०५ पञ्चमोऽध्यायः

द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम्

अथ पञ्चमोऽध्यायः

शुक उवाच–

द्वारि द्युनद्या ऋषभः कुरूणां मैत्रेयमासीनमगाधबोधम् ।

१क्षत्तोपसृत्याच्युतभावशुद्धः पप्रच्छ सौशील्यगुणातितृप्तम् ॥ १ ॥

पदरत्नावली

अथ गङ्गाद्वारे मैत्रेयं प्राप्य विदुरस्य प्रश्नप्रकारं कथयति– द्वारीति ॥ क्षत्ता, द्युनद्या द्वारि गङ्गाद्वारे आसीनमगाधबोधमनवगाह्यज्ञानं विदुरस्य सौशील्यादिगुणैरतितृप्तं मैत्रेयमभिसृत्य गुरूपसत्तिविधिना प्राप्य पप्रच्छेत्यन्वयः । अच्युतभावेन भगवद्भक्त्या शुद्धः । अच्युतभावतृप्त इति पाठे अच्युतलीलामृतपानेन शरीरयात्रावानित्यर्थः । ‘भावो लीला क्रिया चेष्टा’ इत्यभिधानम् । कुरूणामृषभ इत्यनेन कुलीनत्वेन ज्ञानग्रहणयोग्यत्वं सूचयति ॥ १ ॥

प्रकाशिका

द्युनद्या गङ्गाया द्वारि हरिद्वारे आसीनं न तु कर्मकरणे व्यग्रम् । उपसृत्य गुरूप-सत्तिविधिना प्राप्य । अच्युतभावेनाच्युतभक्त्या शुद्धः । तृप्त इति पाठेऽच्युतभावेन विषयेष्वलम्बुद्धि-मानित्यर्थः । कथम्भूतं मैत्रेयम् । विदुरस्य सौशील्यादिगुणैरतितृप्तं सन्तुष्टम् । अनेन तत्त्वज्ञानयोग्यत्वं, वक्तृप्रेमास्पदत्वं, श्रोत्रानुकूल्यं च दर्शितमिति ज्ञातव्यम् ॥ १ ॥

विदुर उवाच–

सुखाय कर्माणि करोति लोको न तैः सुखं नान्यदुपारमं वा ।

विन्देत भूयस्तत एव दुःखं यदत्र युक्तं भगवान् वदेन्नः ॥ २ ॥

पदरत्नावली

ननु पृच्छतेर्द्विकर्मकत्वेन भाव्यत्वादत्र तदप्रतीतेर्निरर्थकोऽयं प्रश्न इति तत्राह– सुखायेति ॥ लोको जनः सुखाय सुखप्राप्तये यागादिकर्माणि करोति तैः कर्मभिः सुखम् अन्यस्य दुःखस्योपारमं विनाशं वा न विन्देत । किञ्चातः बहुतरानर्थप्राप्तिरपि स्यादित्याह– भूय इति ॥ ततः कर्मभ्यो भूयो दुःखमेवाप्नोति । तदस्तु, तव किम् ? अत्राह– यदत्रेति ॥ अत्र सुखप्राप्तये दुःखनिवृत्तये च यद् युक्तम् अविप्रतिपन्नत्वेन योग्यं तत् किं, नो वदेदित्यन्वयः । अनेन सुखप्राप्तिं दुःखनिवृत्तिं च पप्रच्छेत्युक्तं भवति ॥ २ ॥

प्रकाशिका

पप्रच्छेत्युक्तप्रश्नानेव दर्शयति ॥ सुखायेत्यादिना । सुखाय सुखप्राप्तये यागादि-कर्माणि करोति । तैः कर्मभिरन्यदन्यस्य दुःखस्योपारमं नाशं वा न विन्देत । प्रत्युतानर्थप्राप्तिरेव ततः स्यादित्याह ॥ भूय इति । ततः कर्मभ्यो भूयो दुःखमेव विन्देत । अत्र सुखप्राप्तये आत्यन्तिक-दुःखनिवृत्तये च यद्युक्तं कर्तुं योग्यं तद्भगवान्नोऽस्माकं वदेन्निरूपयेत् ॥ २ ॥

जनस्य कृष्णाद् विमुखस्य दैवादधर्मशीलस्य सुदुःखितस्य ।

अनुग्रहायेह चरन्ति नूनं भूतानि भव्यानि जनार्दनस्य ॥ ३ ॥

पदरत्नावली

नन्वत्र सुखप्राप्तिदुःखनिवृत्त्युपायप्रश्न एव क्रियते न भगवत्तत्वविषय इति तत्राह– जनस्येति ॥ स्वतो ज्ञानाभावाद् बोधकपुरुषालाभाच्च कृष्णाद् विमुखस्येत्याह न त्वयोग्यत्वाद् । अन्यथा तस्यानुग्रहाय जनार्दनस्य भूतानि चरन्तीत्युक्तिर्विरुद्धा स्यात् । भव्यानि मङ्गलानि । एवंविधानि जनार्दनस्य भूतानि ज्ञानोपदेशलक्षणप्रसादकरणायेह कर्मभुवि देहधारणं कृत्वा वर्तन्त इति भावः ॥३॥

प्रकाशिका

सज्जनदुःखनाशनं भवादृशानां हरिभक्तानां स्वभाव एवातोऽत्र मया नातीवनिर्बन्धः कार्य इत्याशयेनाह ॥ जनस्येति । दैवात्प्राचीनकर्मप्रेरकात् । सद्गुरूपदेशाभावेन कृष्णाद्विमुखस्य जनस्य मोक्षायोग्यजनस्यात एवाधर्मशीलस्येत्यादि । अनुग्रहाय तद्दुःखनाशाय सुखप्राप्तये चेह कर्मभुवि । भव्यानि मङ्गलानि जनार्दनस्य भूतानि जनार्दनस्य भृत्यतया विद्यमाना भवादृशा जनाश् चरन्ति ॥३॥

तत् साधुवर्यादिश शर्मवर्त्म संराधितो भगवान् येन पुंसाम् ।

हृदि स्थितो यच्छति भक्तिपूते ज्ञानं स्वसत्ताधिगमं पुराणम् ॥ ४ ॥

पदरत्नावली

फलितमाह– तदिति ॥ यतो लोकानुग्रहाय भवज्जीवनं, तत् तस्मात् साधुवर्य शर्मवर्त्म सुखप्राप्तिमार्गम् आदिशेत्यन्वयः । येन शर्मवर्त्मना । स्वसत्ताधिगमं स्वव्याप्तिज्ञापकम् । पुराणं संप्रदायागतम् ॥ ४ ॥

प्रकाशिका

तत्तस्मात् । हे साधुवर्य मैत्रेय । शर्मवर्त्म सुखप्राप्तिमार्गमादिशेत्यन्वयः । ननु भगवज्ज्ञानमेव दुःखनिवृत्त्यादिरूपमोक्षसाधनत्वेन श्रुत्यादिसिद्धम् । अतः किं तत्प्रश्नेनेत्याशङ्कायां तज्ज्ञानमेव केन कर्मणाऽन्तःकरणशुद्धिद्वारा भवतीति मदीयप्रश्नाशय इत्याह । येन कर्मणा संराधितो भगवान्पुंसामधिकारिणां वैराग्यद्वारा भक्तिपूते हृदि स्थितः श्रवणादिना ध्यातः सन् स्वसत्ताधिगमं स्वमाहात्म्यविषयकं पुराणं गुरुसंप्रदायागतं ज्ञानम् अपरोक्षज्ञानं यच्छति । तत्कर्म दिशेत्यन्वयः ॥ ४ ॥

करोति कर्माणि कृतावतारो यान्यात्मतन्त्रो भगवांस्त्र्यधीशः ।

यथा ससर्जाग्र इदं निरीहः संस्थाप्य वृत्तिं जगतो विधत्ते ॥ ५ ॥

पदरत्नावली

सुखवर्त्मापि भगवत्सृष्ट्यादिगुणकर्मकथनश्रवणादिकमेव नातोऽन्यदित्याशयवान् तत्सृष्ट्यादिप्रकारं पृच्छति– करोतीति ॥ देवदत्तव्यावृत्तये आत्मतन्त्र इति । स्वातन्त्र्यं च कतिपय-वस्तुष्वेव न सर्वत्रेत्यत उक्तं भगवांस्त्र्यधीश इति । तानि कर्माणि दुष्टनिग्रहादीनि वर्णयेति प्रत्येक-मन्वेतव्यम् । किञ्चाग्रे आदिकाले यथा इदं जगत्ससर्ज तं प्रकारमिति सर्वत्र योज्यम् । संस्थाप्य न्यस्य यथा जगतो वृत्तिं जीविकां विधत्ते तवेयमिति शास्त्रतो वक्ति ॥ ५ ॥

प्रकाशिका

स्वसत्ताधिगममिति यस्य भगवन्माहात्म्यस्य ज्ञानं मोक्षसाधनमित्युक्तं तदेव माहात्म्यं पृच्छति ॥ करोतीत्यादिना । यानि कर्माणि करोति तानि वर्णयेत्यादिरूपेण प्रत्येक-मग्रेतनक्रियासम्बन्धः । कृतावतारः कृतपुरुषाद्यवतारः । कर्माण्येव विशेषतः पृच्छति ॥ यथेति । अग्रे आदिकाले । निरीहः स्वप्रयोजनेच्छारहितो यथा येन प्रकारेण ससर्ज यथा च संस्थाप्य सम्यक् स्थितं कृत्वा वृत्तिं जीविकां विधत्ते तथा वर्णयेत्यर्थः ॥ ५ ॥

यथा पुनः स्वे ख इदं निवेश्य शेते गुहायां स निवृत्तवृत्तिः ।

योगेश्वराधीश्वर एक एतदनुप्रविष्टो बहुधा यथाऽऽसीत् ॥ ६ ॥

पदरत्नावली

पुनः प्रलये स्वे खे निजोदराकाशे गुहायामिदं निवेश्य निवृत्तजगत्सृष्ट्यादिवृत्तिः स हरिर् यथा शेते । एतज्जगत् सृष्ट्वा तदनुप्रविष्टो हरिर्यथा बहुधासीत् । अनायासेन बहुरूपं गृह्णातीति योगेश्वराधीश्वर इत्युक्तम् ॥ ६ ॥

प्रकाशिका

पुनः प्रलये स्वे स्वीये खे निजोदराकाशे गुहायां जगदाच्छादिकायां तमोरूपायां चेतनप्रकृतौ शेते । निवृत्तवृत्तिर्निवृत्तजगत्सृष्ट्यादिव्यापारः । पुनः सृष्टौ सत्यामेतद्ब्रह्माण्डप्रविष्टो यथा बहुधा मत्स्यादिरूपेण ॥ ६ ॥

क्रीडन् विधत्ते द्विजगोसुराणां क्षेमाय कर्माण्यवतारभेदैः ।

मनो न तृप्यत्यपि शृृण्वतां नः सुश्लोकमौलेश्चरितामृतानि ॥ ७ ॥

पदरत्नावली

जगत्सर्जनादिकर्मकथनश्रवणादेरवतारभेदैः क्रियमाणकर्मकथनादौ सम्यक् मनो निर्विशतीत्यतस्तानि कर्माणि अवश्यं वक्तव्यानीत्याशयेन पुनरुक्तं करोति– क्रीडन्निति ॥ द्विजगोसुराणां क्षेमायेति चतुर्थ्या तदेव प्रयोजनमित्यवधारयति । भवता श्रुतपूर्वाणि हरेः कर्माणि । पुनः प्रश्नस्य कोऽर्थ इत्याशङ्क्य सत्यं किन्त्वलंबुद्ध्यभावाद् विशेषश्रवणेच्छार्थमित्याह– मनो नेति ॥ चरितामृत-श्रवणलक्षणपानं कुर्वतामित्यर्थः ॥ ७ ॥

प्रकाशिका

तैरवतारभेदैर्यानि कर्माणि विधत्ते करोति । तानि च वर्णयेत्यर्थः । पुनर्विशेषं प्रष्टुं स्वौत्सुक्यमाविष्करोति ॥ मन इति । सुश्लोकाः पुण्यकीर्तयस्तेषां मौलिरिव मौलिरुपरि विराज-मानस्तस्येत्यर्थः ॥ ७ ॥

यैस्तत्त्वभेदैरधिलोकनाथो लोकानलोकान् सह लोकपालान् ।

अचीक्लृपद् यत्र हि सर्वसत्वनिकायभेदोऽधिकृतः प्रतीतः ॥ ८ ॥

पदरत्नावली

ननु चतुर्मुखेन लोकादयः कल्प्यन्ते । ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ इत्यादिश्रुतेः । अतः कथं हरेः सकाशाद् लोकादिसर्जनादिकम् ? तत् कथनीयमिति प्रश्न इत्याह– यैरिति ॥ महदादितत्त्वभेदैः । ‘भेदो विशेषो दलनम्’ इत्यभिधानम् । भूरादिलोकान् । अलोकान् पृथिव्यादिबाह्यावरणविशेषान् । तत्त्वभेदैरित्युक्त्या प्रथमतो ब्रह्माण्डनिर्माणं तदनन्तरं लोकादिकल्पनमिति ग्राह्यम् । तथा वक्ष्यमाणत्वात् । येन यत्र ब्रह्मण्डे क्लृप्तलोकेषु सर्वसत्वानां सर्वप्राणिनां निकायस्य देवमुनुष्यादिभेदोऽधिकृतस् तत्तत्पदाधिकारयोग्यतया क्लृपः । प्रतीतः प्रत्यक्षानुमानाभ्यामवगतः । कथमित्येतदपि वर्णयेति ॥ ८ ॥

प्रकाशिका

यैस्तत्त्वभेदैर्महदादितत्त्वविशेषैरधिलोकनाथो लोकनाथाधिपोऽलोकान् लोकालोक-पर्वताद्बहिर्विद्यमानभागान् । अचीक्लृपत् कल्पयामास । यत्र येषु लोकेष्वलोकेषु च सर्वेषां सत्त्वानां प्राणिनां निकायास्तेषां भेदोऽधिकृतः । स्वस्य योग्यकर्मकरण इति शेषः । आश्रित इति वा । प्रतीत आगमादिनेति शेषः । तदपि वर्णय ॥ ८ ॥

येन प्रजानामुत आत्मकर्मरूपाभिधानेन भिदां व्यधत्त ।

नारायणो विश्वसृगात्मयोनिरेतच्च नो वर्णय विप्रवर्य ॥ ९ ॥

पदरत्नावली

नारायणो येन वा प्रजानाम् आत्मना देहेन स्वभावेन वा, कर्मणा चेष्टालक्षणेना-दृष्टेन वा, रूपेण शुक्लनीलाद्याकारविशेषेणाभिधानेन घटादिनाम्ना भिदां व्यावृत्तिम् उत अपि व्यधत्त एतदप्यस्माकं वर्णयेत्यन्वयः । सर्वसत्वनिकायेति सामान्येनोक्तस्य विशेषोऽयम् । नारायणो देवदत्त इवेत्यत उक्तम्– विश्वसृगिति ॥ स्वयमन्येन सृष्टः कथं विश्वसृक् स्यादित्यत उक्तम्– आत्मयोनि-रिति ॥ आत्मा स्वयमेव योनिः कारणं यस्य स तथा । स्रष्टा धातेति चतुर्मुखस्य स्रष्टृत्वप्रसिद्धेः कथ-मस्य विश्वसृक्त्वमित्यतो वा उक्तम्– आत्मयोनिरिति ॥ आत्मनः विरिञ्चस्य योनिरित्यर्थः ॥ ९ ॥

प्रकाशिका

सर्वसत्त्वनिकायेत्यनेन सामान्यतः पृष्टमेव विशेषतः पृच्छति ॥ येनेति । येन प्रकारेण । उतापि । आत्मा स्वभावस्तदनुसारि कर्म तत्कृतं रूपं शरीरं तदनुसार्यभिधानं नाम । द्वन्द्वैकवद्भावः । तेन । भिदां परस्परव्यावृत्तिम् । आत्मनश्चतुर्मुखस्य योनिः । अनेन चतुर्मुखद्वारा कथमेतत्सर्वं कृतवानिति प्रश्नाभिप्रायं सूचयति ॥ ९ ॥

परावरेषां भगवन् कृतानि श्रुतानि मे व्यासमुखादभीक्ष्णम् ।

न तृप्नुमः कर्णसुखावहानां तेषामृते कृष्णकथामृतौघात् ॥ १० ॥

तात्पर्यम्

ऋते अवगमे । ऋ गताविति धातोः । तेषां तात्पर्यावगमे कृष्णकथामृतौघ एवासौ यतः ॥ १० ॥

पदरत्नावली

भगवज्ज्ञानोपायोगित्वेनापादनीयत्वाद् भवतु एवं, मनुष्यादिभेदज्ञानेन किं प्रयोजनमित्याशङ्क्य तज्ज्ञानस्य भगवज्ज्ञानोपयोगित्वेन युक्तमापाद्यत्वमित्याह– परावरेषामिति ॥ परावरेषां ब्रह्मादिदेवमनुष्याणां कृतानि मे मया व्यासमुखादभीक्ष्णं श्रुतानि । ततः किम् ? तत्राह– नेति ॥ श्रुतानां तेषां ब्रह्मादिचरित्राणाम् ऋते अवगमे तात्पर्यज्ञाने सति ब्रह्मादिमहिम्नामपि भगवन् महिमावलम्बित्वात् कृष्णकथामृतौघ एवासौ इति यतोऽतस् तेषां भागवतानां कृष्णस्य च कथामृतौघात् श्रुतान् न तृप्नुमः । तात्पर्यज्ञाने सति कृष्णकथामृतौघत्वं कुत इति तत्राह– कर्णेति ॥ कृष्णकथामृतौघ-स्यैव कर्णसुखावहत्वं नान्यस्य । तस्य कर्णकर्कशत्वमित्यर्थः । ऋ गताविति धातोर्निष्ठान्तमृतमिति रूपम् । न तु ऋत इत्यव्ययम् । तथाऽङ्गीकारे तेभ्यो न तृप्नुम इति प्रयोगः स्यान् न तु तेषामिति । ग्रन्थान्तरे भारतस्य प्रशंसानुपपत्तेश्च ॥ १० ॥

प्रकाशिका

ननु महाभारतादिना व्यासमुखात्सर्वं त्वया श्रुतमेवातः किं पुनस्तद्वर्णनेनेत्यत आह ॥ परावरेषामिति । अत्र परे त्रैवर्णिका अवरे शूद्रादयस्तेषां कृतानि तद्योग्यानि कर्माणि । परे देवर्ष्यादयोऽवरे क्षितिपादयस्तेषां कृतानि चरित्राणीति वा । मे मया व्यासमुखादभीक्ष्णं यद्यपि पुनः पुनः श्रुतानि तथाऽपि कर्णसुखावहानां तेषाम् । षष्ठी तृतीयार्थे । कर्णसुखावहैस्तैर्व्यासोक्तैर्भारतादिभिर्न तृप्नुमः । कुतः । यतः कृष्णकथामृतौघादृते विना तानि भवन्त्यतो न तृप्नुम इति । भारतादौ हरिकथाभावरूपनिन्दा प्रतीयतेऽतोऽत्र विवक्षितमर्थं दर्शयितुमृत इत्येतद्व्याख्याति ॥ ऋत इति । तथा च ऋत इत्येतत्सप्तम्यन्तं न विनार्थकमव्ययमिति भावः । ऋत इत्यस्यावगमार्थत्वे नियामकं पठति । ऋ गताविति धातोर् धातुव्याख्यानात् । गत्यर्थानां च ज्ञानार्थत्वादिति भावः । इदानीं वाक्यार्थमाह ॥ तेषामिति । परावरकर्मप्रतिपादकानां भारतादीनामित्यर्थः । तात्पर्येति । ऋत इत्यत्र योग्यताबलात्तात्पर्येति लभ्यत इति भावः । कृष्णकथामृतौघ एवासौ यत इति तात्पर्यकथनेन कृष्णकथामृतौघत्वादिति भावप्राधान्यविवक्षया मूलं योज्यमिति सूचयति । तथा च यद्यपि व्यासमुखाद्भारतादिकं श्रुतं तत्र चापाततः परावरेषां कर्माण्येव प्रतिपादितानीति प्रतीयते । तत्त्वेन दुर्गमार्थत्वादुपक्रमादिलिङ्गेन तेषां तात्पर्यनिश्चये हरिकथामृतौघत्व-मुत्तमाधिकारिभिरेव ज्ञायते । न सर्वैः । भाषात्रयेण प्रवृत्तत्वेन दुर्गमार्थत्वात् । अतस्तैर्न तृप्नुमः । मन्दाधिकारिभिस्तेषां हरिपरत्वस्य ज्ञातुमशक्यत्वात् । अतो मन्दाधिकार्यनुजिघृक्षया समाधिभाषयैव वर्णयेति मूलाभिप्राय इति भावः ॥ १० ॥

कस्तृप्नुयात् तीर्थपदोऽभिधानात् सत्रेषु वः सूरिभिरीड्यमानात् ।

यः कर्णनाडीं पुरुषस्य यातो भयप्रदां गेहरतिं छिनत्ति ॥ ११ ॥

पदरत्नावली

इतोऽपि श्रीकृष्णस्य गुणगणकथामृतस्य पात्रीभूताद् भारतान् न कस्यापि तृप्तिरित्याह– कस्तृप्नुयादिति ॥ वः युष्माकं सत्रेषु सूतादिसूरिभिरीड्यमानात् स्तूयमानात् तीर्थपदो हरेरभिधानाद् भारतनामकीर्तनाद् रसज्ञः कः पुरुषस् तृप्नुयाद् अलमिति बुद्धिं कुर्यादित्यन्वयः । अलम्बुद्ध्यभावे हेतुमाह– य इति ॥ यस्तीर्थपात् पुरुषस्य कर्णनाडीद्वारा हृदयगुहां प्रविष्टः संसारभयप्रदां गेहरतिं गृहजायापुत्रादिस्नेहलक्षणां रतिं छिनत्ति, तस्येति शेेषः ॥ ११ ॥

प्रकाशिका

तर्हि तवोत्तमाधिकारित्वात्त्वां प्रति मदीयं हरिमाहात्म्यवर्णनं व्यर्थमित्यत आह ॥ कस्तृप्नुयादिति । को रसज्ञ उत्तमाधिकारी तृप्नुयात्तत्रालंबुद्धिं कुर्यात् । तीर्थपदो हरेरभिधानात्कथामृताद्वः सत्रेषु समाजेषु सूरिभिर्नारदादिभिः । पुनः पुनः श्रवणेन प्रयोजनमाह ॥ य इति । यो हरिः पुरुषस्योत्तमाधिकारिणः कर्णनाडीं यातः पुनरपि श्रूयमाण इत्यर्थः । छिनत्ति । तस्येति शेषः । उत्तमाधिकारिभिरपि वैराग्यवृद्ध्यर्थं हरिमाहात्म्यं पुनः पुनः श्रोतव्यमेवेति भावः ॥ ११ ॥

मुनिर्विवक्षुर्भगवद्गुणानां सखाऽपि ते भारतमाह कृष्णः ।

यस्मिन् नृणां ग्राम्यसुखानुवादैर्मतिर्गृहीता न हरेः कथायाम् ॥ १२ ॥

तात्पर्यम्

यस्मिन् भारते । हरेः कथायां ग्राम्यसुखानुवादैर्मतिर्न गृहीता । ‘भारतान्नाधिकं विष्णोर्महिमावाचकं क्वचित् । भारतान्न विरागाय भारतान्न विमुक्तये’ इति पाद्मे ॥ १२ ॥

पदरत्नावली

यन्मोक्षसुखानुवादि शास्त्रं तदेवाभ्यसनीयं, भारतस्य ग्राम्यसुखानुवादित्वेन पुरुषार्थानुपयोगित्वादिति तत्राह– मुनिरिति ॥ गुणानामिति षष्ठी द्वितीयार्थे । भगवद्गुणान् वक्तुकामस्ते तव सखा मुनिः सर्वज्ञोऽपि कृष्णः भारतमाह । ननु गुणान् वक्तुमकामयत नत्वभ्यधाद् यतो ग्राम्य-सुखानुवादेन नृणां मतिर्गृहीतेति तत्राह– यस्मिन्निति ॥ यस्मिन् भारते श्रवणादिनाऽभ्यस्यमाने सति नृणां मतिर्ग्राम्यसुखानुवादैर्न गृहीता हरेः कथायामेव गृहीता । ‘भारतान्नाधिकं विष्णोर्महिमावाचकं क्वचित् । भारतान्न विरागाय भारतान्न विमुक्तये ॥’ इति वचनात् । सत्यकामेन हरिणा विवक्षिता गुणा भारते कथिता इत्यत इदमेव शास्त्रं मुमुक्षुणाऽभ्यसनीयमित्यविगीतम् ॥ १२ ॥

प्रकाशिका

ननु भारते व्यासेनोत्तमाधिकारिणः प्रत्यपि भगवद्गुणान् प्रतिपादितत्वात्तत्र ग्राम्य-सुखानुवादस्यैव प्रतीयमानत्वादुपक्रमादिना तत्रैव तात्पर्यावगमाच्च । अतस्तेषामृते कृष्णकथामृतौघा-दित्युक्तमयुक्तमित्यत आह ॥ मुनिरिति । अत्र यस्मिन्नित्यस्य कृष्णपरामर्शत्वप्रतीतिवारणायार्थमन्वयं च दर्शयन्वाक्यार्थमाह ॥ यस्मिन्निति । हरेः कथायां हरिप्रतिपादकत्वेन कथायामुपक्रमादिना अवगम्य-मानायामिति शेषः । ग्राम्यसुखानुवादैरुत्तमाधिकारिणो मतिर्न गृहीता । उत्तमाधिकारिणो बुद्धिरापात-प्रतीतग्राम्यसुखादिरूपार्थमात्रावगाहिनी न भवतीत्यर्थः । तद्भारतं ते सखा मुनिः सर्वज्ञः कृष्णो व्यासो, भगवद्गुणानाम् । षष्ठी द्वितीयार्थे । भगवद्गुणानपि विवक्षुर्महातात्पर्यवृत्त्या प्रतिपादयितुकाम आहेत्य-न्वयः । अपिशब्देनावान्तरतात्पर्येण भारतस्य प्रतीतार्थपरत्वमप्यस्तीति दर्शयति । भारतस्य विष्णु-माहात्म्यप्रतिपादन एव तात्पर्यमित्यत्र प्रमाणं दर्शयति ॥ भारतादिति । भारतान्न विरागायेति द्वितीयार्धेन ‘‘सा श्रद्दधानस्य विवर्धमाने’’त्युत्तरश्लोकोक्तमपि प्रमापितमिति ज्ञातव्यम् ॥ १२ ॥

सा श्रद्धधानस्य विवर्धमाना विरक्तिमन्यत्र करोति पुंसः ।

हरेः सदाऽनुस्मृतिनिर्वृतस्य समस्तदुःखाप्ययमाशु धत्ते ॥ १३ ॥

तात्पर्यम्

सा ग्राम्यसुखानुवादैर्न गृहीता हरेः कथायां विवर्धमाना मतिः ॥ १३ ॥ इति तृतीयतात्पर्ये पञ्चमोऽध्यायः ॥ ५ ॥

पदरत्नावली

अस्तु हरेः कथायां गृहीता नृणां मतिः, ततः किं फलं विधत्त इति तत्राह– सा श्रद्धधानस्येति ॥ ग्राम्यसुखानुवादैर्न गृहीता हरेः कथायां विवर्धमाना सा श्रद्धधानस्य पुंसो मतिरन्यत्र विषयेषु विरक्तिं करोतीति प्रथमं वैराग्यं, द्वितीयं भक्तिलक्षणं, तृतीयमुपासनाजनितापरोक्षज्ञानं, चतुर्थं समस्तसंसारदुःखोच्छेदेन परमानन्दलक्षणं मोक्षाख्यं फलं करोति । एतदेवाह– हरेरिति ॥ सदानुस्मृत्या जातापरोक्षज्ञानेन निर्वृतस्य असम्प्रज्ञातसमाध्यवस्थासुखं प्राप्तस्य । आशु कालक्षेपमन्तरेण ॥ १३ ॥

प्रकाशिका

ग्राम्यसुखानुवादैरुत्तमाधिकारिणो मतिर्न गृहीतेत्युक्तम् । ततः किं करोतीत्यत आह ॥ सा श्रद्धधानस्येति । अत्र सेत्यनेन परामृश्यं विवर्धमानेत्यत्रापेक्षितानुवृत्तिं च दर्शयति ॥ सेति । तथा च श्रद् आस्तिक्यबुद्धिं दधानस्य पुंस उत्तमाधिकारिणो या भारततात्पर्यावगमे ग्राम्य-सुखानुवादेन न गृहीता मतिः सा हरेः कथायामेव विशेषेण वर्धमाना सत्यन्यत्र विषयेषु विरक्तिं करोति जनयति । अनन्तरं हरेः सदाऽनुस्मृतिनिर्वृतस्य ध्यानादिना प्राप्तस्वरूपानन्दस्य समस्तदुःखाप्ययं धत्ते विधत्त इति मूलं योज्यमिति भावः ॥ १३ ॥

ताञ्छोच्यशोच्यानविदोऽनुशोचे हरेः कथायां विमुखानघेन ।

क्षिणोति देवोऽनिमिषस्तु तेषामायुर्वृथावादगतिस्मृतीनाम् ॥ १४ ॥

पदरत्नावली

व्यतिरेकमुखेन हरेः कथाया दुःखाप्ययहेतुत्वमाह– तानिति ॥ अविदो ज्ञान-दुर्बलान् । अघेन व्यसनेन । आत्मनः शोकाधिकरणत्वं यथार्थं न मिथ्याभूतमिति द्योतयितुम् अनुशोच इत्यात्मनेपदप्रयोगः । अनिमिषो देवः कालात्मा विष्णुः । वृथावादो वृथागतिर्वृथास्मृतिश्च येषां ते तथा तेषामायुर् वृथा क्षिणोति इति वा । तदा, वादो विवादस् तत्सहिते गतिस्मृती येषां ते तथा तेषाम् । न हरिकथावतां वृथेति विशेषद्योतकस्तुशब्दः ॥ १४ ॥

प्रकाशिका

ननु मन्दाधिकारिणः प्रति भगवन्माहात्म्यमवश्यं वर्णयेति त्वया कस्मात्प्रार्थ्यत इत्याशङ्कायां ते मत्कृपाविषया इत्याह ॥ तानिति । शोच्यशोच्यान् अत्यन्तशोच्यानित्यर्थः । अविदो भारततात्पर्यानभिज्ञान् । अत एवाघेनाघकरणेन नानाविधव्यसनेन हरेः कथायां विमुखान् । अनिमिषो देवः कालनामा हरिः । वृथावादगतिस्मृतीनां वृथैव वादगतिस्मृतयो वाग्देहमनोव्यापारा येषां तेषामायुस्तु विशेषेण क्षिणोति वृथैव नाशयतीत्यर्थः । अतोऽनुशोच इत्यर्थः ॥ १४ ॥

तदस्य कौषारव शर्मदातुर्हरेः कथामेव कथासु सारम् ।

उद्धृत्य पुष्पेभ्य इवार्तबन्धो शिवाय नः कीर्तय तीर्थकीर्तेः ॥ १५ ॥

पदरत्नावली

स्वार्थप्रश्नमुपसंहरति– तदिति ॥ हरिकथाविमुखा व्यर्थायुष इति यस्मात् तस्मात्, तीर्थं यथा सेवमानानां पापं क्षिणोति तथा हरेः कीर्तिरपि तादृशी । तीर्थरूपा कीर्तिर्यस्य स तथा तस्य । नान्यकथा शिवसाधनमित्यस्मिन्नर्थे एवशब्दः ॥ १५ ॥

प्रकाशिका

तत्तस्मादस्मत्कृपाविषयत्वादस्याधिकारिणः शर्मदातुर्मोक्षादिपुरुषार्थप्रदस्य हरेः कथासु मध्ये सारं सारभूतां कथामेव यथा पुष्पेभ्यो मधु मधुप उद्धरति । तद्वदुधृत्य नः शिवाय मोक्षाय कीर्तय । कथंभूतस्य हरेः । तीर्थवत्पवित्रकरी कीर्तिर्यस्य स तथा तस्य ॥ १५ ॥

स विश्वजन्मस्थितिसंयमार्थे कृतावतारः प्रगृहीतशक्तिः ।

चकार कर्माण्यतिपौरुषाणि यानीश्वरः कीर्तय तानि मह्यम् ॥ १६ ॥

पदरत्नावली

सारकथापि सृष्ट्यादिविषयलीलैवेत्याशयेनाह– स इति ॥ पुरुषा ब्रह्मादयस् तत्कर्मातिक्रान्तानि अतिपौरुषाणि । कृतवासुदेवाद्यवतारः । सृष्ट्यादिकर्तारौ ब्रह्मरुद्राविति भ्रान्ति-निवारणार्थमीश्वर इत्युक्तम् । ब्रह्मशिवेशनशील ईश्वर इत्यर्थः । प्रगृहीतसृष्ट्यादीच्छाशक्तिर् वशीकृत-प्रकृतिशक्तिर्वा ॥ १६ ॥

प्रकाशिका

कथासारमेव दर्शयन्नाह ॥ स इति । संयमः प्रलयः । कृतवासुदेवाद्यवतारः । प्रगृहीता लीलयैव सहकारितयोपात्ताः शक्तयः सत्त्वाद्यभिमानिन्यः श्रीभूदुर्गा येन स तथोक्तः । तथा च सृष्ट्यादिलीलैव कथासार इति भावः । मह्यं नः ॥ १६ ॥

शुक उवाच–

स एवं भगवान् पृष्टः क्षत्रा कौषारविर्मुनिः ।

पुंसां निःश्रेयसार्थाय तमाह बहुमानयन् ॥ १७ ॥

पदरत्नावली

मैत्रेयो विदुरप्रश्नपरिहारं वक्तुमुपाक्रमत इत्याह शुकः– स एवमिति ॥ निःश्रेयसार्थाय मोक्षादिपुरुषार्थाय ॥ १७ ॥

मैत्रेय उवाच–

साधु पृष्टं त्वया साधो लोकान् साध्वनुगृह्णता ।

कीर्तिं वितन्वता लोके आत्मनोऽधोक्षजात्मनः ॥ १८ ॥

पदरत्नावली

बहुमानप्रकारं वक्ति– साध्विति ॥ अधोक्षजे हरावात्मा मनो यस्य स तथा तस्य । आत्मनो मम स्वस्य परमात्मनो वा ॥ १८ ॥

प्रकाशिका

बहुमानप्रकारमेवाह ॥ साधु पृष्टमित्यादिना । लोकान्मन्दाधिकारिणः । आत्मनः स्वस्याधोक्षजे आत्मा मनो यस्य ॥ १८ ॥

नैतच्चित्रं त्वयि क्षत्तर्बादरायणवीर्यजे ।

गृहीतोऽनन्यभावेन यत् त्वया हरिरीश्वरः ॥ १९ ॥

पदरत्नावली

तव तद्विषयप्रश्न उचित एवेति कथयति– नैतदिति ॥ यादृशो भावो विष्णो-रन्यस्मिन् वस्तुनि नास्ति तादृशो भावोऽनन्यभावः, तेन सर्वोत्तमत्वज्ञानपूर्वकबहुमानेनेत्यर्थः । हरिरीश्वर इत्येतौ शब्दौ अन्योन्यव्यावर्तकत्वेन प्रवृत्ताविति ज्ञातव्यम् ॥ १९ ॥

प्रकाशिका

एतादृशप्रश्नकरणं तवोचितमेवेत्याशयेनाह ॥ नैतदिति । एतदेतादृशप्रश्नकरणम् । बादरायणवीर्यजत्वं धृतराष्ट्रेऽप्यस्ति । अतोऽत्र विशेषमाह । यद्यस्माद्धरिरनन्यभावेन अनन्यसाधारण-भक्त्या त्वया गृहीतो ज्ञातस्तस्मादेतन्न चित्रमित्यन्वयः ॥ १९ ॥

माण्डव्यशापाद् भगवान् प्रजासंयमनो यमः ।

भ्रातुः क्षेत्रे भुजिष्यायां जातः सत्यवतीसुतात् ॥ २० ॥

पदरत्नावली

देवयोनित्वात् तव हरिकथाप्रश्नो नाश्चर्यकर इति भावेन कथयति– माण्डव्येति ॥ व्यासस्य भ्रातुर् विचित्रवीर्यस्य क्षेत्रे वीर्याधानयोग्यायां भुजिष्यायां दास्यां यः सत्यवतीसुताज्जातः प्रजासंयमनो यमो भवानिति यस्मात् ॥ २० ॥

प्रकाशिका

देव एव त्वं शापाच्छूद्रजातिरस्यतोऽपि नैतच्चित्रमित्याशयेनाह ॥ माण्डव्येति । व्यासस्य भ्रातुर्विचित्रस्य क्षेत्रे भार्यात्वेन स्वीकृतायां भुजिष्यायां दास्याम् ॥ २० ॥

भवान् भगवतो नित्यं सम्मतः सानुगस्य हि ।

ज्ञानोपदेशाय च मामादिशद् भगवान् व्रजन् ॥ २१ ॥

पदरत्नावली

किञ्च स्वधाम व्रजन् तव ज्ञानोपदेशाय मामादिशदिति यस्मात् तस्माद् भवान् सानुगस्य भगवतो नित्यं प्रियत्वेन सम्मतोऽतो युक्त इति भावः । हिशब्देन सम्मतत्वे ग्रन्थान्तरप्रसक्तिं द्योतयति ॥ २१ ॥

प्रकाशिका

श्रीकृष्णस्य प्रियत्वेन संमतत्वाच्च नैतच्चित्रमित्याह ॥ भवानिति । संमतः । प्रियत्वेनेति शेषः । हिशब्देनायमर्थः प्रसिद्ध इति दर्शयति । किञ्च स्वधाम व्रजन् तव ज्ञानोपदेशाय मामादिशदिति यस्मात्तद्भवान् भगवतः प्रियत्वेन संमत इति योज्यम् ॥ २१ ॥

अथ ते भगवल्लीला योगमायोपबृंहिताः ।

विश्वस्थित्युद्भवांतार्था वर्णयाम्यनुपूर्वशः ॥ २२ ॥

॥ इति श्रीमद्भागवते तृतीयस्कन्धे पञ्चमोऽध्यायः ॥

पदरत्नावली

श्रोतुरभिमुखीकरणार्थं वक्तव्यार्थं प्रतिजानीते– अथेति ॥ योगमायोपबृंहिताः स्वरूपसामर्थ्योपेताः ॥ २२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे पञ्चमोऽध्यायः ॥

प्रकाशिका

अथ तस्मात्प्रष्टुस्तवैवंविधत्वात् । योगः स्वरूपसामर्थ्यं, माया प्रकृतिस्ताभ्यामुपबृंहिता वर्धिता विश्वस्थित्यादयोऽर्था विषया यासां ताः ॥ २२ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां पञ्चमोऽध्यायः ॥ ३–५ ॥