ततः स आगत्य पुरीं स्वपित्रोश्चिकीर्षयाऽऽशां बलदेवसंयुतः
अथ तृतीयोऽध्यायः
उद्धव उवाच–
ततः स आगत्य पुरीं स्वपित्रोश्चिकीर्षयाऽऽशां बलदेवसंयुतः ।
निपात्य तुङ्गाद् रिपुयूथनाथं हतं व्यकर्षद् व्यसुमोजसोर्व्याम् ॥ १ ॥
पदरत्नावली
ततो वृन्दावनात् । ‘आशा दिगतितृष्णयोः’ इति । स्वपित्रोराकाङ्क्षितं, चिकीर्षया कर्तुमिच्छया । व्यसुं गतप्राणम् ॥ १ ॥
प्रकाशिका
ततो वृन्दावनात् । पुरीं मधुराम् । आशा दिगतितृष्णयोरित्यभिधानात् । कदा कंसं हनिष्यतीत्यादिरूपां तृष्णां तदभीष्टकंसहननादिचिकीर्षयेति यावत् । तुङ्गाद्राजमञ्चात् । रिपुयूथनाथं कंसम् । व्यसुं विगतप्राणम् ॥ १ ॥
सान्दीपिनेः सकृत् प्रोक्तं ब्रह्माधीत्य सविस्तरम् ।
तस्मै प्रादाद् वरं पुत्रं मृतं पञ्चजनोदरात् ॥ २ ॥
पदरत्नावली
ब्रह्म वेदम् । पञ्चजनोदरात् पञ्चजनाख्यदैत्योदरात् । सान्दीपिनेरधीत्य । सकृत् प्रोक्तं, तेनेति शेषः ॥ २ ॥
प्रकाशिका
ब्रह्म वेदं सविस्तरं षडङ्गादिसहितम् । पुत्रलक्षणवरं पञ्चजनाख्यदैत्योदर-प्रवेशान्मृतम् ॥ २ ॥
समाहुता भीष्मककन्यया ये श्रियः सवर्णेन जिहीर्षयैषाम् ।
गान्धर्ववृत्त्या मिषतां स्वभागं जह्रे पदं मूधर्ि्न दधत् सुपर्णः ॥ ३ ॥
तात्पर्यम्
भीष्मककन्याया अर्थे १सवर्णमात्रतया आहूताः । एषां श्रियो जिहीर्षयाऽऽह्वान-बुद्धिर्भगवता कृता । ‘सुपर्णः सुपरानन्दात्काकुत्स्थो वाचि संस्थिते’रिति पाद्मे ॥ ३ ॥
पदरत्नावली
भीष्मककन्ययेति तृतीया तादर्थ्ये । भीष्मककन्याया रुक्मिण्या अर्थे । सवर्णेन क्षत्रियत्वमात्रयोग्यतया समाहूताः । एषां क्षत्रियाणां श्रियो जिहीर्षया । तेषां मूधर्ि्न पदं दधदित्यनेन श्रीहरणप्रकारः । मिषतां पश्यताम् । ‘सुपर्णः सुपरानन्दात् काकुत्स्थो वाचि संस्थितेः’ इति वचनात् सुष्ठु परमानन्दरूपः । सुपर्ण इत्यनेन सोऽप्यक्लेशेनेति दर्शितम् । गान्धर्ववृत्त्या कन्यासंवादलक्षणया इत्यनेन बहवो विवाहविधयो दर्शिता भवन्ति । स्वभागमित्यनेन स्वयोग्यमिति दर्शयति ॥ ३ ॥
प्रकाशिका
समाहुता इति ह्रस्वश्छान्दसः । अत्र भीष्मककन्यया समाहूता इत्यन्यथाप्रतीति-वारणाय विवक्षितं व्याख्यानं दर्शयति ॥ भीष्मककन्याया इति । अनेन तृतीया षष्ट्यर्थे । स च तादर्थ्यरूप इत्युक्तं भवति । श्रियो लक्ष्म्याः सवर्णेन समानरूपेणाहूता इति व्याख्यानमसदिति भावेन सवर्णेनेत्यस्याभिप्रायमाह ॥ सवर्णमात्रतयेति । सवर्णशब्दो भावप्रधान इति दर्शयितुं सवर्णतयेत्युक्तम् । आहूता इत्यनेनान्वयप्रदर्शनेनाह्वाने सवर्णेनेत्यस्य निमित्तता दर्शिता । मात्रपदाध्याहारेण च समान-जातितयैव क्षत्रियत्वेनैव निमित्तेन समाहूता न रुग्मिणीप्राप्तियोग्यतयाऽपीति दर्शयति । नन्वेवं श्रिय इत्युक्तस्य केनान्वय इत्यतस्तस्यान्वयं दर्शयति ॥ एषामिति । अनेनापरव्याख्याने जिहीर्षयेत्यस्यान्वया-भाव इति सूचितं भवति । एतद्भयेन बुभूषयेति पाठकल्पनेऽर्थविशेषालाभेन तस्य वैयर्थ्यमिति ज्ञातव्यम् । नन्वेवं समाहूता इत्यत्र कर्तृवाचकपदाभावात्कथमन्वयः । न च भीष्मकेणेत्यध्याहार्यः । तस्यैषां श्रीजिहीर्षाभावात् । अतोऽत्रापेक्षितं कर्तृवाचिपदमध्याहृत्यान्वयं दर्शयति ॥ भगवतेति । आहूता इति पूर्वेणान्वयः । नन्विदं बाधितम् । न हि भगवान् रुग्मिण्यर्थे राज्ञामाह्वानं कृतवानित्येतत्प्रामाणिकम् । प्रत्युत भीष्मकेणैव ते आहूता इति पुराणादौ प्रसिद्धिर् इत्यतोऽत्राभिप्रायं स्वयमेव दर्शयति ॥
आह्वानबुद्धिर्भगवताकृतेति ॥ सत्यं भीष्मकेणैव ते आहूता इति । तथाऽप्येषां श्रियो जिहीर्षया भगवानेव भीष्मके स्थित्वा तदाह्वानबुद्धिमुत्पादितवानित्यभिप्रायोऽत्र विवक्षितोऽतो न कोऽपि दोष इति भावः ।
ननु सुपर्णो गरुडः स्वभागं जह्र इत्यसङ्गतम् । न च सुपर्णः स्वभागं सुधामिवेति लुप्तोपमा । तदा दार्ष्टान्तिकभागस्याध्याहारप्रसङ्गात् । अतः सुपर्णशब्द एव महायोगवृत्त्या भगवति मुख्य इत्याशयेन तत्र सुपर्णशब्दनिर्वचनं प्रमाणेन दर्शयति ॥ सुपर्ण इति । ‘‘णश्च निर्वृतिवाचक’’ इत्यभिधानात् णकार आनन्दवाचीति भावः । परेत्यस्याकारलोपो निर्वचनत्वात् ॥ ततश्चायं श्लोकार्थः ॥ भीष्मककन्याया रुग्मिण्या अर्थे सवर्णेन समानजातितया क्षत्रियत्वेनैव निमित्तेन न तु रुग्मिणीप्राप्तियोग्यतयाऽपीति भावः । विजातीयानां वैश्यादीनामाह्वानं व्यावर्तयितुमिदं निमित्तमुक्तमिति ध्येयम् । एषां राज्ञां श्रियः शोभाया जिहीर्षया गृहीतुमिच्छया भीष्मकान्तर्गतेन भगवता ये राजान आहूताः । भगवताऽऽह्वानबुद्धा-वुत्पादितायां भीष्मकेण आहूता इत्यर्थः । मिषतां पश्यतां तेषां मूधर्ि्न पदं दधत् । तांस्तुच्छीकृत्येति यावत् । तत्र हेतुगर्भविशेषणं सुपर्ण इति । यतः सुष्टु परमानन्दरूप इत्यर्थः । गान्धर्ववृत्त्या परस्पर-संमतिरूपया । स्वभागं स्वस्यैव योग्यं भागं रुग्मिण्याख्यं जह्रे जहारेति ॥ ३ ॥
ककुद्मतोऽविद्धनसो दमित्वा स्वयंवरे नाग्नजितीमुवाह ।
तान् भग्नमानानभिगृध्यतोऽज्ञान् जघ्नेऽक्षतः शस्त्रभृतश्च शस्त्रैः ॥ ४ ॥
पदरत्नावली
अविद्धनसो ऽच्छिद्रनासिकान् । ककुद्मतः वृषभान् । वृषभाणामाटोपसमय-सूचनाय स्वयंवर इत्युक्तम् । किञ्च स्वयमक्षतः सन् ये स्वयंवरार्थमागतास्तान् क्षत्रियान् जघ्न इत्यन्वयः । कन्यायाः स्वालाभेन भग्नमानान्, अभिगृध्यतः कन्यामाकाङ्क्षमाणान् अज्ञान् कृष्णप्राप्ति-योग्यामजानतः । शस्त्रभृत इत्यनेन क्षत्रिया एव न वृषा इति ज्ञायते । चशब्दः समुच्चये ॥ ४ ॥
प्रकाशिका
ककुद्मतो वृषभान् । अविद्धनसो अविद्धनासिकान् । दमित्वा गृहीत्वा । नाग्नजितीं नीलां, तद्भग्नमानान् तैर्वृषैर्भग्नो मानो येषां तान् । अभिगृध्यतः कन्यामाकांक्षमाणान् । अज्ञान् कृष्ण-प्राप्तियोग्यामजानतः । शस्त्रभृतो राज्ञस्तच्छस्त्रैरक्षत एव जघ्ने जघान ॥ ४ ॥
प्रियं प्रभुर्ग्राम्य इव प्रियाया विधित्सुरार्छद् द्युतरुं यदर्थे ।
वज्य्राद्रवत् तं सगणो रुषाऽन्धः स्वार्थे पुरा तैर्यमयाचतानतः ॥ ५ ॥
पदरत्नावली
ग्राम्यः विषयभोगासक्त इव प्रियायाः सत्यभामायाः प्रियमभीष्टं विधित्सुः कर्तुकामः प्रभुर् द्युतरुं स्वर्गवृक्षं पारिजातमार्च्छद् अहार्षीत् । रुषान्धः सगणः मरुद्गणेन सहितः वज्री इन्द्रः यदर्थे यस्य द्युतरोरर्थे तं कृष्णमाद्रवत् । शच्या वचनादिति शेषः । स्वार्थे स्वप्रयोजनाय यं कृष्णं तैः सहानतः प्रणतिविशिष्टो भूत्वा ॥ ५ ॥
प्रकाशिका
ग्राम्यः विषयासक्त इव प्रियायाः सत्यभामायाः प्रियमभीष्टं विधित्सुः कर्तुकामः प्रभुः कृष्णो द्युतरुं पारिजाताख्यं स्वर्गवृक्षमार्च्छद् अहार्षीत् । रुषान्धः कोपेन कृष्णमाहात्म्यमजानन् सगणो देवगणेन सहितो वज्रींद्रस्तं कृष्णमाद्रवत् । यदर्थे यस्य द्युतरोरर्थे स्वार्थे नरकासुरवधादिरूप-स्वप्रयोजनायानतः प्रणतो भूत्वा ॥ ५ ॥
सुतं मृधे स्वं वपुषा ग्रसन्तं दृष्ट्वा सुनाभोन्मथितं धरित्र्याः ।
आमन्त्रितस्तत्तनयाय शेषं दत्वा तदन्तःपुरमाविवेश ॥ ६ ॥
पदरत्नावली
धरित्र्याः सुतं नरकम् । आमन्त्रितः । तयेति शेषः ॥ ६ ॥
प्रकाशिका
सुतं नरकसंज्ञं स्वसुतं सुनाभेण चक्रेणोन्मथितं हतं दृष्ट्वा धरित्र्या भूम्या आमन्त्रितः प्रार्थितः सन् तत्तनयाय भगदत्ताय शेषमपहृतकोशादिशेषं राज्यं दत्वा ॥ ६ ॥
तत्राहृतास्ता नरदेवकन्याः कुजेन दृष्ट्वा हरिमार्तबन्धुम् ।
उत्थाय सद्यो जगृहुः प्रहर्षव्रीडानुरागप्रहितावलोकैः ॥ ७ ॥
पदरत्नावली
तत्रान्तःपुरे । कथं जगृहुरिति तत्राह– व्रीडेति ॥ प्रहर्षेण सहिताभ्यां व्रीडानु-रागाभ्यां लज्जास्नेहाभ्यां प्रहितैः प्रेरितैर् अवलोकैर्गृहीतवत्य इत्यर्थः । ग्रहणं च पतित्वेनेति शेेषः ॥७॥
प्रकाशिका
तत्रान्तःपुरे । कुजेन भूमिपुत्रेणाहृता यास्ताः । प्रहर्षश्च व्रीडा चानुरागः स्नेहश्च तैः प्रहिताः प्रेरिता येऽवलोकास्तैर्जगृहुः । पतित्वेन स्वीकृतवत्यः ॥ ७ ॥
आसां मुहूर्त एकस्मिन् नानागारेषु योषिताम् ।
सविधिं जगृहे १पाणिं पुरुरूपः स्वमायया ॥ ८ ॥
पदरत्नावली
भगवता पुनः किं कृतमत्राह– आसामिति ॥ विधिना शास्त्रोक्तकर्मणा सह वर्तत इति । एकस्य नानाविधगृहेषु स्त्रीणां करग्रहणं कथं घटत इत्यत उक्तम्– पुरुरूप इति ॥ योगिवत् स्वसामर्थ्येन गृहीतबहुरूपेण घटत इत्यर्थः ॥ ८ ॥
प्रकाशिका
आसां योषितां पाणिम् । समुदायापेक्षयैकवचनम् । कथंभूतम् । विधिना शास्त्रोक्तकर्मणा सह वर्तत इति सविधिस्तं, स्वमायया स्वसामर्थ्येन पुरुरूपः सन् ॥ ८ ॥
तास्वपत्यान्यजनयदात्मतुल्यानि सर्वतः ।
एकैकस्यां दश दश प्रकृतेर्विबुभूषया ॥ ९ ॥
तात्पर्यम्
‘उत्तमैः सर्वतः साम्यं किञ्चित्साम्यमुदीर्यत’ इत्याग्नेये ॥ ९ ॥
पदरत्नावली
‘उत्तमैः सर्वतः साम्यं किञ्चित्साम्यमुदीरितम्’ इति वचनात् सर्वत आत्मतुल्यत्वं किञ्चित्सादृश्यविवक्षयेति ज्ञातव्यम् । एकैकपुत्रवत्वेन पुत्रवत्याशापूर्तिसम्भवाद् दशत्वसंख्या किमभि-प्रायेणेत्यत उक्तम्– प्रकृतेरिति ॥ जडप्रकृतेर्विबुभूषया विविधभावेच्छया बहुत्वसंख्याविशिष्टत्वेच्छया
॥ ९ ॥
प्रकाशिका
सर्वतः सर्वप्रकारेणात्मतुल्यानि स्वसदृशानि । अत्रापत्यानां सर्वप्रकारेण कृष्ण-सादृश्यमुच्यमानं प्रमाणबाधितमतः प्रमाणेनैव तदभिप्रायं दर्शयति ॥ उत्तमैरिति । उत्तमैः सर्वतः साम्यं यदुदीर्यते पुराणादौ तत्किञ्चित्साम्यमभिप्रेत्येति शेषः । तथा च प्रमाणान्तरबलात्तत्र सर्वशब्दो नासङ्कुचितवृत्तिरिति भावः । प्रकृतेर्जडप्रकृतेर्विबुभूषया विविधभवनेच्छया मदवतारकाले जडप्रकृते-र्नानाविधसुन्दरतरशरीरोपादानत्वेन बहुभावो भवत्वितीच्छयेति यावत् ॥ ९ ॥
कालमागधशाल्वादीननीकै रुन्धतः पुरम् ।
अजीघनत् स्वयं दिव्यं स्वपुंसां तेज आदिशन् ॥ १० ॥
पदरत्नावली
यदर्थमवतीर्णं तत्प्रयोजनमाह– कालेति ॥ कालो गर्गनिर्मितः । तेजः प्रभावम् । अनेन मुचुकुन्दादिकृतं वधमप्यात्मनैव कृतमिति ज्ञापयति । अतोऽजीघनदित्ययं लौकिकः ॥ १० ॥
प्रकाशिका
कालमागधादीन् कालः कालयवनो गर्गनिर्मितः । रुन्धत आवृण्वतः । पुरं मधुराम् । स्वयं साक्षादेव साल्वादीनजीघनत् । कांश्चन कालमागधादीन् स्वपुंसां स्वभक्तानां मुचकुन्द-भीमादीनां तेजः सामर्थ्यविशेषम् आदिशन् सम्यक् प्रयच्छन् तद्वाराऽजीघनत् ॥ १० ॥
शम्बरं विविदं बाणं मुरं बल्वलमेव च ।
अन्यांश्च दन्तवक्त्रादीनवधीत् कांश्च घातयन् ॥ ११ ॥
पदरत्नावली
एतदेव किञ्चिद् विवेचयति– शम्बरमिति ॥ शम्बरविविदौ प्रद्युम्नबलभद्राभ्याम-घातयत् । मुरादीन् स्वयमेवावधीदिति विवेकः ॥ ११ ॥
प्रकाशिका
शम्बरमिति । अत्रापि शम्बरविविदादीन् । प्रद्युम्नबलरामादिभिरघातयत् । मुरादीन्स्वयमेवावधीदिति विवेकः ॥ ११ ॥
अथ ते भ्रातृपुत्राणां पक्षयोः पतितान् नृपान् ।
चचाल भूः कुरुक्षेत्रं येषामापततां बलैः ॥ १२ ॥
पदरत्नावली
अथ दन्तवक्त्रवधानन्तरं ते तव भ्रातृपुत्राणां कुरूणां पाण्डवानाञ्च कुरुक्षेत्रं प्रत्यापततां येषां नृपाणाम् ॥ १२ ॥
प्रकाशिका
अथ दन्तवक्त्रादीनां हननानन्तरं नृपानघातयदित्यनुवर्तते । कथंभूतान् । कुरुक्षेत्रं प्रत्यापततामागच्छतामेषां बलैः सैन्यैः । भूः सर्वाऽपि चचाल तान् ॥ १२ ॥
सकर्णदुःशासनसौबलानां कुमन्त्रपाकेन हतश्रियायुषम् ।
सुयोधनं सानुचरं शयानं भग्नोरुमुर्व्यां स ननन्द पश्यन् ॥ १३ ॥
पदरत्नावली
श्रीकृष्णस्य दुर्योधनपातेन भीमे प्रसादातिशयमाह– सकर्णेति ॥ स कृष्णः । सुयोधनं भग्नोरुमुर्व्यां शयानं पश्यन् ननन्द इत्यन्वयः । भीमायेति शेषः । अनुचरैर् दुःशासनादिभिः शृृगालादिभिर्वा सह वर्तत इति सानुचरस् तम् । हते नष्टे श्रीश्चायुश्च यस्य स तथा तम् ॥ १३ ॥
प्रकाशिका
स कृष्णः । कुमन्त्रस्य कुत्सितविचारस्य पाकेन परिपाकेन । श्रीश्चायुश्च श्रियायुषी हते गते श्रियायुषी यस्य स तथोक्तस्तम् । भग्नम् उरु यस्य स तथोक्तम् । ऊर्व्यां शयानम् । ननन्द । अवतारप्रयोजनं प्रायो जातमिति सन्तोषं लोकस्य दर्शितवानिति भावः । स्वभक्तानां पाण्डवानां जयोऽतो न मद्भक्तिर्व्यर्थेत्याशयेन सन्तोषं दर्शितवानिति वा ॥ १३ ॥
कियान् भुवोऽयं क्षपितोरुभारो यद् द्रोणभीष्मार्जुनभीमशल्यैः ।
अष्टादशाक्षौहिणिको मदंशैरास्ते बलं दुर्विषहं यदूनाम् ॥ १४ ॥
पदरत्नावली
कलियुगे सज्जनप्राचुर्यावस्थानस्य दुष्टभारस्येवानभीष्टत्वात् सोऽपि संहार्य इति यादवबलसंहरणोपायसंञ्चिन्तनप्रकारमाह– कियानिति ॥ मत्सन्निधानविशेषयुक्तत्वान्मदंशैर्द्रोण– भीष्मार्जुनभीमशल्यैः क्षपितोऽष्टादशाक्षौहिणिको भुवो यद् योऽयं भारः स कियानल्प एव । कुतः ? सुरासुरैर्दुर्विषहं यदूनां बलमास्त इति यस्मात् तस्मादित्यन्वयः ॥ १४ ॥
प्रकाशिका
कलियुगे देवांशानामपि यादवानां भूमेर्भारायमाणत्वात्तेऽपि संहार्या इत्यचिन्तय-दित्याह ॥ कियानिति । मद्विशेषावेशयुक्तत्वान्मदंशैर् द्रोणादिभिः क्षपितोऽष्टादशाक्षौहिणीकः । ह्रस्वश्छान्दसः । भुवो यद्योऽयं भारः स कियान् । अत्यल्प एव यस्मात्सुरासुरैर्दुर्विषहं यदूनां बलमास्ते । तच्चास्मिन्युगे भारायमाण एवातो भूमिभारहरणायावतीर्णेन मया तदपि संहार्यमिति वाक्यशेषः ॥ १४ ॥
मिथो यदैषां भविता विवादो माध्व्या मदात् ताम्रविलोचनानाम् ।
नैषां वधोपाय इयानतोऽन्यो मय्युद्यतेऽन्तर्दधते स्वयं स्म ॥ १५ ॥
पदरत्नावली
तत्रैषां यदूनां वधोपाय इयानेतावानेव । यदा माध्व्या वारुण्याः पानादुत्पन्ना-न्मदाद् भ्रष्टबुद्धीनां ताम्रविलोचनानां रक्तनेत्राणां रजोगुणोपरक्तज्ञानानां वा यदूनां मिथो विवादो भविता तदा स एव वधोपायो भविष्यत्यतोऽन्यो नास्ति । तदर्थं किं कर्तव्यमिति न चिन्तनीयमित्याह– मयीति ॥ मय्युद्यते सति स्वयं सर्वेऽन्तर्दधते तिरोधानलक्षणं मरणं प्राप्नुवन्ति । स्म स्मृतमित्यर्थः ॥ १५ ॥
प्रकाशिका
परस्परमर्मवचनादिना कलह एवैषां वधोपायो नान्य इत्यप्यचिन्तयदित्याह ॥ मिथ इति । यदा यस्मिन्काले । माध्व्या मधुजाताया वारुण्याः पानेन जातान्मदात्ताम्रविलोचनानामारक्त-नेत्राणाम् । अनेन भ्रंशितज्ञानत्वं लक्ष्यते । येषां यादवानां मिथो विवादो मर्मवचनं तज्जन्यः कलहश्च भविता तदा स एवैषां वधोपायः । अन्योऽपि किं न स्यादित्यत आह ॥ इयान् एतावान् अतोऽन्यो नेति । मिथो विवादोऽपि कदा भवितेत्यत आह ॥ मयीति । मय्युद्यते पृथिवीलोकत्यागायोद्युक्ते सति स्वयं स्वयमेवान्तर्दधते मिथो विवादेनान्तर्धानं प्राप्नुवन्तीत्यर्थः । स्मेत्यनेनास्यान्यथार्थत्वं नेति दर्शयति
॥ १५ ॥
एवं सञ्चिन्त्य भगवान् स्वाराज्ये स्थाप्य धर्मजम् ।
नन्दयामास सुहृदः साधूनां वर्त्म दर्शयन् ॥ १६ ॥
पदरत्नावली
स्वाराज्ये स्वर्गसमराज्ये ॥ १६ ॥
प्रकाशिका
स्वाराज्ये स्वर्गसमराज्ये ॥ १६ ॥
उत्तरायां धृतः पूरोर्वंशः साध्वभिमन्युना ।
स वै द्रौण्यस्त्रसंछिन्नः पुनर्भगवता धृतः ॥ १७ ॥
पदरत्नावली
यः पूरोर्वंशो ऽभिमन्युना साधु उत्तरायां धृतः सन् द्रौण्यस्त्रेण संच्छिन्नः संच्छादितः पुनर्भगवता धृतो रक्षितोऽभूदित्यन्वयः ॥ १७ ॥
प्रकाशिका
भगवता धृतो रक्षितः ॥ १७ ॥
अयाजयद् धर्मसुतमश्वमेधैस्त्रिभिर्विभुः ।
सोऽपि क्ष्मामनुजै रक्षन् रेमे कृष्णमनुव्रतः ॥ १८ ॥
पदरत्नावली
अपीत्यनेन लोकसंग्रहणार्थं गृहस्थधर्मानुचरणं न तु स्वार्थं सत्यसंकल्पत्वादिती-ममर्थं सूचयति ॥ १८ ॥
प्रकाशिका
त्रिभिरुत्तमकल्पदक्षिणादानेन त्रिगुणफलैः पञ्चसङ्ख्याकैरश्वमेधैरित्यर्थः ॥ १८ ॥
भगवानपि विश्वात्मा लोकवेदपथानुगः ।
कामान् सिषेवे द्वार्वत्यामसक्तः सांख्यमास्थितः ॥ १९ ॥
तात्पर्यम्
केवलं भगवज्ज्ञानं साङ्ख्यमित्यभिधीयत’ इत्यध्यात्मे ॥ १९ ॥
पदरत्नावली
विषयसेवयापि तल्लेपो नास्तीत्यसक्त इति । तत्र हेतुगर्भविशेषणमाह– साङ्ख्य-मिति ॥ ‘केवलं भगवज्ज्ञानं साङ्ख्यमित्यभिधीयते’ इति वचनान् न साङ्ख्यशास्त्रोक्तविधिः किन्तु स्वरूपज्ञानमेव गृह्यते । ‘तद्ब्रह्मावेदहं ब्रह्मास्मि’ इति श्रुतेः ॥ १९ ॥
प्रकाशिका
भगवानपि कामान्सिषेव इत्युक्त्या लोकानुकरणमेतदिति सूचितम् । विषयसेवाया-मपि न तत्र तस्य स्नेह इत्याह । असक्तो रागवर्जितः । निष्ठाप्रयोगेण सर्वदैवंरूप इति सूचयति । तत्र हेतुकथनाय विशेषणं साङ्ख्यमास्थित इति । अत्र साङ्ख्यशास्त्रोक्तं प्रकृतिजीवविवेकमास्थित इति व्याख्यानं न प्रकृतसङ्गतं स्वस्य जीवत्वाभावात् । अतोऽत्र विवक्षितं साङ्ख्यशब्दार्थं प्रमाणेनैव दर्शयति ॥ केवलमिति । इतरपदार्थाविषयकमित्यर्थः । तथा च जडामिश्रे परममङ्गले स्वस्वरूप एव रममाणो यत इत्यर्थ इति भावः ॥ १९ ॥
स्निग्धस्मितावलोकेन वाचा पीयूषकल्पया ।
चरित्रेणानवद्येन श्रीनिकेतेन चात्मना ॥ २० ॥
पदरत्नावली
श्रियो निकेतेनावासेन । आत्मना देहेन ॥ २० ॥
प्रकाशिका
स्निग्धो यः स्मितसहितोऽवलोकस्तेन । पीयूषकल्पयाऽमृततुल्यया । श्रियो लक्ष्म्या निकेतेनाश्रयेणात्मना देहेन ॥ २० ॥
इमं लोकममूंश्चैव रमयन् सुतरां यदून् ।
रेमे क्षणदया दत्तक्षणः स्त्रीक्षणसौहृदः ॥ २१ ॥
पदरत्नावली
क्षणदया रात्र्या दत्तक्षणः दत्तावसरः । अनेन क्षणदाशब्दार्थो दर्शितः । स्त्रीषु क्षणकालं सौहृदं यस्य सः स्त्रीक्षणसौहृदः । स्त्रीक्षणो रुद्रस् तस्य सौहृदं यस्मिन् स तथा वा । अनेन रुद्रगणचरणयोग्यसमये स्त्रीभिः सह रमणं कथमिति चोद्यं परिहृतम् ॥ २१ ॥
प्रकाशिका
क्षणदया रात्र्या । दत्तक्षणोऽवसरो यासां स्त्रीणां तासु क्षणं सौहृदं यस्य सः । अनेनासक्तत्वं प्रकारान्तरेणोपपादितमिति ज्ञातव्यम् ॥ २१ ॥
तस्येत्थं रममाणस्य संवत्सरगणान् बहून् ।
गृहमेधेषु योगेषु विरागः समजायत ॥ २२ ॥
तात्पर्यम्
‘सर्वदाऽपि विरक्तः सन् भासयीत विरागवत् । कादाचित्कः कुतस्तस्य लोकशिक्षार्थमिष्यत’ इति पाद्मे ॥ २२ ॥
पदरत्नावली
गृहस्थधर्ममनुवर्तमानस्य हरेर्लोकशिक्षार्थं बाह्यविषयेषु वैराग्यप्रदर्शनमित्यभि-प्रेत्याह– तस्येति ॥ ‘सर्वदाऽपि विरक्तः सन् भासयीत विरागवत् । कादाचित्कः कुतस्तस्य लोक-शिक्षार्थमिष्यते ॥’ इति स्मृतेः । योगेषु विषयसाधनेषु । विरागः समजायत वैराग्यमभूदिति दर्शयामास
॥ २२ ॥
प्रकाशिका
गृहमेधेषु गृहाश्रमोचितधर्मेषु योगेषु कामभोगोपायेषु । अत्रेदानीं विरागः सम-जायतेत्युक्त्या पूर्वं वैराग्याभावः प्रतीयते । तथात्वे च प्रागुक्तासक्तत्वविरोधप्रसङ्ग इत्यतोऽत्र विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ सर्वदाऽपीति । विगतो रागो यस्य स विरागः । कदाचिद्विरक्तः पुरुषस्तद्व-दित्यर्थः । भासयीत स्वात्मानं लोकान्प्रतीति शेषः । तथा च तत्परं कादाचित्कवैराग्यवचनमिति वाक्यशेषः । प्रतीतार्थ एव किं न स्यादित्यतस्तत्र बाधकमाह ॥ कादाचित्क इति । कुतः । न कुतोऽपि प्रमाणबाधितत्वादिति भावः । ननु हरेः कादाचित्कवैराग्यप्रदर्शनमपि किमर्थमित्यत आह– लोकेति । कादाचित्कवैराग्यप्रदर्शनमिति शेषः । अनेन दैवाधीनेष्विति वक्ष्यमाणस्यापि तात्पर्यमुक्तं भवतीति ज्ञातव्यम् । अनेन मूले रागाभाववाचिविरागशब्दः स्वविषयकलोककर्तृकज्ञानोप-लक्षक इति सूचयति । तथा च भगवन्निष्ठवैराग्यविषयकं ज्ञानं लोकानां समजायतेत्यर्थः ॥ २२ ॥
दैवाधीनेषु कामेषु दैवाधीनः स्वयं पुमान् ।
को विश्रंभेत योगेन योगेश्वरमनुव्रतः ॥ २३ ॥
तात्पर्यम्
अतः कोऽन्यो विस्रम्भं कुर्यात् तेनापि विरागः प्रदर्शितः ॥ २३ ॥
पदरत्नावली
नित्यविरक्तस्य कादाचित्कविरक्त्यनुपपत्तेर् लोकशिक्षार्थमेव दर्शितमित्येतत् स्पष्टयति– दैवेति ॥ नित्यविरक्तेनापि भगवता विरागः प्रदर्शित इति यस्मात् तस्मात् स्वयं दैवाधीनो योगेन ध्यानलक्षणोपास्त्या योगेश्वरं कृष्णमनुव्रतः कः पुमान् दैवाधीनेषु कामेषु विषयेषु विश्रम्भेत नित्या इति विश्वासं कुर्यात्, न कोऽपीत्यर्थः । अत्र दैवाधीनत्वं विषयाणामागमापायित्वेन नश्वरत्वे हेतुः
॥ २३ ॥
प्रकाशिका
ननु कादाचित्कवैराग्यप्रदर्शनमपि भगवता किमर्थं कृतमित्यतो लोकशिक्षणार्थ-मित्याह ॥ दैवाधीनेष्विति । कथमनेन लोकशिक्षणं लब्धमित्यतस्तं प्रकारं दर्शयति ॥ तेनापीति । वशीकृतसर्वविषयेणानन्याधीनेनापीत्यर्थः । प्रदर्शित इत्यनन्तरं यत इति शेषः । अनेन पूर्वश्लोकोक्तस्य हेतुतयाऽत्रोपयोग इति सूचयति । अतः कोऽन्य इत्येतत् श्लोकतात्पर्यकथनम् । तथा च मूले यतोऽतः शब्दावन्यशब्दश्चाध्याहार्या इति सूचयति । अन्यथा कृष्णमपेक्ष्यैतदुच्यत इति प्रतीतिप्रसङ्गेनेदं वाक्यं बाधितार्थकं स्यादिति ध्येयम् ॥ ततश्चायमर्थः । यत एवं भगवता वशीकृतसर्वविषयेणानन्याधीनेनापि विषयेषु विरागः प्रदर्शितः । अतो दैवाधीनेषु स्वानधीनेषु कामेषु विषयेषु स्वयमपि दैवाधीनो न स्वतन्त्रः । कोऽन्यः पुमान् विस्रंभेत विश्वासं प्रीतिं वा कुर्यात् । न कोऽपि । किन्तु वैराग्यवानेव भवेत् । तथा च हरिप्रदर्शितस्य वैराग्यस्य लोकवैराग्यौपयिकतया लोकशिक्षार्थत्वं प्राप्तमिति ध्येयम् । नन्वे-तादृशेष्वपि विषयेषु प्रीतिं कुर्वाणा बहवो दृश्यन्तेऽतः कथमेतदित्यत आह ॥ योगेनेति । योगेन निवृत्तकर्मध्यानादिरूपेण, योगेश्वरं श्रीकृष्णमनुवृतश्चेत् कृष्णप्रदर्शितयोगमार्गानुष्ठाता चेदित्यर्थः । तथा च कृष्णप्रदर्शितयोगमार्गानुष्ठाता पुमान्यः स एव कृष्णप्रदर्शितवैराग्यं दृष्ट्वा स्वयमपि उक्तरीत्या विरक्तो भविष्यति न सर्वजन इति भावः ॥ २३ ॥
पुर्यां कदाचित् क्रीडद्भिर्यदुभोजकुमारकैः ।
कोपिता मुनयः शेपुर्भगवन्मतकोविदाः ॥ २४ ॥
पदरत्नावली
इत्थं भगवच्चरितमुक्त्वा यदुकुलनाशनिमित्तमाह– पुर्यामिति ॥ भगवन्मतकोविदा इत्यनेन मुनिशब्दार्थो दर्शितः ॥ २४ ॥
प्रकाशिका
यदुकुलनाशे मिथो विवादो भवितेत्यत्र यन्निमित्तं भगवता चिन्तितं तत्रापि भगवत्कारितं मूलकारणं विप्रशापं दर्शयति ॥ पुर्यामिति । कोविदा अभिज्ञाः ॥ २४ ॥
ततः कतिपयैर्मासैर्वृष्णिभोजान्धकादयः ।
ययुः प्रभासं संहृष्टा रथैर्दैवविमोहिताः ॥ २५ ॥
तात्पर्यम्
‘एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यते । चक्रवत्परिवृत्तेर्वा दुष्टानां मोहनाय वे’ति स्कान्दे ॥ २५-२८ ॥ इति तृतीयतात्पर्ये तृतीयोऽध्यायः ॥ ३ ॥
पदरत्नावली
भविष्यद्यदुकुलनाशं वक्ष्यंस्तेषां प्रभासयात्रामाह– तत इति ॥ ‘एष्यत्तु निश्चतं यत् तदतीतत्वेन भण्यते । चक्रवत् परिवृत्तेर्वा दुष्टानां मोहनाय च ॥’ इति वचनाद् ययुरित्यादिप्रयोगो युज्यते । सुखहेतुत्वान्मासैरिव संवत्सरैः ॥ २५ ॥
प्रकाशिका
ततः कतिपयैर्मासैरित्यादिना वक्ष्यमाणं प्रभासगमनादिकं भारतादौ विदुरोद्धव-संवादमपेक्ष्योत्तरकालीनमिति निर्णीतम् । अत्र तु तत्सर्वमतीतत्वेनोच्यत इत्यतो विरोध इत्यतो यथा न विरोधस्तथैतद्ग्रन्थयोजनां प्रमाणेनैव दर्शयति ॥ एष्यदिति । निश्चितं भविष्यतीति निश्चितम् । अनेन निश्चितत्वेन मुख्यार्थसादृश्यं निमित्तं दर्शितम् । भण्यत इत्यनेन रूढोपचारोऽयमिति सूचयति । मुख्यार्थमेवाश्रित्य योजनान्तरमाह ॥ चक्रवदिति । प्रतिकल्पम् । कथामार्गस्येति शेषः । तथा चातीत-कल्पीययादवविषयमेतदिति योजनोक्ता भवति । न चैतदसङ्गतम् । भावियदुविनाशे दृष्टान्ततया कथन-सम्भवात् । ननु किमर्थमेवं पुराणकारस्य वचनं स्पष्टमेव कस्मान्नोक्तमित्यत आह ॥ दुष्टानामिति । ततश्च ततः कतिपयैरित्यादिमूलस्यायमर्थः । मासैः सुखहेतुत्वाद्वत्सरैर्ययुर्यास्यन्ति । देवः कृष्णस्तेन विमोहिताः ॥ २५ ॥
तत्र स्नात्वा पितॄन् देवान् ऋषींश्चैव तदंभसा ।
तर्पयित्वाऽथ विप्रेभ्यो गावो बहुगुणा ददुः ॥ २६ ॥
पदरत्नावली
बहुगुणाः सौशील्यादिसर्वगुणोपेता गावो गाः ॥ २६ ॥
प्रकाशिका
गावो गा बहुगुणाः सौशील्यादिसर्वगुणोपेता ददुर्दास्यन्ते ॥ २६ ॥
हिरण्यं रजतं शय्यां वासांस्यजिनकम्बलान् ।
हयान् रथानिभान् कन्यां धरां वृत्तिकरीमपि ॥ २७ ॥
पदरत्नावली
न केवलं गा एव ददुः किन्तु परलोके यद्यत् स्वात्मनः पुण्यफलत्वेन प्राप्यं तत्तद् द्रव्यजातं ददुरित्याह– हिरण्यमित्यादिना ॥ हिनोति दुःखं राति सुखमिति हिरण्यम् । रञ्जनं रागं चातनोति इति रजतम् । अजितं नयतीत्यजिनम् । कं सुखं बलयतीति कम्बलः । हयत्यनेन गन्तव्यमिति हयः । ‘पुंसि संज्ञायां घः प्रायेण’ इति घः । हय गताविति धातुः । हनिकुषिनी रमिकाशिभ्यः क्थन् रथ गताविति रथति चरति, रतिं स्थापयतीति वा । इष्टं भापयन्तीति इभाः । भा दीप्ताविति धातुः । कनं दीप्तिं यापयतीति कन्या । ध्रियतेऽनयेति धरा ॥ २७ ॥
प्रकाशिका
वृत्तिकरीं जीविकाप्रदाम् ॥ २७ ॥
अन्नं चोरुरसं तेभ्यो दत्वा भगवदर्पणम् ।
गोविप्रार्थासवः शूराः प्रणेमुर्भुवि मूर्धभिः ॥ २८ ॥
इति श्रीमद्भागवते तृतीयस्कन्धे तृतीयोऽध्यायः ।
पदरत्नावली
उरुरसं षड्रसोपेतम् । भगवदर्पणं ब्रह्मार्पणम् । गवार्थे विप्रार्थे असवो जीवनं येषां ते तथोक्ताः ॥ २८ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे तृतीयोऽध्यायः ॥
प्रकाशिका
उरुरसं षड्रसोपेतम् । भगवदर्पणं यथा स्यात्तथा गवां विप्राणां चार्थेऽसवः प्राणा येषां ते तथा । प्रणेमुः प्रणमिष्यन्ति ॥ २८ ॥
**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **
श्रीमद्भागवतटिप्पण्यां तृतीयोऽध्यायः ॥ ३-३ ॥