अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम्
अथ चतुर्थोऽध्यायः
उद्धव उवाच–
अथ ते तदनुज्ञाता भुक्त्वा पीत्वा च वारुणीम् ।
तया १विस्रंशितज्ञाना दुरुक्तैर्मर्म पस्पृशुः ॥ १ ॥
पदरत्नावली
अथ तदनुज्ञातास् तैर्विप्रैर्भोजनायानुज्ञाताः । तया वारुण्या विभ्रंशितं स्वः पर इति ज्ञानं येषां ते तथोक्ताः । पस्पृशुस् ताडितवन्तः । स्पृश उपतापे ॥ १ ॥
प्रकाशिका
तैर्विप्रैर्भोजनायानुज्ञाताः । वारुणीं मदिराम् । तया वारुण्या विस्रंशितं स्वः पर इति ज्ञानं येषां ते तथोक्ताः । मर्म पस्पृशुः परस्परं मर्मवाचकदुरुक्तीर्वदिष्यन्तीत्यर्थः ॥ १ ॥
तेषां मैरेयदोषेण विषमीकृतचेतसाम् ।
निम्लोचति रवावासीद् वेणूनामिव मर्दनम् ॥ २ ॥
पदरत्नावली
मैरेयदोषेण मैरेयाख्यमद्यपानदोषेण । रवावादित्ये । निम्लोचति अस्तं गच्छति सति । आसीद् भविष्यति । विमर्दनं विनाशलक्षणः कलहो ऽन्योन्यसङ्घर्षलक्षणः ॥ २ ॥
प्रकाशिका
वारुण्येव मैरेयं तस्य दोषेण तत्पानजनितचित्तविभ्रंशेन निम्लोचत्यस्तङ्गच्छति सति मर्दनं युद्धलक्षणसङ्घर्ष आसीद्भविष्यति ॥ २ ॥
भगवानात्ममायाया गतिं तामवलोक्य सः ।
सरस्वतीमुपस्पृश्य वृक्षमूलमुपाविशत् ॥ ३ ॥
अहं चोक्तो भगवता प्रपन्नार्तिहरेण ह ।
बदरीं त्वं प्रयाहीति स्वकुलं सञ्जिहीर्षुणा ॥ ४ ॥
अथापि तदभिप्रेतं जानन्नहमरिंदम ।
पृष्ठतोऽन्वगमं भर्तुः पादविश्लेषणाक्षमः ॥ ५ ॥
तात्पर्यम्
आत्ममायाया आत्मसामर्थ्यस्य । गतिं पूर्वमेवावलोक्य । ‘ज्ञात्वा कतिपयैर्वर्षैः पूर्वमेव जनार्दनः । मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत् । १स ज्ञानं तत्र विस्तीर्य पुनर्द्वारवतीं ययौ ॥ पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः । स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम् । पुनः श्रुत्वा बदर्यां तु वर्षत्रयमुवास ह । ज्ञानं संस्थाप्य पश्चाच्च स्वेच्छया स्वर्गतः प्रभुरि’ति गारुडे
॥ ३,५ ॥
पदरत्नावली
तदा भगवता किमकारीति तत्राह– भगवानिति ॥ आत्ममायाया आत्म-सामर्थ्यस्य गतिम् अवलोक्य । पूर्वमेवेति शेषः । या तत्तद्योग्यतया तत्तद्वस्तुषु प्राकट्येन वर्तते ताम् । ‘ज्ञात्वा कतिपयैर्वर्षैः पूर्वमेव जनार्दनः । मौसलं ज्ञानसन्तत्या उद्धवं बदरीं नयत् ॥’ इति । नयदनैषीत् ॥ संक्षिप्योक्तं विवेचयति– अहं चेति ॥ सञ्जिहीर्षुणा संहर्तुकामेन । हेत्यनेन ‘तज्ज्ञानं तत्र विस्तीर्य पुनर्द्वारवतीमगात्’ इति वचनात् स्वर्गारोहणात् पूर्वमपि भगवदाज्ञया बदरीगमनं स्पष्टयति ॥ हे अरिंदम विदुर अथापि पूर्वदिष्टोऽहं पुनः स्वर्गारोहणकाले भर्तुः पृष्ठतोऽन्वगममनुगमिष्य इत्यन्वयः । चर्वितचर्वणवद् अनुगमनं निष्प्रयोजनं नेत्याह– तदभिप्रेतमिति ॥ तस्य कृष्णस्याभिप्रेतं ज्ञानोपदेश-लक्षणहार्दं जानन् । प्रयोजनान्तरं चास्तीति ध्वनयति– पादेति ॥ तदुक्तम् ‘पूर्वमेवोपदिष्टोऽपि हरिणा ज्ञानमुद्धवः । स्वर्गारोहणकाले तु पुनः पप्रच्छ केशवम् ॥’ इत्यादि ॥ ३-५ ॥
प्रकाशिका
आत्ममाययेत्यत्रात्ममायाशब्दस्यानिर्वाच्याविद्यापरत्वप्रतीतिनिरासायात्रोपयुक्तमर्थ माह ॥ आत्ममायाया इति । आत्मसामर्थ्यस्य यदुकुलसंहरणरूपस्य गतिं स्थितिम् । अवलोक्येति वचनं संजिहीर्षुणेति वक्ष्यमाणविरुद्धम् । संहारस्य तदानीं जातत्वे सञ्जिहीर्षासम्भवात् । अतोऽत्रापेक्षितं पूरयति ॥ पूर्वमेवेति । यदुकुलनाशापेक्षया षड्विंशतिवत्सरेभ्यः पूर्वमेवेत्यर्थः । अत्र प्रमाणमप्याह ॥ ज्ञात्वेति । मौसलं मुसलकार्यं यदुकुलनाशं ज्ञात्वेत्यन्वयः । उद्धवम् । स्वयमुपदिश्येति शेषः । ज्ञानसन्तत्यै मुनीनां स्वयमुपदेशेन ज्ञानविस्ताराय नयदनयत् । नन्वेवमुद्धवोपदेशबदरीगमनयोर्यदुकुल-संहारात्पूर्वकालीनत्वे संहृत्य स्वकुलं नूनमिति वक्ष्यमाणविरोधः । तत्र यदुकुलसंहारानन्तरमुद्धवस्य ज्ञानोपदेशबदरीगमनयोर्वक्ष्यमाणत्वादित्यतस्तदपि सत्यम् । उद्धवस्य ज्ञानोपदेशबदरीगमनयोरन्तरेऽपि पुनर्जातत्वादित्याशयेनात्राप्युक्तप्रमाणशेषमेव पठति ॥ पूर्वमेवेति । तथा च भगवानात्ममायाया इत्यादे-रयमर्थः ॥ आत्ममायाया यदुकुलसंहरणरूपस्यात्मसामर्थ्यस्य तां भाविनीं गतिं स्थितिम् । स्वर्गारोहणा-पेक्षया षड्विंशतिवत्सरेभ्यः पूर्वमेवावलोक्य प्रभासं गत्वा तत्र सरस्वतीमुपस्पृश्य स्नानाचमनादिकं कृत्वेत्यर्थः । वृक्षमूले उपाविशदुपविष्टोऽभूत् ॥ तत्र प्रभासगमनसमये । प्रपन्ना ये बदरीवासिन-स्तदार्तिहरेण भगवता त्वं बदरीं प्रयाहीति अहमुक्तश्च । हेत्यनेनास्योपदेशस्य यदुकुलनाशात्पूर्वकालीनत्वं प्रामाणिकमिति सूचयति । एतद्ग्रन्थस्वारस्येनैवोद्धवस्य पूर्वोपदेशः प्रभासे सरस्वतीतीरे वृक्षमूल एव जात इति ज्ञायते ॥ अथाऽपि प्रयाहीत्युक्तेऽपि तदभिप्रेतं तस्य कृष्णस्य ज्ञानोपदेशाभिप्रायं जानन् अहम् । भो अरिन्दम कामादिवैरिदमन विदुर ॥ ३-५ ॥
अद्राक्षमेकमासीनं विचिन्वन् दयितं पतिम् ।
श्रीनिकेतं सरस्वत्यां कृतकेतमकेतनम् ॥ ६ ॥
पदरत्नावली
ननु अनुगमनवचनेन मौसलावस्थायामनवस्थानं प्रतीयते तथा च तद्दर्शनाभावेन तज्ज्ञानोपदेशासम्भवः स्यादित्युक्तमयुक्तमिति तत्राह– अद्राक्षमिति ॥ विचिन्वन् मार्गमाणः दयितं प्रेष्ठं पतिम् आत्मज्ञानदानेन पातारं सरस्वत्यां तत्तीरे कृतकेतं कृतनिवासम् ओतनम् अनन्याधारम् ॥ ६ ॥
प्रकाशिका
विचिन्वन्मार्गमाणः । दयितं प्रेष्ठम् । सरस्वत्यां तत्तीरे । कृतकेतं कृतनिवासम् । ओतनमनन्याधारम् ॥ ६ ॥
श्यामावदातं विरजं प्रशान्तारुणलोचनम् ।
दोर्भिश्चतुर्भिर्विदितं पीतकौशाम्बरेण च ॥ ७ ॥
पदरत्नावली
श्यामश्चायमवदातश्च निर्मलश्चेति श्यामावदातस् तम् । श्यामायां रात्र्यामप्यवदातम् अरुणं सूर्यवत् प्रकाशमानमित्यर्थः । ‘अवदातः सितेऽरुणे’ इत्यभिधानाद् योग्यताभेदात् सितोऽरुण-श्चाधिकारिणां प्रतीयते इति द्योतनाय तथोक्तमिति वा । प्रशान्ते स्तिमिते अरुणे लोचने यस्य स तथा तम् । कृमिकोशेन रचितं कौशेयं, तेनाम्बरेण च विदितं विशेषितम् । ‘कौशेयं कृमिकोशोत्थम्’ इत्यभिधानं छन्दोभङ्गभयाद् भ्रंशितम् । अण् प्रत्ययाद् वा ॥ ७ ॥
प्रकाशिका
श्यामवर्णेनावदातं निर्मलं प्रकाशमानं वा । विरजं विरजसं विगतदोषम् । प्रशान्ते स्तिमितेऽरुणे लोचने यस्य तम् । विदितं लक्षितम् । कुशेन कृमिविशेषेण निर्मितं कौशं तच्च तदंबरं च तेन ॥ ७ ॥
वाम ऊरावधिश्रित्य दक्षिणाङ्घ्रिसरोरुहम् ।
अपाश्रितार्भकाश्वत्थमकृशं त्यक्तपिप्पलम् ॥ ८ ॥
पदरत्नावली
अपाश्रितार्भकावस्थम् अवतारदशायां याऽवस्था तामाश्रितम् । अकृशं पूर्णम् । त्यक्तपिप्पलं त्यक्तकर्मफलं, योगाद्वोत्सृष्टाश्वत्थमूलम् ॥ ८ ॥
प्रकाशिका
अधिश्रित्य उपरि स्थापयित्वा । अपाश्रितः पृष्टतोऽवष्टब्धोऽर्भकाश्वत्थः कोमलाश्वत्थवृक्षो येन तम् । अर्भकावस्थमिति पाठे तु अवतारदशायां या बाल्यावस्था तामपाश्रितमिति व्याख्येयम् । अकृशं परिपूर्णाङ्गं, त्यक्तं दूरीकृतं पिप्पलं कर्मफलं येन तम् ॥ ८ ॥
तस्मिन् महाभागवतो द्वैपायनसुहृत् सखा ।
लोकाननुचरन् सिद्ध आससाद यदृच्छया ॥ ९ ॥
पदरत्नावली
तस्मिन्नवसरे द्वैपायनस्य वेदव्यासस्य सुहृत् सखा च भूम्यादिलोकाननुचरन् पर्यटन् । सिद्धो ज्ञानी मैत्रेयः । यदृच्छया भगवदिच्छया । आससाद । हरिमिति शेषः ॥ ९ ॥
प्रकाशिका
तस्मिन्देशे काले च । द्वैपायनस्य सुहृत्सखा च । मैत्रेयस्य पराशरशिष्यत्वात् । सिद्धो ज्ञानी ॥ ९ ॥
तस्यानुरक्तस्य मुनेर्मुकुन्दः प्रमोदभारानतकन्धरस्य ।
आशृृण्वतो मामनुरागहाससमीक्षया विश्रमयन्नुवाच ॥ १० ॥
पदरत्नावली
हरेरनुग्रहातिशयसूचनाय मुनेराशृण्वतः सत इत्युक्तम् । सम्यगनुरागहासाभ्यां स्नेहमन्दस्मिताभ्यां सहितया समीचीनया कटाक्षेक्षया विश्रमयन् संसारक्लेशं परिहृत्यानन्दं जनयन् ।‘सम् अभेदे समीचीने’ इति यादवः ॥ १० ॥
प्रकाशिका
तस्य मुनेराशृृण्वतः सतः । अनुरागहासाभ्यां स्नेहमन्दस्मिताभ्यां सहितया समीक्षया सम्यक् निरीक्षणेन विश्रमयन्विगतश्रमं कुर्वन् ॥ १० ॥
भगवानुवाच–
वेदाहमन्तर्मनसीप्सितं ते ददामि यत् तद् दुरवापमन्यैः ।
सत्रे पुरा विश्वसृजां १मुनीनां मत्सिद्धिकामेन वसो त्वयेष्टः ॥ ११ ॥
पदरत्नावली
किमित्याह हरिरिति तत्राह– वेदेति ॥ हे वसो मद्भक्तशिखामणे ते तव मनस्यन्तः हृदि यदीप्सितं तदहं वेद । ततः किम् ? तत्राह– ददामीति ॥ ते तुभ्यं त्वदभीष्टं ददामि दास्यामीतीच्छामि । अन्यैः प्राप्यं चेत् किमनेनेत्यत उक्तम्– दुरवापमिति ॥ अन्यैर् मद्भक्तिरहितैः । त्वन्मुखारविन्दान्निःसृतं श्रोतुं महता पुण्येन भाव्यम् । अननुष्ठितपुण्यकर्मणामेतत् कथं स्यादिति तत्राह– सत्र इति ॥ पुरा पूर्वजन्मनि नित्यं भगवदुपासनाशीलत्वान्मनुशब्दवाच्यानां देवानां सत्रे यज्ञविशेषे मत्सिद्धिकामेन मत्तो ज्ञानादिसिद्धिकामेन त्वयेष्टः पूजितः ॥ ११ ॥
प्रकाशिका
ते मनस्यन्तरीप्सितं ‘‘ज्ञानं मे स्यादि’’ति यद्वाञ्छितं तदहं वेद वेद्मि । ते ज्ञानं ददामि । ज्ञानदानकारणं तस्य पूर्वपुण्यमाह ॥ सत्र इति । विश्वसृजां प्रजापतीनां मुनीनां ज्ञानिनां देवानां च सत्रे यागविशेषे । पुरा पूर्वजन्मनि मत्सिद्धिकामेन मत्तो ज्ञानसिद्धिकामेन त्वयाऽहमिष्टः पूजितो यतोऽतो ददामीति योज्यम् । ननु देवानां प्रजापतीनां वा सत्रे मया त्वं कथमिष्ट इत्यत उक्तम् ॥ वसो इति । तेषां मध्ये वसतीति वसुस्तस्य सम्बुद्धिर्वसो इति । तथा च तेषां यजमानभूतानां देवानां मध्ये त्वमपि बृहस्पतिरूपो देवोऽभूरतस्त्वयाऽहमिष्ट इति भावः ॥ ११ ॥
स एष साधो चरमो भवानामासादितस्ते मदनुग्रहोऽयम् ।
यन्मां नृलोकान् रह उत्सृजन्तं दिष्ट्या ददृश्वान् विशदानुवृत्त्या ॥ १२ ॥
पदरत्नावली
फलान्तरं चाह– स एष इति ॥ हे साधो उद्धव ते त्वयाऽऽसादितो यो भवः शरीरसंयोगलक्षणः स एष भवानां जन्मनां चरमो भवः । अयं मदनुग्रह ईदृशो मम चित्तद्रवीकरण-लक्षणः प्रसादविशेषः । कुतोऽवगतमेतदिति तत्राह– यन्मामिति ॥ भवान् रह एकान्ते नृलोक-मुत्सृजन्तं मां विशदानुवृत्त्या निर्मलसेवया ददृश्वानिति यदत इत्यन्वयः । दिष्ट्येत्यव्ययं भद्रमित्ये-तस्मिन्नर्थे वर्तते ॥ १२ ॥
प्रकाशिका
तस्य ज्ञानदानाय स्वानुग्रहयोग्यतामभिनन्दति ॥ स एष इति । हे साधो । भवानां जन्मनां मध्ये बृहस्पतिनामकस्य त्वन्मूलरूपस्य सोऽण्डाद्वहिर्विद्यमान एष ब्रह्माण्डान्तर्गतश्च भवश्चरमः । न तूद्धवनामकदेहेन भवश्चरमः । लयपर्यन्तं प्रतिदिनमुद्धवदेहजननात् । कुतः । तस्य ज्ञानदानाय स्वानुग्रहयोग्यः । यद्यस्मात्त्वयाऽयं मदनुग्रहो मोक्षहेतुरात्यन्तिकप्रसाद आसादितो लब्धः । एता-दृशात्यन्तिकप्रसादलाभेऽपि किं कारणमित्यत आह ॥ यन्मामिति । विशदानुवृत्त्या बहुकालीननिर्मल-सेवया नृलोकान् जीवलोकान् भूरादीन् उत्सृजन्तं स्रष्टुकामम् । चरमोपदेशविवक्षायां तूत्सृजन्तमिति यथा स्थितम् । मां रहो दिष्ट्या ददृश्वान् दष्टवानसि । अस्मिन्समये मद्दर्शनमेव मत्प्रसादविशेषजनकमिति भावः ॥ १२ ॥
पुरा मया प्रोक्तमजाय नाभ्ये पद्मे निषण्णाय ममादिसर्गे ।
ज्ञानं परं मन्महिमावभासं यत् सूरयो भागवतं वदन्ति ॥ १३ ॥
पदरत्नावली
वक्तव्यार्थे श्रद्धातिशयजननार्थं ज्ञानं स्तौति– पुरेति ॥ मया पुरा आदिसृष्टौ मम नाभ्ये नाभेरुत्पन्ने पद्मे निषण्णाय अजाय प्रोक्तं, यज्ज्ञानं यत्परम् उत्तमं मन्महिम्नोऽवभासः प्रकाशो यस्मात् तत् सूरयो यच्च भागवतं भगवदेकविषयत्वाद् वदन्ति तज्ज्ञानं तुभ्यमुपदेक्ष्यामि इत्यध्या-हृत्यान्वयः कर्तव्यः ॥ १३ ॥
प्रकाशिका
वक्तव्यार्थे श्रद्धातिशयजननाय स्वस्य विप्रलंभकतापरिहाराय च वक्ष्यमाणं ज्ञानं स्तौति ॥ पुरेति । पुराऽस्मिन्पाद्मे कल्पे तत्राप्यादिसर्गे सर्गोपक्रमे मम ज्ञानं मन्महिम्नोऽवभासो ज्ञानं यस्मात् । यच्च सूरयो भगवदेकविषयत्वाद्भागवतं वदन्ति तत्ते ददामीति पूर्वेणान्वयः ॥ १३ ॥
इत्यादरोक्तः परमस्य पुंसः प्रतीक्षणानुग्रहभाजनोऽहम् ।
स्नेहोत्थरोमा स्खलिताक्षरस्तं मुञ्चन् शुचः प्राञ्जलिराबभाषे ॥ १४ ॥
पदरत्नावली
इतिशब्देन ज्ञानस्य विशेषणान्तरविशिष्टत्वं सूचयति । ‘अमत्रं भाजनं पात्रम्’ इत्यभिधानम् । स्नेहोत्थरोमा भक्त्या समुत्पन्नरोमाञ्चः । आबभाष इति परोक्षव्यपदेशः सर्वेन्द्रियाणां भगवदेकविषयत्वेन बाह्यप्रवृत्तिशून्यतामपेक्ष्येति ज्ञायते । ‘सुप्तोऽहं किल विललाप’ इत्यादौ दृष्टत्वात्
॥ १४ ॥
प्रकाशिका
पूर्वमादृतः पश्चादुक्तश्च । प्रतीक्षणं सम्यङ् निरीक्षणं तल्लक्षणो योऽनुग्रहस्तद्भाजनः पात्रभूतः । ‘‘अमत्रं भाजनं पात्रमि’’त्यभिधानात् । शुचोऽश्रूणि मुञ्चन् आबभाषे उक्तवानस्मि । आबभाष इति पारोक्ष्येण निर्देशः स्वस्य तदा बाह्यज्ञानाभावप्रदर्शनार्थः । सुप्तोऽहं विललाप किलेत्यादौ दृष्टत्वात् ॥ १४ ॥
को न्वीश ते पादसरोजभाजां सुदुर्लभोऽर्थेषु चतुर्ष्वपीह ।
तथापि नाहं प्रवृणोमि भूमन् भवत्पदाम्भोजनिषेवणोत्सुकः ॥ १५ ॥
पदरत्नावली
भगवदपरोक्षज्ञानसाधनपादारविन्दभक्तिमन्तरेण नान्यदाकाङ्क्ष इत्याह– को न्विति ॥ भवत्पदाम्भोजनिषेवणोत्सुक इत्यनेन एतावन्तं कालं प्रवृणोमि उत्तरत्र कथमिति न जान इत्यपव्याख्यानं प्रत्युक्तम् । अध्याहारस्याप्रामाणिकत्वात् । उत्सुकत्वस्य सदातनत्वप्रतीतेश्च ॥ १५ ॥
प्रकाशिका
चतुर्विधान्पुरुषार्थान्विहाय ज्ञानमेव तवाभीप्सितं कुत इत्यत आह ॥ को न्वीश इति । पादसरोजभाजां श्रवणादिरूपभजनं कुर्वताम् । चतुर्ष्वप्यर्थेषु धर्मादिषु । तथाऽपि तानहं न प्रवृणोमि । निषेवणं श्रवणादिरूपं तत्रैवोत्सुको यतः ॥ १५ ॥
कर्माण्यनीहस्य भवोऽभवस्य ते दुर्गाश्रयोऽथारिभयात् पलायनम् ।
कालात्मनो यत् प्रमदायुताश्रयः स्वात्मन् रतेः खिद्यति धीर्विदामपि ॥ १६ ॥
पदरत्नावली
ज्ञानान्तरङ्गगुणोपसंहारलक्षणोपासनामन्तरेण भक्तेराकाङ्क्षितत्वे किं कारणमित्या-शङ्क्य हरेर्देवदत्तकर्मवत् कर्मप्रतीतेर्गुणानां दुरवबोधत्वं निमित्तमित्याह– कर्माणीति ॥ अनीहत्वादि-मतस्तव कर्मादिदर्शनं लोकविरुद्धमतो जन्माद्यभावविदामस्माकमपि बुद्धिः खिद्यत इति । अभवस्य जन्मरहितस्य भवो जन्म नित्यमुक्तस्य बन्धो वा । अदुर्गस्य नित्यनिकटवर्तिनो द्वारकादिदुर्गाश्रयः, अत एव जरासन्धाद्यरिभयात् पलायनं, गोमन्तमिति शेषः । कल कामधेनाविति धातोः कालात्मनः सर्वसंहर्तुर्वा । स्वात्मन् रतेः स्वात्मनि रतिः रमणं यस्य स तथा तस्य । प्रमदानाम् अयुताश्रय इति यत् तत् सर्वं विरुद्धमत इति । अपिना लोकविडम्बनमिदं न तु तत्वमिति सूचयति ॥ १६ ॥
प्रकाशिका
निश्चिततत्त्वस्य तव पुनः श्रवणादौ कस्मादौत्सुक्यमिति शङ्कायामाह । कर्माणीति श्लोकद्वयेन । अनीहस्य विहितनिषिद्धक्रियारहितस्य ते तव कर्माणि विधिबद्धवत्स्नानदानादिकर्माणि । अभवस्योत्पत्तिरहितस्य भव उत्पत्तिः । कालात्मनः सर्वसंहारकस्य ते द्वारकादिदुर्गाश्रयो ऽरीणां जरासन्धादीनां भयात्पलायनं च, स्वात्मन् स्वस्वरूपे रति रमणं यस्य तस्य ते प्रमदानां स्त्रीणा-मयुताश्रयो बहुस्त्रीपरिग्रह इति यत् तस्मिन्विषये विदां विदुषां निश्चिततत्त्वानामपि धीरन्तःकरणप्रभेदरूपा बुद्धिः खिद्यति अलंबुद्धिं न प्राप्नोति । चञ्चला भवतीति भावः ॥ १६ ॥
मन्त्रेषु मां वा उपहूय यत् त्वमकुण्ठिताखण्डसदात्मबोधः ।
पृच्छेः प्रभो मुग्ध इवाप्रमत्तस्तन्नो मनो मोहयतीव देव ॥ १७ ॥
पदरत्नावली
इदमपि ज्ञानदुर्बलानां बुद्धिव्यामोहकरमित्याह– मन्त्रेष्विति ॥ वैशब्दादक्रूरादिकं ग्राहयति । अकुण्ठितो ऽविमिश्रितो ऽखण्डः पूर्णः सन् निर्दोष आत्मबोधः स्वरूपज्ञानं यस्य स तथा ॥ १७ ॥
प्रकाशिका
किञ्च मन्त्रेषु विचारेषु प्रसक्तेषु सत्सु मां, वै अहो, उपहूय आकार्य । अकुण्ठितः सर्वत्राप्रतिबद्धः । अखण्डोऽपरिच्छिन्नः सन् निर्दुष्ट आत्मबोधः स्वरूपज्ञानं यस्य स तथोक्तः । एवंभूतोऽपि त्वं मुग्ध इवाज्ञो यथा पृच्छति तथा । अप्रमत्तोऽवहितः सन् मां पृच्छेर् अप्रच्छ इति यत्तन्नोऽस्माकं मनो मोहयतीव मोहयुक्तं करोतीव । इदं सर्वमसुरजनमोहनाय लोकानुकरणं न वास्तव-मिति समाधानम् । अज्ञानमपि स्वस्येवशब्देन दर्शयति । तथा चैतादृशधीचाञ्चल्यप्रसक्तिपरिहाराय पुनर्मम ज्ञानोपदेशश्रवणाद्यौत्सुक्यमिति भावः ॥ १७ ॥
ज्ञानं परं स्वात्मरहः प्रकाशं प्रोवाच कस्मै भगवान् समग्रम् ।
अपि क्षमं नो ग्रहणाय भर्तर्वेदाञ्जसा यद् वृजिनं तरेम ॥ १८ ॥
पदरत्नावली
ज्ञानाख्याव्याकृताकाशस्तत्तद्योग्यताभेदं जानन्नात्मयोग्यमेवोपदिशति भगवान्, तथापि स्वचापल्याद् विज्ञापयामीत्याह– ज्ञानमिति ॥ स्वात्मरहः प्रकाशो यस्मात् तत् तथा तत् । कस्मै ब्रह्मणे । नोऽस्माकम् । तत् समग्रमपि ग्रहणाय क्षमम् अपि किम् ? नो क्षमम् । योग्यताभेदात् । तर्हि कीदृशमुपदिशानीति तत्राह– वेदेति ॥ भगवान् यदस्याधिकारिणो योग्यं वेद वयं च यद् येन ज्ञानेनाञ्जसा वृजिनं संसारदुःखं तरेम तदुपदिशेत्यन्वयः । अनेन ब्रह्माद्युत्तमाधिकार्युपदिष्टज्ञानैकदेशं संसारदुःखनिर्मूलनमस्मद्योग्यमुपदिशेत्युक्तं भवति ॥ १८ ॥
प्रकाशिका
पुराऽजाय प्रोक्तं ज्ञानं तुभ्यं ददामीत्युक्ते तत्रानधिकार्युद्धवो विज्ञापयति ॥ ज्ञानमिति । स्वात्मरहःप्रकाशं स्वमहिमावभासकं यत्समग्रमपि ज्ञानं ज्ञानकरणं वेदादिरूपं शास्त्रं, कस्मै ब्रह्मणे । सर्वनामत्वं छान्दसम् । प्रोवाच । तन्मध्ये यावन्नोऽस्माकं ग्रहणाय क्षमं योग्यम् । हे भर्तः स्वामिन् । तावद्भवान्वेद । तावदेव मह्यं देहीति भावः । यद्येन दत्तेन वृजिनं सांसारिकं दुःखमञ्जसा तरेम ॥ १८ ॥
इत्यावेदितहार्दाय मह्यं स भगवान् परः ।
आदिदेशारविन्दाक्ष आत्मनः परमां स्थितिम् ॥ १९ ॥
पदरत्नावली
एतदेवोपदिष्टं हरिणा नान्यदिति वक्ति– इतीति ॥ हार्दं हृद्गतम् । परमां स्थितिं ब्रह्मादिजीवराशेरुत्कृष्टतामन्येषामपकृष्टतामन्योन्यं तारतम्यं च ॥ १९ ॥
प्रकाशिका
हार्दं हृद्गतं परमामुत्कृष्टां स्थितिं माहात्म्यम् ॥ १९ ॥
स एवमाराधितपादतीर्थादधीततत्त्वात्मविबोधमार्गः ।
प्रणम्य पादौ परिवृत्य देवमिहागतोऽहं विरहातुरात्मा ॥ २० ॥
पदरत्नावली
एवमित्येतदधीतेत्यनेनान्वेतव्यम् । आराधितं पादतीर्थं पादोदकं यस्य स तथा तस्मात् श्रीकृष्णाद् एवमुक्तप्रकारेण अधीतोऽधिगतस् तत्त्वात्मनो ऽनारोपिताद्वितीयज्ञानानन्दात्मनो हरेर् विबोधमार्गो विशिष्टज्ञानमार्गो येन स तथा । परिवृत्य प्रदक्षिणीकृत्य । विरहेणातुरः क्लिष्ट आत्मा यस्य स तथा ॥ २० ॥
प्रकाशिका
आराधितं सर्वैः पूजितं पादतीर्थं पादोदकं यस्य तस्मात्कृष्णादधीतोऽधिगत-स्तत्त्वान्यव्यक्तादीनि, आत्मा परमात्मा जीवश्च । एतेषां विबोधमार्गः समीचीनज्ञानमार्गो यस्य स तथा । परिवृत्य प्रदक्षिणीकृत्य । विरहेण तद्वियोगेनातुरः क्लिष्ट आत्मा मनो यस्य स तथा ॥ २० ॥
सोऽहं त्वद्दर्शनाह्लादवियोगार्तियुतः प्रभो ।
गमिष्ये दयितं तस्य बदर्याश्रममण्डलम् ॥ २१ ॥
पदरत्नावली
इतः कुत्र यास्यसीति तत्राह– सोऽहमिति ॥ त्वद्दर्शनजाताह्लादेन कृष्णवियोगोत्पन्नार्त्या च युतः बदर्याश्रममण्डलं बदरिकाश्रमपरिसरवर्तिकलापग्रामम् ॥ २१ ॥
प्रकाशिका
श्रीकृष्णवियोगोत्पन्नार्त्त्या युतः । तस्य श्रीकृष्णस्य दयितं प्रियं बदर्याश्रममण्डलं तत्प्रान्तस्थं कलापग्रामम् ॥ २१ ॥
यत्र नारायणो देवो नरश्च भगवान् ऋषिः ।
मृदु तीव्रं तपो दीर्घं तेपाते लोकभावनौ ॥ २२ ॥
पदरत्नावली
कृष्णप्रियत्वे निमित्तमाह– यत्रेति ॥ धर्मस्य भगवतः पुत्रत्वेनावतीर्णः साक्षा-न्नारायणांशो नारायणनामा शेषांशो नरो भगवांश्च । मृदु लोकसुखकरं, तीव्रं दुष्करं, लोकभावनौ लोकसंग्राहकौ । अनेन फलानपेक्षितावित्युक्तं भवति । तप आलोचने करणे च ॥ २२ ॥
प्रकाशिका
मृदु परोपद्रवशून्यं, तीव्रं दुश्चरं दीर्घमाकल्पान्तं तेपाते चरतः । लोकभावनौ लोकशिक्षकौ ॥ २२ ॥
शुक उवाच–
इत्युद्धवादुपाकर्ण्य सुहृदां दुःसहं वधम् ।
ज्ञानेनाशमयत् क्षत्ता शोकमुत्पतितं बुधः ॥ २३ ॥
पदरत्नावली
परमात्मनो जीवात्मनश्च स्वातन्त्र्यपारतन्त्र्यादिविशेषज्ञानेन । वधं भविष्यन्तम्
॥ २३ ॥
प्रकाशिका
वधं भाविनं दुःसहं संहारं, यतो बुधः ॥ २३ ॥
स तं महाभागवतं व्रजन्तं कौरवर्षभः ।
विश्रम्भादभ्यधत्तेदं मुख्यं कृष्णपरिग्रहे ॥ २४ ॥
पदरत्नावली
नन्वत्र विदुरेण यदूनामेष्यद्वधश्रवणेनोत्पन्नशोकशमनप्रयत्न एव कृत उतान्योऽपि प्रसङ्ग इत्यत्राह– स तमिति ॥ कृष्णपरिग्रहे कृष्णपरिवारजने । विश्रम्भादयमुद्धवो मदभीष्टं वक्ष्यतीति विश्वासात् ॥ २४ ॥
प्रकाशिका
विस्रंभाद् अयमस्मदिष्टं वक्ष्यतीति विश्वासात् । कृष्णपरिग्रहे कृष्णपरिचारके जने
॥ २४ ॥
ज्ञानं परं स्वात्मरहः प्रकाशं यदाह योगेश्वर ईश्वरस्ते ।
वक्तुं भवान् नोऽर्हति यद्धि विष्णोर्भृत्याः स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥
पदरत्नावली
इदमित्युक्तं विशिनष्टि– ज्ञानमिति ॥ अत्र हेतुमाह– यदिति ॥ हिशब्दोऽव-धारणार्थः । ‘हिर्हेताववधारणे’ इति यादवः । स्वभृत्याः स्वदासास् तेषामर्थं प्रयोजनं कुर्वन्तः स्वभृत्यार्थकृतश्चरन्ति ॥ २५ ॥
प्रकाशिका
इदमित्युक्तं विशदयति ॥ ज्ञानमिति । अत्र हेतुमाह ॥ यदिति । यद्यस्मा-त्स्वभृत्यार्थकृतः स्वभृत्यप्रयोजनसाधकाः सन्तश्चरन्ति । न हि कृतकृत्यानामन्यत्प्रयोजनमस्तीति हिशब्दार्थः ॥ २५ ॥
उद्धव उवाच–
ननु ते तत्त्वसंराद्ध ऋषिः कौषारवोऽन्तिमे१ ।
साक्षाद् भगवतादिष्टो मर्त्यलोकं जिहासता ॥ २६ ॥
पदरत्नावली
नन्वत्रोद्धवेन श्रुत्वा तूष्णीं गतमुत किमप्यभिहितम् ? तत्राह– नन्विति ॥ ननुशब्दः हेत्वर्थः । तत्त्वसंराद्धस् तत्त्वज्ञानसिद्धः । कौषारवो मैत्रेयः । इदं गुणनामापि वैशम्पायन-वल्लोके प्रसिद्धत्वादुच्यते । अन्तिमे मम समीपे स्थितः । ते तव, भगवतस्तत्वज्ञानोपदेशायेति शेषः । जिहासता हातुकामेन । तस्मान्न मया पृथग् वक्तव्यमिति शेषः ॥ २६ ॥
प्रकाशिका
नन्विति ॥ विदुरे भगवदनुग्रहास्वादनम् । तत्त्वसंराद्धस्तत्त्वज्ञानसिद्धः, कौषारवो मैत्रेयः । अन्तिमे ममान्ति समीपे मर्त्यलोकं भूलोकं जिहासता त्यक्तुमिच्छता भगवता साक्षात्स्वमुखेनैव ते तुभ्यमादिष्टः । तत्त्वोपदेशायेति शेषः । अतो न मया पृथग्वक्तव्यमिति भावः ॥ २६ ॥
सूत (शुकः) उवाच–
इति सह विदुरेण विश्वमूर्तेर्गुणकथया सुधया प्लुतोरुतापः ।
क्षणमिव पुलिने यमस्वसुस्तां समुषित औपगविर्निशां ततोऽगात् ॥ २७ ॥
पदरत्नावली
सूतः शौनकायेमां कथां कथयति– इतीति ॥ गुणकथाख्यया सुधया प्लुतो गत उरुतापो यस्य स तथा । प्लु गताविति धातुः । यमस्वसुर् यमुनायाः । यस्याः पूर्वसन्ध्यायां विदुरदर्शनं तां निशां समुषितः सुखमुषित औपगविर् उपगोरपत्यमुद्धवः । ततो यमुनायाः ॥ २७ ॥
प्रकाशिका
गुणकथाख्यसुधया । प्लुतो गत उरु तापो यस्य स तथा । प्लु गताविति धातोः । यमस्वसुर्यमुनायाः । पुलिने वालुके तां निशां क्षणमिव समुषितः । उपगोरपत्यमौपगविर् उद्धवः । ततो यमुनावालुकात् ॥ २७ ॥
राजोवाच–
निधनमुपगतेषु वृष्णिभोजेष्वधिरथयूथपयूथपेषु मुख्यः ।
स तु कथमवशिष्ट उद्धवो यद्धरिरपि तत्यज आकृतिं त्र्यधीशः ॥ २८ ॥
तात्पर्यम्
आकृतिं पृथिवीम् । ‘शरीरमाकृतिर्देहः कुः पृथ्वी च मही तथे’त्यभिधानम् । ‘पृथिवीलोकसन्त्यागो देहत्यागो हरेः स्मृतः । नित्यानन्दस्वरूपत्वादन्यन्नैवोपलभ्यते ॥ दर्शयेज्जनमोहाय सदृशीं मृतकाकृतिम् । नटवद्भगवान्विष्णुः परज्ञानाकृतिः स्वयमि(परज्ञाना-त्मको विभुः)’ति स्कान्दे । ‘राजन्परस्य तनुभृज्जननाप्ययेहा मायाविडम्बनमवैहि यथा नटस्ये’ति च ॥ २८ ॥
पदरत्नावली
परीक्षित्, बदरीं त्वं प्रयाहीत्यादिश्रुतकथत्वेन ज्ञातोद्धवावशेषो विशेषबुभुत्सया पृच्छति– निधनमिति ॥ तुशब्द एवार्थः । तेषु वृष्ण्यादिषु निधनं देहत्यागलक्षणं नाशमुपगतेषु सत्सु स उद्धव एव कथमवशिष्ट इत्यन्वयः । अयोद्धृमुख्यत्वादुर्वरित इति तत्राह– अधिरथेति ॥ अधिरथानां यूथं पान्तीति अधिरथयूथपास्तेषां यूथं पान्तीति अधिरथयूथपयूथपास्तेषु मुख्यो मुख्यतो योद्धा । हरेरवशिष्टत्वात्तदपेक्षयेति तत्राह– यद्धरिरिति ॥ हरिरप्याकृतिं पृथिवीं तत्यजे तत्याजेत्यन्वयः । इति यदतस्तदपेक्षापि दूरोत्सारिता । त्रिलोकेशत्वमिन्द्रस्याप्यस्तीति त्र्यधीश इति । अनेन भूलोकात् स्वर्गलोकं गत इत्यर्थः सम्पद्यते । आकृतिशब्दस्य पृथिव्यभिधेयत्वे सर्वमुपपद्यते तत् कथमितीयमाशङ्का ‘शरीरमाकृतिर्देहः कुः पृथ्वी च मही तथा’ इत्यनेन परिहृता । अस्त्वाकृतेः पृथिवीपर्यायत्वं तथाऽप्यत्र तच्छब्देन शरीरमेवोच्यत इति अङ्गीकर्तव्यम् । अनन्तरमपि निश्चेतनत्वेन तदाकारदर्शनात् । अतो युक्तिर्वक्तव्येति चेन्न । नित्यानन्दस्वरूपत्वेन देहत्यागायोगात् । अतो देहत्यागो नाम पृथिवीलोकत्याग एव । तेन तदाकारदर्शनं दुष्टजनमोहनाय कृतम् । तदुक्तम् ‘पृथिवीलोकसंत्यागो देहत्यागो हरेः स्मृतः । नित्यानन्दस्वरूपत्वादन्यो नैवोपलक्ष्यते । दर्शयेज्जनमोहाय सदृशीं मृतकाकृतिम् । नटवद् भगवान् विष्णुः परज्ञानाकृतिः सदा ॥’ इति । ‘राजन् परस्य तनुभृज्जननाप्ययेहां मायाविडम्बनमवैहि यथा नटस्य’ इत्यत्राप्युक्तम् ॥ २८ ॥
प्रकाशिका
रह उत्सृजन्तमित्यादिप्रयोगेणोद्धवस्य चरमोपदेशबदरीगमनयोरपि पूर्वमभिप्रेतत्वे-नोद्धवावशेषं बुध्वा राजा पृच्छति ॥ निधनमिति । निधनं नाशम् । तुशब्दोऽवधारणे । स उद्धव एक एव कथमवशिष्टः । अयोद्धृत्वादवशिष्ट इत्यत उक्तम् ॥ अधिरथेति । अधिरथानां यूथं पान्तीत्यधिरथ-यूथपास्तेषामपि यूथं पान्तीत्यधिरथयूथपयूथपास्तेषु मुख्यो मुख्यतो योद्धेति भावः । सामर्थ्यविशेष-वत्वादवशिष्ट इत्यत आह ॥ यद्धरिरिति । यद्यस्मात्त्र्यधीशस्त्रयाणां लोकानामधीशः । अनेनेन्द्रादि-देवोत्तमत्वमुक्तम् । तथा च मनुष्यविशेषेषु सामर्थ्यविशेषो विप्रशापतिरस्कारको नेति किमु वाच्यमिति भावः । अत्राकृतिं देहं तत्यज इति हरेर्देहत्याग उच्यत इति भात्यतोऽत्र विवक्षितमाकृतिशब्दार्थं दर्शयति ॥ आकृतिमिति । तथा च पृथिवीलोकं तत्यजेत्यर्थः । नन्वाकृतिशब्दस्य पृथिवीवाचकत्वं कुत इत्यत-स्तत्राभिधानं दर्शयति ॥ शरीरमिति । देह इत्यनेन त्यक्ष्यन्देहमिति वक्ष्यमाणमप्युक्तार्थमिति ज्ञातव्यम् ।
ननु देहत्याग एवात्र तत्र च विवक्षितः किं न स्यात् । किं पृथिवीलोकसंत्यागार्थकल्पनयेत्यतोऽत्र बाधकप्रमाणं पठति ॥ पृथिवीति । स्मृतः स्मृत्यादावुक्तः । हरेर्देहत्यागः पृथिवीलोकसंत्याग एव । कुतः । नित्यानन्दस्वरूपत्वान् नित्यानन्दहेत्वात् । अन्यच्छरीरत्यागरूपमुपलभ्यते । योगिभिरिति शेषः । तथा च योगिप्रत्यक्षानुगृहीतानुमानविरुद्धं शरीरत्यागरूपार्थकल्पनमिति भावः । नन्वेवं तत्रत्यैर्मनुष्यै-र्भगवच्छरीरस्य मृतस्य दृष्टत्वात्तद्विरोध इत्यतो न तद्भगवच्छरीरमित्याह ॥ दर्शयेदिति । सदा परज्ञाना परज्ञानात्मिकाकृतिरपि विष्णुः स्वसदृशीं मृतकाकृतिं मृतं देहं दर्शयेन्नटवत् । नटो यथाऽस्वकीयमेव किञ्चिद्रूपं लोकानां स्वकीयत्वेन प्रदर्शयति तथेत्यर्थः । लोकानां प्रत्यक्षं भ्रमरूपम् । अतो न तद्विरोध इति भावः । प्रतीतार्थे बाधकं भागवतविरोधमप्याह । राजन्निति । परस्य हरेस्तनुभृद्वज्जननाप्यय-रूपामीहां चेष्टां मायया स्वेच्छया विडम्बनं लोकानुकरणमवैहि । स्वस्मिन् जननाप्ययाभावेऽपि जातवन्मृतवत्स्वात्मानं दर्शयतीत्यवैहीत्यर्थः । इदमेकादशस्कन्धगतं वाक्यम् । देहत्यागप्रसक्तिपरिहारार्थ-मेव तत्रोक्तमतो निरवकाशमिति मन्तव्यम् । इदमुपलक्षणम् । प्रदर्श्यातप्ततपसामवितृप्तदशां नृणाम् । आदायान्तरधाद्देव इति पूर्वोक्तमपि वाक्यमत्र प्रतीतार्थे बाधकत्वेन ग्राह्यम् । समीपस्थत्वेनेहसम्भवात् स्ववचनेनाप्रदर्शनम् ॥ २८ ॥
शुक उवाच–
ब्रह्मशापापदेशेन कालेनामोघवाञ्छितः ।
संहृत्य स्वकुलं नूनं (स्फीतं) त्यक्ष्यन् देहमचिन्तयत् ॥ २९ ॥
पदरत्नावली
परिहारं वक्ष्यन् उपोद्घातं नृपं शुको वक्ति– ब्रह्मेति ॥ ब्रह्मशापापदेशेन विप्रशापाभिधानेन । कालेन मृत्युना । देहं पृथिवीम् । ‘यस्य पृथिवी शरीरम्’ इति श्रुतिः ॥ २९ ॥
प्रकाशिका
ब्रह्मशापापदेशेन ब्रह्मशापशब्दवाच्येन । कालेन मृत्युना । देहं पृथिवीम् । अत्रामोघं वाञ्छितं यस्येत्यनेनामोघेच्छया भगवदिच्छयैवोद्धवोऽवशिष्ट इत्युत्तरमुक्तं भवतीति ज्ञातव्यम् । नन्वत्र संहृत्य स्वकुलमित्युक्त्योद्धवस्य चरमोपदेशबदरीगमने यदुकुलसंहारानन्तरमुक्ते । एकादशस्कन्धे तु ‘‘ततो महाभागवते उद्धवे निर्गते वनम् । द्वारवत्यां किमकरोद्भगवान् भूतभावनः’’ इति वक्ष्यमाणत्वेन यदुकुलसंहारात्पूर्वमेव ते उक्ते । अतो विरोध इति चेत् । न । संहृत्य संहर्तुं निश्चित्येति व्याख्याने विरोधाभावात् ॥ २९ ॥
अस्माल्लोकादुपरते मयि ज्ञानं मदाश्रयम् ।
अर्हत्युद्धव एवाद्धा सम्प्रत्यात्मवतां वरः (परः) ॥ ३० ॥
पदरत्नावली
परिहरति– अस्मादिति ॥ अस्माद् पृथिवीलोकाद् उपरते स्वर्लोकं गते सति अर्हति, उपदेष्टुमिति शेषः । आत्मवतां ब्रह्मज्ञानिनां मध्ये परः ॥ ३० ॥
प्रकाशिका
किं तद्भगवद्वाञ्छितं यद्बलादुद्धवोऽवशिष्ट इत्यतो भगवद्वांछां दर्शयति ॥ अस्मादिति । उपरते निर्गतेऽर्हति स्थातुमिति शेषः । आत्मवतां ब्रह्मज्ञानिनां मध्ये ॥ ३० ॥
नोद्धवोऽण्वपि मन्न्यूनो यद्गुणैर्निर्जितः प्रभुः ।
अतो मद्वत् पुनर्लोकं ग्राहयन्निह तिष्ठतु ॥ ३१ ॥
तात्पर्यम्
‘उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा । उच्यतेऽपि तु नीचानां मोहार्थं वाऽप्युपेक्षया । मूढदृष्ट्यनुसाराद्वा किञ्चित्साम्येन वा क्वचिदि’ति ब्रह्मतर्के ॥ ३१ ॥ इति तृतीयतात्पर्ये चतुर्थोऽध्यायः ॥ ४ ॥
पदरत्नावली
एतदेव निर्धारयति– नेति ॥ प्रभुरहं यद्गुणैर् यस्य भक्त्यादिगुणैर्निर्जितो वशीकृतः स उद्धवोऽण्वपि किञ्चिदपि मन्न्यूनो मत्तो हीनो न भवति किन्तु मम सम एव । ‘उत्तमैरधिकत्वं वा साम्यं वा विजयोऽपि वा । उच्यतेऽपि तु नीचानां मोहार्थं वाऽप्युपेक्षया ॥’ इत्यादेर्दुष्टजनमोहार्थं, तत्काले स्वज्ञानोपदेष्टृपुरुषाधिक्यज्ञापनार्थं वा श्रीकृष्णेन स्वसाम्यमुद्धवस्योक्तं न तु तत्त्वार्थमिति ज्ञातव्यम् । यतो मज्ज्ञानोपदेष्टृपुरुषाधिकोऽयमतः पुनर्मद्वल्लोकं जनं ज्ञानादिकं ग्राहयन्निह तिष्ठतु इत्यचिन्तयदित्यन्वयः । एतेन कारणेनोद्धवोऽवशिष्ट इति प्रश्नपरिहारः ॥ ३१ ॥
प्रकाशिका
एतदेवाह ॥ नेति । यद्यस्य गुणैर्भक्त्यादिभिः प्रभुरहं निर्जितो वशीकृतो लोकं साधुजनं प्रति ग्राहयन् उपदिशन् । अत्रोद्धवोऽण्वपि मन्न्यूनो नेत्युक्त्योद्धवस्य कृष्णसाम्यं प्रतीयतेऽत-स्तदुक्तेरभिप्रायं प्रमाणेनैव दर्शयति ॥ उत्तमैरिति । नीचानामप्युत्तमैर्यत्क्वचिदधिकत्वादिकमुच्यते तत् । तुशब्दोऽवधारणे । मोहार्थमेव । प्रकारान्तरमप्याह ॥ अप्युपेक्षयेति । तदीयनीचत्वस्योपेक्षयाऽपीत्यर्थः । तदीयनीचत्वमुपेक्ष्य स्तुतिरूपार्थवादतया आधिक्यादिवचनमिति भावः । मूढदृष्ट्येति । मूढानामुद्धवादिषु कृष्णसाम्यादिकं यद्दृश्यते तदनुवादोऽयमित्यर्थः । तथा च दर्शनभाषयेदमुक्तमिति भावः । साम्य-वचनस्यैव गत्यन्तरमाह ॥ किञ्चित्साम्येन वेति । तथा च यत्किञ्चित्साम्येन वा साम्यमुच्यत इति योज्यम् ॥ ३१ ॥
एवं त्रिलोकगुरुणा सन्दिष्टः शब्दयोनिना ।
बदर्याश्रममासाद्य हरिमीजे समाधिना ॥ ३२ ॥
पदरत्नावली
उद्धवेनाप्येतदाज्ञा कृतेत्याह– एवमिति ॥ शब्दो वेदो योनिर्ज्ञप्तिकारणं यस्य स तथा तेन । ईजे पूजयामास ॥ ३२ ॥
प्रकाशिका
उपदिष्टशास्त्रप्रतिपाद्योऽपि कृष्ण एवेति दर्शयितुं मूले शब्दयोनिनेत्युक्तम् । ईजे पूजयामास । समाधिना दृढध्यानेन ॥ ३२ ॥
विदुरोऽप्युद्धवात् श्रुत्वा कृष्णस्य परमात्मनः ।
क्रीडयोपात्तदेहस्य कर्माणि श्लाघितानि च ॥ ३३ ॥
पदरत्नावली
औद्धवीं समाप्य वैदुरीं कथामाह– विदुरोऽपीत्यादिना ॥ ३३ ॥
प्रकाशिका
उपात्तदेहस्य प्रकटीकृतदेहस्य ॥ ३३ ॥
देहन्यासं च तस्यैवं धीराणां धैर्यवर्धनम् ।
अन्येषां दुष्करतरं पशूनां विक्लवात्मनाम् ॥ ३४ ॥
पदरत्नावली
देहन्यासं पृथिवीलोकत्यागम् । पशूनाम् अज्ञानाम् ॥ ३४ ॥
प्रकाशिका
देहन्यासं पृथिवीलोकसंत्यागम् । धैर्यवर्धनं वैराग्यादिगुणसंपादनमिति शेषः । पशूनां पशुप्रायाणामन्येषामज्ञानिनां विक्लवात्मनामधीरचित्तानां दुष्करतरमतिशयेन दुःखकरम् ॥ ३४ ॥
आत्मानं च कुरुश्रेष्ठ कृष्णेन मनसेक्षितम् ।
ध्यायन् गते भागवते रुरोद प्रेमविह्वलः ॥ ३५ ॥
पदरत्नावली
आत्मानं स्वम् । मनसेक्षितं स्मृतम् ॥ ३५ ॥
प्रकाशिका
आत्मानं स्वमीक्षितं स्मृतं श्रुत्वेति पूर्वेणान्वयः ॥ ३५ ॥
कालिन्द्याः कतिभिर्विद्वानहोभिर्भरतर्षभ ।
प्रापद्यत द्युसरितं यत्र मित्रासुतो मुनिः ॥ ३६ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे चतुर्थोऽध्यायः ।
पदरत्नावली
द्युसरितं गङ्गाम् । मित्रासुतो मैत्रेयः ॥ ३६ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे चतुर्थोऽध्यायः ॥
प्रकाशिका
कालिंद्या यमुनायाः सकाशात् । द्युसरितं भागीरथीम् । मित्रासुतो मैत्रेयः ॥३६॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां चतुर्थोऽध्यायः ॥ ३-४ ॥