एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः
अथ अष्टमोऽध्यायः
एवं ब्रुवाणं मैत्रेयं द्वैपायनसुतो बुधः ।
प्रीणयन्निव भारत्या विदुरः प्रत्यभाषत ॥ १ ॥
पदरत्नावली
दुर्भगशरीरस्थस्य हरेर्देवदत्तस्यैव माहात्म्यतिरोभावो दुःखभोगश्च नास्तीत्ययमर्थः विदुरस्य च वक्ष्यमाणार्थप्रश्नग्रामश्चास्मिन्नध्याये निरूप्यते । तत्रादौ विदुरप्रश्नोपक्रमं वक्ति– एवमिति ॥ भरतस्य मुख्यप्राणस्य प्रियया वाचा ॥ १ ॥
प्रकाशिका
स्वज्ञानार्थेन प्रश्नेन वक्तुः प्रीतेरपि जननात्प्रीणयन्निवेत्युक्तम् । वस्तुतस्तत्प्रीति-र्नोद्देश्येति ज्ञापनायेवशब्दः । भारत्या वाचा ॥ १ ॥
विदुर उवाच–
ब्रह्मन् कथं भगवतश्चिन्मात्रस्याविकारिणः ।
लीलया चापि युज्येरन् निर्गुणस्य गुणाः क्रियाः ॥ २ ॥
पदरत्नावली
कालवृत्त्यां तु मायायामित्यादिना निर्गुणस्य हरेः सत्वादिगुणैरुपादानकारणैर् जगत्सृष्ट्यादि करोति ईश्वर इत्युक्तम् । तत्र चोदयति विदुर इत्याह– ब्रह्मन्निति ॥ हे ब्रह्मन् शम-दमादिगुणबृंहितचिन्मात्रस्य ज्ञानैकरसशरीरस्यात एव निर्गुणस्य सत्वादिगुणरहितस्यात एवाविकारिणो भगवत ऐश्वर्यादिगुणसमुद्रस्य हरेः सत्वादिगुणास् तन्निमित्तजगत्सृष्ट्यादिक्रियाश्च कथं युज्येरन् ? न कथमपि उक्तहेतोरित्यन्वयः । लीलया घटत इति तत्राह– लीलयेति ॥ न हि कश्चिल्लीलया कंटकाग्रे पादं निक्षिपति । अपि तु प्रत्युत दूरादेव परिहरति । ऐश्वर्याद् युज्यत इत्यतः– अपीति ॥ निरनिष्टो निरवद्य इति श्रुतेर्गर्हितत्वात् । करोति च अत इदं तत्त्वतो ब्रूहीति प्रश्नार्थः ॥ २ ॥
प्रकाशिका
कालवृत्त्यां तु मायायां गुणमय्यामधोक्षज इत्यादिना सत्त्वादिगुणत्मिकां प्रकृति-मुपादानीकृत्येश्वरो जगत्सृजतीत्युक्तम् । तत्र विदुरश्चोदयति ॥ ब्रह्मन्निति । चिन्मात्रस्य जडामिश्रस्य । अत एवाविकारिणः क्रियारहितस्य निर्गुणस्य सत्त्वादिगुणात्मकप्रकृतिविधुरस्य गुणाः सत्त्वादि-गुणात्मकप्रकृतिबन्धाः कथं युज्येरन् विरोधान्न कथमपीत्यर्थः । लीलयेति चेत्तत्राह ॥ लीलया चेति । न हि कश्चित्प्रेक्षावान् लीलयाऽऽत्मनो दुःखापादकमुपादत्त इति सम्भवतीति प्रश्नाभिप्रायः ॥ २ ॥
क्रीडाया मुद् यतोऽर्हस्य कामं चिक्रीडिषाऽन्यतः ।
स्वतस्तृप्तस्य तु कथं निर्वृतस्य सदाऽऽत्मनः ॥ ३ ॥
तात्पर्यम्
क्रीडाया मुत् । अर्हस्यापूर्णसुखस्य । अन्यतो ऽरतितः (अरतेः) ॥ ३ ॥
पदरत्नावली
लीलया वा न युज्यत इत्यत्र किं बाधकमत्राह– क्रीडाया इति ॥ क्रीडा-सम्बन्धिमुखं क्रीडाया मुद् अर्हस्य अपूर्णसुखस्य यतो यस्मात् तस्मान् न घटत इति । तत्र कैमुत्यमाह– कामेति ॥ यथेष्टं क्रीडितुमिच्छापि अन्यतोऽरतितस् तन्द्य्रा संभवति । अन्येन समेन पुरुषेण वा सह । एतद् द्वयमप्याक्षिपति– स्वत इति ॥ शब्दादिविषयनिमित्ततृप्तिमन्तरेण स्वभावेनैव अलंबुद्धिगोचरानन्दसमुद्रमग्नस्यात एव निर्वृत्तस्य रोमांचितगात्रस्यारत्यसम्भवात् । सच्चासावात्मा च सदात्मा, तस्य । ‘सदेव सौम्येदमग्र आसीत्’ ‘आत्मा वा इदमेक एवाग्र आसीत्’ ‘एकमेवाद्वितीयम्’ इत्यादिश्रुतेरसमत्वाच्च न पुरुषान्तरेण सह । क्रीडेच्छाया एवासंभवात् । किमुत लीलासंभव इति । सदा निर्वृतस्य आत्मन इति भिन्नं वा पदम् । समस्तगुणपूर्णत्वेन लीलाप्राप्यप्रयोजनानवकाशादित्यर्थः । तुना प्रकारान्तरं निवारयति ॥ ३ ॥
प्रकाशिका
ननु लोके सुखप्राप्त्यर्थं क्रीडायां प्रवृत्तिदर्शनाद्भगवानपि सुखप्राप्त्यर्थं क्रीडयैव सृष्ट्यादिकं करोतीत्यत आह ॥ क्रीडाया इति । अत्र विवक्षितच्छेदं दर्शयन्व्याख्याति ॥ क्रीडाया इति । तथा च क्रीडाया मुद् यत इति पदत्रयमत्र विवक्षितम् । अन्यथा क्रीडायामुद्यत इति छेदेऽर्हस्येति षष्ठ्यन्तस्यानन्वयप्रसङ्ग इति भावः । अर्हस्येत्यस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ अर्हस्येति । अन्यत इत्यस्यापि प्रकृतोपयुक्तमर्थं दर्शयति ॥ अन्यत इति ॥ मुदिति मुच्छब्देन रतेः प्रकृतत्वात्तदन्या तद्विरुद्धाऽरतिरेवात्र व्याख्येयेति भावः ॥ ततश्चायं श्लोकार्थः ॥ यतः क्रीडायाः सकाशान् मुत् सुखम् अर्हस्य क्रीडाजन्यसुखयोग्यस्य । अपूर्णसुखस्येति यावत् । भवति । स्वतः क्रीडादिसाधनमनपेक्ष्य तु विशेषेण तृप्तस्य । पूर्णसुखस्येति यावत् । कथं क्रीडासाध्यमुन् न कथमपीत्यर्थः । किञ्च क्रीडाऽसम्भवेन क्रीडैव तस्य यदा न सम्भवति तदा तज्जन्यं सुखं तस्य नास्तीति किं वाच्यमित्याशयेनाह ॥ काम-मिति । कामं यथा स्यात्तथा क्रीडितुमिच्छाऽन्यतोऽरतितो रत्यभावाद्भवति । सदा निर्वृतस्यारति-शून्यस्यात्मनः कथञ्चिक्रीडिषा सम्भवति न कथमपीति ॥ ३ ॥
अस्राक्षीद् भगवान् विश्वं गुणमय्याऽऽत्ममायया ।
तथा(तया) संस्थापयत्येतद् भूयः प्रत्यभिधास्यति ॥ ४ ॥
पदरत्नावली
ननु हरेर्गुणैः सृष्ट्यादिक्रीडायां सत्यामियं चिन्ता, सैव नास्ति ‘निष्क्रियम्’ इति श्रुतेर् इति तत्राह– अस्राक्षीदिति॥ आत्ममायया स्वाधीनया प्रकृत्या । भूयः पुनस् तया रजोरूपया अस्राक्षीत्, सत्वरूपया संस्थापयति, तमोरूपया तद् विश्वं प्रत्यभिधास्यति संहरिष्यतीत्यतो गुणक्रिया-संसर्गदर्शनान्ममायं संशय इत्यर्थः ॥ ४ ॥
प्रकाशिका
निर्गुणस्य गुणा अविकारिणः क्रियाश्च भ्रान्तिकल्पिता एव न सत्या अतः को विरोध इत्यत आह ॥ अस्राक्षीदिति । गुणमय्या रजोरूपया तथा सत्वरूपया तमोरूपया प्रत्यभिधा-स्यति संहरिष्यतीत्येतत् श्रुत्यादिसिद्धमतः कथं भ्रान्तिकल्पितं स्यादिति भावः ॥ ४ ॥
देशतः कालतो योऽसाववस्थातः स्वतोऽन्यतः ।
अविलुप्तावबोधात्मा स युज्येताजया कथम् ॥ ५ ॥
पदरत्नावली
इतोऽपि संशयो दुरुत्साद् इत्याह– देशत इति ॥ देशादिनिमित्तत्वेन अवस्थातो जाग्रदाद्यवस्थानिमित्तेन स्वतोऽन्यतः परतः, अविलुप्तावबोधात्मा अविनष्टज्ञानस्वरूपो योऽसौ भगवान् सोऽजया प्रकृत्या कथं युज्येत ? युक्त्या गुणरूपप्रकृतिसंसर्गो न संभवति । दृश्यते तथा । तुच्छेनाभ्वपिहितमिति श्रुतेः । अतः संदेह इत्यर्थः ॥ ५ ॥
प्रकाशिका
भगवान्न कदाऽपि प्रकृतिबन्धार्हः । सर्वदा तद्विरोधिस्वसाक्षात्कारत्वादिति युक्त्याऽपि तस्य प्रकृतिबन्धो न घटत इत्याह ॥ देशत इति । देशकालादिभिरस्मदाद्यवबोधस्य लोपो भवति न तथा भगवतोऽवबोधस्य नित्यत्वादिति भावः ॥ ५ ॥
भगवानेष एवैकः सर्वक्षेत्रेष्ववस्थितः ।
अमुष्य दुर्भगत्वं वा क्लेशो वा कर्मभिः कुतः ॥ ६ ॥
तात्पर्यम्
दुर्भगक्लेशशरीरस्थत्वात्तस्यापि भाव्यम् । न च तद्युज्यते ॥ ६ ॥
पदरत्नावली
विदुरः प्रकारान्तरेण संशेत इत्याह– भगवानिति ॥ नित्यनिरतिशय-सकलैश्वर्यादियोगोऽस्ति हरेरित्याशयेनोक्तं भगवानिति । यथा देवदत्तस्य दुर्भगत्वम् ऐश्वर्यादिराहित्यम्, अविद्यास्थितरागद्वेषाभिनिवेशात्मकसंसारजन्यदुःखलक्षणक्लेशो वा दृश्यते, तथा दुर्भगसर्वक्षेत्रेषु सत्वाद-मुष्यापि तत्संसर्गः सम्भाव्यः । स न युज्यते । कुतः ? भगवत्त्वात् । अतः संशय इत्यर्थः ॥ ६ ॥
प्रकाशिका
पुनः शङ्कते ॥ भगवानिति । अत्र पूर्वार्धेऽप्रसक्तं दुर्भगत्वादिकं कथमुत्तरार्धे आक्षिप्यत इत्याशङ्कापरिहाराय पूर्वार्धे दुर्भगत्वादिप्रसक्तिं दर्शयति ॥ दुर्भगेति । दुर्भगेत्येतद्भावप्रधानम् । ततश्च दुर्भगत्वादिक्लेशकरशरीरस्थत्वादित्यर्थः । अनेन सर्वक्षेत्रेष्ववस्थित इत्येतद्यत इत्यध्याहारेण योजनीयमिति सूचयति । तस्यापि भगवतोऽपि भाव्यमिति पूर्वार्धे शेषोक्तिः । कुत इत्यस्य प्रश्नार्थत्व-प्रतीतिवारणायोत्तरार्धतात्पर्यमाह ॥ न चेति । तद्दुर्भगत्वादिकं, श्रुत्यादिविरोधादिति भावः । ततश्चायं मूलार्थः ॥ भगवानेको मुख्यः । सर्वक्षेत्रेषु शरीरेषु प्रेरकतया व्यवस्थित इति तावत् श्रुत्यादिप्रसिद्धम् । शरीराणि च कर्मभिरारब्धानि स्वांतस्थस्य दुर्भगत्वादिकमापादयन्ति । यत एतादृशः सर्वक्षेत्रेषु व्यवस्थितोऽतस्तस्यापि दुर्भगत्वादिकं देवदत्तवद्भाव्यम् । न च तद्युज्यत इत्याह ॥ अमुष्येति । भगवत इत्यर्थः । कुतो न कुतोऽपि । निरनिष्टो निरवद्य इत्यादिश्रुतिविरोधादिति भावः । अतो मे संशय इति शेषः ॥ ६ ॥
एतस्मिन् मे मनो विद्वन् खिद्यतेऽज्ञानसंकटे ।
तन्नः पराणुद विभो कश्मलं मानसं महत् ॥ ७ ॥
पदरत्नावली
युक्तिज्ञानपूर्वकत्वादयं संशयः स्वयमेव श्लथितो भवतीत्याशङ्क्य ज्ञानदार्ढ्या-भावात् स्थाणुवदवस्थानात् त्वयैव निर्मूलनीय इति भावेनाह– एतस्मिन्निति ॥ ज्ञानसंकटे ज्ञानसंबाधे निश्चितज्ञानाभाव इत्यर्थः । पराणुद निराकुरु । ‘मूर्छा तु कश्मलं मोहः’ इत्यभिधानम् । सन्त आत्मनि अल्पमपि दोषं महत्त्वेन भावयन्तीत्याशयेन महदित्युक्तम् । न तु तत्त्वेन । अत एव मानसं, न तु बुद्धिसंस्थम् ॥ ७ ॥
प्रकाशिका
एतस्मिन्नवज्ञानसङ्कटे तत्त्वनिश्चयाभावमूलके संशये सति मे मनः खिद्यते कश्मलं प्राप्नोति । तत्संशयनिमित्तं कश्मलं मानसं बाह्यान्तःकरणगं पराणुदापाकुरु ॥ ७ ॥
शुक उवाच–
स इत्थं चोदितः क्षत्त्रा तत्त्वजिज्ञासुना मुनिः ।
प्रत्याह भगवच्चित्तः स्मयन्निव गतस्मयः ॥ ८ ॥
पदरत्नावली
शुकस्तस्य परिहरतीत्याह– स इति ॥ गतस्मयो गताहङ्कारः । स्मयन् मन्दं हसन्निव ॥ ८ ॥
प्रकाशिका
स्मयन्निवाहंकारं कुर्वन्निव । इवशब्दोऽल्पार्थे । दशरात्रैर्भुक्तमिवेति प्रयोगात् । तथा चाल्पं हासं कुर्वन्कथमयमपरोक्षज्ञानी निश्चिततत्त्वो मां प्रतिप्रश्नं करोतीति मन्दस्मितं कुर्वन्नित्यर्थः । गतस्मयो विगताहंकारोऽपि स्वप्राढिं दर्शयन् आहेत्यर्थः ॥ ८ ॥
मैत्रेय उवाच–
सेयं भगवतो माया न्याय्यं येन विरुध्यते ।
ईश्वरस्य विमुक्तस्य कार्पण्यमुत बन्धनम् ॥ ९ ॥
तात्पर्यम्
सेयं भगवतो माया । अयं हि भगवन्महिमा । तस्य कार्पण्यं बन्धनादि न युज्यत इति यदुक्तं तन्न्याय्यमेव । दुर्भगादिशरीरस्थस्यापि तद्दोषास्पर्श एव तन्महिमेत्यर्थः ॥९॥
पदरत्नावली
दुर्भगशरीरस्थस्यापि दुःखादिकर्दमास्पर्शो माहात्म्यातिशयादिति परिहरति– सेयमिति ॥ ईश्वरस्यैश्वर्यमूर्तेर्हरेः कार्पण्यं दैत्यं विमुक्तस्य नित्यमुक्तस्यापि बन्धनं विरुध्यते प्रमाणतो युक्तितश्च विरुद्धमिति येन तेन तन्न्याय्यं न्यायोपेतमेव । कथम् ? सेयं भगवतो माया । अयं हि हरेर्महिमा । ‘यत् प्रमाणयुक्तिभ्यामुपपन्नं तत् परमार्थवस्तु । यत् ताभ्यां दुर्घटं तथापि प्रतीयते, शुक्ति-रजतवत्, सा मायेत्यनुभवसिद्धमित्यभिप्रेत्य प्रश्नं परिहरति– सेयमिति ॥ यद् येन न्यायेन विरुध्यते सा भगवतो माया अनिर्वाच्याऽविद्यालक्षणा इयमिति सर्वानुभवसिद्धत्वान्नापाकरणयोग्येति न्यायविरोधं दर्शयति ईश्वरस्येति’ इत्येतद्भगवत इत्युक्त्याऽपहस्तितमिति ज्ञायते । तथाहि समस्तैश्वर्यादिमतो भगव-च्छब्दार्थत्वेन प्रमितत्वान्न तस्य कार्यकरणे मायापेक्षा । अशक्ता हि साल्वादयो मायामपेक्षन्ते । ‘अशक्ता सत्यसृष्टौ हि मायासृष्टिं वितन्वते’ इति च । ‘कथं देहे परो देवो न लिप्येतेह बन्धनैः । कथं न दुःखी स भवेद् दुःखी चेदीश्वरः कुतः ॥’ इत्यादि श्रुतिविरुद्धत्वादुक्त एवार्थ इति । प्राकृतदेह-वत्त्वाद् देवदत्तवन्मायायोगो घटत इतीयमाशङ्का अविलुप्तावबोधात्मेति वाक्यमवतारयता त्वयैव परिहृता, तदुक्तम्– ‘अलुप्तबोधरूपत्वान्नासौ प्राकृतदेहवत्’ इति । अत एव मायासृष्ट्याद्यर्थं तद्योगदानमतप्रवेशः स्यात् । तदुक्तम्– ‘न च सृष्ट्यादिकं भ्रान्तिर्भ्रान्तिवादा हि दानवाः । अतो भ्रान्त्यादिसंबन्धो नास्य क्वचन युज्यते’ इति ॥ ९ ॥
प्रकाशिका
दुर्भगशरीरस्थस्यापि दुर्भगत्वाद्यप्राप्तिर्माहात्म्यातिशयादिति परिहरति ॥ सेयमिति । अत्र मायाशब्दस्याविद्यार्थत्वप्रतीतिनिरासाय विवक्षितमर्थं दर्शयति ॥ सेयमिति । यद् उक्तं तदिति पदत्रयमध्याहृत्यावशिष्टपदत्रयतात्पर्यमाह ॥ तस्येति । ईश्वरस्य विमुक्तस्येत्यर्थः । कार्पण्यं दुर्भगत्वम् । बन्धनं कर्मलेपः । आदिपदेन क्लेशः । अनेन द्वितीयार्धतात्पर्यमुक्तम् । न युज्यत इत्यादिना न्याय्य-मिति पदस्याय । अयं हि भगवन्महिमेत्युक्तस्याभिप्रायमाह ॥ दुर्भगादीति । अत्रापि दुर्भगमिति भावप्रधानम् । दुर्भगत्वाधिकरणशरीरस्थस्यापीत्यर्थः । तद्दोषाः कार्पण्यादयस्तेषामस्पर्शोऽसम्बन्धस्तन्महिमाप्रयुक्त इत्यर्थः । ततश्चायं श्लोकार्थः ॥ ईश्वरस्य कार्पण्यं दुर्भगत्वं विमुक्तस्य नित्यमुक्तस्य बन्धनं कर्मलेपः । उतशब्दा-त्क्लेशादिकं च । येन कारणेन प्रमाणैर्विरुध्यते तेन तन्न युज्यत इति यत्त्वयोक्तं तन्न्याय्यं युक्तम् । ननु कथं युक्तं शरीरस्थत्वाद्देवदत्तवद्दुर्भगत्वादिप्राप्तिरिति युक्तिविरुद्धत्वादित्यत उक्तम् । सेयमिति । अयं भगव-न्महिमेत्यर्थः । इयं केत्यत उक्तम् । सेति । दुर्भगादिशरीरस्थस्यापि तद्दोषास्पर्श इत्यर्थः । तथा च दुर्भगादिशरीरस्थस्यापि तद्दोषास्पर्शो यः सा भगवतो माया तन्महिमैव तत्प्रयुक्तैवेत्यर्थः । यथा दह्यमान-गेहान्तर्गतस्याग्निस्तम्भनादिसामर्थ्यवतो न दाहस्तथेति भावः । अनेन विवक्षितमाहात्म्याभावरूपो-पाधिग्रस्तोक्तयुक्तिरतो न तद्विरोध इत्युक्तं भवति । एतेनैव निर्गुणस्य कथं गुणा अविकारिणः कथं क्रिया इति प्रश्नद्वयमपि परिहृतमिति ज्ञातव्यम् । गुणानां सम्बन्धेऽपि महिमातिशयेन तन्निमित्तदोषास्पर्शेन निर्गुणत्वाद्युपपत्तेः । सृष्ट्यादिरूपक्रियावत्वेऽपि तत्साध्यक्लेशाद्यभावेनाविकारित्वसम्भवाच्च । एतत्सूचनायैव तद्दोषास्पर्श इति सामान्यत एव भगवत्पादैरुक्तम् ॥ ९ ॥
यथाऽर्थेन विनाऽमुष्य पुंस आत्मविपर्ययः ।
प्रतीयत उपद्रष्टुः स्वशिरश्छेदनादिकः ॥ १० ॥
पदरत्नावली
तर्हि कस्य भ्रान्त्या संसार इत्याशङ्क्य प्रकृतिसंबन्धात्तया जीवस्यैव संसार इतीममर्थं सदृष्टान्तमाह– यथेति ॥ अमुष्य पुंसो जीवस्य उपद्रष्टुः स्वप्नं पश्यतो ऽर्थेन विना प्रयोजना-दृते स्वप्ने स्वशिरश्छेदनादिक आत्मविपर्यय आत्मनो देहस्य विपर्ययो दृष्टश्रुतवासनयाऽविद्यमान एव प्रतीयते । अत्रेदं तात्पर्यम्
अस्मिन् जन्मनि जन्मान्तरे वा शिरच्छेदः स्कन्धारोहणं वा दृष्टः श्रुतो वा सन्नप्यैकाधिकरण्येन दर्शनं भ्रन्त्या दृश्यते । तद्दर्शनं न च प्रयोजनवत् । अत एवार्थेन विनेत्युक्तम् । न च तावता स्वप्नस्य मिथ्यात्वम् । अर्थक्रियाकारित्वात् । ‘सूचकश्च हि श्रुतेराचक्षते च तद्विदः’ इति सूत्रात् । निमित्तकारणेशेच्छानियतजीवोपादानकारणभूतमनोगतवासनाजन्यत्वाच्चेति । वैदिकाधिकार-विवक्षया पुंस इत्युक्तम् । स्वाधीनज्ञानाभावादुपद्रष्टुरिति ॥ १० ॥
प्रकाशिका
ननु देहगतस्येश्वरस्य क्लेशादिरूपसंसारो न चेत्स कस्य भवति । जीवस्येति चेत्तस्यापीश्वरप्रतिबिम्बस्य चिन्मात्रस्यैतादृशदुःखाद्यनुभवरूपसंसारे कारणाभावादित्यतो जीवस्योक्तविध-संसारे कारणभूतां भ्रान्तिं दृष्टान्तमुखेनोपपादयति ॥ यथेति । यथा अर्थेन बाह्यस्वशिरच्छेदादिना विनाऽपि । उप समीपे द्रष्टुः स्वप्नद्रष्टुरिति यावत् । ‘‘हृदयस्थात्पराज्जीवो दूरस्थो जाग्रदेष्यति । समीपस्थस्तथा स्वप्नमिति’’ वचनात् । स्वशिरच्छेदनादिको बाह्यस्वशिरच्छेदादिरूपोऽर्थः प्रतीयते । ममेदं शिरश्छिन्नमिति भ्रान्त्या प्रतीयते । तथाऽमुष्य चिन्मात्रस्य पुंसो जीवस्यात्मनोऽस्वतन्त्रस्य स्वस्य विपर्ययो देहादावहंममेत्यादिरूपं स्वातन्त्र्यं भ्रान्त्यैव प्रतीयते । तयैव तस्य संसार इति शेषः ॥ १० ॥
यथा जले चन्द्रमसः कम्पादिस्तत्कृतो गुणः ।
दृश्यते सन्नपि द्रष्टुरात्मनोऽनात्मनो गुणः ॥ ११ ॥
पदरत्नावली
यथा च जले चन्द्रप्रतिबिम्बस्य तत्कृतः जलचलनादिकृतः कम्पादिर् जलगुणो ऽसन्नपि द्रष्टुः पश्यतः पुरुषस्य दृश्यते । एवमेव आत्मनो जीवस्य तत्त्वज्ञानादीशेच्छयाऽनात्मनो देहस्य जननमरणादिगुणो ‘जातोऽहम्’ ‘मृतोऽहम्’ इत्यादि प्रतीयते । अतः स्वतः द्रष्टुर् ज्ञानादि-रूपस्य जीवस्येशेच्छया तत्स्वातन्त्र्यस्वपारतन्त्र्याद्यज्ञानाज्जातया भ्रान्त्या संसारः, तस्माद् यथा जपाकुसुमसंपर्ककृतं स्फटिकलौहित्यं यथा प्रकृतिसंबन्धकृतः संसारः सत्य एव, नानिर्वाच्याविद्याजन्यत्वेन भ्रान्तिः । तदुक्तम् ‘भ्रान्त्या जीवस्य संसारः’ इति । स्वप्नस्य वासनाजन्यत्वेनास्पष्टत्वात् तद्दृष्टान्तेन संसारस्य सत्यत्वं दुष्प्रतिवादमिति द्वितीयदृष्टान्तकथनम् ॥ ११ ॥
प्रकाशिका
नन्वेवं स्वातन्त्र्यवद्भ्रान्तिमूलोऽयं दुःखादिरनर्थोऽपि जीवस्य किं मिथ्याभूत एव दृश्यते किमित्याशङ्कायां नेति सदृष्टान्तमाह ॥ यथेति । तत्कृतो जलरूपोपाधिकृतः कम्पनादिर्गुणो जले प्रतिबिम्बितस्य चन्द्रमसः सन्नपि दृश्यते अपिरवधारणे । न त्वसन् । तथाऽनात्मनोंतःकरणस्य गुणो दुःखादिः, द्रष्टुस्तदनुभवितुरात्मनो जीवस्य सन्नेव दृश्यते न मिथ्याभूत इत्यर्थः । तत्सत्यत्वे साक्षिणं प्रमाणयितुं द्रष्टुरित्युक्तम् ॥ ११ ॥
स वै निवृत्तिधर्मेण वासुदेवानुकम्पया ।
भगवद्भक्तियोगेन तिरोधत्ते शनैरिह ॥ १२ ॥
तात्पर्यम्
‘कथं देहे परो देवो न लिप्येतेह बन्धनैः । कथं न दुःखी स भवेद्दुःखी चेदीश्वरः कुतः । महिमा परमस्यैष यद्देहस्थो न बाध्यते । यददुःखी स ईशानो मायेति महिमोच्यते । प्रधानं मय इत्याहुः प्राधान्यान्मयता भवेत् । अतो मायामयं प्राहुर्महामायमनामयमि’ति भाल्लवेयश्रुतिः ॥ ‘अलुप्तबोधरूपत्वान्नासौ प्राकृतदेहवान् । न च सृष्ट्यादिकं भ्रान्तिर्भ्रान्तिवादा हि दानवाः । अतो भ्रान्त्यादिसम्बन्धो नास्य क्वचन युज्यते । ‘भ्रान्त्या जीवस्य संसार ईशज्ञानाद्विलीयते । भ्रान्तिर्देहाद्यभिमतिरतो ज्ञानाद्विनश्यती’ति ब्रह्माण्डे ॥ १२ ॥
पदरत्नावली
ननु संसारस्य सत्यत्वे निवृत्त्यभावेन कदापि मोक्षो न स्यादिति तत्राह– स वा इति ॥ इह जीवे दृश्यमानः । भगवद्भक्तियोगेन जातया वासुदेवानुकम्पया । ‘यस्य प्रसादात्’ इति श्रुतेः । तिरोधत्ते विलीयते । वा इत्यनेन ‘ईशज्ञानाद्विलीयते’ इति मानं दर्शयति । यथा गरुडध्यानाद् विषनाशस् तथा सत्यस्यापि नाशो घटत इत्यस्मिन्नर्थे वा । ईशस्वातन्त्र्याज्ञानादुत्पन्नकर्तृत्वाभिमान-लक्षणभ्रान्तिविलय ईशज्ञानाद् युज्यते । ‘भ्रान्तिर्हि देहाभिमतिशीशज्ञानाद् विनश्यति’ इति च । ‘बहूनां जन्मनामन्ते’ इति वचनाच्छनैरिति ॥ १२ ॥
प्रकाशिका
ननु संसारस्य सत्यत्वे कथं तन्निवृत्तिरूपो मोक्षः सत्यस्यानिवृत्तेरित्यत आह ॥ स वा इति । वैशब्दः प्रमाणप्रसिद्धिद्योतकः । स दुःखादिरूपः संसारः । निवृत्तिधर्मेण जातेन भक्ति-योगेनापरोक्षज्ञानद्वारा जातया वासुदेवानुकम्पया वासुदेवप्रसादेन तिरोधत्ते विलीयते । इह जीवे । शनैः साधनोत्कर्षानुसारेण सत्यस्यापि निगडबन्धस्य सेवादिजनितराजप्रसादेन निवृत्तिदर्शनादिति भावः । ब्रह्मन्कथं भगवत इत्यारभ्य तिरोधत्ते शनैरिहेत्यन्तस्य तात्पर्यं श्रुतिस्मृतिभ्यां दर्शयति ॥ कथमिति । इह देहे विद्यमानः परो देवः कथं कर्मबन्धनैर्न लिप्येत लिप्येतैव । जीववद्यदि लिप्येत तर्हि दुःखी कथं न भवेद्भवेदेव । यदि दुःखी स्यात्तर्हि कुत ईश्वरो न कुतोऽपि । भवति चेश्वरोऽतो दुःखायोगान्न कर्मबन्धनं तस्येत्येव वक्तव्यम् । दुर्भगदेहस्थत्वयुक्त्या जीववत्कर्मबन्धनं च तस्य प्राप्नोत्यतः संशय इत्यर्थः । अनेन भगवानेक एवैष इत्यादिकमुक्ततात्पर्यम् ।
सेयं भगवतो मायेत्यस्यार्थमाह ॥ महिमेति । यद्देहस्थ इत्यनेनोक्तहेतुर्महिमाभावरूपोपाधिग्रस्त इत्युक्तं भवति । नन्वेवमीश्वरो न कर्मबन्धवान्महिमातिशयवत्वादित्युपाध्यभावेनानुमेयम् । तत्रा-प्रयोजकत्वमित्याशङ्कायां विपक्षबाधकतर्कं सूचयंस्तस्य विपर्यये पर्यवसानं दर्शयति ॥ यददुःखीति । स परमात्मा यद्यस्माददुःखी ईशानः सर्वप्रेरकश्च श्रुत्यादिसिद्धस्तस्मान्न बद्ध्यत इत्यन्वयः । अनेनेश्वरो बन्धवान्स्यात्तदा दुःखी स्यात्ततश्च सर्वस्येशानो न स्यात् । भवति चेशानोऽदुःखी च तस्मान्न बन्धवानिति तर्कः सूचित इति ज्ञातव्यम् । ननु यदि देहस्थस्यापीश्वरस्य बन्धाभावे महिमा प्रयोजक-स्तदा सेयं भगवतो मायेति मायायास्तत्प्रयोजकत्वं मूले कथमुक्तमित्यत आह ॥ मायेति । ननु यदि मायाशब्दो महिमार्थस्तदा मायामयो भगवानिति श्रौतप्रयोगेन तस्य मिथ्यात्वमुच्यमानमनुपपन्नं स्यादित्याशङ्कायां भगवति मायामयशब्दवाच्यत्वमन्यथोपपादयति ॥ प्रधानमिति । यतः प्रधानं वस्तु मयमित्याहुरतः प्राधान्यान्निमित्तान्मयता मयशब्दवाच्यता भवेत् । यत एवं मायामयशब्दयोरर्थोऽतो महामायं प्रधानमहिमानं भगवन्तं मायामयं मायामयशब्दवाच्यमाहुः । मया प्रधानभूता माया महिमा यस्येति विग्रहमभिप्रेत्येति भावः । अग्न्याहितादिवत्परनिपातः । अविद्याकल्पितत्वमर्थो नेति सूचयितु-मनामयमित्युक्तम् । अविद्यादिदोषास्पृष्टमित्यर्थः । भगवान्प्राकृतदेहबद्धो न भवतीत्यत्र युक्त्यन्तरमपि स्मृत्या दर्शयति ॥ अलुप्तेति । सर्वदा बन्धविरोधिस्वसाक्षात्कारवत्वादित्यर्थः । प्राकृतदेहवान्प्रकृति-निर्मितदेहबद्धो न भवतीत्यर्थः । अनेनाविलुप्तावबोधात्मेत्येतदुक्तार्थम् ।
ननु निर्गुणस्य गुणा अविकारिणः क्रियाश्च भ्रान्तिकल्पिता एवेति कुतो न समाधीयत इत्यत आह ॥ न चेति ॥ भ्रान्तिर्भ्रान्तिकल्पितं हि यस्माद्दानवा एव भ्रान्तिकल्पितत्वं वदन्तीति भ्रान्तिवादाः । अतो भ्रान्त्याऽस्य जगतः सम्बन्धो विषयविषयिभावरूपः क्वचन कस्मिन्नपि काले न युज्यते । सत्यत्व-श्रुतिविरोधादिति हिशब्दार्थः । यद्वा । भ्रान्तिशब्देनाविद्या लक्षणीया । तथा च न सृष्ट्यादिकमीश्वरा-विद्याकल्पितं हि यस्माद्दानवा एवेश्वरस्याविद्याकल्पितं वदन्ति न ज्ञानिनोऽतोऽस्य सर्वज्ञस्येश्वरस्य भ्रान्त्याऽविद्यासम्बन्धः कदाऽपि नेति योज्यम् । अनेनास्राक्षीद्भगवानित्येतदुक्तार्थम् । नन्वीश्वरस्य प्राकृतबन्धाभावे देहबन्धरूपः संसारः कस्य भवति । जीवस्येति चेत्तस्यापि चिन्मात्रस्वभावस्यैतादृशदेह-सम्बन्धे कारणाभावादित्यत आह ॥ भ्रान्त्येति । भ्रान्त्या कारणभूतया संसारः सत्य एव । भवतीति शेषः । अनेन यथार्थेन विनेत्येतदुक्ततात्पर्यम् । ननु संसारस्य सत्यत्वे कथं तन्निवृत्तिरित्यत आह ॥ ईशेति । ननु कीदृशी संसारकारणीभूता भ्रान्तिः । तस्याश्चानिवृत्तौ कथं संसारस्येशज्ञानाद्विलय इत्यत आह ॥ भ्रान्तिरिति । देहाद्यभिमतिर्देहादौ ममेदमिति स्वातन्त्र्याभिमानः । अतः प्रकृताज् ज्ञानादीश-ज्ञानादित्यर्थः । क्वचिदीशज्ञानादित्येव पाठः । तथा च कारणीभूतभ्रान्तिनाशे तत्कार्यस्य संसारस्यापि भगवत्प्रसादेन नाश इति भावः । अनेन स वै निवृत्तिधर्मेणेत्येतदुक्ततात्पर्यम् ॥ १२ ॥
यदेन्द्रियोपरामार्थो दृष्टात्मनि परे हरौ ।
विलीयन्ते तदा क्लेशाः संसुप्तस्येव कृत्स्नशः ॥ १३ ॥
तात्पर्यम्
इन्द्रियोपरामाख्यः पुरुषार्थो मुक्तिः ॥ १३ ॥
पदरत्नावली
सर्वनामसंज्ञाभावात् पर इति । सर्वोत्तमे हरौ संसारकारणदुरितदूरीकरणसमर्थे भगवति दृष्टात्मनि अपरोक्षीकृतस्वरूपे सति । यदा इन्द्रियाणां विष्णुसमीपरमणाख्यपुरुषार्थो मुक्तिस् तदा सर्वे क्लेशा विलीयन्ते । संसुप्तस्य सम्यक् सुप्तस्य जीवस्य सुप्त्यवस्थायां कृत्स्नाः क्लेशा यथा विलीयन्ते तथेत्यर्थः ॥ १३ ॥
प्रकाशिका
तर्हि सर्वक्लेशनिवृत्तिः कदेत्यपेक्षायामाह ॥ यदेति । अत्रेन्द्रियाणामुपरामो नैश्चल्यमित्यन्यथाप्रतीतिनिवारणाय प्रकृतोपयुक्तमर्थं सूचयन्नर्थशब्दार्थमाह ॥ इन्द्रियेति । तथा च जडेन्द्रियाणामुपरामो नाश इति वा स्वरूपेन्द्रियाणामुप भगवत्समीपे रामो रमणमिति वा तस्यार्थ इति भावः । ननु धर्मादिपुरुषार्थत्रयस्येन्द्रियोपरामरूपत्वाभावात्कथमेतद्व्याख्यानमित्यत आह ॥ मुक्तिरिति ॥ ततश्चायं श्लोकार्थः ॥ परे सर्वोत्तमे हरौ । जीवेन द्रष्टात्मन्यपरोक्षीकृतस्वरूपे सति यदेन्द्रियोपरामाख्यार्थः पुरुषार्थः । मुक्तिरिति यावत् । तदा कृत्स्नशः कार्त्स्येन सर्वे क्लेशा विलीयन्ते आत्यन्तिकमुच्छिद्यन्ते पुनस्तत्सजातीयोत्पत्तिर्न भवतीत्यर्थः । कृत्स्नक्लेशविलयमात्रे दृष्टान्तः संसुप्तस्येवेति ॥ १३ ॥
अशेषसंक्लेशशमं विधत्ते गुणानुवादश्रवणं मुरारेः ।
किं वा पुनस्तच्चरणारविन्दपरागसेवारतिरात्मलब्धा ॥ १४ ॥
पदरत्नावली
क्लेशनिवृत्तौ कैमुत्यन्यायप्रदर्शनव्याजेन सुगमोपायं दर्शयति– अशेषेति ॥ गुणानामनुवादयुक्तश्रवणाद् । यद्वा गुणानामनुवादो येषु ते गुणानुवादा भागवतादयस् तेषां श्रवणमेवाशेषसंक्लेशविनाशं करोति । किं पुनर्व्याख्यानमिति सिद्धत्वात् पृथङ् नोक्तम् । आत्मनि लब्धा तस्य मुरारेश्चरणारविन्दपरागसेवायां रतिः क्लेशशमं विधत्ते इति किं वा किं वक्तव्यम् । पुनरिति सन्देहं निवारयति । ‘पुनरप्रथमे प्रश्ने व्यावृत्ताववधारणे’ इति वचनात् । अनेन श्रवणमननव्याख्यानोपासना-नामुत्तरोत्तरप्राबल्यमुपायान्तराभावश्चेति दर्शितम् ॥ १४ ॥
प्रकाशिका
स वै निवृत्तधर्मेणेति मोक्षसाधननिरूपणपरे श्लोके श्रवणादीनामनुक्तत्वात्तानीदानीं वदंस्तेषु सप्रेमध्यानस्योत्तमत्वमपि किं पुनर्न्यायेन दर्शयति ॥ अशेषेति । गुणानामनुवादः प्रवचनम् । मननमिति यावत् । तेन सहितं श्रवणम् । आत्मनि मनसि लब्धा । तच्चरणारविन्दपरागानां सेवा ध्यानरूपा तया सहिता रतिः । अशेषसंक्लेशशमं विधत्त इति किं पुनर्वक्तव्यम् । अस्यार्थस्यास्वादने वाशब्दः ॥ १४ ॥
विदुर उवाच–
संछिन्नः संशयो मह्यं तव सूक्तासिना विभो ।
उभयत्रापि भगवन्मनो मे सम्प्रधावति ॥ १५ ॥
साधु तद् व्याहृतं विद्वन्नात्ममायायनं हरेः ।
आभात्यपार्थं निर्मूलं विश्वमूलं न यद् बहिः ॥ १६ ॥
यश्च मूढतमो लोके यश्च बुद्धेः परं गतः ।
तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः ॥ १७ ॥
अर्थाभावं विनिश्चित्य प्रतीतस्याप्यनात्मनः ।
तां चापि युष्मच्चरणसेवयाऽहं पराणुदे ॥ १८ ॥
तात्पर्यम्
स्वरूपसामर्थ्याश्रयम् । यद्व्याहृतम् । अपार्थं निर्मूलं च देहसम्बन्धित्वाद्याभाति । विश्वमूलं ब्रह्म च यन्ममज्ञानाद्बहिर्न भवति । तस्मादुभयत्र धावति । तस्मादन्तरितोऽस्मि । तथापि तां प्रतीतिं पराणुदे ॥ १५-१८ ॥
पदरत्नावली
विदुरो मैत्रेयस्यावश्यवक्तव्यत्वे तात्पर्यं जनयितुमुक्तार्थे वक्तव्यांशो नास्तीत्याह– संछिन्न इति ॥ सूक्तमेवासिः खड्गस् तेन । अत्र संशयपदेनान्यथाज्ञानं ग्राह्यम् । अन्यथोभयत्रेत्युत्तरार्ध-मनुपपन्नं स्यात् । अज्ञानं वा । ‘शीङ् खप्ने’ इति धातुजत्वात् ‘स्वप्नस्त्वज्ञानशब्दोक्तो विपरीतमथापि वा’ इति वचनात् । दुर्भगदेहस्थस्यापि हरेस्तद्गतदुःखादिभोगः संभाव्यत इत्यन्यथाज्ञानं निरस्तमित्यर्थः । मह्यं ममेति व्यत्यासश् चिरकालस्थायी न स्यादित्याशयेन कृतः । नन्वन्यथाज्ञानस्य च्छिन्नत्वात् किमुत्तरग्रन्थेनेति तत्राह– उभयत्रेति ॥ उभयत्र देहाद्यहंममतादौ हरौ च अन्यथाज्ञाननाशादिदमदो वेति सन्देहो जायत इति भावः । अपिशब्दः समुच्चयार्थः ॥
अस्मद्वचने नैशित्याभावात् तव संशयः किम् ? नेत्याह– साध्विति ॥ हे विद्वान् ब्रह्म-साक्षात्कारयोग्यज्ञानवान् हरेरात्ममायायनं स्वरूपसामर्थ्याश्रयम् अयं हि भगवन्महिमेति यद् व्याहृतं त्वयोक्तं तत् साधु संशयनिरासनैशित्योचितम् । आत्मेत्यनेन मायाशब्दस्येन्द्रजालाभिधेयत्वं दूरो-त्सारितम् । यद्यप्येवं तथाप्यपार्थं प्रयोजनशून्यमत एव निर्मूलं पूर्वादृष्टमन्तरेण कारणान्तरशून्यं देहात्मत्वादिमनस्याभाति । विश्वमूलं ब्रह्म च मम ज्ञानाद् बहिर्न भवति । यद् यस्मात् तस्मादन्तरित उभयभ्रष्ट इवास्मीतिशेषः ॥
एतदेव स्पष्टयति– यश्चेति ॥ लोके ब्रह्मणा सृष्टे जने यो मूढतमो ऽत्यन्तविवेकज्ञानशून्यः यश्च बुद्धेः प्रकृतेः परं ब्रह्म गतस् तावुभौ मत्तवत् सुप्तवत् सुखमेधेते । अन्तरितस्तयोर्मध्यवर्ती जनः स्वप्नदर्शिवत् क्लिश्यति क्लेशं प्राप्नोति । तथाहमपि क्लिश्यामीत्यर्थः ॥
त्वमन्तरितजनेष्वेकश्चेत् संशयानपगमेन मुक्तो न स्याः । ‘तत्त्वसंशययुक्ता ये सर्वे ते निरयोपगाः’ इति वचनादित्याशङ्क्य स्थाणुर्वा पुरुषो वेति सन्दिहानो यथाप्तवाक्याद् वक्रकोटरादिदर्शनाद् वा संशयप्रतीतिं पराहृत्य स्थाणुरेवायं न पुरुष इति निश्चयज्ञानं प्रतिपद्यते तथाहमपि युष्मच्चरणसेवाप्रसन्न-युष्मदुपदेशादनात्मनो देहस्य सम्बन्धिनोऽहंममतादेर् मोहात् सत्वेन प्रतीतस्यापि अर्थाभावं जीवस्वरूप-पर्यालोचनया प्रयोजनाभावं विनिश्चित्य च उभयविषयां तां प्रतीतिं निरस्य पुरुषार्थोपयोगिज्ञानं लभ इत्यभिप्रायवानाह– अर्थाभावमिति ॥ द्वितीयापिशब्देन सेवायाः प्राधान्यं वक्ति । चशब्दः संशय-निरासनिश्चयज्ञानलब्ध्योः समुच्चये वर्तते । पराणुद इत्यनेन नियतपरस्मैपदेनान्यथाप्रयुक्तेन विद्यमानमपि अनुभवमन्यथा वदति विदुर इति सूच्यते । न च शूद्रयोनौ जातस्य यथार्थज्ञानमेव नास्तीति वाच्यम् । ‘द्रोणद्रौणिकृपाः पार्था भीष्मो विदुरसंजयौ । ये चान्ये तत्र देवांशाः सम्यक् तत्त्वापरोक्षिणः१ ॥’ इति वचनात् सम्यक्तत्वापरोक्षित्वात् । तर्ह्यनृतभाषित्वेन दोषित्वमापन्नमिति चेन्न । पृष्टमेव वक्तव्यं नापृष्ट-मिति अपृष्टार्थप्रवचनोपरमार्थत्वेन गुणत्वात् । ‘आत्मनस्तु गुणाभावं वदतो न त्वसत्यता । अपृष्टस्य दमार्थं च गुणायैव भवत्यपि ॥’ इति वचनात् ॥ १५-१८ ॥
प्रकाशिका
विदुरः स्वपृष्टस्य सर्वस्योत्तरदानाय मैत्रेयमभिनन्दंस्तत्कृतोपकारमाह ॥ संछिन्न इति । सूक्तमेवासिः खड्गं तेन । यद्यपि दुर्भगदेहस्थस्य हरेस्तद्गतदुःखादिभोगविषयेऽनुमानमूलो यः संशयः स सञ्छिन्नस्तथाऽप्युभयत्र मे मनः संप्रधावत्युभयकोटिकज्ञानं भवति । पुनः संशयो भवत्येवेत्यर्थः ॥
उभयत्रेत्युक्तमेव दर्शयितुमाह ॥ साध्विति । अत्रात्ममायायनमित्यस्य विवक्षितमर्थं दर्शयति ॥ स्वरूपेति । स्वरूपेत्यात्मशब्दस्य, सामर्थ्येति मायाशब्दस्याश्रयमित्ययनशब्दस्यार्थकथनम् । व्याहृत-मित्यस्य विधित्वप्रतीतिनिरासायाह ॥ यद्व्याहृतमिति । तथा च तत्साध्विति साधुत्वमेव विधीयत इति भावः । अपार्थं निर्मूलं विश्वमूलमित्येतेषामेकविशेष्यपरत्वभ्रमवारणायापेक्षितमध्याहृत्य भिन्नवाक्यतया योजयति ॥ अपार्थमिति । देहसम्बन्धित्वं जडदेहवत्वम् । आदिपदेन तत्प्रयुक्तक्लेशादिसङ्ग्रहः । अपार्थं जीव इव न पुरुषार्थापादकम् । नानवाप्तमवाप्तव्यमिति वचनात् । निर्मूलं स्वातन्त्र्यभ्रान्त्यादिकारणशून्यं च । यः सर्वज्ञ इत्यादिवचनात् । विश्वमूलमित्यत्रापेक्षितं पूरयति ॥ विश्वमूलमिति । सर्वकारणं ब्रह्म च मम ज्ञानाद्बहिर्न भवति मज्ज्ञाने विषयीकृतमित्यर्थः । यस्मादित्यर्थकस्य यद्बहिरिति यच्छब्दस्यापेक्षितं तस्मादिति पदमध्याहृत्य तस्यान्वयं दर्शयति ॥ तस्मादिति । यश्च मूढतमो लोक इति श्लोकमुत्थापयितुं मध्येऽपेक्षितं पूरयति ॥ तस्मादन्तरितोऽस्मीति । अन्तरितोऽन्तर्गतः । मध्यस्त इति यावत् । ताञ्चापीत्यत्र अपिशब्दयोजनां दर्शयंस्तामित्यस्य परामृश्यान्वयं दर्शयति ॥ तथाऽपीति । तथा चापिशब्दस्तथाऽपीत्यर्थः । तामिति तच्छब्दः प्रतीतस्येत्यत्र प्रकृतप्रतीतिपरामर्शक इति भावः ॥ ततश्च साधु तद्व्याहृतमित्यादि श्लोकत्रयस्यार्थः ॥ यद्दुर्भगजीवशरीरस्थस्यापि तत्स्थक्लेशाद्यसङ्गित्वमात्ममायायनं स्वरूपसामर्थ्यप्रयुक्तमिति व्याहृतं सेयं भगवतो मायेत्यनेनोक्तं तत्साधु समीचीनम् । तद्विषयेऽनुमान-मूलस्य मदीयसंशयस्य तेन छिन्नत्वात्तथाऽपीश्वरस्य जडदेहवत्वं तद्गतक्लेशादिकं चावतारेषु प्रत्यक्षेणैवा-भाति । तच्च यद्यप्यपार्थमपगतोऽर्थः पुरुषार्थो यस्मात्तथा । ईश्वरस्य जीवस्येव पुरुषार्थासाधनम् । ईश्वरस्याप्तकामत्वात् । निर्मूलं च जीव इव भ्रान्त्यादिकारणाभावादतो युक्तिबाधितम् । तथाऽप्याभाति स्पष्टं प्रत्यक्षेणैवावतारेषु भाति । अतो न हातुं युक्तम् । प्रत्यक्षस्य जात्या प्रबलत्वात् । द्वितीयां कोटिं दर्शयति ॥ विश्वमूलमिति । सर्वजन्मादिकारणं ब्रह्म च मम ज्ञानाद्बहिर्न भवति । मया जडदेहशून्यतया क्लेशादिशून्यतया च ज्ञातमस्तीत्यर्थः । जडदेहाभावाद्युपपादनायैव विश्वमूलमित्युक्तम् । सर्वकारणे जडदेहसम्बन्धादेरुत्पादकासंभवेनासंभवादिति भावः । यद्यस्मादेव तस्मादुभयत्रापि हरेर्जडदेहवत्त्वादौ तदभावे च मे मनः संप्रधावति । हरेर्जडदेहवत्त्वादौ प्रत्यक्षमाश्रित्य पुनः संशयो भवतीत्यर्थः । तस्मान्मध्यस्थोऽस्मि ॥
अस्तु मध्यस्थत्वं ततः किमित्यत आह ॥ यश्चेति । मूढतमः सर्वथा ब्रह्मज्ञानशून्यो, बुद्धेः शास्त्रजनितब्रह्मज्ञानस्य परं परभागम् । पारमिति यावत् । गतो ब्रह्मविषयकनिश्चयवानित्यर्थः । अन्तरितो मध्यस्थः संशयवानित्यर्थः ॥
एतत्संशयनिराकरणे मम न पुनर्युष्मदुपदेशापेक्षा । सेयं भगवतो मायेति पूर्वतनयुष्मदुपदेश-विमर्शेन मयैव निराकर्तुं शक्यत्वादित्याशयेनाह ॥ अर्थाभावमिति । अपि यद्यप्येवं संशय इत्यर्थः । तथापि ईश्वरावतारे प्रतीतस्य प्रत्यक्षप्रतीतिविषयस्याप्यनात्मनो जडदेहस्य सकाशादर्थाभावमीश्वरस्य पुरुषार्थाभावम् । उपलक्षणमेतत् । भ्रान्त्यादिरूपसंसारकारणाभावं च युष्मच्चरणसेवया युष्मच्चरण-सेवालब्धयुष्मदुपदेशार्थपर्यालोचनेन विनिश्चित्येदमित्थमेवेत्यवधार्य तां च तामपि जात्या प्रबलामुक्त-प्रत्यक्षप्रतीतिमपि पराणुदे दुर्बलतया स्वार्थसाधनाक्षमां करोमीत्यर्थः । अयं भावः । सत्यं भगवदवतारेषु जडदेहवत्त्वादिकं लोकानां प्रत्यक्षत एव प्रतीयत इति । तथाऽपि न तत्सत्यम् । उपजीव्यागमार्थ-सङ्ग्राहकयुष्मद्वचनार्थपर्यालोचनया विरुद्धार्थत्वात् । तथा हि । देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः। आविरासीदित्याद्यागमेन च कृष्णस्य निरनिष्ठो निरवद्य इत्याद्यागमोक्तं विष्णुत्वं निश्चित्य कृष्णे दोषग्राहिप्रत्यक्षं विष्णौ दोषग्राहीति वक्तव्यम् । अन्यथा कश्चिदयं दोषी स्यान्न विष्णुर्दोषीति । अतो निरनिष्ठ इत्याद्यागमस्योक्तप्रत्यक्षोपजीव्यत्वम् । सेयं भगवतो मायेति युष्मद्वचनस्य तदर्थानुवादरूपत्वात् । उक्तप्रतीतेः स्वोपजीव्यागमार्थसंवादियुष्म द्वचनार्थपर्यालोचनया विरुद्धत्वं तस्मान्न स्वार्थसाधकत्वमतो न तन्मूलसंशयावकाश इति ॥ १५-१८ ॥
यत्सेवया भगवतः कूटस्थस्य मधुद्विषः ।
रतिरासो भवेत् तीव्रः पादयोर्व्यसनार्दनः ॥ १९ ॥
पदरत्नावली
श्रीनारायणचरणारविन्दनिषेवा संसारव्यथानिरासकत्वेन पुरुषार्थोपयोगिनी स्यात् किमस्मच्चरणसेवा करिष्यतीति शङ्का मा भूदित्याह– यत्सेवयेति ॥ येषां हरिस्वरूपद्रष्टृणां युष्माकं सेवया भगवतः पादयोस् तीव्रः पटुतरो रतिरासो रतिरूपा क्रीडा रतिलक्षणो रागो वा भवेदित्यन्वयः । मधुद्विष इत्यनेन हरेर्बहिरेवावस्थानं प्रतीयते । तन्निरासार्थं कूटस्थस्येति । चेतनाचेतनराशिनियामकत्वेन तदन्तस्थस्य क्रोधादिविकारबाह्यस्य वा ॥ १९ ॥
प्रकाशिका
हरिचरणारविन्दसेवैव पुरुषार्थहेतुत्वादभ्यर्थनीया किमस्मच्चरणसेवयेत्यत आह ॥ यत्सेवयेति । येषां युष्माकं सेवया । मधुद्विषः । उपलक्षणयाऽध्यात्मगतमध्वादिसर्वदैत्याभिभावकस्य हरेः पादयोस्तीव्रो दृढतरो रतिरासो भक्तिलक्षणोत्सवः । व्यसनं संसारमर्दयति नाशयतीति व्यसनार्दनः । तथा च युष्मच्चरणसेवा हरिचरणसेवासाधिकेति भावः ॥ १९ ॥
दुरापा ह्यल्पतपसः सेवा वैकुण्ठवर्त्मसु ।
यत्रोपगीयते नित्यं देवदेवो जनार्दनः ॥ २० ॥
तात्पर्यम्
‘आत्मनस्तु गुणाभावं वदतो न त्वसत्यता । अपृष्टस्य दमार्थं च गुणायैव भवत्यपी’ति व्यासस्मृतेः । विद्यमानमप्यनुभवमन्यथा वदति विदुरः । ‘द्रोणद्रौणिकृपाः पार्था भीष्मो विदुरसञ्जयौ । ये चान्ये तत्र देवांशाः सम्यक्तत्त्वापरोक्षिण’ इति स्कान्दे ॥ २० ॥
पदरत्नावली
पूर्वसञ्चितपुण्यैरेव भवादृशानां महतां सेवा लभ्या नान्यैरित्याह– दुरापेति ॥ वैकुण्ठस्य वर्त्म ज्ञानोपदेशमार्गो येषां तेषु महत्सु सेवा । हिशब्द एवार्थे । दुष्प्रापत्वे निमित्तमाह– यत्रेति ॥ यत्र येषां भवादृशानां परिसरे । भगवद्विमुखानां जनार्दनप्रसंगो दुःसह इति यस्मादत-स्तत्कथाप्रसञ्जकेषु सत्सु दुःसहत्वेन सेवा दुरापेत्यर्थः । जनो जननमुपलक्षणं मरणं चार्दयति नाशयतीति जनार्दनः । अर्द हिंसागत्योरिति धातुः ॥ २० ॥
प्रकाशिका
ननु तर्ह्यस्मदादिसेवया कुतः सर्वे संसारं नार्दय(न्ती)न्नित्यत आह ॥ दुरापेति । वैकुण्ठलोकमार्गभूतेषु महत्सु । यत्र येषु जनं जननादिरूपसंसारमर्दयतीति जनार्दनः । तथा च पूर्वार्जितपुण्यसंपन्नैः कैश्चिद्भिरेव भवादृशानां सेवा लभ्या न सर्वैरिति भावः । अत्र तत्त्वनिश्चयवतो विदुरस्योभयत्र मनो धावत्यन्तरितोऽस्मीत्यादीनां संशयवचनमुत्तरत्र च ब्रूहि मेऽन्धस्येत्यज्ञानवचनं च कथम् । असत्यवचनेन दोषस्मरणादित्याशङ्कां प्रमाणेनैवापाकरोति ॥ आत्मनस्त्विति । तुशब्दोऽपि- शब्दार्थः । देवादेरिति शेषः । आत्मनः स्वस्य ज्ञानादिगुणाभावं वदतोऽपि देवादेरसत्यताऽसत्य-वचनजन्यदोषो न तु नैव । यत उक्तरूपमसत्यवचनमपृष्ठस्यापृष्ठत्वस्य दमार्थं नाशार्थं भवति । मैत्रेयादिभिर्वक्ष्यमाणस्य प्रमेयस्य पृष्ठत्वलाभाय भवतीति यावत् । चशब्दस्तत्साध्यलोकोपकार-समुच्चयार्थः । अन्यथा ‘‘नापृष्टः कस्यचिद् ब्रूयादि’’ति वचनात्तेषां वचनप्रसक्तेरेवाभावे लोकानां ज्ञानप्राप्तिर्न स्यात् । अतो लोकोपकारकस्य पृष्ठत्वलाभान् नासत्यवचनं दोषापादकमिति भावः । न केवलमेवं वचनमुक्तरित्या दोषानापादकं प्रत्युत तस्य गुणापादकमेवेत्याह ॥ गुणायैवेति । स्वस्येति शेषः । गुणायैव प्राप्तज्ञानदार्ढ्यविशेषज्ञानलाभादिरूपगुणायैवेत्यर्थः । ‘‘जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय च । पृच्छन्ति साधव इत्यादि’’ वचनात् । अपिशब्दोऽपृष्टत्वदमसमुच्चयार्थः । अनुभवं तत्त्वनिश्चयम् । अन्यथोभयत्रेति संशयरूपत्वेनाज्ञस्येत्यज्ञानत्वेन च वदतीत्यर्थः । ननु विदुरोऽपीतरवदज्ञात्वैव पृच्छतीति किं न स्यादित्याशङ्कायां तस्य ज्ञानित्वे प्रमाणमाह ॥ द्रोणेति । ये चान्येऽभिमन्युप्रभृतयः । तत्र कुरुषु यतो देवांशाः ॥ २० ॥
सृष्ट्वाऽग्रे महदादीनि सविकाराण्यनुक्रमात् ।
तेभ्यो विराजमुद्धृत्य तमनु प्राविशद् विभुः ॥ २१ ॥
यमाहुराद्यं पुरुषं सहस्राङ्घ्र्यूरुबाहुकम् ।
यत्र विश्व इमे लोकाः सविकाशं समासते ॥ २२ ॥
यस्मिन् दशविधः प्राणः सेन्द्रियार्थेन्द्रियस्त्रिवृत् ।
त्वयेरिता यतो वर्णास्तद्विभूतीर्वदस्व नः ॥ २३ ॥
यत्र पुत्रैश्च पौत्रैश्च नप्तृभिः सह गोत्रजैः ।
प्रजा विचित्राकृतय आसन् याभिरिदं ततम् ॥ २४ ॥
तात्पर्यम्
विराजं ब्रह्माणम् । ‘ब्रह्माणं प्राविशद्विष्णुः सहस्राक्षः सहस्रपादि’ति ब्राह्मे ॥ ‘अनुप्रविश्य ब्रह्माणं प्राणं दशविधं तथा । इन्द्रियाणीन्द्रियार्थांश्च वर्णांश्चैवासृजद्धरिः’ इति गारुडे ॥ २१-२४ ॥
पदरत्नावली
विदुरो विशेषं श्रोतुं श्रुतमनुवदति– सृष्ट्वेति ॥ अग्रे जगदादौ षोडशविकारास्तैः सहितानि, तेभ्यो महदादिभ्यो ऽण्डं सृष्ट्वाऽण्डान्तर्वर्तिविराजब्रह्माणमुद्धृत्य सृष्ट्वा तं ब्रह्माणम् अनु प्राविशत् । तत्त्वप्रवेशानन्तरं ब्रह्मप्रवेश इति ज्ञापनायान्विति । विभुर्व्याप्तः ॥
नन्वन्तर्बहिर्व्याप्तस्य परिच्छिन्नयोग्यः प्रवेशः कथमित्याशङ्क्य तत्तद्वस्तुपरिमितरूपग्रहणेन सुकर इति भावेनाह– यमाहुरिति ॥ यत्र यस्मिन् पुरुषे । इमे पातालादयः ॥
यस्मिन् ब्रह्मान्तर्यामिणि पुरुषे ‘प्राणापानौ तथा व्यानस्तथोदानसमानकौ । नागः कूर्मोऽथकृकल-देवदत्तधनञ्जयाः ॥’ इति दशविधः, सेन्द्रियार्थेन्द्रिय इन्द्रियार्थैः शब्दादिभिश्चक्षुरादीन्द्रियैश्च सहितस् त्रिवृद् ओजःसहोबलरूपः, वर्तत इति शेषः । श्रुतमनूद्य वक्तव्यांशं प्रार्थयते– त्वयेरिता इति ॥ त्वया ये ब्राह्मणादिवर्णा यतो ब्रह्मान्तर्यामिणः सृष्टा ईरितास् तद्विभूतीस्तेषां वर्णानां तस्य ब्रह्मान्तर्यामिणश्च विभूतीर् नोऽस्माकं वदस्व यथा ज्ञातुं शक्यन्ते तथा ब्रूहीत्यन्वयः । ‘भासनोपसंभाषाज्ञानयत्नविमन्त्रणेषु वदः’ इत्यात्मनेपदम् ॥
यत्र येषु वर्णेषु जातैर्नप्तृभिः पुत्रपौत्रैर्विचित्राकृतयः परस्परव्यावृत्तलक्षणोपेताकाराः । विभुर्ब्रह्मा विराजं ब्रह्मण्डं जलादुद्धृत्यावकाशवत् कृत्वानुप्राविशदिति प्रतीतार्थं परित्यज्याप्रतीतार्थाङ्गीकारे किं नियामकम् ? सृष्टिश्च ब्रह्मण इति प्रसिद्धिरिति चेन्न । ‘ब्रह्माणं प्राविशद् विष्णुः सहस्राक्षः सहस्रपात् ।’ ‘अनुप्रविश्य ब्रह्मणं प्राणं दशविधं तथा । इन्द्रियाणीन्द्रियार्थांश्च वर्णांश्चैवासृजद्धरिः ॥ इति प्रमाणद्वयेन नियतत्वादज्ञरूढेर् दुर्बलत्वाच्च ॥ २३,२४ ॥
प्रकाशिका
प्रमेयान्तरं प्रष्टुं विदुरः पूर्वं मैत्रेयेणोक्तमनुवदति ॥ सृष्ट्वेत्यादि त्रिभिः । सविकाराणि ब्रह्माण्डलक्षणकार्यसहितानि । तेभ्यस्तदंशेभ्यः । उद्धृत्योत्पाद्य । अत्र विकारशब्देन ब्रह्माण्डस्योक्तत्वाद्विराजमित्यस्य विवक्षितमर्थमाह ॥ विराजमिति । ब्रह्माणं ब्रह्माण्डान्तर्गतब्रह्मदेहम् । कुत इत्यतो यमाहुराद्यमिति वक्ष्यमाणविराडान्तर्गतपुरुषलक्षणस्य ब्रह्माण्डान्तर्गतनिष्ठतयाऽन्यत्रोक्त-त्वादित्याशयेनाह ॥ ब्रह्माणमिति । विराजाख्यमिति शेषः । यस्मिन्दशविध इति वक्ष्यमाणदशविध-प्राणादिस्रष्टत्वस्यापि ब्रह्माण्डान्तर्गतनिष्ठतयाऽन्यत्रोक्तत्वादयं विराट्शब्दो ब्रह्मपर एवेत्याशयेनाह ॥ अनुप्रविश्येति ॥ प्रविष्टस्य स्वरूपमाह ॥ यमिति । आहुः पुरुषसूक्ताद्यागमाः । सविकाशमसंकोचेन ॥ प्राणादयः पञ्च, नागादयः पञ्चेति दशविधः । इन्द्रियार्थैरिन्द्रियविषयैः शब्दादिभिरिन्द्रियैश्चक्षुरादिभिः सहितः सेन्द्रियार्थेन्द्रियः । अध्यात्मादिभेदेन त्रीणि रूपाणि वृणोतीति त्रिवृत् । अध्यात्मादित्रिधाऽखिला इत्युक्तत्वात् । यस्मिन्यस्माद्यतो ब्रह्मान्तर्यामिणः सकाशादीरिता वर्णा वर्णाभिमानिनस्तस्य ब्रह्मान्त-र्यामिणो विभूतीरैश्वर्याणि । माहात्म्यानीति यावत् । यत्र यस्मात् । नप्तृभिः पौत्रपुत्रैः ॥ २१-२४ ॥
प्रजापतीनां स पतिश्चक्लृपे कान् प्रजापतीन् ।
सर्गांश्चैवानुसर्गांश्च मनून् मन्वन्तराधिपान् ॥ २५ ॥
प्रकाशिका
प्रजापतीनां पतिः स ब्रह्मान्तर्गतश्चक्लृपे चकार । सर्गान्नवविधान् । अनुसर्गां-स्तद्भेदान् ॥ २५ ॥
एतेषामपि वंशांश्च वंशानुचरितानि च ।
उपर्यधश्च ये लोका भूमेर्मित्रात्मजासते ।
तेषां संस्थां प्रमाणं च भूर्लोकस्य च वर्णय ॥ २६ ॥
पदरत्नावली
आसते तिष्ठन्ति । संस्थां व्यवस्थाम् ॥ २६ ॥
प्रकाशिका
भो मित्रात्मज मैत्रेय । संस्थां सन्निवेशम् ॥ २६ ॥
तिर्यङ्मानुषदेवानां सरीसृपपतत्रिणाम् ।
वद नः सर्गसंव्यूहं गर्भस्वेदद्विजोद्भिदाम् ॥ २७ ॥
पदरत्नावली
सरीसृपाः सर्पादयः सहस्रपादादयो वा । सर्गसंव्यूहं सृष्टिविस्तारम् । गर्भजस्वेदजोद्भिदामिति वा पाठः । अस्मिन् पक्षे पुनरुक्तिर्नास्ति ॥ २७ ॥
प्रकाशिका
सरीसृपाः सर्पादयः सहस्रपादादयो वा । सर्गसंव्यूहं सृष्टिविस्तारम् । गर्भस्वेद-द्विजोद्भिदां गर्भात् स्वेदाद् द्वाभ्यां गर्भाण्डाभ्यां च जाता गर्भस्वेदद्विजाः, भूमिमुद्भिद्य जाता उद्भिजस्तेषाम् ॥ २७ ॥
गुणावतारैर्विश्वस्य सर्गस्थित्यप्ययात्मनः ।
सृजतः श्रीनिवासस्य व्याचक्ष्वोदारविक्रमम् ॥ २८ ॥
पदरत्नावली
ब्रह्मान्तर्यामिणो विभूतीर्वदस्वेत्युक्तं विशेषतः प्रार्थयते– गुणावतारैरिति ॥ सर्गस्थित्यप्ययात्मनो विश्वस्य जगतोऽर्थे सृजत आत्मानमिति शेषः । ज्ञानादिगुणयुक्तावतारैः सत्वादिगुणनिमित्तावतारैर्वा । ‘यदा यदा हि धर्मस्य ग्लनिर्भवति भारत । अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ॥’ इत्यादेः । वीर्यादिगुणप्रकाशैर्वा । श्रीनिवासस्योदारविक्रमं प्रख्यातचरितं व्याचक्ष्वे-त्यन्वयः । ‘उदारो महति ख्याते’ इत्याभिधानम् । सर्वस्मादिदं श्रीहरिचरितं विस्तृत्य वदेत्यतो व्याचक्ष्वेति । श्रिया सह निवासोऽस्यास्तीति श्रीनिवासस्तस्य । अनेन द्वावेतौ नित्यमुक्ताविति श्रुतिः सूच्यते । श्रीर्निवसत्यस्मिन्निति वा । ‘अकर्तरि च कारके संज्ञायाम्’ इति घञ् ॥ २८ ॥
प्रकाशिका
गुणावतारैः सत्त्वादिगुणप्रवर्तकावतारैर्ब्रह्मविष्णुमहेश्वराख्यैः सर्गस्थित्यप्ययेष्वात्मा मनो यस्य स तथा तस्य । विश्वस्य विश्वं सृजतः । उदारविक्रममुत्कृष्टपराक्रमम् । व्याचक्ष्व विस्तृत्य वद ॥ २८ ॥
वर्णाश्रमविभागांश्च रूपशीलस्वभावतः ।
ऋषीणां जन्मकर्माणि वेदस्य च विकर्षणम् ।
यज्ञस्य च वितानानि योगस्य च पथः प्रभो ॥ २९ ॥
तात्पर्यम्
विकर्षणं विभागः ॥ २९ ॥ इति तृतीयतात्पर्ये अष्टमोऽध्यायः ॥ ८ ॥
पदरत्नावली
रूपतः शीलतः स्वभावतः । विकर्षणं विभागम् । यज्ञस्य वितानानि विस्तारान् । योगस्याष्टाङ्गयोगस्य पथः मार्गात् ॥ २९ ॥
प्रकाशिका
रूपशीलस्वभावतो रूपतो लिङ्गतः, शीलत आचारात्स्वभावतः शमादिधर्मेभ्यः ॥ वेदस्य चेत्येकवचनं समुदायापेक्षम् । विकर्षणमित्यस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ विकर्षणमिति । तथा च वेदानां शाखाभेदेन विभागमपि वदेति मूलार्थ इति भावः । वितानानि विस्तारान् योगस्याष्टाङ्ग-योगस्य पथो मार्गान् ॥ २९ ॥
नैष्कर्म्यस्य च सांख्यस्य तन्त्रं वा भगवत्स्मृतम् ।
पाषण्डपथवैषम्यं प्रतिलोमनिवेशनम् ॥ ३० ॥
पदरत्नावली
नैष्कर्म्यस्य सांख्यस्य मोक्षसाधनज्ञानस्य, स्मृतं प्रणीतं, तन्त्रं शास्त्रम् । पाषण्डपथवैषम्यं पाषण्डमार्गोत्पत्तिविशेषम् । ‘गुणानां विषमावस्था संभवः परिकीर्तितः । साम्यं तु प्रलयो ज्ञेय इति तत्त्वविदो विदुः ॥’ इति वचनात् । यद्वा पाषण्डपथस्य पापलिङ्गमार्गस्याधर्मस्य सकाशाद् बुद्धिवैषम्यम् । प्रतिलोमनिवेशनं ब्राह्मणादिकन्यकानां क्षत्रियादिविवाहलक्षणम् ॥ ३० ॥
प्रकाशिका
नैष्कर्म्यस्य मोक्षसाधनस्य साङ्ख्यस्य ज्ञानस्य साधनं तन्त्रं शास्त्रम् । भगवत्स्मृतं भगवत्प्रणीतं, पाषण्डपथवैषम्यं पाषण्डमार्गाद्वैलक्षण्यं मोक्षमार्गस्येति शेषः । पाषण्डिमार्गाद्वैषम्यं यस्प्रिन्प्रतिपादितं तत्तन्त्रमिति वा । प्रतिलोमनिवेशनं ब्राह्मणादिकन्यानां क्षत्रियादिभिर्विवाहकरणलक्षणम्
॥ ३० ॥
जीवस्य गतयो याश्च यावर्तीर्गुणकर्मजाः ।
धर्मार्थकाममोक्षाणां निमित्तान्यविरोधतः ॥ ३१ ॥
पदरत्नावली
यावतीर्यावत्यः, तावतीरिति शेषः । सत्वादिगुणकर्मभ्यो जाताः । निमित्तानि साधनानि । अविरोधतः परस्पराविरोधेन ॥ ३१ ॥
प्रकाशिका
यावतीर्यावत्यः । तावतीरिति शेषः । गुणकर्मजाः सत्त्वादिगुणानुसारिकर्मजाः । अविरोधतः परस्पराविरोधेन निमित्तानि साधनानि ॥ ३१ ॥
वार्ताया दण्डनीतेश्च श्रुतस्य च विधिं पृथक् ।
श्राद्धस्य च विधिं ब्रह्मन् पितॄणां सर्वमेव च ॥ ३२ ॥
पदरत्नावली
वार्ताया वाणिज्यादेः । दण्डनीतेर् अर्थशास्त्रोक्तस्य राजधर्मस्य । श्रुतस्य श्रुत्युक्तस्य । विधिं प्रकारम् ॥ ३२ ॥
प्रकाशिका
वार्ताया वाणिज्यादिसेवनोपायस्य । दण्डनीते राज्यपरिपालननीतेः । श्रुतस्य श्रुत्युक्तधर्मस्य च विधिं प्रकारम् ॥ ३२ ॥
ग्रहनक्षत्रताराणां कालावयवसंस्थितिम् ।
दानस्य तपसो वापि यच्चेष्टापूर्तयोः फलम् ॥ ३३ ॥
पदरत्नावली
ग्रहाः सूर्यादयः । नक्षत्राण्यश्विन्यादीनि । तारा ध्रुवादयः । कालावयवानां परमाण्वादीनां संस्थितिः । इष्टं यागादि । पूर्तं तडागखननादि ॥ ३३ ॥
प्रकाशिका
ग्रहाः सूर्यादयः । नक्षत्राण्यश्विन्यादीनि । तारा ध्रुवादय एतेषां संस्थितिमिति बुद्ध्या विविक्तेनान्वयः । कालावयवानां परमाण्वादीनां संस्थितिं लक्षणम् । इष्टं यागादि, पूर्तं तटाकादिकरणम् ॥ ३३ ॥
प्रवासस्थस्य यो धर्मो यश्च पुंस उतापदि ।
येन वा भगवांस्तुष्येद् धर्मयोनिर्जनार्दनः ॥ ३४ ॥
पदरत्नावली
धर्मात् पुण्याद् योनिराविर्भावलक्षणोत्पत्तिर्यस्य स तथा । धर्मस्य योनिः कारणं वा, लोकसंग्रहकत्वेन कर्तेत्यर्थः ॥ ३४ ॥
प्रकाशिका
धर्मयोनिर्धर्मप्रवर्तकः ॥ ३४ ॥
सम्प्रसीदति वा येषामेतदाख्याहि मेऽनघ ।
अनुव्रतानां शिष्याणां पुत्राणां च द्विजोत्तम ॥ ३५ ॥
अनापृष्टमपि ब्रूयुर्गुरवो दीनवत्सलाः ।
तत्त्वानां भगवस्तेषां कतिधा प्रतिसंक्रमः ॥ ३६ ॥
पदरत्नावली
प्रतिसंक्रमः प्रलयः ॥ ३६ ॥
प्रकाशिका
प्रतिसङ्क्रमः प्रलयः ॥ ३६ ॥
तत्रेमं क उपासीरन् क उ स्विदनुशेरते ।
पुरुषस्य च संस्थानं स्वरूपं वाऽपरस्य च ।
ज्ञानं च नैगमं यत् तद् गुरुशिष्यप्रयोजनम् ॥ ३७ ॥
पदरत्नावली
तत्र प्रलये इमं हरिम् । उना हृत्तापं सूचयति । प्रश्नप्रतिवचनपर्यन्तं सोऽस्तीति । ‘उ तापेऽव्ययमीशाने’ इति यादवः । चेत्यस्मिन्नर्थे वा । पुरुषस्यावतारसंस्थानम् । परस्य परमात्मनः स्वरूपम् । अवतारेष्वपि निजावताराः क इत्यर्थः । यद्वा पुरुषस्य जीवस्य एकत्वादिविषयम् । परस्य मुक्तस्य स्वरूपम् । ‘मुक्तिर्हित्वाऽन्यथा रूपं स्वरूपेण व्यवस्थितिः’ इति वक्ष्यति ॥ गुरुशिष्ययोः प्रयोजनं व्याख्यानश्रवणाभ्यां नैशित्यनिश्चयलक्षणम् । यद्वा गुरुशिष्यौ प्रयोजयतीति वा । नैगमं वेदान्तजन्यं ज्ञानम् ॥ ३७ ॥
प्रकाशिका
तत्र प्रलये इमं हरिम् । उशब्दश्चार्थे । पुरुषस्य पूर्णषड्गुणस्य हरेः संस्थानं व्यक्तिरूपेणावस्थानम् । अपरस्यास्वतन्त्रतत्त्वस्य स्वरूपं च । नैगमं वेदजन्यम् । गुरुशिष्ययोः प्रयोजनं यस्मात् ॥ ३७ ॥
निमित्तानि च तस्येह प्रोक्तान्यनघ सूरिभिः ।
स्वतो ज्ञानं कुतः पुंसां भक्तिर्वैराग्यमेव वा ॥ ३८ ॥
पदरत्नावली
इह शास्त्रे । तस्य ज्ञानस्य यानि निमित्तानि साधनानि तान्यपि । पुंसां स्वतः साधनानि विना ज्ञानं कुतो भवेत् ? भक्तिर्वैराग्यं वा कुतः, स्यातामिति शेषः ॥ ३८ ॥
प्रकाशिका
इह वेदे यानि सूरिभिः प्रोक्तानि तस्य ज्ञानस्य निमित्तानि तान्यपि ब्रूहि । ज्ञानं ज्ञानसाधनं भक्त्यादि । इदं चावश्यं वक्तव्यमेवेत्याशयेनाह ॥ स्वत इति । स्वत उपदेशाभावे । कुतो न कुतोऽपि ॥ ३८ ॥
एतान् मे पृच्छतः प्रश्नान् हरेः कर्मविवित्सया ।
ब्रूहि मेऽन्धस्य मित्रत्वादजया नष्टचक्षुषः ॥ ३९ ॥
पदरत्नावली
कर्म विवित्सया वेत्तुमिच्छया, पृच्छत इति शेषः । वक्तव्यत्वे निमित्तमाह– मित्रत्वादिति ॥ ‘आपत्सु मित्रं जानीयात्’ इति वचनात् । का तव आपदिति तत्राह– अजयेति ॥ अजया प्रकृत्या । पुरुषस्यान्धत्वादधिकापन्नास्तीत्यर्थः । अन्धकारेण नष्टचक्षुःशक्तेः पुंसो यथा मित्रः सूर्यः प्रयोजकस् तथा त्वमपीति भावेनोक्तम्– मित्रत्वादिति ॥ ३९ ॥
प्रकाशिका
प्रश्नान् प्रश्नविषयानर्थान् । अन्धत्वमुपपादयति ॥ अजयेति । प्रकृत्या नष्ट-माच्छादितं चक्षुर्ज्ञानं यस्य स तथा तस्य मे मित्रत्वादनिमित्तबन्धुत्वात् । सूर्यस्थानीयत्वादिति वा । यथाऽन्धस्य सूर्य उपकारकस्तथा मम त्वमिति भावः । अत्र मे प्रश्नान्मे मित्रत्वादित्यन्वयभेदान्न म इत्यस्य पौनरुक्त्यम् ॥ ३९ ॥
सर्वे वेदाश्च यज्ञाश्च तपोदानानि चानघ ।
जीवाभयप्रदानस्य न कुर्वीरन् कलामपि ॥ ४० ॥
पदरत्नावली
त्वदभीष्टत्वे कुत एतदेव वक्तव्यमन्यत् किं न स्यात् ? अत्राह– सर्व इति ॥ जीवाभयहेतुज्ञानप्रदानस्य कलां षोडशीम् । अपिना वेदादिज्ञातृप्रवक्तृपुरुषमन्तरेणेति सूचयति ॥ ४० ॥
प्रकाशिका
जीवाभयप्रदानस्य जीवानामभयं मोक्षो यस्मात्ज्ञानात्तत्प्रदानस्य यत्फलं तत्कलामपीति योज्यम् ॥ ४० ॥
श्रीशुक उवाच–
स इत्थमापृष्टपुराणकल्पः कुरुप्रधानेन मुनिप्रधानः ।
प्रवृद्धहर्षो भगवत्कथायां संचोदितस्तं प्रहसन्निवाह ॥ ४१ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे अष्टमोऽध्यायः ।
पदरत्नावली
शुकः पृष्टेन मैत्रेयेण पृष्टमेवोक्तमन्यद् वेति परीक्षितो हार्दां शङ्कां परिहरति– स इत्थमिति ॥ प्रश्नाख्यपुराणविषयः कल्पः विकल्पः । ‘कल्पो न्याये सुरद्रुमे विकल्पे च’ इति यादवः । बालकथाप्रश्नवद् बह्वी कथैव, सारभूता न भगवत्कथा पृष्टेति मन्दाशङ्कां परिहरति– भगवत्कथाया-मिति ॥ अनेन सर्वेऽपि प्रश्ना भगवत्कथाविषया इति सूचितं भवति ॥ ४१ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे अष्टमोऽध्यायः ॥
प्रकाशिका
कल्पो विकल्पः । प्रश्न इति यावत् । आपृष्टः पुराणविषयप्रश्नो यस्येत्यर्थः । भगवत्कथायामित्यनेन सर्वेऽपि प्रश्ना भगवद्विषया एवेति सूचयति । अत एव प्रवृद्धहर्षः प्रहसन्निव मन्दस्मितं कुर्वन् ॥ ४१ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीभागवतटिप्पण्यामष्टमोऽध्यायः ॥ ३-८ ॥