ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
अथ दशमोऽध्यायः
ब्रह्मोवाच–
ज्ञातोऽसि मेऽद्य सुचिरान्ननु देहभाजां
न ज्ञायते भगवतो गतिरित्यवद्यम् ।
नान्यत् त्वदस्ति भगवन्नपि तत्त्वशुद्धं
मायागुणव्यतिकराद् यदुरुर्विभासि ॥ १ ॥
तात्पर्यम्
स्वतो नास्ति तदधीनं विद्यमानमप्यशुद्धम् । यच्च स्वनानात्वं तदपि स्थानभेदादसदेव भाति । ‘एकोऽपि स्थाननानात्वान्नानेव हरिरीयते । सर्वान्तर्यामिणस्तस्य न भेदो विद्यते क्वचिदि’ति ब्रह्मवैवर्ते ॥ १ ॥
पदरत्नावली
ब्रह्मणः स्तुतिप्रकारोऽस्माकमपि किमिति मनःशङ्का माभूदिति भावेन तत्स्तुति-प्रकारं कथयति– ज्ञातोऽसीत्यादिना ॥ नन्वित्यवधारणार्थोऽनुनयार्थो वा । मे ननु मम सुचिरात् तप आद्यनुनयेन अद्य ज्ञातोऽसि । नन्वेवं मे अव्यक्तस्वभावस्य ज्ञानं कथं घटत इति तत्राह– देह-भाजामिति ॥ भगवतो गतिः स्वरूपं देहभाजामनुनयेन न ज्ञायत इति यत् तदवद्यं दुष्टम् । अतो ऽव्यक्तस्वभावोऽपि भक्त्यादिसाधनसामग्य्रा ज्ञायत एवेत्यर्थः । ननु तर्हि कस्मात् सर्वे पुरुषार्थभाजो नाभूवन्नित्यस्येदमेवोत्तरम् । तव गतिर्न ज्ञायत इत्यत्र अवद्यं पापं कारणं नन्वित्यर्थः । देहभाजामिति स्वस्वामिसम्बन्धज्ञापनाय षष्ठी । स्वस्वामिभावज्ञानाभावान् न ज्ञायत इति भावः । ननु स्वव्यति-रिक्तवस्तुनोऽसत्त्वान्न ज्ञायत इति किं न स्याद् ? अत्राह– नेति ॥ त्वदन्यद् वस्तु अस्ति । स्वतो नास्ति त्वदधीनसत्ताकत्वात् । ‘द्रव्यं कर्म च कालश्च’ इत्यादेः । तर्हि तेन ज्ञायेतेति तत्राह– तदिति ॥ तुशब्दो भेदेऽवधारणे वा । त्वत्तो भिन्नं तज्जगदशुद्धं सदोषमेव । अतः सदोषत्वान्निर्दोषो भवान् न ज्ञायत इत्यर्थः । त्वदन्यस्य सदोषत्वं भवतो निर्दोषत्वं च कथम् ? अत्राह– मायेति ॥ मायायाः प्रकृतेः सत्त्वादिगुणानां व्यतिकराद् विकाराज्जातेषु महदादितत्त्वेषु अन्तर्यामिरूपैरवतारैश्च उरुर्बहुत्व-सङ्ख्याविशिष्टो विभासीति यत् तस्मादितरत् सर्वं सदोषं त्वं निर्दोष इत्यतो विभासीत्युक्तम् । अत्र यत् स्वनानात्वं तदपि स्थानभेदादसदेव भाति । ‘एकोऽपि स्थाननानात्वान्नानेव हरिरीयते । सर्वान्तर्यामिण-स्तस्य न भेदो विद्यते क्वचित् ॥’ इति वचनात् ॥ १ ॥
प्रकाशिका
ब्रह्मणः स्तुतिप्रकारं कथयति कतिपयैः श्लोकैः । तत्रादौ तावद्भगवद्दर्शनेनात्मनः कृतार्थतामाविष्कुर्वन्नाह ॥ ज्ञातोऽसीति । अत्र द्वितीयार्धे त्वदन्यन्नास्ति यदप्यस्तीति प्रतिभाति तत्तु अशुद्धम् असत् । तर्ह्यसतः कथं प्रतीतिरित्यत आह ॥ मायेति । मायागुणक्षोभात्त्वमेवोरुतया विभासीति व्याख्यानमसदिति भावेन विवक्षितं तात्पर्यं दर्शयति ॥ स्वत इति । स्वातन्त्र्येणेत्यर्थः । यथाश्रुते प्रत्यक्षादिविरोधात् स्वत इत्यध्याहृत्य योज्यमिति भावः । अपि तत्त्वशुद्धमित्यस्यार्थमाह ॥ तदधीन-मिति । अनेन स्वतो नास्तीति विशिष्टनिषेधेन लब्धस्य तदधीनतया विद्यमानार्थस्य परामर्शकस्तच्छब्द इति दर्शयति । अशुद्धं सदोषम् । नन्वेवं भगवद्रूपाणामपि स्थानभेदेन भेदस्य प्रतीयमानत्वाद्भगव-दन्यत्वप्राप्त्या तदधीनत्वरूपास्वातन्त्र्यप्रसङ्ग इत्याशङ्कापरिहाराय प्राप्तस्य चतुर्थपादस्य तात्पर्यमाह ॥ यच्चेति । उरुरित्यस्य तात्पर्यम् ॥ स्वनानात्वमिति । मायागुणव्यतिकरादित्यस्य तात्पर्यम् ॥ स्थानभेदादिति । विशब्दार्थो ऽसदेवेति । यच्च स्थानभेदात्स्वनानात्वं भाति तदप्यसदेव भातीत्यन्वयः । अत्र प्रमाणसंवादमाह ॥ एकोऽपीति । स्वगतभेदशून्योऽपीत्यर्थः । ईयते ज्ञायते । हरेः स्वगत-भेदशून्यत्वे युक्तिमप्याह ॥ सर्वान्तर्यामिण इति । क्वचिद् रूपे । अनेन तत्तत्स्थानस्थितानां रूपाणां परस्परं हरेश्च भिन्नत्वे यत्सर्वान्तर्यामित्वं श्रुत्यादिसिद्धं हरिलक्षणं तदसम्भवि स्यादिति युक्तिं सूचयति ॥
ततश्चायं श्लोकार्थः ॥ सुष्ठु चिरो बहुकालो यस्य ध्यानादिरूपप्रयत्नसाध्यप्रसादस्य तस्मा-ज्ज्ञातोऽसि । ननु अहो । नन्वव्यक्तमचलं शान्तमिति श्रुत्यादिभिर्भगवतोऽव्यक्तस्वभावत्वावगमात्कथं ज्ञातोऽसीत्युक्तमित्यत उक्तम् ॥ न ज्ञायत इति । भगवतो गतिः स्वरूपं सर्वथा न ज्ञायत इत्यादि-श्रुत्यादिव्याख्यानमवद्यमनिन्द्यम् । ध्यानादिना प्रसन्नस्येदानीं भगवतो मयैव ज्ञातत्वात् । अतो देहभाजां स्वप्रयत्नेन पिशाचादिवद्भगवान्न ज्ञायत इतीत्येव श्रुत्यादिकं व्याख्येयमिति भावः ।
ननु नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुत्याऽन्यस्य द्रष्टुः परमार्थतोऽभावात्सर्वथैवाव्यक्तः किं न स्यादित्यत उक्तम् । त्वत्त्वत्तोऽन्यत्स्वतो नास्तीति । तथा च नान्योऽतोऽस्ति द्रष्टेत्यादिश्रुतीनां स्वातन्त्र्येणा-न्यद्रष्टृभाव एवार्थो न सर्वथा द्रष्टृभाव इति भावः । नन्वेवं सर्वेऽपि ब्रह्मवत्कुतो न भगवन्तं पश्यन्तीत्यत उक्तम् ॥ अपि तत्त्वशुद्धमिति । तुशब्दोऽवधारणे । तदपि तदधीनमपि द्रष्टृजातम् अशुद्धमेव न ब्रह्मवच्छुद्धं रागादिदोषरहितं न भवत्येवेति यावत् । अतो न पश्यन्तीति भावः । नन्वेवं भगवदन्यस्य तदधीनत्वे भगवद्रूपाणामपि स्थानभेदेन भिन्नत्वावगमाद्भगवदन्यत्वे तदनधीनत्वप्रसङ्ग इत्यत उक्तम् ॥ मायेति । मायायाः प्रकृतेर्गुणाः सत्त्वादयस्तेषां व्यतिकरो विकारः । नानाविधं कार्यमिति यावत् । तस्मात्तद्रूपस्थानभेदादुरुस्तत्तत्प्रेरकतया नानारूपो यद्भासि तद्विभासि विगतार्थतयैव भासि । तज्ज्ञान-विषयीभूतं नानात्वमसदेवातो न भगवद्रूपाणां तदधीनत्वरूपास्वातन्त्र्यप्रसङ्ग इति भावः ॥ १ ॥
रूपं यदेतदवबोधरसोदयेन
शश्वन्निवृत्ततमसः सदनुग्रहाय ।
आदौ गृहीतमवतारशतैकबीजं
यन्नाभिपद्मभवनादहमाविरासम् ॥ २ ॥
नातःपरं परम यद् भवतः स्वरूप-
मानन्दमात्रमविकारमविद्धवर्चः ।
पश्यामि विश्वसृजमेकमविश्वमाद्यं
भूतेन्द्रियात्मकमदस्त उपाश्रितोऽस्मि ॥ ३ ॥
तात्पर्यम्
यन्नाभिपद्मभवनादहमाविरासम् । यच्चेदं भगवत्स्वरूपमानन्दमात्रं पश्यामि । यच्चाऽश्रितोऽस्मि अतः परं नास्ति । अतो न ज्ञायत इति अवद्यमित्युत्तमापेक्षया । अनादि-गृहीतमेव नेदानीं गृह्यते । ‘यत्तद्दिव्यं हरे रूपं क्षीरसागरमध्यगम् । सज्ज्ञानानन्दैकमात्रं च न ततः परमं क्वचित् । अनादिनित्यादव्यक्तात्तस्माज्जज्ञे चतुर्मुख’ इत्यध्यात्मे । भूतेन्द्रियाणा-मात्मकम् । यच्चाप्नोतीत्यादेः ॥ २,३ ॥
पदरत्नावली
इतोऽपि वाङ्मनसागोचरं भगवतः स्वरूपमित्येतदवद्यमित्याह– रूपमित्यादि-श्लोकद्वयेन ॥ अवबोधरसोदयेन अपरोक्षज्ञानरससमुद्रकेण शश्वन्निवृत्ततमसः नित्यनिरस्तप्रकृतिगुणासक्तेस् तव यदेतदवतारशतैकबीजं मत्स्याद्यवतारशतानां व्यञ्जकं रूपमादौ गृहीतं, अनादित एव, नेदानीं गृहीतं, ‘यत् तद्दिव्यं हरेरूपं क्षीरसागरमध्यगं’ इत्यतः क्षीरसमुद्रशायियन्नाभिपद्मभवनाद् यन्नाभि-कमलाख्यगृहादहमाविरासं जातोऽस्मि । ‘अनादिनित्यादव्यक्तात् तस्माज्जज्ञे चतुर्मुखः’ इति वचनात् ॥
हे परम यद् आनन्दमात्रं सज् ज्ञानानन्दैकरसम् अत एव अविकारं षड्विकाररहितम् अत एवा विद्धवर्चो ऽप्रतिहतार्चीरूपं भवतः स्वरूपं पश्यामि अतः परं निर्गुणं नास्तीति पश्यामि । ‘सज्ज्ञाना-नन्दैकमात्रं न ततः परमं क्वचित्’ इति वचनाच्च । यच्च विश्वसृजं विश्वस्य स्रष्टृ, एकं स्रष्ट्रन्तररहितम्, अविश्वं प्रपञ्चविलक्षणं, आद्यं सर्वस्यादिभूतम् उपजीव्यं वा, भूतेन्द्रियात्मकं व्यापकं, यच्चाप्नोतीत्यादेस् ते तवादोरूपमुपाश्रितोऽस्मीत्यतो न ज्ञायते वाङ्मनसागोचरत्वादित्येतदवद्यम् । अतस्त्वभद्रं मतम् अत्युत्तमाधिकार्यपेक्षयोक्तं, न देवदत्ताद्यधमापेक्षयेति तत्त्वम् । अनेन प्रकृतिगुणविकृतपदार्थेषु तिष्ठतो हरेरज्ञानादि कथं न स्यात्, कथं चोदासीनस्याद्वितीयस्य रूपान्तरग्रहणम्, कथं वा विकारिसृज्यं सृजतो विकाराभाव इत्येतच्छङ्कात्रयमुन्मूलितम्, उक्तयुक्तेरिति भावः । अद इत्यनेन दूरस्थवस्तुवाचिना ‘पूर्ण-मदः पूर्णमिदम्’ इति श्रुतेर् जगद्व्यापिरूपेण स्वदृग्विषयरूपस्यैकत्वं ध्वनयति ॥ २-३ ॥
प्रकाशिका
ननु यत्त्वया दृष्टं तत्सोपाधिकमेव अर्वाचीनमुत्तमं तु ब्रह्मान्यदस्ति । तत्सर्वथाऽ-व्यक्तमेव किं न स्यादित्यत आह ॥ रूपमिति श्लोकद्वयेन । अत्र विवक्षितोद्देश्यविधेयभावस्य स्पष्टम-भानात्तं दर्शयन्व्याख्याति ॥ यन्नाभीति । अत्र यद्यपि रूपं यदेतदित्यादिकमप्युद्देश्यम् । तथाऽपि नातः परमित्यत्र स्पष्टयुक्तिसूचकान्येव पदान्युद्देश्यतयाऽत्रोपात्तानि । ब्रह्मजनकत्वापरिच्छिन्नानन्दमात्र स्वरूपत्वब्रह्माश्रयत्वानां परब्रह्मलिङ्गत्वादित्यवधेयम् । पश्यामीत्यन्वयप्रदर्शनेनाविकारमविद्धवर्च इत्येतयोरप्यनेनान्वय इति सूचयति । यच्चाश्रितोऽस्मीत्यनेन यच्छब्दस्यानुवृत्तिः सूचिता । नातः पर-मित्यस्यार्थः ॥ अतः परमुत्तमं नास्तीति । कथमनेनोक्तशङ्कापरिहार इत्यतस्तं प्रकारं दर्शयति ॥ अत इति । एतदपेक्षयोत्तमस्य सर्वथाऽव्यक्तस्यान्यस्याभावान्न ज्ञायत इत्यवद्यमित्यनेन यत्स्वत्प्रसादा-ज्ज्ञेयत्वमुक्तं तदुत्तमं यत्परं ब्रह्म तदपेक्षयैवेति सिध्यति नार्वाचीनसोपाधिकापेक्षयेत्यर्थः । अत्युत्तमा-पेक्षयेति पाठेऽपीतिशब्दाध्याहारेणेत्थमेव व्याख्यानं द्रष्टव्यम् ।
नन्वेवमादौ गृहीतमिति तस्य सादित्वोक्तिरनुपपन्नेत्यतस्तस्यार्थमाह ॥ अनादिगृहीतमेवेति । गृह्यते चेत्यन्वयः, व्यक्तीक्रियत इत्यर्थः । तथा चादावनाद्यनन्तकाले गृहीतमेवादावादिकाले गृहीतमिति मूलार्थ इति भावः । उक्तार्थे प्रमाणसंवादं दर्शयति ॥ यत्तदिति । क्षीरसागरमध्यगमित्यनेनावतार-शतैकबीजमित्येतल्लब्धार्थो दर्शितः श्वेतद्वीपगतस्यैव नानावतारबीजत्वात् । शश्वन्निवृत्ततमस इत्यादि-विशेषणतात्पर्यप्रदर्शनाय दिव्यमित्युक्तम् । आनन्दमात्रमित्यत्रानन्दग्रहणमुपलक्षणमित्यभिप्रेत्योक्तं सत्ज्ञानानन्दैकमात्रमिति । सतौ ज्ञानानन्दावेकौ मुख्यौ येषां बलादीनां ते तथा । तन्मात्रं केवलं तदात्मकमित्यर्थः । परममुत्तमम् । अनेनातःपरमित्येतदुक्तार्थम् । क्वचिद्देशे काले च । आदौ गृहीत-मित्यस्य तात्पर्यम् ॥ अनादिनित्यादिति । तथा च मूले नित्यत्वमपि ग्राह्यमिति भावः । अद इत्यस्य तात्पर्यम् ॥ अव्यक्तादिति । तस्माज्जज्ञ इत्यनेन यन्नाभिपद्मेत्यादिकमुक्ततात्पर्यम् । ननु तथाऽपि भूतेन्द्रियात्मकमित्यनेन तस्य भूतेन्द्रियस्वरूपत्वकथनात्कथमुत्तमत्वमित्यतस्तस्यापि विवक्षितमर्थं दर्शयति ॥ भूतेन्द्रियाणामिति । आत्मकं व्यापकमादातृ संहर्तृ वा । आत्मशब्दस्य व्याप्त्याद्यर्थत्वे प्रमाणं दर्शयति ॥ यच्चेति । ‘‘यच्चाप्नोति यदादत्ते यच्चात्ति विषयानिह । यच्चास्य सन्ततो भाव-स्तस्मादात्मेति भण्यत’’ इति समग्रवाक्यप्रदर्शनायादिशब्दः । इत्यादेर्वाक्यादिति शेषः । ततश्चायं श्लोकद्वयार्थः ॥ अवबोधरसोदयेन ज्ञानश्रेष्ठाविर्भावेन । शश्वत्सदा निवृत्तं तमोऽज्ञानं यस्य स तथा तस्य तव सतां मदादीनामनुग्रहायादावनाद्यनन्तकाले गृहीतं व्यक्तीकृतम् । यच्चावताराणां मत्स्यादीनां शतस्य बीजम् मूलम् । यच्च नाभौ स्थितात्पद्माख्यभवनादहमाविरासं जातोऽस्मि । यच्च भवतः स्वरूपं जीवदेहवद्भिन्नं न । कुतः । यत्ः आनन्दमात्रं केवलज्ञानानन्दाद्यात्मकमत एवाविकारम् । अविद्धम् अप्रतिबद्धं वर्चः प्रकाशो यस्य तत्पश्यामि । अनेनैवम्भूतत्वे मदीयं प्रत्यक्षमेव प्रमाणमिति दर्शयति । यच्च विश्वसृजं विश्वस्य स्रष्टृ । एकं स्रष्ट्रन्तररहितम् । अविश्वं प्रपञ्चविलक्षणमाद्यं सर्वस्यादिभूतं भूतेन्द्रियाणामात्मकं व्यापकमादातृ संहर्तृ वा । अदः पुरुषप्रयत्नादव्यक्तं ते तव यदेतद्रूपमुपाश्रितोऽस्मि । हे परम सर्वोत्तम । अत एतस्मात्परमुत्तमं निरुपाधिकं नास्ति । अत इदमेव निरुपाधिकमुत्तमम् । इदं चाहमुक्तरूपं पश्यामि । अतो यन्न ज्ञायते भगवतो गतिरित्यवद्यमित्यनेन स्वप्रसादात्ज्ञेयत्वमुक्तं तन्निरुपाधिक-स्योत्तमस्यैव सिद्ध्यतीति ॥ २,३ ॥
यद्वा इदं भुवनमङ्गल मङ्गलाय (मङ्गलं यत्)
ध्यानात्मनो दर्शितं त उपासकानाम् ।
तस्मै नमो भगवतेऽनुविधेम तुभ्यं
योऽनादृतो निरयभाग्भिरसत्प्रसङ्गैः ॥ ४ ॥
पदरत्नावली
न केवलं मयैव ज्ञातोऽसि त्वत्प्रसादेनान्यैरपि ज्ञायमानत्वान्न ज्ञायत इत्यवद्यमिति भावेनाह– यद्वा इति ॥ ध्यानात्मनो ज्ञानरूपस्य तत्तद्ध्यानानुगुणरूपस्य वा ते तवोपासकानां यदिदं दर्शितं तादृग्रूपविशिष्ठाय नमो ऽनुविधेम कुर्मः । तर्हि ‘दुर्ज्ञेया हि हरेर्गतिः’ इत्यादेः कोऽभिप्राय इति तत्राह– य इति ॥ असत्सु विषयेषु प्रकर्षेण सङ्गो येषां ते तथा तैः । इदानीमभावेऽपि जन्मान्तरेऽपि सत्सङ्गत्या सद्गति; स्यात् तत्राह– निरयेति ॥ अय गताविति धातोर् अयनं गमनं निरस्तं यस्मात् स निरयः निर्गमशून्यमन्धन्तम इत्यर्थः । तद् भजन्तीति निरयभाजः, तैरन्धन्तमःप्राप्तियोग्यैरित्यर्थः । यैश्चानादृतः सादरं नार्चितस् तैर्दुज्ञेय इति शेषः । तस्मै नमः । वा इत्यनेन साधनसामग्य्रां दर्शनं भवत्येवेति सूचयति ॥ ४ ॥
प्रकाशिका
एतादृशरूपं दर्शितवतस्तव नमस्कारकरणमेव प्रतिक्रिया नान्यदित्याशयेनाह ॥ यद्वा इति । हे भुवनमङ्गल । ध्यानात्मनो ध्यानानुगुणरूपस्य । ते तवोपासकानामस्माकं मङ्गलाय यदिदं रूपं दर्शितं तस्मै तद्रूपात्मने भगवते नमोऽनुविधेम योग्यतामनुसृत्य कुर्मः । तर्हि किमिति केचिन्मां नाद्रियन्त इत्यत उक्तम् ॥ योऽनादृत इति । असत्स्वमङ्गलेषु विषयेषु प्रकर्षेण सङ्गः स्नेहो येषां ते तथा तैरत एव निरयभाग्भिर्विषयवैराग्यशून्यास्त इति भावः ॥ ४ ॥
ये तु त्वदीयचरणाम्बुजकोशगन्धं
जिघ्रन्ति कर्णविवरैः श्रुतिवातनीतम् ।
भक्त्या गृहीतचरणः परया च तेषां
नापैषि नाथ हृदयाम्बुरुहात् स्वपुंसाम् ॥ ५ ॥
तात्पर्यम्
हृदि व्यक्तं तु यद्रूपं हरेर्गन्धः स उच्यते । गन्धगन्धवतोर्यस्मान्न भेदः क्वचनेष्यत’ इति ब्रह्मतर्के ॥ ५ ॥
पदरत्नावली
बलिसमये यक्षप्रत्यक्षवद्धरेः प्रत्यक्षत्वं न साक्षादतो न ज्ञायत इति तत्राह– ये त्विति ॥ उपासकत्रैविध्यसूचकस्तुशब्दः । तत्र येऽन्तरुपासका महान्तो गुरुमुखेभ्यः श्रुतिवातनीतम् उपनिषदुक्तप्रकारेण श्रवणाख्यवायुना कर्णविवरैः प्रापितं त्वदीयचरणाम्बुजकोशस्य क्षीराब्ध्यादिस्थित-मूलरूपाख्यपद्ममुकुलस्य गन्धं हृदि व्यक्तरूपं जिघ्रन्ति अपरोक्षीकृत्यानुभवति । ‘हृदि व्यक्तं तु यद् रूपं हरेर्गन्धः स उच्यते’ इति । ‘उत्तमानां तु पादेन सर्वं रूपं तु कथ्यते’ इति वचनाच्च । चरणः पाद इति पर्यायः । ‘गन्धगन्धवतोर्यस्मान्न भेदः क्वचनेष्यते’ इति वचनात्, ‘गन्धो लेशो विनिर्दिष्ट’ इति भेदशङ्कापि न कार्येत्यर्थः । हे नाथ तेषां स्वपुंसां हृदयाम्बुरुहान्नापैषि नापसरसि न तिरोभवसि । तत्र निमित्तमाह– भक्त्येति ॥ भक्तिलक्षणदृढपाशेन गृहीतचरणः प्रबद्धपाद इत्यर्थः । अनेन भगवद्वशीकरणे भक्तिरेव प्रधानसाधनमित्युक्तं भवति ॥ ५ ॥
प्रकाशिका
आदरं कुर्वतां तु नैवमित्याह ॥ ये त्विति । तुशब्दः पूर्वेभ्यो विशेषसूचकः । असत्प्रसङ्गा न भवन्तीत्यर्थः । श्रुतिं गुरुमुखाद्वेदोक्तप्रकारेण श्रवणं तल्लक्षणेन वातेन नीतं प्रापितं त्वदीयचरणाम्बुजकोशगन्धं जिघ्रन्ति कर्णविवरैर् अपरोक्षीकृत्यास्वादयन्ति । हे नाथ । तेषां स्वपुंसां हृदयाम्बुरुहान्नापैषि नापयासि । तत्र निमित्तमाह ॥ भक्त्येति । चशब्दो हेत्वर्थः । यस्मात्तु परया भक्त्या गृहीतचरणो भक्तिलक्षणदृढपाशेन बद्धपाद इत्यर्थः । अत्र गन्धशब्दस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ हृदीति । तुशब्दस्तत्तदुपास्यगुणविशिष्टमिति विशेषणार्थः । तथा च त्वदीयचरणाम्बुजकोश- गन्धं त्वदीयश्चरणः स्वरूपम् । उत्तमानां स्वरूपं तु पादशब्देन भण्यत इति वचनात् । तल्लक्षणो योऽम्बुजकोश उदकान्तःस्थत्वसाम्यात् । तस्य यो गन्धो लेशः । गन्धो लेशो विनिर्दिष्ट इति वचनात् । हृदि व्यक्तं रूपमिति यावत् । तं ये जिघ्रन्तीति मूलं योज्यमिति भावः । नन्वेवं गन्धशब्दगृहीतस्य हृदि व्यक्तरूपस्य हर्येकदेशत्वमेव प्राप्तं न हरिस्वरूपत्वम् । अतः कथं हरे रूपं गन्ध इत्युक्तमित्यत आह ॥ गन्धगन्धवतोरिति । अंशांशिनोरित्यर्थः । क्वचन कस्मिन्नपि भगवद्रूपे इष्यते । प्रामाणिकैरिति शेषः । तथा च यस्माद्गन्धगन्धवतोर्न भेदस्तस्माद्धरे रूपं गन्ध इत्युक्तिरुपपन्नेति योजना द्रष्टव्या ॥ ५ ॥
तावद् भयं द्रविणगेहसुहृन्निमित्तं
शोकः स्पृहा परिभवो विपुलश्च लोभः ।
तावन्ममेत्यसदवग्रह आर्तिमूलं
यावन्न तेऽङ्घ्रिमभयं प्रवृणीत लोकः ॥ ६ ॥
पदरत्नावली
द्रविणादिनिमित्तं भयं यावत् तावन्न ज्ञायत इति मतं निर्मूलमिति भावेनाह– तावदिति ॥ ६ ॥
प्रकाशिका
भक्तिपाशेन बद्धचरणस्य भगवतोऽपगमाभावेऽपि किं फलमित्यत आह ॥ तावदिति । द्रविणादौ विद्यमाने भयं, गते शोकः, पुनः स्पृहा ततः परिभवस्ततः विपुलो लोभः पुनः कथञ्चित्प्राप्ते ममेत्यसदाग्रहः, आर्तिमूलं भयशोकादेः कारणं न प्रवृणीत न सर्वदा भक्तिपूर्वकमाश्रयेत
॥ ६ ॥
दैवेन ते हतधियो भवतः प्रसङ्गात्
सर्वाशुभोपशमनाद् विमुखेन्द्रिया ये ।
कुर्वन्ति कामसुखलेशलवाय दीना
लोभाभिभूतमनसोऽकुशलानि शश्वत् ॥ ७ ॥
पदरत्नावली
कस्मात् तर्हि न ज्ञायत इत्याग्रहो न निवर्तत इत्याशङ्क्य भगवदनुग्रहापात्रत्वा-दित्याशयेनाह– दैवेनेति ॥ अन्धन्तमःप्राप्तिपर्यन्तं शश्वदकुशलकरणान्न ज्ञायत इत्याग्रहो न निवर्तत इति भावः । दैवेन सर्वोत्तमेन हरिणा विमुखवागादीन्द्रियाः सुखलेशलवायाल्पादल्पसुखाय । लुभ गार्ध्य इति धातोर्लोभो गार्ध्यमभिलाषस्तेनाभिभूतं मनो येषां ते तथा । यद्वा सद्व्ययानिच्छुत्वं तेन ॥ ७ ॥
प्रकाशिका
शोकाद्यशुभनाशार्थं हरिचरणाश्रयणमेव सर्वदा मुमुक्षुभिः कार्यमित्याशयेन तदभावे निन्दारूपार्थवादमाह ॥ दैवेनेति । दैवेन हरिणा । हतधियो नष्टमतयः । प्रसङ्गाच्छ्रवणादिरूपा-त्सुखलेशलवायाल्पादप्यल्पाय लोभः सद्व्ययानिच्छुत्वम् । अकुशलान्यक्षेमकराणि ॥ ७ ॥
क्षुत्तृट्त्रिधातुभिरिमा मुहुरर्द्यमानाः
शीतोष्णवातवर्षैरितरेतराच्च ।
कामाग्निनाऽच्युत रुषा च सुदुर्भरेण
संपश्यतो मन उरुक्रम सीदते मे ॥ ८ ॥
पदरत्नावली
त्वयि ज्ञाते सर्वमिदं ज्ञायते । ‘अविज्ञातं विज्ञातम्’ इति श्रुतेः । अतस्तव गतिर्न ज्ञायत इत्यत्यन्तसाहसमिति सूचनाय ब्रह्मा दुर्ज्ञानफलभोगिप्रजानुकम्पाव्याजेन सज्ज्ञानोत्पत्तौ प्रथमं वैराग्यमेव साधनीयं बुभूषुणेति भावेनाह– क्षुत्तृडिति ॥ क्षुधा तृषा त्रिभिर्धातुभिर्वातादिभिराध्यात्मिकैर् इमाः प्रजाः । शीतोष्णवातवर्षैर् आधिदैविकैः । इतरेतरादन्योन्यनिमित्तादाधिभौतिकैः । सुदुर्भरेण कामाग्निना सुदुर्भरया रुषा च ॥ ८ ॥
प्रकाशिका
क्षुच्च तृट् च त्रिधातवश्च वातपित्तश्लेष्माणस्तैराध्यात्मिकैरित्यर्थः । शीतोष्ण-वातवर्षैराधिदैविकैरितरेतरादाधिभौतिकैः । हे अच्युत । रुषा क्रोधेन च सुदुर्भरेण सुदुःसहेन कामाग्निना च मुहुरर्द्यमानाः पीड्यमाना इमाः प्रजाः संपश्यतो मे मनः । भो उरुक्रम । सीदते मत्सृष्टाः प्रजा एवं जाता इति खेदयुक्तं भवतीत्यर्थः ॥ ८ ॥
यावत् पृथक्त्वमिदमात्मन इन्द्रियार्थं
मायाबलं भगवतो जन ईश पश्येत् ।
तावच्च संसृतिरसौ प्रतिसङ्क्रमेत
व्यर्थापि दुःखनिवहं वहती क्रियार्था ॥ ९ ॥
अध्याहृतार्थकरणा निशि निःशयाना
नानामनोरथधियः क्षणभङ्गनिद्राः ।
दैवाद्धतार्थरचना ऋषयोऽपि देव
युष्मत्प्रसङ्गविमुखा इह संसरन्ति ॥ १० ॥
तात्पर्यम्
मायाबलं भगवदिच्छाबलम् । ‘ज्ञेयत्वं दुर्घटस्यापि घटनाऽधिकशक्तिता । अभेद ईश्वरेणापि सृष्ट्यादावन्तरङ्गता । उच्येत यस्याः सा माया हरेरिच्छाऽथवा बलम् । भगवत्तन्त्रता यस्यास्तद्भार्यात्वं सुरूपता । उच्येत माया सा तु श्रीर्दोषयुक्ता जडा स्मृता । परिणामिनी च यस्यास्तु दोषाश्चेतनता यथा (तथा) । शैवली नाम सा माया जगद्बन्धात्मिका सदे’ति ब्रह्मतर्के । ‘ध्याये मंस्ये तथा पश्ये शृणोमीति विभक्तता । जीवस्य तु हरेरिच्छाबलादिन्द्रिय- भुक्तय’ इति षाड्गुण्ये । इन्द्रियाणां भोगार्थम् । व्यर्थाऽपि यज्ञादिक्रियार्था ॥
अर्थैरध्याहृतानि करणानि येषाम् । ‘अज्ञानं तु निशा प्रोक्ता दिवा ज्ञानमुदीर्यत’ इति स्कान्दे ॥ ९,१० ॥
पदरत्नावली
त्रिविधो जीवसंधो मुक्तियोग्यः संसारयोग्यस्तमोयोग्य इति । तत्र भगवतो गतिर्न ज्ञायत इत्यादिरूपा मुक्तियोग्यानां संसृतिः कदा निवर्तत इति तत्राह– यावदिति ॥ चशब्दोऽनुक्त-समुच्चयार्थोऽवधारणार्थो वा । यावद् यदा आत्मनः स्वस्य भगवतः सकाशादिन्द्रियार्थम् इन्द्रियविषय-भोगार्थम् अयं मुक्तियोग्यो जनो ध्यायामि पश्यामि शृणोमीत्यादि पृथक्त्वं विभागलक्षणं मायाबलं भगवदिच्छाबलं भगवदिच्छया प्रणीतं चेष्टितमित्यर्थः । ‘बल प्राणन’ इति धातोः । पश्येत् । चशब्दान्मुक्तावपि । ‘ध्याये मंस्ये तथा पश्ये शृणोमीति विभक्तता । जीवस्य तु हरेरिच्छाबलादिन्द्रिय-भुक्तयः ॥’ इत्यतो नानिर्वाच्यलक्षणो भेदः पृथक्त्वम् । पश्येदिति दृग्विषयत्वेन ज्ञेयत्वोक्तेर्हरेरिच्छैव माया नानिर्वाच्या अविद्या । तदुक्तम्– ‘ज्ञेयत्वं दुर्घटस्यापि घटनाऽधिकशक्तिता । अभेद ईश्वरेणापि सृष्ट्यादावन्तरङ्गता । उच्येत यस्याः सा माया हरेरिच्छाऽथवा बलम् ॥’ इति । ननु तर्हि मायाशब्दवाच्ययोर्लक्ष्मीबन्धकशक्त्योर्विभागज्ञानं कथमचेतनप्रकृतेश्चेति प्रसक्ता शङ्का ‘भगवत्तन्त्रता यस्यास्तद्भार्यात्वं सुरूपता । उच्येत माया सा तु श्रीर्दोषयुक्ता जडा स्मृता ॥’ इत्यनेन परिहर्तव्या इत्यभिप्रायेणाचार्यैः शेषोदाहरणं कृतम् । तावत् तदा व्यर्थाऽपि आत्यन्तिकप्रयोजनशून्याऽपि धर्मादि-क्रियार्था दुःखनिवहं दुःखपरम्परां वहती संसृतिः प्रतिसंक्रमेत नाशं गच्छत्येवेत्यन्वयः । अघटित-घटकत्वशक्तिरस्तीति द्योतनाय ईशेति सम्बोधनम् । एतदभिप्रायेणोक्तम् ‘ज्ञेयत्वं दुर्घटस्यापि घटनाधिकशक्तिता’ इति ॥
नित्यसंसारिणां संसरणप्रकारं निरूपयति– अध्याहृतेति ॥ अध्याहृतार्थानि आकृष्टशब्दादिविषयाणि करणानीन्द्रियाणि येषां ते तथा अन्योन्याकर्षणज्ञापनायैवमुक्तम् । तत्र निमित्तमाह– निशिति ॥ ‘अज्ञानं तु निशा प्रोक्ता दिवा ज्ञानमुदीर्यते’ इति वचनान्निशि अज्ञाने नितरां शयानाः । परम-तत्त्वाज्ञानं कारणमित्यर्थः । नानामनोरथधिय इति हेतुगर्भविशेषणम् । तस्मात् प्रतिक्षणं भङ्गयुक्तनिद्राः । निद्रातुमप्यवसरो नास्तीत्यर्थः । नित्यलुप्तकर्मानुष्ठानत्वेन दैवादनुदितप्रसादाद्धतार्थरचना विनाशितार्था-भीष्टवस्तुचमत्कारा ऋषयोऽपि ऋषिकुलप्रसूता अपि । अत्र सर्वत्र स्पष्टं निमित्तमाह– युष्मदिति ॥
इह जीवलोके स्वर्गे नरके च ॥ ९,१० ॥
प्रकाशिका
श्रवणादिरूपभगवत्प्रसङ्गस्य शोकस्पृहादिरूपसंसारनिवतर्कत्वं प्रपञ्चयन्नन्वय-व्यतिरेकौ क्रमेणाह ॥ यावदिति श्लोकद्वयेन । अत्र मायाशब्दस्यानिर्वाच्याविद्यापरत्वप्रतीति-निरासायार्थमाह ॥ मायाबलमिति । परपक्षे बलशब्दस्वारस्यं नेति दर्शयितुं बलशब्दग्रहणम् । अत्र मायाशब्दस्य भगवदिच्छापरत्वमेव वाच्यम् । पश्येदिति मोक्षार्थं ज्ञेयत्वस्योक्तत्वात्तस्य च भगव-दिच्छालिङ्गत्वादित्याशयेन मायाशब्दार्थनिर्णायकानि लिङ्गानि प्रमाणेनैव दर्शयति ॥ ज्ञेयत्वमिति । मोक्षार्थं ज्ञेयत्वमित्यर्थः । तुशब्दोऽवधारणे । श्रीरेवेत्यन्वयः । दोषयुक्ता परिणामिनी च मायोच्यते सा जडा जडप्रकृतिरूपा स्मृता । यस्यास्तु मायाया दोषास्तथा चेतनतोच्यते सा माया शैवली नामा स्मृता । तस्याः स्वरूपमाह ॥ जगद्बन्धात्मिकेति । बद्ध्यतेऽनयेति बन्धशब्दः करणसाधनः । सदेति मध्यमजीवाभिप्रायेण । एवं मायाशब्दार्थमुक्त्वेदानीं पृथक्त्वमयमात्मन इन्द्रियार्थं मायाबलमित्येतावद्वाक्यं प्रमाणेनैव व्याख्याति ॥ ध्याय इति । इतिशब्दः प्रभृत्यर्थः । विभक्तता पृथक्त्वम् । पृथक्शब्देन तत्तदिन्द्रियव्यापारकर्तृत्वानुसन्धानमेवात्र विवक्षितमित्यर्थः । आत्मन इत्यस्यार्थः ॥ जीवस्येति । तुशब्दोऽवधारणे । हरेरिच्छाबलादेवेति सम्बन्धः । अनेन भगवतो मायाबलमित्येतद्विवृतम् । इन्द्रियार्थमित्यस्य व्याख्यानम् इन्द्रियभुक्तय इति । इन्द्रियैर्विषयभोगायेत्यर्थः । कथमिदं व्याख्यान-मिन्द्रयार्थमित्यनेन लब्धमित्यपेक्षायामाह ॥ इन्द्रियाणामिति । अनेन मध्यमपदलोपी समास इति सूचयति । व्यर्थाऽपि क्रियार्थेति व्याहतम् । अतो व्याख्याति ॥ व्यर्थाऽपीति । तथा च व्यर्थाऽप्या-त्यन्तिकसुखरूपप्रयोजनशून्याऽपि यज्ञादिक्रियाणामर्थः फलं यस्यां सा तथोक्तेत्यर्थः । अध्याहृतार्थकरणा इत्येतदप्रतीत्या व्याख्याति ॥ अर्थैरिति । तथा चाध्याहृतार्थेत्यत्रार्थपदस्य परनिपात इति भावः । निशि निःशयाना इत्यत्र निट्शब्दस्य न रात्रिपरत्वं, निःशयाना क्षणभङ्गनिद्रा इत्यनयोर्विरोधापत्ते-रतोऽत्राभिमतनिट्शब्दार्थं प्रमाणेनैव दर्शयति ॥ अज्ञानमिति । निशाशब्दो निट्शब्दपर्यायः । अतो नासङ्गतिरिति ध्येयम् । एवं च निशि अज्ञाने नितरां शयाना बद्धा इति मूलार्थ इति भावः ॥ ततश्चायं श्लोकद्वयार्थः ॥ जनः सज्जनो यावद्यदाऽऽत्मनः स्वस्येन्द्रियार्थमिन्द्रियाणां विषयभोगार्थमिदं पृथक्त्वं तत्तदिन्द्रियव्यापारकर्तृत्वानुसन्धानं भगवतो मायाबलं मायाया इच्छाया बलं प्रापकं यस्येति विग्रहेणेच्छाबलप्राप्तम् । हे ईश । पश्येत् । श्रवणादिनेति शेषः । तावच्च तदैव व्यर्थाऽप्यात्यन्तिक-सुखरहिताऽपि यज्ञादिक्रियाणामर्थः स्वर्गादिरूपं फलं यस्यां सा दुःखनिवहं दुःखपरंपरां वहत्येषा संसृतिः प्रतिसंक्रमेत विनाशं गच्छेत् ॥
नानामनोरथधियो यतोऽत एव क्षणभङ्गयुक्तनिद्रा निद्रातुमप्यवसरस्तेषां नास्तीति भावः । दैवाद्दैवेन हरिणा हताः सर्वतः प्रतिहता अर्थरचना अर्थार्थोद्यमा येषां ते तथा । ऋषयोऽपि ऋषिकुलप्रसूता अपि युष्मत्प्रसङ्गविमुखाः श्रवणादिरूपयुष्मत्सेवाशून्याः । इह जीवलोके ॥ ९,१० ॥
त्वद्भावयोगपरिभावितहृत्सरोजा
ये सच्छ्रुतेक्षितपथा ननु नाथ पुंसाम् ।
यद् यद् धिया त उरुगाय विभावयन्ति
तत् तद् वपुः प्रणयसे तदनुग्रहाय ॥ ११ ॥
तात्पर्यम्
तत्तद्वपुस्तेषां प्रणयसे । ‘यादृशो भावितस्त्वीशस्तादृशो जीव आभवेदि’ति तन्त्रसारे । ‘तं यथा यथोपासते तदेव भवती’ति च ॥ ११ ॥
पदरत्नावली
पृथक्त्वं मायाबलं पश्येदिति यदपरोक्षज्ञानमुक्तं तदुत्पत्तावित्थंभूतसाधनमाह– त्वद्भावेति ॥ पुंसां नाथ पुरुषोत्तम । सतो लोकमान्यात् श्रेष्ठादाचार्यात् श्रुतेन शास्त्रश्रवणेन ईक्षितो दर्शितः पन्था विष्णुभक्त्यादिलक्षणो येषां ते तथोक्ताः । अत एव त्वद्भावयोगेन त्वद्विषयेण च भक्ति-योगेन भावितमधिवासितं हृत्सरोजं मनःकमलं येषां ते तथोक्ताः । मन इत्युपलक्षणम् । वेदान्तादि-सच्छ्रास्त्रश्रवणसञ्जातत्वद्भक्तियोगेन निर्मलीकृतेन्द्रियग्रामा ये मुक्तियोग्या जनाः । हे उरुगाय विष्णो ते पुरुषास् तव यद् यद् वपुर्नन्वनुमते तथा स्वस्वयोग्यज्ञानानन्दादिगुणत्वेनानुज्ञानं धिया विभावयन्ति तदनुग्रहाय तेषामनुग्रहाय तत्तद् वपुस् तादृशं तादृशं शुभकारं प्रणयसे व्यक्तीकरणेन स्निग्धं करिष्यसी-त्यन्वयः । नन्वित्यनेनैतिह्यवाचिना ‘यादृशो भावितस्त्वीशस्तादृशो जीव आभवेत् ।’ ‘तं यथा यथोपासते तदेव भवति’ इति वाक्यद्वयं प्रमाणयति । एतदुक्तं भवति । सद्गुरुमुखात् सच्छास्त्र-श्रवणेनेतरविरक्तिद्वारा हरौ भक्तिः । तया स्वस्वयोग्यगुणोपसंहारलक्षणोपासना । तयाऽस्य हरेर-परोक्षज्ञानम् । तेन पृथक्त्वस्य मायाबलविषयत्वम् । तस्माद्धरेः प्रसादस् तेन न ज्ञायते भगवतो गतिरित्यादिलक्षणदुष्टजनसङ्गसञ्जाता संसृतिर्निवर्तत इति ॥ ११ ॥
प्रकाशिका
न केवलं युष्मत्प्रसंगरूपश्रवणादेः संसाररूपानिष्टनिवृत्तिरेव फलं किं त्विष्ट-प्राप्तिरपीत्याह ॥ त्वद्भावेति । हे पुंसां नाथ पुरुषोत्तम । ये सच्छ्रुतेक्षितपथाः सत उत्तमादाचार्यात् श्रुतेन शास्त्रश्रवणेनेक्षितो ज्ञातः पन्था विष्णुभक्त्यादिलक्षणो मोक्षमार्गो यैस्ते तथोक्ताः । अत एव त्वद्भावयोगेन त्वद्भक्तिलक्षणोपायेन परिभावितमधिवासितं हृत्सरोजं मनःकमलं येषां ते तथा । हे उरुगाय । ते पुरुषास्ते तव यद्यद्वपुर्यद्यद्गुणविशिष्टं रूपं धिया विभावयन्ति ध्यायन्ति तत्तद्वपुः प्रणयसे । नन्वत्र तत्तद्वपुः प्रणयस इत्यत्रापेक्षितं पूरयति ॥ तत्तद्वपुस्तेषामिति । तथा च तेषां तत्तद्वपुस्तत्तत्सदृशं वपुः स्वरूपदेहं प्रणयसे प्रकटयसीति मूलार्थ इति भावः । अत्र नन्वित्यनेन सूचितं प्रमाणं दर्शयति ॥ यादृश इति । निरवकाशैस्तत्प्रमाणानुसारेण श्रुतिरपि व्याख्येयेत्याशयेन तां पठति ॥ तं यथेति । यथा यथा यद्गुणविशिष्टत्वेन तदेव तत्सदृशमेव रूपं तेषां मुक्तौ भवतीत्यर्थः । इति च श्रुतिरिति शेषः ॥११॥
नातिप्रसीदसि तथोपचितोपचारै-
राराधितः सुरगणैर्हृदि बद्धकामैः ।
यः सर्वभूतदययाऽसदलभ्ययैको
नानाजनेष्ववहितः सुहृदन्तरात्मा ॥ १२ ॥
पुंसामतो विविधकर्मभिरध्वराद्यै-
र्दानेन चोग्रतपसा व्रतचर्यया च ।
नाराधनं भगवतस्तव सत्क्रियार्थो
धर्मोऽर्पितः कर्हिचित् क्रियते न यत्र ॥ १३ ॥
तात्पर्यम्
सर्वभूतदयया सुरगणैर्हृद्याराधितस्त्वं बद्धकामैर्जनैरुपचितोपचारैर्नातिप्रसीदसि । ‘आराधितो यो ब्रह्माद्यैर्भक्तिज्ञानदयादिभिः । किं तस्य कामुकजनैः कृतया परिचर्यये’ति सत्यसंहितायाम् ॥ १२ ॥
पदरत्नावली
धिया यद्यद्विभावयन्तीत्यत्र सकामैरेवोपास्यत इत्यन्यथा प्रतीयते । सा तु मुक्तिपरिपन्थिनीति सा न कर्तव्येति भावेनाह– नेति ॥ हृदीत्युभयत्रान्वेतव्यम् । सर्वभूतदयायाः कर्तव्यत्वे हेतुर्नानाजनेष्ववहित इति । दुर्भगशरीरस्थत्वेऽप्यणुमात्रं दुःखमस्य नास्तीत्यत्र हेतुरन्तरात्मेति । अन्तः स्थित्वापि रतिरूप इत्यर्थः । अत एव सुहृद् अनिमित्तबन्धुः । एवंविधो यस्त्वमसद्भिर-सुरप्रकृतिभिरलभ्यया लब्धुमशक्यया सर्वभूतदयया सुरगुणैर्हृद्याराधितो यथाऽतिप्रसीदसि स त्वं तथा हृदि बद्धकामैर्जनैरुपचितोपचारैराराधितो नातिप्रसीदसि । मन्त्रगुरुदेवताशक्त्या त्वन्नियतया किञ्चित्फल-दानाभिमुखोऽपि नात्यन्तिकमुक्तिफलदत्वेन प्रसन्नो भवसीत्यतोऽतीत्युक्तम् । ‘आराधितो यो ब्रह्माद्यै-र्भक्तिज्ञानदयादिभिः । किं तस्य कामुकजनैः कृतया परिचर्यया’ इति वचनादुक्त एवार्थः । इतरेषां सेवानुगुणफलदत्वेऽपि त्वमेक एवंविधस्वभाव इत्येक इति ॥
न केवलं निष्कामतया कृतं भगवत्प्रसादजनकं किन्तु भगवदर्पणसहितमित्याह– पुंसामिति ॥ पुरुषैर्यत्र येषु यज्ञादिषु यत्क्रियार्थस् तव पूजाप्रयोजनादृष्टाख्यो धर्मः यत्र यस्मिन् त्वय्यर्पितो न क्रियते तेषां पुंसामध्वराद्यैः क्रियमाणं भगवदाराधनं प्रसादजनकं न भवतीत्यन्वयः ॥ १२,१३ ॥
प्रकाशिका
एवं भगवत्प्रसङ्गस्य संपूर्णमोक्षफलत्वमुक्त्वेदानीं तत्र निष्कामत्वरूपं तदर्पणरूपं चेत्थंभावं क्रमेणाह ॥ नातिप्रसीदसीति श्लोकद्वयेन । अत्र सुरगणैर्हृदि बद्धकामैराराधित इति यथाश्रुतान्वये योग्यताभावमालोच्य योग्यमन्वयं दर्शयति ॥ सर्वभूतदययेति । मध्यमपुरुषप्रयोगात्त्व-मित्युक्तम् । बद्धकामैरित्यस्य विशेष्यं जनैरित्येतदध्याहृतम् । उपचितैः संपादितैरुपचारैः पुष्पादिभि-राराधित इति वर्तते । नातिप्रसीदसि तदभीष्टफलदानायाल्पमात्रप्रसादयुक्तोऽपि न मुक्तिजनकात्यर्थ-प्रसादयुक्तो भवसीत्यर्थः । अत्र सर्वभूतदययेत्यादिकं हृदि बद्धकामैराराधितो नातिप्रसीदसीत्यत्र हेतुतया योज्यम् । दयापदञ्च भक्तिज्ञानादेरुपलक्षकमित्याशयेन प्रमाणं पठति ॥ आराधित इति । ततश्चायं श्लोकद्वयार्थः । अन्तरात्माऽन्तर्नियामकः सन् अत एव सुहृन्नानाजनेषु नानाविधप्राणिष्ववहितः स्थितो यस्त्वम् । अनेन सर्वभूतदयाया विष्ण्वाराधनत्वमुपपादितमिति ज्ञातव्यम् । असद्भिरसुरैरलभ्यया लब्धुमशक्यया सर्वभूतदयया भक्तिज्ञानादिभिश्च सुरगणैर्हृद्याराधितो यतोऽतो हृदि बद्धकामैर्जनैस्तथा तत्तत्कामानुसारेणोपचितैरुपचारैराराधितो नातिप्रसीदसि सुरगणकृतसर्वभूतदयादिगुणपूर्वकनिरुपाधिकारा-धनापेक्षयाऽस्याल्पत्वादिति भावः । तथा चाराधने कामनापरित्याग आवश्यक इति हृदयम् । यतः सकामानामत्यर्थप्रसादो न भवत्यतः पुंसामधिकारिणां, विविधकर्मभिरित्युक्तमेव विवृणोति ॥ अध्व-राद्यैरिति । भगवतस्तवाराधनं न भवति तदाराधनं त्वत्प्रीतिजनकं न भवतीति यावत् । कदा । यत्र यर्हि सत्क्रियार्थः सत्याश्च क्रियाश्चाध्वराद्यास्तासामर्थोऽवान्तरप्रयोजनरूपो धर्मः कर्हीचित्कदाचिदपि । आदौ मध्येऽन्तेऽपि वा तवार्पितो न भवति तर्हित्यर्थः । अतोऽर्पणमावश्यकमिति भावः ॥ १२,१३ ॥
शश्वत् स्वरूपमहसैव निपीतभेद-
मोहाय बोधधिषणाय नमः परस्मै ।
विश्वोदयस्थितिलयेषु निमित्तलीला-
रामाय ते नम इदं चकृमेश्वराय ॥ १४ ॥
तात्पर्यम्
‘ईशस्यापूर्णताज्ञानं विष्णोरन्यस्य चेशता । भेदस्तस्यावतारेषु जीवस्येशत्वमेव च । तथा जीवत्वमीशस्य जडाभेदस्तयोरपि । भेदमोह इति प्रोक्तः स सदा न हरौ क्वचित् । अन्येषां तत्प्रसादेन शनैर्याति सतामपी’ति स्कान्दे ॥ १४ ॥
पदरत्नावली
हरेस्तत्त्वाज्ञानादुत्पन्नो यो न ज्ञायते गतिरित्यादिरूपः संसारस्तन्निवर्तकोपास्तौ तादृग्गुणोपसंहारः कर्तव्य इत्याह– शश्वदिति ॥ देवदत्तवदेकदापि भेदमोहोऽस्तीत्यन्यथाप्रतीतिनिरासाय शश्वदिति । परोपदेशमन्तरेण स्वरूपज्ञानेनैव, ‘तद् ब्रह्माऽहं वेद अहं ब्रह्मास्मि’ इति श्रुतेः । निपीत-भेदमोहाय सम्यक् निरस्तेशापूर्णतादिषड्विधभेदमोहाय । ‘ईशस्यापूर्णताज्ञानं विष्णोरन्यस्य चेशता । भेदस्तस्यावतारेषु जीवस्येशत्वमेव च । तथा जीवत्वमीशस्य जडाभेदस्तयोरपि । भेदमोह इति प्रोक्तः स सदा न हरेः(हरौ) क्वचित् । अन्येषां तत्प्रसादेन शनैर्याति सतामपि ॥’ इत्यादिवचनात् । स्वतो मोहाभावेऽपि प्राकृतबुद्ध्या स स्यादिति तत्राह– बोधेति ॥ अप्राकृतज्ञानरूपबुद्धये । नन्वेतज्जीव-स्याप्यस्तीत्यत उक्तम्– परस्मा इति ॥ स्वनियतकालप्रकृतित्वेन तदुत्तमत्वेन ततो विलक्षणत्वेन दूरीकृततदुपद्रवाय । जीवस्य तद्वशत्वात् कर्मवशत्वात् तन्मग्नत्वात् । अलौकिकं तद्वस्तु लक्षणमन्तरेण ज्ञातुमशक्यमिति मन्वानो जगत्कर्तृत्वादिलक्षणविशिष्टत्वेन नमति– विश्वेति ॥ निमित्तभूता लीला शंृगारचेष्टा । तस्या आरामाय क्रीडावनाय ते तुभ्यम् । एवंविधलक्षणवतः किं नामेत्यत उक्तम्– ईश्वरायेति ॥ प्राक्कालीनजन्मप्रचितपुण्यराशेरिदानीमपि भगवद्दर्शनं प्राप्तमिति सूचयितुं चकृमेति लिट्प्रयोगः ॥ १४ ॥
प्रकाशिका
पुनः भगवत्सेवायामित्थंभावान्तरं दर्शयंस्तन्नमति ॥ शश्वदिति । निपीत-भेदमोहायेत्यस्य निरस्तसकलभेदभ्रमायेत्यन्यथाप्रतीतिवारणाय भेदमोहशब्दस्य विवक्षितमर्थं दर्शयति ॥ ईशस्येति । ईशतेत्यादावपि तथाज्ञानमेव ग्राह्यम् । एवशब्दस्य नेत्यनेन सम्बन्धः । तयोर्जीवेशयो-र्जडाभेदोऽपि भेदमोह इति प्रोक्त इति । अधिष्ठानतत्त्वापेक्षया विपरीताकारो भेद इत्युच्यते । तद्विषयको मोह इति व्याख्यानादिति भावः । सदेत्यनेन शश्वदित्येतदुक्तार्थम् । अन्येषामपि सतामित्यन्वयः । शनैस्तत्त्वज्ञानोत्कर्षानुसारेण । याति नश्यति । एतेन बोधधिषणायेत्येतदुक्ततात्पर्यम् । अन्येषामपि सतां मोहनिवर्तकबोधजनिका धिषणा बुद्धिर्यस्मादिति व्याख्यानात् । अनेन भगवदाराधकस्यैतादृशभेद-मोहराहित्यमावश्यकमिति सूचयति । तथा च शश्वत्सदा स्वरूपमहसैव स्वरूपभूतज्ञानेनैव न तु परोपदेशोत्पन्नेनेत्यर्थः । निपीतः सम्यक् निराकृतः । उक्तभेदमोहो यस्य तस्मै । अन्येषामप्युक्तभेद-मोहनिवर्तकबोधजनकबुद्धिमते एव परस्मै इति मूलार्थ इति भावः । निपीतभेदमोहायेत्यनेनेशस्य पूर्णत्वमुक्तम् । तदयुक्तम् । यत्प्रयोजनार्थं सृष्ट्यादिस्तदूनत्वादित्याशङ्कां परिहरन् ममेदं त्वद्दर्शनं पूर्वकृतनमनादिसुकृतफलमित्याशयेनाह ॥ विश्वेति । निमित्तभूता लीला क्रीडा तस्या आरामायाश्रयाय । लीलैव आ सम्यक् रामो रमणं यस्येति वा । इदं दर्शनमुद्दिश्य पूर्वं नमश्चकृम । इदमुक्तानुसन्धानपूर्वकं नम इति वा ॥ १४ ॥
यस्यावतारगुणकर्मविडम्बनानि
नामानि येऽसुविगमे विवशा गृणन्ति ।
ते नैकजन्मशमलं सहसैव हित्वा
संयान्त्यपावृतमृतं तमजं प्रपद्ये ॥ १५ ॥
तात्पर्यम्
भक्तिविवशाः । ‘ये भक्त्या विवशा विष्णोर्नाममात्रैकजल्पकाः । तेऽपि मुक्तिं व्रजन्त्याशु किमुत ध्यायिनः सदे’ति व्योमसंहितायाम् ॥ १५ ॥
पदरत्नावली
भगवतोऽवताराणां गतिरपि न ज्ञायत इत्येतदपि मतं दुष्टं यतो मूलरूप-वदवताराणामपि मुक्त्यादिदानसामर्थ्यं दृश्यते तस्मादिति भावेनाह– यस्येति ॥ यथा हराववतारभेदमोहो नास्ति तथा तत्प्रसादात् तदीयेष्वपि द्योतनाय वा स्तौति– यस्येति ॥ असुविगमे प्राणप्रयाणकाले विवशा भक्तिविवशाः । अनेन पूर्वाभ्यासपाटवं दर्शयति । ‘ये भक्त्या विवशा विष्णोर्नाममात्रैकजल्पकाः । तेऽपि मुक्तिं व्रजन्त्याशु किमुत ध्यायिनः सदा ॥’ इति कैमुत्यन्यायसिद्धत्वाद् बलवत्प्रतिबन्धकात् तत्काले मुक्त्यभावेऽपि कालान्तरे निश्चितेति– सहसेति ॥ अपावृतं स्वाच्छादकमायावरणरहितम् । सृष्टिप्रलयादिषु विकारराहित्याद् ऋतम् । ऋतत्वे हेतुरजमिति ॥ १५ ॥
प्रकाशिका
भगवद्ध्यानादिरूपाराधनस्य मोक्षहेतुत्वं कैमुत्येनापि दर्शयन्नहमपि तं ध्याया-मीत्याह ॥ यस्यावतारेति । अत्र विवशानां नामोच्चारणमात्रेण कथं मुक्तिरित्यतो व्याख्याति ॥ भक्तिविवशा इति । तथा च नात्र विवशशब्देन विषयपरवशा गृह्यन्ते येन मुक्त्यनुपपत्तिः किन्तु हरिभक्त्या परवशा एव । तेषां च नामोच्चारणमात्रेण मुक्तिर्नानुपपन्नेति भावः । अत्र प्रमाणमाह ॥ ये भक्त्येति । मात्रशब्दः कार्त्स्न्यार्थः । एकशब्दः केवलशब्दार्थः । तथा चावतारगुणकर्मप्रतिपादकसर्वनाम्नां केवलं जल्पका उच्चारयितार इत्यर्थः । अनेनावतारगुणकर्मविडम्बनानि नामानि ये केवलं गृणन्ति ते ऋतं संयान्ति इत्येतदुक्तार्थम् । सदा ध्यायिनः किमुतेत्यनेन मूलेऽपीदमध्याहार्यमिति सूचयति ॥ तथा चायमर्थः ॥ यस्य विष्णोरवतारगुणकर्मविडम्बनमनुकरणं येषु तानि । तत्प्रतिपादकानीति यावत् । तत्रावतारविडम्बनानि वासुदेवो दाशरथिरित्यादीनि । सर्वज्ञः सर्वेश्वर इत्यादीनि गुणविडम्बनानि । कंसारिः राक्षसारिरित्यादीनि कर्मविडम्बनानि । नामानि, येऽसुविगमे प्राणनिर्गमनकाले । चरममरण इति यावत् । विवशा भक्तिपरवशा गृणन्ति अर्थानुसन्धानपूर्वकमुच्चारयन्ति । तेऽप्यनेकजन्मसंपादितं शमलं प्रारब्धपापं हित्वा, ‘‘देहे वा सूर्यमण्डले विधूय सर्वपापानी’’ति वचनात् । सहसैव शीघ्रमेव वायुनेति वा । ‘‘विद्युत्पतिर्वायुरेव नयेद्ब्रह्म न चापरमि’’ति वचनात् । अपावृतमपगतावरणं यथा स्यात्तथा ऋतं ज्ञानपूर्णं परं ब्रह्म संयान्ति प्राप्नुवन्ति । किमुत सदा स्वयोग्यगुणोपसंहारपूर्वकं तद्ध्यायिनः । अतस्त-मजमहं प्रपद्ये । मनसेति शेषः । सदा ध्यायामीति यावत् ॥ १५ ॥
यो वा अहं च गिरिशश्च विभुः स्वयं च
स्थित्युद्भवप्रलयहेतव आत्ममूलाः ।
भूत्वा त्रिपाद् ववृध एक उरुप्ररोह-
स्तस्मै नमो भगवते भुवनद्रुमाय ॥ १६ ॥
तात्पर्यम्
‘ब्रह्मादिभावो विष्णोस्तु तन्नियामकता भवेत् । मत्स्यादिता तत्स्वभावो (स्वभावस्तु) नान्यथा क्वचिदिष्यत’ इति वामने । ‘अनन्तासनवैकुण्ठक्षीराब्धिस्थो हरि-स्त्रिपादि’ति च ॥ १६ ॥
पदरत्नावली
सृष्टिप्रलयहेत्वोर् भवतः शिवस्य च जाग्रतोः सतोर्हरेर्विश्वोद्भवादिलीलारामत्वं कथमिति तटस्थशङ्कां परिहर्तुमाह– यो वा इति ॥ चशब्दाः समुच्चयार्थाः । ‘अनन्तासनवैकुण्ठ-क्षीराब्धिस्थो हरिस्त्रिपात्’ इति वचनाद् यस् त्रिपाद् एको हरिरात्मा नारायणो मूलं कारणं येषां ते आत्ममूला यो विभुः स्वयं विष्णुर्यो वा अहं मदन्तर्यामी ब्रह्माख्यो यश्च गिरिशाख्यः शिवान्तर्यामी स्थित्युद्भवप्रलयहेतवो भूत्वाऽवतीर्य सृज्यपदार्थानां नानाविधत्वात् तेषु अन्तर्यामित्वेनोरुप्ररोहो बहुरूपो ववृधे तस्मै भुवनद्रुमाय नम इत्यन्वयः । वृक्षसाधर्म्यकथनेन विकारित्वमुक्तमिति बिभ्यच्चतुर्मुखो भगवत इत्याह । नायं लोकद्रुमवद् विकारी किन्तु ऐश्वर्यादिगुणविग्रह इति । तस्माद् बुद्ध्यवताराय तथोक्तमिति भावः । वा इत्यनेन ‘ब्रह्मादिभावो विष्णोस्तु तन्नियामकता भवेत् । मत्स्यादिता स्वभावस्तु नान्यथा क्वचिदिष्यते ॥’ इति प्रमाणप्रसिद्धिं सूचयता मत्स्यादिवदेतौ ब्रह्मशिवौ न साक्षात् स्वरूपे इति ज्ञापितम्
॥ १६ ॥
प्रकाशिका
विश्वस्योद्भवकर्ता भवान्, प्रलयकर्ता शिवः प्रसिद्धः । अतः कथं विष्णो-र्विश्वोद्भवादिनिमित्तलीलारामत्वमुक्तमित्याशङ्कां परिहरन्पुनः प्रणमति ॥ यो वा इति । अत्र विष्णुत्ववदेव हरेर्ब्रह्मरुद्रभावः प्रतीयतेऽतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैवाह ॥ ब्रह्मादिभाव इति । आदिपदेन रुद्रादिग्रहणं यत्रोच्यते तत्र तन्नियामकता ब्रह्मादिनियामकता विवक्षिता भवेत् । यदधीना यस्य सत्ता तत्तदित्येव भण्यत इति वचनात् । मत्स्यादिभावो यत्रोच्यते तत्र स्वभावस्तु स्वतादात्म्य-मेवार्थतयेष्यते । क्वचिद् वेदे वैदिकेऽपि वा । नान्यथेष्यते । ब्रह्मादावपि मत्स्यादिवदभेदोऽर्थतया नेष्यत इत्यर्थः । त्रिपादित्यस्य त्रयो ब्रह्मादयः पादा स्कन्धा यस्येति व्याख्यानं प्रमाणविरुद्धमित्याशयेन प्रमाणेनैव तस्यार्थं दर्शयति ॥ अनन्तासनेति । त्रिपादित्युच्यत इति शेषः । तथा चात्र त्रिपाच्छब्दः स्थानत्रयगतस्वरूपांशपर इति भावः ॥ तथा चायं श्लोकार्थः ॥ यस्त्रिपादनन्तासनादिस्थानत्रयगत-स्वरूपांशत्रयवान्हरिरेकोऽप्युरवः प्ररोहाः शाखोपशाखास्थानीयास्तत्तत्कार्यनियामकानन्तांशा यस्य सः । तथाभूतः सन् ववृधे । तस्मै भुवनव्याप्तद्रुमाय नमः । किं कृत्वा ववृधे । आत्मा स्वयमेव मूलं मूलस्थानीयो येषां ते तथा स्थित्युद्भवप्रलयहेतवः । अहं मय्याविष्टो मन्नियामको मन्नामा, गिरिशश्च यो गिरिशाविष्टस्तन्नियामकस्तन्नामा स्वयं साक्षादेव विभुर्विष्णुश्चेत्येते भूत्वाऽवतीर्य । वैशब्दः प्रमाण-प्रसिद्धिद्योतकः ॥ १६ ॥
लोको विकर्मनिरतः कुशले प्रमत्तः
कर्मण्ययं त्वदुदिते भवदर्चने स्वे ।
यस्तावदस्य बलवानिह जीविताशां
सद्यश्छिनत्त्यनिमिषाय नमोऽस्तु तस्मै ॥ १७ ॥
तात्पर्यम्
‘नित्यज्ञानदृशा नित्यं लवकालमपीश्वरः । पश्येत्तात्कालिकं चैव तस्मादनिमिषो हरिः । कालस्यानिमिषत्वं च लवादेर्नित्यवीक्षणादि’ति तन्त्रसारे ॥ १७ ॥
पदरत्नावली
शतं वर्षसहस्त्राणां जीवामि तदनन्तरं पुण्यं सञ्चिनोमि किमिदानीं तत्करणमिति मत्वा भगवदुपासनादिसत्कर्मण्यालस्यं न कर्तव्यमिति भावेन कालान्तर्यामिणं भगवन्तं नमति– लोक इति ॥ तावत् तदा बलवान् योऽस्य जनस्येह जीविताशां सद्यः कालक्षेपमन्तरेण छिनत्ति । अपराध-मन्तरेण जीविताशाच्छेदनं साहसमिति न मन्तव्यमित्यत उक्तम्– विकर्मेति ॥ विहिताकरणादि-नात्महत्यादिदोषापत्तेर् अतोऽधिकोऽपराधोऽस्तीत्यतो न वैषम्यनैर्घृण्ये हरेरिति भावः । स्वे स्वविहिते । तस्मै अनिमिषाय नित्यज्ञाननेत्रेण नित्यं पश्यते कालान्तर्यामिणे नित्यं तुभ्यं नम इत्यन्वयः । ‘नित्यज्ञानदृशा नित्यं लवकालमपीश्वरः । पश्येत् तात्कालिकं चैव तस्मादनिमिषो हरिः ॥’ इत्यादेर्न देवमात्रमत्र ग्राह्यम् । कालान्तर्यामिणोऽनिमिषत्वं नित्यं लवादिकालनिरीक्षणात् । तच्चोक्तम्– ‘कालस्यानिमिषत्वं च लवादेर्नित्यवीक्षणात्’ इति । इतरस्य तच्छब्दवाच्यत्वं तन्नियतत्वात् ॥ १७ ॥
प्रकाशिका
भगवदाराधकस्य मुमुक्षोर्निषिद्धत्यागेन विहितानुष्ठानेन चावश्यं भाव्यमिति विपक्षे बाधकप्रदर्शनमुखेनोपपादयन् कालप्रवर्तकमनिमिषनामकं भगवन्तं प्रणमति ॥ लोक इति । अयं लोकः। विकर्मणि निषिद्धे कर्मणि नितरां रतः । स्वे स्वीये स्ववर्णाश्रमविहिते भवतोऽर्चनं यस्मिंस्त्वदुदिते दत्त-कपिलव्यासादिरूपेण त्वयैव कर्तव्यतया प्रतिपादिते । कुशले क्षेमकारिणि कर्मणि प्रमत्तो ऽनादृतचित्तो यदा वर्तते तावत्तदा यो बलवान्केनापि निवर्तयितुमशक्योऽस्य जनस्येह लोके जीविताशां सद्यः कालक्षेपमन्तरेण छिनत्ति । वृथा तदीयं जन्म भवतीति यावत् । अतो यावदायुर्निषिद्धं त्याज्यं विहितं चानुष्ठेयमिति भावः । अत्रानिमिषपदेन काल एवोच्यत इत्यन्यथाप्रतीतिवारणाय प्रमाणेनैव तत्पदार्थ-माह ॥ नित्यज्ञानेति । इन्द्रियाभावात्कथं पश्यतीत्याशङ्कापरिहाराय नित्यज्ञानदृशेत्युक्तम् । नित्यं यथा स्यात्तथा । तात्कालिकं लवकालस्थितं वस्त्वित्यर्थः । तस्मादेवेत्यन्वयः । ननु कालोऽपि क्वचिदनिमिष इत्युच्यते तत्र किं निमित्तमित्यपेक्षयामाह ॥ कालस्येति । अनिमिषत्वमनिमिषशब्दवाच्यत्वम् । लवादेः कालस्य नित्यवीक्षणान्नित्यं वीक्ष्यमाणत्वान्निमित्तादित्यर्थः । अत्र निमिषशब्दः कादाचित्क-सूक्ष्मनिरीक्षणपरः । तथा च न विद्यते निमिषो यस्येत्यत्रान्यपदार्थतया कर्तृग्रहणे नित्यं तन्निरीक्षिता भगवान्वाच्यः । कर्मग्रहणे तेन नित्यं निरीक्ष्यमाणो लवादिः कालो लभ्यत एवेति भावः । अनेन हरेरनिमिषशब्दवाच्यत्वं लवादिकालान्तर्गतस्यैवेति सूचयति ॥ १७ ॥
यस्माद् बिभेम्यहमपि द्विपरार्धधिष्ण्य-
मध्यासितः सकललोकनमस्कृतं यत् ।
तेपे तपो बहुतपोऽवरुरुत्समान-
स्तस्मै नमो भगवते विसखाय तुभ्यम् ॥ १८ ॥
पदरत्नावली
क्लृप्तकालोऽहमपि यस्माद् बिभेमि, किम्वितरे, तस्मात् कालान्तर्यामिहरि-प्रसादोऽवश्यं सम्पादनीयः पुण्यनिचयं सम्पिपादयिषुभिरिति भावेन कालान्तर्यामिणं विशिनष्टि– यस्मादिति ॥ धिष्ण्यमध्यासित इति सप्तम्यर्थे द्वितीया । द्विपरार्धधिष्ण्यं ब्रह्मशतवर्षकालावस्थायिस्थानं सत्याख्यम् । स्वस्य भीतिश्चानेन ज्ञातव्येत्याशयेनाह– तेप इति ॥ मुक्तावानन्दवृद्धिकरं बहुतपः पूर्णज्ञानं चावरुरुत्समानः प्राप्तुमिच्छन् तपस्तेपे । गुणोपसंहाररूपामुपास्तिमकरवमित्यर्थः । स्वक्रियमाणे कर्मणि सहायान्तरानपेक्षणाद् विगतः सखा यस्य स तथा तस्मै ॥ १८ ॥
प्रकाशिका
ननु भगवतो न लोकमारकत्वम् । तस्य द्वा सुपर्णेत्यादिश्रुत्या लोकसखत्वाव-गमादित्याशङ्कां परिहरन्पुनः प्रणमति ॥ यस्मादिति । अहमपि सर्वाधिकार्युत्तमोऽपि यस्मादनिमिषा-द्बिभेमि तस्मान्मम मरणं भविष्यतीति जानामीत्यर्थः । अपिशब्दसूचितं स्वस्योत्तमत्वमुपपादयितुमुक्तम् ॥ द्विपरार्धेति । द्वयोः परार्धयोः सम्बन्धि द्विपरार्ध्यं तच्च तद्धिष्ण्यं स्थानं सत्यलोकाख्यम् । अधि शीङ्स्थासां कर्मेति आधारस्य कर्मसंज्ञा । अनेन बहुतरायुष्यवत्वेन स्वस्योत्तमत्वमुपपादितम् । प्रकारान्तरेणाप्युत्तमत्वमुपपादयितुमुक्तम् ॥ सकलेति । तथा च सकललोकवन्द्यपदभोक्तृत्वान्म-मोत्तमत्वमिति भावः । किमेतावान् कालो वृथा नीतो नेत्याह ॥ तेपे तप इति । तपः सन्तापात्मकं, आलोचनं वा तेपे तप्तवान् । किमिच्छन् । बहुतपः स्वयोग्यवृद्ध्युपेतं ज्ञानमवरुरुत्समानः प्राप्तुमिच्छन् । विगतः सखा तत्कृतमरणशून्यो यस्य स तथोक्तस्तस्मै । एवं सर्वोत्तमोऽप्यहं तत्कृतमरणरहितो न भवामि किमुतेतर इति भावः । श्रुतिस्तु कर्मानुसारेणान्नदानादिना रक्षकत्वाभिप्रायेणेति भावः ॥ १८ ॥
तिर्यङ्मनुष्यविबुधादिषु जीवयोनि-
ष्वात्मेच्छयाऽऽत्मकृतसेतुपरीप्सया यः ।
रेमेऽनिरस्तरतिरप्युपलब्धकाष्ठ-
स्तस्मै नमो भगवते पुरुषोत्तमाय ॥ १९ ॥
तात्पर्यम्
अनिरस्तरतिर्नित्यरतिः ॥ १९ ॥
पदरत्नावली
तिर्यगादिजीवयोनिषु विज्ञानविलोपहेतुष्ववतारान् नित्योदितज्ञानानन्दत्वेनानन्य-साध्यं विक्रमं कुर्वन् क्रीडतीति यत् तेनैव तत्त्वज्ञानं सुलभं पुंसाम् अतोऽपि न ज्ञायते गतिरित्यहो दुराग्रहो दुष्टानामिति भावेन श्रीहरिं स्तौति– तिर्यगिति ॥ आत्मेच्छया स्वेच्छया । प्रयोजनमाह– आत्मेति ॥ परीप्सया पालनेच्छया । तिर्यगादिजीवयोनिष्वप्यनिरस्तरतिः । अन्यत्र नित्यरतिरिति किमु । अत्र हेतुगर्भविशेषणमाह– उपलब्धकाष्ठ इति ॥ नित्यानन्दानुभवलोपे हि दुःखानुभवः सम्भाव्यते नास्य तथा । नित्यानुभूतानन्दोत्कर्षत्वादित्यर्थः ॥ १९ ॥
प्रकाशिका
ननु तवापि मारकत्वेन यत्सर्वपुरुषोत्तमत्वं हरेरुक्तं तदयुक्तम् । तस्य तिर्यगादि-योनिषु जननेन विषयभोगेन चेतरसाधारणत्वादित्याशङ्कां परिहरन्पुनः प्रणमति ॥ तिर्यगिति । अत्र निरस्तरतिरपि रेमे इति व्याख्याने व्याहतिमालोच्याभिमतं छेदं दर्शयन्व्याख्याति ॥ अनिरस्तेति । नित्यरतिरिति ध्वंसाप्रतियोगित्वोक्त्या नित्यत्वस्यैव लाभादिति भावः ॥ ततश्चायमर्थः । तिर्यङ्मनुष्यादि-जीवयोनिषु तन्मध्ये आत्मेच्छया न तु कर्मणा । अवतीर्येति शेषः । प्रयोजनमाह ॥ आत्मकृतेति । स्वकृतमर्यादापालनेच्छयाऽनिरस्तरतिः । नित्यरतिरपि रेमे विषयान् बुभुजे । ननु नित्यरतित्वमेव कुत इत्यत उक्तम् ॥ उपलब्धकाष्ठ इति । श्रुत्यादिभिरुपलब्ध आनन्दतारतम्यस्य काष्ठाऽवधिरपरिच्छिन्ना-नन्दो यस्य स तथोक्तः । अत एव पुरुषोत्तमाय । तथा च नेतरपुरुषसाधारणत्वमिति भावः ॥ १९ ॥
योऽविद्ययानुपहतोऽपि दशार्धवृत्त्या
निद्रामुवाह जठरीकृतलोकयात्रः ।
अन्तर्जलेऽहिकशिपुस्पर्शानुकूलं
भीमोर्मिमालिनि जनस्य सुखं विवृण्वन् ॥ २० ॥
पदरत्नावली
हरेः श्रमोद्रेकोत्थनिद्रादिदर्शनात् तद्गतिर्दुरवबोधेति तत्राह– य इति ॥ दशार्धेन पञ्चसंख्यया वृत्तिर्यस्याः सा तथा तया पञ्चवृत्त्येत्यर्थः । एवंविधाविद्ययाऽनुपहतोऽबाधितोऽपीत्यनेन एकमेव ब्रह्माविद्यया संसरति विद्यया मुच्यत इति मतं दूरादुत्सादितम् । भीमा भयङ्कर्य ऊर्मीणां माला अस्य सन्तीति भीमोर्मिमाली तस्मिन्नन्तर्जले । अहिकशिपुस्पर्शानुकूलम् इति क्रियाविशेषणम् । अहिः शेष एव कशिपुरुत्तरवस्त्रास्तृतशय्या तस्य स्पर्शानुकूलं स्पर्शसुखानुगुणं यथा भवति तथा । न स्वार्थेयं निद्रा किन्तु परार्थेत्याशयेनाह– जनस्येति ॥ अनेनापि निद्रा मुद्रितनेत्रत्वमेव । न सर्वैन्द्रियोपरम इत्युक्तं भवति ॥ २० ॥
प्रकाशिका
नन्वेवं कथं तस्याविद्याकार्यभूता निद्रेत्यतः साऽपि लोकनिद्राविलक्षणैवेत्याह ॥ योऽविद्ययेति । दशार्धाः पञ्च वृत्तयो यस्याः सा तया, पञ्चपर्ववृत्येत्यर्थः । अनुपहतोऽप्यनभिभूतोऽपि यो निद्रामुवाह तस्मै नम इत्युत्तरेणान्वयः । जठरीकृतोदरेऽर्पिता लोकयात्रा लोकस्थितिर्येन । भीमा भयङ्कर्य ऊर्मीणां मालाः पंक्तयोऽस्य सन्तीति भीमोर्मिमाली तस्मिन् । जलेऽन्तर्मध्येऽहिः शेष एव कशिपुस्तस्याः स्पर्शोऽनुकूलो यथा स्यात्तथेति । क्रियाविशेषणमेतत् । नेयं निद्रा स्वार्था किन्तु परार्थेत्याशयेनाह ॥ जनस्येति । स्वनिद्रासमये जनानामपि सुप्तिं प्रदाय तत्स्वरूपसुखानुभवं प्रापयन्नित्यर्थः । भगवन्निद्राया लोकनिद्रावैलक्षण्योपपादनायैतानि विशेषणानि । न हि लोके निद्राणोऽविद्ययाऽनुपहतो, नापि जठरीकृतलोको, न वाऽन्तर्जलेऽहिशरीरे वा निद्राति नापि परेषां सुखार्थमिति ॥ २० ॥
यन्नाभिपद्मभवनादहमासमद्य
लोकत्रयोपकरणो यदनुग्रहेण ।
तस्मै नमस्त उदरस्थभवाय योग-
निद्रावसानविकसन्नलिनेक्षणाय ॥ २१ ॥
पदरत्नावली
पितृनमस्कारोऽपि पुत्रेणावश्यं कार्य इत्याशयेन तं नमति– यन्नाभीति ॥ यदनुग्रहेणेत्युभयत्रान्वयः । अहं यदनुग्रहेण यन्नाभिपद्मभवनादासं यदनुग्रहेण लोकत्रयोपकरणश्चासमिति लोकत्रयसृष्टौ सहकारीत्यनेन सृष्टौ मुख्यसृष्टा स एवेत्युक्तं भवति । शिवोऽपि भगवदाज्ञानियत इति भावेनाह– उदरस्थेति ॥ उदरे तिष्ठतीत्युदरस्थः । उदरस्थो भवो रुद्रो यस्य स तथा तस्मै । अनेन सर्वसंहर्तृत्वमपि रुद्रकृतमप्युपचारमात्रं मुख्यं तु हरेरित्युक्तं भवति । रुद्रस्यापि संहर्त्ता किमुत जगत इति वा । ब्रह्मरुद्रौ नारायणात्मानाविति भ्रान्तिरपहस्तितेति च ज्ञातव्यम् । योगनिद्रावसानविकसन्नलिनेक्षणा-येत्युक्त्या नित्यविकसन्नलिनेक्षणस्य कादाचित्कविकासोक्तिरज्ञजनदृष्टिमपेक्ष्य । अतो भगवतो गतिर्न ज्ञायत इति मतमवद्यात्मकत्वाद् बुभूषुभिर्न ग्राह्यमिति सिद्धम् ॥ २१ ॥
प्रकाशिका
यो वाऽहं च गिरिशश्चेत्यत्र यत्स्वस्य गिरिशस्य च न साक्षाद्भगवदवतारत्व-मित्यभिप्रेतं तदुपपादयन्पुनः प्रणमति ॥ यन्नाभीति । लोकत्रयमुपकरणं हरिपूजासाधनं यस्य स तथा । लोकत्रयस्य सृष्ट्यादिनोपकरोतीति वा । लोकत्रयोपकारक इति यावत् । एतादृशोऽहं यदनुग्रहेणासम् । अतो न मम साक्षादवतारत्वमिति भावः । नापि रुद्रस्येत्याह ॥ उदरस्थभवायेति । उदरस्थो भवो रुद्रो यस्य तस्मै । पूर्वकल्पान्ते विनष्ट इदानीमुदर एव तिष्ठति नाहमिव बहिरुत्पन्नः स कथं साक्षात्तदवतारः स्यादिति भावः । निद्रामुवाहेत्युक्तनिद्रां विवृण्वन् अनुग्रहसूचकं विशेषणमाह ॥ योगनिद्रेति । स्वात्म-ध्यानाय चक्षुर्निमीलनं योगनिद्रेत्युच्यते । तदवसाने विकसती नलिनवदीक्षणे यस्य तथा तस्मै ॥ २१ ॥
सोऽयं समस्तजगतां सुहृदेक आत्मा
सत्त्वेन यन्मृडयते भगवान् भगेन ।
तेनैव मे दृशमनुस्पृशताद् यथाऽहं
स्रक्ष्यामि पूर्ववदिदं प्रणतप्रियोऽसौ ॥ २२ ॥
पदरत्नावली
अधुना स्वाभीष्टं प्रार्थयत इत्याह– सोऽयमिति ॥ स इति ज्ञातोऽसीत्युक्तः परामृश्यते । सुहृत्वाद् एकत्वात् सुहृदन्तररहितत्वाद् आत्मत्वाद् उत्कृष्टत्वाद् इमं वरं प्रार्थयत इति भावः । आत्मशब्दस्य मुख्यार्थो विष्णुरेकः सनातनः । सन्देहदेहमनसो बुद्धिजीवाः स्वयं तथा । ब्रह्माप्यमुख्याः क्रमश उत्कर्षोऽप्यात्मना भवेत् ॥’ इति वचनान्मुख्यार्थो विष्णुरेव । तस्यैव ग्राह्यत्वात् । यद् येन भगेन ऐश्वर्यादिरूपेण, स्वत्वेनात्मभावेन पराक्रमेण वा, मृडयते रक्षति विश्वमिति शेषः । स्पृश दान इति धातोः, अनुस्पृशताद् ददातु । दृशं विशिनष्टि– यथेति ॥ एवं प्रयच्छतः प्रतिदानमिदमेवेति भावेनाह– प्रणतेति ॥ अनेनेश्वरस्य स्वतस्तृप्तस्य तर्पकान्तरानपेक्षां सूचयति ॥ २२ ॥
प्रकाशिका
एवं स्तुत्वेदानीं स्वाभीष्टं प्रार्थयते ॥ सोऽयमिति चतुर्भिः । नान्यः प्रार्थनीयोऽ-स्तीत्याशयेनाह ॥ एक एव समस्तजगतां सुहृत्, आत्मोत्कृष्ट इति । यद्येन सत्त्वेन गुणेन पराक्रमेण वा भगेनैश्वर्येण च मृडयते रक्षति । विश्वमिति शेषः । अनुस्पृशताद्ददातु । स्पृश दान इति धातोः । दृशं विशिनष्टि ॥ यथेति । यत इत्यर्थः । यतः प्रणतप्रियोऽसौ । अहं च प्रणत इति भावः ॥ २२ ॥
एष प्रपन्नवरदो रमयाऽऽत्मशक्त्या
यद् यत् करिष्यति गृहीतगुणावतारः ।
तस्मिन् स्वविक्रम इदं सृजतोऽपि चेतो
युञ्जीत कर्मशमलं च यथा विजह्याम् ॥ २३ ॥
तात्पर्यम्
‘स्वसामर्थ्यात्स्वकर्माणि रमया सह केशवः । कुरुते स्वयमेवैष कानि-चित्पुरुषोत्तम’ इति नारदीये ॥ २३ ॥
पदरत्नावली
उक्तमेवार्थं विशेेषणान्तरप्रक्षेपेण प्रार्थयते– एष इति ॥ आत्मशक्त्या स्वभार्यया स्वसामर्थ्येन वा । ‘स्वसामर्थ्यात् स्वकर्माणि रमया सह केशवः । कुरुते स्वयमेवैष कानिचित् पुरुषोत्तमः ॥’ इति वचनात् । यद्यद् यं यं विक्रमम् । तस्मिन् स्वविक्रमे स्वव्यापारे वीर्यलक्षणो जगत्सर्जनव्यापारमग्नस्यापि मे चेतः स्मृतिकारणं ज्ञानं युञ्जीत अपुष्टं पुष्टं कृषीष्ट । इयदेव नालमित्याह– कर्मेति ॥ ज्ञानप्रतिबन्धकं पापात्मदैत्यादिसृष्टिकर्मणा प्राप्तं शमलं यथा येन जहामि तादृशमिति शेषः । सत्त्वादिगुणाधीने ज्ञानाज्ञाने किमनेन स्यातामित्यत उक्तम्– गृहीतेति ॥ स्वनियतसत्त्वादिगुणप्रकाशः । हयग्रीवादिप्रसादप्राप्यं ज्ञानमस्मात् कथं स्यादित्यतो वेत्युक्तम्– गृहीतेति ॥ स्वप्रकाशितज्ञानादिगुण-हयग्रीवाद्यवतारः । एतत्प्रार्थनया रूपान्तरं प्राप्य फलमपि स्यादित्यर्थः ॥ २३ ॥
प्रकाशिका
आत्मशक्त्येत्यत्र शक्तिशब्दस्य भार्यार्थत्वे वैय्यर्थम् । रमया सहेति व्याख्याने हरेरस्वातन्त्र्यं च प्रतीयतेऽतोऽत्र विवक्षितं व्याख्यानं प्रमाणेनैव दर्शयति ॥ स्वसामर्थ्यादिति । आत्म-शक्त्येत्यस्य तात्पर्यमिदम् । तथा च यानि कर्माणि रमया सह कुरुते तान्यपि स्वसामर्थ्यादेव कुरुत इत्यर्थः । तत्र रमासाहित्यं तदनुग्रहार्थमेवेति भावः । कुत एतदित्यतः । यत एषः स्वयमेव रमां विहायैव कानिचित्कुरुते । अन्यथा तन्न स्यादिति भावः । किञ्चायं क्षराक्षरपुरुषोत्तमः । अतः स्वाधीन-रमाया अपेक्षायामपि न स्वातन्त्र्यहानिरिति भावः ॥ ततश्चायं श्लोकार्थः ॥ रमया सहात्मशक्त्या स्वसामर्थ्येन स्थित्याद्यर्थं गृहीता ये सत्त्वादयो गुणास्तत्प्रवर्तका विष्ण्वाद्यवतारा यस्य स तथोक्तः । तस्मिन्स्वविक्रमे स्वपराक्रमरूपे जगत्पालनसर्जनसंहरणादिरूपव्यापारे । इदं जगत्सृजतोऽपि तदाज्ञया नानाविधजगत्सर्जनव्यापारमग्नस्यापि मे चेतः स एव युञ्जीत प्रवर्तयतु । जगत्सृष्ट्यादिव्यापारकरणेन मम हरिपराक्रमविषये स्मृतिलोपो यथा मा भूत्तथा करोत्विति भावः । यत एषः प्रपन्नवरदोऽहं च प्रपन्नो यथा येन कर्म, मोक्षविलम्बकारणं, शमलं च ज्ञानप्रतिबन्धकतामसदैत्यादिसृष्ट्या प्राप्तं पापं च विजह्यां त्यक्ष्यामि ॥ २३ ॥
नाभिह्रदादिह सतोऽम्भसि यस्य पुंसो
विज्ञानशक्तिरहमासमनन्तशक्तेः ।
रूपं विचित्रमिदमस्य विवृण्वतो मे
मा रीरिषीष्ट निगमस्य गिरां विसर्गः ॥ २४ ॥
पदरत्नावली
वैदिकप्रतिपाद्यवस्तुनो ज्ञानविशेषो वेदार्थतात्पर्यज्ञाननान्तरीयक इति तद्विषयक-ज्ञानमपि न विनष्टं स्यादिति प्रार्थयते– नाभिह्रदादिति ॥ इह अम्भसि सतोऽस्य हरे रूपं प्रतिमा-स्थानीयम् । निगमस्य सम्बन्धिनीनां गिरां वाचां विसर्गः विशिष्टनिश्चयो विष्णुरेव सर्वोत्तम इत्यादिलक्षणो मा रीरिषीष्ट क्षीणो नष्टो माभूदित्यर्थः ॥ २४ ॥
प्रकाशिका
इहांभसि सतोऽनन्तशक्तेर्यस्य पुंसो नाभिह्रदाद्विज्ञाने शक्तिर्यस्य महत्तत्त्वस्य तदभिमान्यहमासम् । अस्य रूपं प्रतिमास्थानीयमिदं विश्वं विवृण्वतो विस्तरेण कुर्वतो मे निगमस्य वेदस्यावयवभूतानां गिरां वाक्यानां पदानां च विसर्गो विशिष्टमुच्चारणं व्याख्यानं वा मा रीरिषीष्ट मा लुप्यतामित्यर्थः । अनन्तशक्तिरयम् । अहं च तत्पुत्रो विज्ञानशक्तिरतस्तत्प्रसादेनान्यत्र व्यापृतस्य मम वेदव्याख्यानादिलोपो मा भूदिति भावः ॥ २४ ॥
सोऽसावदभ्रकरुणो भगवान् विवृद्ध-
प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।
उत्थाय विश्वविजयाय च नो (मनो)विषादं
माध्व्या गिराऽपनयतात् पुरुषः पुराणः ॥ २५ ॥
पदरत्नावली
अनुग्रहमात्रेणाभिप्रायसिद्धावपि संल्लापेनाधिकविश्वासो भवतीति सृष्टिविषादाप-नयनप्रार्थनव्याजेन संल्लापमभिप्रैति– सोऽसाविति ॥ योऽसौ मया वर्णितगुणोऽदभ्रकरुणः पूर्णदयासमुद्रः स पुराणः पुरुषो भगवान् विश्वविजयाय शेषपर्यङ्कादुत्थाय विवृद्धप्रेमस्मितेन पूर्णस्नेहप्रसरप्रादुर्भूत-मन्दहासेन सह नयनाम्बुरुहं विजृम्भन्नुन्मीलयन् माध्व्या मदिरावद् रोमाञ्चं जनयन्त्या गिरा नो मनोविषादं भयमपनयतादित्यन्वयः । हे वेदगर्भ भयं मा भूत् सर्गोद्यमं कुर्वित्यादिवचनेन प्रीतिमाव-हेत्यर्थः ॥ २५ ॥
प्रकाशिका
अदभ्रकरुणोऽनल्पकृपः । विजृम्भन्विजृम्भयन्विश्वस्य विजयाय उद्भवाय । चकारा- दस्मदनुग्रहाय चोत्थाय । अस्मन्मानसविषादपरिहाराय समीचीनां वाचं ब्रवीत्वित्याशयः ॥ २५ ॥
मैत्रेय उवाच–
स्वसम्भवं निशाम्यैवं तपोविद्यासमाधिभिः ।
यावन्मनोवचः स्तुत्वा विरराम स खिन्नवत् ॥ २६ ॥
पदरत्नावली
हरिगुणानन्त्यात् प्राज्ञेन विरिञ्चेन यावदायुः स्तुतो हरिः किमिति मन्दाशङ्कां परिहरति– मैत्रेय इति ॥ स्वसम्भवं स्वजनकम् । विद्या मन्त्रलक्षणा निष्ठा । स्तुतेरुपरमो गुणा-नामानन्त्यादप्रतिभानात् स्वाभीष्टसिद्धेरित्यनेकविधो दृष्टोऽत्र तु प्रथमपक्ष एवेति भावेनाह– यावदिति ॥ खिन्नवदलम्बुद्धिरहितवदित्यनेन पुनरपि स्तोतुमिच्छां सूचयति ॥ २६ ॥
प्रकाशिका
स्वस्य सम्भवो यस्मात्तं स्वपितरं निशाम्य दृष्ट्वा । तप आलोचनं विद्या निष्ठा, समाधिर्ध्यानं, प्रकृतकार्यविषये यावन्मनोवाचस्तावत्स्तुत्वा । खेदोऽनलम्बुद्धिरिति प्रथमतात्पर्यं, खिन्नवदलंबुद्धिरहितवत् । अनेन तस्य पुनरपि स्तोतुमिच्छां सूचयति ॥ २६ ॥
अथाभिप्रेतमालक्ष्य ब्रह्मणो मधुसूदनः ।
विषण्णचेतसस्तेन कल्पव्यतिकराम्भसा ॥ २७ ॥
पदरत्नावली
तर्ह्यनया स्वाभीष्टं न सेत्स्यतीति तत्राह– अथेति ॥ कल्पव्यतिकरः प्रलयस् तदम्भसा ॥ २७ ॥
प्रकाशिका
कल्पव्यतिकरः प्रलयस्तदंभसा ॥ २७ ॥
लोकसंस्थानविज्ञान आत्मनः परिखिद्यतः ।
तमाहागाधया वाचा कश्मलं शमयन्निव ॥ २८ ॥
तात्पर्यम्
‘आत्मशब्दस्य मुख्यार्थो विष्णुरेकः सनातनः । सन्दोहदेहमनसो बुद्धिजीवाः स्वयं तथा । ब्रह्माप्यमुख्याः क्रमश उत्कर्षो ह्यात्मता भवेदि’ति प्रकाशसंहितायाम् ॥ २८ ॥
पदरत्नावली
आत्मनः स्वस्य लोकानां संस्थानस्यावयवशो विन्यासविशेषस्य विज्ञाने परिखिद्यतो ऽलम्बुद्धिमकुर्वतस्तस्य ब्रह्मणो ऽभिप्रेतमालक्ष्य लक्षणतो ज्ञात्वा । कश्मलं ज्ञानसङ्कटम् ॥ २८ ॥
प्रकाशिका
आत्मनः स्वस्य, लोकानां संस्थानस्यावयवसन्निवेशविशेषस्य विज्ञाने । परिखिद्य-तोऽलम्बुद्धिमकुर्वतो ब्रह्मणोऽभिप्रेतमित्यन्वयः । आलक्ष्य सम्यक्दृष्ट्वा । कश्मलं मनोविषादम् । इवेत्यनेन दर्शनेनैव तद्विषादस्य गतत्वान्न तत्र वचनापेक्षेति सूचयति । अत्रात्मन इत्यात्मशब्दस्य स्ववाचकत्वं, जगतां सुहृदेक आत्मेति पूर्वं विष्णुवाचकत्वं, तत आत्मनि योगेनेत्यग्रे देहवाचकत्वं जीववाचकत्वं चाभिप्रेतम् । तत्र सर्वत्र किमात्मशब्दप्रवृत्तिः साम्येनैवेत्याशङ्कां प्रमाणेनैव परिहरति ॥ आत्मशब्दस्येति । सन्दोहो मध्यदेहः । लिङ्गानुशासने द्व्यच्कस्यैवासमस्तस्य नपुंसकत्वविधानात् । समस्तोऽयं मनःशब्दो बह्वच्क इति न नपुंसक इति ज्ञेयम् । बुद्धिजीवा इत्यत्र बहुवचनं जातौ । स्वयं स्वो विष्णुरेव मुख्यार्थ इत्यत्र निमित्तमाह ॥ उत्कर्षो हीति । व्याप्तिरित्यर्थः । आत्मताऽऽत्म-शब्दप्रवृत्तिनिमित्तम् । आङ्पूर्वात्तनोतेर्ड्मन् प्रत्यये आत्मेत्यस्य निष्पन्नत्वादिति भावः ॥ २८ ॥
श्रीभगवानुवाच–
मा वेदगर्भ गास्तन्द्रीं सर्ग उद्यममावह ।
तन्मया चोदितं ह्यग्रे यन्मां प्रार्थयते भवान् ॥ २९ ॥
तात्पर्यम्
प्रार्थनमपि मत्प्रेरणमेव ॥ २९ ॥
पदरत्नावली
तन्द्रीं लोकसंस्थानविज्ञानविषयं परिखेदं मा गाः । भवान् यल्लोकसंस्थानविज्ञानं प्रार्थयते तन्मया पूर्वमेव तप इति द्व्यक्षरकथनेन चोदितम् । तत्प्रार्थनमपि न स्वाधीनं किन्तु मत्प्रेरण-यैवेतीममर्थं हिना सूचयति ॥ २९ ॥
प्रकाशिका
मूले हे वेदगर्भ वेदप्रतिपाद्य । तन्द्रीं विषादकृतमालस्यं मा गाः । तेनैव मे दृशमनुस्पृशतादित्यादिरूपं यत्प्रार्थनं त्वया पूर्वं कृतं तत्रापि न तव स्वातन्त्र्यमस्तीत्याह । तन्मयेति । अत्र यज्ज्ञानं भवान्प्रार्थयते तज्ज्ञानं मया चोदितमित्यन्यथाप्रतीतिवारणाय तात्पर्यमाह ॥ प्रार्थनमपीति । हि इत्यस्यार्थो ऽपीति । मम प्रेरणा यस्य तन्मत्प्रेरणं मत्प्ररेणाजन्यमित्यर्थः । तत्रापि भवान्न स्वतन्त्र इत्यर्थः ॥ ततश्चायमर्थः ॥ भवानग्रे पूर्वं मां प्रार्थयते यत् त्वत्कर्तृकप्रार्थनं तदित्यर्थः । तद्धि तदपि मया चोदितं मत्प्रेरणाजन्यमेवेत्यर्थः । तत्रापि भवान्न स्वतन्त्र इति भावः ॥ २९ ॥
भूयश्च तप आतिष्ठ विद्यां चैव मदाश्रयाम् ।
ताभ्यामन्तर्हृदि ब्रह्मन् लोकान् द्रक्ष्यस्यपावृतान् ॥ ३० ॥
तात्पर्यम्
‘तप आलोचनं प्रोक्तं विद्या निष्ठा प्रकीर्तिते’ति कपिलसंहितायाम् ॥ ३० ॥
पदरत्नावली
नैतावताऽलमित्याह– भूयश्चेति ॥ ‘तप आलोचनं प्रोक्तं विद्या निष्ठा प्रकीर्तिता’ इति वचनात् तप आलोचनं गुणोपसंहारलक्षणं ध्यानम् । विद्यां निष्ठां भक्तिलक्षणाम् । ततः किं स्यादिति तत्राह– ताभ्यामिति ॥ ३० ॥
प्रकाशिका
इदानीं प्रार्थितज्ञानस्य साधनमुपदिशति ॥ भूयश्चेति । अत्र तपोविद्याशब्दयो-र्विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ तप आलोचनमिति । निष्ठा श्रद्धा । मदाश्रयामेवेति सम्बन्धः
॥ ३० ॥
तत आत्मनि योगेन भक्तियुक्तः समाहितः ।
द्रष्टासि मां ततं ब्रह्मन् मयि लोकांस्त्वमात्मनि ॥ ३१ ॥
तात्पर्यम्
‘देहे देहे हरिस्तस्मिंल्लोकाः सर्वे प्रतिष्ठिताः । अङ्गुष्ठमात्रेऽपि परे परशक्तिर्यतो विभुरि’ति च । आत्मनि स्थिते मयि ॥ ३१ ॥
पदरत्नावली
लोकदर्शनमेव विशिनष्ठि– तत इति ॥ भक्तियुक्तः समाहित एकाग्रचित्तस्त्वं ततः स्वेन योगेन ध्यानेनात्मनि देहमध्ये हृदि ततं सर्वगुणपूर्णं मां द्रष्टासि । आत्मनि त्वयि स्थिते मयि लोकान् द्रष्टासीत्यन्वयः । ‘देहे देहे हरिस्तस्मिन् लोकाः सर्वे प्रतिष्ठिताः । अङ्गुष्ठमात्रेऽपि परे परशक्तिर्यतो विभुः ॥’ इति वचनात् हृद्यन्तर्लोकदर्शनं युक्तमिति भावः ॥ ३१ ॥
प्रकाशिका
लोकदर्शनमेव विशिनष्टि ॥ तत इति । ततस्तेन योगेन ध्यानेन समाहितो यथावस्थितज्ञानः सन् आत्मनि सर्वदेहेषु ततमङ्गुष्ठमात्ररूपेण व्याप्तं मां द्रष्टाऽसि द्रक्ष्यसि । आत्मनि जीवे स्थिते मयि लोकान्द्रष्टाऽसीत्यन्वयः । अत्र देहान्तर्गतेऽङ्गुष्ठमात्रे हरौ कथं लोकावस्थानमित्याशङ्कां प्रमाणेनैव परिहरति ॥ देहे देह इति । अनेनात्मनीत्येकवचनं समुदायापेक्षमिति सूचयति । परशक्तिर-घटितघटकशक्तिः । अङ्गुष्ठमात्रोऽप्यघटितघटकशक्त्या विभुर्व्याप्तो यत इत्यर्थः । आत्मनि मयीति सामानाधिकरण्येनाभेदप्रतीतिवारणायापेक्षितमध्याहृत्य योजनां दर्शयति ॥ आत्मनीति । तथा चात्मनि जीवे स्थितेऽपि मयीत्यर्थः । ततश्च पुनरालोचने कृते सर्वदेहस्थिते सर्वजीवस्थिते च मयि लोकान्द्र-ष्टाऽसीति भावः ॥ ३१ ॥
यदा तु सर्वभूतेषु दारुष्वग्निमिव स्थितम् ।
प्रतिचक्षीत मां लोको जह्यात् तर्ह्येव कश्मलम् ॥ ३२ ॥
पदरत्नावली
लोकसंस्थानविज्ञानयोगमुपदिश्याधुना ब्रह्मणः सर्वेषां गुरुत्वात् तदुपदिष्टज्ञानस्य मुक्तिसाधनत्वाल्लोकोपकारकं तज्ज्ञानप्रकारमुपदिशति– यदा त्विति ॥ तुशब्दो ज्ञानविशेषसूचकः । लोको योग्यो जनो दारुष्वग्निमिव निःसङ्गतया सर्वभूतेषु स्थितं, तुशब्दात् सर्वभूतेषु स्थितेऽङ्गुष्ठमात्रे मय्यपि लोकान् यदा प्रतिचक्षीत प्रतिदेहं पश्येत्, तर्हि तदानीमेव कश्मलं जीवेश्वराभेददर्शननिमित्तदुःखं जह्याज् जहाति । ‘देहे देहे हरिस्तस्मिन्’ इत्येतदत्राप्युदाहर्तव्यम् ॥ ३२ ॥
प्रकाशिका
एवंविधत्वद्दर्शनेनापि किं फलमित्यत आह ॥ यदा त्विति । तुशब्दो लोकाधारत्वरूपविशेषार्थः । सर्वभूतेषु देहेषु जीवेषु च प्रतिचक्षीत पश्येत् । तर्ह्येव तदानीमेव कश्मलं बाह्यमनोगतं विषादम् ॥ ३२ ॥
यदा रहितमात्मानं भूतेन्द्रियगुणाशयैः ।
स्वरूपेण मयोपेतं पश्यन् स्वाराज्यमृच्छति ॥ ३३ ॥
तात्पर्यम्
स्वरूपेण मयोपेतं हृदिस्थं जीवरूपं हि परमेश्वरसहितं भवति । ‘त्यक्त्वा देहाद्यात्मभावं जीवरूपे हृदि स्थिते । दृष्ट्वाऽऽत्मभावं तं चापि हरिपादाब्जसंस्थितम् । यदा पश्यत्यापरोक्ष्यात्तदा मुक्तिं व्रजत्यसावि’ति दत्तात्रेययोगे ॥ ३३ ॥
पदरत्नावली
नैतावतापि पूर्यत इति पूर्वोपदिष्टज्ञानमुपचिनोति– यदेति ॥ यदात्मानं भूतेन्द्रिय-गुणाशयै रहितं पश्यति स्वाराज्यमृच्छतीत्यन्यवयः । किन्तु विशेषोऽप्यस्तीत्याह– स्वरूपेणेति ॥ स्वरूपेण मयोपेतं हृदि स्थितं जीवस्वरूपं पश्यन् मुक्तो भवति । अयं भावः, यदात्मानं स्वरूपं जीवसंज्ञं भूतेन्द्रियादिरहितं देहादिष्वात्मभावं त्यक्त्वा हृदि स्थिते जीवस्वरूप आत्मभावं दृष्ट्वा हृदि स्थितेन स्वरूपेण स्वबिम्बरूपेण मया उपेतं समीपे स्थितं मम पादाब्जसेवकत्वेन वर्तमानं पश्यति तदा स्वरूपानन्दानुभवमुपैति । तदुक्तम्– ‘त्यक्त्वा देहाद्यात्मभावं जीवरूपे हृदि स्थिते । दृष्ट्वात्मभावं तं चापि हरिपादाब्जसंस्थितम् । यदा पश्यत्यापरोक्ष्यात् तदा मुक्तिं व्रजत्यसौ ॥’ इति ॥ ३३ ॥
प्रकाशिका
न केवलमुक्तविधमज्ञ्दानेनैव पूर्यते । किन्तु स्वस्वरूपज्ञानमपि जीवस्य पुरुषार्थ-तयाऽपेक्षितमित्याह ॥ यदा रहितमिति । अत्र स्वरूपेण मयोपेतमित्येतदनूद्याभेदप्रतीतिवारणाय स्वरूपेणेत्यस्यार्थं सूचयन्मयोपेतमित्येतदुपपादयति ॥ स्वरूपेणेति । हृदिस्थं जीवरूपमित्यनेन स्वरूप-शब्दार्थो दर्शितः । दक्षिणाक्ष्यादिस्थितजीवरूपव्यावृत्तये हृदिस्थमित्युक्तम् । हिशब्दः श्रुत्यादि-प्रसिद्धिद्योतकः । भवतीत्यनन्तरमतो मयोपेतमित्येतदुपपन्नमिति शेषः । ततश्च स्वरूपेणेत्येतन्न मयेत्यस्य विशेषणं येनाभेदः स्यात् । किन्तु स्वरूपेण हृदिस्थितस्वसमग्ररूपेणैवात्मानं स्वं मयोपेतं हृदि स्थितं मत्समीपस्थं पश्यन्निति मूलं व्याख्येयमिति सूचयति । अप्रतिपत्तिविप्रतिपत्तिनिरासाय समग्रश्लोकं प्रमाणेनैव व्याख्याति ॥ त्यक्त्वेति । देहादावात्मभावमात्मत्वाभिमानम् । अनेन भूतेन्द्रियगुणाशयै-रित्येतदुक्तार्थम् । आत्मभावं जीवभावं चेति चशब्दान्वयः । अनेन स्वरूपेण स्वधर्मेण जीवत्वेनात्मानं हृदि स्थितं स्वं पश्यन्नित्यपि मूलयोजनां सूचयति । तमपि हृदि स्थितं जीवमपि । हरिपादाब्ज-संस्थितमित्यनेन स्वरूपेणेत्येतदुक्तरीत्या मयोपेतमित्यनेनापि सम्बध्यत इति सूचयति । स्वाराज्य-मृच्छतीत्यस्यार्थः ॥ मुक्तिं व्रजतीति ॥ ततश्चायं श्लोकार्थः ॥ लोकोऽधिकारी जनो, यदा भूतानि पञ्च इन्द्रियाणि दश गुणाः शब्दाद्या आशयो जडान्तःकरणम् । एतैः रहितम् एतदात्मके देहे । परित्यक्तात्म-भावमात्मानं स्वं स्वरूपेण हृदिस्थितस्वसमग्ररूपेणैव मयोपेतं हृदिस्थितं मत्समीपस्थं पश्यन्वर्तते । आत्मानं हृदिस्थितं स्वरूपेण स्वधर्मेण जीवत्वेन पश्यन्निति वा तदा स्वाराज्यं स्वरागविषयं मोक्षमृच्छति गच्छतीति ॥ ३३ ॥
नानाकर्मविपाकेन प्रजा बह्वीः सिसृक्षतः ।
नात्माऽवसीदत्यस्मिंस्ते वर्षीयान् मदनुग्रहः ॥ ३४ ॥
पदरत्नावली
इदानीं तस्मिन् स्वविक्रम इति यत् प्रार्थितं तद्दानप्रकारमाह– नानेति ॥ अस्मिन् सृष्टिकर्मणि नानाविधादृष्टाख्यकर्मणां विपाकेन फलदानोन्मुखेन कालेन बह्वीः प्रजाः सिसृक्षतस्ते तव आत्मा बुद्धिर्नावसीदति न नश्यति । तत्र निमित्तमाह– वर्षीयानिति ॥ वर्षीयान् बहुसंवत्सरकाल-सम्पन्नो मदनुग्रहोऽस्तीति यत् तस्मादिति शेषः । वर्षीयान् ज्यायानिति वा ॥ ३४ ॥
प्रकाशिका
इदानीं तस्मिन्स्वविक्रम इदं सृजतोऽपीति यत्प्रार्थितं तद्ददातीत्याह ॥ नानेति । नानाविधकर्मफलभूतेनादृष्टेनात्मा बुद्धिरस्मिन्मदीयसृष्ट्यादिकर्मणि नावसीदति नापगता भविष्यति । यतो वर्षीयान्वृषतरः । अत्यधिकोऽस्तीति शेषः ॥ ३४ ॥
ऋषिमाद्यं न बध्नाति पापीयांस्त्वां रजोगुणः ।
यन्मनो मयि निर्बद्धं प्रजाः संसृजतोऽपि ते ॥ ३५ ॥
पदरत्नावली
एतदेव स्पष्टयति– ऋषिमिति ॥ ऋषिस्त्रिकालदर्शी स्यादिति वचनाज् ज्ञानित्वाद् आद्यमादौ भवन्तं त्वाम् । प्रथमोत्पन्नत्वेन तव श्रेष्ठत्वात् । हेत्वन्तरमाह– यन्मन इति ॥ प्रजाः संसृजतस्ते तवाऽत्मा बुद्धिर्नावसीदति । अन्यव्यापारग्रस्तस्य अन्यत्र मनोनिधानं दुष्करम् । तथापि तत् कृत्यम् । अत इतरान् प्रति पापीयानपि रजोगुणस्त्वां न बध्नातीत्यर्थः ॥ ३५ ॥
प्रकाशिका
अनुग्रहमेव दर्शयति ॥ ऋषिमिति चतुर्भिः । ऋषिस्त्रिकालदर्शी स्यादिति वचना-त्सर्वज्ञम् । आदौ भवमाद्यं, यद् यस्मान्मयि मद्विषये नितरां बद्धम् । त्वयाऽहं सम्यग्ज्ञात इत्यर्थः ॥३५॥
ज्ञातोऽहं भवता त्वद्य दुर्विज्ञेयोऽपि देहिनाम् ।
यन्मां त्वं मन्यसे युक्तं भूतेन्द्रियगुणात्मभिः ॥ ३६ ॥
तात्पर्यम्
भूतेन्द्रियमनोबुद्धित्रिगुणादिषु सर्वशः । युक्तं नियामकतया पश्यञ्जानाति केशव-मि’ति च ॥ ३६ ॥
पदरत्नावली
मनोनिर्बन्धनफलमाह– ज्ञात इति ॥ यथास्थितवस्तुज्ञानमेव मत्प्रसादजनकं तत् तवास्तीत्याह– यन्मामिति ॥ त्वं भूतेन्द्रियगुणात्मभिर् भूतेन्द्रियत्रिगुणमनोबुद्धिभिर्नियामकतया युक्तं मां मन्यसे न तु तदात्मकत्वेनेति यत् तस्माद् यथार्थज्ञानित्वादित्यर्थः । ‘भूतेन्द्रियमनोबुद्धित्रिगुणादिषु सर्वशः । युक्तं नियामकतया पश्यन् जानाति केशवम् ॥’ इति वचनाद् भूतेन्द्रियादिनियामकतया तद्युक्तज्ञानमेव केशवज्ञानमिति भावः ॥ ३६ ॥
प्रकाशिका
एतदेव प्रपञ्चयति ॥ ज्ञात इति । ज्ञातः साक्षात्कृतः । यद्यस्मान्मन्यसे ध्यायसि । अत्र भूतेन्द्रियगुणात्मयुक्तत्वं जीवसाधारणं भगवति बाधितमतः प्रमाणेनैव तद्युक्तत्वं दर्शयति ॥ भूतेन्द्रियेति । मनोबुद्धिरित्यात्मशब्दस्यार्थद्वयमुक्तम् । गुणशब्दार्थकथनम् ॥ त्रिगुणादिष्विति । आदिपदेन शब्दाद्या ग्राह्याः । युक्तं सम्बद्धम् । स्थितमिति यावत् । पश्यन्मनसा ध्यायन् जानाति पश्यति । तथा च भूतेन्द्रियगुणात्मभिर्भूतेन्द्रियगुणमनोबुद्धिभिर्नियम्यैर्युक्तम् । तत्र नियामकतया स्थितमिति मूलं व्याख्येयमिति भावः ॥ ३६ ॥
तुभ्यं मद्विचिकित्सायामात्मा मे दर्शितो बहिः ।
नालेन सलिले मूलं पुष्करस्य विचिन्वतः ॥ ३७ ॥
पदरत्नावली
इतः पूर्वं स्वरूपानाविष्करणमपि तवानुग्रहविशेषार्थमित्याशयेनाह– तुभ्यमिति ॥ प्रलयसलिले पुष्करस्य पद्मस्य नालेन नालनाडीद्वारा पुष्करस्य मूलं कारणं मां विचिन्वतस्तव मद्विचिकित्सायां मद्दिदृक्षाजिज्ञासायां मे आत्मा सच्चिदानन्दलक्षणस्तुभ्यं त्वदर्थं बहिर्दृग्विषयत्वेन दर्शितः
॥ ३७ ॥
प्रकाशिका
इदानीं तव मद्दर्शनमपि मदनुगृहेणैवेत्याह ॥ तुभ्यमिति । विचिकित्सायां दिदृक्षायां तन्निमित्तमनोविषादे सतीति यावत् । आत्मा देहो बहिः स्थितः । सलिले प्रलयजले पुष्करस्य कमलस्य नालेन नालनाडीद्वारेण पुष्करस्य मूलं कारणभूतं मां विचिन्वतो मृगयतस्तव मद्विचिकित्सायामित्यन्वयः ॥ ३७ ॥
यच्चकर्थ मम स्तोत्रं मत्कथाभ्युदयाङ्कितम् ।
यद् वा तपसि निष्ठा च स एष मदनुग्रहः ॥ ३८ ॥
पदरत्नावली
त्वत्कथातपोनिष्ठाबलात् त्वं प्रत्यक्षोऽभूर्न तु स्वत इति दर्पो माभूदिति भावेनाह– यच्चकर्थेति ॥ कथ वाक्यप्रबन्ध इति धातोः स्तोत्रलक्षणो वाक्यप्रबन्धः कथा । तस्याः सम्यगुदय उत्कर्षस्तेनाङ्कितं युक्तम् । वागिन्द्रियव्यापारस्य मदनुग्रहमन्तरेणानुपपत्तेस्तेन शुभविषया प्रवृत्तिरभूत् तव । स एष मदनुग्रह इत्यच्यते । ‘यो वाचि तिष्ठन्, यो मनसि तिष्ठन्’ इत्यादेः ॥ ३८ ॥
प्रकाशिका
स्तोत्रकरणमपि मदनुग्रहेणैवेत्याह ॥ यच्चकर्थेति । मत्कथाभ्युदयाङ्कितं मत्प्रति-पादकवाक्यप्रबन्धोत्कर्षयुक्तम् । मदनुग्रहो ममानुग्रहो यस्य स मदनुग्रहसाध्य इत्यर्थः ॥ ३८ ॥
प्रीतोऽहमस्तु भद्रं ते लोकानां विजयेच्छया ।
यदस्तौषीद् गुणमयं निर्गुणं माऽनुवर्णयन् ॥ ३९ ॥
तात्पर्यम्
‘सार्वज्ञादिगुणैर्युक्तं सत्वादिगुणवर्जितम् । यो जानाति हरिं तस्य प्रीतो भवति केशव’ इति व्योमसंहितायाम् । ‘आधिकारिकदेवानां स्वाधिकाराभिकामनम् । भवति प्रीतये विष्णोर्भक्त्यादेरपि यत्सदे’ति च ॥ ३९ ॥
पदरत्नावली
कथापि स्तोत्रलक्षणा न प्रहेलिका बालप्रियेति भावेनोक्तं स्फुटयति– प्रीत इति ॥ लोकानां सृष्टिविजयेच्छया गुणमयं सार्वज्ञ्यादिगुणपूर्णं निर्गुणं सत्वादिगुणरहितं मामनुवर्णयन्नस्तौषीदिति यत् तेनाहं प्रीतोऽस्मि । ते भद्रं कल्याणमस्तु इत्यन्वयः । ‘सार्वज्ञ्यादिगुणैर्युक्तं सत्वादिगुणवर्जितम् । यो जानाति हरिं तस्य प्रीतो भवति केशवः ॥’ इतीदं प्रमाणं गुणोत्कर्षज्ञानमेव प्रीतिजनकं न निर्गुणत्व-ज्ञानमिति भावेनोदाहृतम् ॥ ३९ ॥
प्रकाशिका
इदानीं स्तोत्रफलं व्यञ्जयन् तमभिनन्दति ॥ प्रीतोऽहमिति । विजयेच्छया सृष्टीच्छया । गुणमयं निर्गुणमिति पदयोर्व्याहतिपरिहारायार्थं दर्शयितुं समाख्याप्रमाणं दर्शयति ॥ सार्वज्ञादीति । अनेन गुणमयमित्येतदुक्तार्थम् । निर्गुणमित्यस्य व्याख्यानम् ॥ सत्त्वादीति । तथा च गुणमयं सार्वज्ञादिगुणपरिपूर्णं मां निर्गुणं सत्त्वादिगुणशून्यम् । अनुवर्णयन्प्रतिप्रादयन् यस्मादस्तौषीद्भवां-स्तेनाहं प्रीतोऽस्मि । मत्प्रीत्या च ते भद्रं कल्याणमस्त्वित्यर्थः । अत्र विजयेच्छयाऽस्तौषीदिति ब्रह्मकृतस्तोत्रस्य कामनया कृतत्वमुच्यते । तदुत्तमाधिकारिणां निषिद्धम् । अतोऽत्रोपपत्तिं प्रमाणेनैव दर्शयति ॥ आधिकारिकेति । स्वाधिकारमभि तत्सम्बन्धि यदस्ति तत्कामनमित्यर्थः । तेन लोकानां विजयेच्छयेत्यत्रेदं नासङ्गतमिति ध्येयम् । सदा भक्त्यादेरपि यत्कामनं तदपि विष्णोः प्रीतये भवतीत्यर्थः। तथा च ब्रह्मणो लोकसृष्टिव्यापारस्यापि स्वाधिकारसम्बन्धित्वात्तत्कामनस्य हरिप्रीतिसाधनत्वान्न तस्य निषिद्धत्वमिति भावः ॥ ३९ ॥
य एतेन पुमान् नित्यं स्तुत्वा स्तोत्रेण मां भजेत् ।
तस्याहं (तस्याशु) सम्प्रसीदेयं सर्वकामवरेश्वरः ॥ ४० ॥
पदरत्नावली
त्वत्कृतस्तोत्रेण मां भजमानो यस्तस्मै प्रसन्नोऽभीष्टं ददामि किमु तुभ्यमित्यभि-प्रेत्याह– य एतेनेति ॥ ‘आधिकारिकदेवानां स्वाधिकाराभिकामनम् । भवति प्रीतये विष्णोर्भक्त्यादेरपि यत् सदा ॥’ इत्यनेन सृष्टिस्वाधिकारकामेन ब्रह्मणा कृतमिदं स्तोत्रं कथं हरिप्रीतिजनकं स्यादितीदं चोद्यं निर्मूलनीयम् । अत एव सर्वकामवरेश्वर इत्युक्तम् । सर्वकामितवराणामीश्वर इत्यर्थः ॥ ४० ॥
प्रकाशिका
त्वत्कृतस्तोत्रेण यो मां भजते तस्यापि प्रसन्नो भवामि किमु तुभ्यमित्याशयेनाह ॥ य इति । सर्वकामवरेश्वरः सर्वकामितवराणां दाने समर्थः ॥ ४० ॥
पूर्तेन तपसा यज्ञैर्दानैर्योगैः समाधिना ।
राज्यं निःश्रेयसं पुंसां मत्प्रीतिस्तत्त्वविन्मतम् ॥ ४१ ॥
तात्पर्यम्
निःश्रयेसं राज्यम् । मोक्षेऽपि रञ्जनीया मत्प्रीतिरेव । ‘मुक्तस्यापि हरेः प्रीतिः सर्वतोऽप्यनुरज्यत’ इति वामने ॥ ४१ ॥
पदरत्नावली
मत्प्रीतेरेव सर्वपुरुषार्थोत्तमत्वं नान्यस्येत्याह– पूर्तेनेत्यादिना ॥ तुलापुरुषादि-हिरण्यदानैः । पुंसां मत्प्रीतिर् निःश्रेयसं राज्यं रञ्जनीयं तत्त्वविन्मतं तत्त्वज्ञानिनः मतम् । रञ्जनीय-मित्यनेन मोक्षेऽपि रञ्जनीया मत्प्रीतिरेवेति ध्वनयति । तदुक्तम्– ‘मुक्तस्यापि हरेः प्रीतिः सर्वतोऽप्यनु-रज्यते’ इति ॥ ४१ ॥
प्रकाशिका
प्रीतोऽहमिति प्रीतिरेव फलत्वेनोक्ता, तयाऽपि किं प्रयोजनमित्याकांक्षाया-मुत्तमाधिकारिणां मत्प्रीतिरेव परमपुरुषार्थरूपा । अतः सर्वकामिभिः सैवाशास्या मोक्षोऽपि तदर्थ-मेवाशास्य इत्याशयेनाह ॥ पूर्तेनेति । अत्र प्रीतेर्निःश्रेयसत्त्वं राज्यत्वं च कथमित्यतस्तदभिप्रायमाह ॥ निःश्रेयसमिति । तथा च सप्तसु प्रथमेति सूत्रान्निःश्रेयसमिति प्रथमा सप्तम्यर्थे । राज्यशब्दोऽपि न रूढ्या देशपरः किन्तु योगेन रञ्जनीयार्थकः । रञ्ज राग इति धातोः । अतः पुंसामुत्तमाधिकारिणां निःश्रेयसे मोक्षेऽपि मत्प्रीतिरेव पूर्तादिभी राज्यम् । लिङ्गव्यत्ययेन रञ्जनीया एष्टव्या । मोक्षस्तु तदर्थमेवेति तत्त्वविदां मतम् । अतत्त्वविदां तु पूर्तादिना स्वर्गादिकमेव राज्यमिति मतमिति मूलार्थ इति भावः । अत्र प्रमाणसंवादमाह ॥ मुक्तस्यापीति । कर्तरि षष्ठी । मुक्तेनाप्युत्तमाधिकारिणा सर्वतः पूर्तादितो हरेः प्रीतिरेवानुरज्यते योग्यतानुसारेणेष्यत इत्यर्थः ॥ ४१ ॥
अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि ।
अतो मयि रतिं कुर्याद् देहादिर्यत्कृते प्रियः ॥ ४२ ॥
तात्पर्यम्
‘सर्वतोऽपि प्रियो ह्यात्मा तस्यापि प्रियतां हरिः । आपादयति यत्तस्मा-त्स्वात्मनोऽपि प्रियो हरिरि’ति ब्रह्मवैवर्ते ॥ ४२ ॥ इति तृतीयतात्पर्ये दशमोऽध्यायः ॥ १० ॥
पदरत्नावली
मुक्तावपि मत्प्रीतिरेव रञ्जनीयेत्युक्तं, तत्र मुख्यसाधनं भक्तिरेवेत्याह– अहमिति ॥ धातश्चतुर्मुख । अहमात्मनां सर्वजीवानाम् आत्मा अन्तर्यामित्वेनानन्दादिनिर्माता, अत एव प्रेयसामतिशयेन प्रियाणां स्वात्मादीनामपि सन् अभ्यर्हितः प्रेष्ठः प्रियतमः । सर्वस्मात् प्रियाद् देहादेस्तव प्रेष्ठत्वं कथमित्यत उक्तम्– देहादिरिति ॥ देहादिर्यस्य स्वात्मनः कृतेऽर्थे प्रियः, अस्य स्वात्मनो देहादिः प्रियः स्यादिति मयैवापादितत्वादिति यदतः स्वात्मादिभ्यः प्रियतमत्वान्मयि रतिं भक्तिं भवान् कुर्यादित्यन्वयः । ‘सर्वतोऽपि प्रियो ह्यात्मा तस्यापि प्रियतां हरिः । आपादयति यत् तस्मात् स्वात्मनोऽपि प्रियो हरिः ॥’ इति च
॥ ४२ ॥
प्रकाशिका
एतादृशमत्प्रीतौ मद्भक्तिरेव साधनमित्याशयेन तां विधत्ते ॥ अहमिति । अत्र प्रेयसामप्यात्मनां प्रेष्ठ इति स्वात्मापेक्षया हरेरतिशयेन प्रीतिविषयत्वमुच्यते । तत्कथमित्यपेक्षायां तदुपपादकं प्रमाणमेव पठति ॥ सर्वतोऽपीति । सर्वतो देहादेः । आत्मा जीवः । हिशब्दोऽत्रानुभव-प्रसिद्धिद्योतकः । अनेन देहादिर्यत्कृते प्रिय इत्येतदुक्तार्थम् । प्रियो हरिरुच्यत इति शेषः । ततश्च हे धातश्चतुर्मुख । अहं, देहादिर्यत्कृते येषामर्थे प्रियस्तेषां प्रेयसामपि देहाद्यपेक्षयाऽतिशयेन प्रियाणा-मप्यात्मनां जीवानां प्रेष्ठः सन् प्रियत्वापादकत्वेनातिशयेन प्रीतिविषयः सन् आत्माऽन्तर्यामी भवामि यतोऽतो मयि रतिं कुर्यादिति मूलार्थ इति भावः ॥ ४२ ॥
सर्ववेदमयेनेमा आत्मनाऽऽत्माऽऽत्मयोगिना ।
प्रजाः सृज यथापूर्वं याश्च मय्यनुशेरते ॥ ४३ ॥
पदरत्नावली
सृष्टावेवाधिकृतत्वाद् ब्रह्मणः सृष्टिकामनं न दोषहेतुः किन्तु हरेः प्रीतिहेतु-स्तदाज्ञाकारित्वादिति सूचितम् । तदिदानीं स्पष्टमाह– सर्वेति ॥ सर्ववेदमयेन ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव’ इत्याद्यखिलवेदप्रतिपाद्येन, आत्मनो मत्तः योगः सम्बन्धोऽस्यास्तीति आत्मयोगी तेन मत्तो जातेन आत्मना देहेन आत्मा ब्रह्मा त्वं या मय्यनुशेरते ता इमाः प्रजा यथापूर्वं यथा पूर्वकल्पे सृष्टास्तथा सृजेत्यन्वयः । त्वदन्यस्यानधिकृतत्वात् त्वमेवैतत् कुर्वित्यवधारणार्थे चशब्दः । रुद्राद्युपसंग्रहार्थो वा ॥ ४३ ॥
प्रकाशिका
इदानीं सृष्टिकर्मणि तं नियोजयति ॥ सर्ववेदेति । सर्ववेदार्थविषयकेनात्मयोगि-नाऽऽत्मनां जीवानामात्मा स्वामी यस्तद्विषयकध्यानादिरूपयोगवताऽऽत्मना मनसा इमा देवऋष्यादि-रूपा या इदानीं मय्यनुशेरते ताः प्रजा यथापूर्वं पूर्वकल्पे यथाऽभूवन् तथा विचार्य सृज । वेदार्थानु-सारेणैव नामरूपात्मकं प्रपञ्चं सृजेत्यर्थः । चशब्देन तदाश्रयान् भूरादिलोकांश्च सृजेति ग्राह्यम् ॥ ४३ ॥
मैत्रेय उवाच–
तस्मा एवं जगत्स्रष्टा प्रधानपुरुषेश्वरः ।
व्यज्येदं स्वेन रूपेण कञ्जनाभस्तिरोदधे ॥ ४४ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे दशमोऽध्यायः ।
पदरत्नावली
एवंविधमहिम्नो ब्रह्मणोऽप्यदृश्योऽभून्नारायण इति माहात्म्यातिशयप्रकटनाय हरेस्तिरोधानं कथयति– तस्मा इति ॥ प्रधानपुरुषयोः प्रकृतिब्रह्मणोरीश्वरः । यद् ब्रह्मणो मनसि सन्निहितमिदं व्यज्य व्यक्तीकृत्य ॥ ४४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे दशमोऽध्यायः ॥
प्रकाशिका
प्रधानपुरुषयोः प्रकृतिब्रह्मणोरीश्वरः । व्यज्य व्यक्तीकृत्य ॥ ४४ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां दशमोऽध्यायः ॥ ३-१० ॥