०१ प्रथमोऽध्यायः

एवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किल

श्रीमद् भगवद्बादरायणप्रणीतम्

श्रीमद् भागवतम्

तृतीयः स्कन्धः

अथ प्रथमोऽध्यायः

ॐ नमो भगवते वासुदेवाय

श्रीशुक उवाच–

एवमेतत् पुरा पृष्टो मैत्रेयो भगवान् किल ।

क्षत्त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥

**श्रीमद्विजयध्वजतीर्थविरचिता **

पदरत्नावली

ॐ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः

यल्लीलाजलराशिलोललहरीस्नानक्षमाणां नृणां

संसारोदधिराशु शुष्यतितरामग्न्युप्तशुष्कैधवत् ।

यस्माद्विश्वमशेषमुद्भवति यस्तत्वं परं योगिनां

श्रीमन्तं तमुपास्महे सुमनसामिष्टप्रदं विठ्ठलम् ॥ १ ॥

अगाधश्रीमद्भागवतजलराशौ मणिगणं

तृतीयस्कन्धोदभ्रममनवगाहं मृगयति ।

निमज्योन्मज्यार्थेऽनुपदमनुरक्तेऽमलधियः

कृपालेशं सन्तः खलु विदधतां मय्यनुपदम् ॥ २ ॥

अत्र मुमुक्षूणां स्वस्वयोग्यभगवदपरोक्षज्ञानोत्पत्तौ प्रधानसाधनं भक्तिरेव, तत्साधनमितरत् सर्वमिति प्रपञ्च्यते । तत्र सूतः शौनकप्रश्नपरिहाराय शुकपरीक्षित्संवादं कथयति– एवमिति ॥ यथाहं च त्वया एतत्प्रमेयं प्रति पृष्ट एवं तथा क्षत्त्राऽपि विदुरेणापि भगवांस्त्रिकालज्ञो मैत्रेयः पृष्ट इत्यन्वयः । ऋद्धिमत् स्वगृहं त्यक्त्वेत्यनेन वैराग्यं प्रथमसाधनमिति सूचितम् ॥ १ ॥

**श्रीयादवार्यविरचिता **

भागवतप्रकाशिका

सुखज्ञानादिसद्रत्नः शुकयोगीन्दुसम्भवः ।

व्यासदेवामृतांबोधिर्भूयाद्भूत्यै ममानिशम् ॥

आसीद्यदुदरात्पद्ममित्यादिना पाद्मकल्पकाललक्षणादिकं यत्परीक्षिता पृष्टं तस्य सर्वस्योत्तरं विदुर-मैत्रेयसंवादमुखेनैव वक्ष्यामीत्याशयेनाह ॥ एवमेतदिति । यथाऽहमेतत्पाद्मकल्पकाललक्षणादिकमुद्दिश्य त्वया पृष्ट एवं तथा । ऋद्धिमदैश्वर्यवत्स्वगृहं त्यक्त्वा । अनेन तस्य वैराग्यं सूचितम् । क्षत्त्रा विदुरेण पृष्टः मैत्रेयस्तस्मै यदुत्तरमुक्तवांस्तत्तुभ्यम् । अभिधास्य इति शेषः ॥ १ ॥

यदा त्वयं मन्त्रकृद् वो भगवानखिलेश्वरः ।

१पौरवेन्द्रपुरं हित्वा प्रविवेशाऽत्मसात्कृतम् ॥ २ ॥

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः श्रीमद्भागवततात्पर्यनिर्णयः

‘युद्धकाले तु विदुरस्तीर्थयात्रां गतोऽपि सन् । प्राय आस्ते गजपुरे पाण्डवानां २व्यपेक्षया’ इति स्कान्दे ॥ २ ॥

पदरत्नावली

विदुरमैत्रेयसंवादं घटयितुं तीर्थयात्राकालापदेशेन प्रश्नबीजमुत्थापयति– यदा त्विति ॥ वः पितामहानामर्थे मन्त्रकृत् सन्धिकृत् सन्धिकार्येऽनुत्पन्ने पौरवेन्द्रपुरं हस्तिनापुरं त्यक्त्वा आत्मसात्कृतमुपप्लाव्याख्यपुरं यदा प्रविवेश तदा विदुरस्तीर्थयात्रार्थं गत इति शेष इत्यन्वयः । अत्र तुशब्देन ‘युद्धकाले तु विदुरस्तीर्थयात्रां गतोऽपि सन् । प्राय आस्ते गजपुरे पाण्डवानां हितेच्छया ॥’ इति वाक्यं विशिनष्टि । अनेन विदुरेण तीर्थसेवा कदाचित् कृता, न युद्धकालमारभ्य तत्समाप्ति-पर्यन्तमित्युक्तं भवति ॥ २ ॥

प्रकाशिका

ननु विदुरः कस्मिन्समये वनं प्रविष्ट इत्यपेक्षायामाह ॥ यदेति । वः पाण्डवानामर्थे मन्त्रकृद्राज्यदानोपयोगिविचारकर्ता । द्रुपदपुरोहितादिसाम्यव्यावृत्त्यर्थं तुशब्दः । पौरवेन्द्रपुरं हस्तिनापुरम् । आत्मसात्कृतं स्वाधीनमुपप्लाव्यं प्रविवेश । तदा वनं प्रविष्टेनेति पूर्वेणान्वयः । नन्वेवं विदुरो युद्धकाले नागपुरे नासीदिति प्राप्तम् । तथात्वे प्रथमस्कन्धे ‘‘तत्रासीनं कुरुपतिं धृतराष्ट्रं सहानुजमि’’ति युद्धकालसमाप्त्यनन्तरं धृतराष्ट्रसांत्वनकाले विदुरावस्थानस्योक्तत्वेन, दशमे युधिष्ठिरस्य राज्याभिषेकानन्तरं कृष्णस्य द्वारावतीप्रयाणकालेऽपि विदुरावस्थानस्य वक्ष्यमाणत्वेन तद्विरोध इत्याशङ्कां प्रमाणेनैव परिहरति ॥ युद्धकाल इति । तुशब्दोऽवधारणे । युद्धकाल एव, न सर्वदा । गतोऽपि प्राय आस्ते इत्यनेनेदं सूचयति । संधानार्थमागतः श्रीकृष्णो यदा नागपुरं हित्वोपप्लाव्यं गतस्तदनन्तरं युद्धारम्भात्पूर्वमेव विदुरस्तीर्थयात्रामुद्दिश्य गतोऽपि न दूरं गतः, किंतु समीपस्थान्येव तीर्थानि गत्वा युद्धसमाप्तिपर्यन्तं पुनर्हस्तिनपुरप्रांतमेवायातीति । प्राय इत्यनेन समीपस्थतीर्थगमनमपि न प्रतिदिनमिति सूचयति । गजपुरे गजपुरप्रान्ते । किमर्थमास्त इत्यत उक्तम् ॥ पाण्डवानां व्यपेक्षयेति । तद्विजय-विवित्सयेत्यर्थः । यद्वा । अस्मिन्समये विदुरेण दूरं न गन्तव्यमिति पाण्डवानां विशिष्टापेक्षयेत्यर्थः ॥२॥

परीक्षिदुवाच–

कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गमः ।

कदा वा सह संवाद एतद् वर्णय नः प्रभो ॥ ३ ॥

पदरत्नावली

तीर्थनिषेविणो विदुरस्य सामान्यतो ज्ञातमैत्रेयसङ्गकालघटनोऽपि राजा देश-विशेषबुभुत्सया पृच्छति– कुत्रेति ॥ कुत्र कस्मिंस्तीर्थविशेषे । पुरान्निर्याणहेतुरपि वक्तव्य इत्यतो वर्णयेत्युक्तम् ॥ ३ ॥

प्रकाशिका

क्षत्रा पृष्टो मैत्रेयो यदाह तत्तुभ्यं वक्ष्यामीत्युक्ते राजा विदुरमैत्रेयसंवादः कुत्र कदा जात इति देशकालविशेषविवित्सया पृच्छतीत्याह ॥ कुत्रेति । कस्मिंस्तीर्थविशेषे कस्मान्निमित्ताद्वनं प्रविष्ट इत्यप्यत्र ग्राह्यम् ॥ ३ ॥

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मनः ।

तस्मिन् वरीयसि प्रश्नः साधुवादोपबृंहितः ॥ ४ ॥

पदरत्नावली

विविदिषालौल्यकारणमाह– न हीति ॥ हिशब्दो हेत्वर्थः । यस्मादल्पार्थोदयो न तस्माद् वर्णयेत्यर्थः । अत्रापि हेतुमाह– साध्विति ॥ ‘साधुस्त्रिषूचिते सौम्ये सज्जने वार्द्घुषौ पुमान्’ इति यादवः ॥ ४ ॥

प्रकाशिका

स्वस्य तदुभयसंवादश्रवणे च रतिं सूचयितुं तत्प्रश्नप्रतिवचनरूपं संवादं स्तौति ॥ न हीति । तस्मिन्मैत्रेये वरीयसि गुरौ । तं प्रतीति यावत् । तस्य मैत्रेयस्य परिहार इत्यपि ग्राह्यम् । हि यस्मात्साधूनां विष्ण्वादीनां वादेन कथयोपबृंहितः पूर्णः । तत्प्रतिपादक इति यावत् । तस्मादल्पस्यार्थस्य प्रयोजनस्योदयः प्राप्तिर्यस्मात्सः न किन्तु सम्पूर्णप्रयोजनजनक एवेत्यर्थः ॥ ४ ॥

सूत उवाच–

स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।

प्रत्याह तं सुबहुवित् प्रीतात्मा श्रूयतामिति ॥ ५ ॥

पदरत्नावली

सूतः शौनकप्रश्नपरिहाराय तत्संवादं कथयति– स एवमिति ॥ ‘‘बहु पूर्णतायां’’ इति धातोर्देवादिसज्जननिषेवितं पूर्णं भगवन्तं वेत्तीति सुबहुविदिति । तज्ज्ञानफलमाह– प्रीतात्मेति ॥ ‘प्रियो हि ज्ञानिनोऽत्यर्थम्’ इति स्मृतेः । प्रसन्नमना वा । श्रूयतामित्यनेन वक्तव्यार्थे आदरं जनयति । उच्यमानं सहेतुकं चेत् श्रद्धां जनयति, अस्य कथं तदित्यत उक्तम्– इतीति ॥ ‘इति हेतुप्रकरणप्रकारादिषु’ इति यादवः ॥ ५ ॥

प्रकाशिका

सुबह्वतिपूर्णो भगवान् तं वेत्तीति सुबहुवित् । सुष्टुसर्वज्ञ इति वा । श्रूयतामित्युक्त्वा । अभिमुखीकृत्येति यावत् ॥ ५ ॥

श्रीशुक उवाच–

यदा तु राजा स्वसुतानसाधून् पुष्णन्नधर्मेण विनष्टदृष्टिः ।

भ्रातुर्यविष्ठस्य सुतान् विबन्धून् प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥

यदा सभायां कुरुदेवदेव्याः केशाभिमर्शं सुतकर्म गर्ह्यम् ।

न वारयामास नृपः स्नुषाया और्हरन्त्याः कुचकुङ्कुमानि ॥ ७ ॥

तात्पर्यम्

यदा ददाह । यदा केशाभिमर्शः प्राप्त इति यदाशब्दो हेत्वर्थे । ‘यदा तदेति हेत्वर्थे कालार्थे चापि भण्यत’ इत्यभिधानम् ॥ ६,७ ॥

पदरत्नावली

विदुरस्य तीर्थयात्रायां निमित्तमाह– यदा त्विति ॥ अत्र यदाशब्दो हेत्वर्थः । ‘यदा तदेति हेत्वर्थे कालार्थेऽपि च भण्यत’ इति वचनात् । अधर्मेणेत्यस्यावधारणार्थे तुशब्दः । विनष्टा भगवद्विषया दृष्टिर्यस्य स तथा । असाधून् अन्यायवर्तिनः । अधर्मेण धर्मविरुद्धकर्मणा । यविष्ठस्य कनिष्ठस्य । विबन्धून् लौकिकबन्धुरहितान् । लाक्षाभवने लाक्षोपगूढगृहे ददाह । यदा यस्मात् तदा तस्मादित्येको हेतुः ॥ अयमेको हेतुरित्याह– यदेति ॥ नृपो धृतराष्ट्रः । कुचकुङ्कुमान्यस्त्रैर्नेत्र-जलैर्हरन्त्याः क्षालयन्त्याः । स्वस्य स्नुषायाः कुरुदेवस्य युधिष्ठिरस्य देव्याः पट्टाभिषिक्ताया द्रौपद्याः । सभायां गर्ह्यं निन्द्यं, सुतस्य दुःशासनस्य कर्म । केशाभिमर्शं कबरीभारपरामर्शलक्षणं न निवारयामास । यदा यस्मात् तस्मात् ॥ ६,७ ॥

प्रकाशिका

आदौ तावद्विदुरस्य वनप्रवेशे निमित्तं दर्शयति । यदा त्वित्यादिभिरेकादशश्लोकैः । अत्र यदाशब्दानां कालार्थत्वे बाधकं दर्शयन् विवक्षितमर्थान्तरं दर्शयति । यदेति । केशाभिमर्शः प्राप्त इत्येतद्वक्ष्यमाणश्रीकृष्णवचनाकरणविदुरगमनतद्वचनतदवमानतद्गमनानामप्युपलक्षकम् । ततश्चायमर्थः । यद्यत्र यदाशब्दाः कालवाचिनस्तदा यस्मिन् काले लाक्षाभावने ददाह तस्मिन्नेव काले तदुत्तरत्रोक्तानां केशाभिमर्शनश्रीकृष्णवचनाकरणविदुरगमनतद्वचनतदवमानांतानां निमित्तानां तन्निमित्तकस्य विदुरगमनस्य च समावेशः प्राप्तः । न चासावुपपद्यते । अतो यदाशब्दोऽत्र हेत्वर्थेऽभिमत इति । यदाशब्द इत्येक-वचनं जात्यभिप्रायेण । यदाशब्दस्य हेत्वर्थत्वे प्रमाणं दर्शयति ॥ यदेति । तदेति तच्छब्दग्रहणेन मूले यदाशब्दाऽपेक्षिततयाऽवश्यमध्याहार्यस्तदाशब्दोऽपि हेत्वर्थ इति सूचयति ॥ ततश्चायं मूलार्थः । राजा धृतराष्ट्रो विनष्टदृष्टिर्विगतधर्मज्ञानी । तुशब्दोऽवधारणे । अधर्मेणेत्यत्र सम्बध्यते । धर्मविरुद्धकर्मणैव । यविष्ठस्य कनिष्ठस्य पाण्डोर्विबन्धून्पितृरहितान्यदा यस्माद्ददाह तदा तस्मादित्यादिना वक्ष्यमाणेनान्वयः । एवमेवाग्रेतनानामपि यदाशब्दानामन्वयो द्रष्टव्यः ॥ यदा यस्मात्कुरुदेवस्य कुरुश्रेष्ठस्य युधिष्ठिरस्य देव्या राज्याभिषिक्तस्त्रियः । केशाभिमर्शरूपं गर्ह्यं निन्द्यं, सुतस्य दुःशासनस्य कर्म । नृपो धृतराष्ट्रः । कथम्भूतायाः । स्नुषायाः पुत्रभार्यायाः । पुनः कथम्भूताया और्दुःखोद्रेकेण निर्गतनेत्रजलैः । कुचयोर्लिप्तकुङ्कुमानि । कुङ्कुमकेसरयुक्तगन्धलेपमिति यावत् । हरन्त्याः क्षालयन्त्याः । अनेन विशेषणद्वयेन धृतराष्ट्रस्यातीवनिर्घृणत्वं सूचयति ॥ ६,७ ॥

द्यूते त्वधर्मेण जितस्य साधोः सत्यावलम्बस्य वनागतस्य१ ।

न याचितोऽदात् समयेन दायं तमोजुषाणो यदजातशत्रोः ॥ ८ ॥

पदरत्नावली

अयं तृतीयो हेतुरित्याह– द्यूते त्विति ॥ तुशब्दोऽवधारणार्थः, अधर्मेणेत्यनेन सम्बध्यते । साधुत्वादीनि पितृधनदानयोग्यत्वहेतव इति प्रकाशनायोक्तानीति । अवलम्ब आधारयष्टिः । दायं स्वस्य प्राप्तियोग्यं पितृधनं वनवासावसानसमये नादादिति यत् तस्मादिति शेषः । तत्र हेतुः– तम इति ॥ तमो यथार्थज्ञानग्लानिकारणं पुत्रवचनं जुषाणः सेवमानोऽङ्गीकुर्वाण इत्यर्थः ॥ ८ ॥

प्रकाशिका

द्यूते त्विति । तुशब्दोऽवधारणार्थः । अधर्मेणेत्यनेन सम्बध्यते । सत्यावलम्बस्य सत्यं सत्यवचनमेवावलम्ब आधारयष्टिर्यस्येत्यर्थः । वनागतस्य वनादागतस्य । वनं गतस्येति पाठे वने क्लेशितस्येत्यर्थः । साधोरित्यादीनि अजातशत्रुविशेषणानि तस्य दायदानयोग्यतोपपादकानि । समयेन द्यूतपरिकल्पितकालविशेषसमापनरूपेण निमित्तेन याचितः । नृप इति वर्तते । दायं पितृधनम् । तमोजुषाणस्तामसपुत्रासक्तः । यद्यस्मात्तस्मात् ॥ ८ ॥

यदा तु पार्थप्रहितः सभायां जगद्गुरुर्यानि जगाद कृष्णः ।

न तानि पुंसाममृतायनानि राजाऽनुमेने १हृतपुण्यलेशः ॥ ९ ॥

पदरत्नावली

चतुर्थं हेतुमाह– यदा त्विति ॥ पार्थेन युधिष्ठिरेण प्रहितः प्रेषितः । पुंसाम-मृतायनानि मोक्षादिसकलपुरुषार्थसाधनानि । हतः पुण्यलेशो यस्य स तथा । लिश अल्पीभाव इति धातुः । अनेन पापं बहुलं पुण्यमल्पं तदपि नष्टमित्युक्तं भवति । इदमेव सुखलेशविनाशकारण-मित्यस्मिन्नर्थे तुशब्दः । गुरुमात्रस्यापि वाक्यं ग्राह्यं किमु जगद्गुरोरित्यभिप्रायेण तथोक्तम् ॥ ९ ॥

प्रकाशिका

यदा यस्मात्पार्थेन युधिष्ठिरेण प्रहितः प्रेषितः । अमृतायनानि मोक्षादिसकल-पुरुषार्थसाधनानि । तु विशेषेण जगादेत्यन्वयः । राजा धृतराष्ट्रः । अनुमेने आनुकूल्येन ज्ञातवान् । हृतः पुण्यलेशो यस्य स तथोक्तः । अनेन गुरुमात्रस्यापि वचनं नोल्लङ्घ्यं, किमु जगद्गुरोः । अतोऽतीवपापं प्राप्तम् । यच्चाल्पं पुण्यं संपादितं तदपि नष्टमिति सूचयति ॥ ९ ॥

यदोपहूतो भवनं प्रविष्टो मन्त्राय पृष्टः किल पूर्वजेन ।

अथाह तं मन्त्रदृशां वरीयान् यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥

पदरत्नावली

ततः किं विदुरस्य तीर्थयात्रायामित्यतो विशेषहेतुमाह– यदेति ॥ पूर्वजेन ज्येष्ठेन यदोपहूतो भवनं प्रविष्टो विदुरो मन्त्राय स्वकर्तव्यतालोचनाय पृष्टः ‘किं कार्यं तद् ब्रवीहि इति’ अथ तदा मन्त्रदृशां मन्त्रज्ञानां वरीयान् तं धृतराष्ट्रमाह । मन्त्रदृग्वरीयस्त्वं कुत इति तत्राह– यदिति ॥ वैदुरिकं विदुरेणोक्तम् । यद् यस्मात्तस्मादिति शेषः । कृष्णे सन्धिकार्यमनुत्पाद्योपप्लाव्यं गते सत्युपहूत इत्यस्मिन्नर्थे किलशब्दः ॥ १० ॥

प्रकाशिका

यदा यस्मात् । अथोपप्लाव्यं प्रति कृष्णगमनानन्तरम् । पूर्वजेनाग्रजेन मन्त्राय विचारायोपहूतः सन् भवनं प्रविष्टो विदुरस् तं धृतराष्ट्रं प्रति मन्त्रदृशां विचारज्ञानिनां वरीयान् श्रेष्ठः । मन्त्रदृग्वरीयस्त्वं कुत इत्यत उक्तम् ॥ यन्मन्त्रिण इति । यद्यस्मादन्ये मन्त्रिणो वैदुरिकं विदुरेणोक्तमेव स्वराजादिकं प्रति वदन्ति तस्मात् । राजनीतिसंप्रदायप्रवर्तकत्वादित्युक्तं भवति ॥ १० ॥

अजातशत्रोः प्रतियच्छ दायं तितिक्षतो दुर्विषहं तवागः ।

सहानुजो यत्र वृकोदरो हि स्वशत्रुहा यं त्वमलं बिभेषि ॥ ११ ॥

पदरत्नावली

किमाहेति तत्राह– अजातशत्रोरिति ॥ प्रतियच्छ प्रदेहि । प्रदाने हेतुमाह– सहानुज इति ॥ हिशब्दो हेत्वर्थः । यत्र यस्य युधिष्ठिरस्य अभिप्रेतसाधक इति शेषः । किमसौ यम इति तत्राह– यमिति ॥ यं भीमं प्रति । अत्रापि हेतुमाह– स्वशत्रुहेति ॥ स्वस्य राज्यलक्षणद्रव्यस्य शत्रवो दुर्योधनादयस् तान् हतवानिति । निश्चितत्वात् तथा प्रयोगः ॥ ११ ॥

प्रकाशिका

किमाहेत्यत आह ॥ अजातशत्रोरिति । प्रतियच्छ प्रदेहि । दुर्विषहं विशेषेण दुःसहम् । आगोऽपराधम् । तितिक्षतः सहमानस्य । अप्रदाने किं बाधकमित्यतो भीमार्जुनाभ्यां भवदीयवध एवेत्याशयेनाह ॥ सहानुज इति । यत्र युधिष्ठिरपक्षे । हिशब्दो हेत्वर्थः । स्वशत्रुहा स्ववैरिसंहारसमर्थः । तदेव कुत इत्यत उक्तम् ॥ यमिति । यमर्जुनसहितं भीमं प्रति ॥ ११ ॥

यदा तु पार्थान् भगवान् मुकुन्दो गृहीतवान् १सक्षितिदेवदेवः ।

आस्ते स्वपुर्यां यदुदेवदेवो विनिर्जिताशेषनृदेवदेवः ॥ १२ ॥

पदरत्नावली

राज्यप्रदाने बलवद्धेत्वन्तरं चाह– यदा त्विति ॥ क्षितिदेवा ब्राह्मणास् तेषां देवः पूज्यः । मुक्तिमपि ददाति किमु राज्यमित्यतो– मुकुन्द इति ॥ एवंविधसामार्थ्यवान् पार्थान् गृहीतवानिति यदा तस्माच्च । सोऽपि न दूरस्थ इत्याह– आस्त इति ॥ स्वेषां पाण्डवानां पुर्यामुपप्लाव्याख्यायामास्त इति यस्मात् तस्माच्च । साम्प्रतं सावसर इत्याह– विनिर्जितेति ॥ १२ ॥

प्रकाशिका

श्रीकृष्णद्रोहोऽपि बाधक इत्याशयेनाह ॥ यदा त्विति । यदा यस्माद् गृहीतवान् विशेषेणात्मीयत्वेन स्वीकृतवान् तस्माद्दायं प्रतियच्छेत्यन्वयः । मुकुन्द इत्यनेन भक्तानां मोक्षमपि संपादयति किमु राज्यमिति सूचयति । क्षितिदेवा ब्राह्मणा देवा इंद्रादयः । तैः सहित इत्यनेन देवब्राह्मणानुग्रहोऽपि युधिष्ठिरेऽस्तीति तद्द्रोहोऽपि भविष्यतीति सूचयति । सोऽपि तत्समीप एवा-स्तीत्याह ॥ आस्त इति । स्वेषां पाण्डवानां पुर्यामुपप्लाव्यनगरसंज्ञायां यदुदेवानां यादवश्रेष्ठानां च देवः पूज्यः । अनेन यादवद्रोहोऽपि तव भविष्यतीति सूचयति । सोऽन्यत्र न व्यासक्त इत्याह ॥ विनिर्जितेति । विशेषेण निर्जिता नृदेवा राजानस्तेषां देवाः श्रेष्ठा येन स तथोक्तः ॥ १२ ॥

स एष दोषः पुरुषद्विडास्ते गृहान् (गृहं) प्रविष्टो यमपत्यमत्या ।

पुष्णासि कृष्णाद् विमुखो गतश्रीस्त्यजाश्वथैनं कुलकौशलाय ॥ १३ ॥

पदरत्नावली

पुत्रसंवादाभावाद् युधिष्ठिराय राज्यं न दत्तमिति धृतराष्ट्राभिप्रायं विद्वान् विदुरो विष्णुवैष्णवद्वेषिणः पुत्रस्यापि परित्यागः श्रेयानिति वक्ति– य एष इति ॥ हे ज्येष्ठ । त्वं यमपत्य-मत्या न पतति कुलं यस्मात्तदपत्यमिति बुद्ध्या पुष्णासि स एष गृहं प्रविष्ट आस्त इत्यन्वयः । कीदृशः? दोषः पापात्मा । पुरुषं पूर्णषड्गुणं विष्णुं द्वेष्टीति पुरुषद्विड् । कुतः? कृष्णाद् विमुखः । उपलक्षणमेतत् । तद्भक्तविमुखश्च । अत एव गतश्रीः श्रीप्रसादरहितः । यत एवंविधोऽथ तस्मात् कुलकौशलायाशु कालक्षेपमन्तरेणैनं दुर्योधनं त्यजेत्यन्वयः ॥ १३ ॥

प्रकाशिका

औरसपुत्रमतिक्रम्य कथं युधिष्ठिराय राज्यं देयमित्यत आह ॥ स एष इति ॥ हे अग्रज त्वं, यम् अपत्यमत्या, कुलं न पतति यस्मात् तदपत्यमिति बुद्ध्या पुष्णासि राज्यदानादिना वर्धयसि । स एष दोषः सर्वदोषाभिमानी कलिः स्वयमेव त्वत्पुत्ररूपेण गृहान् प्रविष्ट आस्ते । कुतः । यतः पुरुषो भगवान् तं द्वेष्टीति पुरुषद्विट् । एतदपि कुतः । यतः कृष्णाद्विमुखस्तदाज्ञाया अकरणात् । अत एव गतश्रीर्लक्ष्मीकटाक्षरहितोऽथ तस्मादेनम् । आशु कालक्षेपमन्तरेण । त्यज । पुत्रः कथं त्याज्य इत्यत आह ॥ कुलकौशलायेति । ‘‘त्यजेदेकं कुलस्यार्थ’’ इति न्यायमनेन सूचयति ॥ १३ ॥

इत्यूचिवांस्तत्र सुयोधनेन प्रवृद्धकोपस्फुरिताधरेण ।

असत्कृतः सत्स्पृहणीयशीलः क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥

पदरत्नावली

स्ववचनादिकं धृतराष्ट्रेण नाङ्गीकृतमित्येतावता विदुरस्य तीर्थयात्राकरणविरागहेतुः कः प्राप्त इति तत्राह– इतीति ॥ इतिशब्द आदिवचनः । एवमादिवाक्यमुक्तवान् । प्रकारवचनो वा । स्फुरणं संचलनम् । तत्र ज्येष्ठस्य पुरतो ऽसत्कृतो धिक्कृतः ॥ १४ ॥

प्रकाशिका

इति अनेन प्रकारेण । धृतराष्ट्राय हितमूचिवान्विदुरः । तत्र धृतराष्ट्रपुरोदेशे । स्फुरितश्चलितोऽधरोष्ठो यस्य तेनासत्कृतो धिक्कृतः । सद्भिः स्पृहणीयमपेक्षणीयं शीलं यस्य सः ॥ १४ ॥

क एनमत्रोपजुहाव जिह्मं दास्याः सुतं यद्बलिनैव पुष्टः ।

तस्मिन् प्रतीपः परकृत्य आस्ते निर्वास्यतामाशु पुराच्छ्वसानः ॥ १५ ॥

पदरत्नावली

धिक्कारप्रकारमाह– क एनमिति ॥ दास्याः सुतमित्याक्रोशे षष्ठी । उपजुहाव आहूतवान् । जिह्मं वक्रहृदयम् । यस्य पुंसो बलिना अपवर्जितान्नेन । तस्मिन् पुंसि प्रतीपः विरोधी । परेषां मम विरोधिनां पाण्डवानां कृत्ये कार्ये आस्ते यस्मात् तस्मादिति शेषः । निर्वास्यतां निष्कास्य-ताम् । श्वसानः श्वासमात्रावशेषी । स्वकृतो दोषः स्वस्यैवेति सूचनाय शानच्प्रयोगः ॥ १५ ॥

प्रकाशिका

धिक्कारप्रकारमेवाह ॥ क इति । दास्याः सुतमित्याक्रोशे षष्ठी । उपजुहाव आहूतवान् । जिह्मं कपटिनम् । यस्य मम बलिना दत्तान्नेन पुष्टस्तस्मिन् मयि प्रतीपो विरोधकृत् । परेषां मद्वैरिणां पाण्डवानां कृत्ये कार्ये तत्संपादनार्थमास्ते यस्मात्तस्मात्पुरान् निर्वास्यतां बहिः स्थाप्यताम् । श्वसानः श्वासमात्रावशेषः । अनेन सम्यक् ताडनपूर्वकमिति सूचयति ॥ १५ ॥

स इत्थमत्युल्बणकर्णबाणैर्भ्रातुः पुरो मर्मसु ताडितोऽपि ।

स्मयन् धनुर्द्वारि निधाय मायां गतव्यथोऽयादुरु मानयानः ॥ १६ ॥

पदरत्नावली

सम्भावितस्य ताडनात् प्रागेव निर्गमनं श्रेय इति भावं श्लोकद्वयेन सूचयन्नाह– स इति ॥ भ्रातुर् धृतराष्ट्रस्य । स्मयन् मन्दस्मितं कुर्वन् । मायां पुत्र इत्यादिस्नेहलक्षणां हरेर्बन्धकशक्ति-मुरु मानयानः बहुमन्वानः सोऽयाद् ययौ । तीर्थमिति शेषः ॥ १६ ॥

प्रकाशिका

एवमुक्ते विदुरः किं व्यथितो जातो नेत्याह ॥ स इति । कर्णबाणैः कर्णयोर्बाण-तुल्यैर्वचनैर् भ्रातुर्धृतराष्ट्रस्य । स्मयन्मन्दस्मितं कुर्वन् । मायां हरेः पुत्रादिस्नेहापादिकां बन्धकशक्तिमुरु बहु मानयानः । अहो आश्चर्यम् । कथमीश्वरबन्धकशक्तिर्जगद्विमोहिकेत्यादि वदन्निति यावत् । तन्निःसारणात्पूर्वमेव स्वयमेवायात् । वनं प्रतीति शेषः । किं कृत्वा । तस्य द्वारि धनुर्निधाय । पाण्डवानां सङ्गत्याऽस्माभिरयं योत्स्यतीति तेषां शङ्कां परिहर्तुं धनुर्निधानमिति ध्येयम् ॥ १६ ॥

स निर्गतः कौरवपुण्यलब्धगजाह्वयात् तीर्थपदः पदानि ।

अन्वाक्रमत् पुण्यचिकीर्षयोर्व्यामधिष्ठितो यानि सहस्रमूर्तिः ॥ १७ ॥

पदरत्नावली

पुण्यलब्धेत्यनेन हस्तिनपुरमपि पुण्यक्षेत्रमिति सूचयति । तीर्थपदः हरेः । पदानि स्थानानि । सहस्रमूर्तिर् अनन्तमूर्तिः । ‘तदेतत् सहस्रं तत् सर्वम् ’ इति श्रुतिः ॥ १७ ॥

प्रकाशिका

वने किं व्यर्थमेवायुर्नीतं नेत्याह ॥ स निर्गत इति । तीर्थपदो हरेः पदानि स्थानानि । क्षेत्राणीति यावत् । अनुक्रमेणैवाक्रमद्गतवान् । पुण्यचिकीर्षुर्हरिप्रीतिजनकपुण्यसंपादनेच्छुर्यानि क्षेत्राणि । सहस्रमूर्तिर्भगवान् । कथमेकस्य समग्ररूपेणानेकक्षेत्रावस्थानमिति शङ्कापरिहारायेदमिति ज्ञातव्यम् ॥ १७ ॥

वनेषु पुण्योपवनाद्रिकुञ्जेष्वपङ्कतोयेषु सरित्सरस्सु ।

अनन्तलिङ्गैः समलङ्कृतेषु चचार तीर्थायतनेष्वनन्यः ॥ १८ ॥

पदरत्नावली

एतदेव विशिनष्टि– वनेष्विति ॥ तीर्थानां शुद्धजलानामायतनेषु स्थानेषु । नित्यशुद्धस्य हरेः सन्निधानस्थानेषु वा । पुण्यशब्दः प्रत्येकमभिसम्बध्यते । उपवनेषु पुरोपकण्ठवनेषु, अद्रिषु श्रीपर्वतादिषु, कुञ्जेषु सिंहगिरिव्रजाद्यणुतरपर्वतेषु, वनेषु वृन्दावनेषु । सेव्यत्वे हेतुमाह– अपङ्केति ॥ सरित्सु गोदावर्यादिनदीषु, सरस्सु पुष्करादिषु, अनन्तस्य हरेर्लिङ्गैः प्रतिमाभिः सम्यगलङ्कृतेषु ॥ १८ ॥

प्रकाशिका

एतदेव विशदयति ॥ वनेष्विति । वनेषु पुण्यवनेषु । पुण्यानि यान्युपवनानि ये च पुण्याद्रयो यानि च पुण्यानि कुञ्जानि लतादिभिर् गूढस्थानानि तेषु । अपङ्कं शुद्धं तोयं येषु तेषु । अनन्तलिङ्गैर्हरिप्रतिमाभिः सम्यगलङ्कृतेषु तीर्थायतनेषु तीर्थेष्वायतनेषु क्षेत्रेषु चानन्य एकाकी ॥ १८ ॥

गां पर्यटन् मेध्यविविक्तवृत्तिः सदाऽऽप्लुतोऽधःशयनावधूतः ।

अलक्षितः १स्वैरवधूतवेषो व्रतानि चेरे हरितोषणानि ॥ १९ ॥

पदरत्नावली

चरणं विशिनष्टि– गामिति ॥ गां भूमिम् । मेध्यैः शुद्धैर् विविक्तैः पृथग्भूतैर् वृक्षात् पतितैः । पत्रादिभिर् वृत्तिर् आजीविका जीवनं यस्य स तथोक्तः । यद्वा शुद्ध एकान्तस्थले वृत्तिरवस्थानं यस्य स तथा । अधःशयनेन स्थण्डिले शयनेन अवधूतः, रजोरूषितदेहः स्वैः स्वकीयैरलक्षितोऽविज्ञातः । अवधूता वायुनोद्धूताः केशा यस्य स तथा । यद्वा अवधूतवेषवद्वेषो यस्य स तथा । कीदृशानि तानि ? हरितोषणानि, यानि यानि व्रतानि चेरे तानि तानि सर्वाण्यपि हरिप्रसादजनकानीत्यर्थः । अनेनोद्देश्यदेवतावशीकरणसमर्थानीति व्रतशब्दनिर्वचनं सूचितम् । वृञ् वरण इति धातोर् व्रियतेऽनेनैतदित्यस्मिन्नर्थे व्रतमिति रूपं सिध्यति ॥ १९ ॥

प्रकाशिका

चरणसमये तस्य स्थितिं दर्शयति ॥ गामिति । गां भूमिं मेध्यैः शुद्धैर् विविक्तैर्वृक्षात्पतितैः पत्रादिभिर्वृत्तिर्वर्तनं जीवनं यस्य स तथोक्तः । मेध्ये शुद्धे विविक्ते एकान्तस्थले वृत्तिर्वर्तनं यस्येति वा । अधःशयनेनावधूतो रजोरूषितदेहः । स्वैः स्वकीयैरलक्षितोऽदृष्टोऽवधूतोऽवज्ञया त्यक्त उन्मत्तादिस्तद्वद्वेषो यस्य स तथोक्तः । अवधूतकेश इति पाठेऽवधूता वायुना कंपिताः केशा यस्येति व्याख्येयम् ॥ १९ ॥

इत्थं व्रजन् भारतमेव वर्षं कालेन यावद् गतवान् प्रभासम् ।

तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः ॥ २० ॥

पदरत्नावली

कर्मभूमित्वाद् भारतवर्षमेवाटितवान् नान्यदित्यस्मिन्नर्थे एवशब्दः । केनचित् कालेन । यावद्यदा । तावत्तदा । पार्थोऽजितेन कृष्णेनोक्तविधिना एकचक्रामेकाज्ञाम् एकमेवातपत्रं श्वेतच्छत्रं यत्र सा तथा ताम् । क्षि निवासगत्योरिति धातोः सर्वत्र सन्निवासः, सुगमनम् । चोराद्युपद्रवो नास्तीत्येतत्सूचनाय क्षितिमिति प्रायोजि । इत्थमित्यनेन नियमभङ्गो नास्तीति सूच्यते ॥ २० ॥

प्रकाशिका

भारतमेव वर्षं, नान्यत् । अन्यस्य कर्मभूमित्वाभावात् । कालेन केनचित्कालेन । यावद्यदा तावत्तदा । एकं चक्रमाज्ञा यस्यां ताम् । एकम् आतपत्रं यस्यां ताम् । अजितेन श्रीकृष्णेन निमित्तेन । पार्थो युधिष्ठिरः ॥ २० ॥

तत्राथ शुश्राव सुहृद्विनष्टिं वनं यथा १वेणुजवह्निसंश्रयम् ।

संस्पर्धया दग्धमथानुशोचन् सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥

तात्पर्यम्

सुहृद्विनष्टिं यदुकुलविनष्टिमेष्याम् । ‘विदुरस्तु प्रभासस्थः शापं सङ्क्षेपतोऽशृृणोत् । यदूनां विस्तरात्पश्चादुद्धवाद्यमुनामन्वि’ति स्कान्दे । भारतविरोधाच्चान्यथा ॥ २१ ॥

पदरत्नावली

प्रभासतीर्थागमनेन कश्चिदर्थविशेषः सूचितः । कोऽसाविति तत्राह– तत्रेति ॥ अथ प्रभासक्षेत्रगमनानन्तरं तत्र प्रभासे तिष्ठन् विदुरः सुहृदां यदूनां विनष्टिं विप्रशापनिमित्तविनाशं शुश्रावेत्यन्वयः । ‘विदुरस्तु प्रभासस्थः शापं संक्षेपतोऽशृृणोत् । यदूनां विस्तरात् पश्चादुद्धवाद् यमुना-मनु ॥’ इति वचनाद् विप्रशापेन भविष्यन्तं यदुविनाशं श्रुतवानित्यर्थः । अन्यथा महाभारतविरोधः स्यात् । तज्जिज्ञासुस्तत्रागमत् किम् ? नेत्याह– यथेति ॥ वायुनोद्धूतवेणुसङ्घर्षणलक्षणसंस्पर्शोत्थित-वह्निना तदाश्रयं वनं यथा दग्धं भविष्यति तथा विप्रशापहेतुसंस्पर्धयाऽन्योन्यमर्मस्पर्शनवचनोत्थितकलह-वह्निना दहिष्यत् स्वकुलम् अनुशोचन् अथ प्रत्यक् सरस्वतीं पश्चिमवाहिनीं नाम्ना सरस्वतीं नदीमिया-येत्यन्वयः । तूष्णीमित्यनेन दुःखेन क्षेत्रवासिनो नापृच्छदिति सूचयति ॥ २१ ॥

प्रकाशिका

अथ प्रभासप्राप्त्यनन्तरं, तत्र प्रभासे । सुहृदां विनष्टिं विनाशं शुश्राव । नन्वत्र सुहृच्छब्देन के विवक्षिताः । न च दुर्योधनादयः । तन्नाशस्य पूर्वमेव श्रुतत्वात् । नापि पाण्डवादयो वा । तेषां तदा विनाशाभावात् । अन्यथाऽजितेन पार्थः शशासेत्युुक्तिविरोधात् । अतोऽत्र विवक्षितं तात्पर्यं दर्शयति ॥ सुहृद्विनष्टिमिति । तथा च सुहृच्छब्देन यादवा एव विवक्षिताः । तेषां विनष्टिरेष्याऽनागताऽत्र विवक्षिता तामेव शुश्राव । न तु जातां तदानीं जातं तज्जनकं विप्रशापमेव शुश्रावेत्यर्थः । अतो न कोऽपि विरोध इति भावः ।

ननु विप्रशापो यमुनायामुद्धवात् श्रुत इत्यग्रे स्पष्टमतः कथमिदानीं स श्रुत इति व्याख्यायत इत्यतोऽत्र प्रमाणमाह ॥ विदुरस्त्विति । तुशब्दोऽवधारणे । संक्षेपत इत्यनेन सम्बध्यते । वर्तमान-यदुविनष्टिपरत्वेन व्याख्याने भारतविरोधं चाह ॥ भारतेति । अन्यथा विनष्टेरेष्यत्वाभावे । ततश्चायं श्लोकार्थः ॥ यथा संस्पर्धया सङ्घर्षविशेषेण वेणुजवह्निसंश्रयं वनं दग्धं भवति तथा संस्पर्धयाऽन्योन्यनर्म-वचनजनितस्पर्धाविशेषेण भविष्यन्तीं सुहृदां यदूनां विनष्टिं तज्जनकं विप्रशापं संक्षेपत एव शुश्राव । अथ शापश्रवणानन्तरमनुशोचन् तान्प्रति शोकं कुर्वन् प्रत्यक् सरस्वतीं पश्चिमदिग्वाहिनीं सरस्वतीसंज्ञां नदीमियाय जगाम ॥ २१ ॥

तस्यां त्रितस्योशनसो मनोश्च पृथोरथाग्नेरसितस्य वायोः ।

तीर्थं सुदासस्य गवां गुहस्य यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥

पदरत्नावली

दुःखाग्निसन्तप्तस् तत्र सरस्वत्यां मर्तुं किं गत इति तत्राह– तस्यामिति ॥ अनेन विदुरस्य शास्त्रज्ञानाधिक्यं सूचयति । यतः संसारः क्षणभङ्गुरोऽतस् तीर्थस्नानादिना शुद्धान्तःकरणस्य भगवदपरोक्षज्ञानेन पुरुषार्थः स्यादित्यनेन तीर्थस्नानमकारि नान्यो व्यापार इति ॥ २२ ॥

प्रकाशिका

तस्यां सरस्वत्यां विद्यमानाम् । त्रितस्य तन्नामकस्य ऋषेः । तीर्थमिति प्रत्येकं षष्ठ्यन्तेन सम्बध्यते । यत्त्रितादीनां तीर्थं तत् स विदुर आसिषेवे सम्यक् सेवितवान् ॥ २२ ॥

अन्यानि चेह द्विजदेवदेवैः कृतानि नानायतनानि विष्णोः ।

प्रत्यङ्कमुख्याङ्कितमन्दिराणि यद्दर्शनात् कृष्णमनुस्मरन्ति ॥ २३ ॥

तात्पर्यम्

प्रत्यङ्कमुख्यो विष्णुः । ‘ब्रह्मा प्रत्यङ्कवान् १विष्णुः सम्यग्लक्षणवत्तम’ इति तन्त्रमालायाम् ॥ २३ ॥

पदरत्नावली

न केवलं नदीतीर्थान्येव निषेवितानि किन्तु तद्देशभवानि क्षेत्राणीत्याह– अन्यानि चेति ॥ इह नद्यां सुराष्ट्रे च । कीदृशान्यायतनानि ? प्रत्यङ्काः सम्यक् लक्षणवन्तो ब्रह्मादयस्तेषां मुख्यो विष्णुस्तस्य प्रतिमाभिरङ्कितानि चिह्नितानि मन्दिराणि येषु तानि तथा । ‘ब्रह्मा प्रत्यङ्कवान् सम्यग् विष्णुर्लक्षणवत्तमः’ इति । प्रत्यङ्कमुख्यम् आयुधश्रेष्ठं चक्रं तदङ्कितानीति व्याख्यानं चिन्त्यम् । निघण्टुकारैस्तथाऽनभिहितत्वादिति । येषां क्षेत्राणां दर्शनात् ॥ २३ ॥

प्रकाशिका

इह सरस्वतीतीरे । द्विजदेवा ब्राह्मणोत्तमा देवा ब्रह्मादयस्तैः कृतानि विष्णो-रायतनानि विष्णुक्षेत्राण्यासिषेव इत्यन्वयः । कथं भूतान्यायतनानि । प्रत्यङ्कमुख्याङ्कितमन्दिराणि । पुनः कथंभूतानि । येषां तीर्थानां क्षेत्राणां दर्शनात्सेवनात् कृष्णमनुस्मरन्ति अन्तःकरणशुद्ध्या हरिध्या-नवन्तोऽधिकारिणो भवन्तीत्यर्थः । अत्र प्रत्यङ्कमुख्यशब्दमप्रतीत्या व्याख्याति ॥ प्रत्यङ्केति । प्रतिशब्दः सम्यगर्थः । तथा च प्रति सम्यगङ्कानि लक्षणानि यस्य सः प्रत्यङ्को ब्रह्मा तस्मादप्यतिशयेन सम्यग्लक्षणवान्विष्णुः प्रत्यङ्कमुख्यशब्देनोच्यत इत्यर्थः । अत्र प्रमाणमाह ॥ ब्रह्मेति । प्रतीत्यनुवादेन सम्यगिति व्याख्यानम् । तथा च प्रति सम्यक् अङ्कवान् ब्रह्मेत्यन्वयः । बहुव्रीहिलब्धार्थप्रदर्शनाय मतुप् प्रयोगः । सम्यगित्यस्य उत्तरत्रापि सम्बन्धः । तथा च अतिशयेन सम्यग्लक्षण इति सम्यग्लक्षण-वत्तमशब्देन विष्णुरुच्यत इत्यर्थः । सम्यग्लक्षणवत्तमत्वमेव प्रत्यङ्कमुख्यत्वमतः प्रकृतसङ्गतिरिति ध्येयम् । तथा च प्रत्यङ्कमुख्यः सम्यग्लक्षणवत्तमो विष्णुस्तेनांकितानि चिह्नितानि । विष्णुप्रतिमाचिह्नितानीति यावत् । मन्दिराणि येषु तानीति मूलं व्याख्येयमिति भावः ॥ २३ ॥

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।

कालेन तावद् यमुनामुपेत्य तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥

पदरत्नावली

विदुरस्य तीर्थसेवायां तात्पर्याधिक्यं सूचितमृद्धमित्यनेन । अन्यथा समृद्धदेशत्यागे कारणाभावात् । कालेन केनचिदिति शेषः ॥ २४ ॥

प्रकाशिका

विदुरस्य तीर्थसेवायामेव रतिर्न राष्ट्रसेवन इति दर्शयितुमृद्धमपि सुराष्ट्रादिक-मतिव्रज्येत्युक्तम् । कुरुजाङ्गलदेशोऽपि कुरुदेशान्तर्गतः । अतः कुरुजाङ्गलानीत्युक्तम् । कालेन केनचित्कालेन । तावदादावुद्धवं ददर्शेत्यन्वयः । पश्चान्मैत्रेयमपि द्रक्ष्यतीति भावः ॥ २४ ॥

स वासुदेवानुचरं प्रशान्तं बृहस्पतेः प्राप्तनयं प्रतीतम् ।

आलिङ्ग्य गाढं प्रणयेन भद्रं स्वानामपृच्छद् भगवत्प्रजानाम् ॥ २५ ॥

पदरत्नावली

तत्र तीर्थस्नानमन्तरेणोद्धवं दृष्ट्वाऽनेन किमकारि तन्मह्यं ब्रूहीति परीक्षितो हार्दं चोद्यं परिहरति– स इति ॥ प्रशान्तमित्यादिविशेषणत्रयेणोद्धवस्य भगवन्निष्ठाया वैराग्यस्य शास्त्रज्ञानस्य प्रख्यातेश्चाधिक्यं सूचयति । भगवान् कृष्णः प्रजा पुत्रो येषां ते तथोक्तास्तेषाम् अपृच्छदिति । द्विकर्मको धातुः । तेनोद्धवमित्यन्वेतव्यम् ॥ २५ ॥

प्रकाशिका

स विदुरः । प्रतीतं प्रख्यातम् । वासुदेवानुचरं प्रशान्तं प्रकर्षेण भगवन्निष्ठायुक्तं बृहस्पतेः सकाशात्प्राप्तनयमधीतनीतिशास्त्रमुद्धवं प्रणयेन स्नेहेन गाढं यथा स्यात्तथाऽऽलिङ्ग्य स्वानां स्वीयानां यदूनां भद्रं कुशलम् । भगवान् प्रजा पुत्रो येषां ते तथोक्तास्तेषाम् ॥ २५ ॥

कच्चित् पुराणौ पुरुषौ स्वनाभ्यपद्मानुवृत्त्येह कलावतीर्णौ ।

आसात उर्व्याः कुशलं विधाय कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥

तात्पर्यम्

‘पद्मो ब्रह्मा समुद्दिष्टः पद्मा श्रीरपि चोच्यत’ इति ब्राह्मे । ‘लोकानां सुख-कर्तृत्वमपेक्ष्य कुशलं विभोः । पृच्छ्यते सततानन्दात्कथं तस्यैव पृच्छ्यत’ इति पाद्मे ॥ २६ ॥

पदरत्नावली

स्वो विष्णुस्तस्य नाभ्यो नाभिजातः पद्मो ब्रह्मा तस्यानुवृत्त्या प्रार्थनालक्षण-सेवया । कृतक्षणौ कृतावतारौ । ‘कच्चित् कामप्रवेदन’ इति वचनात् प्रश्नार्थे वर्तते कच्चिच्छब्दः । ‘पद्मो ब्रह्मा समुद्दिष्टः पद्मा श्रीरपि चोच्यत’ इति च । ‘लोकानां सुखकर्तृत्वमपेक्ष्य कुशलं विभोः । पृच्छ्यते सततानन्दात् कथं तस्यैव पृच्छ्यत ॥’ इति वचनात् हरेः कुशलप्रश्नो लोकानां सुखकर्तृत्वमपेक्ष्येति ज्ञातव्यम् ॥ २६ ॥

प्रकाशिका

कच्चिच्छब्दो यद्यपि कुशलप्रश्नार्थस् तथाप्यत्रोत्तरत्र च कुशलादिशब्दानां पृथक् सत्वात्प्रश्नमात्रार्थः । तथा च कुशलमास्त इत्यर्थः । स्वनाभ्यपद्मेत्यत्र नाभिसम्बन्धिपद्मस्य जडत्वेनानु-वृत्तिशब्दोक्तप्रार्थनाऽसम्भवात्पद्मशब्दविवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ पद्मो ब्रह्मेति । तथा च स्वो विष्णुस्तस्य नाभ्यो नाभिसम्बन्धिपद्मजः पद्मो ब्रह्मा तस्यानुवृत्त्या प्रार्थनया । कृतक्षणौ कृतावसरौ । उर्व्याः कुशलकरणकाले तयोरवसरो नाभूदिति भावः । अत्र कुशलमास्ते किमिति भगवत्कुशल-प्रश्नाभिप्रायं प्रमाणेनाह ॥ लोकानामिति । कुशलं पृच्छ्यते । पुराणेष्विति शेषः । इतरवदेवकुशलप्रश्नः किं न स्यादित्यतः प्रतीतार्थे बाधकमाह ॥ सततेति । तथा च भगवत्यकुशलप्रसक्तेरभावात्तस्यैव कुशलप्रश्नो न घटत इत्यर्थः । तथा च शूरगेहे लोकानां कुशलं यथा स्यात्तथा । सुखं कुर्वाणाविति यावत् । आसाते किमिति मूलं व्याख्येयमिति भावः ॥ २६ ॥

कच्चित् कुरूणां परमः सुहृन्नो भामः स आस्ते सुखमङ्ग शौरिः ।

यो वै स्वसॄणां पितृवद् ददाति वरान् वदान्यो वरतर्पणेन ॥ २७ ॥

तात्पर्यम्

वरतर्पणेन भर्तृतर्पणेन ॥ २७ ॥

पदरत्नावली

भामः पूज्यः । वदान्यो दानशीलः । वरतर्पणेन भर्तृतर्पणेन ॥ २७ ॥

प्रकाशिका

कुरूणां नो, भामः पूज्यो यद्वा भामो भगिनीभर्ता । सम्बन्धे विचारिते देवक्याः पाण्डुभगिनीस्थानीयत्वात् । शौरिर्वसुदेवः । स्वसॄणां कुंत्यादीनां वरान् वरणीयान् पदार्थान् । वदान्यो दानशीलः । वरतर्पणेनेत्येतदप्रतीत्या व्याचष्टे । वरतर्पणेनेति । तथा च वरशब्दः स्वसॄणां ये भर्तारः पतयस्तत्परस्तत्तर्पणेन सहेति व्याख्येयम् । स्वसॄणां तत्पतीनां च तृप्तिं करोतीति भावः ॥ २७ ॥

कच्चिद् वरूथाधिपतिर्यदूनां प्रद्युम्न आस्ते सुखमङ्ग वीरः ।

यं रुक्मिणी भगवतोऽभिलेभे आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥

पदरत्नावली

यदूनां वरूथाधिपतिः सेनाधिपतिः । आदिसर्गे पूर्वजन्मनि । स्मरं कामम् । विप्रानाराध्येति कथनं लोकवनितानां ब्राह्मणप्रसादेन स्वाभीष्टावाप्तिरिति प्रदर्शनपरं, न तु स्वार्थपरमित्यभिप्रायः ॥ २८ ॥

प्रकाशिका

वरूथाधिपतिः सेनाधिपतिः । आदिसर्गे पूर्वजन्मनि । स्मरं कामं सन्तम् । विप्रानाराध्येति वचनं लोकशिक्षणपरम् ॥ २८ ॥

कच्चित् सुखं सात्वतवृष्णिभोजदाशार्हकाणामधिपः स आस्ते ।

यमभ्यषिञ्चच्छतपत्रनेत्रो नृपासनाधिं परिहृत्य दूरात् ॥ २९ ॥

तात्पर्यम्

‘आधिर्मनो वरूथं च आत्मा स्वमिति चोच्यत’ इत्यभिधानम् ॥ २९ ॥

पदरत्नावली

सात्वतामधिप उग्रसेनः । शतपत्रनेत्रः पुण्डरीकाक्षः । नृपासनाधिं सिंहासनं मम नाभूदिति य आधिर् मनस् तं परिहृत्य । ‘आधिर्मनो वरूथं च आत्मा स्वमिति चोच्यते’ इति । ‘पुंस्याधिर्मानसी व्यथा’ इत्यमरः ॥ २९ ॥

प्रकाशिका

सात्वतादिशब्दवाच्यानां यादवविशेषाणामधिप उग्रसेनः । यमुग्रसेनमभ्यषिञ्चत् । राज्य इति शेषः । शतपत्रं पुण्डरीकं तद्वदायते नेत्रे लोचने यस्य स तथोक्तः । नृपासनाधिं सिंहासन-विषयकमाधिं दूरात्परिहृत्येत्यत्राधिशब्देन ‘‘सिंहासनं मम नाभूदि’’ति मानसी व्यथा प्रतीयते । ‘‘आधिस्तु मानसी पीडे’’त्यमरोक्तेः । तां परिहृत्येति व्याख्याने भगवन्मनसीतरपुरुषमनसीव व्यथा-प्रसक्तिरायाति । न च सा युक्ता । अतोऽत्र विवक्षितमाधिशब्दार्थं प्रमाणेनैव दर्शयति ॥ आधिरिति । तथा चात्राधिशब्दो मनःपरो न तु तद्गतपीडापरः । नृपासनं मम भूयादित्याधिं तद्विषयकं मनो दूरादेव परिहृत्येति मूलार्थ इति भावः । न चात्रापि भगवन्मनसि नृपासनविषयकत्वप्रसक्तिः । तस्या दोषत्वा-भावात् । तत्त्यागेन वैराग्यलक्षणगुणलाभाच्चेति ध्येयम् ॥ २९ ॥

कच्चिद्धरेः सौम्यसुतः सदृक्ष आस्तेऽग्रणी रथिनां साधु साम्बः ।

असूत यं जाम्बवती व्रताढ्या देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥

पदरत्नावली

सदृक्षः पुत्रत्वयोग्यः । दक्ष इति पाठे कर्तव्यत्वेन युगपदनेकेषु कार्येषु प्राप्तेष्व-व्यामोहेन क्रमेण कर्ता दक्ष इत्यर्थः । अग्रे पूर्वजन्मनि अम्बिकया पार्वत्या धृतः । गर्भ इति शेषः

॥ ३० ॥

प्रकाशिका

सदृक्षः पुत्रत्वयोग्यः । साधु कुशलमास्त इत्यन्वयः । अग्रे पूर्वजन्मन्यम्बिकया पार्वत्या धृतः पुत्रत्वेन पालितः ॥ ३० ॥

क्षेमं स कच्चिद् युयुधान आस्ते यः फल्गुनाल्लब्धधनूरहस्यः ।

लेभेऽञ्जसाऽधोक्षजसेवयैव गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥

पदरत्नावली

युयुधानः सात्यकिः । फल्गुनाद् अर्जुनात् । अनेन धनुर्वेदज्ञानाधिक्यं भगव-त्प्रियतमत्वं च प्रष्टव्यत्वे हेतुरिति सूचयति । एवमुत्तरत्राप्यूह्यम् ॥ ३१ ॥

प्रकाशिका

युयुधानः सात्यकिः । फल्गुनादर्जुनात् । गतिं ज्ञानम् । अत्र धनुर्विद्यारहस्यज्ञत्वं भगवत्स्वरूपज्ञत्वं च प्रष्ठव्यतोपपादकतयोक्तम् । एवमग्रेऽपि तत्तद्विशेषणानि प्रष्टव्यत्वोपपादकानीति द्रष्टव्यम् ॥ ३१ ॥

कच्चिद् बुधः स्वस्त्यनमीव आस्ते श्वफल्कपुत्रो भगवत्प्रपन्नः ।

यः कृष्णपादाङ्कितमार्गपांसुष्वचेष्टत प्रेमविभिन्नधैर्यः ॥ ३२ ॥

पदरत्नावली

अनमीवो निष्पापः । श्वफल्कपुत्रोऽक्रूरः । प्रेम्णा भक्त्या विभिन्नं नष्टं धैर्यं रजोवेष्टनाहंकाररूपं मनो यस्य स तथा ॥ ३२ ॥

प्रकाशिका

अनमीवो निष्पापः । श्वफल्कपुत्रोऽक्रूरः । मार्गस्थपांसुष्वचेष्टत लुण्ठनरूपां चेष्टां चकार । कथंभूतः । प्रेम्णा भक्त्युद्रेकेण विभिन्नं विनष्टं धैर्यं ‘‘राजभृत्येन मया मार्गपांसुषु लुण्ठनं न कार्य’’मिति मनोदार्ढ्यं यस्य स तथोक्तः ॥ ३२ ॥

कच्चिच्छिवं देवकभोजपुत्र्या विष्णुप्रजाया इव देवमातुः ।

या वै स्वगर्भेण बभार देवं त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥

पदरत्नावली

विष्णुः प्रजा पुत्रो यस्याः सा विष्णुप्रजा तस्याः । देवकश्चासौ भोजश्च देवक-भोजः, नाम्ना देवकः कुलेन भोजः, तस्य पुत्र्या देवक्याः । देवमातुरदितेरिव विष्णुप्रजाया इति योजना । यज्ञो विष्णुर्वितानो विभूतिः । विष्णुविभूतिरूपमर्थं प्रतिपाद्यं यागविस्तारलक्षणमर्थं वा । कादाचित्कं देवक्या गर्भधारणं, त्रय्या अर्थधारणं सनातनम् अतस्तन्निदर्शनं कथं स्यादित्यत उक्तम्– वा इति ॥ दृष्टान्तदर्ष्टान्तिकयोरेकदेशसाम्येनालं तत्प्रसिद्धेरिति ॥ ३३ ॥

प्रकाशिका

नाम्ना देवकः कुलेन भोजो, भोजश्चासौ देवकश्च देवकभोजस्तस्य पुत्र्या देवक्याः । देवमातुरदितेरिव विष्णुः प्रजा पुत्रो यस्याः । त्रयी श्रुतिः । यज्ञविस्ताररूपमर्थं, यज्ञो विष्णुस्तद्वितानं तद्विस्ताररूपं माहात्म्यं तल्लक्षणमर्थमिति वा । यथा बिभर्ति प्रतिपादयति तथा या स्वगर्भेण देवं बभार । वा इत्यनेन तस्याः पुण्यातिशयप्रसिद्धिं दर्शयति ॥ ३३ ॥

अपिस्विदास्ते भगवान् सुखं वा यः सात्वतां कामदुघोऽनिरुद्धः ।

यमामनन्ति स्म हि शब्दयोनिं मनोमयं सत्वतुरीयमर्थम् ॥ ३४ ॥

पदरत्नावली

अनिरुद्धो भगवान् वा सुखमास्तेऽपिस्वित् किमित्यन्वयः । अनिरुद्धशब्दार्थं लक्षयति– यः सात्वतामिति ॥ न केवलं कामं न निरुणद्धि किन्तु तत्तदिष्टदायक आश्रिता-नामतोऽनिरुद्धः । भगवान् पूज्यः । कामदुघ इति छान्दसपदप्रयोगेण सूचितं वैदिकत्वं स्पष्टमाह– यमिति ॥ शब्दो वेदो योनिर् ज्ञप्तिकारणं यस्य स तथोक्तस्तम् । ‘भद्रं नो अभिवातय मनादक्षमुतक्रतुं’ इत्येवंरूपः शब्दः । ननु हे मनस्त्वं क्रतुं दक्षं दर्शनमुत भद्रं मङ्गलं विष्णुं प्रति वातय गमय’ इति मनोविषयत्वप्रतीतेः कथमस्य अनिरुद्धविषयत्वम् ? अत्राह– मनोमयमिति ॥ सर्वकार्येषु मनः प्रथयतीति मनोभिमानित्वादनिरुद्धस्य, मनःशब्देन स एवोच्यते । ‘मनसा वा अग्रे सङ्कल्पयति’ ‘मन एव मनुष्याणां कारणं बन्धमोक्षयोः’ इत्यादेः । ‘नो मनो भद्रं वातय’ इति मनसः कर्मत्वप्रतीतेः कथमनेन स उच्यत इति चेत् । सत्यम् । कर्ता एव तर्ह्यनिरुद्धः स्यात् ।

ननु हन्त तर्हि मनःशब्दाभिधेयत्वं गतम् ? अत्राह– सत्वेति ॥ सत्वाच्चित्तात् तुरीयं चतुर्थं मनःशब्दार्थमनिरुद्धमामनन्ति, ‘मनोबुद्धिरहङ्कारश्चित्तमित्यन्तरात्मनः । यद् विदुर्ह्यनिरुद्धाख्यं हृषीकाणामधीश्वरम् । शारदेन्दीवरश्यामं संराध्यं योगिभिः शनैः ॥’ इत्यादिना । ‘हे मनोनाथानिरुद्ध नोऽस्माकं क्रतुं सङ्कल्पं दर्शनं ज्ञानं च त्वद्विषयं कुरु । हे भगवन् नो मनो दक्षं समर्थं क्रतुमध्वरं च भद्रं त्वां वातय प्रापय’ इत्युभयथापि हि तद्विषयत्वं सङ्गच्छते । ‘दक्षौ दर्शनपण्डितौ’ इति यादवः । कामदुघत्वादिमाहात्म्यं हरेरितरत्रासम्भावितं कथमस्मिन् योज्यत इत्यतो वाऽऽह– यमिति ॥ यं कामपुत्रं सत्वस्य बलविज्ञानपूर्णस्य चतुर्मूर्तेर्हरेस्तुरीयमर्थमनिरुद्धनामानं हरिमामनन्तीत्यतो युक्तं तदा-वेशित्वात् तादृशमाहात्म्यकथनम् । पृथ्वादौ दर्शनात् ॥ ३४ ॥

प्रकाशिका

अपिस्वित् किंस्वित् । वाशब्दोऽप्यर्थे । अनिरुद्ध इत्यनेन सम्बध्यते । यं शब्दयोनिं शब्दैकसमधिगम्यं मनोमयं ज्ञानपूर्णं, सत्वं वासुदेवमपेक्ष्य तुरीयं चतुर्थरूपमामनन्ति श्रुतयः । इदं शब्दयोनिमित्यादिकं बलभद्रे पुराणपुरुषत्वाद्युक्तिवदनिरुद्धे आविष्टहरिरूपापेक्षयोक्तमिति ज्ञातव्यम्

॥ ३४ ॥

अपिस्विदन्ये च निजात्मदैवमनन्यवृत्त्या समनुव्रता ये ।

हार्दिक्यसत्यात्मजचारुदेष्णगदादयः स्वस्ति चरन्ति सौम्य ॥ ३५ ॥

पदरत्नावली

उक्तं कुशलप्रश्नं प्रसिद्धाप्रसिद्धेष्वप्यतिदिशति– अपि स्विदिति ॥ ३५ ॥

प्रकाशिका

निजात्मदैवमनागन्तुकस्वदेवतारूपं कृष्णं, सत्यात्मजः सत्यभामातनूजो भानुनामा । चारुदेष्णो रुग्मिणीपुत्रः । गदो वसुदेवपुत्रः ॥ ३५ ॥

अपि स्वदोर्भ्यां विजयाच्युताभ्यां धर्मेण धर्मः परिपाति सेतुम् ।

दुर्योधनोऽतप्यत यत्सभायां साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥

पदरत्नावली

धर्मः धर्मपुत्रः विजयाच्युताभ्यां स्वदोर्भ्यां धर्मेण धर्मशास्त्रमनतिक्रम्य धर्मसेतुं परिपाति किमित्यन्वयः । यस्य युधिष्ठिरस्य सभायां दिग्विजयेनानुवृत्तिरनुगमनं यस्याः सा तथा, विजयादर्जुनादनुवृत्तिरुत्पत्तिर्यस्याः सा तथा, विजयस्य हरेरनुवृत्तिर्यस्याः सा तथा वा । श्रीमदादितरेषां धर्मसेतुलङ्घनं सम्भाव्यते नास्य तदस्तीति प्रश्नः । तत एव धर्म इति प्रायोजि ॥ ३६ ॥

प्रकाशिका

एवं यादवानां कुशलं पृष्ट्वा पाण्डवानां तत्पृच्छति ॥ अपि स्वदोर्भ्यामित्या-दिना । विजयाच्युताभ्यां विजयाव्यभिचारिभ्याम् । अथवा स्वदोर्भ्यां बाहूवद्वर्तमानाभ्यां विजयोऽर्जुनोऽ-च्युतः कृष्णस्ताभ्यामित्यर्थः । धर्मेण धर्ममार्गेण धर्मो धर्मपुत्रः सेतुं धर्ममर्यादां यत्सभायां यस्य युधिष्ठिरस्य सभायां विजयो दिग्विजयस्तमनुवृत्तिर्वर्तनं यस्याः सा तथा तया । श्रीमदादितरेषां धर्मसेत्वतिक्रमः संभावितः सोऽस्य नास्तीति प्रश्नबीजम् ॥ ३६ ॥

किं वा कृताघेष्वघमत्यमर्षी भीमोऽहिवद् दीर्घतमं व्यमुञ्चत् ।

यस्याङ्घ्रिपातं रणभूर्न सेहे मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥

तात्पर्यम्

अघं व्यमुञ्चत् । पुनरपराधबुद्धिं मुक्त्वाऽऽस्ते ॥ ३७ ॥

पदरत्नावली

भीमः कृताघेषु दुर्योधनादिषु अघं व्यमुञ्चन् किं वा ? पुनरपराधबुद्धिं मुक्त्वाऽऽस्ते किम् ? प्रश्ननिमित्तमाह– अत्यमर्षीति ॥ तस्य पराक्रममाह– यस्येति ॥ अङ्घ्रिपाते निमित्तमाह– मार्गमिति ॥ ३७ ॥

प्रकाशिका

भीमः कृताघेषु कृतापराधेषु दुर्योधनादिषु किं वाऽघं व्यमुञ्चदित्यत्र स्वनिष्ठं पापं तेष्वमुञ्चदित्यन्यथाप्रतीतिवारणायात्र विवक्षितमघशब्दार्थं दर्शयति ॥ अघमिति । पुनरपराधबुद्धिं प्रत्यपकारबुद्धिम् । तथा चात्राघशब्दस्य प्रत्यपकारवाचकस्य दीर्घतमं बहुकालमनुवर्तमानमित्यनेन व्यमुञ्चदित्यनेन चान्वयस्वारस्याय स्वबुद्धिलक्षकत्वे प्रत्यपकारः कर्तव्य इति बहुकालीनां बुद्धिं किम्? वा व्यमुञ्चत्तां बुद्धिं मुक्त्वाऽऽस्ते किं? स्वकर्तव्यत्वेन बहुकालचिन्तितं प्रत्यपकारं कृतवान् किमित्यर्थः । अङ्घ्रिपाते निमित्तमाह ॥ मार्गमिति । गदाया गदायुद्धस्य विचित्रं विविधं मार्गं चरत इत्यन्वयः ॥३७॥

कच्चिद् यशोधा रथयूथपानां गाण्डीवधन्वोपरतारिरास्ते ।

अलक्षितो यच्छरकूटगूढो मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥

पदरत्नावली

रथयूथपानां यशो दधातीति यशोधाः । यच्छरकूटेन यस्य शरपञ्जरेण गूढो निलीनः । मायया इच्छया किरातः गृहीतशबरवेषः ॥ ३८ ॥

प्रकाशिका

रथयूथपानां मध्ये यशोधाः कीर्तिधारी । उपरता अरयो यस्मात्सः । यस्य शरकूटेन बाणसमूहेन गूढ आच्छन्नो । माययेच्छया किरातो गृहीतकिरातवेषः ॥ ३८ ॥

यमावुतस्वित् तनयौ च माद्र्याः पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।

रेमात उद्धृत्य मृधे स्वरिक्थं सुधां सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥

पदरत्नावली

पक्ष्मभिरावृते अक्षिणी इव पार्थैरावृतौ रक्षितौ माद्र्यास्तनयौ यमौ वज्रिण इन्द्रस्य वक्रात् सुपर्णौ गरुडौ सुधामिव मृधे युद्धे स्ववैरिमुखात् स्वरिक्थं निजराज्याख्यं धनमुद्धृत्य रेमात उतस्वित् किमित्यन्वयः । सुपर्णाविति दार्ष्टान्तिकापेक्षया द्विवचनम् ॥ ३९ ॥

प्रकाशिका

यमौ नकुलसहदेवौ । उतस्वित् किंस्वित् । चशब्दोऽप्यर्थे । माद्र्यास्तनयावपि । पार्थैः पृथापुत्रैः । अक्षिणी पक्ष्मभिरावृतौ रक्षितौ । मणीवादित्वादक्षिणी वेति सम्बन्धः । मृधे युद्धे स्वरिक्थं स्वराज्याख्यधनमुद्धृत्याच्छिद्य वज्रिवक्त्रादिन्द्रमुखात्सुपर्णौ गरुडाविव । अभूतोपमा । यदि द्वौ गरुडाविन्द्रमुखादमृतमानयेतां तर्हि तद्वदित्यर्थः ॥ ३९ ॥

अहो पृथापि ध्रियतेऽर्भकार्थे राजर्षिवर्येण विनापि तेन ।

यस्त्वेकवीरोऽतिरथो विजिग्ये धनुर्द्वितीयः ककुभश्चतस्रः ॥ ४० ॥

पदरत्नावली

तेन राजर्षिवर्येण पाण्डुचक्रवर्तिना विना रहितापि ध्रियते । पुत्रैरिति शेषः । राजर्षिवर्यत्वं दर्शयति– यस्त्विति ॥ चतस्रश् चतसॄः ॥ ४० ॥

प्रकाशिका

पृथायाः किं नु कुशलं पृच्छेयं यतस्तस्याः पाण्डुना विना जीवनमेवाश्चर्यमित्याह ॥ अहो इति । ध्रियते । प्राणैरिति शेषः । जीवतीति यावत् । न चात्याश्चर्यं यतोऽर्भकाणां पुत्राणामर्थे ध्रियते न भोगार्थम् । यद्वा ध्रियते । पुत्रैरिति शेषः । तेन विनाऽपि याऽर्भकार्थ एवासीत् । न माद्रीवत्सहगमनं कृतवतीत्यर्थः । तेन पाण्डुना । चतस्रश् चतसॄः ॥ ४० ॥

सोम्यानुशोचे तमधःपतन्तं भ्रात्रे परेताय विदुद्रुहे यः ।

निर्यापितो येन सुहृत् स्वपुर्या अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥

पदरत्नावली

परेताय मृताय भ्रात्रे पाण्डवे । ‘क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः’ इति चतुर्थी । सुहृत् प्रत्युपकारमनपेक्ष्योपकारकर्ता ॥ ४१ ॥

प्रकाशिका

धृतराष्ट्रस्तु न कुशलप्रश्नयोग्यः किन्तु शोच्य एव । यतोऽधःपतनसाधनपाप-कारीत्याह ॥ सोम्येति । हे सौम्य सोमार्ह । तं धृतराष्ट्रं जीवन्तमनुशोचामि । कस्मात् । अधःपतन्तं तत्रापि परेताय मृताय भ्रात्रे पाण्डवे तत्पुत्रद्रोहेण यो विदुद्रुहे द्रोहं कृतवान् । किञ्च जीवतो ममापि अपकारस्तेन कृत इत्याह । येन सुहृद्भ्रात्राऽहं च स्वपुर्याः सकाशान्निर्यापितो विवासितः ॥ ४१ ॥

सोऽहं हरेर्मर्त्यविडम्बनेन दृशो नृणां १चालयतो विधातुः ।

नान्योपलक्ष्यः पदवीं प्रसादाच्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥

पदरत्नावली

विधातुः कृष्णस्य पदवीं निवृत्तिमार्गं चरामि । पश्यन्, संसारिणां क्लेशमिति शेषः ॥ ४२ ॥

प्रकाशिका

पुरान्निर्यापितस्य तव मनसि किं खेदो नेत्याह ॥ सोऽहमिति । यो निर्यापितः सोऽहमित्यर्थः । विधातुर्हरेः कृष्णस्य प्रसादात्तस्य पदवीं माहात्म्यं पश्यन् । कथम्भूतस्य । नृणां दृशो हरिरेव भूभारहरणायात्रावतीर्ण इति चित्तवृत्तीर्मर्त्यविडम्बनेन स्वमाहात्म्याच्छादकेन मनुष्यानुकरणेन चालयतो भ्रामयतः । श्रीकृष्ण एव स्वमाहात्म्यमाच्छाद्य स्वस्मिन्मानुष्यभ्रममुत्पाद्य धृतराष्ट्रादीन्पाप-भागिनः करोत्येवं तन्माहात्म्यं पश्यन्नहं गतविस्मयश्चित्तविकाररहितस्तत्प्रसाद एवायमिति मत्वा सुखेनैव चरामीत्याशयः ॥ ४२ ॥

नूनं नृपाणां त्रिमदोत्पथानां महीं मुहुश्चालयतां चमूभिः ।

वधात् प्रपन्नार्तिजिहीर्षयेशो ह्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥

पदरत्नावली

ननु कंसादिवधवत् कुरूणां हननं झटिति किमिति न कृतं न कारितं चेत्याशङ्क्य प्रयोजनान्तरसद्भावादुपेक्षितमित्याशयेनाह– नूनमिति ॥ भगवान् कुरूणाम् अघम् अपराधमुपैक्षत नूनमुपेक्षितवान् इति तर्कयामि । ‘तर्कनिश्चययोर्नूनम्’ इति यादवः । तद्धननासामर्थ्यान्नेत्यत उक्तम्– ईशो हीति ॥ तर्हि किं निमित्तमिति तत्राह– नृपाणामिति ॥ त्रिमदाद् विद्याधनाभिजननिमित्ता-न्मदाद्, उत्पथानां सन्तं पन्थानमपहाय वर्तमानानां, चमूभिर् अनेकाक्षौहिणीगणिताभिर्मुहुर् महीं चालयतां नृपाणां कंसादीनां वधाद्धेतोः । तद्वधप्राथम्येऽपीदं निमित्तमित्याह– प्रपन्नेति ॥ प्रपन्नानां देवावताराणां वसुदेवादीनाम् आर्तिजिहीर्षया असह्यदुःखहरणेच्छया कारणेन । अनेन हरेः प्रवृत्तिर्भक्ताभीष्टानुसारिणीति दर्शितं भवति ॥ ४३ ॥

प्रकाशिका

ननु भूभारहरणायावतीर्णः श्रीकृष्णः स्वभक्तपाण्डवद्रोहिणो दुर्योधनादीन् राज्या-पहारानन्तरमेव कस्मान्न हतवानित्यत आह ॥ नूनमिति । ईशस्तदैव हन्तुं समर्थोऽपि भगवान् कृष्णो विद्यामदो धनमदस्तथैवाभिजनमदः । एते मदा मदान्धानां त एव च सहतां दमा इति वचनाद्विद्या-धनाभिजननिमित्तैस्त्रिभिर्मदैरुत्पथानां पन्थानमपहाय वर्तमानानां चमूभिरष्टादशाक्षौहिणीगणिताभिर्मुहुर्महीं चालयतां नृपाणां वधान्निमित्तात्प्रपन्नार्तिजिहीर्षया प्रपन्ना भूमिस्तस्या आर्तिर्भारस्तन्निमित्तं दुःखं तज्जिहीर्षया कुरूणां दुर्योधनादीनामघमपराधमुपैक्षत इति नूनं तर्कयामि । तर्कनिश्चययोर्नूनमित्यभि-धानात् । तदानीमेव तेषां वधे सर्वभूभारहरणं न स्यादित्याशयेन तदैव न हतवानिति भावः ॥ ४३ ॥

अजस्य जन्मोत्पथनाशनाय कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।

न त्वन्यथा कोऽर्हति देहयोगं परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥

तात्पर्यम्

‘न देहयोगो हि जनिर्विष्णोर्व्यक्तिर्जनिः स्मृते’त्याग्नेये । ‘हरिः कर्ताऽप्यकर्तेति फलाभावेन भण्यत’ इति च ॥ ४४ ॥ इति तृतीयतात्पर्ये प्रथमोऽध्यायः ॥ १ ॥

पदरत्नावली

भक्ताभीष्टं च भूभारायितदुष्टजननिधनं यत् तदेवावतारप्रयोजनमिति भावेनाह– अजस्येति ॥ अजस्य विष्णोर् जन्म अवतारः । उत्पथनाशनाय कंसादिनिधनाय । प्रयोजनान्तरं चास्तीत्याह– कर्माणीति ॥ फलमनुसन्धायाकर्तुः स्वत एव सृष्ट्यादेः कर्तुर्हरेः कर्माणि जगत्सर्जनादि-लक्षणानि । पुंसां शरणागतानां ग्रहणाय श्रवणमननादिरूपजिज्ञासायै । ‘हरिः कर्ताऽप्यकर्तेति फलाभावेन भण्यते’ इति । बालवल्लीलार्थं देहं गृह्णातीति किं न स्यादितीमं पक्षमाक्षिपति– न त्विति ॥ अन्यथा भक्तजनग्रहणादिकमन्तरेण स्वप्रयोजनमपेक्ष्य नैव । कुतः ? असम्भवात् । तथा हि– कः पुरुषः शुक्लशोणितसंपृक्तदेहयोगं प्रत्यर्हति ? न कोऽप्यर्हति । हरिरर्हति ? नेत्याह– पर इति ॥ गुणानां सकाशात् परस्तदतीतत्वेनोत्तमः, गुणसंसर्गोऽपि नास्तीति गुणानामिति षष्ठी । सद्देह इति हरेर्देहित्वप्रतीतेः कोऽर्हतीति कथमाक्षिप्यत इत्यत उक्तम्– कर्मेति ॥ मनुष्यादिदेहयोगाद्यसंभवेऽपि देवादिशरीरयोगः स्याद्वेत्यत उक्तम्– उतेति ॥ ‘उताप्यर्थविकल्पयोः’ इति । विकल्पोऽपि न घटत इत्यर्थः । ‘न देहयोगादि जनिर्विष्णोर्व्यक्तिर्जनिः स्मृता’ इति विशेषवचनाच्च देहयोगाङ्गीकारपक्षो गर्हित इति भावः ॥ ४४ ॥

प्रकाशिका

नन्वीश्वरस्य कृष्णादिरूपेण जन्म तावन्नोपपद्यते । तस्याजत्वात् । नापि कर्माणि सम्भवन्ति । तस्याकर्तृत्ववचनात् । परिपूर्णस्य जन्मना कर्मभिश्च प्रयोजनाभावाच्चेत्यत आह ॥ अजस्येति । अत्राजस्य जन्मेत्यकर्तुः कर्माणीति च व्याहतमिव प्रतीयतेऽतः क्रमेण प्रमाणद्वय-मुदाहृत्योभयं घटयति ॥ न देहयोग इत्यादिना । हि यस्माद्देहयोगो जनिर्न तस्माद्व्यक्तिर्जनिः स्मृतेत्यर्थः । न देहयोग इत्यनेन कोऽर्हति देहयोगमित्येतदपि प्रमापितमिति मन्तव्यम् । स्वभावेन कर्ताऽपि स्वस्य फलाभावेनाकर्तेति गौण्या वृत्त्या भण्यते व्यवह्रियत इत्यर्थः ॥ ततश्चायमर्थः ॥ अजस्य जीववत् त्रिगुणात्मकदेहयोगशून्यस्यापि जन्मोपपद्यते । जन्मशब्दार्थतया प्रार्दुभावस्यैव विवक्षितत्वात् । उत्पथनृपशासनरूपप्रयोजनसद्भावाच्च । अकर्तुः फलाभावेनैवाकर्तृत्वेनोच्यमानस्य कर्माणि विहितानि नित्यनैमित्तिकादीनि सम्भवन्ति । यतः स्वप्रयोजनाभावेऽपि पुंसामधिकारिणां ग्रहणाय शिक्षणाय सम्भवन्ति । ‘‘उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहमि’’ति वचनात् । नन्वजत्वश्रुतेः स्वरूपा-पेक्षयाऽप्युपपत्तेरीश्वरस्यापि जीववद्देहयोगरूपमेव जन्म कर्म च किं न स्यादित्यत आह ॥ न त्वन्यथेति । अन्यथा प्रादुर्भावरूपजन्माद्यपेक्षया प्रकारान्तरं गुणात्मकदेहयोगेन जननं विधिबन्धने कर्म च न तु नैव । कुतः । यतो गुणानां परो गुणातीतः । नित्यमुक्त इति यावत् । को देहयोगं गुणात्मक-देहयोगरूपां जनिं कर्मतन्त्रमुत कर्मविस्तारमप्यर्हति न कोऽपीत्यर्थः । नित्यमुक्तत्वाज्जीववज्जन्म विधिभयेन कर्म च नास्त्येवेति भावः ॥ ४४ ॥

तस्य प्रपन्नाखिललोकपानामवस्थितानामनुशासने स्वे ।

अर्थाय जातस्य यदुष्वजस्य वार्तां सखे कीर्तय तीर्थकीर्तेः ॥ ४५ ॥

॥ इति श्रीमद्भागवते तृतीयस्कन्धे प्रथमोऽध्यायः ॥

पदरत्नावली

किं बहुनोक्तेनेति विदुरः स्वाभीष्टं वक्ति– तस्येति ॥ ४५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां तृतीयस्कन्धे प्रथमोऽध्यायः ॥

प्रकाशिका

उत्पथनृपशासनेनापि किं फलमित्यपेक्षायां तत्साध्यं फलं दर्शयन् स्वाभीष्टं फलं प्रार्थयते ॥ तस्येति । प्रपन्ना अनादिकालेन शरणं प्राप्ता येऽखिला लोकपा इन्द्रादयस्तेषां, स्वे स्वीयेऽनुशासने श्रुतिस्मृत्यादिरूपेऽवस्थितानामन्येषां चार्थाय प्रयोजनाय । अनेन शिष्ट(सृष्टि)परिपालन-मेवोत्पथनृपशासनप्रयोजनमिति सूचितम् । वार्तां कथाम् । तीर्थवत्पुण्यकरकीर्तेः ॥ ४५ ॥

**॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां **

श्रीमद्भागवतटिप्पण्यां प्रथमोऽध्यायः ॥ ३-१ ॥