अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः
अथ दशमोऽध्यायः
श्रीशुक उवाच—
अत्र सर्गो विसर्गश्च स्थानं पोषणमूतयः ।
मन्वन्तरेशानुकथा निरोधो मुक्तिराश्रयः ॥ १ ॥
पदरत्नावली
अस्मिन्नध्याये वैराजाख्यहरेः सकलजगत्सृष्टिः प्रपञ्च्यते । तत्रादौ भागवतपुराणं दशलक्षणमित्युक्तम् । दशलक्षणानि कथयतीत्याह- अत्रेति ॥ अत्र श्रीभागवते सर्गादिदशलक्षणानि प्रतिपाद्यन्त इति शेषः ॥ १ ॥
प्रकाशिका
दशलक्षणपुराणं प्राहेत्युक्तम् । तानि दशलक्षणानि दर्शयति ॥ अत्रेति ॥ अत्र भागवते । मन्वन्तराणीशानुकथाश्चेति द्वन्द्वः । इत्येतानि दशलक्षणानि । प्रतिपाद्यन्त इति शेषः॥ १ ॥
दशमस्य विशुध्यर्थं नवानामिह लक्षणम् ।
वर्णयन्ति महात्मानः श्रुतेनार्थेन चाञ्जसा ॥ २ ॥
पदरत्नावली
मुक्तामुक्तप्रपञ्चाधारस्य दशमस्य हरेर् माहात्म्यवर्णनस्यावश्यापेक्षितत्वात् सर्गादिनवानां वर्णनं क्वोपयुज्यत इति तत्राह- दशमस्येति ॥ महात्मानो ब्रह्मादयः । इह पुराणे । दशमस्य आश्रयस्य विशुध्यर्थं सर्गादिनवानां लक्षणं वर्णयन्तीत्यन्वयः । अनेनार्थाद् ब्रह्मज्ञान-लब्ध्यर्थत्वमुक्तं भवति । अत्र किं प्रमाणमत्राह- श्रुतेनेति ॥ अञ्जसा मुख्यया वृत्या । अनन्त-वेदार्थसंवादेनेत्यर्थः । ब्रह्मणः सर्वगुणपूर्णत्वसर्वोत्तमत्वादिज्ञानार्थत्वेन तदुपयोगात्तल्लक्षणकथनं युक्तमिति भावः ॥ २ ॥
प्रकाशिका
नन्वेवमर्थभेदात्पुराणस्यैकवाक्यता न स्यादित्यत आह ॥ दशमस्येति ॥ दशमस्याश्रयस्य विशुद्ध्यर्थं तत्त्वावधारणार्थम् । नवानां सर्गादीनां लक्षणं स्वरूपम् । एकस्यैव प्राधान्यान्नोक्तदोष इति भावः । महात्मान एतत्पुराणव्याख्यातारः । नन्वत्र नैवं प्रतीयत इत्यत आह ॥ श्रुतेनेति ॥ अंजसा सम्यक् सम्प्रदायपूर्वकम् । अर्थेन श्रुतेन निमित्तेन । सम्प्रदायतः प्रतिपाद्यश्रवणेनेति यावत् । उपक्रमादिबलाच्चेति चार्थः ॥ २ ॥
भूतमात्रेन्द्रियधियां जन्म सर्ग उदाहृतः ।
ब्रह्मणो गुणवैषम्याद्विसर्गः पौरुषः स्मृतः ॥ ३ ॥
तात्पर्यम्
महदाद्यण्डपर्यन्तः सर्गोऽण्डे ब्रह्मणस्तु यः । अनुसर्ग इति प्रोक्तः पौरुषश्चेति कथ्यते । पञ्चभूतसमूहेन जातः पुरुष उच्यते । बहुत्वात्तत्र भूतानां तावत्त्वात्तत्त्वमेकजमि’ति व्योमसंहितायाम् ॥ ३ ॥
पदरत्नावली
तत्र प्रथमं सर्गं लक्षयति- भूतेति ॥ सृष्टिकाले ब्रह्मणः परब्रह्मणः सकाशा-ज्जाताद् गुणवैषम्यात् तन्नामकान् महत्तत्वात्, अहङ्कारद्वारा भूतमात्रेन्द्रियधियां पञ्चमहाभूतानां शब्दादितन्मात्राणां, श्रोत्रादिदशेन्द्रियाणां, धियो बुद्धेश्च अण्डपर्यन्तं यज्जन्म स सर्ग उदाहृत इत्यन्वयः । विसर्गं लक्षयति- विसर्ग इति ॥ पौरुषो विसर्गः स्मृत इत्यन्वयः । अण्डान्तर्गतपुरुषनाम्नो हरेर् भूतानां यद्विविधं जन्म स विसर्गः स्मृतः शास्त्रान्तरोक्त इति शेषः । तदुक्तम्- ‘महदाद्यण्डपर्यन्तः सर्गोऽण्डे ब्रह्मणस्तु यः । अनुसर्ग इति प्रोक्तः पौरुषश्चेति कथ्यते ॥’ किञ्च पञ्चभूतसमूहेन जातः पुरुषः जीवस् तद्विषयः सर्गः पौरुषः विसर्ग इत्युच्यते । अत्रापि उक्तैव स्मृतिः प्रमाणम् । पञ्चभूत-समूहेन जातः पुरुष उच्यते । अण्डान्तर्हि जातानां नानाजीवानां सात्विकादिस्वभावानां व्यक्तिस् तेषु जीवेषु तैजसाप्यादिकार्यापेक्षया भूतानां बहुत्वाद् भूयस्त्वात् । तथा च भूतानां काठिन्यादिस्वभाव-व्यञ्जकत्वेन कृतार्थत्वाज् जीवतत्वमेकस्माद्भूतसमूहाज्जातत्वाद् एकजमित्युच्यते । ‘पञ्चभूतसमूहेन जातः पुरुष उच्यते । बहुत्वात्तत्र भूतानां तावत्त्वात्तत्वमेकजम् ॥’ इति च ॥ ३ ॥
प्रकाशिका
सर्गादिशब्दानामर्थान् स्वयमेव दर्शयति ॥ भूतमात्रेति ॥ अत्र भूतमात्रेन्द्रिय-धियामित्युक्त्या सृष्टिक्रमोऽयमिति भाति । विसर्गः पौरुष इत्यस्य नासंकीर्णोऽर्थः प्रतीयते । ब्रह्माण्डबाह्यसृष्टेरपि पुरुषसम्बन्धित्वेन पौरुषत्वसम्भवात् । अतः श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ महदादीति ॥ महदादीति गुणवैषम्यशब्दार्थकथनम् । महदाद्यण्डपर्यन्तो यः सर्गः स सर्गः सर्ग–शब्दवाच्य इति योज्यम् । अण्डे ब्रह्मणो विराण्णामकस्य चतुर्दशभुवनात्मकदेहयोगेन यः सर्गः सोऽनुसर्गो विसर्गापरपर्यायः प्रोक्त इत्यर्थः । शास्त्रान्तरविरोधपरिहारायाह ॥ पौरुष इति ॥ अनेन पौरुषः स्मृत इत्येतदुक्तार्थम् । ब्रह्माण्डबाह्यसृष्टिपरिहाराय पौरुषशब्दान्तर्गतपुरुषशब्दविवक्षितमर्थं दर्शयति ॥ पञ्चेति ॥ पञ्चानां भूतानां समूहेन मेलनेन । पञ्चीकरणेनेति यावत् । जातो जातदेहः ब्रह्मा । ब्रह्माण्डबाह्यसृष्टिस्तु न पञ्चीकरणजन्येति भावः । ननूक्ते विराड्देहे कुतः पञ्चभूतजन्यत्वमित्यत आह ॥ बहुत्वादिति ॥ तत्र विराड्देहे भूतानां पृथिव्यादिभूतस्वभावानां काठिण्यादीनां बहुत्वाद् अनेकेषां प्रमाणसिद्धत्वादित्यर्थः । नन्वेवं भूभूधरादिकं पृथिवीजं सरित्समुद्रादिकमब्जमित्याद्येक-भूतजत्वव्यवहारः कथमित्यत आह ॥ तावत्वादिति ॥ तत्त्वं भूभूधरादिस्वरूपम् एकजमित्युच्यते । कुतः । तत्र भूम्यादौ भूतानां पृथिव्यादिभागानां तावत्वाद्बहुत्वादित्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ ब्रह्मणः परब्रह्मणः सकाशाज्जाताद्गुणवैषम्यात्तन्नामकान्महत्तत्वादहङ्कारद्वारा भूतमात्रेन्द्रियधियां पञ्चभूतानां तन्मात्राणामिन्द्रियाणां बुद्धेश्च । इदमुपलक्षणम् । अण्डस्य चेत्यपि ग्राह्यम् । यज्जन्म स सर्ग उदाहृतः श्रुत्यादावित्यन्वयः । महत्तत्त्वमारभ्याण्डपर्यन्तं या सृष्टिः स सर्ग इति भावः । अण्ड इति शेषः । ब्रह्मण इत्यस्यावृत्तिः । तथा चाण्डे ब्रह्मणो विराण्णामकस्य यः सर्गः स विसर्गः । नन्वेवं शास्त्रान्तरे विसर्गः पौरुष इति वचनात्तद्विरोध इत्यत उक्तम् ॥ पौरुष इति ॥ उक्तरूप एव विसर्गः शास्त्रान्तरे पौरुषशब्देनाप्युक्तोऽतो न कोऽपि विरोध इति ॥ ३ ॥
स्थितिर्वैकुण्ठविजयः पोषणं तदनुग्रहः ।
मन्वन्तराणि सद्धर्मा ऊतयः कर्मवासनाः ॥ ४ ॥
पदरत्नावली
स्थानं लक्षयति - स्थितिरिति ॥ वैकुण्ठस्य हरेर् दुष्टशिष्टनिग्रहानुग्रहलक्षणो विषयः स्थितिरित्युच्यत इत्यन्वयः । तस्य वैकुण्ठस्यानुग्रहोऽनुकम्पिता प्रसादविशेषः पोषणमित्युच्यते । तद्भक्तैकविषयत्वात्पूर्वस्माद्विशेषः । मन्वन्तरं लक्षयति- मन्वन्तराणीति ॥ सद्धर्मा मन्वन्तरेषु सतां धारका धर्मा मन्वन्तराणीत्युच्यन्ते । ऊतीराह- ऊतय इति ॥ नानाजीवानामनादिकर्माणि तत्संस्काराश्च नानासृष्टिहेतुभूता ऊतय इत्युच्यन्ते ॥ ४ ॥
प्रकाशिका
वैकुण्ठस्य भगवतो विजयो दुष्टनिग्रहादिरूपोत्कर्षः स्थितिः स्थानमित्युच्यते । तस्य वैकुण्ठस्यानुग्रहो भक्तेषु क्रियमाणः प्रसादः पोषणमित्युच्यत इत्यर्थः । तत्तन्मन्वन्तरेषु सतां सज्जनानां धर्मा मन्वन्तराणीत्युच्यन्त इत्यर्थः । जीवगतानि कर्माणि वासनाश्चोतय इत्युच्यन्ते । ऊञ्तन्तुसन्ताने ऊयन्ते सन्तन्यन्ते आभिरिति निर्वचनात् ॥ ४ ॥
अवतारानुचरितं हरेश्चास्यानुवर्तिनाम् ।
पुंसामीशकथा प्रोक्ता नानाख्यानोपबृंहिताः ॥ ५ ॥
पदरत्नावली
ईशानुकथामाह- अवतारेति ॥ हरेर् मत्स्याद्यवताराणामनुचरितमस्य हरेर् अनुवर्तिनां ब्रह्मादीनां पुंसामनुचरितञ्च नानाख्यानोपबृंहिता विविधेतिहासपूर्णा ईशकथेत्युच्यते ॥ ५ ॥
प्रकाशिका
हरेर्मत्स्याद्यवताराणामनुचरितमस्य हरेरनुवर्तिनां ब्रह्मादीनां पुंसां नानाख्यानैर्ना-नाविधैरितिहासैरुपबृंहिताः पूर्णाः कथाश्चेशकथाः प्रोक्ता इत्यर्थः ॥ ५ ॥
निरोधोऽस्यानुशयनमात्मनः सह शक्तिभिः ।
मुक्तिर्हित्वान्यथारूपं स्वरूपेण व्यवस्थितिः ॥ ६ ॥
तात्पर्यम्
‘अनुप्रविश्य परमं जीवस्य शयनं तु यत् । सहैव शक्तिभिः स्वीयैरिच्छाद्यै-रप्रकाशितैः । सन्निरोध इति प्रोक्तो विमुक्तिर्यत्र मोक्षणमि’ ति नारदीये ॥ ६ ॥
पदरत्नावली
निरोधं लक्षयति- निरोध इति ॥ आत्मन इति जातावेकवचनम् । अस्यात्मनः जीवसमुदायस्य अनभिव्यक्तस्वरूपेच्छादिशक्तिभिः सह श्रीविष्णुमनुप्रविश्यानुशयनं स्वापः निरोध इत्युच्यते । ‘अनुप्रविश्य परमं जीवस्य शयनं तु यत् । सहैव शक्तिभिः स्वीयैरिच्छाद्यैरप्रकाशितैः ॥’ इत्यादेः । मुक्तिं लक्षयति- मुक्तिरिति ॥ अन्यथारूपं प्राकृतसूक्ष्मस्थूलेन्द्रियादिकं हित्वा केवल-चिदानन्दात्मकेन स्वरूपेण व्यवस्थितिर् विशेषेणावस्थानं मुक्तिरित्युच्यते ॥ ६ ॥
प्रकाशिका
निरोधोऽस्यानुशयनमिति श्लोकं मुक्तिनिरोधयोर्भेदाप्रतीत्या प्रमाणेनैव व्याख्याति ॥ अनुप्रविश्येति ॥ परममित्यनेनास्येति कर्मणि षष्ठीति सूचयति । जीवस्येत्यनेनात्मन इत्येतदुक्तार्थम् । अत्र निरोधशब्दवाच्यं जीवस्य शयनं प्रलयकालीनमेव विवक्षितं न तु दैनन्दिनमिति प्रदर्शनाय मूले सहशक्तिभिरित्युक्तम् । तस्य व्याख्यानम् ॥ सहैवेति ॥ शक्तिभिरिच्छाप्रयत्नक्रियानुकूलशक्तिभिः । दैनन्दिनस्वापव्यावृत्त्यर्थमेवकारः । ननु तदोक्तशक्तीनामपि स्वापः कुत इत्यत आह ॥ स्वीयैः शक्तिसाध्यैरिच्छाद्यैरिच्छाप्रयत्नपरिस्पन्दैरप्रकाशितैर्निमित्तैरिति । शक्तिसाध्यानामिच्छादीनां कार्याणां तदा दर्शनात्तदा शक्तीनां स्वापोऽङ्गीकार्यः । दैनन्दिनस्वापे तु नोक्तशक्तीनां स्वापः । तदा तत्कार्याणा-मिच्छादीनां दर्शनात्कथमन्यथा यत्कामः स्वापमाप्नोति तस्यैव तदा व्यवहारं स्वापाद्यनुकूलयत्नं शरीरपरिस्पन्दं च कथं कुर्यादिति भावः ॥ अप्रकाशितैरिति ॥ निरोधशब्दनिर्वचनलब्धार्थप्रदर्शनं रुधिरावरणे । नितरां रोध इच्छादीनामदर्शनं लय इति । शक्तिभिः सह जीवस्यानुशयनमिति तु निरोधशब्दस्यार्थिकार्थप्रदर्शनमिति द्रष्टव्यम् । यत्र यस्यामवस्थायां विशेषेण मोक्षणं मोचनं प्रकृतिबन्धस्य सा विमुक्तिर्मुक्त्यपरपर्यायविमुक्तिशब्दवाच्येत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ आत्मनो मुक्तामुक्त-जीवसमूहस्य । अस्येति कर्मणि षष्ठी । प्रकृतं हरिमनुप्रविश्य सह शक्तिभिरिच्छाद्यनुकूलाभिः सह शयनं प्रलयकालीनः स्वापो निरोधशब्दवाच्यः । अन्यथारूपं प्रकृतिबन्धं हित्वा स्वरूपेण चिदानन्दाद्यात्मक-देहेन व्यवस्थितिर्मुक्तिरित्युच्यत इति ॥ ६ ॥
आभासश्च निरोधश्च यतस्तत्त्रयमीयते ।
स आश्रयः परं ब्रह्म परमात्मेति शब्द्यते ॥ ७ ॥
तात्पर्यम्
‘सृष्टिस्थित्यप्ययाभासा यद्बलाद्यत्र च स्थिताः । तद् ब्रह्म जगदाधारं वासुदेवेति तद्विदुरि’ति भागवततन्त्रे ॥ ७ ॥
पदरत्नावलीण आश्रयरूपं लक्षयति- आभास इति ॥ यतो यस्माज् जगत आभासो मुख्य-गौणवृत्या सृष्टिश् चशब्दात् स्थितिर्निरोधश्च भवति, तत् त्रयमपि यत्र यदाधारतया ईयते वेदादिषु ज्ञायते स आश्रय इत्युच्यते । किन्नामधेयोऽयमिति तत्राह- परं ब्रह्मेति ॥ मुक्तव्यावृत्यर्थं परमात्मेति । ‘सृष्टिस्थित्यप्ययाभासा यद्बलाद्यत्र च स्थिता’ इत्यादिना लक्ष्यत इत्यर्थः ॥ ७ ॥
प्रकाशिका
आभासश्चेति श्लोकमप्रतिपत्तिविप्रतिपत्तिनिरासाय प्रमाणेनैव व्याख्याति ॥ सृष्टि-स्थितीति ॥ अनेनाभासनिरोधशब्दाभ्यां सृष्टिस्थिती अप्युपलक्ष्येते इति सूचयति । आभासो ज्ञानम् । यद्बलाद्यत्रेत्यनेन यत इत्येतद् द्वेधा व्याख्यातम् । यस्य बलात्प्रयत्नात् । जगतो भवतीति शेषः । अत एव यत्र यत्रापि स्थितास्तत्प्रयत्नजन्यत्वेन सम्बन्धेन सृष्ट्यादयस्तत्रापि वर्तन्त इत्याशयः । अनेनाश्रय इत्येतज्जगत्सृष्ट्याद्याश्रय इति व्याख्यातं भवति । जगदाधारमिति ॥ आश्रय इत्यस्य व्याख्यानान्तरम् । ग्रन्थान्तरविरोधपरिहाराय । ‘परमात्मेति शब्द्यत’ इति मूलोक्तमुपलक्षणमित्याशयेनाह ॥ वासुदेवेति ॥ अत्र सुलोपश्छान्दसः । वासुदेव इत्यपि तद्विदो वदन्ति च ॥ ततश्चायं श्लोकार्थः ॥ यतो यद्बलाज्जगत आभासो ज्ञानं निरोधो लयः । चशब्दौे परस्परसमुच्चये । उपलक्षणमेतत् । सृष्टिः स्थितिश्चेत्यपि ग्राह्यम् । भवतीति शेषः । अत एव तत्त्रयमुपलक्ष्यतया क्रोडीकृतं सृष्टिस्थित्याख्यवस्त्वत्रैकत्वेन विवक्षितम् । तथा च तत्पूर्वोक्तं त्रयं यतो यत्र कर्तृत्वेन सम्बन्धेनेयते लक्षणतया वेदादिषु प्रतिपाद्यते स आश्रयः । जगत्कर्तृत्वाद्याश्रयत्वाज्जगदाश्रत्वाच्चाश्रयशब्देनोच्यते । तस्य किन्नामेत्यत उक्तं परं ब्रह्म परमात्मा वासुदेव इत्यादिनामभिः शब्द्यतेऽभिधीयत इति ॥ ७ ॥
आध्यात्मिको यः पुरुषः सोऽसावेवाधिदैविकः ।
यस्तत्रोभयविच्छेदः स स्मृतो ह्याधिभौतिकः ॥ ८ ॥
तात्पर्यम्
आधिभौतिकेन रूपेण हि चक्षुःप्रकाशयोः सम्यक् परिज्ञानम् ॥ ८ ॥
पदरत्नावली
प्रकारान्तरेणाश्रयं लक्षयिष्यन्नाध्यात्मिकादिभगवद्रूपैक्यकथनपूर्वकं जीवानामीश-तन्त्रतामाह- आध्यात्मिक इति ॥ आध्यात्मिकः शरीरसम्बन्धिषु चक्षुरादिषु तत्प्रेरकत्वेन स्थितः पुरुषो विष्णुः सोऽसावेवाधिदैविको ऽधिदैवेष्वादित्यादिषु स्थितः यस् तत्र अधिभूतेषु घटादिपदार्थेषु स्थित्वा तयोर् उभयोर् आध्यात्मिकाधिदैविकयोश् चक्षुःप्रकाशयोर् विच्छेदः सम्यङ्निश्चायकः विष्णुर् आधिभौतिको हि स्मृत इत्यन्वयः ॥ ८ ॥
प्रकाशिका
पूर्वोक्त आश्रयशब्दार्थः कथञ्चिद्ब्रह्मादावपि सम्भावितः । अतोऽनतिप्रसक्तं तं वक्तुं प्रकारान्तरेणोक्त्वा साधयितुं जीवानामाध्यात्मिकादिविषयकं सम्यक्त्वेन ज्ञानमन्योन्यसापेक्षमिति तावदाह ॥ आध्यात्मिक इति ॥ अत्राध्यात्मिकं चक्षुरादीन्द्रियमाधिदैविकं प्रकाशादिकं च न स्वत एव ज्ञानकारणं किन्तु स्वस्वाभिमानिप्रेरितमेवेति दर्शयितुं पुरुषग्रहणम् । तदैक्योक्तिस्तु वस्तुस्थितिप्रदर्शनायेति मन्तव्यम् ॥ ततश्चायमर्थः ॥ आध्यात्मिकेषु चक्षुरादिषु प्रेरकत्वेन स्थितः पुरुषो जीवः सूर्यादिर्यः सोऽसावेवाधिदैविकोऽधिदेवेषु प्रकाशादिषु प्रेरकतया स्थितः । एवकारो भेदव्यावृत्त्यर्थः । तत्र तस्मिन्प्रेरके सत्युभाभ्यामुक्तरूपाध्यात्मिकाधिदैविकाभ्यां जायमानो विच्छेदः परिच्छेदः सम्यगनुभवो यस्य रूपरसादिविषयरूपस्याधिभौतिकस्य स तथा । अनेनाधिभौतिकस्य रूपादेर्ज्ञानमाध्यात्मिका- धिदैविकतदभिमानिसापेक्षमिति प्रदर्शितम् । आध्यात्मिकाधिदैविकयोर्ज्ञानमपि आधिभौतिकसापेक्षमिति प्रदर्शनाय यस्तत्रोभयविच्छेद इत्येतदेवार्धं योजनीय-मित्यभिप्रेत्योपलक्षणत्वेनैकस्मिन् उपपादयति ॥ आधिभौतिकेनेति ॥ रूपेण सम्यग्ज्ञातेनेति शेषः । रूपेणेत्युक्त्याऽऽधिभौतिकपदं रूपादिविषयपरमिति सूचितम् । रूपे सम्यक्त्वेन ज्ञाते चक्षुःप्रकाशयोः सम्यक्त्वनिश्चय आनुमानिकोऽनुभवसिद्ध इति दर्शयितुं हिशब्दः । ततश्च तत्र प्रेरके देवे उभयोराध्यात्मिकाधिदैविकयोश्च विच्छेदः सम्यक्त्वेनानुभवो यस्मात्स आधिभौतिक इति योज्यमिति भावः । अत्राप्यभिमानिपुरुषो ग्राह्यः । एवं जीवानामाध्यात्मिका- धिदैविकयोराधिभौतिकस्य च सम्यक्त्वेन निश्चयः परस्परसापेक्ष इत्युक्तं भवति ॥ ८ ॥
एतदेकतमाभावे यदा नोपलभामहे ।
त्रितयं तत्र यो वेद स आत्मा स्वाश्रयाश्रयः ॥ ९ ॥
तात्पर्यम्
सुप्तावपि यः सर्वं वेत्ति जीवानां स परः । ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीती’ति श्रुतेः । सुष्ट्वाश्रयाणामप्याश्रयः ॥ ९ ॥
पदरत्नावली
हेत्वर्थवाचिना हिशब्देन सूचितहेतुं व्यनक्ति- एतदिति ॥ एतेषां त्रयाणां मध्ये एकतमाभावे चक्षुराद्यभावे प्रकाशाभावे वा तद्विषयघटादिपदार्थाभावे वा नोपलभामहे घटादिविषया-मुपलब्धिं ज्ञानं न प्राप्नुम इति यदा यस्मात् तस्माज् ज्ञानस्वातन्त्र्याभावात् सर्वे वयमस्वतन्त्रा इत्यर्थः । ननु कोऽसौ ज्ञाने स्वतन्त्र इति तत्राह- त्रितयमिति ॥ तत्र तेषाम् अस्वतन्त्राणां जीवानां मध्ये यो अध्यात्मादित्रितयं वेद स आत्मा विष्णुर् आश्रय इत्यन्वयः । नन्वन्यदा एवंविधं ज्ञानमस्तु, न सुषुप्त्यादावित्यस्येदमेवोत्तरम् । तत्र सुप्त्यादावपि इन्द्रियप्रकाशविषयाननपेक्ष्यैव यो जीवानां सर्वं स्वरूपज्ञानेनैव वेत्ति स आत्माश्रयः । ननु प्राणस्याप्येतत्त्रयापेक्षाभावेन ज्ञानसम्भवात् ‘प्राणा वा एवैतस्मिन् पुरे जाग्रती’ति श्रुतेः, श्रियोऽपि नित्यमुक्तत्वात्, मुक्तानां निर्देहत्वाच्च कथमेतल्लक्षणं लक्ष्यं व्यावर्तयतीति तत्राह- स्वाश्रयाश्रय इति ॥ सुष्ठु आश्रयाणां रमामुक्तप्राणानाम् आश्रय आधारः । अनेन स्वातन्त्र्येण प्रतीयमानं सर्वज्ञत्वं लक्षयन् लक्ष्म्यादिभ्यो लक्ष्यं व्यावर्तयतीत्युक्तं भवति । सुप्त्यादावीश्वरस्य सर्ववेत्तृत्वञ्च ‘स्वप्नेन शरीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीति’ इति श्रुतिसिद्धम् ॥ ९ ॥
प्रकाशिका
इदानीमीश्वरस्य नैवमिति दर्शयंस्तत्साध्यमनतिप्रसक्तमाश्रयशब्दार्थं दर्शयति ॥ एतदिति ॥ एतेषां त्रयाणां मध्ये एकतमस्यान्यतमस्य तदभिमानिप्रेरणायाश्चाभावे यदा यस्यामवस्थायां सुप्त्यादिरूपायां नोपलभामहे किमपि न जानीमः । तत्र तस्यामवस्थायां त्रितयं जीवसम्बध्या-ध्यात्मिकादित्रितयं तदभिमानश्च य आत्मा जीवान्तर्यामी वेद स स्वाश्रयाश्रय इत्यर्थः । अस्य श्लोकस्यान्यथाप्रतीतिवारणाय तात्पर्यं दर्शयति ॥ सुप्तावपीति ॥ अत्र सुप्तिशब्दो ज्ञानाभावावस्था-मात्रपरः । जीवानां सुप्तावपीति सम्बधः । अपिशब्दो जाग्रदाद्यवस्थासमुच्चयार्थः । जीवानां सकाशात्पर इति वा । अनेन स्वाश्रयाश्रय इत्येतदुक्ततात्पर्यम् । सर्वमाध्यात्मिकादिकं जीवानां ज्ञानाभावा-वस्थायामपीश्वरः सर्वं वेत्तीत्यत्र श्रुतिमाह ॥ स्वप्नेनेति ॥ स्वप्नशब्दः सुप्तिपरः । अभिप्रहत्य संयोज्य । सुप्तानित्युपलक्षणम् । आध्यात्मिकादिकं सर्वमपीत्यपि ग्राह्यम् । अभिचाकशीति सम्यक् पश्यति । स्वाश्रयाश्रय इत्येतदन्योन्याश्रयत्वशङ्कापरिहाराय सम्यग्व्याख्याति ॥ सुष्ट्विति ॥ आश्रयाणाम् । ब्रह्मादीनामिति शेषः । तथा च ब्रह्मादिजीवानां यज्ज्ञानसाधनमाध्यात्मिकादि तदनपेक्षयैव सर्वदा सर्वज्ञत्वाद्ब्रह्मादीनामप्याश्रय इति हेतुहेतुमद्भावेन योजनीयमिति भावः । अनेनाश्रयशब्दोऽसाधारण्येन व्यपदेशा भवन्तीति न्यायेन स्वेतरसर्वाश्रयपरोऽतो न पूर्वोक्तातिप्रसङ्ग इति सूचयति ॥ ९ ॥
पुरुषोऽण्डं विनिर्भिद्य यदाऽसौ स विनिर्गतः ।
आत्मनोऽयनमन्विच्छन्नपोऽस्राक्षीच्छुचिः शुचीः ॥ १० ॥
तात्पर्यम्
विनिर्गतः प्रकाशितः । ‘अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्त्वा प्रकाशितः । सोऽपोऽसृजत्ततो नारा नरोऽनाशात्परो यत’ इति नारायणाध्यात्मे ॥ १०॥
पदरत्नावली
एवं पुराणलक्षणमभिधाय अधुना विराडाख्यविरिञ्चोत्पत्तिं वक्ष्यन् प्रथमतस् तत्स्रष्टृपुरुषाख्यहरेरवतारकथनपूर्वकम् अस्य अप्सृष्टिमाह- पुरुष इति ॥ यदा स पुरुषः सृष्टैस् तत्वैः सह अण्डं प्रविश्य विनिर्भिद्य विभज्य विनिर्गतः प्रकाशितः पुरुषाभिध एव प्रादुर्भूतस् तदा आत्मनः स्वस्य दीपाद्दीपान्तरवद् रूपान्तरेण शेषपर्यङ्के शयनाय अयनमाश्रयम् अन्विच्छन् नित्यशुचिः स भगवान् आत्मनोऽयनभूताः शुचीः स्वपूजासाधनयोग्या आपो ऽस्त्राक्षीदित्यन्वयः । ‘अण्डं प्रविष्टो यो विष्णुः सोऽण्डं भित्वा प्रकाशितः ॥’ इत्यादेः ॥ १० ॥
प्रकाशिका
यदुताहं त्वया पृष्टो वैराजपुरुषादिदम् । यथाऽऽसीत्तदुपाख्यास्य इति प्रति-ज्ञातमाह ॥ पुरुष इत्यादिना ॥ सोऽण्डं प्रविष्टो विष्णुर्यदाऽण्डं विनिर्भिद्य स्वशरीरपरिमिता-वकाशवत्कृत्वा विनिर्गतस्तदा पुरुषनामा सन् । अयनं स्थानमन्विच्छन् यतः स्वयं शुचिरतः शुचीः शुद्धा आपो गर्भोदकसंज्ञा अस्राक्षीत्ससर्जेत्यन्वयः । अत्र विनिर्गत इत्यस्य बहिर्गत इत्यन्यथा-प्रतीतिवारणायार्थमाह ॥ विनिर्गतः प्रकाशित इति ॥ बहिर्गमनस्यासङ्गतत्वाद्गत्यर्थानां ज्ञानार्थत्वाच्चेति भावः ॥ १० ॥
तास्ववात्सीत्स्वसृष्टासु सहस्रपरिवत्सरान् ।
तेन नारायणो नाम यदापः पुरुषोद्भवाः ॥ ११ ॥
पदरत्नावली
ततः किं तत्राह- तास्विति ॥ स्वसृष्टासु तासु अप्सु सहस्रपरिवत्सरान् अवात्सीदिति यत् तेन नारायणो नामाभूदित्यन्वयः । ननु अनेन अबयनो ऽप्स्वास इति वा अन्तरेण नारायण इति नाम कथम् अत्राह- यदिति ॥ अनाशात्पुरुषो नरस् तदुद्भवा आपो नारा इति यत् तस्मात् ता नारा अयनं यस्य स नारायण इति । ‘सोऽपोऽसृजत्ततो नारा नरोऽनाशात्परो यतः ॥’ इति च ॥ ११ ॥
प्रकाशिका
अबावासं नारायणं नामनिरुक्त्या दृढयति ॥ तेनेति ॥ यद्यस्मात्पुरुषो नरो नाशाभावात् । तदुद्भवा आपो नारास्ता अस्यायनं तेन कारणेन नारायणो नामाऽभूदिति योज्यम् । पुरुषोऽण्डं विनिर्भिद्येति श्लोकद्वयस्योक्त एवार्थ इति निश्चयाय प्रमाणसंवादं दर्शयति ॥ अण्डं प्रविष्ट इति ॥ भित्त्वा बृंहयित्वा विनिर्गत इत्यस्य व्याख्यानम् ॥ प्रकाशित इति ॥ व्यक्त इत्यर्थः । अपोऽस्राक्षीदित्यस्यार्थः ॥ सोऽप इति ॥ नारा आप इति शेषः । ताश्चास्यायनमतो नारायणनामेति शेषः । तेन नारायणो नामेत्यर्धस्य व्याख्यानमेतत् ॥ ११ ॥
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया ॥ १२ ॥
पदरत्नावली
हरेरियं सृष्टिः स्वाधीनसाधनान्तरसहकृतेत्याशयेनाह- द्रव्यमिति ॥ द्रव्यं पृथिव्यादि ॥ १२ ॥
प्रकाशिका
ननु प्रकृत्यादिद्रव्यमुपादानकारणं कालकर्मादिकं निमित्तं जीवास्त्वदृष्टद्वारा कर्तारो भविष्यन्ति । अत एतैरेव जगदुत्पत्तौ किमीश्वरेणेति शङ्कामपाकरोति ॥ द्रव्यमिति ॥ यदनुग्रहत एव सन्ति कार्यक्षमा भवन्ति । तथा च तदनुग्राहकतयेश्वरोऽप्यङ्गीकार्य इति भावः ॥ १२ ॥
एको नानात्वमन्विच्छन्योगतल्पात्समुत्थितः ।
वीर्यं हिरण्मयं देवो मायया व्यसृजत्त्रिधा ॥ १३ ॥
तात्पर्यम्
‘तत्तन्नियामकत्वेन बहुत्वं प्राप्तुमीश्वरः । अण्डं स्ववीर्यं तत्स्थः सन् कामा-दन्तस्त्रिधा व्यधादि’ति च । ‘अन्तःस्थितहरेः कामादण्डे ब्रह्मतनोर्जनिः (ब्रह्मा ततोऽजनि) । तत्र देवाश्च सञ्जाताः पुनस्तत्त्वात्मकाः प्रभोरि’ति च ॥ १३ ॥
पदरत्नावली
ब्रह्माण्डस्यान्तस्त्रैविध्यमपि श्रीनारायणेनैव कृतमित्याह- एक इति ॥ जले शेषपर्यङ्के शयान एको नारायण एव स्वसृष्टतत्तद्वस्तुनियामकतया अन्तर्यामिरूपैर् नानात्वं बहुत्व-सङ्क्यागोचरत्वमाप्तुमन्विच्छन् योगतल्पात्समुत्थितः देवः लीलालोलः हिरण्मयं स्ववीर्यम् अण्डं मायया स्वेच्छया अन्तस् त्रिधा व्यधात् । ‘तत्तन्नियामकत्वेन बहुत्वं प्राप्तुमीश्वर’ इत्यादेः । किञ्च हिरण्मयं पूर्णसुखं शतानन्दं वीर्यं स्वरेतोरूपं त्रिधा व्यसृजदित्यन्वयः । ‘अन्तस्थितहरेः कामादण्डे ब्रह्म-तनोर्जनिः’ इत्यादेः ॥ १३ ॥
प्रकाशिका
तास्ववात्सीदित्यप्सु शयनमुक्तम् । ततः किं चकारेत्यत आह ॥ एक इति ॥ अत्रैकस्य पुरुषनामकस्य हरेरधिदैवाद्यनेकात्मकत्वमुच्यत इति भाति । अतः प्रमाणेनैव श्लोकतात्पर्यं दर्शयति ॥ तत्तन्नियात्मकत्वेनेति ॥ तथा च नानात्वमित्यस्य नाधिदैवादित्वमित्यर्थः किन्तु तत्तन्नियामकत्वेन बहुरूपत्वमिति भावः । माययेत्यस्य तात्पर्यम् ॥ कामादिति ॥ अन्तो ब्रह्माण्डान्तः वीर्यं हिरण्मयमित्येतद्ब्रह्माण्डपरतया प्रमाणेन व्याख्यातम् । तदेव ब्रह्मदेहपरतयाऽपि प्रमाणेन व्याख्याति ॥ अन्तःस्थितेति ॥ ब्रह्माण्डान्तःस्थितपुरुषनामकहरेरित्यर्थः । अनेन देव इत्येत-दुक्ततात्पर्यम् । वीर्यमित्यस्य तात्पर्यम् ॥ ब्रह्मतनोरिति ॥ यद्यप्यत्र वीर्यं ब्रह्मदेहस्तर्हि तस्य पश्चाद्भावित्वेन पूर्वजाताग्न्यादितत्त्वाभिमानिदेवसृष्टिस्ततो वक्ष्यमाणानुपपन्नेत्याह ॥ तत्र देवा इति ॥ तत्त्वात्मकास्तत्त्वाभिमानिनः । पुनश्चेति चशब्दान्वयः । प्रभुरित्यस्य तात्पर्यम् ॥ प्रभोरिति ॥ ततश्चायं श्लोकार्थः ॥ प्रभुर्देवोऽप्सुशयो नारायणः । एको नानात्वमधिदेवादिनियामकतया बहुरूपत्वमन्विच्छन् प्राप्तुमिच्छन् योग एव तल्पं शय्या तस्मात् । हिरण्मयं हिरण्यात्मकं वीर्यं स्ववीर्यात्मकब्रह्माण्ड-मन्तराधिदेवादिभेदेन मायया स्वेच्छया त्रिधा व्यसृजद्व्यधात् ॥ १३ ॥
अधिदैवमथाध्यात्ममधिभूतमिति प्रभुः ।
पुनस्तत्पौरुषं वीर्यं त्रिधाऽभिद्यत तच्छृणु ॥ १४ ॥
पदरत्नावली
अण्डान्तस्त्रैविध्यप्रकारं कथयति- अधिदैवमिति ॥ प्रभुर् इति, त्रिधा व्यभजदिति शेषः । हरिवीर्यरूपस्य विराजोऽपि त्रैविध्यमस्तीति कथयति- पुनरिति ॥ पुनर्यथा तत्पौरुषं पुरुषाख्यस्य हरेर् वीर्यं विराण्नाम ब्रह्मात्मकं जातं त्रिधा भिद्यत इति त्रिविधमभवत् तथा श्रुण्वित्यन्वयः ॥ १४ ॥
प्रकाशिका
अण्डान्तरेऽध्यात्मादितया सृष्टं ब्रह्मदेहरूपं हिरण्मयं स्ववीर्यं पुनरधिदैवाधिभेदेन त्रिधा व्यधात् । एतदेव विशदयति ॥ पुनरिति ॥ तत्पौरुषं वीर्यं ब्रह्मदेहः । यथा पुनस्त्रिधाऽभिद्यत पुनरधिदैवादित्रिविधसृष्टिहेतुर्जातस्तत्तं प्रकारं शृृण्वित्यर्थः ॥ १४ ॥
अन्तः शरीर आकाशे पुरुषस्य विचेष्टतः ।
ओजः सहो बलं जज्ञे ततः प्राणो महानभूत् ॥ १५ ॥
पदरत्नावली
तत्त्रैविध्यं विवृणोति- अन्तरिति ॥ विराडाख्यब्रह्मशरीरे अन्तराकाशे विचेष्टतः पुरुषस्य हरेर् ओजः सहो बलं पराभिभवसहनस्वेच्छाकरणशक्तयः जज्ञिरे । ततस् तेभ्य ओजआदिभ्यो महान् प्राणो मुख्यप्राणः जज्ञ इत्यन्वयः । ब्रह्मान्तर्यामिहर्योजःसहोबलानुविष्टहिरण्यगर्भोजःसहोबलेभ्यः सर्वेन्द्रियनायकः । ओजःसहोबलात्मको मुख्यप्राणो जात इत्युक्तं भवति । एतेन च पूर्वप्रकृता-ध्यात्माधिभूताधिदैवानां ब्रह्मान्तःस्थनारायणब्रह्मप्राणेभ्यः सृष्टिरिति ज्ञातव्यम् । ‘प्राणेन क्षिपते’त्यादि वक्ष्यमाणत्वात् ॥ १५ ॥
प्रकाशिका
विराडाख्यब्रह्मशरीरेऽन्तराकाशे विशेषेण स्वातन्त्र्येण चेष्टतः पुरुषस्य तन्नामकहरेः सकाशाद्विविधं चेष्टतः पुरुषस्य ब्रह्मण ओजः पराभवशक्तिः सहः सहनशक्तिर् बलं स्वेच्छाकरणशक्तिः । ततस्तदनन्तरं महान्प्राणो मुख्यप्राण ओजआद्यभिमान्यभूज्जातः ॥ १५ ॥
अनुप्राणन्ति यं प्राणाः प्राणन्तं सर्वजन्तुषु ।
अपानन्तमपानन्ति नरदेवमिवानुगाः ॥ १६ ॥
पदरत्नावली
प्राणस्य सर्वेन्द्रियप्रभुत्वं स्पष्टयति- अनुप्राणन्तीति ॥ पिङ्गलया नाड्या अपानन्तम् अधश्चेष्टमानम् ॥ १६ ॥
प्रकाशिका
प्राणस्य महत्त्वं दर्शयति ॥ अनुप्राणन्तीति ॥ प्राणा इन्द्रियदेवाः सूर्यादयः । प्राणन्तं चेष्टां कुर्वन्तम् । अनु पश्चात्प्राणन्ति चेष्टां कुर्वन्ति । अपानन्तं चेष्टां त्यजन्तमनु पश्चादपानन्ति चेष्टां त्यजन्ति । नरदेवं राजानमनुगा भृत्या इव ॥ १६ ॥
प्राणेन क्षिपता क्षुत्तृडन्तरा जायते विभोः ।
पिपासतो जक्षतश्च प्राङ्मुखं निरभिद्यत ॥ १७ ॥
पदरत्नावली
इडापिङ्गलयोः प्राणापानचेष्टाफलमाह- प्राणेनेति ॥ प्राणेनापानेन च । विभोर् विरिञ्चस्य । चतुर्मुखावयवोत्पत्तिकथनपूर्वकं तेभ्योऽध्यात्मदीनामुत्पत्तिप्रकारं प्रपञ्चयति- पिपासत इति ॥ प्राक् आदौ मुखं निरभिद्यत व्यक्तमभवत् ॥ १७ ॥
प्रकाशिका
क्षिपता चालयता निमित्तेन । विभोर्ब्रह्मणो जक्षतो भक्षयितुमिच्छतः प्राक् प्रथमं निरभिद्यत व्यक्तमभवत् ॥ १७ ॥
मुखतस्तालु निर्भिन्नं जिह्वा तत्रोपजायते ।
ततो नानारसो जज्ञे जिह्वया योऽधिगम्यते ॥ १८ ॥
पदरत्नावली
मुखतः मुखे । तालु निरभिनत् । तत्र तालुनि । जिह्वया जिह्वेन्द्रियेण ॥ १८ ॥
प्रकाशिका
मुखतो मुखे ताल्वधिष्ठानमिन्द्रियं तदभिमानी च जिह्वाशब्देन ग्राह्यौ । अधिदेवे वरुणश्चात्र ग्राह्यः । ऐतरेयभाष्येऽधिदैवसृष्टेरपि ब्रह्मदेहादुक्तत्वात् । नानारसो विषयः । एवं सर्वत्रा-धिष्ठानादिचतुष्टयमध्येऽनुक्तमप्यूह्यम् ॥ १८ ॥
विवक्षोर्मुखतो भूम्नो वह्निर्वाग्व्याहृतं तयोः ।
जले वै तस्य सुचिरं निरोधः समजायत ॥ १९ ॥
पदरत्नावली
वाक् वागिन्द्रियम् । तयोर् वह्निवाचोः । अनन्तरं व्याहृतम् अभिवदनम् । शरीरान्तःस्थे नभस्वति वायौ दोधूयति पुनः पुनर्धुन्वति कम्पमाने सति जले अण्डोदके वर्तमानस्य विरिञ्चस्य वायुनिर्गमनद्वाराभावेन निरोधः क्लेशविशेषोऽभूत् ॥ १९ ॥
प्रकाशिका
विवक्षोर्वक्तुमिच्छोर्मुखत एव वह्निर् अधिदैवं वह्निनामा वागिन्द्रियं तदभिमानी च वह्नेरंशस्तन्नामा । व्याहृतमभिवदनम् । तयोरिन्द्रियतदभिमानिनोः सकाशात् । जले गर्भोदके वर्तमानस्य तस्य ब्रह्मणो वायुनिर्गमनद्वाराभावेन निरोधः श्वासनिरोधः ॥ १९ ॥
नासिके निरभिद्येतां दोधूयति नभस्वति ।
तत्र वायुर्गन्धवहो घ्राणो नसि जिघृक्षतः ॥ २० ॥
पदरत्नावली
तदनन्तरं नासिके श्वासोच्छ्वासरूपवायुनिर्गमनागमनद्वारे व्यक्ते । वा इत्यनेनाद्यापि निरोधोऽनुभवसिद्ध इत्याह । जिघृक्षतः घ्रातुमिच्छतो धातुस् तत्र नसि नासिकायां यः नासिक्यः प्राणः स गन्धग्राही वायुर् घ्राणेन्द्रियं तद्विषयो गन्धश्च जात इति शेषः ॥ २० ॥
प्रकाशिका
कस्मिन्सति नभस्वति प्राणवायौ दोधूयति दोधूयमानेऽत्यर्थं प्रचलति सति । वा इत्यनेनाद्यापि निरोधोऽनुभवसिद्ध इति दर्शयति । तत्र नसि नासिकायाम् । वायुरधिदैवं वायुनामा गन्धं वहति गृह्णातीति गन्धवहः । अनेन गन्धो विषयो दर्शितः । घ्राण इन्द्रियं तदभिमानी च । जिघृक्षतो घ्रातुमिच्छतः । जात इति शेषः ॥ २० ॥
यदाऽऽत्मनि निरालोक आत्मानञ्च दिदृक्षतः ।
निर्भिन्ने अक्षिणी तस्य ज्योतिश्चक्षुर्गुणग्रहः ॥ २१ ॥
पदरत्नावली
यदा स विरिञ्च आत्मनि निरालोकः निष्प्रकाशस् तदाऽऽत्मानं स्वशरीरम् अन्यच्च दिदृक्षतस् तस्य । अक्षिणी गोके व्यक्ते । ततः ज्योतिः सूर्यः रूपगुणग्रहश् चक्षुरिन्द्रियं तद्ग्राह्यं रूपञ्च उत्पन्नमिति शेषः ॥ २१ ॥
प्रकाशिका
स ब्रह्मा । यदाऽऽत्मनि देहे विषये निरालोकः प्रकाशशून्यः । आसीदिति शेषः । तदाऽऽत्मानम् । चशब्दादन्यच्च । दिदृक्षतो द्रष्टुमिच्छतस्तस्य ब्रह्मणोऽक्षिणी गोलके, ज्योतिः सूर्योऽधिदैवं ज्योतिर्नामा चक्षुरिन्द्रियं तदभिमानी च । ताभ्यां गुणस्य रूपस्य ग्रहो ग्रहणम् । अनेन रूपं विषयो दर्शितः ॥ २१ ॥
बोध्यमानस्य ऋषिभिरात्मनस्तज्जिघृक्षतः ।
कर्णौ च निरभिद्येतां दिशः श्रोत्रं गुणग्रहः ॥ २२ ॥
पदरत्नावली
ऋषिभिर् ज्ञानसाधनैर् वेदादिभिर् अग्न्यादिभिर्वा बोध्यमानस्य वेदान्निबोधेति विज्ञाप्यमानस्य तस्य विरिञ्चस्य आत्मनस् तद् विज्ञापनं जिघृक्षतः ग्रहीतुकामस्य कर्णौ जातौ । तयोर् दिशः दिग्देवता गुणग्रहः श्रोत्रेन्द्रियं तद्विषयः शब्दश्च ॥ २२ ॥
प्रकाशिका
ऋषिभिर्ज्ञानिभिरग्न्यादिदेवैर्बोध्यमानस्य विज्ञाप्यमानस्यात्मनस्तद्विज्ञापनं जिघृक्षतो गृहीतुकामस्य दिशोऽधिदैवं दिङ्नामानो देवाः श्रोत्रमिन्द्रियं तदभिमानी च । ताभ्यां गुणस्य शब्दस्य ग्रहो ग्रहणम् । अनेन शब्दो विषयो दर्शितः ॥ २२ ॥
वस्तुनो मृदुकाठिन्यलघुगुर्वुष्णशीतताम् ।
जिघृक्षतस्त्वङ्निर्भिन्ना तस्यां रोममहीरुहाः
तत्र चान्तर्बहिर्व्याप्तस्त्वचा लब्धगुणावृतः ॥ २३ ॥
पदरत्नावली
वस्तुनो घटादिपदार्थस्य मृदुत्वादिगुणान् जिघृक्षतः ज्ञातुमिच्छतः विधेः । त्वक् इन्द्रियं, तस्यां त्वचि रोममहीरुहाः । तत्र त्वचि अन्तर्बहिर्व्याप्तोऽथ त्वचा त्वगिन्द्रियेण स्पर्शलब्धेन ज्ञानेन स्पर्शगुणेनावृतः वातः स्पर्शवायुः स्पर्शश्चाभवदित्यन्वयः । गुर्वुष्णेति छान्दसः ॥ २३ ॥
प्रकाशिका
वस्तुनो घटादिपदार्थस्य मृदुत्वं काठिण्यं च । द्वन्द्वान्ते श्रूयमाणस्ताल्प्रत्ययः प्रत्येकं सम्बध्यते । तथा च लघुतां गुरुतामुष्णतां शीततामित्यर्थः । गुर्वुष्णेति छान्दसप्रयोगः । जिघृक्षतो गृहीतुमिच्छतस्त्वगिन्द्रियाधिष्ठानं चर्म तस्यां त्वचि । रोमाणि रोमशब्दवाच्यं त्वगिन्द्रियं तदभिमानिनश्च त एवाधिदैवं महीरुहशब्दवाच्याः पारिजाताद्या देवाः ॥ जाता इति शेषः । ‘त्वचश्च रोमनामानो वृक्षनामान एव च । द्विविधाः पारिजाताद्या बभूवुर्ब्रह्मदेहत’ इति वचनात् । त्वचमस्य विनिर्भिन्नां विविशुर्धिष्ण्यमौषधीः । अंशेन लोमभिरिति तृतीये वक्ष्यमाणत्वाच्चोक्तं युक्तमिति ध्येयम् । अभिमान्यन्तरं दर्शयंस्त्वगिन्द्रियविषयप्रयोजने सूचयति ॥ तत्रेति ॥ तत्र त्वच्यधिष्ठानभूतायामन्तर्बहिस्त्वचा त्वगिन्द्रियेण लब्ध उपलब्धः स चासौ गुणः स्पर्शश्च तेनावृतो युक्तो वातश्च वायुरपि जात इत्यर्थः । अनेन स्पर्शो विषयः । शरीरान्तर्बहिश्च तदुपलब्धिः प्रयोजनमिति सूचितम् ॥ २३ ॥
हस्तौ रुरुहतुस्तस्य नानाकर्मचिकीर्षया ।
तयोस्तु बलवानिन्द्र आदानमुभयाश्रयम् ॥ २४ ॥
पदरत्नावली
उभयौ इन्द्रियेन्द्रियाभिमानिनौ आश्रयौ यस्य तत्तथोक्तम् । आदानमुपादान-हानादिकर्म च ॥ २४ ॥
प्रकाशिका
हस्तावित्यत्र हस्तशब्देनाधिष्ठानम् । बलमिन्द्रियं तद्वांस्तदभिमानी । अनेनेन्द्रियस्याप्युत्पत्तिरुक्तेति ज्ञातव्यम् । रुरुहतुर्निर्भिन्नौ । तयोरिति सप्तमी । अभिमानिनोऽधिदैवं तन्नामाह ॥ इन्द्र इति ॥ आदानमुपादानादिरूपं कर्म । उभयौ इन्द्रियाभिमानिनावाश्रयौ यस्य तथोक्तम्
॥ २४ ॥
गतिं चिकीर्षतः पादौ रुरुहातेऽभिकामतः ।
पद्भ्यां हव्यं स्वयं यज्ञः कर्म यत्क्रियते नृभिः ॥ २५ ॥
पदरत्नावली
गतिं गमनलक्षणं कर्म । यज्ञ इन्द्रपुत्रः । स्वयं तदभिमन्यमाना गतिश्च पद्भ्याम् अभूताम् । तथा नृभिर् यद्धव्यं हविःसम्बन्धि हवनादिकर्म क्रियते यमुद्दिश्य स उपेन्द्रो भगवान् यज्ञान्तर्यामितयाऽभिव्यक्त इति शेषः ॥ २५ ॥
प्रकाशिका
गतिं गमनलक्षणं कर्म । पादावधिष्ठानभूतौ । अभिकामतः स्वेच्छया गतिं चिकीर्षत इत्यन्वयः । पद्भ्यामिन्द्रियाभिमानिभ्यां सह । अधिदैवं तन्नामाह ॥ यज्ञ इति ॥ अत्र यज्ञशब्देनेन्द्रपुत्रस्तन्नियामको हरिश्च विवक्षितः । अत एवाह ॥ स्वयं साक्षाद्यज्ञ इति ॥ जात इति शेषः। प्रसङ्गाद्यज्ञनामकदेवमाहात्म्यं दर्शयति ॥ हव्यं कर्मेति ॥ हविःसबन्धि हवनादिकर्म यत्क्रियते तत्तत्स्वयं यज्ञाभिमन्यमानं ‘क्रियाभिमानाद्यज्ञोऽसावि’ति पूर्वमुक्तत्वात् । हरिपक्षे तु यज्ञमुद्दिश्य हव्यं कर्म क्रियते स हरिरेव स्वयं यज्ञ इति योजना ॥ २५ ॥
निरभिद्यत शिश्नो वै प्रजानन्दामृतार्थिनः ।
उपस्थ आसीत्कामानां प्रियं तदुभयाश्रयम् ॥ २६ ॥
पदरत्नावली
प्रजा सन्ततिस् तन्निमित्ता या रतिस् तस्या जात आनन्दः स एवामृतं तदर्थयितुं शीलमस्येति प्रजानन्दामृतार्थी । तस्य विधेः शिश्न इन्द्रियस्थानं, तस्मिन् शिश्ने कामानां प्रियं परतः प्राप्यसुखसाधनं तादृशमुपस्थेन्द्रियं, तदुभयाश्रयं शिश्नोपस्थाश्रयं रतिसुखञ्चासीत् । कामानां भोगसाधनमिति वा ॥ २६ ॥
प्रकाशिका
शिश्नोऽधिष्ठानं प्रजा सन्ततिश्चानंदश्च मैथुनजन्यः स एवामृतं तदर्थयितुं शील-मस्येति प्रजानन्दामृतार्थी तस्य । उपस्थमिन्द्रियं तदभिमानी च । स एवाधिदैवं मनुनामाऽऽसीदिति ग्राह्यम् । तत्साध्यं दर्शयति ॥ कामानामिति ॥ काम्यानां स्त्रीणां सकाशाद्यत्प्रियं तदभिमानी च सुखं मैथुनजन्यं तदप्यासीदित्यन्वयः ॥ २६ ॥
उत्सिसृक्षोर्धातुमलं निरभिद्यत वै गुदम् ।
ततः पायुस्ततो मित्र उत्सर्ग उभयाश्रयः ॥ २७ ॥
तात्पर्यम्
‘मलादिकं कदाचित्तु ब्रह्मा लोकाभिपत्तये । आत्मनो निर्ममे कामात्सर्वे-षामभवत्ततः । वशित्वात्तस्य दिव्यत्वादिच्छया भवति प्रभोरि’ति च ॥ २७ ॥
पदरत्नावली
धातुमलं पुरीषसंज्ञम् उत्सिसृक्षोस् त्यक्तुकामस्य गुदमपानद्वारं ततस्तस्मिन् गुदे पायुनामेन्द्रियं तत इन्द्रियानन्तरं तत्रैव मित्रनामा देवः । उभयाश्रयः पायुमित्राश्रयः । वा इत्यनेन ‘मलादिकं कदाचित्तु ब्रह्मा लोकाभिपत्तये । आत्मनो निर्ममे कामात्सर्वेषामभवत्तत’ इत्यादिवाक्यं स्मारयति ॥ २७ ॥
प्रकाशिका
धातुमलं भुक्तस्यान्नादेरसारांशं पुरीषसंज्ञम् । उत्सिसृक्षोस्त्यक्तुमिच्छोर्गुद-मधिष्ठानम् । तत्र गुदे पायुस्तन्नामकमिन्द्रियं तदभिमानी च । तत इन्द्रियात् । अधिदैवं स एव मित्रो मित्रनामा जातः । तत्साध्यं कर्माह ॥ उत्सर्ग इति ॥ ननु ब्रह्मदेहस्य दिव्यत्वात्तत्र कथं मलादिकमित्याशङ्कां प्रमाणेनैव परिहरति ॥ मलादिकमिति ॥ आदिपदेन तद्विसर्जनादिकं ग्राह्यम् । लोकाभिपत्तये लोकानां प्राप्त्यर्थम् । आत्मनः स्वस्य । देह इति शेषः । कामादित्युक्तमुपपादयति । वशित्वादिति ॥ स्वतन्त्रत्वादित्यर्थः । पाय्वादीन्द्रियदेवानधीनत्वादिति यावत् । तस्य ब्रह्मदेहस्य दिव्यत्वात् स्वभावतोऽसारांशशून्यत्वात् । प्रभोर्ब्रह्मण इच्छयैव भवतीत्यङ्गीकार्यमित्यर्थः। अत्र हि ब्रह्मा इन्द्रियाभिमानिदेवैः स्वस्वव्यापारान् सर्वलोकदेहेषु प्रकाशयितुं स्वदेहे तावत्कारितवानित्युच्यते । अतः स्वदेहे मलाद्यभावेऽपीच्छयैव तात्कालिकं मलं सृष्ट्वा तदुत्सर्जनं कारितवानिति भावः । एवं प्रमाणसिद्धार्थतां दर्शयितुं मूले वैशब्दः ॥ २७ ॥
आसिसृक्षोः पुरः पुर्यां नाभिद्वारमपावृतम् ।
ततोऽपानस्ततो मृत्युः पृथक्त्वमुभयाश्रयम् ॥ २८ ॥
पदरत्नावली
परकायप्रवेशप्रकारमाह- आसिसृक्षोरिति ॥ पुरः स्वाधिष्ठितदेहात् पुर्याम् अन्यस्मिन्देहे पुरीं पुरीतन्नामनाडीविशेषम् आसिसृक्षोः प्रवेष्टुकामस्य । विरिञ्चस्येत्युपलक्षणम् । योगिनां नाभिद्वारमपावृतं विवृतम् । ततो नाभिद्वाराद् अपानवायुस् तस्मान्मृत्युस् तदुभयाश्रयं पृथक्त्वं देहान्तर-प्राप्तिलक्षणं चोत्पन्नम् । अत्र मृत्युर्मरणं तत्प्रापकश्चापानः । इदं ब्रह्मणो न । किन्तु देहिना-मित्यनुसन्धेयम् ॥ २८ ॥
प्रकाशिका
छिद्रोत्पत्तिकथनप्रसङ्गान्नाभिरूपछिद्रस्याप्युत्पत्तिं तत्प्रयोजनं च दर्शयति ॥ आसिसृक्षोरिति ॥ पुरः स्वाधिष्ठिताद्देहात् । पुर्यामन्यस्मिन्देहे आसिसृक्षोर्गन्तुमिच्छोर्नाभिलक्षणं द्वारमपावृतं व्यक्तमभवत् । ततो नाभिद्वारादपानोऽपाननामा मुख्यवायुस्ततोऽपानान्मृत्युर्मृत्युनामकं मुख्यवायोरेव रूपान्तरमधिदैवं जातमित्यर्थः । पृथक्त्वं मरणमुभयाश्रयमुभावपानमृत्यू आश्रयौ हेतुभूतौ यस्य तत् तथोक्तम् । मृत्योर्मारकत्वं प्रसिद्धम् । नाभिदेशस्थापानोऽपि यदा नाभेर्विश्लिष्टा भवति तदा मलोत्सर्जनाधिक्येन मरणं भवतीत्यनुभवसिद्धम् । अत्र ब्रह्मदेहे मरणोत्पत्तिकथनस्य तात्पर्यं मलोत्पत्ति-कथनस्येव द्रष्टव्यम् । सर्वलोकाभिपत्तये स्वदेहे इच्छयैव ब्रह्मणा कदाचिन्मरणं निर्मितमतस्तत्सर्वेषाम-भवदिति न्यायसाम्यात् ॥ २८ ॥
आदित्सोरन्नपानानाम् असृक्कु(क्ष्यान्त्रनाडयः)क्ष्यन्त्रनाडिके ।
नद्यः समुद्राश्च तयोस्तृप्तिः पुष्टिस्तदाश्रये ॥ २९ ॥
पदरत्नावली
अन्नपानानाम् अन्नपानानि । आदित्सोर् आदातुकामस्य विरिञ्चस्य कुक्षिनाड्याव-भूताम् । असृजः रुधिरस्य स्थानं कुक्षिः । अन्त्रस्थानं नाडी द्वासप्ततिसहस्रभेदभिन्ना । तयोः कुक्षिनाड्योः समुद्रा नद्यश्चासन् । तृप्तिः पुष्टिश्च तदाश्रये । तृप्तिः कुक्ष्याश्रया, पुष्टिर् नाड्याश्रया
॥ २९ ॥
प्रकाशिका
अन्नपानानामन्नपानानि । आदित्सोरादातुकामस्य ब्रह्मणोऽसृग्रुधिरमिन्द्रियस्थानीयं कुक्षि रुधिरमधिष्ठानम् । आन्त्रशब्देन क्षुत्पिपासेऽपि ग्राह्ये । तथा चान्त्रशब्दगृहीतं सर्वमिन्द्रिय-स्थानीयम् । नाडयः नाड्यो नाड्यधिष्ठानभूता नद्यः समुद्राश्चात एव नदीसंज्ञाः समुद्रसंज्ञाश्च देवाः । तयोः कुक्षिनाड्योः । आसन्निति शेषः । तदुभयप्रयोजनमाह ॥ तृप्तिरिति ॥ क्षुत्पिपासानिवृत्तिस्तृप्तिः । अन्नरसपरिणतं स्थौल्यं पुष्टिः । तदाश्रये तन्निमित्ते । अत्र नाड्योऽधिष्ठानं रुधिरमध्यात्मं रुधिरनामानो देवाश्च तदाश्रिताः । त एव बहिर्नदीनामानः कुक्षिरधिष्ठानम् । आन्त्रमध्यात्ममान्त्रनामानो देवाश्च तदाश्रितास्त एव बहिः समुद्रनामान एतदुभयसर्गसाध्ये तृप्तिपुष्टी इति विवेकः । ‘नाड्यश्च निरभिद्यन्त ताभ्यो लोहितमाहृतम् । नद्यस्ततः समभवन्नुदरं निरभिद्यत । क्षुत्पिपासे ततः स्यातां समुद्रश्च ततोऽभवत्’ इत्यग्रे वक्ष्यमाणत्वादेवमेव व्याख्येयम् ॥ २९ ॥
निदिध्यासोरात्ममायां हृदयं निरभिद्यत ।
ततो मनश्चन्द्र इति सङ्कल्पः काम एव च ॥ ३० ॥
पदरत्नावली
आत्ममायां विष्णुसृष्ट्यादिमहिमानं निदिध्यासोर् ध्यातुकामस्य हृदयं मनो-निवासस्थानमभूत् । ततो हृदयान् मनः मनसश् चन्द्रोऽधिदेवता सङ्कल्पः कामश्च मनोवृत्तिविशेषौ अभूताम् । इतिशब्दोऽनिरुद्धग्रहणार्थः ॥ ३० ॥
प्रकाशिका
आत्ममायां विष्णुमाहात्म्यं निदिध्यासोर्नितरां चिन्तयितुमिच्छोर्हृदयमधिष्ठानम् । मन इन्द्रियं तन्नामाभिमानी च । स एवाधिदैवं चन्द्र इति प्रसिद्धः । सङ्कल्पः कामः । चशब्दात् क्रोधादयोऽपि वृत्तिविशेषास्तत एवेन्द्रियाभिमानिभ्यामेव । जाता इति शेषः ॥ ३० ॥
त्वक्चर्ममांसरुधिरमेदोमज्जास्थिधातवः ।
भूम्यप्तेजोमयाः सप्त प्राणो व्योमाम्बुवायुभिः ॥ ३१ ॥
पदरत्नावली
त्वगाद्याः सप्तधातवः शरीरस्थितिहेतुभूता जाता इति शेषः । तेषां निदानमाह- भूमीति ॥ मुख्यप्राणाभिमन्यमानजडरूपप्राणोपादानकारणमाह- प्राण इति ॥ मुख्यप्राणेनाभिमन्य- मानजडप्राणः व्योमाम्बुवायुभिः सृष्ट इति शेषः ॥ ३१ ॥
प्रकाशिका
त्वगाद्याः सप्तधातवः । जाता इति शेषः । अध्यात्मं ब्रह्मण उत्पन्नानामुपादानानि दर्शयन्नव्यवधानेन प्रकृतानां सप्तधातूनां तावदुपादानं वक्तुं भूम्यप्तेजोमया इति विशेषणम् । ब्रह्मदेहगतभूम्याद्युपादानका इत्यर्थः । प्राणो मुख्यप्राणदेहरूपो जडप्राणः । व्योमाम्बुवायुभिर्ब्रह्मदेहगतैः । विकृत इति शेषः ॥ ३१ ॥
गुणात्मकानीन्द्रियाणि भूतादिप्रभवा गुणाः ।
मनः सर्वविकारात्मा बुद्धिर्विज्ञानरूपिणी ॥ ३२ ॥
पदरत्नावली
इन्द्रियोपादानकारणमाह- गुणेति ॥ गुणाः सत्वादयः । गुणकारणमाह- भूतादीति ॥ बुद्धिस्वरूपमाह- बुद्धिरिति ॥ विज्ञानरूपिणी निश्चयज्ञानरूपिणी ॥ ३२ ॥
प्रकाशिका
इन्द्रियाणि श्रोत्रादीनि बाह्येन्द्रियाणि गुणात्मकानि । अत्र गुणशब्देन ब्रह्मदेहानु-स्यूतस्तैजसाहाङ्कारांशो ग्राह्यः । तदुपादानकानीत्यर्थः । अथवा गुणाः शब्दादय आकाशादिभूतद्वारा तदुपादानकानीत्यर्थः । तेषां भूतैरुपचयः सृष्टिकाले विधीयत इति वचनात् । गुणाः शब्दादयो विषयाः । पूर्वमुत्पन्नतयोक्तो भूतादिर्ब्रह्मदेहगतस्तामसोऽहङ्कारस्तस्मात्प्रभवो विकारो येषां ते तथा । सर्वेषामिन्द्रिय-देवदेहानां विकारो यस्मात्स ब्रह्मदेहानुस्यूतो वैकारिकोऽहङ्कारस्तद्रूपमित्यर्थः । बुद्धिरिन्द्रियप्रयोजन-तयोक्ता या शब्दादिविषयनिश्चयरूपा सा विज्ञानं ब्रह्मदेहानुस्यूतं महत्तत्त्वं तत्स्वरूपिणी तदुपादानिकेत्यर्थः ॥ ३२ ॥
एतद्भगवतो रूपं स्थूलं ते व्याहृतं मया ।
मह्यादिभिश्चावरणैरष्टभिर्बहिरावृतम् ॥ ३३ ॥
तात्पर्यम्
‘स्थूलं भगवतो रूपं ब्रह्मदेह उदाहृतः । तत्तन्त्रत्वाच्च सूक्ष्मं च शङ्खचक्र-गदाधरमि’ति चाध्यात्मे ॥ ३३ ॥
पदरत्नावली
ब्रह्मशरीरस्य भगवत्प्रतिमात्वं स्पष्टयति- एतदिति ॥ पञ्चभूताहङ्कारतत्वमहत्तत्व-प्रकृत्याख्याष्टावरणावृतम् एतत् स्थूलं विराडाख्यं ब्रह्मशरीरं भगवतो नारायणस्य प्रतिमारूपं ते तव मया व्याहृतमित्यन्वयः । तदुक्तम्- ‘स्थूलं भगवतो रूपं ब्रह्मदेह उदाहृतः । तत्तन्त्रत्वाच्च’ इति ॥ ३३ ॥
प्रकाशिका
पुरुषावयवैर्लोका इत्यत्र लोकादीनां हरिप्रतिमात्वेनोपासनार्थं या पुरुषावयवैर्जाता सृष्टिः पृष्टा तामुक्त्वोपसंहरति ॥ एतदिति ॥ अत्र स्थूलरूपमित्यनेन किमुक्तमिति न प्रतीयते अतः-परमित्यनेन च निराकारमुच्यत इति प्रतीयतेऽतः प्रमाणेनैव श्लोकद्वयतात्पर्यं दर्शयति ॥ स्थूलमिति ॥ तथा च मूले रूपशब्दो देहपर इति भावः । ननु ब्रह्मदेहस्य जडत्वात्कथं भगवद्देहत्वमित्याशङ्कायाम् उपचारत एवेत्यभिप्रेत्योपचारबीजं दर्शयति ॥ तत्तन्त्रत्वादिति ॥ चशब्दोऽवधारणे । न मुख्यवृत्त्येत्यर्थः । सूक्ष्मं रूपं द्वितीयश्लोकोक्तं शङ्खचक्रगदाधरमेव न निराकारमित्यर्थः ॥ ३३ ॥
अतःपरं सूक्ष्मतममव्यक्तं निर्विशेषणम् ।
अनादिमध्यनिधनं नित्यं वाङ्मनसोः परम् ॥ ३४ ॥
तात्पर्यम्
निर्विशेषणं निरतिशयम् । ‘अस्य काव्यस्य कवयो न समर्था विशेषण’ इतिवत् ॥ ३४ ॥
पदरत्नावली
ननु तर्हि हरेर् निजं रूपं कीदृशमत्राह- अत इति ॥ अतो ब्रह्मणो देहाच्च परं विलक्षणमपि स्थूलं किं नेत्याह- सूक्ष्मतममिति ॥ सूक्ष्माणामप्यतिशयेन सूक्ष्मम् । ‘अणोरणीयानि’ति श्रुतेः । महत्परिमाणाभावेनाचाक्षुषत्वेन भक्तानां दिदृक्षोपासा व्यर्थेत्यत उक्तं- अव्यक्तमिति ॥ महत्परिमाणवत्वेऽपि स्वप्रसादमन्तरेण चाक्षुषं न स्यादित्यर्थः । ‘महतो महीयानि’ति श्रुतेः, ‘यमेवैष वृणुते तेन लभ्य’ इति श्रुतेः । तदुक्तं ‘सूक्ष्मञ्च शङ्खचक्रगदाधरम्’ इति च । अन्यस्य कस्यचिदतिशय-लक्षणविशेषणसम्भवे कथमेतदित्यत उक्तम्- निर्विशेषणमिति ॥ निर्गतं विशेषणम् अतिशयलक्षणं यस्मात्तत्तथोक्तम् । ‘अस्य काव्यस्य कवयो न समर्था विशेषण’ इति दर्शनात् । एवंविधस्यापि वस्तुत्वेन घटवदाद्यन्तवत्वं किं न स्यादिति मन्दाशङ्कापरिहारायोक्तम्- अनादीति ॥ आदिमध्यान्तशून्यम् । नैतदौपचारिकमत उक्तम्- नित्यमिति ॥ नित्यमविनाशि । ‘नित्यो नित्यानामि’ति श्रुतिः । चाक्षुष-स्वभावाभावेऽपि वागादिविषयत्वं स्यादत उक्तम्- वाङ्मनसोः परमिति ॥ वाङ्मनसोरगोचरः सरस्वतीरुद्रोत्तमं वा ॥ ३४ ॥
प्रकाशिका
निर्विशेषणशब्दस्य निर्धर्मकत्वप्रतीतिनिरासायार्थमाह ॥ निर्विशेषणमिति ॥ विशेषणशब्दस्यातिशयवाचकत्वेऽभियुक्तप्रयोगं प्रमाणयति ॥ अस्येति ॥ विशेषणेऽतिशयने । एतत्का-व्यापेक्षयाऽतिशयितं काव्यं कर्तुं न समर्था इत्यर्थः ॥ ततश्चायं श्लोकद्वयार्थः ॥ भगवतो वैराजस्य पुरुषस्यैतद्ब्रह्माण्डाख्यं तदन्तर्गतं ब्रह्मशरीरं च रूपमिव रूपं देहतुल्यं तदधीनत्वगुणयोगात् । मया व्याहृतं पातालमेतस्येत्यादिनोक्तावधारणार्थं त्वया पृष्टमिति शेषः । स्थूलत्वमेव दर्शयति ॥ मह्यादि-भिरिति ॥ आवृत्तं चेत्यन्वयः । अष्टभिः पञ्चभूताहङ्कारमहत्तत्त्वगुणत्रयाख्यैः ।
ननु तर्हि हरेर्निजं रूपं कीदृशमित्यत आह ॥ अतःपरमिति ॥ अतो जडदेहात्परं भिन्नं चिद्रूपमतो ब्रह्मादिचेतनसमूहात्परमुत्तममिति वा । एतदुपपादयितुं वक्ष्यमाणविशेषणानि । सूक्ष्मतमम् । स्थूलतमत्वेऽपीति शेषः । निर्गतविशेषणमतिशयनं यस्मात्तत्तथोक्तम् । अनादिमध्यनिधन-मादिमध्यावसानशून्यम् । नित्यं सदैकरूपम् । वृद्धिह्रासादिवर्जितमित्यर्थः । परमगोचरमिति ॥ ३४ ॥
अमुनी भगवद्रूपे मया ते ह्यनुवर्णिते ।
उभे अपि न गृह्णन्ति मायासृष्टेऽविपश्चितः ॥ ३५ ॥
तात्पर्यम्
मायासृष्टे जगति ये अविपश्चितः ॥ ३५ ॥
पदरत्नावली
प्रेक्षावद्गृहीते उभे अपि ग्राह्ये इत्याशयेन उपसंहरति- अमुनी इति ॥ स्थूलसूक्ष्मे अमुनी भगवद्रूपे मया ते तव अनुवर्णिते । मायासृष्टे भगवदिच्छया प्रकृत्या च विरचिते । जगति ये अविपश्चितो ऽपण्डिता ज्ञानदुर्बलास् ते जना उभे अपि रूपे न गृह्णन्ति न जानन्ति इत्यन्वयः ॥ ३५ ॥
प्रकाशिका
रूपद्वयकथनमुपसंहृत्य तस्य विपश्चिदविपश्चिज्ज्ञेयत्वाज्ञेयत्वे च दर्शयति ॥ अमुनीति ॥ अत्र मायासृष्ट इति द्वितीयाद्विवचनं भगवद्रूपयोर्विशेषणम् । तेन माययाऽविद्यया कल्पिते न परमार्थे सती इत्यन्यथाप्रतीतिवारणाय मायासृष्ट इत्येतद्व्याचष्टे ॥ मायासृष्ट इति ॥ तथा च सप्तम्यन्तमिदम् । प्रकृतिनिर्मितजगद्वाच्येवेत्यर्थः । ननु विपश्चितो न गृह्णन्तीति विरुद्धम् । तथात्वे स्वस्याप्यज्ञानित्वप्राप्त्या तद्वर्णनायोगात् । अतोऽत्राभिमतं छेदं दर्शयति ॥ य इति ॥ य इत्युक्त्या विपश्चितस्तु गृह्णन्ति हीत्यपि योजनां सूचयति ॥ ३५ ॥
स वाच्यवाचकतया भगवान्ब्रह्मरूपधृक् ।
नामरूपक्रिया धत्ते सकर्माकर्मकः परः ॥ ३६ ॥
तात्पर्यम्
‘नामैव वाचकत्वेन नामरूपक्रिया अपि । वाच्यत्वेन हरिर्देवो नियामयति चैकराडि’ति च । ‘कर्तृत्वात्तु सकर्माऽसौ निष्फलत्वादकर्मक’ इति च ॥ ३६ ॥
पदरत्नावली
मायामये जगति विपश्चित उभे कार्यकारणरूपे न गृह्णन्ति नाङ्गीकुर्वन्तीत्ये-तदपव्याख्यानं प्रत्याह- स वाच्येति ॥ ‘नामैव वाचकत्वेन नामरूपक्रिया अपि । वाच्यत्वेन हरिर्देवो नियामयति चैकराट् । कर्तृत्वात्तु सकर्मासौ निष्फलत्वादकर्मकः’ इत्यनेन व्याख्यातोऽयं श्लोकः । निष्फलत्वात् कर्मफलानपेक्षत्वात् । नन्वेकस्य नानानामरूपक्रियाधारकत्वं मायामन्तरेण कथं सञ्जा-घटीतीत्यत उक्तम्- ब्रह्मेति ॥ अन्तर्बहिर्व्याप्तं यद् ब्रह्मशब्दवाच्यं रूपं तस्य धारकत्वाद् घटत इत्यर्थः। ‘ब्रह्म वेदस्तपस्तत्वम् इत्यतो वेदादिशब्दराशिधृतत्वाद्वा । अनेन प्रपञ्चस्य वेदादिप्रमाणसिद्धत्वेन सत्यत्वात् तस्य मायामयत्वे वेदादेरप्रमाणत्वेन तदुक्ततदैक्यस्यापि तथात्वेन विश्वस्यैव सत्यत्वं न्यायप्राप्तमित्युक्तं भवति ॥ ३६ ॥
प्रकाशिका
एवं ब्रह्मदेहान्तर्गताद्वैराजात्पुरुषात्सृष्टिमभिधाय तस्य स्थितिकर्तृत्वमपि दर्शयितुं नामरूपक्रियानियमनकर्तृत्वं च तावदाह ॥ स वाच्यवाचकतयेति ॥ अत्र नामरूपक्रिया वाच्यवाच-कतया धत्त इत्युक्त्या रूपक्रिययोरपि वाचकतया धारणं प्रतीयते । अमूर्तानां नामादीनां धारणं च कीदृशमित्यतो अस्य तात्पर्यं प्रमाणेनैवाह ॥ नामैवेति ॥ वाचकत्वेन नियामयतीति सम्बन्धः । धत्त इत्यस्यार्थः ॥ नियामयतीति ॥ पर इत्यस्यार्थः ॥ एकराडिति ॥ चशब्दो यस्मादेकराट् स्वतन्त्र इति हेत्वर्थे । सकर्माकर्मक इति व्याहतं किमुच्यत इत्यतोऽस्याभिप्रायं प्रमाणेनैवाह ॥ कर्तृत्वादिति ॥ तुशब्दो विशेषार्थः । तथा च मुख्यतया कर्तृत्वादित्यर्थः । निष्फलत्वात्कर्मसाध्यफलशून्यत्वात् । सकर्माकर्मकश्चोच्यत इति शेषः ॥ ततश्चायं श्लोकार्थः ॥ ब्रह्मरूपधृक् ब्रह्मदेहान्तर्गतः स वैराजः पुरुषः । नामरूपक्रिया वाच्यवाचकतया धत्ते । नामशब्दजातं वाचकत्वेन नामरूपक्रिया वाच्यतया धत्ते नियामयति । अत एव मुख्यकर्तृत्वात्सकर्मा । तत्साध्यफलशून्यत्वादकर्मकश्चोच्यते वेदेषु । यतः परः स्वतन्त्र इति ॥ ३६ ॥
प्रजापतीन् मनून् देवानृषीन् पितृगणान् पृथक् ।
सिद्धचारणगन्धर्वान् विद्याध्रासुरगुह्यकान् ॥ ३७ ॥
किन्नराप्सरसो नागान् सर्पान् किम्पुरुषानपि ।
मातृरक्षःपिशाचांश्च प्रेतभूतविनायकान् ॥ ३८ ॥
तात्पर्यम्
प्रजापत्यादीन्धत्ते ॥ ३७ ॥
पदरत्नावली
उक्तमेव विशदयति- प्रजापतीनित्यादिना ॥ सर्वनामरूपक्रियावतः प्रजापत्या-दीन् नामरूपक्रियाश्च धत्त इति पूर्वेणान्वयः । मातरो ऽदित्यादयः । ब्राह्म्याद्या वा । पिशाचा घण्टाकर्णादयः । प्रेता महोदरादयः । भूता भृङ्गिरुट्यादयः । विनायका विघ्नादयः ॥ ३७- ३८ ॥
प्रकाशिका
वाच्यवाचकतया नामरूपक्रिया धत्त इत्युक्तमेव प्रपञ्चयति ॥ प्रजापतीनिति सार्धैस्त्रिभिः ॥ अत्र द्वितीयान्तानामन्वयो न प्रतीयतेऽत आह ॥ प्रजापत्यादीन्धत्त इति ॥ तेन धत्त इति पूर्वोक्तक्रियापदमत्राप्यनुवर्तनीयमित्युक्तं भवति । प्रजापतीनित्यादिमूलस्य प्रजापत्यादिशब्दान् वाचकतया ब्रह्मादिदेहान् तत्क्रियाश्च वाच्यतया धत्त इत्यर्थः । पृथक् तत्तदवान्तरभेदेन ॥३७-३८॥
कूष्माण्डोन्मादवेतालान् यातुधानान् ग्रहानपि ।
खगान् मृगान् पशून् वृक्षान् गिरीन् नृप सरीसृपान् ॥ ३९ ॥
पदरत्नावली
कूष्माण्डाः पलण्डवादयः । उन्मादाः कालकर्णादयः । यातुधाना रक्षोविशेषा भृगुकुत्सादयः । ग्रहा अष्टादश । नवग्रहा वा । हे नृप । नृपाः प्रियव्रतादयो वा । सरीसृपाः सहस्रपादादयः ॥ ३९ ॥
प्रकाशिका
हे नृप नृपाः प्रियव्रतादय इति वा । सरीसृपाः सर्पादयः ॥ ३९ ॥
विविधाश्चतुर्विधाश्चान्ये जलस्थलनभौकसः ।
कुशलाकुशलमिश्राणां कर्मणां गतयस्त्विमाः ॥ ४० ॥
पदरत्नावली
सङ्ख्यातुमशक्यत्वात्सामान्यतो निर्दिशति- विविधा इति ॥‘व्योमर्क्षपथ आकाशं नभः शब्दगुणोऽम्बरम् । पुष्करं गगनं विष्णोः पदं द्यौरभ्रमुच्यत ॥’ इत्यभिधानान्नभःशब्द उभयलिङ्गः । तेषामुत्तमादित्वे कारणमाह- कुशलेति ॥ उक्ता इमा जातयः कुशलादिकर्मणां गतयः फलानि ॥ ४० ॥
प्रकाशिका
प्रत्येकं निर्देष्टुमशक्यत्वात्सामान्यतो निर्दिशति ॥ विविधा इति ॥ द्विविधा इति पाठे स्थावरजङ्गमरूपेण द्विविधा इत्यर्थः । चतुर्विधा जरायुजाण्डजस्वेदजोद्भिज्जरूपेण । जलस्थलन-भांस्योकांसि येषां तानपि धत्त इति पूर्वेणान्वयः ॥ अत्रोत्तमाधममध्यमा जातयो निर्दिष्टाः । तासामुत्तमत्वादौ किं कारणमित्यपेक्षायामाह ॥ कुशलेति ॥ कुशलं पुण्यम् । अकुशलं पापम् । मिश्रं पुण्यपापरूपम् । इमाः पूर्वोक्ता जातयः । गतयः फलरूपाः ॥ ४० ॥
सत्वं रजस्तम इति तिस्रः सुरनृनारकाः ।
तत्राप्येकैकशो राजन् भिद्यन्ते गतयस्त्रिधा ॥ ४१ ॥
तात्पर्यम्
तामसास्तामसा दैत्याः प्रधाना देवशत्रवः । तामसा राजसास्तेषामनुगास्तेषु सात्विकाः । अनाख्यातासुराः प्रोक्ता मानुषा दुष्टचारिणः । राजसास्तामसाश्चैव मध्या राजस-राजसाः । राजसाः सात्विकास्तत्र मानुषेषूत्तमा गणाः । देवाः पृथगनाख्याताः स्मृताः सात्विकतामसाः । अतात्विकास्तथाऽऽख्याताः स्मृताः सात्विकराजसाः । सात्विकाः सात्विकास्तत्र तात्विकाः परिकीर्तिताः । तेषां च सात्विकाः शेषगरुत्मद्रुद्रतत्स्त्रियः । ततोऽपि देवी ब्रह्माणी ब्रह्मा चैव ततः स्वयम् ॥ ४१ ॥
पदरत्नावली
उक्तजातीस् त्रेधा विभजति- सत्वमिति ॥ सत्वं रजस्तम इति गुणत्रयहेतुकाः सुरनृनारका इति तिस्रो ज्ञेया इत्यन्वयः । सत्वहेतुकपुण्यफला सुरगतिः । रजोहेतुकपुण्यपापफला मनुष्यगतिः । तमोहेतुकपापफला नारकी गतिः । अनेन नरकयोग्या असुरा इत्युक्तं भवति । अवान्तर-भेदोऽपि त्रिधेत्याह- तत्रापीति ॥ गुणत्रयमूलकर्मभ्यः प्राप्तसुरनरासुरगतयः प्रत्येकं सात्विकराजस-तामसतया त्रिधा भवन्ति । तथा हि- कल्यादिप्रधाना असुरास् तामसतामसाः । प्रधानासुरभृत्यास् तामसराजसाः । अप्रसिद्धासुरास्तामससात्विकाः । केवलपापचारिणो मनुष्या राजसतामसाः । मिश्रकर्मकृतो मनुष्या राजसराजसाः । मनुष्येषु पुण्यैककर्मकृत उत्तममनुष्या राजससात्विकाः । पृथगप्रसिद्धा देवाः सात्विकतामसाः । अतत्वाभिमानिनो लोके ख्याताः सात्विकराजसाः । तत्वाभिमानिनो देवाः सात्विकसात्विकाः । सात्विकेभ्योऽपि सात्विका गरुडादित्रिकतद्भार्याः । तेभ्योऽपि सात्विकी ब्रह्मभार्या सरस्वती । ततोऽपि सात्विको ब्रह्मेति भेद एकैकश इति शप्रत्ययेन ज्ञायते । तदुक्तम्- ‘तामसास्तामसा दैत्याः प्रधाना देवशत्रव’ इत्यादिना ॥ ४१ ॥
प्रकाशिका
त्रिविधकर्मफलरूपाणामुक्तजातीनां प्रकारान्तरेणापि त्रैविध्यमाह ॥ सत्त्वमिति ॥ अत्र सत्त्वादिशब्दाः सात्विकराजसतामसपराः । गतय इत्यत्राप्यन्वयः । तथा च गतयः पुण्यादि-फलरूपा जातयः सात्त्विकराजसतामसा इति तिस्रस्त्रिविधा इत्यर्थः । तान्निर्दिशति ॥ सुरेति ॥ अत्र सुरशब्देन क्षितिपगन्धर्वऋषिपितरोऽपि ग्राह्याः । नारका असुराः । तथा च सात्त्विका ब्रह्मादयः क्षितिपान्ताः । राजसा नृशब्दवाच्या मनुष्याः । तामसा असुरा इति विवेकः । एवं विभक्तानां पुनरवान्तरविभागमाह ॥ तत्रापीति ॥ अत्रापि सात्त्विकादिष्वपि । विद्यमाना इति शेषः । एकैकशः प्रत्येकम् । गतयः कर्मफलरूपाः सुरादिजातयः । तथा च सात्त्विकास्त्रिविधाः । सात्त्विकसात्त्विकाः सात्त्विकराजसाः सात्त्विकतामसा इति । राजसा अपि त्रिविधाः । राजससात्त्विका राजसराजसा राजसतामसा इति । तामसा अपि त्रिविधास् तामससात्त्विकास्तामसराजसास्तामसतामसा इति प्रत्येकं सात्त्विकादिरूपा गतयो भिद्यन्त इत्यर्थः । अत्र प्रत्येकं सात्त्विकादिभेदेन भिन्नाः सात्त्विकादयः क इत्यपेक्षायां मूलेऽनुक्तांस्तान्नीचक्रमेण प्रमाणेनैव दर्शयति ॥ तामसास्तामसा इत्यादिना ॥ अनाख्याता-सुरा अप्रसिद्धासुराः । दुष्टचारिणो मानुषा मनुष्याधमाः । चशब्दस्तुशब्दार्थः । राजसराजसास्तु मध्यमा मध्यममानुषा इत्यन्वयः । राजसाः सात्त्विका राजससात्त्विका उत्तममानुषाः ।
देवा इति ॥ अत्र देवशब्देन क्षितिपानारभ्य चिरपितृपर्यन्ता उत्तमजीवा ग्राह्याः । पृथक् प्रत्येकमनाख्याताः । देवत्वेनेति शेषः । तथा ख्याता देवत्वेन ख्याता इत्यर्थः । ते चाजानजा देवाः कर्मदेवाश्च ज्ञेयाः । सात्त्विकाः सात्त्विकाः सात्त्विकसात्त्विकास्ते च विष्वक्सेनं तत्समांश्चार-भ्योपरितनाः । तत्रापि सात्त्विकसात्त्विकेष्वपि गतयस्त्रिधा भिद्यन्त इत्यपि मूले योजनामभिप्रेत्य सात्त्विकसात्त्विकोत्तमान्दर्शयति ॥ तेषां चेति ॥ सात्त्विकसात्त्विकानामपि मध्य इत्यर्थः । सात्त्विका अतिशयेन सत्त्वगुणोपेताः । निर्धारणेन तथा लाभात् । ब्रह्माणी सरस्वती ततोऽप्यतिशयेन सात्त्विकी । सात्त्विकतरा । ततश्च ब्रह्माण्या अपि ब्रह्मा स्वयमेवान्यजीवप्रेरणां विनैवातिशयेन सात्त्विकाः सात्विकतमा इत्यर्थः ॥ ४१ ॥
यदैवैकतमो(अन्याभ्यां)द्वाभ्यां स्वभाव उपहन्यते ।
तदैवेदं जगद्धाता भगवान् धर्मरूपधृक् ।
पुष्णाति स्थापयन् विश्वं तिर्यङ्नरसुरात्मभिः ॥ ४२ ॥
तात्पर्यम्
सात्विकेषु त्रिषु यदा त्वेकस्य प्रतिबाधनम् । रजस्तमोभ्यां विष्णुर्हि तदा प्रादुर्भवत्यजः । राजसांस्तामसान्हत्वा सात्विकान्वर्धयिष्यती’ति स्कान्दे ॥ ४२ ॥
पदरत्नावली
एवं जगत्स्वरूपं निरूप्याधुना भगवदवतारावसरमाह- यदेति ॥ यदा एकतमः स्वभावः सात्विकः । अन्याभ्यां रजस्तमोभ्याम् उपहन्यते, तदैव तस्मिन्नवसर एव । धाता पोषणादिकर्ता वर्णाश्रमादिधर्मप्रवर्तकरूपधरो भगवान् तिर्यङ्नरसुरात्मभिर् मत्स्यकूर्मवराहरामकृष्णोपेन्द्रादिरूपैरवतीर्य इदं जगत् सत्वेन स्थापयन् पुष्णाति कृशं संवर्धयति । स्थितं रक्षतीत्यन्वयः । तेषु त्रिषु एकतमो भावः सात्विकतामसः सात्विकराजसः सात्विकसात्विको वा तामसराजसाभ्यामुपहन्यते तदेति वा । यदा तैस् तामसादिभिः राजसतामसादिभिश्च दैत्यदानवराक्षसादिभिस् ते त्रयः सात्विकभेदा बाध्यन्ते तदा वराहादिरूपैरिति वा । तदुक्तम् ‘सात्विकेषु त्रिषु यदा त्वेकस्य प्रतिबाधनम्’ इत्यादिना ॥ ४२ ॥
प्रकाशिका
एवं ब्रह्मदेहान्तर्गतात्पुरुषादवान्तरभेदभिन्नस्य जगतः सृष्टिमुक्त्वा स एव मत्स्यादिरूपेण स्थितिं करोतीति वक्तुं यदैवैकतम इति मूलम् । तदेकतमादिशब्दार्थाप्रतीत्या व्याख्याति ॥ सात्त्विकेष्विति ॥ त्रिषु त्रिविधेषु । अनेन मूले एकतम इत्यतः पूर्वमिदमध्याहार्यमिति सूचयति । एकस्यान्यतमस्य तु प्रतिबाधनं विशेषेण पीडा । द्वाभ्यामित्यस्यार्थः ॥ रजस्तमोभ्या-मिति ॥ अत्र रजःशब्दो राजसतामसपरः । तमःशब्दस्तु त्रिविधतामसपर इत्यवगन्तव्यः । राजसांस्तामसानित्येतदप्येवमेव व्याख्येयम् । हत्वेत्यनेन स्थापयन्नित्येतदुक्ततात्पर्यम् । विष्णुर्मत्स्या-दिरूपेणेति शेषः । प्रादुर्भावोपपादनायाज इत्युक्तम् । सात्त्विकान् । त्रिविधानिति शेषः । पुष्णा-तीत्यस्य तात्पर्यं वर्धयिष्यतीति । ततश्चायं श्लोकार्थः । यदा उक्तरीत्या त्रिविधेषु सात्विकेषु एकतमो ऽन्यतमः सात्विकसात्विकः सात्त्विकराजसः सात्विकतामसो वेत्यर्थः । इदमुपलक्षणम् । राजससा-त्विकोऽपि ग्राह्यः । योग्यतापरपर्यायेण स्वभावशब्देन तद्वान् सात्त्विकादिर्ग्राह्यः । द्वाभ्यां राजसतामस-त्रिविधतामसाभ्याम् । उपहन्यते बाध्यते । तदैव तस्मिन्नवसर एव धाता नामरूपक्रियादिभेदेन नियमनकर्ता भगवान्विष्णुर्धर्मरूपधृक् धर्मस्वरूपप्रवर्तको धर्मे स्थित्वा धर्मनामा सन्निति वा । विश्वं सर्वमिदं जगत्तिर्यङ्नरसुरात्मभिर्मत्स्यकूर्मवराहरामकृष्णोपेन्द्रादिरूपैः स्थापयन् बाधकान्संहरन्पुष्णाति । भोगैर्ज्ञानभक्त्यादिभिश्च संवर्धयतीति ॥ ४२ ॥
ततः कालाग्निरुद्रात्मा यत्सृष्टमिदमात्मनः ।
सन्नियच्छति तत्काले घनानीकमिवानिलः ॥ ४३ ॥
तात्पर्यम्
मत्स्यादिरूपी पोषयति नृसिंहो रुद्रसंस्थितः । विलापयेद्विरिञ्चस्थः सृजते विष्णुरव्यय’ इति वामने ॥ ४३ ॥
पदरत्नावली
ननु संहारोऽन्यनियतश्चेत् तदुपद्रवेण जगद्रक्षणं दुःशकमित्याशङ्क्य स्वनियत-रूपभेदेन संहारस्य क्रियमाणत्वान् न तदुपरोधो जगद्रक्षणस्येति ध्वनयति- तत इति ॥ ततः स्थित्यनन्तरं प्रलयकाले प्राप्ते । कालाग्निरुद्राणाम् आत्मा अन्तर्यामी स भगवान् आत्मनो ब्रह्मणो ऽन्तर्यामिणः स्वोदराद्यत्सृष्टं जगत् तदिदं सन्नियच्छति संहरति । कथमिव ? अनिलः घनानीकं मेघपटलमिवेत्यन्वयः । तदुक्तम्- मत्स्यादिरूपी पोषयति नृसिंहो रुद्रसंस्थितः’ इत्यादिना । कालो यमः ॥ ४३ ॥
प्रकाशिका
इदानीमन्ते संहर्तृत्वमपि तस्यैवेत्याह ॥ तत इति ॥ अत्र भगवतः कालाग्निरुद्राभेद उच्यत इति भाति । तथा तिर्यङ्नरसुरात्मभिरिति पूर्वश्लोकेऽपि प्रसिद्धतिर्यगादिस्वरूपत्वं यत्सृष्टमिदमात्मन इत्यत्रात्मन इत्यनेन विरिञ्चग्रहणे तदभेदोऽपि भाति । अतो यथावत्प्रमाणेनैव तत्तात्पर्यमाह ॥ मत्स्यादीति ॥ मत्स्यादीनामिव रूपं यस्यास्तीत्यर्थः । अनेन कालो यमः । अग्निः सांवर्तकः । रुद्रः प्रसिद्धस्तानाप्नोतीति कालाग्निरुद्रात्मा नृसिंह इति मूलव्याख्यानं सूचयति । विरिञ्चस्थ इत्यनेन मूले आत्मपदं विरिञ्चस्थभगवत्परं न विरिञ्चपरमिति सूचितम् ॥ ततश्चायमर्थः ॥ ततः स्थित्यनन्तरं काले लयकाले प्राप्ते सति कालरुद्राग्निषु व्याप्तो नृसिंह आत्मनः विरिञ्चस्थाद्रूप-विशेषाद्यदिदं सृष्टं जगत्तत्सन्नियच्छति संहरति । कः किमिव । अनिलो वायुर्घनानीकं मेघपटलमिवेति
॥ ४३ ॥
इत्थम्भावेन कथितो भगवान्भगवत्तमः ।
नेत्थम्भावेन हि परं द्रष्टुमर्हन्ति सूरयः ॥ ४४ ॥
तात्पर्यम्
भगवत्तमः । ना पुरुषः ॥ ४४ ॥
पदरत्नावली
उक्तमर्थं प्रमाणयति- इत्थंभावेनेति ॥ भगवन्तः ब्रह्मादयस् तेभ्यो ऽतिशयेन उत्तमः भगवत्तमः । भगवान् पूर्णैश्वर्यादिगुणः । ना सर्वजगन्नेता परमपुरुष इत्थम्भावेन सृष्टिस्थिति-संहारादिकर्तृत्वेन सर्वस्माद्भिन्नत्वेन सर्वदोषविवर्जितत्वेन कथितः प्रतिपादितः । श्रुत्यादाविति शेषः । ‘यतो वा इमानि भूतानि जायन्ते’ इत्यादौ । तथा कथने कारणमाह- इत्थमिति ॥ सूरयः परं परमात्मानम् इत्थम्भावेन सर्ववैलक्षण्येन द्रष्टुमर्हन्ति हि । नाभेदज्ञानेन । अतस् तथा कथनं युक्तमिति भावः । यद्वा भगवान् जगत्स्रष्टृत्वादिलक्षणविशिष्टत्वेन कथित इति यत्तस्मात्सूरयः परमार्थदर्शिन इत्थम्भावे चेतसि परं द्रष्टुं नार्हन्तीति न हि । अर्हन्त्येवेति । अनेन ज्ञानिप्रत्यक्षमपि प्रोक्तार्थे प्रमाणमिति सूचितम् ॥ ४४ ॥
प्रकाशिका
उक्तार्थे श्रुतिं प्रमाणयति ॥ इत्थंभावेनेति ॥ नेत्थंभावेनेत्येतन्न इत्थंभावेनेति पदच्छेदप्रतीतिवारणायाभिमतं छेदं दर्शयन् व्याख्याति ॥ भगवत्तम इति ॥ तथा च नेति न नञ् किन्तु नृशब्दस्य प्रथमैकवचनान्तं पुरुषवाचि तस्य च भगवत्तम इति पूर्वेणैवान्वयो नोत्तरवाक्येनेत्युक्तं भवति । एवमन्वयसूचनायैव भगवत्तम इत्यस्यानुवादः । नेत्यस्य नञर्थत्वे सूरयो वेदादौ कथितप्रकारेण द्रष्टुं नार्हन्तीत्यर्थप्राप्त्या योग्यताभाव इति भावः ॥ ततश्चायं श्लोकार्थः ॥ अतिशयेन भगवान् भगवत्तमः । अत एव भगवान् भगवच्छब्दमुख्यवाच्यः । न नारदादिवदमुख्यवृत्त्येति दर्शयितुं भगवत्तम इत्युक्तम् । ना प्रकृतः पुरुष इत्थंभावेन सृष्ट्यादिकर्तृत्वादिना प्रकारेण कथितः । यतो वा इमानि भूतानि जायन्त इत्यादिश्रुतिष्विति शेषः । ननु निर्विशेषणपराणां श्रुतीनां न विशिष्टे तात्पर्यम् । बन्धप्रतिषेधाय निर्विशेषस्यैव दृष्टत्वादित्यत आह ॥ इत्थंभावेनेति ॥ हि यस्मादित्थंभावेन विशिष्टं परं परमात्मानं सूरयो द्रष्टुमर्हन्ति । बन्धप्रतिषेधार्थमिति शेषः । न तु निर्विशेषणम् । तमेवं विद्वानिति वाक्यात् । अत उक्ते विशिष्ट एव श्रुतीनां तात्पर्यमुक्तमिति ॥ ४४ ॥
न चास्य जन्मकर्माणि परस्य न विधीयते ।
कर्तृत्वं प्रतिषेधार्थं माययाऽऽरोपितं हि तत् ॥ ४५ ॥
तात्पर्यम्
जन्मकर्माणि विधीयत इति क्रियाविशेषणम् । ‘प्रतिषेधाय बन्धस्य जीवानां परमेशितुः । स्वेच्छयैव तु कर्तृत्वं नित्यारूढं चिदात्मकमि’ति भविष्यत्पुराणे ॥ रूप उपरिभाव इति धातुः । ‘सुभद्रां रथमारोप्ये’त्यादिवच्च । ‘स्वाभाविकी ज्ञानबलक्रिया चे’ति च ॥ ४५ ॥
पदरत्नावली
अत्रोच्यमानं जन्मादिकर्तृत्वं मायामयं किं न स्यादत्राह- न चेति ॥ अस्य परस्य कर्तृत्वं जन्मकर्माणि यथा जीवानां बन्धस्य प्रतिषेधार्थं भवन्ति तथा न विधीयत इति । वेदादौ कर्तृत्वं जन्मकर्म च विधीयत एव । अतः मायया स्वेच्छया आरोपितं नित्यारूढं स्वरूपाभिन्नत्वात् तत्कर्तृत्वं नानिर्वाच्यम् । ‘प्रतिषेधाय बन्धस्य जीवानां परमेशितुः । स्वेच्छयैव तु कर्तृत्वं नित्यारूढं चिदात्मकम् ॥’ इति वचनात् । ‘रूप उपरिभाव’ इति धातोः ‘सुभद्रां रथमारोप्य’ इति प्रयोगाच्च । ‘स्वाभाविकी ज्ञानबलक्रिया च’ इति श्रुतेश्च । अनेन मायाशब्दस्य इच्छार्थत्वं, न मिथ्यार्थत्वमित्युक्तं भवति । हिशब्देन ‘निरस्तकुहकम्’ इति पूर्वोक्तं सूचयति ॥ ४५ ॥
प्रकाशिका
नन्वेवं यतो वा इत्यादिवाक्यैर्भगवतः कर्तृत्वं तात्पर्यतः प्रतिपाद्यत इति प्राप्तम् । न च तद्युज्यते । निष्क्रियस्य स्वाभाविककर्तृत्वासंभवात् । अत उक्तवाक्यैर्नेह नानेत्यादिना निषेद्धुमनूद्यत एव । जन्मादिकर्तृत्वं न प्रतिपाद्यत इत्यत आह ॥ न चास्येति ॥ अत्र जन्मकर्माणीत्यस्य केनाप्यन्वयो न प्रतीयतेऽतोऽन्वयं दर्शयति ॥ जन्मकर्माणीति ॥ इत्येतदिति शेषः । नेह नानेत्यादिना प्रतिषेधार्थं कर्तृत्वं माययाऽऽरोपितं कल्पितमित्यन्यथाप्रतीतिवारणाय द्वितीयार्धस्य तात्पर्यं प्रमाणेनैव दर्शयति ॥ प्रतिषेधायेति ॥ अनेन प्रतिषेधार्थमित्यत्र जीवानां बन्धस्येति पूरणीयमिति सूचयति । परस्येत्यस्यार्थः ॥ परमेशितुरिति ॥ माययेत्यस्यार्थः ॥ स्वेच्छयेति ॥ न जीवस्य पराधीनेच्छेत्येवकारार्थः । आरोपित-मित्यस्यार्थः ॥ नित्यारूढमिति ॥ नित्येत्याङोऽर्थः । आरूढ आश्रितम् । तुशब्दः स्वाभाविकत्वरूप-विशेषद्योतकः । तदुपपादनाय नित्यारूढं चिदात्मकमिति विशेषणद्वयम् । आरोपितमित्यस्यारूढमिति व्याख्यानम् । अशाब्दमित्यतोऽत्र धातुं दर्शयति ॥ रूप उपरीति ॥ धातुर्धातुव्याख्यानम् । चशब्द उक्तप्रमाणसमुच्चयार्थः । उक्तार्थे प्रयोगोऽप्यस्तीत्याह ॥ सुभद्रामिति ॥ कर्तृत्वस्य स्वाभाविकत्वे श्रुतिं चाह ॥ स्वाभाविकीति ॥ ‘पराऽस्य शक्तिर्विविधैव श्रूयत’ इति पूर्वेणान्वयः । अत्र शक्तिशब्देन करणशक्तिः कर्तृत्वरूपैव विवक्षिताऽतो नासङ्गतिरिति ध्येयम् ॥
ततश्चायं श्लोकार्थः ॥ अस्य जगतो जन्मकर्माणि परस्य सकाशाद्यथा संभवन्ति तथाऽस्य परस्य कर्तृत्वं न विधीयते तात्पर्यतः प्रतिपाद्यत इति न जगज्जन्माद्यनुकूलं परमात्मनः कर्तृत्वं श्रुत्यादौ तात्पर्यतः प्रतिपाद्यत एव नानूद्यत इत्यर्थः । ननु निर्विशेषस्यैव बन्धप्रतिषेधाय ज्ञातव्यत्वात्किमेतत्प्रति- पादनेनेत्यत उक्तम् ॥ प्रतिषेधार्थमिति ॥ जीवानां बन्धस्य प्रतिषेधार्थमित्यर्थः । तथा च न निर्विशेषज्ञानं मोक्षसाधनमिति भावः । ननु निष्क्रिये ब्रह्मणि श्रूयमाणं कर्तृत्वं कल्पितमेव वाच्यम् । अतः कथं तन्मोक्षार्थं प्रतिपाद्यत इत्यत आह ॥ माययेति ॥ स्वेच्छया तत्कर्तृत्वं हि यस्मादारोपितं नित्यं स्वस्मिन्स्थापितमतो न कल्पितं किन्तु स्वाभाविकमेवेत्यर्थः । निष्क्रियत्वादिकम् अक्लिष्ट-कारित्वादिना भगवत्पादैरेवान्यत्र व्याख्यातमिति ॥ ४५ ॥
अयं ते(तु)ब्रह्मणः कल्पः सविकल्प उदाहृतः ।
विधिः साधारणो यत्र सर्गाः प्राकृतवैकृताः ॥ ४६ ॥
तात्पर्यम्
अन्यकल्पानां साधारणः । यत्रैव प्राकृतवैकृताः सर्वसर्गाः । अन्यब्रह्म-कल्पानां च साधारणः ॥ ४६ ॥
॥ इति द्वितीयस्कन्धतात्पर्ये दशमोऽध्यायः ॥ १० ॥
पदरत्नावली
सम्प्रत्युक्तब्रह्मकल्पेनान्यब्रह्मकल्पानाञ्च साधारण्यमाह- अयमिति ॥ अयं ब्रह्मणः प्रथमः कल्पस् तवोदाहृतः । मयेति शेषः । इत्यन्वयः । कीदृशः ? सविकल्पः मन्वन्तरादि-विविधकल्पेन सहितः । यत्र ब्रह्मकल्पे अन्यब्रह्मकल्पानाम् अन्यकल्पानाञ्च साधारणः समानः विधिर् यत्र च प्राकृतवैकृताः सर्गाः सन्तीत्यर्थः । अनेन प्राकृतादिसर्गकथनं साधारण्ये कारणमित्युक्तं भवति
॥ ४६ ॥
प्रकाशिका
उक्तमर्थमुपसंहरन् अन्यकल्पानामेतत्कल्पसाधारणत्वं दर्शयति ॥ अयं त्विति ॥ ब्रह्मणः सम्बन्धी कल्पो महाकल्पो विकल्पोऽवान्तरो दैनन्दिनादिरूपस्तत्सहितो विधिः । साधारण इत्येतत्पादार्धम् अपेक्षितं पूरयन् व्याख्याति । अन्यकल्पानामिति ॥ अन्येषामवान्तरकल्पानामित्यर्थः। साधारणः समानः । प्रकारान्तरेणापि व्याख्याति । अन्यब्रह्मकल्पानामन्यमहाकल्पानां च साधारणोऽयं विधिरित्यपि व्याख्येयमित्यर्थः । कुत इत्यत उक्तम् ॥ यत्रैवेति ॥ अत्र हि महाकल्प एवेत्यर्थः । प्राकृतवैकृता इत्यनेन महदादिसृष्टिमत्वेनापि साम्यमुच्यते । तच्चान्यकल्पानां ग्रहणे सम्भवति । महदादिसृष्टिमत्वस्य ब्रह्मकल्पमात्रधर्मत्वादिति भावः । तथा च तत्रैव यद्वयमेव तयैव प्राकृतसर्वसर्गाः प्रसिद्धास्तेषामन्यब्रह्मकल्पानां तात्पर्ययोजना द्रष्टव्या ॥ ततश्चायं मूलार्थः ॥ अयं तु विधिर्ब्रह्माण्डान्तः कथितो विधिः प्रकारविशेषः । स्थावरादिसर्गरूपः साधारणोऽन्येषामवान्तरकल्पानां साधारणो, यत्र येषु प्राकृता महदादिसर्गा वैकृता ब्रह्माण्डादिसर्गाश्च भवन्ति तेषां ब्रह्मकल्पानां च साधारण इति ॥ ४६ ॥
परिमाणञ्च कालस्य कल्पलक्षणविग्रहम् ।
यथा परस्ताद्व्याख्यास्ये पाद्मं कल्पमिमं शृणु ॥ ४७ ॥
पदरत्नावली
श्रोतृप्रवृत्यर्थम् उत्तरस्कन्धार्थं प्रतिजानीते- परिमाणमिति ॥ कल्पानां लक्षणानि विग्रहम् इयत्ताञ्च कल्पलक्षणस्वरूपं वा परस्तात् पश्चाद् यथावद् व्याख्यास्ये । प्रथमत इमं पाद्मं कल्पं श्रृणु । इत्यन्वयः ॥ ४७ ॥
प्रकाशिका
श्रोतृमनःसमाधानाय पृष्टेष्वर्थेष्वेव शिष्टमुत्तरस्कन्धे वक्ष्यामीति प्रतिजानीते ॥ परिमाणमिति ॥ परिमाणं स्थूलं सूक्ष्मं च लक्षणविग्रहं कल्पादिरूपं विग्रहं विभागं च कालस्य कालनामकस्य भगवतः कल्पादिरूपदेहमिति वा परं रूपं विस्तरेण व्याख्यायमानं शृुण्वित्यर्थः ॥४७॥
शौनक उवाच—
यदाह नो भवान् सूत क्षत्ता भागवतोत्तमः ।
चचार तीर्थानि भुवस्त्यक्त्वा बन्धून्सुदुस्त्यजान् ॥ ४८ ॥
पदरत्नावली
अस्य ग्रन्थस्य शुकशिष्यसूतशौनकसंवादत्वं स्पष्टयन् शौनकप्रश्नप्रकारमाह- यदाहेति ॥ ‘विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम्’इत्यादिना क्षत्ता बंधूंस्त्यक्त्वा भुवस्तीर्थानि चचार
॥ ४८ ॥
प्रकाशिका
विदुरं प्रति मैत्रेयेणोपदिष्टमेव परमपरं च तत्त्वं शुकेन राज्ञे तृतीयस्कन्धे कथ्यते इति वक्तुं विदुरमैत्रेयसंवादं प्रस्तावकं शौनकप्रश्नं तावद्दर्शयति ॥ यदाहेति ॥ विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिमित्यादिना क्षत्ता बन्धूंस्त्यक्त्वा भुवः सम्बद्धानि तीर्थानि । अथवा । भुवः क्षेत्राणि चचार । तत्र तीर्थसञ्चरणसमये मैत्रेयादात्मज्ञानं चापेति यद्भवानाह तद्विस्तरतः श्रोतुं पृच्छामीति शेषः
॥ ४८ ॥
कुत्र कौषारवेस्तस्य संवादोऽध्यात्मसम्भवः ।
यद्वा स भगवांस्तस्मै पृष्टस्तत्वमुवाच ह ॥ ४९ ॥
ब्रूहि नस्तदिदं सौम्य विदुरस्य विचेष्टितम् ।
बन्धुत्यागनिमित्तं च यथैवागतवान् पुनः ॥ ५० ॥
पदरत्नावली
तत्र तीर्थसञ्चरणसमये मैत्रेयादात्मज्ञानं चापेति यद् भगवानाह ततः किं तत्राह- कुत्र इति ॥ तस्य विदुरस्य अध्यात्मसंभव आत्मनां पुरुषाणाम् अधिकस्य हरेः कथायाः संभवो यस्मात् स तथा । यद्वा आत्मनां शरीरमधिकृत्य वर्तमानं देहेन्द्रियादि तद्विषयो विदुरेण पृष्टः स भगवांस्तस्मै विदुराय । यद्वा तत्त्वमुवाच ह । हेत्यनेन ग्रन्थान्तरप्रसिद्धिमाह- ‘प्रत्यारम्भे प्रसिद्धौ हे’ति यादवः ॥ ४९ ॥
प्रकाशिका
तमेव प्रश्नं दर्शयति ॥ कुत्रेति ॥ कौषारवेर्मैत्रेयस्य, विदुरस्य । अध्यात्ममात्मानं परमात्मानमधिकृत्य वर्तमानस्य ज्ञानस्य संभव उत्पत्तिर्यस्मात्स तथोक्तः । पुनरागतवान् । तत्र च निमित्तं ब्रूहीत्यर्थः । पृष्टः । विदुरमैत्रेयसंवादविषयमिति शेषः ॥ ४९-५० ॥
सूत उत्ताच—
राज्ञा परीक्षिता पृष्टो यदवादीन्महामुनिः ।
तद्वोऽभिधास्ये शृृणुत राज्ञः प्रश्नानुसारतः ॥ ५१ ॥
पदरत्नावली
तत्र सूतः शौनकप्रश्नपरिहारप्रकारं प्रतिजानीते- राज्ञेति ॥ यत् समाधानं, राज्ञः प्रश्नानुसारत इति पुनरुक्त्या प्रश्नयोरेकविषयत्वेन परिहारोऽपि तदविनाभूत इति तत्प्रश्नप्रतिवचनमपि युष्मत्प्रश्नप्रतिवचनमेवेति दर्शयति ॥ ५१ ॥
द्वितीयस्कन्धगा ह्येषा पदरत्नावली मया ।
स्वर्पिता चरणाम्भोजे पद्मनाभस्य भासताम् ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां
द्वितीयस्कन्धे दशमोऽध्यायः ॥
प्रकाशिका
तद्विषये यदुत्तरमवादीत् । तदेवोत्तरं वोऽभिधास्ये । विदुरमैत्रेयसंवादं पुरस्कृत्य राज्ञः प्रश्नानुसारतो ये पूर्वं राज्ञा कृताः प्रश्नास्तेषामनुसारेण च यदुत्तरं महामुनिः शुकोऽवदत् । तदपि वो युष्माकमभिधास्य इत्यर्थः । इत्यशेषमङ्गलम् ॥ ५१ ॥
द्वितीयस्कन्धतात्पर्यफक्किकार्थप्रकाशिनी ।
कृतिर्यदुपतेर्भूयात्प्रीत्यै माधवमध्वयोः ॥
॥ इति श्रीमद्वेदेशपूज्यपादशिष्येण यदुपतिना विरचितायां श्रीमद्भागतटिप्पण्यां
द्वितीयः स्कन्धः समाप्तः ॥ २ ॥
॥ इति द्वितीयस्कन्धः ॥
॥ श्रीकृष्णार्पणमस्तु ॥