०७ सप्तमोऽध्यायः

इति तासां स्वशक्तीनामसतीनां समेत्य सः

अथ सप्तमोऽध्यायः

ऋषिरुवाच–

इति तासां स्वशक्तीनामसतीनां समेत्य सः ।

प्रसुप्तलोकतन्त्राणां निशम्य गिरमीश्वरः ॥ १ ॥

कालसंज्ञां (तदा देवीं) ततो मायां बिभ्रच्छक्तिमुरुक्रमः ।

त्रयोविंशतितत्त्वानां गणं युगपदाविशत् ॥ २ ॥

सोऽनुप्रविष्टो भगवान् चेष्टारूपेण तं गणम् ।

भिन्नं संयोजयामास सुप्तं कर्म प्रबोधयन् ॥ ३ ॥

तात्पर्यम्

‘शक्यत्वाच्छक्तयो विष्णोर्महदाद्या रमा तथा । स्वरूपशक्तिः शक्तित्वान्मुख्य-शक्तिर्हि सा यत’ इति ब्रह्मतर्के ॥ समेत्यासतीनाम् असमेतानां, प्रसुप्तलोकतन्त्राणाम् अनाविर्भूत-लोकसृष्टिशक्तीनाम् । ‘तनुते येन कार्यं यत्तन्त्रं साधनमुच्यते । कारणानां स्वशक्तिर्वा प्रधानं साधनं यतः’ इति ब्रह्मतर्के ॥

‘शब्दाद्या नभ आद्याश्च मनोयुक्तेन्द्रियाणि च ।

अहङ्कारो महांश्चैव त्रयोविंशतिको गणः ॥

देवतेन्द्रिययोरैक्यान्न पृथग्गणनं तयोः ।

प्रकृतिस्तु चतुर्विंशा पञ्चविंशो हरिः स्वयम् ॥

यदा जडांशस्वीकारो जीवस्तत्पञ्चविंशकः ।

षड्विंशको महाविष्णुः श्रिया वा सप्तविंशकः’ ॥ इति तत्त्वनिर्णये ।

त्रयोविंशति तत्त्वानि प्राविशद्रमया सह ॥

कालाख्यया स्वयं विष्णुः शक्यत्वाच्छक्तिरूपया ॥

‘सर्वचेष्टकरूपेण स्वसामर्थ्येन केशवः ।

तानि भिन्नानि तत्त्वानि योजयामास चांशतः’ इति च ॥ १-३ ॥

पदरत्नावली

अस्मिन्नध्याये तदनन्यत्वमारम्भणशब्दादिभ्य इत्यधिकरणार्थः प्रपञ्च्यत इत्यभि-प्रेत्यादौ हरेस्तत्त्वेषु प्रवेशं वक्ति– इतीति ॥ उरुक्रमस् त्रयोविंशतितत्त्वानां गणं युगपदाविशदित्यन्वयः । आकाशादिपञ्चभूतानि, शब्दादिपञ्चतन्मात्राः, श्रोत्रादिदशेन्द्रियाणि, मनोमहदहङ्कारा इति त्रयो-विंशतितत्त्वानि । तदुक्तम्– ‘शब्दाद्या नभआद्याश्च मनोयुक्तेन्द्रियाणि च । अहङ्कारो महांश्चैव त्रयो-विंशतिको गणः’ ॥ इति । देवतेन्द्रियाणामेकत्वविवक्षया पृथङ्नोक्तम् । ‘देवतेन्द्रिययोरैक्यान्न पृथक् गणनं तयोः’ इति । प्रकृतिश्चतुर्विंशा, तत्प्रवेशस्य पूर्वसिद्धत्वान्नोक्ता । हरिः ‘आविशद्’ पञ्चविंशत्त्वेन सूचितः । अत्रापि यदा जडांशस्वीकारस्तदा जीवः पञ्चविंशकः । विष्णुः श्रीया सह षड्विंशकः । सप्तविंशको वा । ‘यदा जडांशस्वीकारो जीवस्तत्पञ्चविंशकः’ इत्यादेः । इदं सर्वमुरुक्रमपदेन सूचितम् । प्रवेशकारणमाह– इतीति ॥ समेत्यासतीनाम् असमेतानां विश्लिष्टानां स्वशक्तीनां शक्यत्वात् स्वाधीन-त्वाच्छक्तिशब्दवाच्यानां प्रसुप्तलोकतन्त्राणाम् अनाविर्भूतलोकसृष्टिशक्तीनां प्रलीनलोकसृष्ट्युपकरणानां वा । ‘तनुते येन कार्यं यत् तन्त्रं साधनमुच्यते । कारणानां स्वशक्तिर्वा प्रधानं साधनं यतः ॥’ इति । तासा-मित्युक्तप्रकारां गिरं निशम्य । ‘शक्यत्वाच्छक्तयो विष्णोर्महदाद्या रमा तथा’ इति वचनात् शक्ति-शब्दवाच्यत्वं महदादीनां युक्तम् ॥

प्रवेशोऽपि रमया सहेति भावेनाह– कालसंज्ञामिति ॥ यदा प्रवेष्टुमैच्छत् तदा ‘त्रयोविंशति तत्त्वानि प्राविशद् रमया सह । कालाख्यया स्वयं विष्णुः शक्यत्वाच्छक्तिरूपया ॥’ इति वाक्यं मानम् । तत्र कारागृहप्रवेशवन्नायं प्रवेशः किन्तु स्वातन्त्र्येणेति द्योतनायेश्वर इति ॥

निलये निलीन इव किमयं तूष्णीमास्ते, किञ्चित् कर्माकर्षीद् वेति तत्राह– सोऽनुप्रविष्ट इति ॥ ‘सर्वचेष्टकरूपेण स्वसामर्थ्येन केशवः । तानि भिन्नानि तत्वानि योजयामास चांशतः ॥’ इत्यनेन चास्यार्थो दर्शितः । भिन्नं विश्लिष्टं प्रलये सुप्तं कर्म अप्रतिबुद्धशक्तिकं सृष्टिनिमित्तमदृष्टं प्रबोधयन् कार्योन्मुखं कुर्वन् । यद्यपीश्वरः स्वमनसैवाण्डं स्रष्टुं शक्तः, तथापि कर्त्रा पुरुषेण सोपकारणेन भाव्यमिति दर्शयितुं संश्लिष्टो गणः ॥ १-३ ॥

प्रकाशिका

स्तुत्या प्रसन्नस्य हरेः कृत्यं दर्शयति ॥ इतीति । अत्र स्वशक्तीनामित्यत्र शक्तिपदं महदादिवाचकमेव । अन्यथाऽतिप्रसङ्गात् । अतस्तत्र शक्तिशब्दप्रवृत्तौ निमित्तं प्रमाणेनैव दर्शयति । शक्यत्वादिति । महदाद्यास्तथा रमा इत्येताः शक्तयः शक्तिशब्दवाच्याः । शक्तित्वादिति भावव्युत्पत्तिप्रदर्शनम् । हिशब्दः प्रमाणप्रसिद्धिद्योतकः । यतः सा विष्णुस्वरूपशक्तिः प्रधानशक्तिर् अतस्तत्रान्यविषयशक्तित्वमसम्भावितमिति भावः । असतीनां समेत्येत्यनयोर्यथास्थितान्वयभ्रान्तिं वारयति ॥ समेत्येति । ततो लब्धमर्थं दर्शयति ॥ असमेतानामिति । विश्लिष्टानामित्यर्थः । प्रसुप्त-लोकतन्त्राणामित्यस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ प्रसुप्तेति । प्रसुप्तेत्यस्यार्थः ॥ अनाविर्भूतेति । लोकसृष्टीत्यनेन लोकपदं सृष्ट्युपलक्षणमिति सूचयति । शक्तीति तन्त्रशब्दार्थकथनम् । तथा च प्रसुप्तान्यनाविर्भूतानि लोकसृष्टिजनकानि तन्त्राणि शक्तयो यासां तास्तथोक्तास्तासामिति मूलार्थ इति भावः । तन्त्रशब्दस्य शक्तिवाचकत्वे निमित्तं प्रमाणेनैव दर्शयति ॥ तनुत इति । यद्यस्मात्स्वशक्तिः स्वरूपभूता शक्तिरेव तन्त्रमुच्यत इत्यर्थः । ननूक्तनिर्वचनेन सर्वकारणानां तन्त्रशब्दवाच्यत्वसम्भवात्कथं शक्तेरेव तन्त्रशब्दवाच्यत्वमित्यत आह ॥ प्रधानमिति । शक्त्यभावेनैव रासभादीनामसाधनत्वं दण्डादीनां तु तत्सद्भावेनैव साधनत्वमित्युपजीव्यत्वाच्छक्तिः प्रधानसाधनमत उक्तनिर्वचनेन प्रधानस्यैव ग्राह्यत्वेन शक्तेरेव तन्त्रशब्दमुख्यवाच्यत्वमिति भावः ॥

त्रयोविंशतितत्त्वानामित्यत्र विवक्षितं त्रयोविंशतितत्त्वं प्रमाणेनैव दर्शयति ॥ शब्दाद्या इति ॥ शब्दाद्याः पञ्च, नभ आद्याः पञ्च, मनोयुक्तेन्द्रियाण्येकादश, अहंकार एको, महांश्चैक इत्येवं त्रयो-विंशतिको गण इत्यर्थः । ननु पूर्वमुक्तानां वैकारिकदेवानामसङ्ग्रहान्न्यूनतेत्यत आह ॥ देवतेन्द्रिय-योरिति । तथा चेन्द्रियग्रहणेनैव देवा अपि गृहीता इति भावः । अनेनैव न्यायेन महदादिग्रहणेन तदभिमानिनामपि ग्रहणं द्रष्टव्यम् । नन्वेवमपि प्रकृतेर्हरेश्चासंग्रहान्न्यूनतेत्यत आह ॥ प्रकृतिरिति । प्रकृतिश्चेतनाचेतनरूपा । तुशब्दः सकलकार्यजनकत्वरूपविशेषसूचकः । स्वयं स्वयमेवात्राभिमन्यमानो जडो नास्तीति भावः । तथा च मूले उरुक्रमशब्देन हरेः कर्तृतया मायाशब्देनोभयविधप्रकृतेः सहकारि-तया पृथगुक्तत्वान्न तयोः कर्मतयोक्तत्रयोविंशतिगणान्तर्भाव इति भावः । नन्वेवमन्यत्र क्वचित्तत्त्वानां षड्विंशतिसंख्यायाः क्वचित्सप्तविंशतिसंख्यायाश्चोक्तत्वात्तद्विरोध इत्यतस्तस्याभिप्रायमाह ॥ यदेति । जडांशस्वीकारः प्रकृत्यादिजडांशमात्रस्वीकारः । जीवोऽभिमानी चेतनः । तत्तदा । जीवशब्देनाभि-मानिजीवमात्रग्रहणे त्वाह ॥ श्रिया वेति । तदा प्रकृत्यभिमानिनी श्रीः पृथगेव विवक्षितेति भावः ॥ इदानीं समग्रश्लोकार्थं प्रमाणेनैव विवृणोति ॥ त्रयोविंशतीति । तत्त्वानि चेतनाचेतनरूपाणि । मायां बिभ्रदित्यस्य तात्पर्यमाह ॥ रमया सहेति । कालसंज्ञामित्यस्य तात्पर्यम् । कालाख्ययेति । शक्ति-मित्यस्यार्थः ॥ शक्यत्वादिति ॥

सोऽनुप्रविष्ट इति श्लोकतात्पर्यमाह ॥ सर्वेति । भगवानित्यस्य तात्पर्यम् । स्वसामर्थ्येनेति । भिन्नानि विश्लिष्टान्यंशतोंऽशानुद्धृत्य ॥ ततश्चायं श्लोकत्रयार्थः ॥ स्वशक्तीनां महदादीनां समेत्या-सतीनामसमेतानां प्रसुप्तलोकतन्त्राणाम् अनाविर्भूतलोकसृष्टिजनकशक्तीनां मायां (देवीं) रमां बिभ्रत् । तया सहेति यावत् । ग्रन्थान्तरविरोधपिरहाराय कालसंज्ञामित्युक्तम् । शक्यत्वाच्छक्तिशब्दवाच्याम् । इदमपि ग्रन्थान्तरविरोधपरिहारायैवेति ज्ञातव्यम् । उरुक्रम उत्कृष्टपराक्रम इति युगपदनेकप्रवेशे सामर्थ्यं दर्शयति ॥ चेष्टारूपेण चेष्टाप्रदरूपेण भिन्नं विश्लिष्टं संयोजयामास । अंशानुद्धृत्येति शेषः । सुप्तं कार्यानुन्मुखं कर्म तेषां क्रियाशक्तिमदृष्टं वा प्रबोधयन् कार्योन्मुखं कुर्वन्निति ॥ १-३ ॥

प्रबुद्धकर्मा दैवेन त्रयोविंशतिको गणः ।

प्रेरितोऽजनयत् स्वाभिर्मात्राभिरधि पूरुषम् ॥ ४ ॥

तात्पर्यम्

मात्राभिरंशैः ॥ ४ ॥

पदरत्नावली

किं कार्यं चकारेति तत्राह– प्रबुद्धकर्मेति ॥ प्रबुद्धमुन्मुखीकृतं कर्मादृष्टं यस्य सः प्रबुद्धकर्मा, दैवेन हरिणा प्रविश्य प्रेरितस् त्रयोविंशतिको गणः स्वाभिर्मात्राभिरंशैः पुरुषस्य ब्रह्मणः शरीरत्वात् पुरुषशब्दवाच्यं ब्रह्माण्डमजनयदित्यन्वयः । अधिपूरुषमिति पाठे अधिगतः पुरुषसूक्तवाच्यो यस्मिंस्तत् तथेत्यर्थः । ‘ईश्वरो दैवमुद्दिष्टं सर्वस्यापि प्रभुत्वतः’ इत्यतः पूर्वोक्तेश्वरो दैवशब्देन गृह्यते ॥ ४ ॥

प्रकाशिका

प्रबुद्धं कार्योन्मुखीकृतं कर्म क्रियाशक्तिरदृष्टं वा यस्य स तथा । दैवेनेश्वरेण । मात्राभिरित्यस्य प्रकृतोपयुक्तमर्थं दर्शयति ॥ मात्राभिरिति । अधिपूरुषं पुरुषशब्दवाच्यं विराजमधिकृत्य वर्तमानं ब्रह्माण्डम् ॥ ४ ॥

परेण विशता स्वस्मिन् मात्रया विश्वसृग् गणः ।

चुक्षोभान्योन्यमासाद्य यस्मिन् लोकश्चराचरः ॥ ५ ॥

पदरत्नावली

एतदेव स्पष्टयति– परेणेति ॥ चुक्षोभ ब्रह्माण्डाकारेण विकृतवान् यस्मिन्नण्डे उत्पन्नः ॥ ५ ॥

प्रकाशिका

जननप्रकारमेवाह ॥ परेणेति । परेण परमात्मना । विश्वसृजां तत्त्वानां गणः । मात्रयांऽशेनान्योन्यमासाद्य विष्णुवीर्यरूपेण परिणामं प्राप्य चुक्षोभ ब्रह्माण्डाकारेण परिणत इत्यर्थः । यस्मिन् ब्रह्माण्डे ॥ ५ ॥

हिरण्मयः स पुरुषः सहस्रपरिवत्सरान् ।

आण्डकोश उवासाप्सु सर्वसत्त्वोपबृंहितः ॥ ६ ॥

पदरत्नावली

प्रथमं शरीरप्रवेशो हरेरनन्तरं भोगिनश्चेतनस्येति दर्शयितुकामस्य हरेरण्डप्रवेश-माचष्टे– हिरण्मय इति ॥ यस्य प्रेरणया तत्त्वगणोऽण्डमजनयत् स हिरण्मयो ज्ञानानन्दात्मककरचरणा-द्यवयववान् पुरुषाख्यो हरिराण्डकोशेऽप्सु अण्डकोशस्थोदके शेषपर्यङ्के सहस्त्रपरिवत्सरानुवासेत्यन्वयः । प्रलये सर्वचेतनानां परमचेतनेनैकीभाव इति शङ्कां निवारयति– सर्वेति ॥ सर्वसत्त्वैः सर्वजीवैरुपबृंहितो नत्वेकीभूतः । अनेन निर्देहानां चेतनानां प्रलयेऽवस्थानं कथमिति शङ्का निरस्ता । परमात्म-न्यवस्थानोपपत्तेः ॥ ६ ॥

प्रकाशिका

हिरण्मयो हिरण्मयब्रह्माण्डान्तराविर्भूतः स पुरुषः पुरुषनामाऽण्डकोशे विद्यमाना-स्वप्सु सर्वैः सत्त्वैर्जीवैरुपबृंहितः ॥ ६ ॥

स वै विश्वसृजां गर्भो दैवकर्मात्मशक्तिमान् ।

विबभाजाऽत्मनाऽत्मानमेकधा दशधा त्रिधा ॥ ७ ॥

तात्पर्यम्

‘ईश्वरो दैवमुद्दिष्टं सर्वस्यापि प्रभुत्वत’ इति च । आत्मशक्तिः प्रकृतिः ॥ ७ ॥

पदरत्नावली

सिसृक्षोर्हरेर्गर्भोदके बहुकालव्यापकेन निवासेन सृष्टिकथोपरतेति शङ्कां परीक्षितो हार्दां परिहरन्नण्डान्तर्वर्तिनो हरेर्विक्रमविशेषमाह-स वा इति ॥ यो गर्भोदके शेषपर्यङ्के शयानः स विश्वसृजां ब्रह्माण्डं सृष्टवतां तत्त्वानां गर्भोऽन्तर्यामी, (दैवं ब्रह्मादिदैवं तेष्वाधिक्यं) कर्म प्राण्यदृष्टं सुखदुःखभोगसाधनम् आत्मशक्तिः प्रकृतिर् नित्यमेतैर्युक्त्वाद् दैवकर्मात्मशक्तिमान्, ब्रह्मणो विराडाख्यं शरीरं सृष्ट्वा तत् प्रविश्य आत्मना परप्रेरणामन्तरेण स्वेच्छया आत्मानं तद्देहहृदयादिनियामकत्वेन एकधादिभेदेन विबभाज विभक्तवानित्यन्वयः । वा इत्यनेनोक्तार्थस्य ग्रन्थान्तरप्रसिद्धिद्योतकेन विश्वसृजां गर्भः कार्यात्मात्मानमण्डरूपमेकधादिभेदेन विबभाजेत्येतदपव्याख्यानं प्रत्याख्याति । स्वतोऽचेतनस्य कार्यकारणशक्त्यदर्शनादप्रसिद्धत्वाच्चेति ॥ ७ ॥

प्रकाशिका

स ब्रह्माण्डान्तःस्थितः । वैशब्दः प्रमाणप्रसिद्धिद्योतकः । विश्वसृजां तत्त्वानां गर्भो गर्भवान् उदरगतमहदादितत्त्वांश इत्यर्थः । दैवकर्मेत्यत्र विवक्षितं दैवशब्दार्थं प्रमाणेनैव दर्शयति ॥ ईश्वर इति । तर्ह्यात्मशक्तिरित्येतत्पुनरुक्तमित्यतस् तत्रापि विवक्षितमर्थमाह ॥ आत्मशक्तिरिति । तथा च दैवशक्तिः प्रभुत्वं, कर्मशक्तिः क्रियाशक्तिरात्मशक्तिः स्वभार्यारूपा शक्तिः प्रकृतिरेतत्त्रितययुक्त इत्यर्थः । विबभाज विभागं कृतवान् । आत्मना स्वेच्छयैवात्मानं स्वात्मानम् । ब्रह्मदेहे एकधा हृदयस्थरूपेण । दशधा दशविधप्राणनियामकतया । त्रिधाऽध्यात्मादिनियामकतया ॥ ७ ॥

एष ह्यशेषसत्त्वानामात्मांशः परमात्मनः ।

आद्योऽवतारो यत्रासौ भूतग्रामो विभाव्यते ॥ ८ ॥

साध्यात्मं साधिदैवं च साधिभूतमिति त्रिधा ।

विराट्प्राणो दशविध एकधा हृदयेन च ॥ ९ ॥

तात्पर्यम्

पुरुषेणाऽत्मभूतेनेति योऽण्डमसृजत्स एष इत्युक्तः ।

‘आद्योऽवतारो विष्णोस्तु पुरुषो नाम कीर्तितः ।

असृजत्स महत्तत्त्वं स एवाण्डं समाविशत्’ ॥

स ब्रह्मणो हृदिस्थत्वाद्धृदयं चेति कीर्त्यत’ इति च । ‘प्राणादिपञ्चकं चैव तथा नागादि-पञ्चकम् । सनागकूर्मकृकलदेवदत्तधनञ्जयाः । एवं तु दशधा प्राण अध्यात्मादि त्रिधाऽखिला’ इति च व्योमसंहितायाम् ॥ ८,९ ॥

पदरत्नावली

ननु विश्वसृजां गर्भो ऽण्डकोश एव भवेत्– ‘एष ह्यशेषसत्वानामात्मा’ इति सर्वप्राण्याधारत्वेन परामर्शात् तदर्थं सृष्टत्वाच्चेति तत्राह– एष हीति ॥ नायमण्डकोशस्य परामर्शः किन्तु ‘पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान्’ इति यः पुरुषाख्यो हरिरभिहितः स एष इति परामृश्यते । परमात्मनोंऽश इत्युक्तत्वादाद्योऽवतार इत्यवतारशब्देन विशेषितत्वाच्च । नह्यण्डकोशस्य हरेरवतारत्व-निर्देशः क्वचिद् दृष्टः श्रुतो वा । तथाचायमक्षरार्थः– यो महदादितत्त्वानि सृष्ट्वा तेषामण्डसृष्टाव-स्वातन्त्र्यं प्रकाश्यात्मानं तैः स्तावयित्वा तदनुग्रहाय सर्वचेष्टकरूपेण रमया सह प्रविश्य संयोज्य क्षोभयित्वा तदंशैरण्डं सृष्ट्वा तत् प्रविश्य अप्सु सहस्त्रपरिवत्सरानुषित्वा तदन्ते ब्रह्मणो विराट्शरीरं सृष्ट्वा तद्देहेन्द्रियादिनियामकत्वेनाविर्बभूव एष ह्यशेषसत्वानामात्मा नियामकः परमात्मनः स्वरूपांश आद्योऽ-वतारः, एतादृशमहिमेति शेषः । कोऽसाविति तात्पर्यात् श्रद्धातिशयजननार्थं पूर्वोक्तमेवाह– यत्रेति ॥ यत्र यस्मिन्नाद्यावतारे पुरुषनामि्न भूतग्रामो भूतसमूहो विभाव्यते सत्तां प्राप्य दृश्यते स इत्यर्थः । हिशब्दः ‘अद्योऽवतारो विष्णोस्तु पुरुषो नाम कीर्तितः’ इत्यादौ प्रसिद्धोऽयमर्थ इति दर्शयति ॥

एकधेत्याद्युक्तं विवृणोति– साध्यात्ममिति ॥ क्रमोल्लङ्घनं प्राधान्यदर्शनाय । अध्यात्मादित्रित्वस्य नित्यत्वात् । ‘द्वादशानीन्द्रियाण्याहुः’ इति श्रुतेरिन्द्रियाणां दशविधत्वस्य प्रायिकत्वात् । हृदयस्य ज्ञानविवक्षयैकत्वादन्तःकरणविवक्षया चातुर्विध्यात् । अध्यात्मसाहित्येन वर्तमानं रूपमित्यादि योज्यम् । विशेषेण राजनाद् विराट् प्रकृष्टचेष्टकत्वाद् प्राणनामा ब्रह्मान्तर्यामी । ब्रह्म दशेन्द्रियान्तस्थत्वेन दशविधः । ब्रह्म हृदयस्थरूपेणैकविधः । चशब्दस्त्वध्यात्मादिषु त्रिषु श्रोत्रादीन्द्रियेषु हृदये च प्रवेश-सम्भवाद्धरेः संख्याभेदः ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ इति श्रुतिसिद्धत्वाद् युज्यत इति दर्शयति । प्राणादिनागादिदशप्राणा अपि अध्यात्मादिभेदेन त्रिधा ज्ञातव्याः । तदुक्तम्– ‘प्राणादिपञ्चकं चैव तथा नागादिपञ्चकम् । एवं तु दशधा प्राण अध्यात्मादित्रिधाखिलाः ॥’ इति । अधिभूतमपि द्विधा प्रधान-वायुत्वगादिभेदेन । ‘प्राणः प्रथमजो यस्तु प्रधानो वायुरीरितः । त्वगात्माद्यास्तु तत्पुत्रा द्विधाभूत-मुदाहृतम् ॥’ इति वचनात् । इदं प्रसङ्गादुक्तम् ॥ ८,९ ॥

प्रकाशिका

ननु हिरण्मयः स पुरुष इति ब्रह्माण्डान्तराविर्भूतस्य पुरुषस्य पुरुषेणात्मभूतेनेति यो महत्तत्त्वजनकः पुरुष उक्तस्तस्माद्भेद एव स्थानभेदात्कार्यभेदाच्चेत्याशंकायामाह ॥ एष हीति । अनेन कथमुक्तशङ्कापरिहार इत्यतोऽस्याभिप्रायमाह ॥ पुरुषेणेति । पुरुषेणात्मभूतेनेति पूर्वाध्याये उक्तो यः पुरुषशब्दवाच्यो वासुदेवो महदादिसृष्टिद्वारांऽडमसृजत् । स एव एष इत्यनेनोक्तः परामृष्टः । हिरण्मयः स पुरुष इत्युक्तो ब्रह्माण्डान्तराविर्भूतः पुरुष इत्यर्थः । अतो न तयोर्भेदः शङ्कनीयः । स्थानभेदादिकं तु विशेषशक्त्योपपादनीयमिति भावः ॥ ततश्चायं मूलार्थः ॥ योऽशेषसत्त्वानां ब्रह्मादीनामात्माऽदानादि-कर्ता परमात्मनोंऽश आद्योऽवतारः पुरुषेणात्मभूतेनेति पूर्वमुक्तः । यत्र येन भूतग्रामो महदाद्यण्डपर्यन्त-तत्त्वसमूहो विशेषेण भाव्यत उत्पद्यते स एवैष हिरण्मयः स पुरुष इत्यादिनोक्तोऽतो न तयोर्भेदः शङ्कनीय इति । अनेन हिरण्मयः स पुरुष इत्यादिनोक्तः पुरुषो द्वितीयोऽवतार इति सूचयति । अत्र हिशब्दसूचितं प्रमाणं दर्शयति ॥ आद्योऽवतार इति । तुशब्दो विष्णोः प्रलयकालवृत्तित्वादि-विशेषसूचकः । अण्डं समाविशदण्डान्तराविर्भूतपुरुषशब्दवाच्योऽपि स एव नान्य इत्यर्थः । तथा चायं द्वितीयोऽवतार इति भावः । स एव ब्रह्माण्डान्तो विराड्देहं सृष्ट्वा तत्प्रेरणायान्तराविर्भूत इत्याशयेनाह ॥ स इति । ब्रह्मणो विराजः । ह्रदिस्थत्वादित्यनेन ह्रदि अयत इति ह्रदयशब्दनिर्वचनं सूचयति । चशब्दात्पुरुष इति कीर्त्यत इत्यपि ग्राह्यम् । तथा चायं तृतीयोऽवतार इति भावः । तथोक्तमन्यत्र । प्रथमं महतः स्रष्टृ द्वितीयं त्वण्डसंस्थितम् । तृतीयं देहिनां देह इति । अनेनोत्तरश्लोके एकधा हृदयेन चेति वक्ष्यमाणहृदयशब्दार्थो दर्शित इति ज्ञातव्यम् ॥

एकधा दशधा त्रिधेत्युक्तं विवृणोति । साध्यात्ममिति । त्रैविध्यं सर्वदैवसहितस्य परमात्मनो दशविधत्वं मुख्यप्राणतत्पुत्रसहितस्यैकविधत्वं केवलस्यैवेति । संख्यातारतम्यमभिप्रेत्योक्तक्रमवैपरीत्येन विवरणम् । पूर्वमेकधेत्यादिनिर्देशस्तु हर्यादीनां स्वरूपतारतम्यमभिप्रेत्येति ध्येयम् । अत्रैकधा हृदयेनेत्यस्य पूर्वोदाहृतप्रमाणेन व्याख्यातत्वात् तद्विहाय प्राणो दशविध इत्यस्य साध्यात्ममिति पूर्वार्धस्य च व्याख्यानं प्रमाणेनैव दर्शयति ॥ प्राणादीति । प्राणापानव्यानोदानसमानसंज्ञानां पञ्चानां वर्गः प्राणादिपञ्चकम् । नागकूर्मकृकलदेवदत्तधनञ्जयसंज्ञानां पञ्चानां वर्गो नागादिपञ्चकम् । प्राण एवैवं दशधेत्येवकारान्वयः । तुशब्दः प्राणशब्दवाच्यमुख्यत्वरूपविशेषसूचकः । अध्यात्मादिभेदेन त्रिधा येऽत्रोक्तास्तेऽखिलाः सर्वेऽपि तत्त्वाभिमानिनो विवक्षिता इत्यर्थः ॥ ततश्चायं श्लोकार्थः । विशेषेण राजत इति विराट् ब्रह्मदेहान्तर्गतः पुरुषः साध्यात्ममध्यात्मदेवैः सहितं तन्नियामकं रूपं प्रथमम् । साधिदैव-मधिदैवगतं देवनियामकं द्वितीयम् । साधिभूतमधिभूतदेवनियामकं तृतीयमिति । अनेनाभिप्रायेण त्रिधा उक्त इति शेषः । प्राणो दशविधप्राणनियामकतया दशरूपो दशविध उक्तः । हृदयेन हृदयगतेन हृदयनियामकेन रूपेण । तद्विवक्षयेति यावत् । एकधोक्त इत्यर्थः ॥ ८,९ ॥

स्मरन् विश्वसृजामीशो विज्ञापितमधोक्षजः ।

विराजमतपत् स्वेन तेजसैषां विवृद्धये ॥ १० ॥

पदरत्नावली

इदानीं तत्वानामस्माकमायतननिर्माणे शक्तिं देहीति यदुदितं तत्करणप्रकारमाह– स्मरन्निति ॥ अधोक्षजो विराजं ब्रह्मशरीरमन्तर्यामिरूपेण प्रविश्य स्वेन तेजसा वैराजाख्यं ब्रह्मशरीरम् एषाम् अग्न्यादिदेवानां यथा आयातनानि भवन्ति तथा विवृद्धये अतपद् अवकाशवदकरोदित्यन्वयः ॥ १० ॥

प्रकाशिका

अध्यात्मादिभेदमेव प्रपञ्चयितुमाह ॥ स्मरन्निति । विज्ञापितं यावद्बलिं ते जहरामेत्यादिकं विराजं ब्रह्मशरीरमतपद् एवं कर्तव्यमित्यालोचितवान् । स्वेन स्वरूपभूतेन तेजसा ज्ञानेनैषामग्न्यादिदेवानां विवृद्धये विशेषेण व्यापाराय ॥ १० ॥

अथ तस्याभितप्तस्य कतिचायतनानि ह ।

निरभिद्यन्त देवानां तानि मे गदतः शृणु ॥ ११ ॥

पदरत्नावली

तापकार्यमाह– अथेति ॥ देवानां यान्यायतनानि तस्याभितप्तस्य शरीरस्य सकाशान्निरभिद्यन्त विवृतानि, अथ गदतो मम सकाशात् तानि शृृण्वित्यन्वयः । कतिचेत्येकं पदम् । चशब्दश् चित्पर्यायः । हेत्यनेन ‘सोऽद्भ्य एव पुरुषं समुद्धृत्यामूर्च्छयत् तमभ्यतपत् तस्याभितप्तस्य मुखं निरभिद्यत’ इत्यादिसमाख्यां सूचयति ॥ ११ ॥

प्रकाशिका

अभितप्तस्यालोचितस्य तस्य शरीरस्य सकाशाद्देवानामग्न्यादीनामायतनान्याश्रय-भूतानीन्द्रियस्थानानि निरभिद्यन्तोत्पन्नानि । तानि मे मत्तो गदतो वदतः ॥ ११ ॥

तस्याग्निरास्यं निर्भिण्णं लोकपालोऽविशत् पदम् ।

वाचा स्वांशेन वक्तव्यं ययाऽसौ प्रतिपद्यते ॥ १२ ॥

पदरत्नावली

शरीरावयवेभ्यो मुखलक्षणावयवस्य प्राधान्यज्ञापनाय तदुत्पत्तिं तदभिमान्यभि-मानोत्पत्तिं चाह– तस्येति ॥ तस्य ब्रह्मान्तर्यामिणो विवक्षोर्हरेरास्यं मुखसंज्ञायतनं यन्निर्भिन्नं विवृत्तं तत् पदं स्थानं लोकपालोऽग्निर्वाचा वागिन्द्रियाख्यस्वांशेन सहाविशदित्यन्वयः । ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ इति श्रुतिः । यया वाचा येन वागिन्द्रियेण ब्रह्मशरीरवर्ती हरिर्वक्तव्यं वागिन्द्रियविषयं व्यवहाराख्यं प्रतिपद्यते विज्ञाय व्यवहरतीत्यन्वयः । उत्तरग्रन्था एवमेव व्याख्येयाः ॥ १२ ॥

प्रकाशिका

एवं सामान्यत उक्त्वा विशेषतोऽप्याह ॥ तस्याग्निरित्यादिना । तस्यालोचनं कुर्वतो हरेः सकाशात् । आस्यं मुखाख्यं स्थानं निर्भिन्नमुत्पन्नम् । तत्पदं स्थानमधिदैवं लोकपालोऽग्नि-रग्निनामा देवो, वाचा वागिन्द्रियेण सह वाङ्नामकेन स्वांशेन स्वरूपभूतांशेन तदिन्द्रियाभिमा-निरूपेणाविशत् । यया वाचाऽसौ विराट् वक्तव्यं व्यवहर्तव्यं शब्दं प्रतिपाद्यते प्राप्नोति । व्यवहरतीति यावत् । एवमेवोत्तरत्र व्याख्यानं द्रष्टव्यम् । अग्न्यादिकं प्रथमान्तनिर्दिष्टमधिदैवं, यद्वागिन्द्रियं तदभिमानिरूपं च तदध्यात्मम् । यच्च प्रतिपत्तव्यतयोक्तं शब्दादि तदधिभूतमिति ज्ञातव्यम् ॥ १२ ॥

निर्भिन्नं तालु वरुण्णं लोकपालोऽविशद्धरेः ।

जिह्वयांशेन च रसान् ययाऽसौ प्रतिपद्यते ॥ १३ ॥

पदरत्नावली

तालु जिह्वामूलम् । असौ हरिः प्रतिपद्यते जानाति ॥ १३ ॥

प्रकाशिका

तालु जिह्वामूलम् ॥ १३ ॥

निर्भिण्णे अश्विनौ नासे विष्णोराविशतां पदम् ।

घ्राणेनांशेन गन्धस्य प्रतिपत्तिर्यतो भवेत् ॥ १४ ॥

पदरत्नावली

नासे नासिके ॥ १४ ॥

प्रकाशिका

नासे गोलके ॥ १४ ॥

निर्भिण्णे अक्षिणी त्वष्टा लोकपालोऽविशत् प्रभोः (विभोः) ।

चक्षुषांऽशेन रूपाणां प्रतिपत्तिर्यतो भवेत् ॥ १५ ॥

प्रकाशिका

अक्षिणी गोलके । त्वष्टा सूर्यः ॥ १५ ॥

निर्भिण्णान्यथ(स्य) चर्माणि लोकपालोऽनिलोऽविशत् ।

प्राणेनांशेन संस्पर्शं येनासौ प्रतिपद्यते ॥ १६ ॥

तात्पर्यम्

‘प्राणः प्रथमजो यस्तु प्रधानो वायुरीरितः । त्वगात्माद्यास्तु तत्पुत्रा द्विधाभूत-मुदाहृतमि’ति तत्त्वनिर्णये ॥ १६ ॥

पदरत्नावली

चर्माणि त्वगिन्द्रियस्थानानि ॥ १६ ॥

प्रकाशिका

चर्माणि त्वगिन्द्रियस्थानानि । प्राणेन त्वगिन्द्रियेण सह तन्नामकेन स्वांशेन तदिन्द्रियाभिमानिरूपेणेत्यर्थः । अत्र त्वगभिमानित्वेनोक्तः पूर्वं दशविधत्वेनोक्तश्च प्राण एक एवेति प्रतीतिं प्रमाणेनैव परिहरति ॥ प्राण इति । तुशब्दोऽवधारणे । स प्रधानो वायुरेवेत्यन्वयः । त्वगात्मा त्वगिन्द्रियाभिमानी प्राण आद्यो येषां ते त्वगात्माद्याः । त्वगभिमानिप्राणः स्पर्शाद्यभिमानिनोऽपानादय इत्यर्थः । तुशब्दोऽवधारणे । तत्पुत्रा एव प्रधानवायुपुत्रा एवेत्यर्थः । भूतं भूतवाय्वभिमानिरूपं द्विधा प्रधानाप्रधानभेदेन द्वैविध्येन उदाहृतम् पुराणादावित्यर्थः । तथा च यो बहिर्भूतवायोः प्रधानाभिमानी मुख्यवायुः स एव प्रथमजः प्राणः पूर्वं दशविधतयोक्तः । यस्त्वमुख्यस्तदभिमानी प्रधानवायुपुत्रः स एव च त्वगभिमानिप्राणोऽत्र विवक्षित इति भावः ॥ १६ ॥

कर्णावस्य विनिर्भिण्णौ धिष्ण्यं स्वं विविशुर्दिशः ।

श्रोत्रेणांशेन शब्दस्य सिद्धिं येन प्रपद्यते ॥ १७ ॥

प्रकाशिका

दिशो यममित्रावरुणकुबेराः । ‘‘यमश्च मित्रावरुणकुबेरश्च दिगीश्वरा’’ इत्यैतरेय-भाष्योक्तेः । सिद्धिं ज्ञानम् ॥ १७ ॥

त्वचमस्य विनिर्भिण्णां विविशुर्धिष्ण्यमोषधीः ।

अंशेन रोमभिः कण्डुं यैरसौ प्रतिपद्यते ॥ १८ ॥

पदरत्नावली

ओषधीरोषध्यभिमानिदेवताः । अस्य । हरेः । रोमभिरंशेन ॥ १८ ॥

प्रकाशिका

त्वगिन्द्रियस्याभिमान्यन्तरं विषयान्तरं च दर्शयति ॥ त्वचमस्येति । त्वचं चर्म । ओषधीरोषधयः । अधिदैवमोषधिदेवताः पारिजाताद्या इत्यर्थः । रोमभिरिति । रोमनामकत्वेन त्वगिन्द्रियेणेत्यर्थः । अंशेनेति । रोमनामकेणैव त्वगिन्द्रियाभिमानिरूपेणैवेत्यर्थः । कण्डंु तल्लक्षणं विषयम्

॥ १८ ॥

मेढ्रं तस्य विनिर्भिण्णं स्वधिष्ण्यं क उपाविशत् ।

रेतसांऽशेन येनासावानन्दं प्रतिपद्यते ॥ १९ ॥

पदरत्नावली

कः प्रजापतिः । रेतसा गुह्येन्द्रियेण आनन्दं मैथुनोत्थसुखम् ॥ १९ ॥

प्रकाशिका

मेढ्रं गुह्येन्द्रियस्थानम् । को दक्षप्रजापतिः । रेतसा गुह्येन्द्रियेण सह तन्नामकेन दक्षस्य अंशेन आनन्दं मैथुनसुखम् ॥ १९ ॥

गुदं पुंसो विनिर्भिण्णं मित्रो लोकेश आविशत् ।

पायुनांऽशेन येनासौ विसर्गं प्रतिपद्यते ॥ २० ॥

पदरत्नावली

विसर्गं धातुमलोत्सर्जनादिक्रियाम् ॥ २० ॥

प्रकाशिका

पुंसः पुरुषनामकाद्धरेर्विसर्गं मलोत्सर्गम् ॥ २० ॥

हस्तावस्य विनिर्भिण्णाविन्द्रः स्वर्पतिराविशत् ।

वार्तयांऽशेन पुरुषो यया वृत्तिं प्रपद्यते ॥ २१ ॥

पदरत्नावली

‘इन्द्रो वृषात्मशक्रार्केषु’ इत्यभिधानादिन्द्रशब्दस्य पुरन्दरादन्यविषयत्वनिरासाय स्वर्पतिरित्युक्तम् । वार्तया हस्तेन्द्रियेणांशेन । वृत्तिमादानाख्याम् ॥ २१ ॥

प्रकाशिका

स्वर्पतिः स्वर्गस्य पतिः । वार्तया, हस्तेन्द्रियेण पुरुषो विराट् वृत्तिमादानादिरूपां क्रियाम् ॥ २१ ॥

पादावस्य विनिर्भिण्णौ लोकेशो विष्णुराविशत् ।

गत्या स्वांशेन पुरुषो यया प्राप्यं प्रपद्यते ॥ २२ ॥

पदरत्नावली

गत्या गतिसाधनपादेन्द्रियेण ॥ २२ ॥

प्रकाशिका

विष्णुरुपेन्द्रः । अत्र पाददेवो जयन्तो विष्णुस्तु तदाश्रयतयैवोक्तो न तत्त्वाभि-मानितयेत्यनुसन्धेयम् । गत्या गतिसाधनपादरूपेन्द्रियेण प्राप्यं गम्यं प्रपद्यते गमनरूपक्रियां करोतीत्यर्थः

॥ २२ ॥

हृदयं चास्य निर्भिन्नं चन्द्रमा धिष्ण्यमाविशत् ।

मनसांशेन येनासौ विक्रियां प्रतिपद्यते ॥ २३ ॥

पदरत्नावली

हृदयं मनोनिवासस्थानम् । मनसेन्द्रियेण । विक्रियां सङ्कल्पविकल्परूपाम्

॥ २३ ॥

प्रकाशिका

हृदयं मनसो निवासस्थानम् । मनसेन्द्रियेण । विक्रियां सङ्कल्पविकल्परूपाम्

॥ २३ ॥

आत्मानं चास्य निर्भिन्नं वाचस्पतिरुपाविशत् ।

बुद्ध्या स्वांशेन येनासौ निश्चयं प्रतिपद्यते ॥ २४ ॥

अहं चास्य विनिर्भिन्नमभिमानोऽविशत् पदम् ।

कर्त्रा स्वांशेन येनासौ कर्तव्यं प्रतिपद्यते ॥ २५ ॥

सत्त्वं चास्य विनिर्भिन्नं महान् धिष्ण्यमुपाविशत् ।

चित्तेनांशेन येनासौ विज्ञानं प्रतिपद्यते ॥ २६ ॥

तात्पर्यम्

‘अहं सत्वमि’ति द्वेधा ब्रह्मनाड्या अवान्तरम् । कर्तृनामा ह्यहङ्कारस्त्वहंनाड्यां व्यवस्थितः । सत्त्वनाड्यां तथा चित्तमभिमानो हरस्तथा । अहंनाड्यां सत्वनाड्यां ब्रह्मा चैव व्यवस्थितः । ‘आत्मनाड्यां तथा बुद्धिस्तत्रस्थश्च बृहस्पति’रिति ॥ २६ ॥

पदरत्नावली

आत्मानम् आत्मनाडीविशेषमुत्पन्नं वाचस्पतिर्बृहस्पतिर् बुद्ध्या स्वांशेनाविशत् । यया बुद्ध्या असौ हरिनियतो ब्रह्मा निश्चयं प्राप्नोति । ‘आत्मनाड्यां तथा बुद्धिस्तत्रस्थश्च बृहस्पतिः’ इत्यत आत्मशब्देनात्र नाड्येवोच्यते ॥

अस्य ब्रह्मणो देहस्य निर्भिन्नमहं नाम नाडीविशेषम् अभिानोऽहङ्कारो हरेः पदं स्वस्थानमविशत् । कर्त्रा स्वांशेन अहं कर्तेत्यभिमानेन सह । येन कर्त्रंशेन ॥

महान् ब्रह्मा सत्वं सत्वनाडीविशेषं धिष्ण्यं स्वस्थानं चितेनाविशत् । असौ ब्रह्मान्तर्यामी ब्रह्मा च । ‘शतं चैकाच हृदयस्य नाड्यः’ इति श्रुतेर् बहुत्वान्नाडीनां किमेते विशिष्योच्यन्त इति चेदुच्यते ब्रह्मनाड्या अवान्तरत्वज्ञापनाय एतयोर्मुख्याभिमानी ब्रह्मा चेति । तदुक्तम्– ‘अहं सत्वमिति द्विधा ब्रह्मनाड्या अवान्तरम् । कर्तृनामा त्वहङ्कारस्त्वहन्नाड्यां व्यवस्थितः । सत्वनाड्यां तथा चित्तमभिमानो हरस्तथा । अहन्नाड्यां सत्वनाड्यां ब्रह्मा चैव व्यवस्थितः ॥’ इति ॥ २४-२६ ॥

प्रकाशिका

आत्मानं चेत्यादिश्लोकत्रयोक्तं गोलकेन्द्रियाभिमानिनां स्वरूपं प्रमाणेन दर्शयति ॥ अहंसत्वमिति । अवान्तरं गोलकतया विवक्षितमिति शेषः । अनेनाहं चास्य सत्त्वं चास्येत्यत्राहं-सत्त्वशब्दयोरर्थ उक्त इति ज्ञातव्यम् । कर्त्रेत्यस्य तात्पर्यं कर्तृनामा त्विति । कर्तृत्वाभिमतिजनकत्वा-त्कर्तृ नामाऽहंकारः । तुशब्दः प्रसिद्धाहंकारतत्त्वभिन्नत्वरूपविशेषार्थः । तथा चायमहंकारो मनः प्रभेदरूपेन्द्रियमित्यर्थः । चित्तेनेत्यस्य तात्पर्यं सत्त्वनाड्यामिति । चित्तं मनःप्रभेदरूपेन्द्रियम् । उभयत्राभिमानिनौ वक्तुं तावदभिमान इत्येतदनूद्य व्याख्याति ॥ अभिमान इति । अहंकाराभिमानित्वा-दिति भावः । तथाशब्दः समुच्चये । अहं नाड्यां व्यवस्थित इत्यर्थः । इदानीं महानित्यस्य तात्पर्यं दर्शयन्नाह ॥ सत्त्वनाड्यामिति । सत्त्वनाड्यामेवेति सम्बन्धः । चशब्दः पूर्वोक्तेन्द्रियसमुच्चयार्थः । आत्मानं चेत्यस्य तात्पर्यम् आत्मनाड्यामिति । बुद्ध्येत्यस्य तात्पर्यम् बुद्धिरिति । बुद्धिर्मनः प्रभेद-रूपमिन्द्रियम् । तत्रस्थ आत्मनाडीस्थः । तथाचशब्दौ परस्परसमुच्चये । वाचस्पतिशब्दव्याख्यानम् । बृहस्पतिरिति । अत्राहं सत्त्वनाड्योर्ब्रह्मनाडीप्रभेदरूपत्वज्ञापनाय क्रमोल्लङ्घनमिति ज्ञातव्यम् । ततश्चायं श्लोकत्रयार्थः । आत्मानमात्मनामकनाडीविशेषम् । वाचस्पतिर्बृहस्पतिः । बुद्ध्या बुद्धिनामकेन मनः-प्रभेदरूपेन्द्रियेण । स्वांशेन तन्नामकेन तदिन्द्रियाभिमानिरूपेण । निश्चयमित्थमेवेत्यवधारणरूपं ज्ञानम् ।

अहमहंनामकनाडीविशेषम् । अभिमानो ऽहङ्कारपदवाच्यो रुद्रः । कर्त्रा अहंकारनामक-मनःप्रभेदरूपेन्द्रियेण । कर्तव्यं प्रतिपद्यते इदं कर्तव्यमिति जानातीत्यर्थः । सत्त्वं सत्त्वनामकनाडी-विशेषम् । महान्महत्तत्त्वाभिमानी ब्रह्मा धिष्ण्यं स्थानं, चित्तेन चित्तनामकमनःप्रभेदरूपेन्द्रियेण । विज्ञानं ज्ञानविशेषम् ॥ २४-२६ ॥

शीर्ष्णोऽस्य द्यौर्धरा पद्भ्यां खं नाभेरुदपद्यत ।

गुणानां वृत्तयो येषु प्रतीयन्ते सुरादयः ॥ २७ ॥

पदरत्नावली

शीर्ष्णः शिरसः, धरा भूमिः, खमन्तरिक्षं, येषु प्राणिषु सत्वादिगुणानां वृत्तयः सुखकर्मप्रमादलक्षणा दृश्यन्ते, तेषु लोकेषु सुरासुरादयो वसन्तीति शेषः । आदिशब्देन मनुष्या रुद्रपार्षदगणा गृह्यन्ते ॥ २७ ॥

प्रकाशिका

इदानीमस्मदादीनां लोकोत्पत्तिमाह ॥ शीर्ष्ण इति । शिरस इत्यर्थः । खमन्त-रिक्षम् । गुणानां सत्त्वादीनां वृत्तयः कार्यभूतधर्मवन्तो येषु लोकेषु ॥ २७ ॥

औत्पत्तिकेन सत्त्वेन दिवं देवाः प्रपेदिरे ।

धरां रजःस्वभावेन पणयो ये च ताननु ॥ २८ ॥

पदरत्नावली

एतदेव विवृणोति– औत्पत्तिकेनेति ॥ औत्पत्तिकेन स्वाभाविकेन सत्वेन स्वाभाविकसात्विकत्वात् । पणयो हानोपादानव्यवहारं कुर्वन्तो मनुष्याः । ये च तान् पणीननु अनुगतास्तेऽपि ॥ २८ ॥

प्रकाशिका

एतदेव विवृणोति ॥ औत्पत्तिकेनेति । उत्पत्तिमारभ्य स्थितेनेत्यर्थः । सत्त्वेन सात्विकधर्मेण रजःस्वभावेन राजसधर्मेण । पणन्ते वागादिना व्यवहरन्तीति पणयो मनुष्यास्ताननु तदुपकरणभूता ये वागादयस्तेऽपि धरां प्रपेदिरे ॥ २८ ॥

तार्तीयेन स्वभावेन भगवन्नाभिमाश्रिताः ।

उभयोरन्तरं व्योम ये रुद्रपार्षदा गणाः ॥ २९ ॥

पदरत्नावली

तार्तियेन तामसेन । स्वभावेन भगवन्नाभिमन्तरिक्षमाश्रिता रुद्रपार्षदगणा उभयोर्द्यावापृथिव्योर् अन्तरं मध्यं व्योम, आश्रिता इति शेषः ॥ २९ ॥

प्रकाशिका

तार्तीयेन तामसेन । स्वभावेन स्वधर्मेणोभयोर्द्यावापृथिव्योरन्तरं मध्यं व्योमान्तरिक्षं तदेव भगवन्नाभिस्तामाश्रिता रुद्रपार्षदानां भूतादीनां गणाः ॥ २९ ॥

मुखतोऽवर्तत ब्रह्म पुरुषस्य कुरूद्वह ।

यत्रोन्मुखत्वाद् वर्णानां मुख्योऽभूद् ब्राह्मणो गुरुः ॥ ३० ॥

बाहुभ्योऽवर्तत क्षत्रं क्षत्रियस्तदनुव्रतः ।

यो जातस्त्रायते वर्णान् पुरुषान् कण्टकक्षतात् ॥ ३१ ॥

विशोऽवर्तन्त तस्योर्वोर्लोकवृत्तिकरीर्विभोः ।

वैश्यस्तदुद्भवो वार्तां नृणां यः समवर्तयत् ॥ ३२ ॥

पद्भ्यां भगवतो जज्ञे शुश्रूषाकर्मसिद्धये ।

तस्यां जातः पुरा शूद्रो यद्वृत्त्या तुष्यते हरिः ॥ ३३ ॥

तात्पर्यम्

‘ब्रह्माभिमानी तु भृगुरजनि ब्रह्मणो मुखात् । क्षत्राभिमानी तु मनुर्ब्रह्म-बाह्वोरजायत । ऊर्वोर्विडभिमानी च वास्तुः पादात्कृतिस्तथा । एते पूर्वं हरेर्जाता ब्रह्मण-स्तदनन्तरम् । एवं रुद्राच्च वायोश्च तदन्तस्थहरेर्यत’ इति षाड्गुण्ये ॥ ३३ ॥

पदरत्नावली

इदानीं वर्णोत्पत्तिं तदभिमान्युत्पत्तिं च वक्ति– मुखत इति ॥ पुरुषस्य ब्रह्मान्त-र्यामिणो मुखतो ब्रह्म ब्राह्मणजातिरवर्तत । अत्र ब्रह्मशब्देन ब्राह्मणजातिस् तदुत्पन्ना ब्राह्मणा-स्तज्जात्यभिमानिनश्च उच्यन्त इति ज्ञापनाय ब्रह्मेत्युक्तम् । उत्तरत्राप्येवमेवानुसन्धेयम् । ‘ब्रह्माभिमानी तु भृगुरजनि ब्रह्मणो मुखात् । क्षत्राभिमानी तु मनुर्ब्रह्मबाह्वोरजायत ॥’ इत्यादिवचनेनाश्रुतव्याख्येय-मित्यपवादं निवारयति । यत्र हरावुन्मुखत्वाद् ब्राह्मणस्त्रिवर्णानां मुख्यो गुरुरभवत् । तस्य पुरुषस्यैव तत्त्वोपदेशात् तत्त्वज्ञानदानेनाविद्यादिदोषनिगरणाच्च गुरुरित्यर्थः । ‘‘गृ शब्दे’’ ‘‘गृ निगरण’’ इति धातुः ॥

तं ब्राह्मणमनुव्रतः । क्षत्रशब्दं निर्वक्ति– य इति ॥ कण्टकाः शत्रवः । ‘वेणौ द्रुमाङ्गेरोमाञ्चे क्षुद्रशत्रौ च कण्टकः’ इति यादवः । क्षतात् त्रायत इति क्षत्रम् ॥

विशो वैश्यजातयस् तदभिमानी वास्तुश्च । वार्तां कृषिगोरक्षणादिजीवनम् । ‘आजीवो जीविका वार्ता वृत्तिर्वर्तनजीवने । स्त्रियां कृषिः पाशुपाल्यं वाणिज्यं चेति वृत्तयः ॥’ इत्यमरः । विष्णु-ब्रह्मवायुरुद्रेभ्यो जातत्वाद् विश इति बहुवचनम् । ‘एते पूर्वं हरेर्जाता ब्रह्मणस्तदनन्तरम्’ इत्यादेः । विरिञ्चादिभ्यो जन्म चेत् ‘यद् वृत्त्या तुष्यते हरिः’ इत्येतत् कथं युक्तमिति चेन्न तदन्तस्थस्य हरेर्जातत्वात् । ‘तदन्तस्थहरेर्जनिः’ इति च ॥

शूद्रजात्यभिमानी कृतिः कृतिनामा । शुश्रूषाकर्मसिद्धये शुश्रूषाख्यकर्मसाधनाय । पुरा आदिसृष्टौ । यस्य शुश्रूषाख्यया वृत्त्या ॥ ३०-३३ ॥

प्रकाशिका

इदानीं ब्राह्मणादिवर्णोत्पत्तिमपि तस्मादाह ॥ मुखत इति । अत्र श्लोकचतुष्टये ब्राह्मणादीनां चतुर्णामुत्पत्तिः कथ्यते । एते ब्राह्मणादयः । विनिगमकाभावात्के ग्राह्या इत्याकांक्षायां तान्प्रमाणेनैव दर्शयति ॥ ब्रह्मेति । ब्राह्मणजात्यभिमानीत्यर्थः । एवं क्षत्राभिमानी विडभिमानीत्येतदपि व्याख्येयम् । तुशब्दश्चशब्दार्थः । मनुः स्वायम्भुवः । वास्तुस्तन्नामको देवः । कृतिः शूद्रजात्यभिमानी देवः । अजायतेति सम्बन्धः । ननु मूले पुरुषस्य भगवत, इत्यादिवचनाद्वर्णोत्पत्तिर्भगवत एवोच्यतेऽत्र तु ब्रह्मणोऽतो विरोध इत्यतः स्वयमेव विरोधं परिहरति ॥ एत इति । तथा चानन्तरिकीमुत्पत्तिमपेक्ष्य ब्रह्मणो मुखादित्यादिकमत्रोक्तमतो न विरोध इत्याशयः । एवं क्वचिद्रुद्राद्वायोश्चोत्पत्तिवचनस्याप्यानन्त-रिक्युत्पत्तिरेवार्थो न प्राथमिकीत्याह ॥ एवमिति । वायोश्च तदनन्तरं ब्रह्मण उत्पत्त्यनन्तरं जाता इत्यर्थः । प्रकारान्तरेणापि विरोधं परिहरति ॥ तदन्तस्थेति । तेषां ब्रह्मादीनामन्तस्थाद्धरेर्यतो जाताः । अतोऽपि न विरोध इति शेषः । अधिष्ठानविवक्षया सर्वत्र हरिजातत्वस्यैवाभिधानादिति भावः ॥ ततश्चायं श्लोकचतुष्टयार्थः । अत्र यज्जाताः सहवृत्तिभिरिति वक्ष्यमाणत्वाद्वर्णानां तद्वृत्तीनां चोत्पत्ति-रुच्यते । पुरुषस्य ब्रह्मदेहगतस्य । मुखतो ब्रह्म ब्राह्मणजात्यभिमानी भृगुर्वेदश्चावर्तत प्रवृत्तम् । वेदस्य ब्राह्मणवृत्तिमुपपादयति ॥ यत्रेति । यत्र वेदे विषये ब्राह्मणो मुख्यगुरुभूतः । कुत उन्मुखत्वान्मुखा-दुद्भूतत्वान्मुखादुत्पन्नत्वान् मुखव्यापारमेव तस्य वृत्तिं कृतवानिति भावः । मुख्य इत्यनेनापदि क्षत्रियादेरमुख्यं गुरुत्वमस्तीति सूचयति । अनेनाध्यापितो वेद एव ब्राह्मणस्य वृत्तिरित्युपपादितमिति ज्ञातव्यम् । ब्रह्म अणतीति ब्राह्मण इति निर्वचनमपि सूचितम् ॥ बाहुभ्य इति । पुरुषस्येति वर्तते । क्षत्रियाभिमानी मनुः क्षतात्त्राणरूपवृत्तिश्च क्षत्रियस् तत् क्षतात्त्राणं पालनम् । अनुव्रतोऽनुसृतः । अनेन क्षत्रमनुसृत्य वर्तत इति क्षत्रिय इति निर्वचनं सूचयति । क्षत्रशब्दोक्तां वृत्तिं क्षत्रियस्य दर्शयति ॥ य इति । बाहुभ्य इति वर्तते । बाहुभ्यो जातत्वादेवेति हेतुसूचनायायमनुवादः । कण्टकाः शत्रवः । तथा च बाहुजातत्वाद्बाहुव्यापारं क्षतात्त्राणं क्षत्रियाणां वृत्तिं कृतवानिति भावः । विशो विडभिमानी वास्तुः कृष्यादिव्यापाराश्च । लोकस्य वृत्तिकरीर्जीविकाहेतवः । आद्यव्याख्याने जातौ बहुवचनम् । कृष्यादि-करणरूपां वृत्तिं वैश्ये दर्शयति ॥ वैश्य इति । तदुद्भव ऊरूद्भव इत्यनुवादः पूर्ववद्धेतुसूचनाय । करोर्वोः सामीप्यात्करोद्भवं व्यापारमूरुजस्य वृत्तिं कृतवानिति । वार्तां कृष्यादिरूपिकां जीविकाम् । विट्शब्दोक्त-कृष्यादिव्यापारकर्तृत्वाद्वैश्य इति निर्वचनमत्र ज्ञातव्यम् । शुश्रूषा त्रिवर्णानां सेवा, किमर्थं कर्मसिद्धये । अत्र कर्मशब्देन शूद्रजन्मापादकमदृष्टं ग्राह्यम् । तस्य सिद्धये साफल्याय । तस्यां तदर्थम् । तां कर्तुमिति यावत् । पुरा पूर्वं शूद्रस्तज्जात्यभिमानी कृतिर्भगवतः पद्भ्यां जात इत्यर्थः । अनेन पादोद्भवत्वा-त्पादोद्भवं कर्म सेवाख्यं तस्य वृत्तिं कृतवानित्यपि ज्ञातव्यम् । ननु शुश्रूषया कथं शूद्रजन्मापादकादृष्टस्य साफल्यमित्यत आह ॥ यद्वृत्त्येति । यस्य शूद्रस्य वृत्त्या शुश्रूषारूपया भगवदनुसन्धानेन कृतया हरिस्तुष्यते । हरितोषजनकत्वमेव कर्मणां साफल्यमिति भावः । अनेन शुचा शूद्रजन्मप्राप्तोऽस्मीति शोकेन द्रवति सेवां करोतीति शूद्र इति निर्वचनं सूचितं ज्ञातव्यम् ॥ ३०-३३ ॥

एते वर्णाः स्वधर्मेण यजन्ते स्वगुरुं हरिम् ।

श्रद्धयाऽत्मविशुद्ध्यर्थं यज्जाताः सह वृत्तिभिः ॥ ३४ ॥

पदरत्नावली

एतेषां स्वस्ववर्णविहितकर्मैव श्रीहरियजनात्मकत्वेन तत्तुष्टिकरं नान्यदिति भावेनाह– एत इति ॥ तत्र हेतुमाह– यज्जाता इति ॥ स्वस्वविहितवृत्तिभिः सह विष्णोर्जाता यद् यस्मात् तस्मात् पितृत्वाद् गुरुत्वादिष्टदेवतात्वात् स्वमित्वाच्च । आत्मविशुद्ध्यर्थम् अन्तःकरणनैर्मल्याय ॥ ३४ ॥

प्रकाशिका

तुष्यते हरिरित्युपलक्षणया सर्ववर्णवृत्त्या हरिरेवेज्य इति सूचितम् । तत्कुतः किमर्थं चेत्यत आह ॥ एत इति । स्वधर्मेण स्ववृत्त्या । स्वगुरुमित्यनेन गुरुत्वादिहेतुरुक्तः । आत्मनोऽ-न्तःकरणस्य विशुद्ध्यर्थमित्यवान्तरफलनिरूपणम् । यद्यस्माद्वृत्तिभिर्जीविकाभिः सह जाता इत्यनेन पितृत्वात्पतित्वाच्चेति हेतुद्वयमुक्तमिति ज्ञातव्यम् ॥ ३४ ॥

एतत् क्षत्तर्भगवतो दैवकर्मात्मरूपिणः ।

कः श्रद्दध्यादुदाहर्तुं योगमायाबलोदयम् ॥ ३५ ॥

तात्पर्यम्

‘अधिकत्वाद्देवशब्दो दैवतेष्वधिको यतः । दैवं हरिः कर्ममूलं कृतिरित्येव भण्यते । व्याप्तत्वादात्मशब्दश्च श्रीपतित्वाच्च माधव’ इति च ॥ ३५ ॥

पदरत्नावली

एवंविधस्य हरेर्माहात्म्यं पुरुषायुषशतेनापि वर्णयितुं न कस्यापि शक्तिरित्याह– एतदिति ॥ भगवानेवमतीतानागतवर्तमानानन्तब्रह्माण्डानां निर्मातेति यतोऽतो दैवकर्मात्मरूपिणः देवेष्वधिकत्वाद्दैवं, सर्वस्य मूलकारणत्वात् कर्म, व्याप्तत्वदात्मा, एवंविधं रूपं स्वभावोऽस्यास्तीति । ‘रूपं शब्दे पशौ श्लोके ग्रन्थावृत्तौ हितादिषु । सौन्दर्ये च स्वभावे च ॥’ इति यादवः । तस्य भगवतो योगमायायाः स्वरूपमहिम्नो बलोदयं शक्तिप्रकारं कः पुमानुदाहर्तुं सदृष्टान्तं वक्तुं श्रद्धध्यात् श्रद्धां कुर्यात्, अनन्तत्वादिति शेषः । ‘अधिकत्वाद्दैवशब्दो दैवतेष्वधिको यतः । दैवं हरिः कर्ममूलं कृति-रित्येव भण्यते । व्याप्तत्वादात्मशब्दश्च श्रीपतित्वाच्च माधवः ॥’ इति वचनादुक्त एवार्थः, ‘दैवं दिष्टं भागधेयम्’ इत्याद्यभिहितो न भवति ॥ ३५ ॥

प्रकाशिका

एवंविधस्य हरेर्माहात्म्यं साकल्येन निरूपयितुमिच्छाऽपि कर्तुमशक्येत्याह ॥ एतदिति । अत्र दैवकर्मात्मरूपिण इति देवताद्यभेदः प्रतीयतेऽतोऽत्र विवक्षितान्दैवादिशब्दार्थान्प्रमाणेनैव दर्शयति ॥ अधिकत्वादिति । ‘‘राजा भट्टारको देव’’ इत्यभिधानात् । नरदेव इत्यादिप्रयोगाच्च । देवशब्दस्य अधिकवाचित्वाद् देवेषु भगवत एव अधिकत्वाद् दैवं देवशब्दवाच्यम् । हरि इत्यर्थः ॥ देवशब्दादाधिक्यार्थे णप्रत्यय इति भावः । मूलं कारणभूता कृतिः प्रयत्नो यस्य स तथा । मूलकर्तृत्वादेव कर्मेति भण्यत इत्यर्थः ॥ व्याप्तत्वादिति । आङ्पूर्वकत्वात्तनोतेर्डमन् प्रत्यय इति भावः । आत्मशब्द आत्मेति शब्दो यस्य स आत्मशब्दवाच्य इत्यर्थः । श्रीपतित्वादित्यन्यत्रोक्तस्य माधवशब्दस्य व्याख्यानम् ॥ ततश्चायं श्लोकार्थः । भो क्षत्तः विदुर । दैवं सर्वदेवाधिकं कर्म मूलकर्तृभूतमात्मा व्याप्तं, रूपमस्यास्तीति दैवकर्मात्मरूपी तस्य दैवकर्मात्मरूपिणो भगवत एतद्योगमायया जगदुत्पानरूपेच्छाया बलोदयं सामर्थ्यप्रसरं कः पुमान्साकल्येनोदाहर्तुं निरूपयितुं श्रद्दध्यादिच्छां कुर्यात् । अनन्तत्वेन साकल्येन ज्ञानस्यैवासम्भवात् । निरूपणं तु दूरतोऽपास्तमिति भावः ॥ ३५ ॥

अथापि कीर्तयाम्यङ्ग यथामति यथाश्रुतम् ।

कीर्तिं हरेः स्वां संस्कर्तुं गिरमन्याभिधां सतीम् ॥ ३६ ॥

पदरत्नावली

भगवन्माहात्म्यकथानुवर्णनसामर्थ्याभावेऽपि स्वप्रयोजनवशाद् वक्ष्यामीत्याह– अथापीति ॥ यद्यप्यानन्त्याद् वक्तुं न शक्नोमि तथापि हरेरन्यस्याभिधानं यस्याः सा अन्याभिधा तां, स्वां गिरं संस्कर्तुं, अन्यवार्तापरित्यागेन सतीं कर्तुमित्यर्थः ॥ ३६ ॥

प्रकाशिका

यद्यपि साकल्येन निरूपयितुमशक्तोऽस्म्यथाऽप्यन्यस्य हरिव्यतिरिक्तस्याभिधा अभिधानं यस्याः साऽन्याभिधा तां सतीं विद्यमानां स्वां गिरं संस्कर्तुं शुद्धां कर्तुमन्याभिधानेनासतीं सतीं कर्तुमित्यर्थः । अत एव क्वचिदन्याभिधाऽसतीमित्येव पाठः । तत्रान्याभिधा चासावसती चेति विग्रहः

॥ ३६ ॥

एकान्तलाभं वचसो नु पुंसः सुश्लोकमौलेर्गुणवादमाहुः ।

श्रुतेश्च विद्वद्भिरुपाकृतायाः कथासुधाया उत संप्रयोगम् (संप्रयोगः) ॥३७॥

पदरत्नावली

वागादीन्द्रियाणां जन्मलाभोऽयमेवेत्याह– एकान्तलाभमिति ॥ पुंसो वचसो वागिन्द्रियस्य सुश्लोकमौलेर्हरेर्गुणानुवादं गुणानामभिवन्दनम् एकान्तलाभमव्यभिचरितपुरुषार्थफलमाहुः, प्रेक्षावन्त इति शेषः । श्रुतेः श्रवणेन्द्रियस्य च विद्वद्भिरुपाकृताया व्याख्यातायाः कथासुधायाः संप्रयोग एकान्तचित्तत्वेन श्रवणमेकान्तलाभः । उतशब्दाच्चक्षुरादिग्रहणं कर्तव्यम् । ‘तमुस्तोतारः पूर्व्यं यथा-विदम्’ ‘यन्नामसकृच्छ्रवणात् पुल्कसोऽपि विमुच्यते’ इत्यादि श्रुतिस्मृतयोऽप्यस्मिन्नर्थे प्रमाणम् ॥३७॥

प्रकाशिका

यथामति कीर्तनश्रवणयोरप्यभावे बाधकं सूचयन्नाह ॥ एकान्तेति । वचसो वागिन्द्रियस्य । सुश्लोकमौलेः समीचीनकीर्तिमतां श्रेष्ठस्य हरेर्गुणानुवादं गुणानामभिवदनमेकान्तलाभ- मव्यभिचरितपुरुषार्थसाधनम् । आहुर्ज्ञानिनः । श्रुतेः श्रवणेन्द्रियस्य चोपकृताया निरूपितायाः सम्प्रयोगं सम्यक् प्रकर्षेण सम्बन्धम् । आदरातिशयेन श्रवणमिति यावत् । उतशब्द एकान्तलाभमाहुरित्यस्यानु-कर्षणार्थः । तथा च यथाशक्तिश्रवणकीर्तनयोरप्यभावे वाक्श्रवणयोर्वैयर्थ्यं बाधकं सूचितमिति ज्ञातव्यम् । सम्प्रयोग इति पाठेऽपि विभक्तिविपरिणामेनैकान्तलाभमित्यस्यानुकर्षणार्थ उतशब्दः ॥ ३७ ॥

आत्मनोऽवसितो वत्स महिमा कविनाऽऽदिना ।

संवत्सरसहस्रान्ते धिया योगविपक्वया ॥ ३८ ॥

अतो भगवतो मायां (या) मायिनामपि मोहिनीम् (नी) ।

यत् स्वयं चाऽऽत्मवर्त्माऽऽत्मा न वेद किमुतापरे ॥ ३९ ॥

तात्पर्यम्

‘आत्मा ब्रह्मा न वेद । अहं रुद्रः । ‘गुणपूर्तेरात्मशब्दो ब्रह्माऽहीनत्वतो हरः । अहंशब्दस्तथाप्येतौ न जानीतो हरिं परमि’ति ब्राह्मे । भगवतो मायां भगवतो महिमानम् । ‘माया तु महिमा प्रोक्ता प्राचुर्ये तु मयड्यत’ इति पाद्मे । आत्मवर्त्मा परमात्मगतिः ॥ ३९ ॥ इति तृतीयतात्पर्ये सप्तमोऽध्यायः ॥ ७ ॥

पदरत्नावली

ननु आदिकविना हरेर्महिम्नः समापितत्वादेष उदाहर्तुं कथं न शक्यत इति तत्राह– आत्मन इति ॥ आदिना कविना विरिञ्चेन संवत्सरसहस्रान्ते योगेन शमदमाद्युपायेन विपक्वया परिपाकं प्राप्तया धिया सकलशास्त्रार्थावधारणशक्तिमत्या बुद्ध्या अवसित उपाश्रित आत्मनः परमात्मनो महिमाऽवसितः परोक्षीकृत्य ज्ञातो यदतो भगवतो माया महिमा मायिनां ज्ञानिनामपि मोहिनी बुद्धिभ्रंशं करोति । ‘माया तु महिमा प्रोक्तः प्राचुर्ये तु मयड् यतः’ इति प्रमाणान्मायाशब्दस्य उक्त एवार्थः, न त्वनिर्वाच्या अविद्या मायाऽत्रोच्यते ॥

ब्रह्मणा ज्ञातत्वात् कथं मोहकरीत्याशङ्क्य तस्यापि साकल्येन ज्ञानं दुष्करमित्याशयेनाह– यदिति ॥ आत्मवर्त्मा परमात्मज्ञानोपदेशाचार्य आत्मा ब्रह्मा स्वयमपि भगवतो मायां न वेदेति यद् यस्मात् सर्वात्मनेति शेषः । अतोऽपरेऽस्मदादयो न विदुरिति किमुत । ‘गुणपूर्तेरात्मशब्दो ब्रह्माऽ-हीनत्वतो हरः । अहंशब्दस्तथाप्येतौ न जानीतो हरिं परम्’ इति स्मृतेः । अहं रुद्रः ॥ ३८,३९ ॥

प्रकाशिका

साकल्येन हरिज्ञानं न कस्याप्यस्तीत्येतत्कैमुत्येनोपपादयति ॥ आत्मन इति । आत्मनः परमात्मनः । आदिना कविना ब्रह्मणाऽपि । योगेन भक्तिध्यानादिरूपेण, विपक्वया परिपाक-माप्तया धिया सकलसदागमार्थभूतगुणक्रियारूपावगाहनशक्त्या बुध्द्या किं साकल्येनावसितो नैवेति काक्वा योज्यम् । तथा चान्यैर्भगवान् तथा नावसेय इति किं वाच्यमिति भावः ॥

नन्वतियत्नेन भगवान् ज्ञानिभिः कथंचित्साकल्येन ज्ञातुं शक्य इति मन्दाशङ्कामपाकुर्वन्नुक्तमेव कैमुत्यं विशदयति । अत इति । अत इति परामृष्टं पूर्वोक्तं हेतुं दर्शयति । यत्स्वयमिति । अत्रात्मा न वेदेत्यत्र विवक्षितमात्मशब्दाभिधेयं दर्शयति ॥ आत्मा न वेदेति । अत्र न वेदेत्यस्यानुवादो भगवत्परोऽयमात्मशब्दो न भवति । तस्य सर्वज्ञत्वेन न वेदेत्यस्य बाधितत्वप्रसङ्गादिति दर्शयितुं यत इत्युत्तरश्लोकेऽहं शब्दोऽस्मदादेशरूपो मैत्रेयपर इति प्रतीतिवारणायाह ॥ अहं रुद्र इति । तथा च मकारान्तमव्ययमिदम् । अहंकारतत्त्ववाचितदभिमानिरुद्रपरमेव । अन्यथा ऋषेर्देवापेक्षया पूर्व-मुपादानस्यासम्भवादिति भावः । आत्माहंशब्दयोर्ब्रह्मरुद्रवाचकत्वे निमित्तं तदज्ञेयरूपवाक्यार्थं च प्रमाणेनैव दर्शयति ॥ गुणेति । ब्रह्मा आत्मशब्दवाच्यः । गुणपूर्तेः स्वयोग्यगुणपूर्णत्वात् । तथा चाप्नोतीत्यात्मा स्वयोग्यगुणानिति सामर्थ्याल्लभ्यत इति भावः । हरो रुद्रोऽहीनत्वतोऽहेयत्वतः । तथा च नञुपपदस्योहाक् त्याग इत्यस्येदं रूपमिति भावः । अहंशब्दोऽहंशब्दवाच्य इत्यर्थः ॥ तथाऽपीति गुणपूर्त्यादिमत्वेऽपीत्यर्थः । परं पूर्णं यथा स्यात्तथा न जानीत इत्यर्थः । भगवतो मायामित्यत्र मायाशब्दस्यानिर्वाच्याविद्यारूपत्वप्रतीतिवारणाय विवक्षितमर्थं दर्शयति ॥ भगवत इति ॥

अत्र प्रमाणमप्याह ॥ माया त्विति । तुशब्दोऽवधारणे । महिमैवेति सम्बन्धः । द्वितीयस्तुशब्दः प्राचुर्यस्य गुणाभिसम्बन्धित्वरूपविशेषार्थः । मयडिति । अत्र यद्यपि मयशब्दो न मयट्प्रत्ययरूपः प्रकृत्यभावात् । तथाऽपि तत्समानार्थकः । तस्माच्च स्वार्थेऽण्प्रत्यय इति भावः । आत्मवर्त्मेत्यत्र वर्त्मशब्दस्य मार्गार्थत्वप्रतीतिवारणाय विवक्षितमर्थं दर्शयति ॥ आत्मेति । गतिर् अवगतिः स्वयोग्य-तानुसारेण परमात्मज्ञानवानित्यर्थः । वर्त्मशब्दो गतेर्लक्षक इति भावः । अत्रान्वयप्रदर्शनाय कर्तृत्व-वाच्यात्मपदं प्रथमतो व्याख्यायानन्तरं तस्याहंशब्दस्य चैकस्मिन्प्रमाणे व्याख्यातत्वाल्लाघवाय वक्ष्यमाणाहंशब्दं च व्याख्यायानन्तरं कर्मवाचकं भगवतो मायामित्येतद्व्याख्यातम् । ननु नेदं कर्म-वाचकम् । द्वितीयार्धेऽप्यात्मवर्त्मेति द्वितीयांतस्य कर्मवाचकस्य सत्वादित्याशङ्कापरिहारायात्मवर्त्मेत्ये-तत्प्रथमान्ततयैव विच्छिद्यान्ते व्याख्यातमित्यवगन्तव्यम् । ततश्चायं श्लोकद्वयस्यार्थः ॥ अत इति परामृष्टं पूर्वाक्तहेतुं विशदयति ॥ यदिति । यद्यतः । चशब्दोऽप्यर्थः । आत्मा स्वयोग्यगुणपूर्णो ब्रह्मा स्वयमितराधिकार्यपेक्षया मुख्यत आत्मवर्त्माऽपि परमात्मावगतिमानपि मायिनां ज्ञानिनामपि स्वयोग्यतामतिक्रम्याधिकज्ञानाय प्रयत्ने मोहिनीं बुद्धिभ्रंशकरीं भगवतो मायां महिमानं साकल्येन न वेद । अपरे रुद्राद्याः साकल्येन न विदुरिति किमु वाच्यमित्यर्थः ॥ ३८,३९ ॥

यतोऽप्राप्य निवर्तन्ते वाचश्च मनसा सह ।

अहं चान्य इमे देवास्तस्मै भगवते नमः ॥ ४० ॥

इति श्रीमद्भागवते तृतीयस्कन्धे सप्तमोऽध्यायः ।

पदरत्नावली

नैतच्चित्रमितिभावेनाह– यत इति ॥ वाचो ऽनन्तवेदाभिमानिन्यः श्रियश्चानादि-कालमारभ्य मनसा गुणगणान् ध्यायन्त्यो वागिन्द्रियेण निरन्तरं वर्णयन्त्यो गुणकथावसानमप्राप्य न शक्यमिति यतो निवर्तन्ते अनन्तगुणपूर्ण इति निश्चित्य नित्यपरिचितगुणकथने च नितरां वर्तन्त इति, अहं चाहङ्काराभिमानिनो रुद्रगरुडशेषाश्च अन्ये इमे देवा इन्द्रियाभिमानिन इन्द्रादिदेवा यन्मायां न विदुरिति यतस्तस्मै भगवते नम इत्यन्वयः । वाच इति बहुवचनं श्रियो रूपानन्त्याद् युज्यते । ‘श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः’ इति च । अहं त्रिधेत्यहंशब्दस्याहङ्कारे प्रयुक्त-त्वान्न मैत्रेयोऽत्रोच्यते । ‘अहीनत्वतो हरो ऽहंशब्दस्तथाप्येतौ न जानीतो हरिं परम्’ इति च ॥४०॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे सप्तमोऽध्यायः ॥

प्रकाशिका

अत्र यतो वचो निवर्तन्त इत्याद्याः श्रुतयः प्रमाणमित्याशयेन ता अर्थतोऽनुवदन् भक्त्यतिशयात्तद्गुणविशिष्टं भगवन्तमन्ते नमति ॥ यत इति । वाचो वेदाभिमानिन्यो देवताः । मनसा चित्तरूपमनोऽभिमानिना ब्रह्मणा सहाप्राप्य । तद्गुणावसानमिति शेषः । यतो यद्गुणौघवर्णनान्निवर्तन्ते । अहमहंकाराभिमानी रुद्रः । अन्ये इमे तत्त्वाभिमानिनो देवाश्चाप्राप्य यतो निवर्तन्ते तस्मै नम इत्यन्वयः । अत्र पूर्वार्धे यतो वाच इति श्रुत्यर्थानुवादबलादुत्तरार्धेऽपि तथाविधश्रुत्यर्थस्त्वनूद्यत इति ज्ञातव्यम् ॥ ४० ॥

॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां

श्रीमद्भागवतटिप्पण्यां सप्तमोऽध्यायः ॥ ३-७ ॥