०९ नवमोऽध्यायः

सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः

अथ नवमोऽध्यायः

मैत्रेय उवाच–

सत्सेवनीयो बत पूरुवंशो यल्लोकपालो भगवत्प्रधानः ।

बभूविथेहाजितकीर्तिमालां पदे पदे नूतनयस्यभीक्ष्णम् ॥ १ ॥

पदरत्नावली

अस्मिन्नध्याये सर्वजीवोत्तमहिरण्यगर्भसृष्ट्यभिधानेन हरेः सर्वोत्तमत्वमाहात्म्य-मवधृतमतस्तज्ज्ञानमवश्यमापाद्यं मुमुक्षुभिरिति निरूप्यते । तत्रादौ प्रश्नान् परिहरिष्यन् तं विदुरं मानयन् स्वस्य पुराणावगतिप्रकारं कथयति– सत्सेवनीय इति ॥ वातानुकम्पायाम् । यद् यस्मिन् पूरोर्वंशे भगवानेव प्रधानः सर्वोत्तमो यस्य स तथा, लोकपालस्त्वम् । लिटा लोकविडम्बनार्थं गर्भवासानुभवं परोक्षयति । भगवत्प्रधानत्वं प्रकाशयति– इहेति ॥ इह लोकेऽजितस्य हरेः कीर्तिपुष्पमालां नूतनयसि नवां करोषि यस्मात् तस्मादित्यध्याहार्यौ ॥ १ ॥

प्रकाशिका

श्रद्धया श्रवणाय श्रोतारमभिनन्दति ॥ सत्सेवनीय इति । सतां सेवितुं योग्यः । बत हर्षे । यतो यस्मादिहास्मिन्वंशे बभूविथ जातोऽसि । कथंभूतः । भगवानेव प्रधानः सर्वकर्मसूद्देश्यो यस्य सः । अत्र हेतुरजितस्य हरेः कीर्तिलक्षणपुष्पमालां पदे पदे प्रतिपदं प्रतिपाद्यतया विद्यमाना-मभीक्ष्णं नूतनयसि नवीनां करोषि यतोऽनुभूतामपि विशेषज्ञानायाननुभूतां वदसीति भावः ॥ १ ॥

सोऽहं नृणां क्षुल्लसुखाय दुःखं महद्गतानां विरमाय तुभ्यम् ।

प्रवर्तये भागवतं पुराणं यदाह साक्षाद् भगवान् ऋषिभ्यः ॥ २ ॥

पदरत्नावली

अधुना प्रश्नप्रतिवचनं प्रतिजानीते– सोऽहमिति ॥ योऽहं कृष्णेन तव ज्ञानोपदेशायादिष्टो यश्च मम ज्ञानमुपदिशेति त्वया प्रार्थितः सोऽहं क्षुल्लसुखायाल्पसुखाय महद्दुःख-गानां नृणां दुःखस्य विरमाय निर्मूलनाय साक्षात् सङ्कर्षणो भगवान् सनत्कुमारादिभ्य ऋषिभ्यः यदाह तद् भागवतं पुराणं त्वत्प्रश्नपरिहारत्वेन प्रवर्तय इत्यन्वयः ॥ २ ॥

प्रकाशिका

द्वेधा हि श्रीभागवतसंप्रदायप्रवृत्तिः । संक्षेपतः श्रीनारायणाद्ब्रह्मनारदादिद्वारेण । विस्तरस्तु शेषात्सनत्कुमारसांख्यायनादिद्वारेण । तत्र द्वितीये नारायणब्रह्मसंवादेन संक्षेपतश्चतुःश्लोक्या श्रीभागवतं निरूपितम् । तदेव ब्रह्मनारदसंवादेन किञ्चिद्विस्तरेणोक्तम् । तदेव शेषोक्तमतिविस्तरत-स्त्वत्प्रश्नोत्तरत्वेन वक्ष्यामीत्याशयेनाह ॥ सोऽहमिति । यः कृष्णेन त्वदुपदेशायादिष्टो यस्त्वया प्रार्थित इति वा सोऽहं क्षुल्लसुखायाल्पसुखाय महद्दुःखं गतानां नृणां दुःखस्य विरमाय नाशाय । नराणां प्रवर्तये त्वत्प्रश्नोत्तरत्वेन प्रारभे यत्पुराणम् ॥ २ ॥

आसीनमुर्व्यां भगवन्तमाद्यं सङ्कर्षणं देवमकुण्ठसत्वम् ।

विवित्सवस्तत्त्वमतः परस्य कुमारमुख्या मुनयोऽन्वपृच्छन् ॥ ३ ॥

पदरत्नावली

सूचितमाप्तिमूलत्वं प्रपञ्चयति– आसीनमुर्व्यामिति ॥ उर्व्यां पाताले त्रिलोकी-विवक्षया भूमिपदेन पातालाभिधेयत्वं युक्तम् । अतः सङ्कर्षणात् परस्य हरेस्तत्त्वं विवित्सवः ज्ञातु-कामाः कुमारमुख्या मुनय उर्व्यां पाताले विस्तृतायां बृस्याम् आसीनं, आद्यं सनकादिभ्यः पूर्वजातं, देवं श्रीहरिस्तुत्यामेव प्रकाशमानम् अकुण्ठसत्वम् अप्रतिबद्धज्ञानशक्तिम् । न कुण्ठो यस्य तदकुण्ठं सत्वं वैष्णवस्वभावो यस्य सोऽकुण्ठसत्वस्तमिति वा । सङ्कर्षणं भगवन्तम् अन्वपृच्छन्नित्यन्वयः ॥ ३ ॥

प्रकाशिका

कोऽसौ भगवान्, केभ्यश्च ऋषिभ्यः प्राह, कथं च त्वया तत्प्राप्तमित्यपेक्षाया-माह ॥ आसीनमित्यादिना । उर्व्यां पाताले लोकानां च त्रित्वविवक्षया पातलस्याप्युर्वीपदेन विवक्षित-त्वात् । संकर्षणं शेषम् । अकुण्ठसत्त्वमप्रतिहतबलज्ञानरूपम् । अतः सङ्कर्षणात्परस्य परमात्मनस्तत्त्वं स्वरूपं विवित्सवो ज्ञातुकामाः । कुमारः सनत्कुमारो मुख्यो येषां ते तथा ॥ ३ ॥

स्वमेव धिष्ण्यं बहुमानयन्तं यं वासुदेवाभिधमामनन्ति ।

प्रत्यक्धृताक्षाम्बुजकोषमीषदुन्मीलयन्तं विबुधोदयाय ॥ ४ ॥

तात्पर्यम्

‘आधार आश्रयो धिष्ण्यं निधानं चाभिधीयत’ इत्यभिधानम् ॥ ४ ॥

पदरत्नावली

भगवदुपास्तिमन्तरेणान्यो व्यापारोऽस्य नास्तीति तादृशैर्विशेषणैस्तं विशिनष्टि– स्वमेवेति ॥ प्रेक्षावन्तो यं वासुदेवाभिधमामनन्ति तं स्वं सदानन्दरूपं स्वतन्त्रं वा धिष्ण्यं स्थानमाधारं भगवन्तमेव बहुमानयन्तं भक्त्योपासमानम् । पुनरपि कीदृशम् ? प्रत्यगात्मनि स्वान्तर्यामिणि धृत-माहितम् अक्षाख्यमम्बुजकोशं विबुधानामुदयाय ईषदुन्मीलयन्तं विकसितं कुर्वाणम् । अनेन ‘संप्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन्’ इति वचनादवनतजनानुग्रहायोन्मीलनमन्यदा न युक्तमित्युपास्ता-वित्थंभावो दर्शितः । ‘आधार आश्रयो धिष्ण्यं निधानं चाभिधीयते’ इति वचनात् ‘धिष्ण्यौ शुक्रानिलौ धिष्ण्यमृक्षे स्थाने बले गृहे’ इत्युक्तं शुक्रादिकं न ग्राह्यमनुपयोगात्, वासुदेवाभिधमित्युक्तत्वाच्च ॥ ४ ॥

प्रकाशिका

आप्तत्वोपपादनाय तमेव विशिनष्टि ॥ स्वमेवेति त्रिभिः । अत्र धिष्ण्यशब्दस्य प्रकृतोपयुक्तमर्थमभिधानेनैव दर्शयति ॥ आधार इति । आधारः, आश्रयादिशब्दैरभिधीयत इत्यर्थः ॥ तथा चायं मूलार्थः ॥ यं वासुदेवाभिधं वासुदेवशब्दवाच्यम् । तेनात्यन्ताभिन्नमिति यावत् । आमनन्ति वेदास्तं स्वं स्वीयं धिष्ण्यमाश्रयभूतं सङ्कर्षणाख्यं भगवन्तमेव बहुमानयन्तं बहु यथा स्यात्तथा पूजयन्तम् । पुनः कथंभूतम् । प्रत्यगन्तर्धृतं बाह्यव्यापारान्निवर्तितमित्यर्थः । निमीलितमिति यावत् । अक्षाम्बुजकोशं नेत्राख्यकमलयुगलं विबुधानामुदयायाभ्युदयायेषदुन्मीलयन्तं विकसितं कुर्वाणम् ॥ ४ ॥

स्वर्धुन्युदारैः स्वजटाकलापैरुपस्पृशन्त्य(न्त)श्चरणोपधानम् ।

पद्मं यदर्चन्त्यहिराजकन्याः सप्रेम नानाबलिभिर्वरार्हाः ॥ ५ ॥

पदरत्नावली

पथिकसार्थप्रश्नवन्नायं प्रश्नो ऽवश्यं ज्ञातव्यत्वेनेति बहुमानं वक्ति– स्वर्धुन्युदारै-रिति ॥ सप्रेमेति क्रियाविशेषणम् । अहिराजकन्या नानाबलिभिर्बहुविधपूजासाधनैर्यत्पद्ममर्चयन्ति । वरार्हा वरप्राप्तियोग्या इत्यनेनोत्तमभर्तृप्राप्तये पूजेति सूच्यते । स्वर्धुन्या भागीरथ्या उदस्य उदकस्य आरा स्नानलक्षणा प्राप्तिर्येषां ते स्वर्धुन्युदारास्तैः । ऋ गतावितिधातोर्घञ् प्रत्यये आर इति रूपम् । यद्वा स्वर्धुन्या अवगाहेन उदारैर्महद्भिः ‘उदारो दातृमहतोः’ इत्यभिधानम् । एवंविधैः स्वजटाकलापै-स्तस्य सङ्कर्षणस्य चरणयोरुपधानं पीठायमानं तत्पद्ममुपस्पृशन्तः यावत्प्रसादं स्पृष्ट्वा नमन्त इत्यर्थः

॥ ५ ॥

प्रकाशिका

यद् यस्य । चरणोपधानं चरणावुपधीयेते यस्मिंस्तत् । चरणपीठायमानमिति यावत् पद्मम् । अहिराजकन्याः सप्रेमं प्रेमसहितं यथा स्यात्तथा नानाबलिभिर्बहुविधपूजासाधनैरर्चन्ति । किं कुर्वत्यः । स्वर्धुन्याः स्वर्गनद्या गङ्गाया उदस्योदकस्यारः प्राप्तिर्येषां तैः । गङ्गोदकस्नानेनार्द्रैरिति यावत् । स्वीयजटाकलापैः पद्ममुपस्पृशन्त्यः स्पृष्ट्वा नमन्त्यः सत्यः । पुनः कथं भूताः । वरार्हा वरप्राप्तियोग्याः । अनेनोत्तमपतिप्राप्तये पूजादीति सूचयति ॥ ५ ॥

मुहुर्गृणन्त्यो वचसाऽनुरागस्खलत्पदेनास्य कृतानि तज्ज्ञाः ।

किरीटसाहस्रमणिप्रवेकप्रद्योतितोद्दामफणासहस्रम् ॥ ६ ॥

पदरत्नावली

नमस्कारस्याष्टाङ्गविशिष्टत्वं सूचयतीत्याह– मुहुर्गृणन्त्य इति ॥ अस्य शेषस्य कृतानि कर्माणि अनुरागेण भक्त्या स्खलति पदानि यस्मिंस्तत् तथोक्तं तेन वचसा, तज्ज्ञा नमनप्रकारं जानन्त इत्यर्थः । देवाः किरीटाद्यलङ्कारवन्तः श्रूयन्ते । कोऽस्यालङ्कारो येन देवमित्युक्तिः सार्था स्यादिति तं विशिनष्टि– किरीटेति ॥ सहस्रमेव साहस्रं किरीटानां साहस्रे प्रत्युप्तानां मणीनां प्रवेकैः श्रेष्ठैः प्रद्योतितं प्रकाशितम् उद्दामम् उत्कृष्टं च फणानां सहस्रं यस्य स तथोक्तस्तम् ॥ ६ ॥

प्रकाशिका

पुनः किं कुर्वत्यः । अस्य शेषस्य कृतानि कर्माणि । तानि जानन्तीति तत्ज्ञाः । अनुरागेण भक्त्या स्खलन्ति पदानि यस्मिंस्तेन वचसा मुहुर्गृणन्त्यः सत्यः । सहस्रमेव साहस्रं किरीटानां साहस्रे विद्यमाना ये मणिप्रवेका रत्नश्रेष्ठास्तैः प्रद्योतितं प्रकाशितमुद्दाममुत्कृष्टं फणानां सहस्रं यस्य स तथोक्तः । तमपृच्छन्निति पूर्वेणान्वयः ॥ ६ ॥

प्रोक्तं किलैतद् भगवत्तमेन निवृत्तिधर्माभिरताय तेन ।

सनत्कुमाराय स चाह(यदाह) पृष्टः सांख्यायनायाङ्गधृतव्रताय ॥ ७ ॥

साङ्ख्यायनः पारमहंस्यमुख्यो विवक्षमाणो भगवद्विभूतीः ।

जगाद सोऽस्मद्गुरवेऽन्विताय पराशरायाथ बृहस्पतेश्च ॥ ८ ॥

प्रोवाच मह्मं सदयालुरुक्तो मुनिः पुलस्त्येन पुराणमाद्यम् ।

सोऽहं तवैतत् कथयामि वत्स श्रद्धालवे नित्यमनुव्रताय ॥ ९ ॥

पदरत्नावली

तेन सङ्कर्षणेन सनत्कुमाराय प्रोक्तम् इदं पुराणं त्वत्प्रश्नपरिहारत्वेन वक्ष्यामी-त्येतावता पूर्णत्वात् सांख्यायनायेत्यादिकथनेन किं प्रयोजनमित्याशङ्क्य पुराणाध्येतृगुरुपरम्पराकथने श्रोतॄणाम् आप्त्यतिशयबुद्ध्या तच्छ्रवणादौ क्षिप्रं निरन्तरं प्रवृत्तिः स्यादिति महाप्रयोजनमस्तीति सूचयन्नाह– प्रोक्तमित्यादिना ॥ निवृत्तिधर्माभिरतत्वादिकं पुराणश्रवणाधिकारसंपत्यर्थमुच्यत इति ज्ञातव्यम् ॥ ७-९ ॥

प्रकाशिका

तेन सङ्कर्षणेन । निवृत्तधर्माभिरतायेत्यादीनि चतुर्थ्यन्तानि विशेषणानि तेषां पुराणश्रवणाधि-कारोपपादनार्थानि । कर्तृविशेषणानि तु आप्तत्वोपपादनार्थानि । परंपराकथनं श्रोतुः श्रद्धातिशयजननाय । श्रूयते हि श्रद्धादीनां तत्त्वज्ञानहेतुत्वं, ‘‘श्रद्धावांल्लभते ज्ञानमि’’ति ।

पारमंहस्ये धर्मे मुख्यः । अन्वितायानुगताय ॥

पुलस्त्येनोक्तो वरेणाभिनन्दितः । अत्रेयमाख्यायिका । पितरं राक्षसभक्षितं श्रुत्वा पराशरो राक्षसनाशाय यज्ञे प्रवृत्तो वसिष्ठवचनान्निवृत्तः । ततः पुलस्त्येन स्वसन्ततिरक्षणात्तुष्टेन वरो दत्तः पुराणवक्ता भविष्यसीत्येवंरूपा । तां सूचयितुं विशेषणम् ॥ ७-९ ॥

उदप्लुतं विश्वमिदं तदासीद् यन्निद्रयाऽमीलितदृङ् न्यमीलयत् ।

अहीन्द्रतल्पेऽधिशयान एकः कृतक्षणः स्वात्मरतावनीहः ॥ १० ॥

पदरत्नावली

तदेवं शुकः पाद्मं कल्पमिमं शृृण्वित्युक्तं पाद्मं कल्पं मैत्रेयेण विदुरप्रश्नपरिहार-रूपत्वेन कथयति– उदप्लुतमिति ॥ अनीहोऽक्लिष्टकारी । अनः प्राणोऽस्यास्तीति अनी प्राणी तदर्थमीहा चेष्टावतारादिचरितं यस्य सोऽनीहः । उपरतसर्गादिव्यापारो वा । स्वात्मनि रतौ कृतक्षणः लब्धावसरो ऽहीन्द्रस्यानन्तस्य तल्पेे भोगाख्यशय्यायामेकोऽधिशयानो यद् यदाऽमीलितदृक् विनिद्रोऽपि निद्रा-मीलितलोचनो न्यमीलयद् योगनिद्रामुद्रितनेत्रो ऽभूत्, तदेवं विश्वम् उदप्लुतम् उदे जले प्लुतं गतं मग्नं कल्पप्रलये जलशायिश्रीनारायणोदरगतमासीदित्यर्थः ॥ १० ॥

प्रकाशिका

तत्र तावत्पाद्मकल्पमिमं शृृण्वित्युक्तम् । पाद्मं कल्पं मैत्रेयमुखेन दर्शयन् शुक आह ॥ उदप्लुतमिति । अनीह उपरतजगद्व्यापारः । स्वात्मरतौ स्वस्मिन्नेव रमणे कृतक्षणो लब्धावसरोऽहीन्द्राख्ये तल्पे शय्यायामेकः सर्वावतारैरेकीभूतोऽधिशयानः सन् यद्यदाऽमीलितदृक् विनिद्रोऽपि न्यमीलयन्नेत्रे निमीलितवान् । तदेदं विश्वमुदप्लुतमुदे सत्यलोकपर्यन्तं प्राप्ते प्रलयजले प्लुतं मग्नमासीदित्यन्वयः ॥ १० ॥

सोऽन्तःशरीरेऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणः ।

उवास तस्मिन् सलिले पदे स्वे यथाऽनलो दारुणि रुद्धवीर्यः ॥ ११ ॥

पदरत्नावली

तदोदरीकृतलोकयात्रो हरिः किं चकारेति तत्राह– सोऽन्तरिति ॥ यथाऽनलो दारुणि काष्ठे रुद्धवीर्यः प्रतिबद्धदाहकत्वशक्तिर्वसति तथा हरिरपि शरीरान्तर्हृदयाकाशेऽर्पितानि स्थूल-कार्यदेहस्य लीनत्वाद् भूतानां सूक्ष्माणि रूपाणि यस्य स तथा । यद्वा भूतसूक्ष्माणि शब्दादितन्मात्रा-रूपाणि एतदात्मकत्वात् सर्वस्येति चराचरात्मकं सर्वं गृह्यते । कालात्मिकां प्रलयकालमात्राख्यां शक्तिम् । यद्वा प्रलयकालाभिमानिनीं शक्तिं भार्यां सुखे प्रेरयन् स्वे पदे स्वस्थाने सलिले उवासेत्यन्वयः । उदीरयाण उदीरयमाण इति शानचा स्वात्मनीति सूचयति ॥ ११ ॥

प्रकाशिका

अन्तःशरीरे स्वशरीरमध्येऽर्पितानि स्थापितानि भूतानां प्राणिनां स्थूलदेहानां नष्टत्वात्सूक्ष्माणि शरीराणि येन स तथा । कालात्मिकां कालाख्यां सहकारिशक्तिमुदीरयाणो जनयन् । कथंभूते सलिले । स्वे पदे स्वीये स्थाने । अनेन तस्य नारायणशब्दवाच्यत्वं दर्शयति । रुद्धवीर्योऽनावि-र्भूतशक्तिः ॥ ११ ॥

चतुर्युगाणां च सहस्रमप्सु स्वपंस्तयोदीरितया स्वशक्त्या ।

कालाख्ययाऽऽसादितकर्मतन्त्रो लोकानपीमान् ददृशे स्वदेहे ॥ १२ ॥

पदरत्नावली

स्वापावधिमाह– चतुर्युगानामिति ॥ चशब्देनोवासेति पदमनुकर्षति । चतुर्युगानां सहस्रमिति संख्यातं कालं स्वपन्नप्सूवासेति । तत उत्तरकाले का क्रियाऽभूदिति तत्राह– तयेति ॥ सृष्टिसंहारशक्त्योरेकत्वद्योतनाय तयेति परामृष्टम् । सृष्टिकालाख्ययोदिरितया प्रेरितया स्वशक्त्याऽऽ-सादितकर्मतन्त्रः सृष्ट्यर्थमुपस्थापितजगत्सर्गादृष्टाख्यसाधनः, नित्यज्ञानगोचरत्वाद् इमान् लोकान् स्वदेहे हृदयाकाशे ददृशे । अपिशब्दात् त्रिविधानपश्यदिति ग्राह्यम् । दृष्ट्वा सिसृक्षुरभूदिति वा । अपीतानित्यपपाठः ॥ १२ ॥

प्रकाशिका

स्वापावधिं दर्शयन् तस्मात्पुनः सृष्टिं वक्तुमाह ॥ चतुर्युगाणामिति । महायुगानाम् इत्यर्थः । उदीरितया जनितया तया पूर्वोक्तया स्वशक्त्या सहकारिभूतयाऽऽसादितकर्मतन्त्र उपस्थापिता-दृष्टाख्यसाधनः । लोकान् जनान् । अपिशब्दः कालादिसहकारिदर्शनसमुच्चयार्थः ॥ १२ ॥

तस्यात्मसूक्ष्माभिनिविष्टदृष्टेरन्तर्गतोऽर्थो रजसाऽतनीयान् (तनीयान्) ।

गुणेन कालानुगतेन विद्धः शुष्यंस्तदाऽभिद्यत नाभिदेशात् ॥ १३ ॥

तात्पर्यम्

‘उदकं वायुना शुष्कं भिन्नं पद्ममभूद्धरेरि’ति पाद्मे ॥ १३ ॥

पदरत्नावली

सिसृक्षोस्तस्मादादौ किमुदभूद् येन तद्विशेषणोपादानं प्रयोजनं स्यादिति तत्राह– तस्येति ॥ यदा सिसृक्षुरभूत् तदा अर्थो गर्भोदकलक्षणस् तस्य हरेर्नाभिदेशाद् अभिद्यत नाभिदेशं भित्वा प्राकाशतेत्यन्वयः । हरेः स्वातन्त्र्यद्योतनार्थं भावप्रयोगः । हरेः सृज्येष्वशेषविशेषज्ञानमस्ति न केवलं कुलालवद् युक्तिज्ञानमेवेति भावेनाह– आत्मेति ॥ आत्मनि स्थितेषु सूक्ष्मेषु योगिप्रत्यक्षविषयेषु आकाशादिभूतेषु इन्द्रियेषु जीवेषु वा अभिनिविष्टा सम्यक् विषयीकृता दृष्टिरपरोक्षज्ञानं यस्य स तथा तस्य । घटकारणादिवद् बाह्यार्थो नेत्याह– अन्तर्गत इति ॥ अनेनाब्भूतस्योदरे सत्त्वमुक्तं भवति । इतोऽपि बाह्योदकं नेत्याह– तनीयानिति ॥ परमाणुत्वं प्राप्तः । गर्भोदकस्य प्रागेव सत्त्वात् किमिति कार्यानुत्पत्तिरिति तत्राह– रजसेति ॥ रजसा गुणेन विद्धो ऽनुस्यूतः । रजसोऽपि सत्त्वात् किमिति

ततः पूर्वमनुत्पत्तिरित्यतः– कालेति ॥ सृष्टिकालशक्त्या अनुन्न इत्यनुत्पन्न इति भावः । अनेनेश्वरस्येच्छा मुख्यं कारणमित्युक्तं भवति । वायुमन्तरेण कथमुत्पत्तिर्घटत इत्यत उक्तम्– शुष्यन्निति ॥ शुष्यन् घनीभवन् वायुनेति शेषः । ‘उदकं वायुना शुष्यद् भिन्नं पद्ममभूद्धरेः’ इति ॥ १३ ॥

प्रकाशिका

आदौ पद्मोत्पत्तिप्रकारमाह ॥ तस्येति । तदा सृष्टिकाले प्राप्ते । तस्य नाभिदेशा-दित्यन्वयः । कथंभूतस्य । आत्मनां जीवानां यानि सूक्ष्माणि शरीराणि तेष्वभिनिविष्टा स्थौल्यकरणा-याभिनिवेशिता दृष्टिर्यस्य स तथा तस्य । अन्तर्गत उदरान्तर्गतोऽतनीयान् गर्भोदकरूपः स्थूलोऽर्थः । कालानुगतेन कालानुसारिणा रजसा गुणेनानुविद्धः क्षोभितः सन् शुष्यन्वायुना घनीभवन् । अभिद्यत पद्माकारेण निर्गतोऽभवदित्यर्थः । अत्रान्तर्गतोऽर्थः क इति न प्रतीयतेऽतस्तं प्रमाणेनैव दर्शयति ॥ उदकमिति । वायुना शुष्कं घनीभूतमित्यनेन मूले वायुनेत्यध्याहारं सूचयति । पद्मं सत् हरेर्नाभिदेशाद्भिन्नं निर्गतमभूदित्यन्वयः । तथा चान्तर्गतोऽर्थो गर्भोदकरूपो ग्राह्य इति भावः ॥ १३ ॥

स पद्मकोषः सहसोदतिष्ठत् कालेन कर्मप्रतिबोधितेन ।

स्वरोचिषा तत् सलिलं विशालं विद्योतयन्नर्क इवात्मयोनिः ॥ १४ ॥

तात्पर्यम्

आत्मा विष्णुरस्य योनिः ॥ १४ ॥

पदरत्नावली

उक्तकारणानां बहुत्वात् किमस्य मुख्यं कारणं किं चास्य नामधेयमिति तत्राह– स पद्मकोष इति ॥ लयोदकं विनान्यस्य वस्तुनोऽभावादनिरूपितत्वेनैतद्दर्शनात् सहसेत्युक्तम् । आत्मा विष्णुर्योनिर्मुख्यं कारणं यस्य स आत्मयोनिः । कर्मणा अदृष्टेन प्रतिबोधितेन फलदानाय प्रेरितेन कालेनेरित इति शेषः । उदतिष्टद् यथा चतुर्दशभुवनं स्यात् तथा प्रवृद्धोऽभूदित्यर्थः ॥ १४ ॥

प्रकाशिका

उत्पन्नस्य पद्मस्याभिवृद्धिमाह ॥ स पद्मकोश इति । अत्रात्मयोनिरित्येतत्स्वस्य कारणमित्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ आत्मेति ॥ ततश्चायं मूलार्थः ॥ आत्मयोनिः श्रीविष्णुकारणकः स पद्मकोशः सहसा दृष्टकारणाभावेऽपि कर्मप्रतिबोधितेन कार्यजननाय जीवादृष्टैरुन्मुखीकृतेन कालेन निमित्तेनोदतिष्ठदभिवृद्धोऽभवत् । तत्सलिलं प्रलयजलम् ॥ १४ ॥

तल्लोकपद्मं स उ एव विष्णुः प्रावीविशत् सर्वगुणावभासम् ।

तस्मिन् स्वयं वेदमयो विधाता स्वयंभुवं यं (स्म व) प्रवदन्ति सोऽभूत् ॥१५॥

तात्पर्यम्

**‘पद्मसंस्थाद्धरेस्तत्र ब्रह्माऽजनि चतुर्मुखः’ इति च । सर्वगुणावभासं पृथिव्यात्म-कम् । पृथिव्यां हि सर्वे शब्दादयो गुणा अवभासन्ते । ‘तस्याऽऽसनविधानार्थं पृथिवी पद्म-मुच्यत’ इति मोक्षधर्मे । **

‘प्रधानवाचकस्त्वेकश्चानन्यः केवलः स्वयमि’ति ब्राह्मे ॥ १५ ॥

पदरत्नावली

चेतनसम्बन्धमन्तरेणाचेतनस्य पद्मस्य सूर्यवत् प्रकाशकत्वं कथम् ? मण्यादीनामीश्वरेच्छया तेजःपरमाणूनां प्राचुर्येण संयोगसंभवात् कथंचिद् युज्यते । अस्य तु रजसेति पार्थिवपरमाणुभ्य उत्पत्तिकथनात् तेषां तादृशशक्त्यदर्शनात् । अतः कारणान्तरेण भाव्यम् । तत् किम् ? तत्राह– तल्लोकेति ॥ यस्मात् पद्ममभूत् स एव विष्णुस्तल्लोकविभागकारणं पद्मं प्राविशत् । यथा सूर्ववत् प्रकाशकत्वमाहात्म्यं स्यात् तथाविष्टवान् । उकारेण रूपान्तरेण प्रवेशं सूचयति । एवकारेणाणुमात्रमपि भेदो नास्तीति निर्धारयति । भेददर्शनेन सन्तापलक्षणं दुःखं स्यादित्यर्थवाची वोकारः । ‘उ तापेऽव्ययमीशाने’ इति यादवः । विष्णोरेव प्रकाशकत्वं न पद्मस्य तस्य पृथिव्यात्मकत्वादिति भावेनाह– सर्वेति ॥ सर्वेषां शब्दादिगुणानामवभासः प्रतीतिर्यस्यां पृथिव्यां सा सर्वगुणावभासा । तदात्मकत्वात् पद्ममपि गुणावभासमित्युच्यते । तदुक्तम्– ‘तस्याऽऽसनविधानार्थं पृथिवी पद्ममुच्यते’ इति । तत्प्रवेशप्रयोजनमाह– तस्मिन्निति ॥ तस्मिन् पद्मे सन्निविष्टात् स्वयं प्रधानात् सर्वोत्तमाद्धरेः स विधाताऽभूदित्यन्वयः । ‘प्रधानवाचकस्त्वेकस्त्वनन्यः केवलः स्वयम्’ इति । अतः स्वयं शब्दस्य प्रधानवाचित्वेऽपि विष्णोर्जातत्वं कथमवगतमितीयं शङ्का– ‘पद्मसंस्थाद्धरेस्तत्र ब्रह्माजनि चतुर्मुखः’ इत्यनेन परिहर्तव्येति । ननु विधातेति क इति तत्राह– स्वयंभुवमिति ॥ अनेनाजत्वमपि व्याख्यातम् । आद् विष्णोर्जात इति । पद्मे स्वयं सम्भूत इति च प्रत्युक्तम् । उक्तप्रमाणात् । अन्यथा जनिकर्तुः प्रकृतिरिति सूत्रविरोधश्च । सर्वस्याग्रे हरेर्जातश्चतुर्मुख इति निश्चेतुं तस्य नामान्तरं ध्वनयति– वेदमय इति ॥ मय गतावितिधातोर्वेदेन गम्य इति वेदमयः । लक्ष्मीनारायणावन्तरेण वेदप्रतिपाद्येषु प्रधानत्वाद् वा । ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत्’ इति श्रुतिः । ‘यो वै ब्रह्माणं विदधाति पूर्वम्’ इति च । पद्मभूतत्वमपि पद्मस्थितविष्णुभूतत्वमेवार्थ इत्यङ्गीकर्तव्यम् ॥ १५ ॥

प्रकाशिका

ब्रह्मणः पद्ममात्रजन्यत्वप्रसिद्धिमपाकर्तुं पद्मे विष्णुप्रवेशमाह ॥ तल्लोकपद्ममिति । अत्र विष्णोः पद्मे प्रवेश एवोच्यते न तस्माद्ब्रह्मणो जनिरतः पद्मस्थविष्णोरेव ब्रह्मणो जनिरत्र व्याख्येयेत्याशयेन तत्र प्रमाणं पठति ॥ पद्मसंस्थादिति । अनेन तस्मिन्स्वयमिति पदद्वयं तस्मिन्पद्मे स्थितात्स्वयं हरेरिति व्याख्येयमिति सूचयति । तत्र पद्मे । अनेन तस्मिन्नित्यस्यावृत्तिं सूचयति । चतुर्मुखः सन् ब्रह्माऽजनीत्यर्थः । चतुर्मुख इत्यनेनोत्तरश्लोकतात्पर्यमुक्तम् । सर्वगुणावभास-मित्यस्याभिप्रेतमर्थं दर्शयति ॥ सर्वगुणेति । सर्वगुणावभासा पृथिवी तदुपादानकत्वात्तदात्मकमित्यर्थः । सामानाधिकरण्यलब्धार्थप्रदर्शनाय पृथिव्यात्मकमित्युक्तम् ।

ननु सर्वगुणावभासशब्देन कथं पृथिवीग्रहणम् । रूढेरभावादित्यतो योगं सूचयति ॥ पृथिव्यामिति । हि यस्मात्सर्वे गुणाः शब्दादयोऽवभासन्ते तस्मात्सा सर्वगुणावभासशब्देनोच्यत इति शेषः । अनेन सर्वेषां गुणानां शब्दादीनामवभासोऽनुभवो यस्याः सा सर्वगुणावभासेति विग्रहं सूचयति । तदात्मकत्वात्पद्ममपि सर्वगुणावभासमित्युच्यत इति भावः । पद्मस्य पृथिव्यात्मकत्वे स्यादेतद्व्याख्यानं तदेव कुत इत्यतोऽत्रापि प्रमाणमाह ॥ तस्येति । तस्य ब्रह्मण आसनविधानार्थमासनं विधातुं पृथिवीरूपं पद्ममुच्यत इत्यर्थः । पद्मसंस्थाद्धहरेरित्यत्र मूले स्वयमित्येतद्धरिपरमिति सूचितम् । तत्र प्रमाणमाह ॥ प्रधानेति । तुशब्दोऽवधारणे । एक इत्यादिशब्दः प्रधानवाचक एवेत्यर्थः । तथा च हरेरपि प्रधानत्वात्तद्वाचकत्वं स्वयमित्यस्य युक्तमिति भावः ॥ ततश्चायं मूलार्थः ॥ यस्य नाभेः पद्ममभूत्स एव विष्णुः । सर्वगुणावभासमुक्तरीत्या पृथिव्यात्मकं तत्पूर्वोत्पन्नं लोकात्मकं पद्मं प्रावी-विशत्प्रकर्षेण विवेश । उशब्दोऽत्र प्रमाणप्रसिद्धिद्योतकः । तस्मिन्पद्मेऽन्तर्यामितया स्थितात्स्वयं प्रधानात्तस्मिन्पद्मे वेदमयः सकलवेदद्रष्टा विधाता ब्रह्माऽभूत् । स कः यमत एव स्वयंभुवं प्रवदन्ति । न तु स्वयंव्यक्तत्वेनेति ॥ १५ ॥

तस्यां स चाम्भोरुहकर्णिकायामवस्थितो लोकमपश्यमानः ।

परिक्रमन् व्योमि्न विवृत्तनेत्रश्चत्वारि भेजे(लेभे)ऽनुदिशं मुखानि ॥ १६ ॥

पदरत्नावली

नन्वत्र जातः स्वयम्भूर्विष्णुः स्यात् स्वभूरिति प्रसिद्धेर् न ब्रह्मा । विष्णोः पद्मप्रवेशाच्चेति तत्राह– तस्यामिति ॥ लोकं पृथिव्यादिकं स्वेतरं जनं वाऽपश्यमानः विवृत्तनेत्रः पर्यस्तलोचनः । अत्र जातो ब्रह्मैव भवेत् तस्य चतुर्मुखत्वोक्तेः ॥ १६ ॥

प्रकाशिका

स चास्मिन्कल्पे चतुर्मुखो जात इत्याह ॥ तस्यामिति ॥ चशब्दोऽवधारणे । अवस्थित एवेत्यन्वयः । लोकं जनं परिक्रमन् प्रदक्षिणं कुर्वन् । अनेन प्रदक्षिणतयैव मुखानि भेज इति सूचयति । व्योमि्न तत्तद्दिक्प्रदेशेषु लोकदर्शनाय विवृत्तनेत्रो विशेषेण सर्वदा विद्यमाननेत्रो भवितुम् अनुदिशं दिशमनु दक्षिणादिदिक्षु पूर्वजातेन मुखेन सह चत्वारि मुखानि भेजे । तत्र मुखव्यतिरेकेण नेत्रयोः सर्वदा वृत्त्यसम्भवादित्यर्थः ॥ १६ ॥

तस्माद् युगान्तश्वसनावघूर्णमहोर्मिचक्रात् सलिलाद् विरूढम् ।

अथाश्रितः कञ्जमु लोकतन्त्रं नात्मानमद्धाऽविददादिदेवः ॥ १७ ॥

पदरत्नावली

इतोऽपि ब्रह्मैवोच्यत इत्याह– तस्मादिति ॥ युगान्तश्वसनः प्रलयवायुस् तेनावघूर्णं क्षुब्धं महतीनामूर्मीणां चक्रं मण्डलं यस्मिन् तत्तथा तस्मात् सलिलाद् विरूढम् उत्पन्नं लोकतन्त्रं पृथिव्यादिलोकनिर्माणकारणं कञ्जं पद्मम् उ एव । आदौ उत्पन्नो देव आदिदेव आत्मानं स्वं परमात्मानं चाद्धा प्रत्यक्षं नाविदन् न ज्ञातवान् । अनेन विष्णुः स्वयं ब्रह्मा समभूदित्याशङ्का परिहृता । तस्याज्ञानासंभवात् । ‘अद्धा प्रत्यक्षसत्ययोः’ इति यादवः ॥ १७ ॥

प्रकाशिका

एवं जातस्य चतुर्मुखस्य हर्यनुग्रहेणैवाविर्भूतहरिसाक्षात्कारादिमत्वं न स्वत इति वक्तुमादौ तस्य स्वजनकहरिसाक्षात्काराभावं दर्शयति ॥ तस्मादिति । तस्मात्सलिलात् । कथंभूतात् । युगान्तश्वसनः प्रलयवायुस्तेनावघूर्णं प्रकम्पितं महतीनामूर्मीणां चक्रं मण्डलं यस्मिंस्तस्मात् । विरूढमुद्गतं चञ्चलं वा । लोकतन्त्रं लोकानां कारणं कञ्जम् आश्रितः । उ एव नेत्यनेन सम्बध्यते । आत्मानं परमात्मानम् । अद्धा प्रत्यक्षम् । ‘‘अद्धा प्रत्यक्षसत्ययोरि’’त्यभिधानात् । नैवाविदत् ॥ १७ ॥

क एष योऽसावहमब्जपृष्ठ एतत् कुतो वाऽब्जमनन्यदप्सु ।

अस्ति ह्यधस्तादिह किञ्चनैतदधिष्ठितं यत्र सता नु भाव्यम् ॥ १८ ॥

तात्पर्यम्

सता ब्रह्मणा । ‘स ब्रह्माऽचिन्तयत् कुतो नु पद्मं ब्रह्मणः स्यादिति’ इति मैत्रायणश्रुतिः ॥ १८ ॥

पदरत्नावली

ब्रह्मणः संशयप्रकारं दर्शयति– क एष इति ॥ योऽसावब्जपृष्ठे निषण्ण एषोऽहं कः ? अप्स्वनन्यत् प्रधानमेतदब्जं कुत उत्पन्नम् ? कारणाभावे च पद्मलक्षणकार्यस्याप्यसम्भवात् केनचित् कारणेन भवितव्यमिति युक्त्या निरचिनोद् ब्रह्मेत्याह– अस्तीति ॥ हिशब्दोऽवधारणार्थः । इह जले अधोदेशे किञ्चन पृथिव्यादिविलक्षणं कारणं वस्तु अस्ति ह्येव । एतत्पद्मं यत्राधिष्ठितं तत् कारणं पृथिव्याद्यन्यतमं न स्यात् तेषामनुत्पन्नत्वात् । अतो ब्रह्मैव मूलकारणमिति परिशिष्टमाह– सतेति ॥ सता ब्रह्मणा अनुभाव्यमनुभवसिद्धत्वेनाङ्गीकार्यमित्यर्थः । ‘स ब्रह्माऽचिन्तयत् कुतो नु पद्मं ब्रह्मणः स्यात्’ इति श्रुतेः । कुतो नु पद्ममिति सन्दिह्य ब्रह्मण उत्पन्नं स्यादिति निश्चितवानित्यर्थः । अनेन चतुर्मुखस्याज्ञानं क्षणिकम्, जीववन्न स्वरूपसम्बद्धं, दुर्बलदृष्टिभिर् नृभिः कल्प्यमानं मध्यन्दिनार्कक्षोभ-वदिति ज्ञायते ॥ १८ ॥

प्रकाशिका

तस्यां दशायां तस्य विचारेण हरेः परोक्षज्ञानं कथञ्चिज्जातमित्याह ॥ क एष इति । योऽसावहमब्जपृष्ट एषः कः किञ्जातिमान् । कस्माज्जात इति यावत् । एतदब्जं वाऽप्सु कुतो जातम् । अनेन मम पद्मस्य च कार्यत्वात्केनचित्कर्त्रा भाव्यमिति सामान्यसिद्धिरुक्ता भवति । यतोऽनन्यन्न विद्यतेऽन्यः कर्ता यस्य तत् । उपलक्षणं चैतत् । अहं चानन्यो मम पद्मस्य चान्यः कर्ता नास्त्यनुपलंभादिति भावः । अनेन प्रसक्तप्रतिषेधो दर्शितः । परिशेषसिद्धमर्थं दर्शयति ॥ अस्ति हीति । यत्रैतदधिष्ठितम् । यस्माज्जातमिति यावत् । तत्किञ्च लोकविलक्षणमिह जलेऽधस्तादस्ति । तेन तु निश्चयेन सता भाव्यम् । अन्यस्यासंभवात् । सदेव तदिति निश्चीयत इति भावः । अत्र सच्छब्दार्थं दर्शयति ॥ सतेति । अत्र हिशब्दसूचितं प्रमाणं दर्शयति ॥ स ब्रह्मेति । अचिन्तयदुक्तरीत्या विचारितवान् । नु निश्चयेन ब्रह्मणः परमात्मनः स्यादिति । ज्ञातवानिति शेषः ॥ १८ ॥

स इत्थमुद्वीक्ष्य तदब्जनालनालीभिरन्तर्जलमाविवेश ।

नार्वाग्गतस्तत्खरनालनालीः स वै विचिन्वंस्तदविन्दताजः ॥ १९ ॥

पदरत्नावली

युक्त्या ज्ञातपद्मकारणो ब्रह्मा पुनः किमकार्षीदिति तत्राह– स इत्थमिति ॥ इत्थं परिशिष्टप्रमाणेन उद् ब्रह्म ‘तस्योदिति नाम’ इति श्रुतेर् वीक्ष्यालोच्य तस्याब्जस्य नालस्य दण्डस्य नालीभिर् नाडीभिः सुषिरैः । ततश्च किम् ? तत्राह– नेति ॥ खरनालस्य पद्मस्य नाल-सम्बन्धिनीर्नालीर्विचिन्वन् अन्विच्छन् मार्गमाण इत्यर्थः । तत्कारणं नाविन्दत चक्षुर्विषयं न लब्धवान्

॥ १९ ॥

प्रकाशिका

एवं परिशेषेण स्वस्य पद्मस्य च कर्तारं परोक्षतो निश्चित्य तत्साक्षात्काराय बाह्यं यत्नं बहुकालं कुर्वन्नपि न तल्लब्धवानित्याह ॥ स इत्थमिति द्वाभ्याम् । तस्योदिति नामेति श्रुतेः । उद् ब्रह्म वीक्ष्य विचार्य । तस्याब्जस्य नालस्य दण्डस्य नालीभिर्नाडीभिरन्तःस्थितछिद्रैः । तस्य खरनालस्य पद्मस्य नालीर्विचिन्वन्मृगयन् । तत्परं ब्रह्म नाविन्दत न चक्षुर्विषयं लब्धवानित्यर्थः ॥ १९ ॥

तमस्यपारे विदुरात्मसर्गं विचिन्वतोऽभूत् सुमहांस्त्रिनेमिः ।

यो देहभाजां भयमीरयाणः परिक्षिणोत्यायुरजस्य हेतिः ॥ २० ॥

पदरत्नावली

भगवत्प्रसादमन्तरेण पुरुषायुषेणापि तद्दर्शनं दुःशकं तादृङ्माहात्म्योपेतत्वादिति तत्कालस्यानेकसंख्याया विशिष्टत्वमाह– तमसीति ॥ अपारे अनवसाने तमसि स्वरूपाच्छादक-मायालक्षणान्धकारे भो विदुर आत्मनः सर्गो यस्मात् स आत्मसर्गस् तं स्वकारणम् । तिस्त्रो नेमयश्चातुर्मास्यलक्षणा यस्य स त्रिनेभिः । अजस्य विष्णोर्हेतिश् चक्राख्यः ॥ २० ॥

प्रकाशिका

हे विदुर अपारेऽनवसाने प्रलयकालीने तमसि आत्मनः स्वस्य सर्गो यस्मात्तं विचिन्वतो मार्गयतस्तिस्रो नेमयश्चातुर्मास्यलक्षणा यस्य स त्रिनेमिः संवत्सरात्मकः कालोऽजस्य हरेर्हेतिः सुदर्शनमिव स्थितस्त्रिनेमित्वादिसाम्यात् । सुमहांस्त्रिनेमिः संवत्सरात्मकः काल आयुः परिक्षिणोतीत्युक्त्या मनुष्यशतवर्षपर्यन्तमित्युक्तं भवति ॥ २० ॥

ततो निवृत्याऽप्रतिलब्धकाष्ठः स्वधिष्ण्यमास्थाय पुनः स देवः१ ।

शनैर्जितश्वासनिवृत्तचित्तो न्यषीददारूढसमाधियोगः ॥ २१ ॥

पदरत्नावली

एतद् दर्शनमपि न स्वप्रयत्नेन साध्यं किन्तु तत्प्रसादेनैव । तत्प्रसादश्च तत्समाधियोगेनेति तं करवाणीति तदुपास्तिप्रकारं कथयति– तत इति ॥ अप्रतिलब्धा अदृष्टा काष्ठा उत्कर्षो ब्रह्मलक्षणो येन स तथा । अदृष्टस्वकारणब्रह्मरूप इत्यर्थः। ततो निर्मार्गणात् । स्वधिष्ण्यं पद्ममास्थायारुह्य शनैः प्राणं कुम्भके निरुध्य जितश्वासो भूत्वा विषयेभ्यो निवृत्तचित्तः सन् आरूढसमाधियोगो ऽसम्प्रज्ञातचित्तैकाग्य्रलक्षणध्यानः पद्मकर्णिकायां चैलाजिनलक्षणायां न्यषीदत् स्वनासाग्रावलोकनोऽतिष्ठदित्यन्वयः । पुनः शश्वन्निरन्तरमित्यर्थः ॥ २१ ॥

प्रकाशिका

नैतद्दर्शनमस्मत्प्रयत्नसाध्यं किन्तु तत्प्रसादेनैवातस्तत्प्रसादाय तद्ध्यानादिकमेव मया कर्तव्यमिति निश्चित्य तद्ध्यानं कृतवानित्याह ॥ तत इति । ततो मार्गणादप्रतिलब्धाऽदृष्टा काष्टा तारतम्यावधिरूपब्रह्मलक्षणा येन स तथा । स्वधिष्ण्यं पद्मं शनैः प्राणं कुंभके निरुध्य जितश्वासो विषयेभ्यो निवृत्तचित्तश्च भूत्वा स आरूढ आश्रितः समाधिलक्षणो योगो येन स तथाभूतः सन् न्यषीददुपापविवेश ॥ २१ ॥

कालेन सोऽजः पुरुषायुषाभिप्रवृद्धयोगेन विरूढबोधः ।

स्वयं तदन्तर्हृदयेऽवभातमपश्यतापश्यत यन्न पूर्वम् ॥ २२ ॥

पदरत्नावली

योगफलमाह– कालेनेति ॥ पुरुषायुषा शतवर्षावधिना कालेन तत्कारणमपश्य-तेत्यन्वयः । उपासनाजनितज्ञानफलमिदं दर्शनमिति भावेनाह– प्रवृद्धेति ॥ अनुदिनं चन्द्रोदयेन समृद्ध- समुद्रवत् प्रवृद्धयोगेन प्रकर्षेण समृद्धेन ध्यानापरपर्यायोपासनया विरूढबोधः समुत्पन्नापरोक्षज्ञानः । तदपि स्वप्रसादेनेति भावेनाह– अन्तर्हृदय इति ॥ अवभातं प्रकाशितम् । स्वयं प्रधानम् । अनेन तस्मिन् स्वयमित्युक्तत्वाद् ब्रह्मोत्पादकमेवापश्यन्नान्यदिति सिद्ध्यति । अवभातमिति विशेषणं विशिनष्टि– अपश्यतेति ॥ पूर्वं पद्मनालनिर्मार्गणसमये यन्नापश्यत् तदिति शेषः । आत्मनेपदप्रयोगेण ममेयमेवेष्टदेवता नान्येति ध्वनयति ॥ २२ ॥

प्रकाशिका

योगफलमाह ॥ कालेनेति । पुरुषायुषा संवत्सरशतेन कालेनावधिना तत् स्व-कारणमपश्यत् । कथम्भूतः । अभिवृद्धः प्रतिदिनमभिवृद्धो योगो ध्यानादिरूपस्तेन विरूढो विशेषेणावि-र्भूतो बोधः साक्षात्कारो यस्य स तथा । कथम्भूतं तत् । स्वयं स्वयमेव प्रसन्नं सत् हृदयेऽन्तर्भातं साक्षात्कारविषयतां प्राप्तं यत्पूर्वं पद्मनाले निर्मार्गणसमये नापश्यत्तदिदानीमपश्यत् ॥ २२ ॥

मृणालगौरायतशेषभोगपर्यङ्क एकं पुरुषं शयानम् ।

फणासहस्रायुतमूर्धरत्नद्युभिर्हतध्वान्तयुगान्ततोये ॥ २३ ॥

पदरत्नावली

कीदृशं हरिमपश्यदित्याशङ्क्य नवभिः श्लोकैस्तं विशिनष्टि– मृणालेति । फणानां सहस्त्राणाम् अयुतेषु अविमिश्रितेषु अन्योन्यसम्पर्करहितेषु मूर्धसु औत्पत्तिकानां रत्नानां द्युभिर्द्युतिभिर्हतं नष्टं ध्वान्तं यस्य तद्धतध्वान्तं तच्च युगान्ततोयं हतध्वान्तयुगान्ततोयं तस्मिन् कल्पप्रलयजलस्थिते । मृणालगौरायतशेषभोगपर्यङ्के शेषस्यानन्तस्य नागस्य भोगो देहः शेषभोगः । ओः शरीरं भोगः स्यादित्यभिधानम् । मृणालवद्गौरश्चायतश्च मृणालगौरायतः स चासौ शेषभोगश्च मृणालगौरायतशेषभोगः। स एव पर्यङ्कः शयनीयं तस्मिन् शयानम् । पुरुषं पुरुषाकारम्, एकं केवलम् अप्राकृतमित्यर्थः ॥२३॥

प्रकाशिका

यदपश्यत्तद्वर्णयति ॥ मृणालेति नवभिः । नवस्वप्यपश्यतेत्यस्यैवानुषङ्गः । फणानां सहस्रे आ सम्यग्युतानि सम्बद्धानि । सहजानीति यावत् । यानि मूर्ध्नरत्नानि तेषां द्युभिः प्रभाभिर्हतं ध्वान्तं यस्य तत्तथा । तच्च तद्युगान्ततोयं च तस्मिन्विद्यमानो मृणालवद्गौरः श्वेतश्चायतश्च शेषस्य भोगो देहः स एव पर्यङ्कः शय्या तस्मिन् शयानमेकं प्रधानम् ॥ २३ ॥

प्रेक्षां क्षिपन्तं हरितोपलाद्रेः सन्ध्याभ्रनीवेरुरुरुक्ममूर्ध्नः ।

रत्नोदधेरोषधिसौमनस्यवनस्रजो वेणुभुजाङ्घ्रिपाङ्घ्रेः ॥ २४ ॥

पदरत्नावली

ध्यानसौकर्याय नीलपर्वतसाधर्म्येण वर्णयति– प्रेक्षामिति ॥ हरितोपलाद्रेर् नीलपर्वतस्य प्रेक्षां दर्शनीयकान्तिं क्षिपन्तं निराकुर्वन्तम् । कीदृशस्य नीलगिरेः ? सन्ध्याभ्रनीवेः सन्ध्याकालीनाभ्रमेव नीविर्वस्त्रं यस्य स तथा तस्य । उरूणि बहूनि रुक्माणि सुवर्णानि मूर्ध्रि शृृङ्गे यस्य स तथा तस्य । रत्नैरुदधिस्तस्य रत्नाकरस्येत्यर्थः । ओषधयः सौमनस्यानि सुमनसां समूह एव वनस्रक् वनमाला यस्य स तथा तस्य । वेणव एव भुजा यस्य, अङ्घ्रिपा वृक्षा एवाङ्घ्रयो यस्य स तथा, तस्य । अनेन हरिरपि नीलद्युतिदेहः पीताम्बरधरः सुवर्णकिरीटालङ्कृतमूर्धा कौस्तुभरत्नकन्धरः वनमालाञ्चितो दीर्घदोर्दण्डमण्डितः प्रणतार्तिहारिश्रीपादपद्म इत्युत्प्रेक्षितं भवति । सन्ध्याभ्रवन्नीविर्यस्येत्यादिव्याख्यानं प्रेक्षां क्षिपन्तमित्यनेनानन्वितं स्यात् ॥ २४ ॥

प्रकाशिका

नीलपर्वतसाम्येन वर्णयति ॥ प्रेक्षामिति । हरितोपलाद्रेरिन्द्रनीलपर्वतस्य प्रेक्षां शोभां क्षिपन्तं स्वदेहशोभया निराकुर्वन्तम् । कथंभूतस्याद्रेः सन्ध्याकालीनाभ्रमेव नीविर्वस्त्रं पीतांबरस्थानीयं यस्य । उरूणि बहूनि रुक्माणि सुवर्णानि किरीटस्थानीयानि मूर्धसु तत्स्थानीयेषु शृृङ्गेषु यस्य । कौस्तुभादिस्थानीयै रत्नैरुदधिरिव तस्य । तुलस्यादिरूपा ओषधयः सौमनस्यानि पुष्पसमूहाश्च तेषां वनस्रक् वनमाला यस्य । वेणव एव भुजा दीर्घत्वसाम्येन भुजस्थानीया यस्य स तथा । अङ्घ्रिपा वृक्षा एवाङ्घ्रयः स्वाश्रितश्रमापहारित्वसाम्येन हर्यङ्घ्रिस्थानीया यस्य ॥ २४ ॥

आयामतो विस्तरतः समानदेहेन लोकत्रयसंग्रहेण ।

विचित्रदिव्याभरणांशुकानां कृतश्रियोपाश्रितदिव्यवेषम् ॥ २५ ॥

पदरत्नावली

लोकत्रयं संगृह्णातीति लोकत्रयसङ्ग्रहस्तेन आयामतो विस्तरतः दैर्घ्यपरिमण्डलाभ्यां समानेन न्यग्रोधपरिमण्डलत्वादिलक्षणवता देहेन विचित्रदिव्याभरणाद्यानां कृतश्रिया पूर्णश्रिया उपाश्रितः समाश्रितः दिव्य औत्पत्तिको वेषः सौन्दर्यं यस्य स तथा तम् । यद्वा आभरणादीनां कृतश्रिया उपगम्याश्रितः सेवितो दिव्यवेषो यस्य स तथा तमिति ॥ २५ ॥

प्रकाशिका

आयामतो दैर्घ्येण विस्तरतश्च समानेनानुरूपप्रमाणसहितेन । लोकत्रयं सङ्गृह्णातीति लोकत्रयसङ्ग्रहस्तेन युक्तं, विचित्राणि नानाविधानि दिव्यान्यपूर्वाण्याभरणान्यंशुकानि च तेषाम् । कृता श्रीः शोभा यया शरीरशोभया सा कृतश्रीस्तयोपाश्रितः समाश्रितो दिव्य औत्पत्तिको वेषः सौन्दर्यं यस्य स तथा तम् ॥ २५ ॥

पुंसां स्वकामाय विविक्तमार्गैरभ्यर्चतां कामदुघाङ्घ्रिपद्मम् ।

प्रदर्शयन्तं कृपया नखेन्दुमयूखभिन्नाङ्गुलिचारुपत्रम् ॥ २६ ॥

तात्पर्यम्

भिन्नमन्येभ्यो विलक्षणम् ॥ २६ ॥

पदरत्नावली

कामं दोग्धीति कामदुधं तच्चाङ्घ्रिपद्मं पुंसां प्रदर्शयन्तमित्यन्वयः । नन्वेवं तर्हि किमिति सर्वे पुरुषार्थभाजो नाभूवन्निति तत्राह– स्वकामायेति ॥ विचिर् पृथग्भाव इति धातो-र्विविक्तैर्वैदिकादिभेदेन पृथक् कृतैर्मार्गैरभ्यर्चतां यथाभिमुखो भवति तथार्चनं कुर्वताम् । नखा एवेन्दवस् तेषां मयूखा रश्मयस्तैर्भिन्ना इतरेतरविलक्षणा अङ्गुलयस् ता एव चारूणि पत्राणि यस्याङ्घ्रिपद्मस्य तथा तत् । अज्ञजनबुद्ध्यारोहार्थम् एवमुक्तम् । स्वत इतरपद्मविलक्षणमिदमङ्घ्रि-पद्ममित्यर्थः ॥ २६ ॥

प्रकाशिका

स्वकामाय स्वाभिलषितफलाय । विविक्तमार्गैर्वेदविहितपाषण्डाद्विविक्तमार्गै-रभ्यर्च्यतां पुंसां कामदुघाङ्घ्रिपद्मं कृपया प्रदर्शयन्तमित्यन्वयः । कथंभूतमङ्घ्रिपद्मम् । नखा एवेन्दवस्तेषां मयूखा रश्मयस्तैर्भिन्नं तच्च तदङ्गुलिचारुपत्रं च अङ्गुलय एव चारूणि पत्राणि यस्य तत्तथा । अत्र भिन्नेत्यस्य विदारितार्थत्वप्रतीतिवारणाय प्रकृतोपयुक्तमर्थं दर्शयति ॥ भिन्नमिति । अनेन भिन्नेत्यस्य नाङ्गुलिविशेषणत्वमित्यपि सूचितम् ॥ २६ ॥

मुखेन लोकार्तिहरस्मितेन परिस्फुरत्कुण्डलमण्डितेन ।

शोणायितेनाधरबिम्बभासा प्रत्यर्हयन्तं सुनसेन सुभ्व्रा ॥ २७ ॥

पदरत्नावली

मुखेन प्रत्यर्हयन्तं शरणागतजनान् सम्मानयन्तमिव स्थितमिति शेषः । लोकार्ति-हरस्मितेनेत्यादिना मुखं विशिनष्टि । अधरबिम्बभासा शोणायितेन रक्तवद्वर्तमानेन, सुनसेन शोभमान-नासिकेन, सु शोभना भ्रूर्यस्य तत् सुभ्रु तेन सुभ्व्रा । नपुंसकखलपूशब्दवदयं शब्दः ॥ २७ ॥

प्रकाशिका

मुखेन प्रत्यर्हयन्तं पूजकान्पूजयन्तं सम्मानयन्तमिव स्थितम् । लोकार्तिहरस्मिते-नेत्यादीनि मुखविशेषणानि । लोकार्तिहरं स्मितं यस्मिंस्तेन । परिस्फुरद्भ्यां कुण्डलाभ्यां मण्डितेन । अधरलक्षणबिम्बफलदीप्त्या रक्तवदाचरितेन । सुनसेन शोभननासायुक्तेन । सु शोभना भ्रूर्यस्य तत् सुभ्रु तेन सुभ्व्रा । नपुंसकसुलुशब्दवदयं शब्दः ॥ २७ ॥

कदम्बकिञ्जल्कपिशङ्गवाससा स्वलङ्कृतं मेखलया नितम्बे ।

हारेण चानन्तधनेन वत्स श्रीवत्सवक्षस्थलवल्लभेन ॥ २८ ॥

पदरत्नावली

किञ्जल्कः केसरः । कदम्बेति तत्पुष्पम् । मेखला काञ्ची । अनन्तधनेनेति हारस्यानर्घ्यत्वं वक्ति । हे वत्स विदुर । श्रीवत्सलक्षणस्य वक्षस्थलस्य वल्लभेन प्रियेण ॥ २८ ॥

प्रकाशिका

कदम्बपुष्पस्य किञ्जल्कः केसरस्तद्वत्पिशङ्गं पीतं यद्वासस्तेन, मेखलया कांच्या च नितंबे स्वलङ्कृतम् । हे वत्स । श्रीवत्सयुक्तं वक्षस्थलं तस्य वल्लभेन प्रियेण । तत्र नित्यं विद्यमानेनेति यावत् । अनन्तधनेनानर्घ्येण हारेण च स्वलङ्कृतम् ॥ २८ ॥

परार्घ्यकेयूरमणिप्रवेकपर्यस्तदोर्दण्डसहस्रशाखम् ।

अव्यक्तमूलं भुवनाङ्घ्रिपेन्द्रमहीन्द्रभोगैरधिवीतवल्कम् ॥ २९ ॥

तात्पर्यम्

तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तमे’ति मोक्षधर्मे ॥ २९ ॥

पदरत्नावली

अधुना वृक्षसाधर्म्येण हरिं वर्णयति– परार्ध्येति ॥ परार्ध्यैरनर्घ्यैः केयूरैः, मणीनां प्रवेकाः श्रेष्ठा येषु तैः कङ्कणैश्च पर्यस्तं परितो न्यस्तमलंकृतं दोर्दण्डसहस्रमेव शाखा यस्य स तथोक्तम् । अव्यक्तं प्रधानं त्रिगुणं मूले पादे यस्य स तथा तम् । प्रकृतेः कारणं वा । ‘तस्मादव्यक्त-मुत्पन्नं त्रिगुणं द्विजसत्तम’ इति वचनात् । अविज्ञाताधःप्रवेशमिति वा । ‘प्रधानेऽव्यक्तमव्यक्तो ब्रह्मण्यस्पष्टमूर्खयोः’ इति यादवः । भुवनेषु विद्यमानानाम् अङ्घ्रिपाणां वृक्षाणाम् इन्द्रम् । यद्वा चतुर्दश-भुवनाख्याङ्घ्रिपाणामिन्द्रं श्रेष्टम् । अहीन्द्रस्य शेषस्य भोगैः शरीरविशेषैरधिवीतवल्कं संवीतत्वचम् । उभयत्रसममिदम् ॥ २९ ॥

प्रकाशिका

अधुना चन्दनवृक्षसाम्येन हरिं वर्णयति ॥ परार्घ्येति । परार्घ्याणि श्रेष्ठानि केयूराण्यङ्गदानि तत्रत्या ये मणिप्रवेका रत्नश्रेष्ठास्तैः पर्यस्ता व्याप्ता दोर्दण्डा एव सहस्रमनन्ताः शाखा यस्य । चन्दनवृक्षोऽपि केयूरादितुल्यैः फलपुष्पादिभिर्व्याप्तशाखो भवति । अव्यक्तमप्रत्यक्षं मूलमधोभागो यस्येति वृक्षपक्षे व्याख्यानम् । भगवत्पक्षे त्वव्यक्तस्य प्रधानस्य मूलं कारणमित्येव व्याख्येयम् । उपमा च शब्दसाम्यमात्रेणेत्याशयेन भगवतोऽव्यक्तकारणत्वे प्रमाणं पठति ॥ तस्मादिति । चतुर्दश-भुवनाख्यानामङ्घ्रिपाणां वृक्षाणामिन्द्रं श्रेष्ठम् । अहीन्द्रस्य शेषस्य भोगैर्देहावैयवैरधिवीतवल्कं संवेष्टित-त्वचम् । चन्दनवृक्षोऽपि सर्पैर्वेष्टितो भवति ॥ २९ ॥

चराचरौको भगवन्महीध्रमहीन्द्रबन्धुं सलिलोपगूढम् ।

किरीटसाहस्रहिरण्यशृृङ्गमाविर्भवत्कौस्तुभरत्नगर्भम् ॥ ३० ॥

पदरत्नावली

पुनरपि पर्वतसाधर्म्येण वर्णयति– चराचरौक इति ॥ भगवन्महीघ्रं श्रीनारायणाख्यपर्वतमपश्यदित्यन्वयः । चराचरस्य जगत ओको मन्दिरम् । ‘ओकसी मन्दिराश्रयौ’ इति च । प्रलयसलिले उपगूढम् । किरीटानां सहस्त्राण्येव हिरण्यशृङ्गाणि यस्य स तथा तम् । कण्ठे आविर्भवन् कौस्तुभरत्नगर्भं प्रकाशमानं कौस्तुभं कुस्तुभात्समुद्राज्जातं तन्नामरत्नं गर्भ आभरणं यस्य स तथा तम् ‘गर्भो पचारके तुन्दे नेपथ्ये ग्रसितेऽपि च’ इत्यभिधानम् ॥ ३० ॥

प्रकाशिका

पर्वतसाम्यं प्रकारान्तरेण दर्शयति ॥ चराचरौक इति । भगवानेव महीध्रः पर्वतस्तम् । चराचराणामोको निवासस्थानम् । पर्वतोऽपि तथा । अहीन्द्रस्य शेषस्य बन्धुः पर्वतोऽप्य-हीन्द्राणां बन्धुः । सलिलेन प्रलयोदकेनोपगूढमावृतम् । पर्वतोऽपि निर्झरोदकैरावृतः । किरीटसहस्राण्येव हिरण्यशृृंगाणि यस्य स तथा । पर्वतोऽपि मेर्वादिस्तथा । यथा पर्वतस्य गर्भे क्वचिद्रत्नमाविर्भवति तथाऽऽविर्भवत्स्पष्टं दृश्यमानं कौस्तुभरत्नं गर्भे शरीरप्रदेशविशेषे यस्य तम् ॥ ३० ॥

निवीतमाम्नायमधुव्रतश्रिया स्वकीर्तिमय्या वनमालया हरिम् ।

सूर्येन्दुवाय्वग्न्यगमत्रि(त्त्रि)धामभिः परिक्रमत्प्राधनिकैर्दुरासदम् ॥ ३१ ॥

तात्पर्यम्

सूर्येन्दुवाय्वग्न्यादिभिस्त्रिधाम्नो विष्णोरगच्छद्भिः प्राधनिकैः । ‘मुक्तवाय्वादिभि-र्विष्णुं वृतं ब्रह्मा ददर्श ह । तदन्याभावतो नान्यदतस्तत्स्रष्टुमैच्छते’ति ब्रह्माण्डे ॥ ३१ ॥ इति तृतीयतात्पर्ये नवमोध्यायः ॥ ९ ॥

पदरत्नावली

आम्नाया एव मधुव्रता भृङ्गास्तेषामाश्रयया स्वरूपकीर्तिमय्या वनमालया निवीतं संवीतं, कण्ठ इति शेषः । इयन्तं कालम् अमुक्तं शबलं ब्रह्म ब्रह्मा ददर्श, न नित्यमुक्तं निर्गुणमिति तत्राह– सूर्येति ॥ त्रिधाम्नो विष्णोरगच्छद्भिर् नित्यं तत्समीप एव तिष्ठद्भिर्मुक्तैः सूर्येन्दुवाय्वग्निभिर्वृतम् । अत्र व्यत्यासादादिशब्दप्रक्षेपो ज्ञातव्यः । सूर्येन्दुवाय्वाग्न्यादिभिरित्याचार्यवचनाच्च । परिक्रमद्भिः प्रदक्षिणं कुर्वद्भिः प्राधनिकैः प्रधानस्य हरेर्भृत्यैः पुरपालकैश्च कृतमिति शेषः । तदुक्तम् ‘मुक्तवाय्वादिभिर्विष्णुं वृतं ब्रह्मा ददर्श ह’ इत्यादि विशिष्टवचनाच्च । दुरासदमित्यनेनापि मुक्तैर्निषेवितं विष्णुमपश्यदिति गम्यते ॥ ३१ ॥

प्रकाशिका

वनमालया निवीतं संवेष्टितम् । कथंभूतया स्वकीर्तिमय्या स्वकीर्तिरूपया शुभ्रता-साम्यात् । ननु वनमालायां मधुव्रतैः शोभा दृश्यते । कीर्तौ तु कथमित्यत उक्तम् ॥ आम्नायेति । आम्नाया एव मधुव्रतास्तैः श्रीः शोभा यस्याः सा तथा तया । कीर्तेर्वेदैः शोभा प्रतिपाद्यतयैवेति ज्ञातव्यम् । पुष्पमय्या वनमालाया औषधिसौमनस्यवनस्रज इति पूर्वमुक्तत्वादत्र कीर्तिरेव वनमालात्वेन वर्णितेति ध्येयम् । तथा च वेदप्रतिपाद्यशुद्धकीर्तियुक्तम् इत्युक्तं भवति । सूर्येन्द्वित्यादिकमन्योपलक्षकमित्याशयेन व्याख्याति ॥ सूर्येन्दुवाय्वग्न्यादिभिरिति । त्रिधामपदार्थं दर्शयन् अगमत्रिधामभिरित्यस्यार्थमाह ॥ त्रिधाम्न इति । अगच्छद्भिरित्यगमपदतात्पर्यकथनम् । सर्वदा तत्समीप एव तिष्ठद्भिरित्यर्थः । तथा च त्रिधाम्नो विष्णोः । न विद्यते गमो गमनं येषां तेऽगमत्रिधामानस्तैरिति बहुव्रीहिः । अग्न्याहितादि-वत्परनिपात इति भावः । प्राधनिकानामिदं विशेषणमिति दर्शयितुं प्राधनिकैरित्युक्तम् । प्रधनं सङ्ग्रामस्तत्प्रयोजनकैरित्यर्थः ।

ननु तदा ब्रह्माण्डान्तः कश्यपादिजातानां सूर्यादीनां नष्टत्वेनाविद्यमानत्वात्कथमेतदित्याशङ्कायामेते सूर्यादयो मुक्ता एव विवक्षिता नामुक्ता इति प्रमाणेनैव दर्शयति ॥ मुक्तेति । अत्र वायुर्भूताभिमानी प्रवहः । हेति प्रमाणप्रसिद्धिं दर्शयति । नन्वमुक्ता एवैते किं न स्युरित्यत आह ॥ तदन्येति । मुक्तेभ्योऽन्येषाममुक्तानामभावादन्यदमुक्तवाय्वादिकमत्र न विवक्षितमिति शेषः । अतोऽमुक्तानां वाय्वादीनां तदाभावादेव । तदमुक्तं वाय्वादिकं स्रष्टुमैच्छद् ब्रह्मा । तथा च परिक्रमद्भिः रक्षणार्थं परितो धावद्भिः सूर्येन्दुवाय्वग्न्यादयश्च तेऽगमत्रिधामानश्च तैर्मुक्तैः प्राधनिकैर्निमित्तैरन्यैर्दुरासदं दुष्प्रापमिति मूलार्थ इति भावः ॥ ३१ ॥

तर्ह्येव तन्नाभिसरःसरोजमात्मानमम्भः श्वसनं वियच्च ।

ददर्श देवो जगतो१ विधाता नातःपरं लोकविसर्गदृष्टिः ॥ ३२ ॥

पदरत्नावली

अनेनैतच्च लब्धमित्याह– तर्हीति ॥ यदैवंविधं हरिमपश्यत् तर्हि तदैव नाभि- सरसि उत्पन्ने सरोजे स्थितमात्मानं स्वम् । ब्रह्मणो लोकविसर्गदृष्टिर् लोकेन ज्ञानेन विशिष्टमुक्त-स्वभावो येषां सूर्यादीनां ते लोकविसर्गास् तेषां दर्शनं, लोके विसर्गाः सृष्टिरहिता लयोदकवाय्वादय एव तेषां दर्शनमभूत् । अत एतद्दर्शनात् परम् अन्यद्दर्शनं नाभूत् । मुक्तसूर्यादिकं प्रलयजलादिकमेव ब्रह्मा ददर्श परं न ददर्शेत्युक्तं भवति । यद्वा लोकस्य ज्ञानस्य विसर्गस्य सृष्ट्यादिव्यापारशून्यस्य निर्गुणस्य दृष्टिरतःपरं न भवति । इदमेव निर्गुणदर्शनमिति भावः ॥ ३२ ॥

प्रकाशिका

तस्मिन्समये जगन्निर्माणोपयुक्ताशेषपदार्थदर्शनं तस्य नाभूदित्याह ॥ तर्ह्येवेति । तर्हि तदा । तस्य भगवतो नाभिसरस्युत्पन्ने सरोजे स्थितमात्मानं स्वम् । वियच्चेत्येतावदेव ददर्शातःपरं जगन्निर्माणसाधनम् । लोकानां विसर्गे सृष्टौ दृष्टिर्यस्य ॥ ३२ ॥

स्वकर्मबीजं रजसोपरक्तः प्रजाः सिसृक्षन्नियदेव दृष्ट्वा ।

अस्तौद् विसर्गाभिमुखस्तमीशमव्यक्तवर्त्मन्यभिवेशितात्मा ॥ ३३ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे नवमोऽध्यायः ।

पदरत्नावली

यदर्थमहं हरिणा सृष्टस् तत् कर्तुं तदनुग्रहमन्तरेण न शक्नोम्यतः स्तुत्या तं प्रसाद्य तत्कटाक्षैधितज्ञानवीर्योऽभीष्टं कार्यं शुश्रूषालक्षणं करोमीति भावेन तं स्तौतीत्याह– स्वकर्मबीजमिति ॥ स ब्रह्मा तमीशमस्तौदस्तौषीदित्यन्वयः । कीदृशम् ? स्वकर्मबीजं सृष्टौ स्वनिमित्तकारणादृष्टस्य व्यञ्जकम् । कीदृशो ब्रह्मा ? रजसा गुणेन उपरक्तः । उपरागफलमाह– प्रजा इति ॥ सृष्टिसाधन-मियदम्भआदिकं दृष्ट्वा विसर्गाभिमुखः विविधसृष्ट्यभिमुखः । अव्यक्तवर्त्मनि ब्रह्मलक्षणमार्गे अभि-निवेशितात्मा निर्विषयाविष्टमनाः ॥ ३३ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे नवमोऽध्यायः ॥

प्रकाशिका

भगवत्प्रसाद एवाशेषसाधनदर्शनोपाय इत्याशयेन तत्प्रसादाय स्तुतिमेव चकारे-त्याह ॥ स्वकर्मबीजमिति । स्वकर्मबीजं स्वादृष्टव्यञ्जकं तमीशं, रजसा रजोगुणेनोपरक्तः सम्बद्धः । स्वकार्ये प्रवर्तित इति यावत् । तदेवाह ॥ प्रजाः सिसृक्षन्निति । सृष्टिसाधनम् इयद् अम्भआदिकं दृष्ट्वा विसर्गाभिमुखो विविधसृष्ट्यभिमुखोऽव्यक्तवर्त्मनि न व्यक्तं वर्त्म मार्गो यस्य तस्मिन् भगवत्यभि-निवेशितात्मा सम्यङ्निवेशितचित्तः ॥ ३३ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां नवमोऽध्यायः ॥ ३-९ ॥