भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः
अथ षष्ठोऽध्यायः
मैत्रेय उवाच–
भगवानेक आसेदमग्र आत्माऽऽत्मनां विभुः ।
आत्मेच्छानुगतो ह्यात्मा नानाशक्त्युपलक्षितः ॥ १ ॥
तात्पर्यम्
आत्मनां विभुर्जीवाधिपतिः ॥ १ ॥
पदरत्नावली
भगवानेक इदमग्रे अस्याग्रे । आत्मा परमात्मा । आत्मनां जीवानाम् । विभुरधिपतिः । आत्मा आदानादिकर्ता । आत्मेच्छां स्वरूपभूतां सृष्टीच्छामनुगतः सिसृक्षामीति भाव-मुपगतः । तदुपकरणाभावे देवदत्तेच्छावत् तदिच्छाऽपि व्यर्था नेत्याह– नानाशक्तीति ॥ स्वाधीन-नानासाधनोपलक्षितः । नानामत्युपलक्षित इति पाठे ‘सदेव सोम्येदमग्र आसीदसदेवेदमग्र आसीत्’ इत्यादि श्रुतितात्पर्यार्थाज्ञानिनानावादिमतोपलक्षित इत्यर्थः । ‘सतो बन्धुमसति निरविन्दन्’ इत्यादि श्रुतेर् असत्त्वमतमासुरमतमिति प्रसिद्धेः ॥ १ ॥
प्रकाशिका
तत्र सृष्टिविषयकलीलां वर्णयितुं ततः पूर्वभाविनीं स्थितिमाह ॥ भगवानेक इति द्वाभ्याम् । अत्रात्मनामात्मा स्वरूपभूत इत्यन्यथाप्रतीतिवारणाय विवक्षितमन्वयं दर्शयति ॥ आत्म-नामिति । नन्वात्मनामित्यस्य स्वामिनामित्यर्थत्वे विभुपदस्य च व्याप्तत्वार्थत्वे योग्यताभाव इत्यतोऽत्र विवक्षितं शब्दद्वयलब्धमर्थं दर्शयति ॥ जीवेति । तथा च षष्ठ्यंतमात्मपदं जीवपरं विभुशब्दश्च प्रभुपर्यायोऽधिपतिवाचीति भावः । ततश्चायं श्लोकार्थः ॥ इदमग्रेऽस्याग्रे । अत्तीत्यात्मा जगत्संहर्ता भगवान् एकः केवल आस आसीत् । ननु जीवानामपि तदानीं सत्वात्कथमवधारणार्थक एकशब्द इत्यत उक्तम् ॥ आत्मनां जीवानां विभुरधिप इति । ननु कुतो जीवाधिपत्वं तस्येत्यत उक्तम् । हि यस्मा-दात्मा जीवसमूहः परमात्मेच्छानुगतस्तस्मादात्मनां विभुरिति । तथा च स्वतन्त्र एक एवासीदित्यव-धारणार्थ इति भावः । नन्वेवं निमित्तोपादानाद्यभावे कथं तस्माज्जगत्सृष्टिस्तत्सद्भावे च कथं तत्सापेक्षस्य स्वातन्त्र्यमित्यत उक्तम् ॥ नानाशक्त्युपलक्षित इति । नानाविधानामुपादानादीनां नियामकशक्ति-भिरुपलक्षितो युक्त इत्यर्थः । तथा च तदधीनोपादानादिसत्वान् नोक्तदोषद्वयमिति भावः ॥ १ ॥
स वा एष तदा द्रष्टा नापश्यद् विश्वमेकराट् ।
मेनेऽसन्तमिवाऽऽत्मानं सुप्तशक्तिरसुप्तदृक् ॥ २ ॥
तात्पर्यम्
‘परमात्मा यतो जीवं मेनेऽसन्तमशक्तितः१ । असन्नसावतो नित्यं सत्यज्ञानो यतो हरि’रित्याग्नेये ॥ ‘शक्यत्वाच्छक्तयो भार्याः शक्तिः सामर्थ्यमुच्यत’ इति ब्रह्मतर्के ॥ ‘सुप्तिस्तु प्रकृतेः प्रोक्ता अतीव भगवद्रतिः । अनास्थाऽन्यत्र च प्रोक्ता विष्णोश्चक्षुर्निमीलन-मि’ति व्योमसंहितायाम् ॥ २ ॥
पदरत्नावली
एकस्य सतो हरेः सृष्टीच्छोत्पत्तिप्रकारमाह– स वा इति ॥ योऽसावेकराडेको राजा चक्रवर्ती स एष तदा प्रलये विश्वं नापश्यत् । सर्वकार्याणां मूलप्रकृतौ लीनत्वादिति शेषः । दर्शनशक्त्य-भावादित्यत उक्तम्– द्रष्टेति ॥ ‘न हि द्रर्ष्टुदृष्टेर्विपरिलोपो विद्यते’ इति श्रुतिर्वा इत्यनेन गृहीता । असुप्तदृगित्यनेन एतदेव विव्रियते । जीवानां नित्यत्वेनालीनत्वात् तद्दर्शनसम्भवात् कथं नापश्यदिति तत्राह– मेन इति ॥ आत्मानमिति जातावेकवचनम् । ‘परमात्मा यतो जीवं मेनेऽसन्तमशक्ततः’ इति वचनादसत्त्वमशक्तत्वमेव । न तु स्वव्यतिरेकेणासत्त्वम् । ‘पुरुष आसीत्’ इति श्रुतेः । ‘क्षेत्रज्ञः पुरुषो ह्यात्मा संसारी चेतनो मतः’ इत्यभिधानाम् । सुप्ता आत्मन्येवातीव रता शक्तिः शक्यत्वाद् भार्या रमा यस्य सः सुप्तशक्तिः । तदुक्तम्– ‘शक्यत्वाच्छक्तयो भार्याः शक्तिः सामर्थ्यमुच्यते’ इति । ‘सुप्तिस्तु प्रकृतेः प्रोक्ता अतीव भगवद्रतिः’ इति च । अनेन प्रकृतिदर्शनमपि प्रत्युक्तम् । पृथगतवस्थानात् । हरिरपि निद्रामुद्रितनेत्रत्वेन नापश्यदिति किं न स्यादित्यत उक्तम्– असुप्तदृगिति ॥ क्वापि तथोच्यमानस्य गतिः ‘अनास्थान्यत्र च प्रोक्ता विष्णोश्चक्षुर्निमीलनम्’ इति वक्तव्या ॥ २ ॥
प्रकाशिका
एकराट् स्वतन्त्रः स एव भगवान् तदा प्रलये विश्वं स्वव्यतिरिक्तं प्रपञ्चं नापश्यत् । दर्शनशक्त्यभावान्नापश्यदित्यत उक्तम् ॥ द्रष्टेति । स्वातन्त्र्येण सर्वदा द्रष्टेत्यर्थः । नान्योऽतोऽस्ति द्रष्टेत्यादि श्रुतेरिति वैशब्दः । ननु जीवानां सत्वात्कथं स्वव्यतिरिक्तं नापश्यदित्युक्त-मित्यत आह ॥ मेन इति । अत्रात्मानं स्वात्मानमसंतमविद्यमानं मेन इत्यन्यथाप्रतीतिवारणाय प्रमाणेनैव व्याख्यानं दर्शयति ॥ परमात्मेति । आत्मानमित्यस्यार्थः ॥ जीवमिति । असत्वेन ज्ञाने निमित्तमाह ॥ अशक्तित इति । अशक्तत्वत इत्यर्थः । न त्वविद्यमानत्वेनेति भावः । अनेनेवशब्दार्थो दर्शित इति ज्ञातव्यम् । न केवलं जीवेऽसत्वेन भगवज्ज्ञाने इदं निमित्तं किन्तु नान्यत् किञ्चनेत्यादिश्रौतासत्ववचनस्यापीत्याशयेनाह ॥ असन्नसाविति । अतोऽशक्तत्वगुणयोगेनैवासौ जीवो नित्यमसन्नित्युच्यत इति शेषः । अनेन प्रलयकाल इव स्थितिकालेऽपि जीवस्याशक्तत्वसाम्याद-सत्वव्यपदेशः स्यादित्यापादनस्येष्टापत्त्याऽदुष्टत्वं सूचयति । कुत एवं व्याख्येयमित्यतः प्रतीतार्थे बाधकमाह ॥ नित्यं सर्वदा हरिर्यतः सत्यज्ञान इति ॥ अनेन सत्यत्वेन श्रुत्यादिसिद्धेषु जीवेष्व-विद्यमानत्वं चेद्भगवान् जानाति तर्हि मिथ्याज्ञानी स्यादिति बाधकं सूचयति । ननु तथाऽपि तदा चेतनप्रकृतेरचेतनप्रकृतेश्च सत्वात्कथमन्यं नापश्यदित्युक्तमित्यतो उक्तं मूले सुप्तशक्तिरिति । तदभिप्रायं प्रमाणेनैव दर्शयति ॥ शक्यत्वादिति । तथा च कर्मव्युत्पत्त्याऽत्र शक्तिशब्दो भार्यापरस् तदभि-मन्यमानजडप्रकृतिपरश्चेति भावः ॥ सामर्थ्यमिति । भावव्युत्पत्त्या क्वचिदिति शेषः । नन्वेवं भगव-द्भार्याया रमायाः कथं सुप्तिस्तस्याः सर्वदाऽऽविर्भूतज्ञानत्वादित्याशंकायां तस्या अत्राभिप्रेतां सुप्तिं प्रमाणेनैव दर्शयति ॥ सुप्तिस्त्विति । तुशब्दोऽवधारणे । अतीव भगवद्रतिरेव, अन्यत्र जगद्व्या-पारेऽनास्थाऽऽसक्त्यभाव एवेति सम्बध्यते । न ज्ञानाभावरूपेत्यवधारणार्थः । जडप्रकृतौ चापरिणा-मित्वमेव सुप्तिशब्दार्थ इत्यपि ज्ञातव्यम् । ननु भगवतोऽपि क्वचित्प्रलये सुप्तिरुच्यते तत्र कथं व्याख्येय-मित्यपेक्षयामाह ॥ विष्णोरिति । चक्षुर्निमीलनं सुप्तिः प्रोक्तेत्यन्वयः । चक्षुर्निमीलनमित्यनेन असुप्त-दृगित्येतदपि उक्ततात्पर्यमित्यवगन्तव्यम् । उपरमशून्यचक्षुरिन्द्रियोऽपि निमीलितचक्षुरिति व्याख्यानस्य सूचितत्वात् ॥ २ ॥
सा वा एतस्य सन्द्रष्टुः शक्तिः सदसदात्मिका ।
माया नाम महाभाग ययेदं निर्ममे विभुः ॥ ३ ॥
पदरत्नावली
शक्तेर्नामाह– सा वा इति ॥ महान् भागो भाग्यसमूहो यस्य स तथा । महतीं भां प्रति गच्छतीति महाभागो वा । तस्य संबुद्धिर्महाभागेति । एतस्य संद्रष्टुः सर्वदर्शनशक्तिमतो नारायणस्य या प्रलये सायुज्यं प्राप्य रमते सा शक्तिर्माया नाम । सर्वप्रधानत्वान्मयो विष्णुस् तस्येयं माया । चार्थे वैशब्दः । सा जडात्मिका शक्तिश्च माया नाम स विभुर्ययेदं जगन्निर्ममे । कीदृशी ? सदसदात्मिका । आद्या महदादिकार्यकारणव्यापिनी । द्वितीया तद्रूपा ॥ ३ ॥
प्रकाशिका
शक्तिशब्दोक्ताया भार्याया जडप्रकृतेश्च स्वरूपं नाम चाह ॥ सेति । जगद्व्यापारं विहाय भगवत्समीप एव रमते या च परिणामशून्या सेत्यर्थः । वैशब्दः प्रमाणप्रसिद्धिद्योतकः । शक्तिर्भार्या सदसदात्मिका महदादिकार्यकारणरूपजडप्रकृत्यभिमानिनी अन्या तद्रूपा मायानाम । प्रधानत्वान्मयो विष्णुस्तस्येयं माया । चेतनप्रकृतेराद्यावतारभूताऽचेतना च । भगसमूहो भागो महान् भागो यस्य स तथा, महतीं भां गच्छतीति महाभागस्तस्य सम्बुद्धिर्महाभागेति । ययोभयरूपया ॥ ३ ॥
कालवृत्त्यां तु मायायां गुणमय्यामधोक्षजः ।
पुरुषेणात्मभूतेन वीर्यमाधत्त वीर्यवान् ॥ ४ ॥
पदरत्नावली
ययेदं निर्ममे जगदित्युक्तं प्रपञ्चयति– कालवृत्त्यामिति ॥ ‘जगृहे पौरुषं रूपं’ इत्यारभ्योक्तात्ममूलरूपाविर्भूतपुरुषरूपेणाधोक्षजः कालेन पुरुषादृष्टाख्यफलपाचकेन वृत्तिः सिसृक्षु-त्वादिलक्षणा यस्याश्चेतनायाः सा तथोक्ता । अन्यत्र क्षोभलक्षणा वृत्तिः । गुणमय्यां सत्वादि-गुणाभिमानिन्याम् इतरत्र तद्रूपायां मायायां चेतनायामचेतनायां च वीर्यं रेतआख्यं परिणामकरं सामर्थ्यं चाधत्त । तुशब्देन उभयोर्महावैलक्षण्यं वक्ति । वीर्यवानिति हरेर्नपुंसकरूपं नास्तीति लक्षयति । नैनं वाचा स्त्रियं ब्रुवन् नैनमस्त्री पुमान् ब्रुवन्’ इति श्रुतेः । यद्वा स्वेनाहितवीर्यस्य जनकत्वशक्तिं द्योतयति
॥ ४ ॥
प्रकाशिका
ययेदं निर्मम इत्युक्तमेव प्रपञ्चयति ॥ कालवृत्त्यां त्विति । कालेन सृष्टिकाल-प्रेरकेण तन्नाम्ना हरिणा प्राप्ता वृत्तिः सिसृक्षत्वादिविशेषा यस्याश्चेतनायाः सा तथोक्ता । अन्यत्र वृत्तिः परिणामोन्मुखत्वं, गुणमय्यां सत्त्वादिगुणाभिमानिन्यां तद्रूपायां च मायायां चेतनायामचेतनायां च । तुशब्दो माययोरुक्तविशेषार्थः । वीर्यवान् व्यक्तजगत्सर्जनशक्तिमान् । अधोक्षजोऽतीन्द्रियः प्रलयकालवर्ती परमात्माऽऽत्मभूतेनादौ आविर्भूतस्वस्वरूपांशरूपेण पुरुषेण पुरुषनाम्ना वासुदेवेन वीर्यं रेत आख्यं परिणामसामर्थ्यं चाधत्त स्थापितवान् अन्यत्रोद्बुद्धमकरोत् ॥ ४ ॥
ततोऽभवन्महत्तत्त्वमव्यक्तात् कालचोदितात् ।
विज्ञानात्माऽऽत्मदेहस्थं विश्वं व्यञ्जंस्तमो नुदन् ॥ ५ ॥
पदरत्नावली
न हि लोके वीर्यमादधानाः कार्यं जनयन्तो दृश्यन्ते । न चैवमयम् । तत् कुतः? कार्योत्पत्तिदर्शनादित्याह– तत इति ॥ यत्र वीर्यमाहितं ततो मायाख्यवस्तुनो महत्तत्वं चतुर्मुखशरीर-मभवत् । मायाया नामान्तरमाह– अव्यक्तादिति ॥ अतिसूक्ष्मत्वात् तन्नाम्नः, कालेन सकलप्राण्य-दृष्टसाक्षिणा पुरुषेण सृष्ट्युद्बोधकेन च चोदितात् प्रेरितात् । अभिमानिनोऽभिमानानुत्पादे शरीरोत्पादो व्यर्थ इति तत्राह– विज्ञानात्मेति ॥ विज्ञानात्मा ब्रह्मा च ततोऽव्यक्ताभिमानित्वात् तन्नाम्नो रमाख्यात् कूटस्थाद् अभून् मदीयोऽयं देह इत्यभिमानोत्पत्तिमानभूदित्यर्थः । उत्पत्तेः प्रागपि ज्ञाननाशो नास्तीति द्योतनाय विज्ञानात्मेति पदम् । अभिमानोत्पत्तेः किं लक्षणमत्राह– आत्मदेहस्थमिति ॥ निरालोके कथमिदं व्यज्यत इत्यत उक्तम्– तमो नुदन्निति ॥ नारायणप्रसादप्रादुर्भूतज्ञानलक्षणप्रकाशेन सूर्यवद् वर्तमान इत्यर्थः । शरीरनिमित्तग्लानिरहितो वात्माभिमानरहितो वा ॥ ५ ॥
प्रकाशिका
ततो वासुदेवान्महत्तत्त्वं तन्नामकं जडरूपं तत्त्वं तदभिमानिपुन्नामकब्रह्मदेहश्च अव्यक्तात्तत्त्वोत्पत्तिविवक्षायां त्रिगुणात्मकप्रधानादभिमानिदेहोत्पत्तिविवक्षायां रेतोरूपेण परिणतादिति विशेषः । अत्र महत्तत्त्वादीनामुत्पत्तिः सूक्ष्मरूपेणैव विवक्षिता । स्थूलात्मना तेषामुत्पत्तेरनिरुद्धे-नान्यत्रोक्तत्वात् । अतो न विरोध इति ज्ञातव्यम् । कालचोदितात्कालनामकेन हरिणा प्रेरितात् । एवं तत्त्वतदभिमानिदेहयोरुत्पत्तिम् अभिधायेदानीमभिमानिनश्चेतनस्यापि उत्पत्तिमाह । विज्ञानात्मा ब्रह्माऽपि पुरुषनामा तत्त्वे देहे चाभिमानोत्पत्त्याऽभवदिति । तस्य प्रलयकालेऽप्यविलुप्तवृत्तिज्ञानत्वसूचनाय विज्ञानात्मेत्युक्तम् । तस्य कृत्यमाह ॥ आत्मदेहेति । आत्मनः स्वस्याभिमन्यमानतया देहस्थानीये महत्तत्वे कारणरूपेण विद्यमानं विश्वं व्यञ्जयन् व्यक्तं कुर्वन् । उत्पादयन्निति यावत् । तमस्तत्कालीनं सूर्य इव नुदन्परिहरन् स्वसृज्यानां शेषादीनामज्ञानं परिहरन्निति वा । तथा चाहंकारादिसर्वजगत्सर्जनाय तेषामुभयविधतमोनाशनाय च ब्रह्माऽभवदित्याशयः ॥ ५ ॥
सोऽप्यंशगुणकालात्मा भगवद्दृष्टिगोचरः ।
आत्मानं व्यकरोदात्मा विश्वस्यास्य सिसृक्षया ॥ ६ ॥
तात्पर्यम्
अंशो जीवः । कालजीवगुणादीनामभिमानी चतुर्मुखः । सर्वजीवाभिमानि-त्वादंश इत्येव चोच्यत’ इति ब्राह्मे ॥ ६ ॥
पदरत्नावली
प्रपञ्चपञ्चीकरणप्रकारं प्रपञ्चयति– सोऽपीति ॥ स आत्मा महत्तत्वाभिमानी विरिञ्चोऽपि अंशो जीवः, गुणाः सत्वादयः, कालः फलपाचकः, एषाम् आत्मा अभिमानी भगवतो हरेर् दृष्टेः कटाक्षवीक्षणस्य गोचरो विषयो ऽस्य प्रपञ्चस्य सिसृक्षया आत्मानं स्वकीयत्वेनाभिमन्यमानं महत्तत्वं व्यकरोत् परिणामोन्मुखं कृतवान् । चैतन्यस्याविकारित्वेनात्रात्मपदं न चैतन्यवाचि किन्तु देहवाच्येव । ‘कालजीवगुणदीनामभिमानी चतुर्मुखः’ इति वचनाद् अंशगुणकालात्मेत्यत्रात्मपदेनाभि-मान्युच्यते न देहः । क्वचिच्च हिरण्यगर्भस्यांशशब्दवाच्यत्वमङ्गीकर्तव्यम् । ‘सर्वजीवाभिमानित्वादंश इत्येव चोच्यते’ इति वचनात् ॥ ६ ॥
प्रकाशिका
एतदेव विशदयति ॥ सोऽपीति । अत्रांशगुणकालात्मेत्येतदंशगुणकालस्वरूप इत्यन्यथाप्रतीतिवारणाय प्रमाणेनैव सम्यग्व्याख्यातुमत्र विवक्षितमंशशब्दार्थं तावदाह ॥ अंश इति ॥ जीवस्यापि परमात्मविभिन्नांशत्वस्य प्रसिद्धेरिति भावः । इदानीं प्रमाणं पठति ॥ कालेति ॥ गुणाः सत्वादयः । आदिपदेन महत्तत्त्वं च । महत्तत्त्वाभिमानदशायां ब्रह्मणश्चतुर्मुखत्वाभावात् प्रमाणे तत्र चतुर्मुखशब्दो रूढ्या ब्रह्मपरः । कालमायांशयोगेनेत्यादिवक्ष्यमाणानामंशशब्दानामपि विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ सर्वेति । तथा चात्रांशशब्दो जीवपरस्तदात्मत्वं च तदभिमानित्वम् । उत्तरत्र तु जीवाभिमानित्वेन निमित्तेनांश इति शब्देन चतुर्मुख एवोच्यत इत्यर्थः ॥ ततश्चायं मूलार्थः ॥ स आत्मा महत्तत्त्वाभिमानी विरिंचोऽप्यंशो जीवो गुणाः सत्त्वादयः कालः सृष्टिकाल एषामात्माऽभिमानी भगवत्कृपादृष्टेर्विषयः । आत्मानं स्वाभिमन्यमानं महत्तत्त्वं व्यकरोद्विकारोन्मुखमकरोत् ॥ ६ ॥
महत्तत्त्वाद् विकुर्वाणादहन्तत्त्वमजायत ।
कार्यकारणकर्त्रात्मा भूतेन्द्रियमनोभवः ॥ ७ ॥
पदरत्नावली
अहंतत्त्वमजायतेत्यत्र जडाज् जडस्योत्पत्तिर् अभिमानिनो गरुडादय उदभूवन्निति तात्पर्यं ग्राह्यम् । ‘भूतं भूताभिमानी च’ इति वचनात् । तत्त्वस्वरूपमाह– कार्येति॥ कार्यं शरीरं, कारणनीन्द्रियाणि, कर्तृ मन एषामात्मा आदिकारणम् । किमुक्तम् ? तत्राह– भूतेति ॥ भूतेन्द्रिय-मनसां भव उत्पत्तिर्यस्मात् स तथा ॥ ७ ॥
प्रकाशिका
अहंतत्त्वमजायतेत्यादौ तत्त्वानां तदभिमानिदेहानामभिमानिनां चोत्पत्तिर्ग्राह्या । अहंतत्त्वलक्षणमाह ॥ कार्येति । कार्याणि भूतानि, कारणानीन्द्रियाणि कर्तार इन्द्रियाभिमानिनो देवा मनश्चैतेषामात्मा कारणम् । कार्यकारणादिपदविवक्षितमर्थं स्वयमेवाह ॥ भूतेति । मनःशब्देन देवाश्च ग्राह्याः । एतेषां भव उत्पत्तिर्यस्मात्स तथा ॥ ७ ॥
वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिधा ।
अहंतत्त्वाद् विकुर्वाणान्मनो वैकारिकादभूत् ॥ ८ ॥
पदरत्नावली
भूतादीनां त्रयाणां कारणस्याहङ्कारस्य नामभेदेन त्रित्वमाह– वैकारिक इति ॥ अधुना त्रित्वसंख्याविशिष्टाहंकारात् पृथक् पृथक् सृष्टिभेदमाह– अहंतत्त्वादिति ॥ अंशगुणकाला-नामीशस्य च प्रेरणया विकुर्वाणादहंतत्त्वाद् वैकारिकनाम्नो मनस्तत्त्वमभूदित्यन्वयः ॥ ८ ॥
प्रकाशिका
एतत्प्रपञ्चयितुमहङ्कारतत्त्वविभागं तावदाह ॥ अहमिति । इदं मकारान्तरमव्ययं तत्त्ववाचि । इदानीं वैकारिकादीनां कार्यप्रदर्शनेनोक्तं प्रपञ्चयति ॥ अहंतत्त्वादिति । वैकारिका-द्वैकारिकनामकादहंतत्त्वादित्यन्वयः ॥ ८ ॥
वैकारिकाश्च ये देवा अर्थाभिव्यञ्जनं यतः ।
तैजसानीन्द्रियाण्येव ज्ञानकर्ममयानि च ॥ ९ ॥
पदरत्नावली
यतो येभ्योऽर्थानां विषयाणामभिव्यञ्जनं तद्विषयज्ञानं भवति ये चेन्द्रियाभिमानिनो वैकारिकनामानो देवास्ते च वैकारिकादहंतत्त्वादभूवदिति सम्बन्धः । ज्ञानकर्ममयानि ज्ञानप्रधानानि श्रोत्रादीनि कर्मप्रधानानि वागादीनि च तैजसान्येव तैजसादहंकारादेवोत्पन्नानि नान्यस्मादहङ्कारा-दित्यन्वयः ॥ ९ ॥
प्रकाशिका
वैकारिका वैकारिकनामानस्तेषां कार्यं दर्शयति ॥ अर्थेति । यत एभ्य इन्द्रियाभिमानिभ्योऽर्थानां शब्दादीनामभिव्यञ्जनं प्रकाशो भवति । ते देवाश्चेत्यन्वयः । इन्द्रियाण्येव तैजसानि तैजसाहंकारकार्याणि । न तदभिमानिन इत्येवकारार्थः । ज्ञानमयानि ज्ञानप्रधानकानि कर्ममयानि कर्मप्रधानकानि चेति बुद्ध्या विविक्तसमुच्चये चशब्दः ॥ ९ ॥
तामसो भूतसूक्ष्मादिर्यतः खं लिङ्गमात्मनः ॥ १० ॥
पदरत्नावली
तामसाहङ्कारो भूतसूक्ष्माणामादिः कारणं, शब्दादितन्मात्रास् तामसाहङ्काराज्जाता इत्यर्थः । तत्र कीदृशी शब्दतन्मात्रा ? यतः यत्र शब्दतन्मात्रायाम् आत्मनो हरेर्लिङ्गं गमकं प्रमाणं खं समुत्पन्नमित्यन्वयः ॥ १० ॥
प्रकाशिका
तामसस्तामसाहंकारो भूतसूक्ष्मस्य शब्दस्यादिः कारणं यतः शब्दात्खमाकाश-मुत्पन्नम् । कथंभूतं खम् । आत्मनः परमात्मनो लिङ्गं सर्वगतत्वनित्यत्वयोर्दृष्टान्ततया ज्ञापकम् । ‘‘आकाशवत्सर्वगतश्च नित्य’’ इति श्रुतेरित्यर्थः ॥ १० ॥
कालमायांशयोगेन भगवद्वीक्षितं नभः ।
तामसानुसृतं स्पर्शं विकुर्वन् निर्ममेऽनिलम् ॥ ११ ॥
तात्पर्यम्
कालमायांशयोगतः । कालपरिणामात्, प्रकृतेर्हिरण्यगर्भाच्च ॥ ११-१४ ॥
पदरत्नावली
कालमायांशयोगेन कालस्य सृष्टिविशिष्टस्य मायायाः प्रकृतेरंशस्य जीवाभिमानि-नश्चतुर्मुखस्य सन्निकर्षलक्षणसम्बन्धेन भगवता वीक्षितं तामसानुसृतं स्वकारणतामसाहंकारेणानुस्यूतं, अत एव विकुर्वन् नभः स्पर्शं स्पर्शतन्मात्रां निर्ममे । तस्मात् स्पर्शादनिलं वायुं निर्ममे ॥ ११ ॥
प्रकाशिका
कालमायांशयोगेनेत्यस्य विवक्षितमर्थं दर्शयति ॥ कालेति । अत्र यद्यपि काल-मायांशयोगेनेत्येवानुवादो युक्तः । न तु कालमायांशयोगत इति । तथाऽप्यत्रत्यकालमायांशपदानां व्याख्यानं वक्ष्यमाणकालमायांशयोगत इत्यादावप्यनुसन्धेयमिति दर्शयितुं कालमायांशयोगत इत्यनुवादः कृत इति ध्येयम् । परिणामात्परिणामजनकात् । प्रकृतेरिति मायापदव्याख्यानं चेतनप्रकृतेरित्यर्थः । अंशशब्दव्याख्यानं– हिरण्यगर्भादिति ॥ योगशब्दार्थप्रदर्शनायेतरेतरयोगवाची चशब्दः प्रयुक्तः । ततश्चायं मूलार्थः । कालः परिणामकालः, माया चित्प्रकृतिः, अशः सर्वजीवाभिमानी हिरण्यगर्भ, एतेषां योगेन परस्परसहकारित्वेन मेलनलक्षणसम्बन्धेन भगवता वीक्षितं कृपया निरीक्षितं तामसानुसृतं तामसाहंकारानुस्यूतं नभः स्पर्शं विकुर्वन् विशेषेण कुर्वन् तदाकारेण परिणतं सदिति यावत् । तद्वाराऽनिलं वायुं निर्ममे ॥ ११ ॥
अनिलोऽपि विकुर्वाणो नभसोरुबलान्वितः ।
ससर्ज रूपतन्मात्रां ज्योतिर्लोकस्य लोचनम् ॥ १२ ॥
पदरत्नावली
कालादिसहकारिणा नभसा स्वकारणेनानुस्यूतत्वादुरुबलान्वितो विकुर्वाणोऽनिलो रूपतन्मात्रां ससर्ज । तन्मात्रया लोकस्य लोचनं प्रकाशनं, लुच् प्रकाशन इति धातोः, ज्योतिस् तेजस्तत्त्वम् अस्त्राक्षीत् ॥ १२ ॥
प्रकाशिका
नभसा स्वस्मिन्ननुस्यूतेनोरुबलान्वितो रूपतन्मात्रां ससर्ज । तद्वारा लोकस्य लोचनं प्रकाशकं ज्योतिस्तेजःसंज्ञं भूतं ससर्ज ॥ १२ ॥
अनिलेनान्वितं ज्योतिर्विकुर्वत् परवीक्षितम् ।
आधत्ताम्भो रसमयं कालमायांशयोगतः ॥ १३ ॥
पदरत्नावली
रसमयं रसतन्मात्राकार्यं, परेण हरिणा वीक्षितं, कालमायांशयोगतः कालात् परिणामान् मायायाः प्रकृतेर् अंशाद् हिरण्यगर्भाच्च ॥ १३ ॥
प्रकाशिका
अन्वितमनुस्यूतं, परेण हरिणा वीक्षितं रसमयं रसकार्यम् । अनेन रसद्वाराऽम्भसां सृष्टिरुक्तेति ज्ञातव्यम् ॥ १३ ॥
ज्योतिषाऽम्भोऽनुसंसृष्टं विकुर्वत् परवीक्षितम् ।
महीं गन्धगुणामाधात् कालमायांशयोगतः ॥ १४ ॥
पदरत्नावली
गन्धाख्यो गुणो यस्यास्तां गन्धगुणकार्यामित्यर्थः ॥ १४ ॥
प्रकाशिका
अनुसंसृष्टमनुस्यूतं, गन्धाख्यो गुणः कारणीभूतो यस्याः सा तथोक्ता । तथा च गन्धद्वारा महीसृष्टिरुक्ता भवति ॥ १४ ॥
भूतानां नभआदीनां यद्यद् भाव्यं परात् परम् ।
तेषां परानुसंसर्गाद् यथासङ्ख्यं गुणान् विदुः ॥ १५ ॥
पदरत्नावली
विशेषगुणत्वाच्छब्दादयो नभआदिव्यावर्तका इति यद् वैशेषिकमतं तन्निराकरोति– भूतानामिति ॥ नभआदीनां भूतानां मध्ये यद्यत् परात् परस्मात् पूर्वस्मात् परं पश्चाद् यद् भाव्यमुत्पाद्यं तेषां परानुसंसर्गात् पूर्वेषां कारणानाम् उत्तरोत्तरकार्येषु अनुप्रवेशाद् यथासंख्यम् एकद्वित्र्यादिसंख्याविशिष्टान् शब्दादीन् गुणान् विदुः, वैशेषिकादितर इति शेषः ॥ १५ ॥
प्रकाशिका
शब्दादीनामाकाशाद्यसाधारणगुणत्वभ्रमनिराकरणायाह ॥ भूतानामिति । भूतानां मध्ये यद्यत्परात्पूर्वस्मात्परं पश्चाद्भाव्यमुत्पाद्यं तेषां परानुसंसर्गात्पूर्वकारणानुषङ्गाद् यथासंख्यं यथाक्रमं गुणान् शब्दादीनुत्तरोत्तरमधिकसंख्यान्विदुः । ज्ञानिन इति शेषः । तथा चाकाशे शब्दो, वायौ शब्दस्पर्शौ, तेजसि शब्दस्पर्शरूपाणि, अम्भसि शब्दस्पर्शरूपरसा मह्यां शब्दस्पर्शरूपरसगन्धा इति विदुरित्यर्थः । अत्र महदहंकारादीनां पृथिव्यंतानां प्रकृतिसंज्ञकानि तत्तत्सूक्ष्मरूपाण्येवोपादानानि । अत्रोक्तं गुणत्रयात्मकाव्यक्तमहदादिकम् उपचायकमात्रमिति संप्रदायः ॥ १५ ॥
एते देवाः कला विष्णोः कालमायांशलिङ्गिनः ।
नानात्वात् स्वक्रियानीशाः प्रोचुः प्राञ्जलयो विभुम् ॥ १६ ॥
तात्पर्यम्
कालमायांशलिङ्गिनः । तन्निमित्तशरीराः । हिरण्यगर्भस्यैव कालाभिमानी जीवाभिमानीति द्विविधं रूपम् । ‘कालजीवाभिमानेन रूपद्वन्द्वी चतुर्मुख’ इति पाद्मे ॥ १६ ॥
पदरत्नावली
ब्रह्माण्डोत्पत्तिप्रकारं वक्तुं महदाद्यभिमानिदेवानां स्तुतिप्रकारं कथयति– एते देवा इति ॥ ये महदाद्यभिमानित्वेन हरिणा सृष्टा एते ब्रह्मादयो देवा विभुं प्रोचुरित्यन्वयः । कीदृशाः ? विष्णोः कला भिन्नांशाः । कालनिमित्तेन मायानिमित्तेनांशनिमित्तेन च लिङ्गं शरीरमेषामस्तीति कालमायांशलिङ्गिनः । अत्रैकस्यैव विरिञ्चस्य कालांशाभिमानिरूपद्वयमस्तीति ग्राह्यम् । ‘कालजीवाभि-मानेन रूपद्वन्द्वी चतुर्मुखः’ इति वचनात् । स्तुतौ निमित्तमाह– नानत्वादिति ॥ नानात्वादश्लिष्टत्वात् स्वक्रियायां ब्रह्माण्डोत्पादनक्रियायाम् अनीशा असमर्थाः । शिरसि प्रकृष्टोऽञ्जलिर्येषां ते तथा ॥ १६ ॥
प्रकाशिका
ब्रह्माण्डसर्जनाय महदाद्यभिमानिनो देवाः श्रीविष्णुस्तुतिं चक्रुरित्याह ॥ एत इति । विष्णोः कला भिन्नांशाः । कालमायांशलिङ्गिन इत्येतदप्रतीत्या व्याख्याति ॥ कालेति । तन्निमित्तानि तत्कर्तृकाणि शरीराणि येषां ते तन्निमित्तशरीराः । नन्वेषां शरीराणां जीवाभिमानित्वेनांशशब्दवाच्यो हिरण्यगर्भः कर्ताऽस्तु । मायाशब्दवाच्या चित्प्रकृतिरपि कर्त्रीत्यस्तु । कालस्य तु जडत्वात्कथं कर्तृत्व-मित्याशङ्कायां कालशब्देनापि तदभिमानी हिरण्यगर्भ एव विवक्षित इत्याशयेनाह ॥ हिरण्यगर्भस्यैवेति । द्विविधं रूपं कर्तृतयाऽत्र विवक्षितमिति शेषः । एवं हिरण्यगर्भस्य रूपद्वयसद्भावे प्रमाणमाह ॥ कालेति । तथा च कालस्तदभिमानी हिरण्यगर्भो, माया चित्प्रकृतिः, अंशो जीवाभिमानिहिरण्यगर्भ-स्यापरं रूपमेतैः कृतानि लिङ्गानि शरीराणि येषां सन्तीति कालमायांशलिङ्गिन इति मूलं व्याख्येयमिति भावः । नानात्वाद्विश्लिष्टत्वात् । स्वक्रियायां ब्रह्माण्डोत्पादनरूपायामनीशाः ॥ १६ ॥
देवा ऊचुः–
नताः स्म ते देव पदारविन्दं प्रपन्नतापोपशमातपत्रम् ।
यन्मूलकेता यतयोऽञ्जसोरुसंसारदुःखं बहिरुत्क्षिपन्ति ॥ १७ ॥
पदरत्नावली
किमूचुरिति तत्राह– नताः स्मेति ॥ ते तव प्रपन्नानां पुंसाम् आध्यात्मिकादि-तापोपशमायातपत्रमिव स्थितम् । आतपात् त्रायत इत्यातपत्रं छत्रम् । न केवलं तात्कालिकताप-निवारणपटुः, अनादिसंसारदुःखनिवारणसमर्थमिति भावेनाह– यन्मूलेति ॥ यत् पादारविन्दमेव मूलकेतनमधिष्ठानं गृहं येषां ते तथा, यतयो निर्जितेन्द्रियग्रामा अञ्जसा ऋजुमार्गेण संसाराख्यं दुःखं हृदयग्रन्थिलक्षणं बहिरुत्क्षिपन्ति निर्मूलयन्ति ॥ १७ ॥
प्रकाशिका
प्रपन्नानां भक्त्या भजतामाध्यात्मिकादित्रिविधतापोपशमे आतपत्रं छत्रमिव स्थितम् । एतदेव विशदयति ॥ यन्मूलेति । यस्य पादारविन्दस्य मूलं तलं केत आश्रयो येषां ते तथा । अञ्जसा यतयः सम्यगिन्द्रियजयादिप्रयत्नवन्तो बहिर्दूरादुत्क्षिपंति परित्यजन्ति । यन्मूलकेता इति यत्पादारविन्दाश्रयत्वमुक्तं तत्तत्ज्ञानित्वमेव विवक्षितम् । अन्यथा तेन संसारनिवृत्तिकथनानुपपत्तेः ॥१७॥
ऋते यदस्मिन् भव ईश जीवास्तापत्रयेणाभिहता न शर्म ।
आत्मन् लभन्ते भगवंस्तवाङ्घ्रिच्छायांशविद्यामत आश्रयेम ॥ १८ ॥
तात्पर्यम्
ब्रह्मविद्या हरेश्छाया तदंशो हि सुरेष्वपि । सर्वविद्याः श्रियः प्रोक्ताः प्रधानांशश्चतुर्मुख’ इति ब्राह्मे ॥ १८ ॥
पदरत्नावली
ईश अणिमादिपूर्णैश्वर्यमूर्ते अस्मिन् भवे संसारे जीवा बन्धमोक्षोपायभूतपादार-विन्दमृते तत्सेवां विना आत्मन् आत्मनि शर्म न लभन्ते यदतो भगवंस्तवाङ्घ्रिच्छायाया ब्रह्मविद्याया अंशविद्यामेकदेशविद्यामाश्रयेम । ‘ब्रह्मविद्या हरेश्छाया तदंशो हि सुरेष्वपि । सर्वविद्याः श्रियः प्रोक्ताः प्रधानांशश्चतुर्मुखः’ इति वचनाद् योग्यतातारतम्यमपेक्ष्यांशविद्यामित्युक्तम् । अनेन व्यतिरेकन्यायो दर्शितः ॥ १८ ॥
प्रकाशिका
तत्ज्ञानस्य संसारनिवृत्त्यादिरूपमोक्षजनकत्वं कुत इत्यपेक्षायाम् अन्वयव्यतिरेकाभ्या-मेवेत्याह ॥ ऋत इति । अत्राङ्घ्रिच्छायांशविद्यामित्यस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ ब्रह्म-विद्येति । अत्र हरिशब्देन तत्स्वरूपभूता विद्या लक्ष्यते । तथा च हरेर्हरिविद्यायाश् छाया साक्षात् प्रतिबिम्बभूता या ब्रह्मविषयकविद्या तदंशस्तत्प्रतिबिम्बरूपांशः सुरेषु । अपिशब्दादृष्यादिषु च तिष्ठतीत्यर्थः । हिशब्दोऽत्र प्रमाणप्रसिद्धिद्योतकः । तर्हि सा बिम्बरूपेण कुत्र तिष्ठतीत्यत उक्तम् । सर्वेति । सर्वविद्यानां देवादिविद्यानां बिम्बभूताः श्रियः प्रोक्ताः । आगमेष्विति शेषः । अवान्तर-विशेषापेक्षया बहुवचनम् । सुरेषु तदंशाः किं साम्येन सन्ति नेत्याह ॥ प्रधानांश इति । चतुर्मुखे सरस्वत्याद्यपेक्षया प्रधानः श्रेष्ठो बहुतरोंऽशः प्रतिबिम्बरूपस्तिष्ठतीत्यर्थः । अनेनेतरेऽप्यंशास्तारतम्येन तिष्ठन्तीति सूचयति ॥ ततश्चायं श्लोकार्थः ॥ हे ईश । जीवा अस्मदादयोऽस्मिन् भवे यद् याम् ऋते विनाऽऽत्मन् आत्मनि शर्म सुखं न लभन्ते । यस्यां च सत्यां लभन्त इत्यन्वयोऽपि ग्राह्यः । यत एवमन्वयव्यतिरेकौ स्तः । अतस्तां तवाङ्घ्रिच्छायांशविद्याम् । अङ्घ्रिशब्देन तत्स्वरूपभूता विद्या लक्षणीया । तथा च तवांघ्रिस्वरूपभूतविद्यायाश् छाया साक्षात्प्रतिबिम्बभूताया रमायास्त्वद्विषयकविद्या तत्प्रतिबिम्बांशभूता या ब्रह्मविद्या तामेवास्मन्मोक्षार्थमाश्रयेम ॥ १८ ॥
मार्गन्ति यत् ते मुखपद्मनीडैश्छन्दःसुपर्णैर्ऋषयो विविक्ते ।
यच्चाघमर्षो द्युसरिद्धरायाः परं पदं तीर्थपदः प्रपन्नाः ॥ १९ ॥
तात्पर्यम्
द्युसरितो धरायाश्च ॥ १९ ॥
पदरत्नावली
इतोऽपि भगवत्पादज्ञानमेव स्वाभीष्टसाधनमिति स्तुवन्ति– मार्गन्तीति ॥ ऋषयो ब्रह्मादिज्ञानिनो विविक्ते स्थित्वा, मुखपद्मनीडैर् मुखपद्ममेव नीडं येषां ते तथा तैः, छन्दांसि वेदा एव सुपर्णाः पक्षिणस्तैः, ते तव यत् पदं मार्गन्ति अन्विछन्ति विचारयन्ति । अद्यापि मृगयन्त इति वा । यच्च यस्माच्च प्रपन्नानाम् अघमर्शः दुःखनाशः स्यात् । यच्च द्युसरितो धरायाश्च परं पदं, वयं तीर्थपदस्ते तव पदं प्रपन्ना इत्यन्वयः ॥ १९ ॥
प्रकाशिका
भगवत्पादारविन्दज्ञानं मोक्षसाधनमित्युक्तं तज्ज्ञानसाधनं दर्शयति ॥ मार्गन्तीति । ऋषयो ज्ञानिनो विविक्ते स्थित्वा तव मुखपद्ममेव नीडमावासस्थानं येषां ते तथा तैश् छन्दःसुपर्णै-र्वेदलक्षणपक्षिभिः । इदं वेदानां भगवतोऽनायासेनैव निर्गतत्वान्नाप्रामाण्यशङ्का तत्र कार्येति सूचनाय । यत्पदं मार्गन्ति विचारयन्ति । यच्च यस्माच्च प्रपन्नानामघमर्षः पापनाशः स्यात् । यच्च द्युसरिद्धरायाः परं पदमुत्पत्तिस्थानम् । अत एव तीर्थपदस्तीर्थपदच्छब्दवाच्यस्य तव यत्पदं प्रपन्नाः । मनसेति शेषः । ध्यायन्तीति यावत् । अत्र ध्येया गुणा यच्चाघमर्षमित्यादिनोक्ताः । तथा चानेन श्रवणादिकं तज्ज्ञान-साधनमुक्तमिति ज्ञातव्यम् । अत्र द्युसरिद्धराया इत्यस्य षष्ठीसमासत्वप्रतीतिवारणाय विवक्षितं तात्पर्यं दर्शयति ॥ द्युसरित इति । तथा च द्युसरित्सहिता धरा द्युसरिद्धरा तस्या इति मध्यमपदलोपी समास इति भावः ॥ १९ ॥
यच्छ्रद्धया श्रुतवत्या च भक्त्या संमृज्यमाने हृदयेऽवधार्य ।
ज्ञानेन वैराग्यबलेन धीरा व्रजन्ति यत् तेऽङ्घ्रिसरोजपीठम् ॥ २० ॥
पदरत्नावली
एतत्प्रदप्राप्तौ साधनमाहुः– यच्छ्रद्धयेति ॥ संमृज्यमाने सम्यक् शोध्यमाने । अवधार्य सन्निधाप्य । वैराग्यमेव बलं यस्य स तथा तेन । अङ्घ्रिसरोजाख्यं पीठम् ॥ २० ॥
प्रकाशिका
मोक्षसाधने सहकार्यंतराणि दर्शयन्त आहुः ॥ यच्छ्रद्धयेति । श्रुतवत्या श्रवण-पूर्विकया भक्त्या संमृज्यमाने संशोध्यमाने हृदयेऽवधार्य संनिधाप्य वैराग्यं बलं यस्य तेन ज्ञानेन ॥२०॥
विश्वस्य जन्मस्थितिसंयमार्थे कृतावतारस्य पदाम्बुजं ते ।
व्रजेम सर्वे शरणं यदीश स्मृतं प्रयच्छत्यभयं स्वपुंसाम् ॥ २१ ॥
पदरत्नावली
हरेर्विक्रमो लोकोपकाराय न स्वार्थाय यदतः स्मरणमात्रेण प्रीतोऽस्मदभीष्टं करोतीति भावेन स्तुवन्ति– विश्वस्येति ॥ तव यत् पदाम्बुजं स्मृतं स्वपुंसाम् अभयं प्रयच्छति सर्वे यत् शरणं व्रजेमेत्यन्वयः । कृतावतारस्य गृहीतपुरुषादिप्रादुर्भावस्य ॥ २१ ॥
प्रकाशिका
न केवलं मोक्षार्थं त्वपादारविन्दं श्रयेम किं त्वैहिकभयपरिहारार्थमपीत्याहुः ॥ विश्वस्येति । स्वपुंसां भक्तानाम् ॥ २१ ॥
यत् सानुबन्धेऽसति देहगेहे ममाहमित्यूढदुराग्रहाणाम् ।
पुंसां सुदूरं वसतोऽपि पुर्यां भजेम तत् ते भगवन् पदाब्जम् ॥ २२ ॥
पदरत्नावली
हरेः पदं विरक्त्यैकलभ्यमिति भावेन स्तुवन्ति– यत् सानुबन्ध इति ॥ सानुबन्धे पुत्रादिपरिकरसहिते असत्यमङ्गले देहगेहेऽहमिति ममेदमिति चोढदुराग्रहाणां दुष्टज्ञानस्य चोढृणां पुंसां पुर्यां देहे वसतोऽपि तव यत् पदाम्बुजं सुदूरमत्यन्तमगोचरं हे भगवन् ते पदाम्बुजं भजेमेत्यन्वयः
॥ २२ ॥
प्रकाशिका
नन्वेवं यदि भगवज्ज्ञानमेव मोक्षजनकं तर्हि सर्वेऽपि तत्कस्मान्न सम्पादयन्तीत्यत आहुः ॥ यदिति । सानुबन्धे पुत्रादिपरिकरसहितेऽसत्यमङ्गले देहसहिते गेहे पुंसां पुर्यां देहे वसतोऽपि तव यत्पदाम्बुजं दूरं साक्षात्कर्तुमशक्यं तत्ते पदाब्जं भजेम । अनेन वैराग्याभावात्सर्वे न ज्ञानं सम्पादयन्तीत्युक्तं भवति ॥ २२ ॥
तं त्वामसद्वृत्तिभिरक्षिभिर्ये पराहृतान्तर्मनसः परेश ।
अथो न पश्यंत्युरुगाय नूनं यत् ते पदन्यासविलासलक्ष्म्याः ॥ २३ ॥
पदरत्नावली
निकटवर्तिनो हरेर्दर्शनासम्भवे किं कारणमिति तत्राह– तं त्वामिति ॥ यस्त्वमेवमुक्तमहिमा अथो तस्मात् ते तं त्वां नूनं निश्चयेन न पश्यन्तीत्यन्वयः । असद्वृत्तिभि-रक्षिभिरिन्द्रियः पराहृतं बहिष्कारितमन्तः स्थितं मनो येषां ते पराहृतान्तर्मनसो यस्मात् । अन्तःस्थितं प्रत्यगात्मानम् । विषयीकर्तुं योग्यमिति सूचनायान्तरिति विशेषणम् । कीदृशम् ? न्यासेन सकलकर्मणां परब्रह्मार्पणेन विलासो येषां ते न्यासविलासाः, तेषां लक्ष्म्या लक्षदर्शनाङ्कनयोरिति धातोर्दर्शनस्य, पदं विषयम् । अनेन परमहंसाश्रमस्था एनं पश्यन्तीत्युक्तम् । मुडागमो ङीप् च तज्ज्ञानस्यातिशयं सूचयतः। पदयोर्न्यासो भुवि क्षेपविशेषस् तस्य विलासलक्ष्म्याः पदमिति द्विरावृत्त्यान्वेतव्यम् । अनेन पदविषया स्तुतिरयुक्तेति शङ्का निरस्तेति ज्ञातव्यमिति वा ॥ २३ ॥
प्रकाशिका
ननु निकटवर्तिनः पदार्थस्य दर्शने किं वैराग्येणेत्यत उक्तमुपपादयन्ति । तं त्वामिति । तं त्वामन्तःस्थितम् । असत्स्वमङ्गलेषु विषयेषु वृत्तयो येषां तानि तैर्बहिर्मुखैरक्षिभिरिन्द्रियैः । पदन्यासविलासलक्ष्म्यास्तव पदन्यासो गमनं तस्य विलासो विभ्रमस्तस्य लक्ष्मीः शोभा तस्याः सकाशाद् ये पराहृतं बहिःकारितमन्तोंऽतःस्थग्रहणयोग्यं मनो येषां ते तथा । हे परेश । एतेऽथो तस्मादेव नूनं निश्चयेन तं त्वामन्तः स्थितं न पश्यन्ति । वैराग्याभावे बाह्येन्द्रियाणि मनः स्वविषयेषु नयन्ति । अतोऽन्तःस्थितोऽपि न मनसा दृश्यत इति भावः ॥ २३ ॥
पानेन ते देव कथासुधायाः प्रवृद्धभक्त्या विशदाशया ये ।
वैराग्यसारं प्रतिलभ्य बोधं यथाऽञ्जसा त्वापु(त्वेयु)रकुण्ठधिष्ण्यम् ॥ २४ ॥
पदरत्नावली
एवंविधस्य हरेरपरोक्षज्ञानसाधनोपासना द्विविधा ध्यानरूपा, वेदान्तशास्त्र-श्रवणादिलक्षणा च । तत्र क्षिप्रप्रवृत्त्यर्थं प्रथमा क्लेशसाध्या द्वितीया सुखसाध्येति उभे विशिनष्टि– पानेनेति ॥ हे देव ते कथासुधायाः पानेन श्रवणादिलक्षणेन प्रवर्धमानया भक्त्या विशदाशया निर्मलान्तःकरणा वैराग्यसारं वैराग्यफलं बोधमपरोक्षज्ञानं प्रतिलभ्य प्राप्य अञ्जसा ऋजुमार्गेण अकुण्ठधिष्ण्यमप्रतिहतवैकुण्ठादिस्थानम् अपरिच्छिन्नस्वरूपं वा त्वा त्वां यथा ईयुः ॥ २४ ॥
प्रकाशिका
मार्गन्तीत्यादिना यच्छ्रवणादिरूपविचारभक्तिवैराग्यादिकं ज्ञाने प्राधान्येन साधनमुक्तं तन्न सर्वेषामधिकारिणामवश्यम् । वायुजयादियोगप्रधानानां श्रवणाद्यप्राधान्येऽपि मनसोऽवश्यत्वेन वायुजयादियोगेनैव शीघ्रं मुक्तेः प्रमाणप्रसिद्धत्वादित्याशङ्कायां तेषां मुक्तिर्न सम्पूर्णा किं त्वल्पैवेत्याशयेनाह ॥ पानेनेति । हे देव । ते कथासुधायाः पानेन श्रवणादिलक्षणेन प्रवृद्धमानया भक्त्या विशदाशया निर्मलांतःकरणा ये ते वैराग्यसारं वैराग्यफलं यथा यथार्थं बोधमपरोक्षज्ञानं प्रतिलभ्य प्राप्यांजसाऽनल्पतयाऽकुण्ठधिष्ण्यमप्रतिहतमन्दिरस्थानीयं त्वामापुः प्रापुः ॥ २४ ॥
तथापरे त्वात्मसमाधियोगबलेन जित्वा प्रकृतिं बलिष्ठाम् ।
त्वामेव धीराः पुरुषं विशन्ति तेषां श्रमः स्यान्न तु सेवया ते ॥ २५ ॥
तात्पर्यम्
‘वायोश्च प्रकृतेर्विष्णोर्जयो भक्त्यैव नान्यथे’ति दत्तात्रेययोगे ॥ २५ ॥
पदरत्नावली
तथापरे येऽन्ये योगिनः यमनियमादियोगनिष्ठा आत्मसमाधियोगबलेन परमात्म-चित्तैकाग््रयलक्षणध्यानसामर्थ्येन बलिष्ठाम् अन्यसाधनाजेयां प्रकृतिं बन्धकशक्त्यभिमानिनीं प्रसादज्जित्वा धीरा धीषु रममाणा अपरोक्षज्ञानिनः पुरुषं पूर्णषड्गुणं त्वामेव विशन्ति । ‘तुः स्याद् भेदेऽवधारणे’ इति वचनात् । तत्र तेषां योगिनां श्रमः स्याद् यथा तथा ते तव श्रवणादिरूपया सेवया न तु नैव श्रमः स्यात् किन्तु सुखमेवेत्यन्वयः । अत्र प्रकृतिजयो नाम तत्प्रसादैकलभ्यो नान्यः । तदुक्तम् ‘वायोश्च प्रकृतेर्विष्णोर्जयो भक्त्यैव नान्यथा’ इति ॥ २५ ॥
प्रकाशिका
तथाशब्दः समुच्चये । परे त्वन्ये साधकाः । तुशब्दोक्तमेव विशेषं दर्शयति ॥ आत्मसमाधीति । आत्मनि परमात्मनि समाधिश्चित्तैकाग्र्यं, योगो वायुजयादिस्तद्बलेन बलिष्ठा-मन्यैरजेयां प्रकृतिं दुर्गां जित्वा वशीकृत्य धीरा धीषु रममाणा अपरोक्षज्ञानिनः पुरुषं पूर्णषड्गुणं त्वां विशंत्येव । न तु त इवांजसा । न केवलमेषामञ्जसा मुक्त्यभावः किंतु साधनानुष्ठानकाले वायुजयादिना श्रमश्च स्यादित्याह ॥ तेषामिति । नायं श्रमः पूर्वेषामित्याह । ते सेवया श्रवणादिरूपया ये त्वां विशंति तेषां श्रमो वायुजयादिनिमित्तो न तु नैव । अतः श्रवणादिप्रधानानामेव मुक्तिरनल्पेति तदर्थं प्राधान्येन श्रवणादिकमेव सम्पाद्यमिति भावः । अत्र प्रकृतिं जित्वेति प्रकृतिजयो, योगशब्देन वायुजयश्च कथ्यते स न प्रसिद्धः सम्भवति । अतोऽत्र विवक्षितजयशब्दार्थं प्रमाणेनैव दर्शयति । वायोश्चेति । प्रकृतेश्चित्प्रकृतेर्भक्त्या प्रसादोन्मुखीकरणमित्यर्थः । जयशब्दार्थ इत्यर्थः । अन्यथा बलात्कारेण वशीकरणादिरूपो नेत्यर्थः ॥ २५ ॥
तत् ते वयं लोकसिसृक्षयाऽद्य त्वया विसृष्टास्त्रिभिरात्मभिर्ये (आत्मभिः स्म) ।
सर्वे वियुक्ताः स्वविहारतन्त्रं न शक्नुमस्तत् प्रतिकर्तवे ते ॥ २६ ॥
यावद् बलिं तेऽज हराम काले यथा वयं चान्नमदाम यत्र ।
तथोभयेषां त इमे ह लोका बलिं हरन्तोऽन्नमदन्त्यनीशाः ॥ २७ ॥
त्वं नः सुराणामसि सान्वयानां कूटस्थ आद्यः पुरुषः पुराणः ।
त्वं देव शक्त्यां गुणकर्मयोनौ रेतस्त्वजायां कविरादधेऽजः ॥ २८ ॥
ततो वयं सत्प्रमुखा यदर्थे बभूविमात्मन् करवाम किं ते ।
त्वं नः स चक्षुः परिदेहि शक्ता देव क्रियार्थे यदनुग्रहेण ॥ २९ ॥
॥ इति श्रीमद्भागवते तृतीयस्कन्धे षष्ठोऽध्यायः ॥
तात्पर्यम्
त्रिभिरात्मभिः कालमायांशैः ॥ सत्प्रमुखा महदादयः ॥ २६,२९ ॥ इति तृतीयतात्पर्ये षष्ठोऽध्यायः ॥ ६ ॥
पदरत्नावली
स्तुत्या प्रसन्नीकृत्य स्वाभीष्टं विज्ञापयन्तीत्याह– तत् ते वयमिति ॥ यस्मात् त्वं लोकदयालुस्तत् तस्मात् त्वया लोकसिसृक्षया त्रिभिरात्मभिः कालमायांशैर्विसृष्टा ये ते वयमद्य सर्वे वियुक्ता विश्लिष्टाः स्वविहारतन्त्रं स्वस्य तव क्रीडोपकरणं यद् ब्रह्माण्डं तत् प्रतिकर्तवे प्रतिकर्तुं न शक्नुम इत्यन्वयः ॥ ब्रह्माण्डनिर्माणेन प्रयोजनमाहुरित्याह– यावदिति ॥ यावद् बलिं भक्त्या हराम यावत्पर्यन्तं ब्रह्माण्डं समुत्पाद्य तस्मिन् स्थित्वा त्वद्विषयज्ञानकर्मलक्षणं बलिमुपहारं समर्प्य तर्पयामः, यत्र ब्रह्माण्डे स्थिता वयं काले काले यथान्नमदाम स्वविषयेषु व्यवहरामः, तथोभयेषामस्माकं युष्माकं च बलिं हरन्तः समर्पयन्तस्त इमेऽनीशा अस्मत्प्रेरणामन्तरेण प्रवृत्तावसमर्था लोका जना अन्नं ज्ञान-कर्मलक्षणमदन्ति तादृशब्रह्माण्डनिर्माणोपायं, कुर्विति वाक्यशेष इत्यन्वयः । तादृशमण्डं कर्तुं न शक्नुम इति पूर्वेण सम्बन्ध इति वा । अज विष्णो । ‘अज विष्णुहरच्छागाः’ इत्यभिधानम् ॥ किमिति मां प्रत्येतद् विज्ञापनमन्यं प्रति किं न स्यादिति तत्रैवमूचुरित्याह– त्वं न इति ॥ आद्य आदेरुत्पत्तेः कर्ता, पितृत्वात् त्वां विज्ञापयाम इति भावः । अस्मत्पदं विशिनष्टि– सुराणामिति ॥ न केवल-मस्माकमेव जनयिता किन्त्वस्मत्सन्ततीनामिति भावेनोक्तम्– सान्वयानामिति ॥ त्वं क इति । पुराणः पुरुषः श्रीनारायणः । पितुरपि देहरूपेण विकारदृष्टेस्त्वद्विकारा वयमिति शङ्का मा भूत् । कूटस्थः विकारकूटेषु तिष्ठति, न तु विकारवान् । हरेः पितृस्थानीयत्वं स्पष्टयितुमाहुरित्याह– त्वं देवेति ॥ हे देव, त्वं कविरतिक्रान्तदर्शी अजश्च । देवदत्तवद् भवतो गर्भाधानादिकर्माण्यसम्भावितानि । तथापि भवान् शक्त्यां भार्यायां सत्वादिगुणानां कर्मणामदृष्टानां योनौ कारणभूतायामजायां जननधर्मरहितायां चिदचित्प्रकृतौ रेतो गर्भमादध इत्यन्वयः । तुशब्देनोभयेषां महान्विशेषोऽस्तीति सूचयति ॥ ततस्तस्याः प्रकृतेर् वयं सत्प्रमुखा महत्तत्वप्रमुखा बभूविम । ततः किम् ? तत्राह– यदर्थ इति ॥ आत्मन् स्वामिन् यदर्थे यत्प्रयोजनाय बभूविम तदर्थं ते तव किं करवाम । वियुक्ता अस्वतन्त्रा यस्मात् । तस्मात् । स त्वं चक्षुर्ज्ञानमण्डनिर्माणोपायविषयं परिदेहि । कीदृशम् ? तत्राहुः– शक्ता इति ॥ यस्य ज्ञानस्यानु-ग्रहेण क्रियार्थे ब्रह्माण्डनिर्माणाय शक्ताः स्यामेत्यन्वयः ॥ २६-२९ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे षष्ठोऽध्यायः ॥
प्रकाशिका
इदानीं स्वाभीष्टं प्रार्थयते चतुर्भिः । तत्ते वयमिति । अत्र त्रिभिरात्मभिरित्यस्य विवक्षितमर्थं दर्शयति ॥ त्रिभिरिति । पूर्वं तेषामेव निमित्ततया प्रकृतत्वादिति भावः । सत्प्रमुखा इत्यस्यापि प्रकृतसङ्गतमर्थं दर्शयति ॥ सत्प्रमुखा इति । महदादयो महदाद्यभिमानिनः । सच्छब्दस्य कार्यवाचित्वेन महत आदिकार्यत्वान्मुख्यतया तदेवात्र विवक्षितमिति भावः । ततश्चायं श्लोकचतुष्टयार्थः ॥ यस्मात्त्वमेव मोक्षादिसर्वपुरुषार्थप्रदस्तस्मात्त्वया लोकसिसृक्षया त्रिभिरात्मभिः कालमायांशरूपैश्चेतनै-र्विसृष्टा ये ते वयमद्येदानीं सर्वे वियुक्ता विश्लिष्टा अत एव स्वविहारतन्त्रं स्वस्य तव क्रीडोपकरणं यद्ब्रह्माण्डं तत्प्रतिकर्तवे प्रतिकर्तुं न शक्नुमः । अतस्त्वं नश्चक्षुः परिदेहीति चतुर्थेनान्वयः ॥ ब्रह्माण्ड-निर्माणानन्तरमपि कर्तव्यज्ञानं प्रार्थयन्ते ॥ यावदिति । यावद्यावता ज्ञानेन बलिं पूजाम् । हे अज विष्णो । काले स्वावसरे यत्र यस्मिन् देशे यथा येन प्रकारेण वयं चान्नमदाम । अनीशा अस्मत्प्रेरणा-मन्तरेण प्रवृत्तावसमर्थास्त इमे लोका जना यथा येन प्रकारेणोभयेषामस्माकं युष्माकं च बलिं हरन्तः सन्तोऽन्नमदन्ति तावत् । तथा चक्षुर्ज्ञानं परिदेहीत्यन्वयः ॥ कुत एवं मां प्रत्येव प्रार्थनमित्यत आहुः ॥ त्वं न इति । त्वं सान्वयानां ससन्ततीनां सुराणां न आद्यो जनकोऽसि । जनकत्वे हेतुः पुराणः पुरातनः पुरुषः पूर्णषड्गुण इति । न परिणामितया जनक इत्याहुः ॥ कूटस्थ इति । निर्विकार इत्यर्थः । तर्हि कथं जनक इत्याशङ्कां परिहरन्तः स्वशक्तिं च विज्ञापयन्तो ब्रह्माण्डनिर्माणोपयुक्तं ज्ञानं प्रार्थयन्ते ॥ त्वं देवेति । गुणकर्मयोनौ गुणाः सत्त्वादयः कर्माण्यदृष्टान्येतल्लक्षणा योनिर्जगत्कारणं सहकारिभूतं यस्याः सा तथोक्ता तस्यामजायां प्रकृतिशब्दवाच्यायां शक्त्यां भार्यायां रेत आदधे । अनेन पितृवन्निमित्ततयैव जनकत्वमित्युक्तं भवति ॥ ततो रेतसः । सत्प्रमुखा महदादितत्त्वाभिमानिनः । यदर्थे यस्य कार्यस्यार्थे बभूविम । हे आत्मन् स्वामिन् । तत्किं ते कार्यं करवाम न किमपि । तदुपयुक्तज्ञानाद्यभावादिति भावः । अतो यस्य तवानुग्रहेण क्रियार्थे ब्रह्माण्डनिर्माणाय शक्ताः स्याम । स त्वं नोऽस्माकं चक्षुस्तदुपयुक्तं ज्ञानं परिदेहि ॥ २६-२९ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां षष्ठोऽध्यायः ॥ ३-६ ॥