते हरिद्वेषादौ, सुखयतीति सुखं सुखसाधनमिदमिति मन्यमाना मूलोक्ता असुरा एवेत्यर्थः । यद्वा दुःखरूपे स्वचैतन्ये सुखरूपत्वमानिन इत्यर्थः । तथा चोपलक्षणयाऽ-सुराद्या अपि ग्राह्या इति शेषः । कथमेतदसुरत्वज्ञापकमित्यतोऽत्र प्रमाणमाह ॥ सर्वार्थानिति । या विषयीकरोतीति शेषः । चशब्दोऽवधारणे । परतत्त्वं निर्गुणत्वादिनाऽपरतत्त्वं मिथ्यात्वादिना जानन्तीति सर्वार्थेषु तद्बुद्धेर्वैपरीत्यमिति भावः । इदं साधारणं प्रमाणमित्यतो विशेषाकारेण दुःखे सुखमानित्व-प्रतिपादकप्रमाणमाह ॥ सुख इति । सुखात्मके स्वचैतन्ये सुखरूपमेवेदमिति भावयन्तीति भावः । दानवा नैवं किन्तु दुःखात्मके स्वचैतन्ये सुखरूपमेवेदमिति सुखभावा इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ अर्वाक् स्रोतोनामकः सर्गो नवमः । तुशब्दो स द्विविध इति विभागार्थः । कथम् । नृणां सम्बन्ध्येक-विधः । असुरादीनां सम्बन्ध्येकविध इति । तत्राद्यानां स्वभावं दर्शयति ॥ रजोऽधिका इति । अनेन द्वितीया तमोऽधिका इति सूचितम् । द्वितीयानां स्वभावमाह ॥ दुःखे चेति । चशब्देन सर्वार्थानपि विपरीतानेव पश्यन्तीति सूचयति ॥ २५ ॥

वैकृतास्त्रय एवैते देवसर्गश्च सत्तम ।

वैकारिकस्तु यः प्रोक्तः कौमारस्तूभयात्मकः ॥ २६ ॥

तात्पर्यम्

‘कुमारन्तीति कौमारो देवानामण्डजोद्भवः । वैकारिकाणां जननात्प्राकृतो वैकृतश्च सः । वैकारिकेष्वेवान्येषामीषद्भोगित्वहेतुतः । उभयात्मकत्वं तेनैव प्रोच्यन्तेऽष्टगणा अपीति । देवसर्गश्चेति चकारार्थ उभयात्मक इति वैकारिकस्तु देवसर्गः प्राकृतत्वेनोक्तः ॥२६॥

पदरत्नावली

सत्तम सत्सु श्रेष्ठ । एते त्रयस् तस्थुस्तिर्यङ्मानुषविषया एव वैकृता अण्डाभ्यन्तर-सर्गाः, उक्ता इति शेषः । ‘एव साम्येऽवधारणे’ इत्याभिधानादेवशब्दस्य साम्यार्थमाह– देवसर्ग इति ॥ देवसर्गः प्राकृतो वैकृतश्चेत्यर्थः । तदेव विशदयति– वैकारिकश्चेति ॥ यो वैकारिको देवसर्गः प्राकृतत्वेन प्रोक्तः स कौमारश्चेत्युभयात्मकः प्राकृते वैकृतश्चेति । कौ भूमौ मा मानं निर्माणं तस्यारः प्राप्तिर्यस्य स तथोक्तः । अण्डाद् बहिर्जातानां देवानां पुनरण्डान्तर्भूमौ जन्म कौमार इत्युच्यत इत्यर्थः । मा निर्माण इति धातुः । ‘कुमारन्तीति कौमारो देवानामण्डजोद्भवः । वैकारिकाणां जननात् प्राकृतो वैकृतश्च सः । वैकारिकेष्वेवान्येषामीषद्भोगित्वहेतुतः । उभयात्मकत्वं तेनैव प्रोच्यन्तेऽष्टगणा अपि ॥’ इति वचनात् ॥ २६ ॥

प्रकाशिका

वैकृतास्त्रय एवैत इति श्लोकस्य द्वितीयार्धे कौमार इत्यस्य सनत्कुमारादि-सम्बन्धीत्यन्यथाप्रतीतिवारणाय तदर्थं दर्शयन्समग्रतदर्धतात्पर्यप्रतिपादकं प्रमाणं पठति ॥ कुमारन्तीति । अनेन कौ भूमौ मा निर्माणं रन्ति प्राप्नुवन्तीति कुमारा देवास्तेषामयं सर्गः कौमार इति व्याख्यानं दर्शयति ॥ स क इत्यपेक्षायामाह ॥ देवानामिति । देवानां योऽण्डे जात उद्भवो वैकृतत्वेनोक्तः स एवेत्यर्थः । उभयात्मक इत्यस्य व्याख्यानम् ॥ प्राकृतो वैकृतश्च स इति । प्राकृतवैकृतरूपोभयात्म-कत्वोपपादनाय ‘वैकारिकश्च यः प्रोक्तः कौमार’ इत्येतत्प्रकृतमित्याशयेन तस्य तात्पर्यमाह ॥ वैकारिकाणामिति ॥ प्राकृतत्वेनोक्तानां वैकारिकाणां वैकारिकाहङ्कारकार्याणामिन्द्रियदेवानां पुनर्भूमौ जननादित्यर्थः । अनेन यो वैकारिकः प्राकृतत्वेनोक्तः स एवोक्तरीत्या कौमारो वैकृतश्चेत्युभयात्मकमिति मूलं व्याख्येयमिति दर्शयति ।

नन्वेवमण्डे जातानामिन्द्रियदेवानामेवोभयात्मकत्वे वक्ष्यमाणानां पित्रादीनां वैकारिकत्वाभावेनो-भयात्मकदेवप्रभेदत्वानुपपत्तिरित्यत आह ॥ वैकारिकेष्वेवेति । अष्टगणा अपि अष्टगणान्तर्गताः पित्रादयोऽपीषद्भोगित्वहेतुतो वैकारिकेष्वन्तर्भूता यतोऽत उभयात्मकत्वं तेनैवोभयात्मकदेवप्रभेदत्वेनैव प्रोच्यन्त इति योजना । अत्रेषद्भोगो यज्ञीयहविरादीनामिति ज्ञेयम् । नन्वेवं देवसर्गस्योभयात्मकत्वे वैकृतास्त्रय एवैते देवसर्गश्च सत्तमेति पूर्वार्धे चशब्देन देवसर्गस्य कथं वैकृतत्वं समुच्चीयत इत्यत आह ॥ देवसर्गश्चेति । तथा च देवसर्ग उभयात्मक इत्यनुक्तसमुच्चायक एव चकारो नोक्तसमुच्चायको येनोक्त-विरोधी स्यादिति भावः । उक्तसमुच्चायकत्वे त्रय एवेत्यवधारणानुपपत्तिश्चेति ज्ञेयम् । वैकारिकश्च यः प्रोक्त इत्यस्य प्राकृतत्वकोट्युपपादकतालाभायापेक्षितं पूरयति ॥ वैकारिकस्त्विति । तुशब्द इन्द्रियाभि-मानित्वरूपविशेषार्थः । ततश्च वैकारिक इत्येतत्प्राकृतत्वकोट्युपपादकं भविष्यतीति भावः ॥ ततश्चायं श्लोकार्थः ॥ एते तस्थुतिर्यङ्मानुषसम्बन्धिनस्त्रय एव वैकृता वैकृतनामानः सर्गाः । उक्ता इति शेषः । दशमं सर्गमाह ॥ देवसर्गश्चेति । भो सत्तम सत्सु श्रेष्ठ । देवसर्गः । चशब्दोऽनुक्तसमुच्चायकः । प्राकृतो वैकृतश्चेत्युभयात्मक इत्यर्थः । एतदेव विशदयति ॥ वैकारिकस्त्विति । तुशब्दो महदाद्यभिमानि-ब्रह्मादिसर्गव्यावृत्त्यर्थः । द्वितीयस्तुशब्दश्चेत्यर्थः । यो वैकारिको वैकारिकाहङ्कारकार्येन्द्रियदेवसर्गः पूर्वं प्राकृतत्वेनोक्तः स एवोक्तरीत्या कौमारश्चेत्युभयात्मकः । प्राकृतवैकृतनामको दशमः सर्ग इत्यर्थः ॥२६॥

देवसर्गश्चाष्टविधो विबुधाः पितरोऽसुराः ।

गन्धर्वाप्सरसः सिद्धा यक्षरक्षांसि चारणाः ॥ २७ ॥

भूतप्रेतपिशाचाश्च विद्याध्राः किन्नरादयः ।

दशैते विदुराख्याताः सर्गास्ते विश्वसृक्कृताः ॥ २८ ॥

अतः परं प्रवक्ष्यामि वंशान् मन्वतराणि च ।

तात्पर्यम्

‘प्रोक्ता अष्टविधा देवा विबुधाः सर्व एव तु । पितॄणां शतमेवात्र असुरा-स्त्रिंशदेव च । गन्धर्वाप्सरसां चैव द्विशतं परिकीर्तितम् । सप्ततिर्यक्षरक्षस्सु त्रिंशच्चारणजातिषु । शतं सिद्धास्तथाऽन्यासु सप्ततिः सर्वजातिषु । ऊर्ध्वस्रोतस एवैते अन्येऽर्वाक्स्रोतसः स्मृताः । वैकारिकेषु देवेषु एते वै मुग्ध (मुख्य)भोगिनः । अभोगिनस्तदन्ये तु देवा एते ततः स्मृताः । सर्वज्ञास्ते सहाराध्या भक्तास्तेष्वन्तरेव च । नृत्तगानादिकर्तारो वाहनादिकृतस्तथा । सिद्ध-सिद्धेति वक्तारश्चाराश्चैषां क्वचित्क्वचित् । सेवाकारा इति ह्येतैर्भेदैरष्टविधा मताः । अन्ये च ये तु सर्वज्ञा विबुधास्ते प्रकीर्तिताः । तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गता’ इति तत्त्वविवेके । ‘यदि देवादयो दोषाज्जायेरन्मानुषादिषु । तथाऽपि देवा विज्ञेया असुराद्यास्तथा ध्रुवमि’ति च

॥ २७,२८ ॥

पदरत्नावली

देवसर्गं विभजति– देवसर्गश्चेति ॥ चशब्देन संख्याविशेषं केषाञ्चिदन्तर्भावं सूचयति । तदुक्तम्– ‘प्रोक्ता अष्टविधा देवा विबुधाः सर्व एव तु । पितृणां शतमेवात्र असुरास्त्रिंशदेव तु । गन्धर्वाप्सरसां चैव द्विशतं परिकीर्तितम् । सप्ततिर्यक्षरक्षःसु त्रिंशच्चारणजातिषु । शतं सिद्धा-स्तथाऽन्यासु सप्ततिः सर्वजातिषु । ऊर्ध्वस्रोतस एवैते अन्येऽर्वाक् स्रोतसः स्मृताः । सर्वज्ञास्तैर् महाऽराध्या भक्तास्तेष्वन्तरेव च । नृत्तगानादिकर्तारो वाहनादिकृतस्तथा । सिद्धसिद्धेति वक्तारश्चाराश्चैषां क्वचित् क्वचित् । सेवाकारा इति ह्यैतैर्भेदैरष्टविधा मताः । अन्ये च ये तु सर्वज्ञा विबुधास्ते प्रकीर्तिताः । तथाऽन्ये कर्मभिस्तैस्तैरष्टभेदान्तरं गताः ॥’ इति । अण्डान्तर्भूमौ जायमानानां देवानां भूतशतगुणत्रया-दुत्पत्तिर्योग्यताभेदेनानेकविधा । तदुक्तम्– ‘भौतिकेन तु सत्त्वेन गूढं ब्रह्मण आण्डजम् । रूपं तत्रापि तु तमः शतांशेन प्रकीर्तितम् । तज्जो रुद्रस्ततस्त्वेवमिन्द्रादीनां पुनर्जनिः । गूहितं भूतरजसा तत् सत्त्वं मानुषा यदा । देवा एवं गुणास्त्वेते सर्वं व्याप्य व्यवस्थिताः । गुणातीतं च यद् रूपं ब्रह्मादीनां सुखात्मकम् । चिद्रूपं तस्य सत्त्वस्यैवोत्कर्षे यत्र विद्यते । तत्रोत्कृष्टं तमो यत्र हीनं तत् तु स्वभावतः। उपगूहने तु नैवास्ति विशेषो नित्यचिन्मये । प्रकृतेर्गुणरूपाया मूलिकायाश्च न क्वचित् । विशेषः परमे तत्त्वे वासुदेवे कुतः पुनः ॥’ इति । देवानां शापादिदोषाद् भूमौ जननेऽपि भूतगुणस्वभावेन देवत्व-मासुरत्वं ज्ञायते । तदुक्तम्– ‘यदि देवादयो दोषाज्जायेरन् मानुषादिषु । तथापि देवा विज्ञेया आसुराद्यास्तथा ध्रुवम् ॥’ इति । प्रकृतमुपसंहरति– दशेति ॥ देवसर्गस्य प्राकृतवैकृतभेदेनोक्तसर्गाणां दशत्वं युज्यते ॥ २७-२८ ॥

प्रकाशिका

देवसर्गविभागमाह ॥ देवसर्गश्चेति । अवान्तरविधावत्वसमुच्चये चशब्दः । अष्टविधत्वमेव दर्शयति ॥ विबुधा इत्यादिना । नन्वत्र विबुधा इत्यारभ्य किन्नरादय इत्यन्तेन बहव उक्ताः । अतः कथमेषामष्टविधत्वमित्याशङ्कायामत्र विवक्षाविशेषं प्रमाणेनैव दर्शयति ॥ प्रोक्ता इति । देवा अष्टविधाः प्रोक्ता इति सम्बन्धः । तान्निर्दिशति ॥ विबुधा इति । विबुधा इन्द्रादयो देवाः सर्व एव न पित्रादिष्विव सङ्कोच इत्यर्थः । तुशब्दो विबुधेषु वैकारिकत्वरूपविशेषसूचकः । अत्राष्टगणे । असुराश्चेति सम्बन्धः । गन्धर्वाणां शतमप्सरसां च शतमिति द्विशतमेवेति सम्बन्धः । अन्यासु सर्व-जातिषु । उक्तादन्यासु भूतादिकिन्नरान्तासु । ततश्च सर्वे विबुधाः । शतसङ्ख्याकाः, पितरः, त्रिंश-त्सङ्ख्याकाः, असुराः, शतसङ्ख्याकाः, गन्धर्वाः, शतसङ्ख्याकाः, अप्सरसश्चेत्येका विधा । सप्तति-सङ्ख्याकानि यक्षरक्षांसि, त्रिंशत्सङ्ख्याकाश्चारणाः, शतसङ्ख्याकाः सिद्धाः, भूतादिकिन्नरान्तसर्वजातिषु सप्ततिसङ्ख्याकानामेकविधत्वमित्यभिप्रायेणात्र देवसर्गस्याष्टविधत्वमुक्तमिति भावः । कुत एवं पित्रादिषु कतिपयानामेव देवसर्गत्वमित्यतोऽत्र प्रमाणमाह ॥ ऊर्ध्वस्रोतस इति । एत एव पूर्वं निर्दिष्टाः पित्रादय एवोर्ध्वस्रोतसः स्मृताः स्मृत्यादावुक्ताः । अन्ये शतत्वादिना निर्दिष्टेभ्योऽन्ये पित्रादयोऽर्वाक्स्रोतसः स्मृता अतो नोर्ध्वस्रोतस्त्वेनोक्तदेवविभागान्तर्भावयोग्या इति भावः । युक्तिं चाह ॥ वैकारिकेष्विति । एते पूर्वं निर्दिष्टा देवेषु मध्ये मुग्धभोगिन ईषद्भोगिनः । ईषद्भोगित्वहेतुत इति पूर्वमुक्तत्वात् । देवा देव-विधान्तर्गताः ।

एवं जात्याऽष्टविधत्वमुक्त्वा विभाजकान्तरमप्याह ॥ सर्वज्ञा इत्यादिना । तथा च सर्वज्ञत्वं विबुधानां विभाजकम् । तैर्विबुधैः सहाराध्यत्वं पितॄणाम् । अत एव श्राद्धे विश्वेदेवाराधननियमः । तेषु विबुधेषु । अन्तरेव भक्ताश्चेत्यसुराणाम् । बल्यादयो हि स्वभृत्यमनःसमाधानाय बाह्यतो विबुधान् विद्विषन्तोऽपि तेष्वन्तरेव भक्तिं कुर्वन्तीति प्रसिद्धम् । नृत्यगानकर्तार इति गन्धर्वाप्सरसां वाहनादिकर्तार इति यक्षरक्षसाम् । अत्रादिपदेन युद्धादिसङ्ग्रहः । सिद्धसिद्धेति ॥ सिद्धानां सिद्धं सिद्धमिति वक्तार इत्यर्थः । चाराश्चैषामिति चारणानाम् । क्वचित्क्वचित्कार्यविशेषे सेवाकरा इति भूतादिकिन्नरान्तानाम् ।

ननु सर्वज्ञत्वस्य कथं विबुधविभाजकोपाधित्वं वसिष्ठादिमुनिष्वपि सत्वादित्यतस्तेऽप्यत्र विबुधत्वेन विवक्षिता इत्याह ॥ अन्ये चेति । ऋष्यादय इत्यर्थः । नन्वेवमपि तैः सहाराध्यत्वादिकं यत्पित्रादि-विभाजकमुक्तं तदपि सर्वं तत्र तत्रातिप्रसक्तं कथं विभाजकं स्यादित्याशङ्कायामाह ॥ तथाऽन्य इति । शतत्वादिना निर्दिष्टपित्रादिभ्योऽन्ये । तैस्तैः कर्मभिस्तैः सहाराध्यत्वादिरूपोपाधिभिर्यदि युक्तास्तर्हि तेऽप्यष्टभेदान्तरं गताः । अष्टभेदत्वेनोक्तपित्रादित्वेनैव विवक्षिताः । अतो नोक्तोपाधीनामतिप्रसक्ति-रित्यर्थः । ननु तथाऽपि विबुधत्वादिजातिप्रयुक्तो विभागोऽनुपपन्नः । विबुधादीनां मानुषादिषु जनने विबुधत्वादिजातेरपगमादित्यत आह ॥ यदि देवादय इति । विबुधादय इत्यर्थः । आदिपदेन पित्रादयो ग्राह्याः । देवा विज्ञेया विबुधादयो विज्ञेयाः । विबुधत्वादिकं तेषु नापगच्छतीति भावः । प्रसङ्गा-द्दृष्टान्ततया तानाह ॥ असुराद्या इति । यथाऽसुराद्या मानुषादिषु जाता असुराद्या एव तथेत्यर्थः । उपसंहरति मूले ॥ दशैत इति ॥ २७-२८ ॥

एवं रजःप्लुतः स्रष्टा कल्पादिष्वात्मभूर्हरिः ।

सृजत्यमोघसङ्कल्प आत्मैवात्मानमात्मना ॥ २९ ॥

तात्पर्यम्

गुणाप्लुतो हरिर्नित्यं गुणानां मध्यगो यतः । अनहंवेदनात्तस्य गुणासंस्पर्श एव चे’ति च । ‘सृष्ट्वा देवादिदेहान्स आत्मानं बहुधाऽकरोत् । तन्नियन्तृतयाऽऽत्मानं प्रकृतिं देहभेदत’ इति नारदीये । ‘कर्ता च करणं चैव कर्म चैव स्वयं हरिः । आत्मनो बहुधाभावे प्रकृतेस्तु स्वतन्त्रता’ इत्याग्नेये ॥ २९ ॥ इति तृतीयतात्पर्ये एकादशोऽध्यायः ॥ ११ ॥

पदरत्नावली

मूलसृष्टिर्हरिणैवास्तु मन्वन्तरेष्ववान्तरसृष्टिरन्यैरिति शङ्का मा भूदित्याशयेनाह– एवमिति ॥ आत्मभूरजो हरिरात्मना स्वेच्छया कल्पादिष्वात्मैव स्वयमेव स्वतन्त्रो भूत्वा प्रकृत्युपादानेन देवादिदेहान् सृष्ट्वा तन्नियन्तृतयाऽत्मानं सृजति प्रादुर्बभूव बहुरूपत्वेनेति शेषः । कीदृशो हरिः ? एवमुक्तप्रकारेण स्रष्टा । अनेन विरिञ्चादीनां स्रष्टृत्वं द्वारमात्रमुक्तं भवति । कथं स्रष्टेत्यत उक्तम्– रजःप्लुत इति ॥ रजआदिगुणानां मध्यवर्तित्वाद् रजोगुणप्लुतो न तु गुणाधीनत्वादभिमानाच्च देवदत्तवत् । हरिरिन्द्राद्यन्यतमः किं न स्यादित्यत उक्तम्– आत्मभूरिति ॥ कामो नेति स्रष्टेति । तर्हि विरिञ्चः किमित्यत उक्तम्– हरिरिति ॥ रजोगुणेन द्रवीभूतो रजःप्लुत इति प्रसिद्धार्थं परित्यज्याप्रसिद्धार्थकल्पने किं प्रमाणमित्यत आचार्यैरिदं मानमुदाहृतम्– ‘गुणाप्लुतो हरिर्नित्यं गुणानां मध्ययोगतः । अनहंवेदनात् तस्य गुणासंस्पर्श एव च ॥’ इति । ‘सृष्ट्वा देवादिदेहान् स आत्मानं बहुधाऽकरोत् । तन्नियन्तृ-तयाऽत्मानं प्रकृतिं देहभेदतः ॥’ इति वचनं स्वबहुत्वे प्रमाणम् । एकत्वेऽस्य कर्तृकर्मादिभावः कथ-मितीदं चोद्यं ‘कर्ता च करणं चैव कर्म चैव स्वयं हरिः । आत्मनो बहुधाभावे प्रकृतेस्तु स्वतन्त्रता ॥’ इति वाचा परिहर्तव्यम् । एतदभिप्रायेणामोघसङ्कल्प इत्युक्तम् ॥ २९ ॥

प्रकाशिका

उक्तसृष्टिषु ब्रह्मादयो निमित्तमात्रं हरिरेव स्वातन्त्र्येण देवादीन्सृष्ट्वा तेषु तेषु नियन्तृतया स्वात्मानमपि सृष्टवानित्युपसंहरति ॥ एवमिति । अत्र रजःप्लुत इति रजोगुणबद्धत्वमुच्यत इति प्रतीतिवारणाय प्रमाणेनैव तात्पर्यमाह ॥ गुणाप्लुत इति । गुणाप्लुत इत्युच्यते यतो गुणानां मध्यगः प्रेरकतयाऽन्तर्गतः । गुणबद्धत्वमेवार्थः किं न स्यादित्यत आह ॥ अनहमिति । अभिमानाभावा-दित्यर्थः । चशब्दो यस्मादित्यर्थे । तथा च यस्मादभिमानाभावेन तस्य हरेर्गुणासंस्पर्श एव निश्चित-स्तस्मादुक्त एवार्थ इति योजना । मूले आत्मानं सृजतीति सृज्यस्य जगतः स्वात्मत्वं प्रतीयतेऽतस्तदभि-प्रायं प्रमाणेनैवाह ॥ सृष्ट्वेति । आत्मानं जीवराशिं बहुधोर्ध्वस्रोतस्त्वादिजातिभेदेन । अनेन मूले आत्मानमिति द्वितीयान्तं जीवराशिपरम् । बहुधेति चाध्याहार इति सूचयति । आत्मानमित्यस्य स्वात्मानमित्यप्यर्थ इत्याशयेनाह ॥ तन्नियन्तृतयेति । आत्मानमित्यस्य प्रकृतिपरत्वमभिप्रेत्याह ॥ प्रकृतिमिति । अत्रोभयत्र बहुधाऽकरोदिति पदयोरनुवृत्तिः ।

ननु यथा प्रकृतेर्देहभेदेन बहुधाभावे कर्त्रादिकारकान्तरापेक्षा तथा हरेर्बहुधाभावेऽपि हरिभिन्नानां कर्त्रादीनामपेक्षा किमित्याशङ्कां प्रमाणेनैव परिहरति ॥ कर्ता चेति । स्वयमेवेत्याद्यस्यैवकारस्य सम्बन्धः । द्वितीयस्यात्मान एव बहुधाभाव इति । अत एव तद्व्यावर्त्यमाह ॥ प्रकृतेरिति । तुशब्दोऽव-धारणे । प्रकृतेर्देहादिभेदेन बहुधाभावे आत्मनः परमात्मनः स्वतन्त्रतैव प्रकृतिभिन्नकर्त्रादिकारण-नियामकतैव । न तत्रापि कर्त्रादेरैक्यमित्यर्थः । ततश्चैवं पूर्वोक्तरीत्या रजःप्लुतो नियामकतया रजो-गुणान्तर्गतोऽत एव स्रष्टाऽऽत्मना स्वेच्छयैव भवतीत्यात्मभूर्हरिः । आत्मैव स्वयमेव कर्त्रादिकारकान्तर-नियामकतया स्वतन्त्रः सन् आत्मानं जीवराशिं बहुधा देवादिभेदेन कल्पादिषु कल्पानामादिकालेषु सृजति । एवमात्मानं प्रकृतिं बहुधा देवादिदेहभेदेन सृजतीत्यपि व्याख्येयम् । तथाऽऽत्मैव न कर्त्राद्यन्तरमपेक्ष्यात्मानं स्वात्मानमात्मना स्वेच्छयैव बहुधा जीवदेहादिनियामकानेकरूपवत्तया सृजति प्रादुर्भवतीति मूलयोजना द्रष्टव्या ॥ २९ ॥

गुणव्यत्यय एतस्मिन् मायावत्त्वादधीशितुः ।

न पौर्वापर्यमिच्छन्ति नद्यां भ्राम्यद्भ्रमेरिव ॥ ३० ॥

पदरत्नावली

तर्हि कथं सृष्टिः प्रथमेत्याशङ्क्य तन्नियमो नास्तीति सदृष्टान्तमाह– गुणेति ॥ एतस्मिन् गुणव्यत्यये गुणव्यतिकरे पौर्वापर्यं पूर्वापरीभावं नेच्छन्ति, विपश्चित इति शेषः । कुतः ? अधीशितुर् अखण्डैश्वर्यस्य हरेर्मायावत्त्वाद् इच्छानियतत्वात् । नद्यां भ्रमन्त्याः पुनः पुनरावर्तमानाया भ्रमेर् आवर्तस्येव ॥ ३० ॥

प्रकाशिका

नन्विदं गुणवैषम्यं किं पूर्वमुतापरमित्याशङ्कायामाह ॥ गुणव्यत्यय इति । गुण-व्यत्यये उक्तरूपगुणवैषम्ये सृष्टौ । अधीशितुः स्वातन्त्रेण कर्तुः । मायावत्वात्सर्वदा प्रकृत्यादि-सर्वकारणत्वान्न पौर्वापर्यमिच्छन्ति । सृष्टिपरंपराया इदंप्रथमतां नेच्छन्ति ज्ञानिन इत्यर्थः । अत्र दृष्टान्तमाह ॥ नद्यामिति । नद्यां भ्रमत्याः पुनः पुनरावर्तमानाया भ्रमेरावर्तस्येव ॥ ३० ॥

देवासुरादयः क्षत्तः कल्पेऽस्मिन् ये प्रकीर्तिताः ।

त एव नामरूपाभ्यामासन् मन्वन्तरान्तरे ॥ ३१ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे एकादशोऽध्यायः ।

पदरत्नावली

एतत्कल्पसृष्टेभ्योऽन्यस्मिन् कल्पेऽन्ये सृज्यन्त इति भ्रान्तिं निवारयति– देवेति ॥ इन्द्रादिनाम्ना सहस्राक्षशुक्लादिरूपेण च ॥ ३१ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे एकादशोऽध्यायः ॥

प्रकाशिका

नन्वेवमस्मिन्कल्प एव विरिञ्चादिसर्वदेवादीनामुक्तत्वादुत्तरकल्पे सृज्यसर्वदेवाद्य-भावः । न च तत्पदस्था अन्ये सृज्या इति वाच्यम् । तेषां भिन्ननामादिरूपादिप्राप्तिसम्भवेन तत्प्रति-पादकापौरुषेयवेदाप्रामाण्यप्रसङ्ग इत्यत आह ॥ देवासुरादय इति । अस्मिन्कल्पे यद्रूपा यन्नामानः प्रकीर्तिता वेदेषु त एव तत्सदृशा एव तत्तद्गुणस्था एव नामरूपाभ्यामेतत्कल्पीयदेवादिसमाननाम-रूपाभ्यामासन् भविष्यन्ति । मन्वन्तरान्तरे कल्पान्तरे आसन्निति वचनेन पूर्वमप्येवमेवाभूदिति देवादि-प्रवाहस्यानादित्वं सूचयति । यद्वा । अस्मिन्दैनन्दिनकल्पे देवासुरादयो ब्रह्मादयो देवा बल्यादयोऽसुराः । आदिपदान्मरीचिप्रभृतयो ऋष्यादयश्च । ये प्रकीर्तितास्त एव मन्वन्तरान्तरे आसन्निति ॥ ३१ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यामेकादशोऽध्यायः ॥ ३-११ ॥