०२ द्वितीयोऽध्यायः

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम्

अथ द्वितीयोऽध्यायः

शुक उवाच–

इति भागवतः पृष्टः क्षत्त्रा वार्तां प्रियाश्रयाम् ।

प्रतिवक्तुं न चोत्सेहे औत्कण्ठ्यात् स्मारितेश्वरः ॥ १ ॥

पदरत्नावली

अत्राध्यायत्रये उद्धवेन विदुरप्रश्नप्रतिवचनाय हरेः श्रीकृष्णावतारसङ्क्षेपकथा निरूप्यते । तत्र प्रथमत उद्धवस्य भगवति भक्त्युद्रेकलक्षणं शुकः परीक्षितं कथयतीत्याह सूतः शौनकाय– इतीति ॥ आत्मादेरपि प्रियः प्रेष्ठो हरिर् आश्रयो यस्याः सा तथा तां वार्तां कथाम् । औत्कण्ठ्यं चित्तविद्रवणहेतुभूतौत्सुक्यम्, तस्माद् गद्गदकण्ठत्वादिति शेषः । स्मारितेश्वरः । प्रसङ्गविशेषादिति शेषः ॥ १ ॥

प्रकाशिका

भागवत उद्धवः । प्रियः श्रीकृष्णस्तदाश्रयां तद्विषयकाम् । न चोत्सेहे नैव प्रयत्नं कृतवान् । औत्कण्ठ्याद्भक्त्युद्रेकात् । स्मारितो विदुरवचनचातुर्येणासंप्रज्ञातसमाधिविषयीकृत ईश्वरो येन स तथा । असंप्रज्ञातसमाधिं प्राप्तो यतोऽतः प्रतिवचने यत्नवान्न जात इत्यर्थः । एवमग्रेऽपि स्मरणमसंप्रज्ञातसमाधिरूपमेव ज्ञेयम् ॥ १ ॥

यः पञ्चहायनो मात्रा प्रातराशाय याचितः ।

नैच्छत् तद् रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥

पदरत्नावली

एकान्तभक्तानामेतद् युक्तमिति भावेनाह– य इति ॥ पञ्च हायना वत्सरा यस्य स तथा । प्रातराशाय प्रातर्भोजनाय । तत् प्रातर्भोजनम् । सपर्यां पूजाम् । रचयन् प्रपञ्चयन् ॥ २ ॥

प्रकाशिका

इदमेव कैमुत्येनोपपादयति ॥ य इति । य उद्धवः पञ्चहायनः पञ्चवर्षः । प्रातराशाय प्रातःकालीनभोजनाय । तत्प्रातर्भोजनं, सपर्यां मानसीं बाह्यां पूजां च रचयन्कुर्वन् । बाललीलयेत्यनेन बाल्यावस्थापन्नस्य क्रीडारूपोऽपि व्यापार एतादृश इति सूचयति ॥ २ ॥

स कथं सेवया तस्य कालेन जरसं गतः ।

पृष्टो वार्तां प्रतिब्रूयाद् भर्तुः पादावनुस्मरन् ॥ ३ ॥

पदरत्नावली

तस्य हरेः । जरसं जरां, वार्धकं वयः ॥ ३ ॥

प्रकाशिका

जरसं जराम् । अनेन तस्य हरौ मनोवाक्कायवृत्तीनामभ्यासपाटवं सूचयति । भर्तुः कृष्णस्य ॥ ३ ॥

स मुहूर्तमभूत् तूष्णीं कृष्णाङ्घ्रिसुधया भृशम् ।

तीव्रेण भक्तियोगेन निमग्नः साधु निर्वृतः ॥ ४ ॥

पदरत्नावली

कृष्णाङ्घ्रिस्मरणसुधया । तृतीया सप्तम्यर्थे । तस्यां निमग्नः । निर्वृतः परमानन्दं प्राप्तः ॥ ४ ॥

प्रकाशिका

कृष्णाङ्घ्रिस्मरणरूपसुधया । तृतीया सप्तम्यर्थे । सुधायां निमग्नः सन् साधु निर्वृतः स्वरूपानन्दाविर्भावं प्राप्तः ॥ ४ ॥

पुलकोद्भिन्नसर्वाङ्गो मुञ्चन् मीलद्दृशाश्रु सः ।

पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसंप्लुतः ॥ ५ ॥

पदरत्नावली

उद्धवस्यैवंविधामवस्थां पश्यतो विदुरस्य मनसि किं प्रत्यभादत्राह– पुलकेति ॥ तेन विदुरेण । पुलको रोमाञ्चस् तेनोद्भिन्नम् अङ्कुरितं सर्वाङ्गं यस्य सः । मीलद्दृशा अर्धोन्मीलित-नेत्रेणाश्रुबाष्पकलां मुञ्चन् । स्नेहप्रसरसंप्लुतः भक्तिनदीप्रवाहमग्नः स उद्धवः पूर्णार्थः कृतकृत्यो लक्षितो लक्षणतो ज्ञात इत्यन्वयः ॥ ५ ॥

प्रकाशिका

प्रत्युत्तरावचनेन विदुरमनसि तस्मिन्किं कोपो जातो नेत्याह ॥ पुलकेति । पुलकै रोमाञ्चैरुद्भिन्नान्यङ्कुरितान्युज्जृंभितानि वा सर्वाण्यङ्गानि यस्य सः । मीलितदृशा मीलितनेत्रेणाश्रुबाष्पकलां मुञ्चन् (यः) यतः स्नेहप्रसरसंप्लुतो भक्तिनदीप्रवाहनिमग्नः । असंप्रज्ञातसमाधिस्थ इति यावत् । स उद्धवस्तेन विदुरेण लक्षितोऽनुमितोऽतः पूर्णार्थः कृतार्थः । मुक्त इव लक्षित इत्यर्थः । रोमाञ्चादिना तदीयासंप्रज्ञातसमाधिमनुमाय मुक्त इवायं परमानन्दमग्नो जातोऽस्त्यतोऽस्य तूष्णींभाव इति ज्ञातवानिति भावः ॥ ५ ॥

शनकैर्भगवल्लोकान्नृलोकं पुनरागतः ।

विमृज्य नेत्रे विदुरं प्रत्याहोद्धव उत्स्मयन् ॥ ६ ॥

पदरत्नावली

ततः परं विदुरस्य काऽभीष्टसिद्धिरभूदित्याशङ्क्य स्वप्रश्नप्रतिवचनोपक्रम-सिद्धिरित्याह– शनकैरिति ॥ भगवल्लोकाद् असंप्रज्ञातावस्थालक्षणान् नृलोकं मनुष्यदेहाभिमानमागत उत्स्मयन् उत्कृष्टं मन्दस्मितं कुर्वन् ॥ ६ ॥

प्रकाशिका

भगवतो लोकात्प्रकाशादसंप्रज्ञातसमाधिरूपान् नृलोकं मनुष्यदेहानुसन्धानमागतः प्राप्तः । उत्स्मयन्विप्रशापं निमित्तीकृत्य यदुकुलविनाशं कर्तुमुद्युक्तस्य श्रीकृष्णस्य माहात्म्यश्रवणेनोत्कृष्टं विस्मयं कुर्वन् ॥ ६ ॥

उद्धव उवाच–

कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह ।

किं नु नः कुशलं ब्रूयां गतश्रीषु यदुष्वहम् ॥ ७ ॥

पदरत्नावली

कीदृशी सेत्यत्राह– कृष्णेति ॥ कृष्ण एव द्युमणिः सूर्यस्तस्य निम्लोचे अस्तमये सति । अत एव गतश्रीषु नष्टालोकेषु । अत एव कालाजगरेण गीर्णेषु ग्रस्तेषु अस्तङ्गतेषु विनाशं यातेषु नः सम्बन्धिषु यदुषु किं नु कुशलं ब्रूयाम् । हेत्यनेन कुशलप्रश्नप्रवचनप्रत्यारम्भो न कर्तव्यः । विप्रशापेन सन्निहितनाशस्य प्रसिद्धत्वादिति दर्शयति । ‘प्रत्यारम्भे प्रसिद्धे ह’ इति यादवः ॥ ७ ॥

प्रकाशिका

भाविना कृष्णादियादववियोगेन सन्तप्यमान आह ॥ कृष्णेति । कृष्ण एव द्युमणिः सूर्यस्तस्य निम्लोचेऽस्तमये आसन्ने सति । अत एव गतश्रीषु विगतशोभेषु । विप्रशापाख्या-जगरेण गीर्णेषु निगलितप्रायेषु नोऽस्मत्सम्बन्धियदुषु किं नु कुशलं ब्रूयाम् । हेति खेदे ॥ ७ ॥

दुर्भगो बत लोकोऽयं यदवो नितरामपि ।

ये संवसन्तो न विदुर्हरिं १मीना यथाऽम्भसि ॥ ८ ॥

पदरत्नावली

दुष्टनिधनव्याजेन ज्ञानोपदेशार्थमवतीर्णस्य कृष्णस्य ज्ञानेन, नाशं यास्यतामपि यदूनां त्रिलोक्याश्च श्रेयःसिद्धिः स्यादित्याशङ्क्य ज्ञाने सति श्रेयः, तदेव नास्तीत्यनुतपन् उद्धव इत्याह– दुर्भग इति ॥ लोको जनः । बतशब्दः खेदवचनः । हरिं न विदुः । दुस्तरसंसार-संहारकत्वेनेति शेषः ॥ ८ ॥

प्रकाशिका

ननु श्रीकृष्णस्मरणेन तव यथैतादृशसुखप्राप्तिस्तथेतरेषां जनानां यदूनां च श्रीकृष्णं स्मरतामेतादृशसुखप्राप्तिः कुतो नेत्यत आह ॥ दुर्भग इति । अयं भूमिष्ठो लोको जनो ये लोका यादवाश्च कृष्णेन संवसन्तोऽपि सह विद्यमाना अपि कृष्णं हरिं हरिरयमिति न विदुः । प्रत्युतायमप्येको मनुष्य इत्येव विदुः । अतो न तेषां कृष्णस्मरणेनास्मद्वत्सुखप्राप्तिरिति भावः । अत्र दृष्टान्तः । यथांऽभसि समुद्रे विद्यमाना अपि मीना मत्स्यादयः हरिं मत्स्यरूपं हरिरयमिति न जानन्ति तथैवेति । मीना इवोडुपमिति पाठे मीना यथा जले प्रतिबिम्बितमुडुपं चन्द्रं चन्द्रप्रतिबिम्बितत्वेन न जानन्तीति व्याख्येयम् ॥ ८ ॥

इङ्गितज्ञाः १पुरुप्रौढा एकारामाश्च सात्वताः ।

सात्वतामृषभं सर्वे भूतावासममंसत ॥ ९ ॥

पदरत्नावली

न केवलमज्ञाः, मिथ्याज्ञानिनोऽपि जाता इत्याह– इङ्गितज्ञा इति ॥ अत्रेङ्गित-शब्दो द्विरावृत्य व्याख्यातव्यः । इगि चेष्टायामिति धातुः । लोकस्येङ्गितेन चेष्टितेनेङ्गितं हृद्गतभावं जानन्तीति इङ्गितज्ञाः । ‘इङ्गितं हृद्गतो भाव इङ्गितं चाङ्गचेष्टितम्’ इत्यभिधानाम् । पुरप्रौढाः शरीराभिमानिनः गृहस्वामिनो वा । एकारामाः केवलक्रीडालोलाः । ‘एके मुख्यान्यकेवलाः’ इति च । एवंविधाः सर्वे सात्वता यादवाः । सात्वतां ब्रह्मादिभागवतानाम् ऋषभं स्वामिनं, प्राकृतप्रधानपुरुषवद् भूतावासं कतिपयजनावासहेतुभूतममंसत अमन्यतेत्यन्वयः । ‘एको देवः’ इति श्रुतिप्रतिपाद्यत्वेन प्रसिद्धं भूतावासम् अविशेषेण सकलजगन्निवासं भगवन्तं सात्वतां यादवानामेव ऋषभममंसतेति वा ॥ ९ ॥

प्रकाशिका

ननु विप्रकर्षाद्भवतु लोकस्यैतादृशमज्ञानं विपरीतज्ञानं वा, यादवानामतिचतुराणां कृष्णेन सहैकत्र सतां कथमीदृशमज्ञानादिकमित्यत आह ॥ इङ्गितज्ञा इति । इङ्गितं हृद्गतो भावः । ‘‘इङ्गितं चाङ्गचेष्टितम्’’ इत्यभिधानात् । अत्रेङ्गितशब्दस्तन्त्रेणोभयार्थ उपात्तः । तथा चेङ्गितेन परस्याङ्गचेष्टितेनेङ्गितं तच्चित्तस्थं जानन्तीतीङ्गितज्ञा इति व्याख्येयम् । पुरु अतिशयेन प्रौढा निपुणाः । पुरप्रौढा इति पाठे पुरे पट्टणे वासेन प्रौढा इत्यर्थः । पुरः प्रौढाः शरीराभिमानिनो गृहस्वामिनो वा । एकस्मिन्नेव स्थाने आरमन्तीति एकारामाः । केवलं क्रीडालोला वा चशब्दोऽप्यर्थः । सात्वता यादवा एवम्भूता अपि । भूतावासं सर्वजगदीश्वरं कृष्णं सात्वतां यादवानामेव ऋषभं श्रेष्ठममंसतामन्यत । न सर्वेश्वरोऽयमिति ज्ञातवन्त इति भावः ॥ ९ ॥

देवस्य मायया स्पृष्टा ये चान्ये असदाश्रयाः ।

भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनां हरौ२ ॥ १० ॥

पदरत्नावली

प्रसङ्गाज् ज्ञानिलक्षणमाह– देवस्येति ॥ देवस्य हरेर् मायया बन्धकशक्त्या स्पृष्टा उपतप्तज्ञानत्वादन्यथाज्ञानिनो, ये चान्ये असतां जनानाममङ्गलानां विषयाणां वाऽऽश्रयाः । तद्वाक्यैस् तेषां नृणां वाक्यैः, आत्मनि परमात्मनि, उप्तामलात्मनां सन्ततन्यस्तनिर्दोषमनसां ज्ञानिनां धीर्न भ्राम्यते नान्यथा भवतीत्यनेन सम्यक् ज्ञानित्वमेवंविधमित्युक्तं भवति । आत्मन्युप्तात्मनां हराविति पाठे हरावित्यक्षरद्वयेन ओहाङ् गताविति हेति ज्ञानं, रमु क्रीडायामिति रीत्यतिशयितसुखमिति सच्चिदानन्द-लक्षणो विष्णुरुच्यत इति ज्ञातव्यम् ॥ १० ॥

प्रकाशिका

नन्वेवं तेषां ज्ञानाभावे भ्रमे च किं निमित्तमित्यत आह ॥ देवस्येति । मायया बन्धकशक्त्या स्पृष्टा बद्धा यतोऽतोऽमंसतेति पूर्वेणान्वयः । निमित्तान्तरमप्याह ॥ ये चान्य इति । येऽन्ये कुवादिनोऽसदाश्रया असच्छास्त्रावलम्बनास्तेषां वाक्यैश्च दुःशास्त्रैरप्यमंसतेत्यन्वयः । नन्वेवं भवदादीनामप्युक्तैर्निमित्तैः कस्मान्न भ्रमो भवतीत्यत उक्तम् । आत्मनि स्वात्मनि हरौ विषये । उप्तो दृढं निक्षिप्त आत्मा मनो येषां ते तेषामस्मदादीनां धीस्तद्वाक्यैर्न भ्राम्यत इति । सर्वदा हरिरेवायमिति प्रमाणज्ञत्वान्नास्मदादीनामुक्तभ्रम इति भावः ॥ १० ॥

प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।

आदायान्तरधाद् यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥

पदरत्नावली

यो ज्ञानिबुद्धिविषयो हरिः स एवायं कृष्ण इत्याह– प्रदर्श्येति ॥ अतप्ततपसाम् अस्मिन् जन्मनीति शेषः । अनेन पूर्वतप्ततपस्त्वं सूच्यते । स्वबिम्बमिति सच्चिदानन्दलक्षणं स्वरूपं तत्प्रतिमा च गृह्यते । तेन ज्ञानिनां साक्षादितरेषाम् इतरद् रूपम् इति ज्ञायते । लोकस्य जनस्य लोचनं नेत्रं यस्मिंस्तल्लोकलोचनं जनरञ्जनं वा । अधादिति लुङ् लृडर्थे । अन्तर्धास्यतीत्यर्थः । ‘बिम्बोऽस्त्री मण्डलसमप्रतिमामुखलक्ष्मसु’ इति । तुना ‘द्वे वाव ब्रह्मणो रूपे’ इत्यादि श्रुतिं सूचयति ॥ ११ ॥

प्रकाशिका

ननु कृष्णस्य न हरित्वमुपपद्यते । तस्य निम्लोचशब्देन त्वयैव मरणस्योक्त-त्वादित्याशङ्कायां निम्लोचशब्दार्थं दर्शयति ॥ प्रदर्श्येति । सर्वदा दर्शनसाधनं, न तप्तं तपो यैरत एवावितृप्तदृशां नृणां स्वबिम्बं स्वस्वरूपभूतं शरीरं प्रदर्श्य । तुशब्दोऽवधारणे । आदायैवाविहायैवान्तर-धादन्तर्धास्यति । ‘‘एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यत’’ इति वचनात् । अन्तर्धानमेव पूर्वोक्तो निम्लोचो न देहहानिरूपमरणमिति भावः । कीदृशं स्वबिम्बम् । लोकानां लोचनानि यस्मिन् । अतिसुन्दरमिति यावत् ॥ ११ ॥

यन्मर्त्यलीलौपयिकं स्वयोगमायाबलं दर्शयता गृहीतम् ।

विस्मापनं स्वस्य च सौभगर्द्धेः परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥

पदरत्नावली

पुनरपि यद् वपुः स्वयोगमायाबलं स्वरूपेच्छासामर्थ्यं दर्शयता हरिणा गृहीतम् । यच्च मर्त्यलीलौपयिकं मानुषलीलां बालकौमारादिविषयामुपयातीति । अनेन स्वत एकप्रकारलक्षणमुक्तं भवति । स्वस्य कृष्णस्य च विस्मापनं विस्मयकरम् । यच्च सौभगर्द्धेः सौन्दर्यसमृद्धेः परं पदं स्थानम् । यच्च भूषणानामपि भूषणान्यङ्गानि यस्मिंस्तत् ॥ १२ ॥

प्रकाशिका

लोकलोचनपदेन सूचितबिम्बसौन्दर्यमेवोपपादयति ॥ यन्मर्त्येति त्रिभिः । यत् स्वबिम्बं, मर्त्यलीलौपयिकं मनुष्यकर्तृकलीलासूपयुक्तं, स्वयोगमायाबलं स्वबिम्बरूपमायामाहात्म्यबलं दर्शयता हरिणा गृहीतं प्रकटीकृतम् । अनेन जननमपि तस्य नास्तीति सूचितम् । स्वस्य च स्वस्यापि । विस्मापनं विस्मयकरम् । सौभगर्द्धेः सौभाग्यातिशयस्य परं मुख्यं पदं स्थानम् । चरमकाष्टेति यावत् । भूषणानामपि भूषणानि भूषणायितान्यङ्गानि यस्मिंस्तत् ॥ १२ ॥

यद्धर्मसूनोर्बत राजसूये निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोकः ।

कार्त्स्न्येन चात्रोपगतं विधातुरर्वाक् सृतौ कौशलमित्यमन्यत ॥ १३ ॥

तात्पर्यम्

त्रिलोकस्याज्ञानं बत । ‘आनन्दरूपं दृष्ट्वाऽपि लोको भौतिकमेव तु । मन्यते विष्णुरूपं च अहो भ्रान्तिर्बहुस्थिते’ति स्कान्दे ॥ १३ ॥

पदरत्नावली

पुनरपि कीदृशम्? धर्मसूनोः राजसूययज्ञे पश्यतो जनस्य पुनरपि कीदृशम् ? धर्मसूनो राजसूये यज्ञे पश्यतो जनस्य दृशां स्वस्त्ययनम् आनन्दाश्रयं यद्वपुर्निरीक्ष्य त्रिलोक इत्यमन्यत । कथम् ? विधातुर्विरिञ्चस्यार्वाक्सृतावंत्यसृष्टौ कार्त्स्न्येन कौशलमत्र कृष्णवपुषि उपगतं पर्याप्तमिति । नैतत्सत्यमित्याह– बतेति ॥ अनेन त्रिलोकस्याज्ञानमाश्चर्यमिति विस्मयं करोति । ‘आनन्दरूपं दृष्ट्वाऽपि लोको भौतिकमेव तु । मन्यते विष्णुरूपं च अहो भ्रान्तिर्बहुस्थिता ॥’ इति वचनात् । ज्ञान्यज्ञानिनां समुच्चये चकारः । तथा चैवं योजना– अत्र जीवराशौ त्रिषु वेदादिषु लोकः प्रकाशो ज्ञानं यस्य स तथा वेदैकप्रमाणो जनो धर्मसूनो राजसूये उपगतं सर्वाधिकत्वेन स्थितं यद्वपुर्निरीक्ष्य सृतौ मनुष्यसृष्टिमार्गे प्रवर्तमानस्य विधातुर्यत्कात्स्न्येन कौशलं मङ्गलविषयं निर्माणपाटवं तदर्वाक् नीचमित्यमन्यत । श्रीकृष्णसौन्दर्यस्याकृत्रिमत्वाद् अत एवानन्तत्वाच्च न तज्ज्ञान्यज्ञानिनां ज्ञाने वाऽज्ञाने वा वैचित्र्यम् । अहो इत्यास्वादयति ॥ १३ ॥

प्रकाशिका

दृक्स्वस्त्ययनं दृशामानन्दकरं यच्छ्रीकृष्णशरीरं निरीक्ष्य त्रिलोक इत्यमन्यत । बत कथं विधातुर्विरिंचस्यार्वाक्सृतावंत्यसृष्टौ कार्त्स्न्येन कौशलं नैपुण्यमत्र शरीरे उपगतं पर्याप्तं नातःपरं तस्य कौशलमस्तीत्येवं मेने । यथाऽऽदौ वक्रतया लिखति पश्चादभ्यासपाटवेन तत्कर्तृकलेखने कौशलं कार्त्स्न्येनायाति तथैवेति भावः ॥

अत्र बतेत्यनेन सूचितमर्थं दर्शयति । त्रिलोकस्येति । अत्राज्ञानशब्दो भ्रमपरः । चिदानन्दाद्यात्मकस्य कृष्णशरीरस्य विरिञ्चस्रष्टृत्वबुद्धेर्भ्रमत्वात् । तथा च लोके भ्रमः केषाञ्चिदेव सम्भावितः । अस्मिंश्चार्थे लोकत्रयगतानां बहूनां भ्रमो भवति । इदमाश्चर्यमित्यर्थः । अत्र प्रमाणान्तर-संवादमाह ॥ आनन्दरूपमिति । आनन्दद्यात्मकमपि विष्णुरूपं कृष्णादिशरीरं दृष्ट्वा शरीरत्वेनैव रूपेण ज्ञात्वा लोकस्त्रिलोकगतो जनस्तु विशेषेणेतरशरीरापेक्षयाऽतिशयेन भौतिकमेव पञ्चभूतो-पादानकमेव न चिदानन्दाद्यात्मकमित्येवशब्दार्थः । चशब्दो विरिञ्चस्रष्टृत्वसमुच्चयार्थः । बहुषु स्थिता अहो आश्चर्यम् । एकस्मिन्नर्थे बहूनां भ्रान्तेरदर्शनादिति भावः ॥ १३ ॥

यस्यानुरागप्लुतहासरासलीलावलोकप्रतिलब्धमानाः ।

व्रजस्त्रियो दृग्भिरनुप्रवृत्तधियोऽवतस्थुः किल कृत्यशेषाः ॥ १४ ॥

पदरत्नावली

यस्य श्रीकृष्णस्यानुरागेण स्नेहेन प्लुतहासरासौ अनुस्मितहासरासक्रीडे ताभ्यां सहितेन लीलावलोकेन प्रतिलब्धः मानो यासां तास्तथोक्ताः । हासरासशब्दो रसपरस् तेन वा । ‘रसः सारो वर’ इति वचनात् । रस एव रासः । ‘वार्तासम्भावयोः किल’ इति वचनात् सम्भावितोऽयमर्थः। व्रजे गोष्ठे ॥ १४ ॥

प्रकाशिका

मूले यस्य श्रीकृष्णस्यानुरागः स्नेहस्तेन प्लुता व्याप्ता हासाश्च रासलीला च रासक्रीडा चावलोको निरीक्षणं च ते तथा । अनुरागप्लुताश्च ते हासादयश्च तैः प्रतिलब्धो मानो याभिस्ता व्रजे विद्यमानाः स्त्रियो दृग्भिः सहानुप्रवृत्ता गच्छन्त्यस् तमेवानुगता धियो यासां तास्तथाविधाः सत्यः कृत्ये भोजनादिरूपे शेषो यासां ताः । असमापितकृत्या एव निरीक्षणार्थमागता अवतस्थुः । तस्य सौन्दर्यनिधित्वादेतत्सम्भावितमित्यर्थे किलशब्दः । ‘‘वार्तासम्भावयोः किले’’ति वचनात् ॥ १४ ॥

स्वशान्तरूपेष्वितरैश्च रूपैरभ्यर्द्यमानेष्वनुकम्पितात्मा ।

परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान् यथाऽग्निः ॥ १५ ॥

पदरत्नावली

अवतारप्रयोजनमाह– स्वशान्तेति ॥ स्वस्य शान्तरूपेषु सात्विकप्रकृतिषु सुरादिषु इतरैर् अशान्तरूपैरसुरैर् अभ्यर्द्यमानेषु सत्सु, अनुकम्पितात्मा अनुद्वृत्तचित्तः महदंशयुक्तः महांश्चासावंशः महदंशः मुख्यप्रतिबिम्बभूतो ब्रह्मा, तेन प्रार्थितत्वेन युक्तो विनियुक्तः परावरेशोऽजो विष्णुर्जातो भवतीत्यन्वयः । यथाग्निर्दारुण इति शेषः । अनेन जनी प्रादुर्भाव इति धात्वर्थो विवृतः

॥ १५ ॥

प्रकाशिका

एवं निम्लोचशब्दो न प्रसिद्धमरणपरः किं त्वन्तर्धानपर एवेत्युपपाद्येदानीं जनिरपि तस्य नेतरसाधरणेत्याह ॥ स्वशान्तरूपेष्विति । अत्र रूपशब्दः प्रतिमापरः । स्वस्य शान्तरूपेषु सात्विकप्रकृतिषु सुरादिष्वितरैरशान्तरूपैः स्वस्य रूपैस्तामसैरसुरैरभ्यर्द्यमानेषु सत्सु, अनुकम्पितः कृपायुक्त आत्मा मनो यस्य सः । महतां वायुशेषेन्द्रादीनामंशैर्युक्तोऽजोऽपि जडदेहसम्बन्धेनोत्पत्ति-रहितोऽपि जातः प्रादुर्भूतः । वाय्वादीनामुक्तविधाजत्वस्याभावात्प्रसिद्धैव जनिरिति सूचयितुं हिशब्दः । महतो महतत्त्वाभिमानिनः पुन्नामकब्रह्मणो योंऽशश्चतुर्मुखस्तेन सुक्तो नियुक्तः प्रार्थितः यावत् । अजोऽपि जात इति वा । अत्र प्रादुर्भावो हरेर्जनिरिति प्रमाणप्रसिद्धिसूचको हि शब्दः । यथाऽग्निः काष्ठेषु विद्यमान एवाविर्भवति तथैव । न च ‘‘अजस्य जन्मोत्पथनाशनाये’’त्यनेनैतत्पुनरुक्तम् । तद्विवरणरूपत्वाद्वक्तृभेदाच्च ॥ १५ ॥

मां खेदयत्येतदजस्य जन्मविडम्बनं यद्वसुदेवगेहे ।

व्रजे च वासोऽरिभयादिव स्वयं पुराद् व्यवात्सीद् यदनन्तवीर्यः ॥ १६ ॥

पदरत्नावली

ब्रह्मादीनामपि भगवद्विषयज्ञानं मध्याह्नार्कवत् संचलति किमुतास्मदीयमिति भावेनाह– मां खेदयतीति ॥ वसुदेवस्य गेहे भार्यायां जन्मविडम्बनं जातवदनुकरणम् । अरिः कंसो जरासन्धश्च । पुराद् मथुरापुराद् गोमन्तद्वारकयोर्विवासः प्रवासः । अनन्तवीर्य इत्ययं लोकानुकरणं स्मारयति ॥ १६ ॥

प्रकाशिका

नन्वेवं जन्ममरणराहित्येन कृष्णस्येश्वरत्वं चेत्कथं तेनानीश्वरकर्तव्यानि कृतानीत्यत आह ॥ मां खेदयतीति द्वाभ्याम् । एतदनीश्वरवत्कर्मकरणं खेदयति । असुरजनमोहनार्थमेवैतन्न स्वतः । तत्स्वभावस्यानैवंविधत्वेन श्रुत्यादिसिद्धत्वादिति समाधानेन चित्तचाञ्चल्यपरिहाररूपक्लेशयुक्तं करोती-त्यर्थः । एतदित्युक्तमेवाह । वसुदेवगेहे वसुदेवभार्यायाम् । यज्जन्मविडम्बनं लौकिकजन्मानुकरणम् । अरिभयादिव व्रजे निलीय वासः । अरिर्जरासन्धादिस्तद्भयादिव । पुरान्मथुरापुराद्व्यवात्सीद्गोमन्तगिरिं प्रत्यपालयत् । अनन्तवीर्य इत्यनेनासुरमोहनाय मनुष्यानुकरणमेवैतन्न वास्तवमिति दर्शयति ॥ १६ ॥

दुनोति चेतः स्मरतो ममैतद् यदाह पादावभिवन्द्य पित्रोः ।

ताताम्ब कंसादुरुकम्पितानां१ प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥

पदरत्नावली

एतत् कंसवधानन्तरं क्रियमाणं कर्म । पित्रोर्देवकीवसुदेवयोः । अकृतनिष्कृतीनाम् अननुष्ठितकंसकृतप्रतिक्रियाणाम् ॥ १७ ॥

प्रकाशिका

एतच्च कृष्णस्य कर्म स्मरतो मम चेतः कर्मभूतं दुनोति उक्तरीत्या क्लेशयुक्तं करोति । एतदित्युक्तमेव विशदयति ॥ यदाहेति । कंसहननानन्तरमिति शेषः । हे तात हे अम्ब । युवां प्रसीदतं प्रसादं कुरुताम् । न कृता निष्कृतिः कंसकृतापराधप्रतिक्रिया आत्मना धनेन वा तृप्तिर्यैस्तेषां नोऽस्माकम् । बहुवचनं जातौ । आवयोरित्यर्थः ॥ १७ ॥

को वा अमुष्याङ्घ्रिसरोजरेणुं विस्मर्तुमीशेत पुमान् विजिघ्रन् ।

यो विस्फुरद्भ्रूविटपेन भूमेर्भारं कृतान्तेन तिरश्चकार ॥ १८ ॥

पदरत्नावली

विस्फुरद्भ्रूविटपेन विस्फुरन्त्योर् भ्रमन्त्योभ्रुवोर्विटपेन लेशेन । कृतान्तेन कालोपमेन ॥ १८ ॥

प्रकाशिका

नन्वनीश्वर एवायं किं न स्यात्तव तु श्रद्धामात्रमेतदतः किं तद्विरहनिमित्तेन दुःखे-नेत्याशङ्कायां तस्येश्वरत्वं साधयंस्तद्विरहो दुःसह इत्याह ॥ को वा इति त्रिभिः । अङ्घ्रिसरोजरेणुमपि विजिघ्रन्सेवमानो, विस्फुरन्त्योर्विभ्रमंत्योर् भ्रुवोर्विटपेन लेशेन तल्लक्षणेन कृतान्तेन । अनेन भ्रूविलास-मात्रेण भूभारसंहर्तृत्वादयमीश्वर इति युक्तिरुक्तेति ज्ञातव्यम् ॥ १८ ॥

दृष्टा भवद्भिर्ननु राजसूये चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिः ।

यां योगिनः संस्पृहयन्ति सम्यग्योगेन कस्तद्विरहं सहेत ॥ १९ ॥

पदरत्नावली

रमज्ञेन पुरुषेण हरेर्विरहो न सोढुं युक्त इति भावेनाह– दृष्टेति ॥ योगिनो युक्त्युपक्रमादिलक्षणेन वेदतात्पर्यवेदिनो यां सिद्धिं स्पृहयन्ति वाञ्छन्ति राजसूये भवद्भिश्चासुरप्रवेशात् कृष्णं द्विषतोऽपि चैद्यस्य कृष्णप्रवेशलक्षणा सिद्धिर्दृष्टा । अपिना निन्दिताद् द्वेषाद् भक्त्यैकलभ्या तत्प्रवेशलक्षणा सिद्धिः कथं संभवतीति चोद्यं नन्वित्यनेन परिहृतम् । तथा हि ‘प्रश्नावधारणैतिह्य-समीहानुमते ननु’ इति वचनात् । यथा प्रमाणेनानुमतं तथाऽङ्गीकर्तव्यम् । प्रमाणं तु ‘असुरा अपि ये विष्णुं शङ्खचक्रगदाधरम् । भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति । विद्विषन्ति तु ये विष्णुमृषिपुत्रा अपि स्फुटम् । असुरास्तेऽपि विज्ञेया गच्छन्ति च सदा तमः ॥’ इति वचनम् । अत एव सम्यग्योगे-नेत्युक्तम् । ‘सर्वदा भक्तितो मुक्तिर्द्वेषात्तम उदीरितम्’ इत्यादेः । ततः किम् ? तत्राह– क इति ॥ यस्माज् जीवद्वयसमायोगेन जातान् जयादीन् भक्त्या दुष्टावेशाद्विमोच्य दुष्टांस्तमसि प्रापय्य प्रवर्तते तस्मात् कृपालोस्तस्य विरहं विस्मरणलक्षणं कः पुमान् सहेत । भक्तिमानिति शेषः । ‘जीवद्वय-समायोगाद् हिरण्यकमुखाः परे’ इत्यादेर् एकस्मिन् जीवद्वयसमायोगोऽस्तीति ज्ञायते ॥ १९ ॥

प्रकाशिका

भक्तकृतप्रामादिकापराधमुपेक्ष्य मोक्षफलदातृत्वाच्चायमीश्वर इत्याह ॥ दृष्टेति । चैद्यस्य जयांशत्वाद्भक्त्याऽसुरावेशेन द्विषतोऽपि सिद्धिः सायुज्यरूपा । यां सिद्धिं सम्यगनुष्ठितेन योगेन संस्पृहयन्ति प्राप्तुमिच्छन्ति ॥ १९ ॥

तथैव चान्ये नरलोकवीरा य आहवे कृष्णमुखारविन्दम् ।

नेत्रैः पिबन्तो नयनाभिरामं पार्थास्त्रपूताः पदमापुरस्य ॥ २० ॥

पदरत्नावली

चैद्यवदन्येऽपि स्वयोग्यां सिद्धिमापुरित्याह– तथैवेति ॥ ये भारतयुद्धे दुर्योधन-पक्षपातिनोऽन्ये नरलोकवीराः कर्णादयो नयनाभिरामं नेत्रोत्सवजनकं कृष्णमुखारविन्दं नेत्रैः पिबन्तः पार्थास्त्रपूताः पार्थस्य पाशुपताद्यस्त्रेण पूताश् छिन्नशिरस्का मृतास्तेऽपि तथैव चैद्यवदेवास्य कृष्णस्य प्रसादात् तदधीनं स्वयोग्यं पदमापुरित्यन्वयः । स्वपदप्राप्त्यनन्तरं मुक्तिं च प्रापुरित्यस्मिन्नर्थे चशब्दः । पुं छेदन इति धातुः । पूञ् पवन इति धातुपाठे द्वेषं मुक्त्वा भक्त्या शुद्धा इत्यर्थः ॥ २० ॥

प्रकाशिका

चैद्यवदन्येऽपि स्वयोग्यां सिद्धिमापुरित्याह ॥ तथैवेति । ये कर्णादय आहवे भारतयुद्धे पार्थास्त्रपूतास्तदस्त्रैर्मृतत्वेन निष्पापाः सन्तः ॥ २० ॥

स्वयं त्वसाम्यातिशयस्त्र्यधीशः स्वराज्यलक्ष्म्याप्तसमस्तकामः ।

बलिं हरद्भिः सुरलोकपालैः १किरीटकोट्येडितपादपीठः ॥ २१ ॥

पदरत्नावली

एवंविधस्य हरेर्भक्तानुकम्पामन्तरेण नान्यत् प्रयोजनं मत्स्यावतारादिनेत्याशयेनाह– स्वयं त्विति ॥ न साम्यातिशयो यस्य स तथोक्तः । ‘एकमेवाद्वितीयम्’ इति श्रुतेः । स्वराज्यलक्ष्म्या स्वरूपानुभवलक्ष्म्या, ‘स्वे महिमि्न’ इति श्रुतेः । बलिं पूजाम् ॥ २१ ॥

प्रकाशिका

एवं स्वयमीश्वरोऽपि यदुग्रसेनभृत्यत्वं दर्शितवांस्तदत्यन्तं मामुक्तक्लेशवन्तं करो-तीत्याह ॥ स्वयं त्विति । तुशब्दोऽवधारणे । स्वयमेव नान्यः । त्र्यधीशस्त्रयाणां लोकानामीशः स्वराज्यलक्ष्म्या स्वाधीनराज्यलक्ष्म्या बलिं करं पूजां वा हरद्भिः समर्पयद्भिः ॥ २१ ॥

तत्तस्य कैङ्कर्यमलं भृतान्नो विग्लापयत्यङ्ग यदुग्रसेनम् ।

तिष्ठन् निषण्णं परमेष्ठिधिष्ण्ये न्यबोधयद् देव निधारयेति ॥ २२ ॥

पदरत्नावली

इदमपि तन्माहात्म्यातिशयसूचकं यस्मादेवंविधज्ञानवतोऽस्मान् विग्लापयति तत्कर्मेति भावेनाह– तत्तस्येति ॥ तद्वचः । कैंकर्यं दासत्वं, विग्लापयति माहात्म्यविषयेऽज्ञानलक्षणां ग्लानिमुत्पादयति । तदिति किम् ? तत्राह– यदिति ॥ परमेष्ठिधिष्ण्ये सिंहासने निषण्णमुग्रसेनं स्वय-मुत्तिष्ठन् यद्वचो न्यबोधयद् विज्ञापयामास । हे देव अस्मद्विज्ञापनं निधारय चित्ते कुर्विति ॥ २२ ॥

प्रकाशिका

एवंविधोऽपि परमेष्ठिधिष्ण्ये सिंहासने निषण्णमासीनमुग्रसेनं तिष्ठंस्तत्पुरतः स्वयं तिष्ठन् । हे देव । अस्मद्वचो निर्धारयावधारयेति न्यबोधयद्विज्ञापितवानिति यद्वचनं तत्तस्य कृष्णस्य कैङ्कर्यं दासत्वमुपागतान्प्राप्तान्नोऽस्मान् । हे अङ्ग विदुर । विग्लापयत्यसुरजनमोहनाय वा भक्तवात्सल्य-प्रदर्शनाय वा इदमिति समाधानेन चित्तचांचल्यपरिहाररूपां ग्लानिं प्रापयति ॥ २२ ॥

अहो बकीयं स्तनकालकूटं जिघांसया पाययदप्यसाध्वी ।

लेभे गतिं धात्र्युचितां ततोऽन्यं कं वा दयालुं शरणं व्रजेम ॥ २३ ॥

पदरत्नावली

पूर्वमर्थत उक्तं दयालुत्वमधुना वाक्यतः कथयति– अहो इति ॥ ‘‘बक भक्षण’’ इति धातोर्भक्षणशीलत्वाद् बकी पूतना । अपिना ताटकां गर्हयति । धात्रीणां शुभानां योग्यताभेदेनोचिताम् । ‘कंसपूतनिकाद्याश्च बान्धवादि युता यतः । जीवद्वयसमायोगाद्गतिद्वय-जिगीषवः ॥’ इति वचनाद् दयालुत्वम् उर्वशीं प्रति ॥ २३ ॥

प्रकाशिका

स्वभावतो भक्तानां प्रामादिकमपराधमुपेक्ष्य मोक्षमेव ददातीत्येतदुदाहरणान्तरेणापि दर्शयन् अयमेव भजनीय इत्याह ॥ अहो इति । बक भक्षण इति धातोर्बकी भक्षणशीला ताटकासंसर्गेण शिशुमारिका । अत एवासाध्वी पूतनाविष्टोर्वशी तदा विष्णुं जिघांसया हन्तुमिच्छया । स्तनयोः सम्भृतं कालकूटं विषमपाययत् । धात्र्या यशोदाया उचितां योग्यां गतिं लोकं लेभे यतस्ततः कारणात्ततोऽन्यं कं वा शरणं व्रजेम मोक्षार्थं भजेम ॥ २३ ॥

मन्येऽसुरान् भागवतांस्त्र्यधीशे संरम्भमार्गाभिनिविष्ठचित्तान् ।

ये संयुगेऽचक्षत तार्क्ष्यपुत्रस्यांसे सुनाभायुधमापतन्तम् ॥ २४ ॥

तात्पर्यम्

‘असुरा अपि ये विष्णुं शङ्खचक्रगदाधरम् ।

भक्तिपूर्वमवेक्षन्ते ज्ञेया भागवता इति ।

विद्विषन्ति तु ये विष्णुमृषिपुत्रा अपि स्फुटम् ।

असुरास्तेऽपि विज्ञेया गच्छन्ति च सदातमः ।

जीवद्वयसमायोगाद्धिरण्यकमुखाः परे ।

भक्तिद्वेषयुताश्च स्युर्गतिस्तेषां यथानिजा ।

कंसपूतनिकाद्याश्च बान्धवादियुता यतः ।

जीवद्वयसमायोगाद्गतिद्वयजिगीषवः ।

सर्वथा भक्तितो मुक्तिर्द्वेषात्तम उदीरितम् ।

**नियमस्त्वनयोर्नित्यं मोहायान्यवचो भवेदि’ति ब्राह्मे ॥ २४ ॥ **

इति तृतीयतात्पर्ये द्वितीयोऽध्यायः ॥ २ ॥

पदरत्नावली

असुरयोनित्वमप्रयोजकं भागवतत्वे, किन्तु निर्दोषा भक्तिरेवेत्याशयेनाह– मन्य इति ॥ संरम्भमार्गाभिनिविष्टचित्तानिति ॥ यथा कीटः पेशस्कारिणा कुड्ये निरुद्धस्तस्मिन् भृङ्गे प्रथमं द्वेषयुक्तः पश्चादन्नदानात् तं द्वेषं विहाय स्नेहेन तं भृङ्गं स्मरन् तत्स्वरूपतां याति तथा तेऽप्यसुराः संरम्भमार्गेण स्मरंतस्तस्मिन् संरम्भं विहाय भक्त्यैव तस्मिन्नभिनिविष्टचित्ता निरन्तरं तन्मनस्का इत्यर्थः । इदं तत्र हेतुगर्भविशेषणम् । सुनाभायुधं चक्रायुधम् । अचक्षत अपश्यन् । अत एव ‘असुरा अपि ये विष्णुं शङ्खचक्रगदाधरम्’ इत्युक्तम् । तार्क्ष्यपुत्रस्य गरुडस्यांसे स्थितम् ॥ २४ ॥

प्रकाशिका

नन्वेवं यदि भागवतानामेव भगवाननुगृह्णाति तदा बल्यादीनामसुराणां भगवदनुग्रहभागित्वं न स्यात्तेषामसुरयोनित्वेन भागवतत्वाभावादित्याशङ्कायामासुरयोनित्वम् अप्रयोजकं भागवतत्वे भक्तिरेव प्रयोजिकाऽतस्तेऽपि भक्तिमत्वाद्भागवता एवेत्याशयेनाह ॥ मन्य इति । असुरानप्यहं भागवतान्मन्ये । संरम्भः क्रोधस्तल्लक्षणेन मार्गेणाभिनिविष्टं भक्तिपूर्वकं निविष्टं चित्तं येषां तान् । हेतुगर्भविशेषणमिदम् । आदावसुरावेशेन क्रोधयुक्ता अपि पश्चाद्भक्तिमन्त एव ते भवन्तीति भावः । अत एवाचक्षत इति ते भक्तिपूर्वकमपश्यन्निति । तार्क्ष्यः कश्यपस्तस्य पुत्रो गरुडस्तदंसे स्कन्धे सुनाभं चक्रमायुधं यस्य तम् । अत्रासुरानिति सामान्योक्त्या भगवन्तं पश्यतां सर्वेषामसुराणां भागवतत्व-मुच्यत इति प्रतीयते । न तद्युक्तम् । द्वेषिणामपि मुक्तिप्रसङ्गात् । अतोऽसुरयोनित्वं न भागवतत्वे प्रयोजकं किन्तु भक्तिरेव भागवतत्वे प्रयोजिकेत्यभिप्रायं प्रमाणेनैव दर्शयति ॥ असुरा इति । असुर-योनिजा इत्यर्थः । बल्यादयोऽसुरा न स्वभावतोऽसुराः । तर्हि द्वेषयुतहिरण्यकादीनामन्ते कथं मुक्ति-रित्यत आह ॥ जीवद्वयेति । साध्वसाधुजीवद्वयसंमेलनादित्यर्थः । परे परमात्मनि । चशब्दोऽवधारणे । भक्तिद्वेषयुता एव स्युर् न केवलं द्वेषयुता इत्यर्थः । अतस्तेषां यथा निजस्वरूपमनतिक्रम्य वर्तमाना गतिर् भक्तस्य मुक्तिर्द्वेषिणस्तम इत्यर्थः । अनेन चैद्यस्य कृष्णं द्विषतोऽपि सिद्धिरित्येतदप्युक्त-तात्पर्यमिति ज्ञातव्यम् । हिरण्यकस्यैव तृतीये जन्मनि चैद्यत्वात् । नन्वेवं भयात्कंसः, अहो बकीयमिति कंसपूतनादीनां भगवद्वेषिणां मुक्तिकथनमनुपपन्नमित्यतस्तत्रापि जीवद्वयसमावेशेनोक्तैव गतिरित्याह ॥ कंसेति । आद्यशब्देन दन्तवक्त्रादिग्रहणम् । बान्धवो भक्तः । आदिपदेन के ते भृगुर्भक्तः, कालनेमी-द्वेषी, पूतनिकायां तूर्वशी भक्ता ताटका द्वेषयुतेत्यादि द्रष्टव्यम् । ताभ्यां युता यतोऽतो जीवद्वय-समायोगाद् गतिद्वयं मुक्तिस्तमश्च तज्जिगमिषवस्तत्प्राप्तिसम्भावनाविषयाः । तथा च भयात्कंसः, अहो बकीति वचनद्वयं तदाविष्टसज्जीवविषयतया व्याख्येयमिति भावः ।

नन्वेवं जीवद्वयकल्पना तत्र कुतः कार्येत्यत आह ॥ सर्वथेति । नियमेनेत्यर्थः । उदीरितम् । श्रुत्यादाविति शेषः । यत उदीरितमतो नित्यं सर्वदा नियमः कदाऽपि न व्यभिचरतीति भावः । अङ्गीकार्य इति शेषः । तर्हि ‘‘द्वेषाच्चैद्यादयो नृपा’’ इत्यादिरूपद्वेषस्य मुक्तिसाधनत्वप्रतिपादकवचनं कथमित्यत आह ॥ मोहायेति । अन्यवचोऽन्यस्य द्वेषस्य मुक्तिसाधनत्ववचोऽसुरजनमोहनाय । अतो न तद्यथाश्रुतार्थं किन्तु भगवतः कृपालुत्वरूपगुणप्रशंसापरमिति भावः ॥ २४ ॥

वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।

चिकीर्षुर्भगवांच्छर्म अब्जजेनाभियाचितः ॥ २५ ॥

पदरत्नावली

नातिचिरेण कृष्णस्य यादवानां च स्वलोकप्रयाणं भविष्यतीति निवेद्य भक्त्यति-शयात् तस्यावतारलीला अनुक्रमिष्यन्नादौ तदवतारमाह– वसुदेवस्येत्यादिना ॥ वसुदेवस्य सकाशाद् देवक्यां जातः । प्रयोजनमाह– भोजेन्द्रेति ॥ भोजेन्द्रेण तयोः कारागृह बन्धने सति तं कंसं हत्वा बन्धनादुन्मुच्य तयोः शर्म चिकीर्षुरिति । हेतुगर्भनिमित्तान्तरं चाह– शमजेनेति ॥ २५ ॥

प्रकाशिका

यन्मर्त्यलीलौपयिकं स्वयोगमायाबलं दर्शयता गृहीतमिति भगवच्छरीरग्रहणस्य मर्त्यलीलौपयिकत्वं स्वयोगमायाबलप्रदर्शकत्वं च पूर्वमुक्तं तत्र कास्ता मर्त्यलीलाः कीदृशं च स्वयोग-मायाबलमित्यपेक्षायां तत्सर्वं जन्मारभ्य भक्त्युद्रेकात्संक्षेपतो दर्शयति ॥ वसुदेवस्येत्यादिना । वसुदेवस्य सकाशात् । प्रयोजनमाह ॥ भोजेन्द्रेति । भोजेन्द्रः कंसस्तेन तयोः कारागृहे बन्धने कृते सति तयोः शर्म सुखं तद्धननादिना चिकीर्षुः । निमित्तान्तरमप्याह ॥ अब्जजेनेति ॥ २५ ॥

ततो नन्दव्रजमितः पित्रा कंसाद् विबिभ्यता ।

एकादशसमास्तत्र गूढार्चिः सबलोऽवसत् ॥ २६ ॥

पदरत्नावली

ततो मथुरापुरात् । गूढार्चिर् अप्रकाशितस्वमाहात्म्यः ॥ २६ ॥

प्रकाशिका

ततो मधुरात् । गूढार्चिरप्रकाशितस्वमाहात्म्यः ॥ २६ ॥

परीतो वत्सपैर्वत्सांश्चारयन् १व्यहरद्धरिः ।

यमुनोपवने कूजद्द्विजसंकुलिताङ्घ्रिपे ॥ २७ ॥

पदरत्नावली

कूजन्तोऽव्यक्तशब्दं कुर्वन्तो द्विजाः पक्षिणस्तैः संकुलिता अङ्घ्रिपा वृक्षा यस्मिन् तत् तथोक्तं, तस्मिन् ॥ २७ ॥

प्रकाशिका

व्यहरदक्रीडत् । कूजन्तोऽव्यक्तशब्दं कुर्वन्तो द्विजाः पक्षिणस्तैः सङ्कुलिता व्याप्ता अङ्घ्रिपा वृक्षा यस्मिंस्तत्तथोक्तं तस्मिन् ॥ २७ ॥

कौमारा दर्शयंश्चेष्टाः प्रेक्षणीया व्रजौकसाम् ।

रुदन्निव हसन् मुग्धो बालसिंहावलोकनः ॥ २८ ॥

पदरत्नावली

कौमारा इत्यत्र ङीबभावश् चेष्टानां वैलक्ष्यण्यप्रदर्शनार्थः । बालसिंहस्यावलोकन-मिवावलोकनं यस्य स तथोक्तः ॥ २८ ॥

प्रकाशिका

कौमारा इत्यत्र ङीबभावश्छान्दसः । मुग्धो बालश्च यः सिंहस्तद्वदवलोकनं यस्य स तथोक्तः ॥ २८ ॥

स एव गोकुलं लक्ष्म्या निकेतं सितगोवृषम् ।

चारयन्ननुगान् गोपान् रणद्वेणुररीरमत् ॥ २९ ॥

पदरत्नावली

लक्ष्म्या निकेतं मन्दिरम् । सितास् तन्तूनां रज्ज्वा नासिकायां स्यूताः प्रोता गोवृषाः ककुद्मन्तो यस्मिन् तत् तथोक्तम् । चारयन् । तृणानीति शेषः ॥ २९ ॥

प्रकाशिका

स एवाधिकं वयः प्राप्तः सन् लक्ष्म्याः शोभादिसंपदो निकेतं मन्दिरम् । सिताः शुभ्रा गोवृषा यस्मिंस्तत् । चारयन् । तृणानीति शेषः । रणन् शब्दं कुर्वन्वेणुर्यस्य सः । अरीर-मद्रमयामास ॥ २९ ॥

प्रयुक्तान् भोजराजेन मायिनः कामरूपिणः ।

लीलया व्यनुदत् तांस्तान् बालः क्रीडनकानिव ॥ ३० ॥

पदरत्नावली

प्रयुक्तान् प्रहितान् । मायिनः मायया वेषान्तरधारिणः । तांस्तानिति जातिभेदा-योक्तम् । क्रीडनकान् लीलासाधनानि ॥ ३० ॥

प्रकाशिका

प्रत्युक्तान्प्रेषितान्मायिनो मायया निजरूपाच्छादिनः । व्यनुदज्जघान । क्रीडनकान् तृणादिनिर्मितान् सिंहादीन्यथा ॥ ३० ॥

विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।

उत्थाप्यापाययद् गावस्तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥

पदरत्नावली

विपन्नान् मृतप्रायान् । यमुनाया उत्थाप्य । गावो गाः । तस्या यमुनायास्तोयम् । प्रकृतिस्थितं विषमिश्रणात् प्राग् यथा शुद्धं तथा स्थितम् ॥ ३१ ॥

प्रकाशिका

विपन्नान् मृतान् । निगृह्य शिक्षयित्वा । गावो गा उत्थाप्य । प्रकृतौ स्वभावे स्थितम् । निर्विषमिति यावत् । तदेव तोयमपाययत् ॥ ३१ ॥

अयाजयद् गोसवेन गोपराजं द्विजोत्तमैः ।

वित्तस्य चोरुभारस्य १चिकीर्षन् सद्व्ययं विभुः ॥ ३२ ॥

पदरत्नावली

गोसवेन गोयज्ञेन । उरुभारस्य बहुसङ्ख्याविशेषविशिष्टस्य । सन् प्रशस्तो व्ययस् त्यागविशेषस् तम् ॥ ३२ ॥

प्रकाशिका

गोसवेनेत्यत्र गोपदं ब्राह्मणाद्युपलक्षकम् । तस्माद्गवां ब्राह्मणानामद्रेश्चारभ्यतां मख इति वक्ष्यमाणत्वात् । तथा च गोब्राह्मणाद्रिपूजारूपयज्ञेनेत्यर्थः । गोपराजं नन्दम् । चशब्दादिन्द्रस्य मानभङ्गं कुर्वन् । उरुभारस्यातिसमृद्धस्य ॥ ३२ ॥

वर्षतीन्द्रे व्रजः कोपाद् भग्नमानेऽतिविह्वले ।

गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥

पदरत्नावली

भग्नमाने नष्टाभिमाने । अत एवातिविह्वले कर्तव्यमूढे । गोत्रलीलातपत्रेण पर्वताख्यक्रीडाश्वेतच्छत्रेण । भो भद्र कल्याणात्मन् ॥ ३३ ॥

प्रकाशिका

कोपाद्वर्षति । भग्नमानेऽपहृतपूजने । अत एवातिविह्वले कर्तव्यमूढे । गोत्रलीलात-पत्रेण पर्वताख्यक्रीडाछत्रेण । हे भद्र कल्याणात्मन् विदुर ॥ ३३ ॥

शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।

गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डनः ॥ ३४ ॥

इति श्रीमद्भागवते तृतीयस्कन्धे द्वितीयोऽध्यायः ।

पदरत्नावली

शरदृतावुदितः शशी शरच्छशी तस्य करैर्मृष्टमलङ्कृतं रजनीमुखं प्रदोषम् । कलपदं यथा भवति तथा । मण्डलं मण्डयतीति मण्डलमण्डनः ॥ ३४ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे द्वितीयोऽध्यायः ॥

प्रकाशिका

शरदृतावुदितः शशी शरच्छशी तस्य करैः किरणैर्मृष्टम् अलङ्कृतं रजनीमुखं प्रदोषं कलपदं यथा भवति तथा । मण्डलं समूहं मण्डयतीति मण्डलमण्डनः ॥ ३४ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ ३-२ ॥