०९ नवमोऽध्यायः

आत्ममायामृते राजन्परस्यानुभवात्मनः

अथ नवमोऽध्यायः

श्रीशुक उवाच—

आत्ममायामृते राजन्परस्यानुभवात्मनः ।

न घटेतार्थसम्बन्धः स्वप्ने द्रष्टुरिवाञ्जसा ॥ १ ॥

तात्पर्यम्

परस्य अर्थव्यतिरिक्तस्य । यदधातुमत इत्यस्य ह्युत्तरम् ॥ ‘अशरीरस्य जीवस्य शरीरोत्पत्तिकारणम् । ईश्वरेच्छा प्राथमिकी तां विना न हि किञ्चन ॥ द्वितीया प्रकृतिः प्रोक्ता तद्रूपा हि गुणास्त्रयः । तेषां सम्पातजो भावो ममाहमिति या मतिः । देहात्परस्य देहित्वमहं-भावमृते कुतः । यथा रजस्तमोभावैर्विना स्वप्नो न जायते । निद्रा कामाद्यभावेन तद्वद्देहः क्व तान्विना । तस्मात्प्रकृत्यैव पुमान्मानुषादिविकारया । मानुषादिरिवाभाति नित्यचैतन्यरूपवान् । यदा स्वरूपं जानाति कालप्रकृतिवर्जितम् । वासुदेवप्रसादेन तदा मुक्तो भवत्यसावि’ति भविष्यत्पुराणे ॥ १,२,३ ॥

पदरत्नावली

चतुर्मुखस्य भगवदनुग्रहेण तल्लोकदर्शनं तेन अविनाभूतं तत्स्वरूपदर्शनं प्रकृति-जीवयोस्तदधीनत्वमित्यादिमाहात्म्यवर्णनेन हरेर्हृदयद्रवीभावहेतुर्भक्तिरेवेत्यतः सा हरौ कर्तव्येत्यस्मि-न्नध्याये प्रतिपाद्यते । तत्रादौ यदधातुमत इत्यस्योत्तरं वक्ति- आत्ममायामिति ॥ परस्य धातुशब्द-वाच्यार्थेभ्यः प्रकृत्यादिभ्यो व्यतिरिक्तस्य । अनुभवात्मनः ज्ञानात्मनः । अत एव स्वतोऽशरीरस्य जीवस्य आत्ममायां हरेर् इच्छां तथा तदधीनां सत्वादिगुणरूपां प्रकृतिं च ऋते विना अर्थसम्बन्धो देहादिसम्बन्धो न घटेत । यथा स्वप्ने करितुरगादिपदार्थानां द्रष्ट्रुर्जीवस्य भगवदिच्छानियतैर् वासनो-द्बोधकैः रजस्तमोभावैर् ऋते स्वप्नपदार्थसम्बन्धः करितुरगादिदर्शनं न युज्यते । तस्माददेहस्य जीवस्य देहसम्बन्धे भगवदिच्छा प्रथमा । द्वितीया स्वगुणैः सह प्रकृतिरित्युत्तरम् । अञ्जसेत्यनेन ‘अशरीरस्य जीवस्य शरीरोत्पात्तिकारणम् । ईश्वरेच्छा प्राथमिकी तां विना न हि किञ्चन’इत्यादिप्रमाणं सूचयति । यद्वाऽञ्जसेदमेव तत्वम् । स्वप्नस्यार्थक्रियाकारित्वेन सत्यत्वाद् असत्यस्य तदयोगात् । नात्राघटितघटन-पटीयसी अनिर्वाच्यलक्षणा मायोच्यते । किन्त्वीश्वरेच्छैव । ‘सूचकश्च हि श्रुतेराचक्षते च तद्विद’ इति सूत्राच्चेति । ‘अञ्जसा त्वरिते तत्वे’ इति यादवः ॥ १ ॥

प्रकाशिका

तत्रादौ यदधातुमत इत्यस्योत्तरं वक्ति ॥ आत्ममायामिति ॥ अत्र परस्ये-त्येतत्परमात्मन इति प्रतीतिवारणाय व्याचष्टे ॥ परस्येति ॥ अत्रार्थशब्देन धातुमच्छब्देनोक्तं शरीरं ग्राह्यम् । तद्व्यतिरिक्तस्याधातुमतो जीवस्येत्यर्थः । ननु परशब्दोऽयं कुतो जीवपरः परमात्मपर एव किं न स्यादित्यत आह ॥ यदधातुमत इति ॥ हि यस्मादयं श्लोको यदधातुमत इति जीवविषय-कप्रश्नस्योत्तरदानाय प्रवृत्तस्तस्मात्परस्येत्येतज् जीवविषयमेवेति वक्तव्यम् । अन्यथा प्रश्नोत्तरयोर्वैयधि-करण्यप्रसङ्गादिति भावः । अप्रतिपत्तिविप्रतिपत्तिनिरासाय श्लोकत्रयं प्रमाणेनैव व्याचष्टे ॥ अशरीर-स्येति ॥ अशरीरस्येत्यनेन परस्येति व्याख्यातम् । आत्ममायामृतेऽर्थसम्बन्धो न घटेतेत्यस्य तात्पर्यम्- शरीरोत्पत्तीति ॥ अनेनार्थशब्दः शरीरपर आत्ममायाशब्द ईश्वरेच्छापर इत्युक्तं भवति । प्राथमिकी प्रधाना कुत इत्यत आह ॥ तां विनेति ॥ हि यस्मात्तामीश्वरेच्छां विना किञ्चन किमपि कार्यं न । जायत इति शेषः । आत्ममायामृत इत्यस्यार्थान्तरमाह ॥ द्वितीयेति ॥ तद्वन्न प्रधाना । तदधीनेति यावत् । प्रकृतेः शरीरकारणत्वमुपपादयितुमाह ॥ तद्रूपा इति ॥ प्रकृत्यभिन्ना इत्यर्थः । इदं च वक्ष्यमाणरीत्या सत्त्वादिगुणानां देहकारणत्वे तदभिन्नायाः प्रकृतेरपि देहकारणत्वमुपपन्नमिति प्रदर्शनाय । ममाहमिति या मतिः सः भावस्तल्लक्षणः कार्यविशेषः । ये त्रयः सत्त्वादयो गुणास्तेषां संपातजः सन्निपातजः संश्लेषज इति योजना । अनेन रममाणो गुणेष्वस्य ममाहमिति मन्यत इत्येतदुक्तार्थम् ।

इदानीं प्रकृतेः शरीरकारणत्वं तदभिन्नगुणकार्याहंमतिद्वारैवेत्याशयेन गुणकार्याहंमतेः शरीरकारणत्वं दर्शयति ॥ देहात्परस्येति ॥ देहभिन्नस्येत्यर्थः । स्वप्ने द्रष्टुरिवांजसेति मूलोक्तं दृष्टान्तं विवृण्वन् दार्ष्टान्तिकं दर्शयति ॥ यथेति ॥ रजस्तमोभावै राजसतामसपदार्थैः । इदमुपलक्षणम् । सात्विकोऽपि भावो ग्राह्यः । स्वप्नः स्वाप्नपदार्थः । कुत इत्यत आह ॥ निद्रेति ॥ अत्र निद्राशब्दो बाह्येन्द्रिय-व्यापारोपरमपरः । स्वप्ने मनस उपरमाभावात् । सा निद्रा तामसो भावः । तस्याः स्वाप्नार्थकारणत्व-मनुभवसिद्धम् । कामो राजसो भावः । तस्य च स्वाप्नार्थकारणत्वं काम्यकर्मकर्तॄणामनुभवसिद्धम् । स्वकामानुसारेणैव स्वप्नार्थदृष्टत्वात् । आदिपदेन सात्विकादिपदार्थानुभवजनिता वासनाः सात्विकादिभेदेन त्रिविधकर्मजन्यान्यदृष्टानि च ग्राह्याणि । तान्प्रकृतिगुणान् मुक्त्वा न क्वापि जायत इत्यर्थः । इयांस्तु विशेषः । प्रकृतिगुणसंपातेन ममाहमिति मतौ जातायां तया विहितनिषिद्धकरणजनितपुण्यपापद्वारा देहलाभः । स्वप्ने तूक्तरीत्येति । प्रकृतेर्देहकारणत्वमुपपाद्योपसंहरति ॥ तस्मादिति ॥ प्रकृत्यैव स्वाभिन्नगुणसंपातद्वारेति शेषः । मानुषादीत्यनेन बहुरूप इवाभाति मायया बहुरूपयेत्येतदुक्तार्थम् । नित्यचैतन्यरूपवानित्यनेनानुभवात्मन इत्येतद्विवृतम् । नन्वेवंविधस्य कदा मुक्तिरित्यत आह ॥ यदा स्वरूपमिति ॥ स्वस्य रूपं कालप्रकृतिविकारवर्जितम् । कालविकारो बाल्यादिः । प्रकृतिविकारो मानुषादिस्ताभ्यां वर्जितं जानाति । वेदान्तश्रवणादिनेति शेषः । अनेन यर्हि चायमिति श्लोको व्याख्यातः ॥ ततश्चायं श्लोकत्रयार्थः ॥ अनुभवात्मनः स्वतो नित्यचिद्रूपस्य स्वत एव परस्य देहभिन्नस्य जीवस्य देहादिरूपार्थसम्बन्धः । आत्मनः परमात्मनो मायामिच्छां तथा तदधीनां मायां सत्त्वादिगुणरूपां प्रकृतिं च ऋते विना न घटेत । यथा स्वप्ने स्वप्नावस्थायां द्रष्टुर्जीवस्यांजसा तत्त्वतोऽर्थसम्बन्धः स्वाप्ने देहाद्यर्थसम्बन्ध आत्ममायां भगवदिच्छां भगवदधीनां त्रिगुणां प्रकृतिं च ऋते न घटेत तथैवेति योजना । अनेन स्वतोऽशरीरस्य जीवस्य शरीरसम्बन्ध ईश्वरेच्छैव प्रधानहेतुस्तदतिरिक्तं प्रकृत्यादिकं भगवदधीनं न प्रधानमित्युत्तरमुक्तं भवति ॥ १ ॥

बहुरूप इवाभाति मायया बहुरूपया ।

रममाणो गुणेष्वस्या ममाहमिति मन्यते ॥ २ ॥

पदरत्नावली

नन्वशरीरस्य जीवस्य भगवदिच्छानियतैः प्रकृतेर्गुणैर् देहारम्भः कथमत्राह- बहुरूप इति ॥ ईशेच्छयाऽनादित एवास्याः प्रकृतेर् गुणेषु मृद्घट इतिवद् गुणकार्येषु देहेन्द्रियेषु रममाणः सत्वादिगुणात्मकलिङ्गशरीरबद्धतया वर्तमानः सृष्टिकाले महदहङ्कारादिपञ्चभूतोपादानकत्वेन मानुष-देवासुरशरीरादिबहुरूपत्वेन बहुरूपया विकृतया प्रकृत्या सह स्वयमविकृतोऽपि तदभिमानाद् विकृतत्वेनात्मानञ्च मन्यमानो बहुरूप इव मानुषादिरूप इवाभाति । अहं मनुष्योऽहं देव इति आत्मानं मन्यते । देहदैहिकेषु त्रिगुणसम्पातजया अहंमत्या अहं ममेति च मन्यते चेत्यर्थः । तदुक्तं- ‘तेषां सम्पातजो भावो ममाहमिति या मतिः’ इति । ‘तस्मात् प्रकृत्यैव पुमान् मानुषादिविकारया । मानुषादिरिवाभाति नित्यचैतन्यरूपवान्’ इति च । तस्मादीशेच्छा नियतत्रिगुणात्मकलिङ्गशरीरे अहंमानात्तन्मूलतया धातुभिर् देहारम्भो युक्त इति भावः ॥ २ ॥

प्रकाशिका

ननु स्वतोऽशरीरस्य जीवस्य प्रकृतिगुणैः कथं नानाविधदेहारम्भ इत्यत आह ॥ बहुरूप इवेति ॥ बहुरूपया देवदानवमानवादिशरीरतया विकृतया मायया प्रकृत्या बहुरूप इव बहुशरीरवानिवाभाति । स्वभावतोऽशरीरत्वद्योतनायेवशब्दः । ननु मायाया बहुशरीरतया विकृतत्वेऽपि जीवस्य तच्छरीरवत्त्वं कुत इत्यत आह ॥ रममाण इति ॥ अस्याः प्रकृतेर्गुणेषु कार्येषु देहेषु रममाणो विहितनिषिद्धकर्मकुर्वाणो यत इति ।

ननु प्राकृतदेहेषूक्तरूपं रमणमेवास्य कस्मादित्यत आह ॥ यतो ममाहमिति मन्यत इति ॥ ननु तत्र ममाहमिति मतिरपि किं निमित्तेत्यत आह ॥ अस्याः प्रकृतेर्गुणेषु सत्त्वादिषु मिलितेषु सत्स्विति । तथा चेश्वरेच्छयाऽनादितः स्वसम्बद्धबहुप्रकृतिकार्येषु नानाविधदेहेषु प्रकृतिगुणानां सत्त्वादिगुणानां संपातेन जातया ममाहमिति मत्या विहितनिषिद्धादिकर्मकुर्वाणः पुनर्बहुरूपया मायया बहुरूप इवाभातीति हेतुहेतुमद्भावो द्रष्टव्यः ॥ २ ॥

यर्हि चायं महित्वे स्वे परस्मिन्कालमाययोः ।

रमते गतसंमोहस्त्यक्त्वोदास्ते तदोभयम् ॥ ३ ॥

पदरत्नावली

एवं बन्धप्रकारमुक्त्वाऽधुना जीवस्य ततो मुक्तिप्रकारमाह- यर्हीति ॥ चशब्द एवार्थे । यर्हि यदा अयं जीवः वैराग्यादिसाधनसामग्य्रा समुत्पन्नभगवज्ज्ञानेन अपरोक्षीकृतस्वरूपः कालमाययोः कालप्रकृत्योः परस्मिन् विलक्षणे तच्छक्तिसंसर्गरहिते स्वे महित्वे सच्चिदानन्दलक्षणस्वरूपे रमते च अव्यवधानेनानुभवत्येव स्वस्वरूपम् । तदा गतसम्मोहो निरस्ताविद्यातत्कार्य उभयं वार्धक्याद्यापादकं कालं मायां देहारम्भहेतुभूतां तन्मूलं संसारं त्यक्त्वेति यावत् । उदास्ते उत्कृष्टो वर्तते नीचत्वापादकात् संसारान्मुक्तो भवतीत्यर्थः । तदुक्तम्- ‘यदा स्वरूपं जानाति कालप्रकृतिवर्जितम् । वासुदेवप्रसादेन तदा मुक्तो भवत्यसावि’ति । अनेन सागुण्यं त्यक्त्वा नैर्गुण्यमाप्नोतीति अपव्याख्यान-मपास्तम् । तत्र प्रमाणाभावादिति ॥ ३ ॥

प्रकाशिका

नन्वेवं बन्धस्य जीवस्वभावत्वाभावे केन साधनेनायमिदमस्वभाविकं रूपं हित्वा स्वस्वरूपेणैवावस्थितो भविष्यतीत्यत आह ॥ यर्हीति ॥ अयं जीवो, यर्हि यदा, कालमाययोः परस्मिन् कालप्रकृतिविकारशून्ये स्वे स्वीयमहित्वे ज्ञानानन्दाद्यात्मके स्वस्वरूपे विषये रमते वासुदेवप्रसादेन ज्ञानवान् भवति तदा कालप्रकृतिविकारशरीरं त्यक्त्वोदास्ते पुनस्तन्न भजते यतो गतसंमोह-स्तदापादकाहंममाभिमानवर्जितः । न केवलमेतावत् किन्तु स्वे महित्वे रमते चेति ॥ ३ ॥

आत्मतत्वविशुध्यर्थं यदाह भगवानृतम् ।

ब्रह्मणेऽदर्शयद्रूपमव्यलीकव्रतादृतः ॥ ४ ॥

तात्पर्यम्

यतो भगवदुक्तं प्रमाणमतस्तदुक्तं पुराणं त्वत्प्रश्नानामुत्तरत्वेन वक्ष्ये ॥ ४ ॥

पदरत्नावली- अत्रापि किं प्रमाणमित्याशङ्क्य भगवदुक्तं भागवतमेवैतादृशमोक्षे प्रमाणमित्याह- आत्मेति ॥ आत्मनः परमात्मनः जीवस्य वा यत्तत्वम् अनारोपितं सच्चिदानन्दलक्षणं रूपं तस्य विशुध्यर्थं निर्दोषत्वेन निश्चयार्थम् अनुभवार्थं वा व्यासो भगवान् यद्भागवतपुराणमाह तद् ऋतं यथोक्तमुक्ति-साधनज्ञानसाधनं शास्त्रम् । न व्यामोहकम् । अतो भगवदुक्तत्वेनोक्तमुक्तौ प्रमाणत्वात् त्वत्प्रश्नानाम् उत्तरत्वेन वदिष्यामीति शेष इत्यर्थः । प्रथमं तावत्पाद्मकल्पं विवक्षुः ‘ददृशे येन तद्रूपम्’ इति प्रश्नं प्रतिवक्ति- ब्रह्मण इति ॥ अव्यलीकेन प्रियत्वेन प्रसन्नताहेतुना व्रतेन भक्तिलक्षणेनादृतोऽर्चितः स हरिः स्वनाभिपद्मादुत्पन्नाय ब्रह्मणे चतुर्मुखाय रूपमदर्शयन् निजमिति शेष इत्यन्वयः ॥ ४ ॥

प्रकाशिका

ननूक्तरीत्या जीवः स्वात्मस्वरूपं केन साधनेन जानाति । भागवतश्रवणादिनेति चेत् । तत्प्रामाण्ये विश्वासाभावात् । मत्कृतानामन्येषामपि प्रश्नानां किमुत्तरमिति राज्ञो मानसशङ्कां परिहरति ॥ आत्मतत्त्वेति ॥ इदं वाक्यं साकांक्षमतोऽपेक्षितमध्याहृत्य योजयति ॥ यत इति ॥ अनेन यदिति यच्छब्दो हेत्वर्थतयाऽपि व्याख्यातः । भगवानाहेत्यस्यार्थः ॥ भगवदुक्तमिति ॥ ऋत-मित्यस्यार्थः ॥ प्रमाणमिति ॥ यतो भगवदुक्तमतः प्रमाणं यतस्तत्प्रमाणमतस्तदुक्तं पुराणं त्वत्प्रश्ना-नामुत्तरत्वेन वक्ष्य इत्यर्थः । अनेनात्मनो जीवस्येश्वरस्य वा यत्तत्त्वमनारोपितं रूपं ज्ञानानन्दादि-स्वरूपत्वं तस्य विशुद्धिर्देहादिविविक्तत्वादिना निश्चयस्तदर्थं यद्भागवतं पुराणं भगवान् भगवदवतारो व्यासस्तस्याप्ततमत्वोपपादनायैतद् आह तदृतं प्रमाणं यद्यतः प्रमाणमतस्तदुक्तं पुराणमेव त्वत्प्रश्ना-नामन्येषामप्युत्तरत्वेन वक्ष्य इत्यध्याहृतेनैकवाक्यतामापाद्य मूलं योज्यमित्युक्तं भवति । प्रथमं तावत्पाद्म-कल्पं वक्तुं ददृशे येन तद्रूपमिति प्रश्नं प्रतिवक्ति ॥ ब्रह्मण इति ॥ स आदिदेव इत्येतदत्राप्यन्वेति । अव्यलीकेनात्यन्तं भगवत्प्रियेण व्रतेन तपसाऽऽदृतो भक्तिविषयीकृतः सन्, रूपम् । निजमिति शेषः

॥ ४ ॥

स आदिदेवो भजतां परो गुरुः स्वधिष्ण्यमास्थाय सिसृक्षयैक्षत ।

तान्नाध्यगच्छद्दृशमत्र सम्मतां प्रपञ्चनिर्माणविधिर्यया भवेत् ॥ ५ ॥

पदरत्नावली

एतदेव विवृणोति- स इति ॥ भजतां सनकादीनाम् । स्वधिष्ण्यं नाभिपद्म-कर्णिकास्थानम् । एैक्षत अचिन्तयत् । यया दृशा । अत्र प्रपञ्चनिर्माणे ॥ ५ ॥

प्रकाशिका

एतदेव विवृणोति ॥ स इति ॥ स्वधिष्ण्यं नाभिपद्मकर्णिकास्थानमैक्षताचिन्तयत् । अत्र प्रपञ्चनिर्माणे । संमतामव्यभिचारिणीं, विधिः प्रकारो, यया दृशा ॥ ५ ॥

सञ्चिन्तयन्द्व्यक्षरमेकदाम्भस्युपाशृणोद्द्विर्गदितं वचो विभुः ।

स्पर्शेषु यच्छोडशमेकविंशं निष्किञ्चनानां नृप यद्धनं विदुः ॥ ६ ॥

पदरत्नावली

ततः किमत्राह- सञ्चिन्तयन्निति ॥ कथं नु सृष्टिविषया दृष्टिस्स्याद् इति सञ्चिन्तयन् विभुर् ब्रह्मा द्वे अक्षरे यस्मिन् तद् द्व्यक्षरं वचः । अक्षरयोः स्वरूपं लक्षयति- स्पर्शेष्विति ॥ ककारादिमकारान्तेषु स्पर्शेषु यत् षोडशमक्षरं तकार एकविंशं पकारस् तद्रूपं वच इति यावत् । तद्वाच्यं स्पष्टं लक्षयति- निष्किञ्चनानामिति ॥ निष्किञ्चनानां परमहंसानां यद्धनं विदुस् तद्वाच्यं वचनं तपोलक्षणमित्यर्थः । कादयो मावसानाः स्पर्शाः ॥ ६ ॥

प्रकाशिका

कथं नु सृष्टिविषया दृष्टिर्मम स्यादिति चिन्तयन् ब्रह्मा द्वे अक्षरे यस्मिंस्तद्व्यक्षरं वचः पदम् । तेऽक्षरे दर्शयति ॥ स्पर्शेष्विति ॥ कादयो मावसानाः स्पर्शास्तेषु यत् षोडशं ‘त’ कारो यच्चैकविंशं ‘प’कारः । तद्व्यक्षरस्य वचसो निर्देशार्थं तद्वाच्यं दर्शयति ॥ निष्किञ्चनानामिति ॥ त्यक्तधनानां परमहंसानाम् । हे नृप । यद्धनं विदुर्येन ते तपोधना इति लोके विख्याताः । तद्वाचकं वच इत्यन्वयः । पुनः कथंभूतम् । द्विर्गदितम् । तप तपेति लोण्मध्यमपुरुषैकवचनरूपतया द्विवार-मुच्चारितं विधावादरसूचनाय वीप्सयोच्चारितमित्यर्थः ॥ ६ ॥

निशम्य तद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः ।

स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥ ७ ॥

पदरत्नावली

किमनेन निरणायीति तत्राह- निशम्येति ॥ ब्रह्मा तद्वचो निशम्य श्रुत्वा येनैतद्वचनमुक्तं तद्वक्तृदिदृक्षया, दश दिशः विलोक्य, तत्र तासु दिक्षु । अन्यदपश्यमानः पद्मनाल-नाडीभिराविश्य अन्विष्य अदृष्ट्वा स्वधिष्ण्यं पद्ममेवास्थाय अध्यास्य । तद्वचस् तच्छ्रुतं वच आत्मनो हितं हितसाधनं विमृश्य अहं मज्जनकेन प्रपञ्चनिर्माणोपाये तव तपो न पूर्यते तस्मात्पुनस्त्वया तपः कर्तव्यम्, तपेति वा तपस्युपादिष्ट आज्ञप्तोऽस्मीति चालोच्य तपसीव तपस्येव मन आदधे इत्यन्वयः

॥ ७ ॥

प्रकाशिका

ब्रह्मा तद्व्यक्षरं वचो निशम्य श्रुत्वा । वक्तृदिदृक्षया तद्वचो येनोक्तं तद्दर्शनेच्छया । तत्र तासु दिक्षु । स्वधिष्ण्यं कमलकर्णिकालक्षणं पुनरधिष्ठाय । अनेन स्वस्थानं परित्यज्य कमलनाल-नाडीरन्वेषणाय गतस्तत्रादृष्ट्वा पुनः स्वस्थानमास्थित इति सूचयति । तत्तप आत्मनः स्वस्य हितं हितसाधनं विमृश्य विचार्य तपसि तपः कर्तुम् । क इव । उपादिष्ट इव । केनचित्प्रत्यक्षं नियुक्त इव

॥ ७ ॥

दिव्यं सहस्राब्दममोघदर्शनो जितानिलात्मा विजितोभयेन्द्रियः ।

अतप्यत स्माखिललोकतापनं तपस्तपीयांस्तपतां समाहितः ॥ ८ ॥

तात्पर्यम्

तपो ब्रह्म । ‘तपसोऽध्यजायते’ति श्रुतेः । अखिललोकप्रकाशनं तत् तदाऽऽलोचयामास । तपतां तपीयानित्यनेनोत्तमोत्तमत्वमुक्तं भवति । ‘महान्महीयसामादिं ब्रूयादत्युत्तमोत्तमम् । यच्चा(त्रा)धिकं वदेत्किञ्चिज्ज्ञेयोऽर्थस्तत्र चाधिक’ इति व्यासनिरुक्ते ॥ ‘तपोरूपं परं ब्रह्म ब्रह्माऽचिन्तयदञ्जसे’ति षाड्गुण्ये ॥ ८ ॥

पदरत्नावली

विमर्शफलमाह- दिव्यमिति ॥ अखिललोकतापनम् अखिललोकप्रकाशनं तपः ज्ञानरूपं ब्रह्माऽतप्यत आलोचयामास दध्याविति यावत् । ‘तपोरूपं परं ब्रह्म ब्रह्माऽचिन्तयदञ्जसा’ इति । जितमनस्कत्वादिसर्वसाधारणमित्यतो विशिनष्टि- तपीयानिति ॥ तपतां तपीयान् अत्युत्तमोत्तमः। ‘द्विवचनविभज्योपपदे तरबीयसुनावि’त्युत्तरार्थत्वे ईयसुन् । ननु ईयसुनोऽत्युत्तमार्थत्वे किम्प्रमाणमित्यत उक्तं- स्मेति ॥ ‘स्मृतौ वृत्तौ निषेधे स्म’ इत्यभिधानात् । अनेन ‘महान् महीयसामादिं ब्रूयादत्युत्त-मोत्तममि’त्येतत्सूचयति । विजितोभयेन्द्रियत्वाद्यपि तपद्भ्य इतरेभ्य आधिक्यसूचनायोक्तमिति ज्ञातव्यम् । ‘यत्राधिकं वदेत्किञ्चिज् ज्ञेयोऽर्थस्तत्र चाधिकः’ इति वचनात् । अन्यथा तपोऽतप्यतेत्ये-तावदेवालम् । अत उभयेन्द्रियजयोऽपि ब्रह्मण औत्पत्तिको गुणः । ‘पराञ्चि खानि व्यतृणात्स्वयंम्भूः’ इति श्रुतेः । हरिमन्तरेणामोघदर्शनत्वं चास्यैवाधिकम् । ‘प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परिता बभूव’ इति श्रुतेः ॥ ८ ॥

प्रकाशिका

तप तपेत्यस्य वचसोऽर्थोऽमोघं दर्शनं यस्येत्यर्थः । जितो वशीकृतोऽनिलो वायुरात्मा मनश्च येन स तथा । विजितान्युभयेन्द्रियाणि ज्ञानकर्मसाधनानि येन सः । अत्र तपोऽ-तप्यतेति तपोविषयकं तपःकरणं प्रतीयतेऽतस्तद्धटयितुं तप इत्येतद्व्याख्याति ॥ तपो ब्रह्मेति ॥ तपःशब्दस्य ब्रह्मवाचकत्वे श्रौतप्रयोगं दर्शयति ॥ तपस इति ॥ अभितः समन्तात् । अधि आधिक्ये-नेद्धाद्दीप्तात्तपसः प्रकाशरूपाद् ब्रह्मणो ऋतं कर्म सत्यं सत्यवचनं जगद्वाऽजायतेति श्रुत्यर्थः । अखिललोकतापनमित्येतदखिललोकसन्तापकरमित्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ अखिलेति ॥ न केवलं स्वयं प्रकाशरूपं सर्वलोकप्रकाशकं चेत्यर्थः । अतप्यतेत्यस्य सन्तापोऽभूदित्यन्यथाप्रतीतिवार-णायार्थमाह ॥ आलोचयामासेति ॥ तपःशब्दोक्तस्य ब्रह्मणः कर्मत्वप्रदर्शनाय तदित्युक्तम् । आलोचने कालविशेषप्रदर्शनाय तदेत्यध्याहृतम् । द्व्यक्षरवचःश्रवणानन्तरमेवेत्यर्थः ।

ननु तपतां तपःकुर्वतां मध्ये तपस्वीति निर्धारणेनैवोत्तमत्वस्य लाभे पुनस्तद्वाचकस्येय-सुनोर्वैय्यर्थ्यमित्यतस्तदभिप्रायमाह ॥ तपतामिति ॥ उत्तमोत्तमत्वमुत्तमानां रुद्रादीनामप्युत्तमत्वमित्यर्थः। अत्युत्तमोत्तमत्वमिति पाठे तपस्विशब्देनैवेतरेभ्य उत्तमत्वमुक्तम् । निर्धारणेनात्युत्तमत्वम् ईयसुना च ततोऽप्युत्तमत्वमिति द्रष्टव्यम् । अत्र प्रमाणमाह ॥ महानिति ॥ महीयसामादिं महान् महीयसा-मित्यादिशब्दरूपमित्यर्थः । अत्रापि महच्छब्द उत्तमवाची ईयसुनाऽत्युत्तमत्वं निर्धारणेन च तदुत्तमत्व-मुक्तमिति ज्ञातव्यम् । अत्रादिपदेन प्रकृतोदाहरणादिकं ग्राह्यम् । कुत इत्यतः सामान्यतो वैदिक-शब्दन्यायं दर्शयति ॥ यच्चेति ॥ यत्किञ्चिच्छब्दरूपमधिकम् । आकांक्षितादप्यधिकं वदेत् । वेदे वा वैदिकेऽपि वेति शेषः । तत्रार्थश्चाधिको ज्ञेय इत्यर्थः । तपःशब्दस्य ब्रह्मवाचकत्वेऽप्यत्र तेन तद्ग्रहणं कुत इत्यतः स्मेत्यनेन सूचितां स्मृतिसमाख्यां दर्शयति ॥ तपोरूपमिति ॥ ८ ॥

तस्मै स्वलोकं भगवान्सभाजितः सन्दर्शयामास परं न यत्पदम् ।

व्यपेतसंक्लेशविमोहसाध्वसं सन्दृष्टवद्भिर्विबुधैरभिष्टुतम् ॥ ९ ॥

तात्पर्यम्

यद् यतः । ‘यत्तदित्यादयः शब्दाः पञ्चम्यन्ताः प्रकीर्तिता’ इति च माया-तीतत्वात् ॥ ९,१० ॥

पदरत्नावली

इदानीं स चापि यत्र पुरुष इति प्रश्नं परिहरति- तस्मा इति ॥ प्रीतिजनकतपसा सभाजितः पूजितः । यद्यतो लोकात् परमधिकं पदं स्थानं न । तस्मात् सन्दृष्टवद्भिः सम्यगपरोक्ष-ज्ञानवद्भिर् विबुधैर् अभिष्टुतम् अभितो मुख्यत्वेन स्तुतम् । अविद्याऽस्मितारागद्वेषादिनिवेशाः संक्लेशाः । मौढ्यं विमोहः । व्याकुलत्वं साध्वसम् । व्यपेताः संक्लेशादयो यस्मात्स तथा तम् ॥ ९ ॥

प्रकाशिका

स चापि यत्र पुरुष इति प्रश्नं परिहर्तुमाह ॥ तस्मा इति ॥ तस्मै ब्रह्मणे । स्वलोकं श्वेतद्वीपम् । सभाजितः पूजितः । अत्र यत्पदं स्थानं परमुत्तमं नेत्यन्यथाप्रतीतिवारणाय यच्छब्दस्य विवक्षितमर्थं दर्शयति ॥ यद्यत इति ॥ अत्र प्रमाणमाह ॥ यत्तदित्यादय इति ॥ तथा च यस्मात्परमुत्तमपदमन्यन्नेत्यर्थः । कुत इत्यतो यत्र न वर्तत रज इत्यादिनोक्तं हेतुमाह ॥ माया-तीतत्वादिति ॥ अप्राकृतत्वादित्यर्थः । तमेव लोकमनुवर्णयति पञ्चभिः । अविद्यास्मितारागद्वेषाभि-निवेशाः संक्लेशाः । मौढ्यं विमोहः । भयं साध्वसं, व्यपेताः संक्लेशादयो यस्मात्स तथा तम् । संदृष्टवद्भिः सं समीचीनं दृष्टं दर्शनमपरोक्षज्ञानं येषां ते तथा तैः । अभितः समन्तान् मुख्यतश्च स्तुतम्

॥ ९ ॥

न वर्तते यत्र रजस्तमस्तयोः सत्वञ्च मिश्रं न च कालविक्रमः ।

न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः ॥ १० ॥

पदरत्नावली

संक्लेशाद्यभावे कारणमाह- नेति ॥ तयोः रजस्तमसोर् विमिश्रं सत्वम् । सत्वरजसोर्विमिश्रं तमः । सत्वतमसोर्विमिश्रञ्च रजः । केवलं चित्प्रकृतिमय एव । कालविक्रमः कालकृतोत्पत्तिविनाशः वृद्धिक्षयादिलक्षणः । सत्वाद्यभावे कारणमाह- नेति ॥ माया त्रिगुणात्मिका जडप्रकृतिः । अपरे मायाविकाराः । तस्य लोकस्य मायातीतत्वात् । तर्ह्ययं शून्यागारतुल्य इति तत्राह- हरेरिति ॥ असनादसुर्हरिः । तस्मिन् रमन्त इति असुराः । असुरत्वगुणोपेतैः सुरैर् अर्चिताः । ‘महद्देवानामसुरत्वमेकमि’ति श्रुतेस् तं लोकमित्यन्वयः ॥ १० ॥

प्रकाशिका

संक्लेशाद्यभावे कारणमाह ॥ नेति ॥ यत्र लोके । सत्त्वशब्दस्य साधुत्ववाचि-त्वमप्यस्ति । तदत्र न विवक्षितमिति दर्शयितुं तयो रजस्तमसोर्मिश्रं सहचरितमिति सत्त्वविशेषणमुक्तम् । रजस्तमःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्यकृतो भावविकारः । माया प्रकृतिः । अपरे महदादयो न वर्तन्त इति किमु वक्तव्यम् । हरेरनुव्रता यत्र वर्तन्ते । असुराश्च साधवः सन्ति ॥ १० ॥

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः ।

सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥ ११ ॥

पदरत्नावली

श्यामवर्णाः, अवदाता निर्मलाश्च । ‘अवदातः सिते गौरे शुद्धे’ इति यादवः । अत्रस्तेन्द्रनीलवन्निर्मलाः । ‘दशदोषविनिर्मुक्तः श्याम इन्द्रमणिः स्मृतः’ इति वा । शतपत्रं पद्मम् । सुष्ठु रुक् प्रभा येषां ते सुरुचः । सुष्ठु पेशः सोन्दर्यं येषां ते सुपेशसः । ‘मृदुपिण्डश्च पेशस्स्यात्’ इति वचनात् सुकुमारतरशरीरा इति वा । उन्मिषन्तश् चक्षुष्मन्तः मणिप्रवेका रत्नश्रेष्ठा येषु ते तथा । ते च निष्का हेमनिर्मितवक्षोलङ्कारा येषां ते तथा । ‘निष्कोऽस्त्री हेमि्न कर्षशते पले । वक्षोविभूषणे कर्ष’ इति । सुवर्चसः सुतेजसः । अनेन सारूप्यादिभाजो मुक्ता अपि सन्तीत्युक्तं भवति ॥ ११ ॥

प्रकाशिका

श्यामाश्च तेऽवदाता निर्मलाश्च । शतपत्रं पद्मम् । पिशङ्गं पीतम् । सुष्टु रुक् प्रभा येषां ते सुरुचः । सुष्टु पेशः सौन्दर्यं येषां ते सुपेशसः । उन्मिषन्मणिप्रवेकनिष्काभरणाः । राश्मिमद्रत्न-प्रवरहाराभरणाः । हरेरनुव्रता यत्रेति सम्बन्धः ॥ ११ ॥

प्रवालवैदूर्यमृणालवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् ।

भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ।

विद्योतमानप्रमदोत्तमाभिः स विद्युदभ्रावलिभिर्यथा नभः ॥ १२ ॥

पदरत्नावली

पुनरपि तं लोकं विशिनष्टि- प्रवालेति ॥ यो लोको महात्मनां भ्राजिष्णुभिर् लसद्विमानावलिभिः सर्वतो विराजत इत्यन्वयः । प्रवालवद् वैडूर्यवद् वर्चः मृणालवत् प्रभा येषां ते तथा तेषाम् । परिस्फुरन्तः कुण्डलमौलयः कुण्डलानि मौलयश्च कुण्डलमौलयस् तेषां मालाः पङ्क्तय एषां सन्तीति परिस्फुरत्कुण्डलमौलिमालिनस् तेषाम् । परिस्फुरन्ति कुण्डलानि मौलयः किरीटा मालाः स्रजश्च एषां सन्तीति ते तथा तेषामिति वा । तत्र दृष्टान्तमाह- स विद्युदिति ॥ १२ ॥

प्रकाशिका

यो लोक एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते केचित्प्रवालवर्चस इत्यादि । परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादि-निरुत्पाद्यः । मौलयः किरीटानि ॥ विद्योतमानाः प्रमदोत्तमा यासु विमानावलिषु तास्तथोक्तास्ताभिः । यद्वा । विद्योतमानाभिः प्रमदोत्तमाभिर् भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना । प्रमदोत्तमा विद्युतो विमानावलयोऽभ्रावलयः ॥ १२ ॥

श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः ।

प्रेङ्खश्रिता याः कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती ॥ १३ ॥

तात्पर्यम्

प्रेङ्खश्रिता या विभूतयः ।

पदरत्नावली

प्रेङ्खश्रिता या रत्नदोलामाश्रिता या विभूतयस् ताभिर् विभूतिभिः स्वमूर्तिभिः सह । कुसुमाकरो वसन्तस् तस्य अनुगा भृङ्गकोकिलादयस् तदाकारमिता ब्रह्मादयस् तैर् विगीयमाना प्रियस्य भर्तुः कर्माणि गायती ॥ १३ ॥

प्रकाशिका

रूपिणी प्रत्यक्षा । मानं पूजाम् । बहुधा स्थिताभिर्विभूतिभिः स्वमूर्तिभिः । प्रेङ्खश्रिताया इत्यस्य षष्ठ्यन्तत्वेनान्वयाभावमालोच्यात्र विवक्षितां छेदं दर्शयति ॥ प्रेङ्खश्रिता या इति ॥ नन्वेवमप्यनन्वय इत्यतोऽन्वयं सूचयति ॥ विभूतय इति ॥ अनेन यच्छब्दस्य विभूतिपरामर्शक-त्वकथनेन याः प्रेङ्खं दोलामाश्रिता अतस्ताभिर्विभूतिभिः सहेत्यन्वय उक्तो भवति । कुसुमाकरो वसन्तस्तस्यानुगा भृङ्गकोकिलादयस्तैर्विविधं गीयमाना यत्प्रियस्य भर्तुः कर्म गायती ॥ १३ ॥

ददर्श तत्राखिलसात्वतां पतिं श्रियःपतिं यज्ञपतिं जगत्पतिम् ।

सुनन्दनन्दप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेवितं विभुम् ॥ १४ ॥

तात्पर्यम्

‘सत्वं तु शोभनत्वं स्यात्तद्युक्ताः सात्वता मता’ इत्यध्यात्मे । ‘मुक्तैः स्वपार्षदैः पूर्वैर्ब्रह्माद्यैश्चैव संयुतम् । ब्रह्मा ददर्श तपसा भगवन्तं हरिं प्रभुमि’ति गारुडे ॥ १४ ॥

पदरत्नावली

प्रयोजकपुरुषदर्शनं विना लोकमात्रदर्शनेन किमस्य प्रयोजनमत्राह- ददर्शेति ॥ तत्र एवंविधे श्वेतद्वीपाभिधे लोके मुक्तसभामध्ये मुक्तैः सेव्यमानम् आत्मनो बन्धकशक्तिप्रवर्तनं विरमय्य मुक्तप्रवर्तकत्वेन शयानं लक्ष्मीकान्तं ददर्शेत्यन्वयः । अनेन ‘मुक्त्वात्ममाया’मित्यस्य परिहारोऽप्युक्तो भवति । ‘मुक्तैः स्वपार्षदैः पूर्वैर् ब्रह्माद्यैश्चैव संयुतम् । ब्रह्मा ददर्श तपसा भगवन्तं हरिं प्रभुम् ॥’ इत्यनेन ब्रह्मा सगुणं ब्रह्म ददर्शेत्येतन्निरस्तम् । सतः शोभनस्य भावः सत्वं तेन युक्ताः सात्वन्तस् तेषां सात्वतां सात्वतानां पतिम् । तदुक्तं- ‘सत्वन्तु शोभनत्वं स्यात्तद्युक्ताः सात्वता मताः’ इति । विभुं सर्वगतमित्यनेन परिच्छिन्नरूपमत्रोच्यत इति निरस्तम् । ‘विभुः सर्वगते पत्यौ चन्द्रे रविकुबेरयोः’ इति

॥ १४ ॥

प्रकाशिका

तत्र लोके । अनेन स च यत्रेत्यस्य परिहारो जात इत्यवधेयम् । सात्वतानां यादवानां पतिमित्यन्यथाप्रतीतिवारणायात्र विवक्षितं सात्वच्छब्दार्थं प्रमाणेनैव दर्शयति ॥ सत्त्वं त्विति ॥ सात्वच्छब्दस्य सात्वतशब्दपर्यायत्वान्न प्रकृतासङ्गतिरिति भावः । तथा च सत्त्वं शोभनत्त्वं मुक्तत्वं तद्वन्तः सात्वन्तस्तेषामिति मूलार्थः । मुक्त्वाऽऽत्ममायामित्यस्यानुवादोऽयम् । नन्वेवं मुक्तपतित्वं सात्वतां पतिमित्यस्यार्थश्चेत्सुनन्दनन्दाद्यमुक्तसेव्यत्वकथनमनुपपन्नमित्यतोऽत्र विवक्षितान् पार्षदादीन् दर्शयितुं प्रमाणान्तरसंवादमाह ॥ मुक्तैरिति ॥ मुक्तैरेवेति सम्बन्धः । मूलगतादिशब्दार्थः ॥ ब्रह्माद्यैश्चेति ॥ १४ ॥

भृत्यप्रसादाभिमुखं दृगासवैः प्रसन्नहासारुणलोचनाननम् ।

किरीटिनं कुण्डलिनं चतुर्भुजं पीतांशुकं वक्षसि लक्षितं श्रिया ॥ १५ ॥

पदरत्नावली

दृगासवैर् नेत्राभ्यां यानि दर्शनानि तान्येवामृतानि तैः । ‘दृक् स्त्री स्याद्दर्शने बुद्धौ नेत्रे द्रष्टरि च त्रिष्वि’ति । प्रसन्नेन हासेन अरुणाभ्यां लोचनाभ्यां सहितम् आननं यस्य स तथा तम् । किरीटिनं कुण्डलिनमित्यत्र इन्प्रत्ययस्य मतुबादित्वादयमिन् नित्ययोगार्थः । ‘भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥’ इति वचनात् । वक्षसि स्थितया श्रिया लक्ष्म्या लक्षितमित्येतल्लक्षणं हरेरेवेत्यभिप्रायेणोक्तम् ॥ १५ ॥

प्रकाशिका

अत्रापि मुक्तैरित्यनुवर्तनीयम् । ‘दृक् स्त्री स्याद् दर्शने बुद्धौ नेत्रे द्रष्टरि च त्रिष्वि’ति दृगासवैर्दृष्टयोऽमृतानीव तैः । भृत्यप्रसादाभिमुखं भृत्यानां प्रसादेऽभिमुखत्वेन प्रतीयमानम् । प्रसन्नहासारुणलोचनम् आननं यस्य स तथा ॥ वक्षसि स्थिततया श्रिया लक्षणभूतया लक्षितमितर-व्यावृत्ततया ज्ञातम् ॥ १५ ॥

अध्यर्हणीयासनमास्थितं विभुं वृतं चतुष्षोडशपञ्चशक्तिभिः ।

युक्तं भगैः स्वैरितरत्र चाध्रुवैः स्व एव धामन्रममाणमीश्वरम् ॥ १६ ॥

तात्पर्यम्

इच्छाद्या मोचिकाद्याश्च अणिमाद्याश्च शक्तयः । प्रदिष्टा वासुदेवाद्या दामोदर-परास्तथा । अङ्गानि विमलाद्यास्तु प्रह्व्याद्यात्मादिका मताः । एवं षोडशभिश्चैव पञ्चभिश्च हरिः स्वयम् । चतुर्भिश्च वृतो नित्यं तत्स्वरूपाश्च शक्तय’ इति भागवततन्त्रे ॥ १६ ॥

पदरत्नावली

नारायणत्वनिर्णयाय लक्षणान्तरञ्चाह- अध्यर्हणीयेति ॥ वृतमिति ॥ चतुः-षोडशपञ्चशक्तिभिर्वृतम् । इच्छाज्ञानक्रियाबलाख्याभिः प्रह्वीसत्येशानानुग्रहाख्याभिर् आत्मान्तरात्म-परमात्मज्ञानात्माख्याभिः, इति चतुःशक्तिभिर्वृतम् । मोचिका सूक्ष्मा सूक्ष्मामृता ज्ञानामृताऽप्यायिनी व्यापिनी । व्योमरूपिण्यनन्ताणिममहिमगरिमलघिमप्राप्तिप्राकाशेशित्वप्रकाम्याख्याभिः षोडशशक्तिभिश्च वृतम् । वासुदेवादिदामोदरान्ताभिः षोडशशक्तिभिश्च तथा पञ्चाङ्गाभिधाभिर् विमलोत्कर्षिणी ज्ञानक्रियायोगाख्याभिः पञ्चशक्तिभिश्च परिवृतमिति । ‘मोचिका चैव सूक्ष्मा च तथा सूक्ष्मामृता परा । ज्ञानामृताप्यायिनी च व्यापिनी व्योमरूपिणी । अनन्ता चैव सम्प्रोक्ता मोचिकाद्याश्च शक्तयः ॥’ इति वायुप्रोक्ते । ‘इच्छाद्या मोचिकाद्याश्च अणिमाद्याश्च शक्तय’ इत्यादेः । युक्तमित्यनेन स्वरूपभूता न भवन्तीति नाशङ्कनीयम् । योगशब्दस्य सन्नहने वृत्तेः । ‘तत्स्वरूपाश्च शक्तयः’ इति च । इतरत्र पुरुषान्तरेषु अध्रुवैरनित्यैः स्वैः स्वरूपैर् भगैरैश्वर्यादिभिश्च युक्तम् । स्व एव धामन् स्वरूपानन्द एव रममाणं, नान्यत्रेत्येवशब्दार्थः । ब्रह्मा एवंविधम् ईश्वरं ददर्शेति पूर्वत्रान्वयः ॥ १६ ॥

प्रकाशिका

अध्यर्हणीयम् आधिक्येन सर्वैः पूज्यम् । आसनमनन्तात्मकं योगपीठम् । चतुःषो-डशपञ्चशक्तिभिर्वृतमित्यस्य चतस्रः प्रकृतिपुरुषमहदहङ्काररूपाः । षोडशैकादशेन्द्रियमहाभूताख्याः । पञ्च तन्मात्रारूपा याः शक्तयस्ताभिर्वृतमिति व्याख्यानं प्रमाणविरुद्धमित्याशयेन प्रमाणान्तरेणात्र विवक्षिताः शक्तीर्दर्शयति ॥ इच्छाद्या इति ॥ इच्छा ज्ञानं क्रिया सत्यमिति प्रमाणोक्ता इच्छाद्या-श्चतुःशक्तयः । मोचिका चैव सूक्ष्मा च तथा सूक्ष्मामृतापि च । ज्ञानामृताऽप्यायिनी च व्यापिनी व्योमरूपिणी । अनन्ता चैव संप्रोक्ता मोचकाद्याश्च शक्तय इति प्रमाणोक्ता अष्टौ मोचकाद्याः । अणिमा लघिमा चेत्यादि प्रमाणप्रसिद्धाश्चाष्टौ । एवं षोडश शक्तयः । प्रकारान्तरेणापि षोडशशक्तीराह ॥ प्रदिष्टा इति ॥ वासुदेवाद्याश्चतस्रः प्रसिद्धाः । दामोदरपरा इत्यत्र केशवमारभ्येति शेषः । पञ्चशक्तीः प्रकारद्वयेनाह ॥ अङ्गानि विमलाद्यास्त्विति ॥ कृद्धोल्कादीनि पञ्चाङ्गानि वा विमलोत्कर्षिणी ज्ञानक्रियायोगाख्या वा पञ्च शक्तयः । तुशब्दः पञ्चतन्मात्राणां पञ्चशक्तित्वव्यवच्छेदार्थः । पुनः प्रकारद्वयेन चतुःशक्तीर्दर्शयति ॥ प्रव्हीसत्येशानुग्रहाख्याश्चेति प्रव्ह्याद्याः । आत्माऽन्तरात्मपरमात्म-ज्ञानात्मानश्चेत्यात्मादिकाश्चेति द्वन्द्वः । शक्तयो मता इत्यर्थः । एवमेवेत्येवकारान्वयः । स्वयं स्वेच्छया । उक्ताः शक्तयो नावरणमात्ररूपाः किन्तु हरिरेवेत्याह ॥ तत्स्वरूपा इति ॥ मूले स्वैः स्वरूप-भूतैर्भगैरैश्वर्यादिषड्गुणैरितरत्र पुरुषान्तरेष्वध्रुवैरनित्यैः । स्वैरित्यस्य व्यावर्त्यप्रदर्शनायेदम् । स्व एव धामन् स्वस्वरूप एव । अत एवेश्वरम् । ब्रह्मा ददर्शेति पूर्वेणान्वयः ॥ १६ ॥

तद्दर्शनाह्लादपरिप्लुतान्तरो

हृष्यत्तनुः प्रेमभराश्रुलोचनः ।

ननाम पादाम्बुजमस्य विश्वसृक्

यत्पारमहंस्येन पथाऽधिगम्यते ॥ १७ ॥

पदरत्नावली

तस्य हरेर् दर्शनादुद्भूतेन आह्लादेन परिप्लुतम् आर्द्रीभूतम् आन्तरं यस्य स तथा । हृष्यन्ती रोमाञ्चं कुर्वन्ती तनुर्यस्य स तथा । प्रेमभरेण जातेन अश्रुणा पूर्णे लोचने यस्य सस् तथा । यत्पादाम्बुजं पारमहंस्येन परमहंससंबन्धिना पथा ज्ञानमार्गेण अहिंसादिधर्मजन्येन अधिगम्यते ज्ञायते

॥ १७ ॥

प्रकाशिका

तस्य हरेर्दर्शनेन जनितेनाह्लादेन परिप्लुतमार्द्रीभूतमान्तरमन्तःकरणं यस्य स तथा । हृष्यंती रोमाञ्चिता तनुर्यस्य स तथा । प्रेमभरेण भक्त्युद्रेकेण जातैरम्बुभिः पूर्णानि लोचनानि यस्य स तथा । विश्वसृक् ब्रह्मा । यत्पदाम्बुजं पारमहंस्येन परमहंससम्बन्धिना । पथा अहिंसादिधर्मजन्येन ज्ञानमार्गेण ॥ १७ ॥

तं प्रीयमाणं समुपस्थितं कविं

प्रजाविसर्गे निजशासनार्हणम् ।

बभाष ईषत्स्मितशोचिषा गिरा

प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥ १८ ॥

पदरत्नावली

प्रीयमाणं हृष्यन्तं कविं ब्रह्माणम् । ‘आदिकवये’ इत्युक्तेः । ‘कविर्यः पुत्रः स इमां चिकेत’ इति श्रुतेश्च । ईषद्बभाष इत्यनेन शब्दतोऽल्पत्वं, अर्थतो गुरुत्वं द्योत्यते । ‘प्रकृत्या मितभाषिण’ इति वचनात् । करे स्पृशन्नित्यनेन प्रीतमनस्कत्वं प्रकाशयति । मनसि प्रसन्ने तदितरेन्द्रियाणां प्रसन्नत्वं किं वक्तव्यमित्यर्थः ॥ १८ ॥

प्रकाशिका

तं ब्रह्माणं प्रीयमाणं हृष्यन्तं प्रजाविसर्गे तल्लक्षणकार्ये निजशासनार्हणं स्व-नियोगार्हम् । प्रजाविसर्गे समुपस्थितमिति वान्वयः । ईषत्स्मितेन शोचिर्दीप्तिः शोभा यस्यास्तया गिरा । प्रीतमनस्कत्वं दर्शयितुं करे स्पृशन्नित्युक्तम् । ॥ १८ ॥

भगवानुवाच—

त्वयाऽहं तोषितः सम्यग्वेदगर्भसिसृक्षया ।

चिरं भृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥ १९ ॥

पदरत्नावली

आन्तरीम् अन्तःकरणप्रीतिं वाचा उद्गलयति- त्वयेति ॥ किं धनादिनेत्यत उक्तं- तपसेति ॥ किमर्थेनेत्यत उक्तं- सिसृक्षयेति ॥ अनुपचिताङ्गोपाङ्गेनेत्यत उक्तं- चिरमिति ॥ अहं न तपोमात्रेण तुष्यामि किन्तु त्वादृशानामधिकारिणामेवेति भावेनोक्तं- दुस्तोष इति ॥ १९ ॥

प्रकाशिका

नाहं तपोमात्रेण तुष्यामि किन्तु त्वादृशानामधिकारिणामेवेति भावेन आह ॥ दुस्तोष इति ॥ तोषयितुमशक्य इत्यर्थः ॥ १९ ॥

वरं वरय भद्रन्ते वरेशं माऽभिवाञ्छितम् ।

सर्वश्रेयःपरिश्रामः पुंसां मद्दर्शनावधिः ॥ २० ॥

पदरत्नावली

स्वतुष्टिफलमाह- वरमिति ॥ पुंसां सर्वश्रेयःपरिश्रामस् तपआदिसर्वकल्याणानां परिश्रामः परिपाकः मद्दर्शनावधिर् मद्विषयावलोक एवावधिः पर्यवसानं यस्य स तथा । मद्दर्शनमेव सर्वश्रेयसां फलमिति यतोऽतो मद्दर्शनाख्यसर्वश्रेयःफलवांस्त्वंं, दृष्टं मा माम् अपादानीकृत्य वाञ्छितं वरं वरयेत्यन्वयः । ते तुभ्यं भद्रमस्त्विति । वरेशमित्यनेन याचितं दातुं समर्थ इति द्योतयति ॥ २० ॥

प्रकाशिका

मा माम् । सर्वेषां श्रेयसां फलानां परिश्रामः साधनायासो, मम दर्शनमवधिर्यस्य स तथा । मद्दर्शने सर्वपुरुषार्थप्राप्तिर्भवतीति भावः ॥ २० ॥

मनीषितानुभावोऽयं मम लोकावलोकनम् ।

यदुपश्रुत्य रहसि चकर्थ परमं तपः ॥ २१ ॥

तात्पर्यम्

मनीषितं तपः ॥ २१ ॥

पदरत्नावली

तपसः कर्तव्यत्वं श्रद्धापयति- मनीषितेति ॥ यद्द्व्यक्षरं तप इति वच उपश्रुत्य रहसि मद्गुणालोचनरूपं परमं तपस् त्वं चकर्थ कृतवान्, यन्मम लोकावलोकनं ममावलोक-नञ्च, अयं मम मनीषितस्य अभिप्रेतस्य तपसोऽनुभावो महिमेत्यन्वयः ॥ २१ ॥

प्रकाशिका

एतच्च मद्दिष्टतपःसामर्थ्येनैव त्वया प्राप्तमित्याह ॥ मनीषितेति ॥ अत्र मनीषित-शब्दस्य प्रकृतसङ्गतमर्थं दर्शयति ॥ मनीषितं तप इति ॥ ततश्चायं मूलार्थः ॥ यन्मे मम लोकाव-लोकनमसौ, द्व्यक्षरवचो रहस्युपश्रुत्य त्वं यत्परमं तपश्चकर्थ । तस्य मनीषितस्य मद्दिष्टस्य तपसो अनुभावो महिमेति ॥ २१ ॥

प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।

तपो मे हृदयं साक्षादात्माऽऽहं तपसोऽनघ ॥ २२ ॥

तात्पर्यम्

कर्मविमोहिते इदं कार्यमित्यजानति । हृदयं प्रियम् । ‘प्रियं हृदयमुद्रिक्तं कान्तमित्यभिधीयत’ इत्यभिधानात् । ‘तपः प्रियं सदा विष्णोस्तपसैवाप्यते हरिः । स्वयं च तपसैवेदं बिभर्ति ज्ञानमेव हि । तपःशब्दाभिधं प्रोक्तं ज्ञानरूपो हरिर्यतः । ज्ञानवीर्यो ज्ञानबलो ज्ञानानन्द उदाहृत’ इति बृहत्संहितायाम् ॥ २२ ॥

पदरत्नावली

तपसः स्वमनीषितत्वं कथयति- प्रत्यादिष्टमिति ॥ तत्र तदा त्वयि कर्मविमोहिते इदं कर्तव्यमित्यजानति सति मया तपः कुर्विति प्रत्यादिष्टं त्वाम् उद्दिश्योक्तम् । तस्मान् मनीषितं तप इत्यन्वयः । त्वत्प्रसादजनकं तप एवेति कुतः ? अन्यत्किञ्चन स्यादिति तत्राह- तप इति ॥ हृदयं प्रियम् । तदुक्तं- हृदयं प्रियमुद्रिक्तं कान्तमित्यभिधीयते’ इति । तदुपपादयति- साक्षादिति ॥ अहं साक्षात्तपस आत्मा ज्ञानात्मेति यस्मात् ॥ २२ ॥

प्रकाशिका

यत्तपश्चकर्थ तदपि न स्वबुद्ध्येत्याह ॥ प्रत्यादिष्टमिति ॥ अत्र कर्मणि विमोहिते भ्रान्ते सतीत्यन्यथाप्रतीतिवारणाय कर्मविमोहितशब्दयोः प्रकृतसङ्गतमर्थं दर्शयति ॥ कर्मविमोहित इति ॥ तथा च क्रियत इति व्युत्पत्त्या कर्मशब्दः कार्यपरः । मुह वैचित्य इति धातोर् मोहितशब्दो ज्ञानरहितपर इति भावः । एवं चैवं मूलयोजना । तदपि त्वां प्रति मयैवादिष्टम् । कदा तत्र तदा सृष्ट्यारम्भे त्वयि कर्मणि कार्यविषये विमोहिते इत्थमिदं कार्यमिति ज्ञानरहिते सतीति । तपस एव स्वमनीषितत्वं कुत इत्यतस्तदुपपादयति ॥ तपो मे हृदयमिति सार्धश्लोकेन । अत्र प्रकृतसङ्गतं हृदय- शब्दस्यार्थं दर्शयति ॥ हृदयमिति ॥ कुत इत्यत आह ॥ प्रियमिति ॥ एवं हृदयशब्दार्थं सप्रमाण-मुक्त्वेदानीं सार्धश्लोकार्थं प्रमाणेन दर्शयति ॥ तपः प्रियमिति ॥ म इत्यस्यार्थः विष्णोरिति । तपोहृदयमिति प्रतिज्ञांशव्याख्यानं तपः प्रियमिति । साक्षादित्यस्यार्थः ॥ सदेति ॥ कुत इत्यत आत्माऽहं तपस इति हेतुवाक्यस्य तात्पर्यमाह ॥ तपसैवेति ॥ अधिकारिभिर्यत इति शेषः । अनेनाप्यते इत्यात्मशब्दस्यार्थो दर्शित इति ध्येयम् । अत्रैव हेत्वन्तरकथनाय प्रवृत्तस्य सृजामीत्यादेस्तात्पर्यमाह ॥ स्वयं चेति ॥ बिभर्तीत्युपलक्षणम् । सृजति संहरतीत्यपि ग्राह्यम् । तथा च मोक्षहेतुत्वा-त्सृष्ट्यादिहेतुत्वाच्च तपो विष्णोः सदा प्रियमित्युक्तं भवति । ननु सृष्ट्यादिकारणत्वेनोच्यमानं तपो न सन्तापात्मकं, भगवति तदसंभवात् । अन्यदीयस्य तपसो ग्रहणे तपो मे वीर्यमिति वक्ष्यमाण-विरोधादित्यतोऽत्र विवक्षितं तपःशब्दार्थं दर्शयति ॥ ज्ञानमेवेति ॥ न सन्ताप इत्यवधारणार्थः । हिशब्दो यस्य ज्ञानमयं तप इति श्रौतप्रसिद्धिद्योतकः । ननु जडशरीरेन्द्रि-यादिरहितस्य हरेर्ज्ञानमपि कथमित्यत उक्तम् ॥ ज्ञानरूप इति ॥ अतस्तपसा सृष्ट्यादिकं तस्योपपन्नमिति शेषः । अनेनात्माऽहं तपस इत्येतस्य तपसो ज्ञानस्याहमात्मा स्वरूपमिति प्रकारान्तरेण तात्पर्यमुक्तमिति ध्येयम् । ननु श्रुत्यादौ भगवद्वीर्यबलानन्दानामपि सृष्ट्यादि-कारणत्वमुच्यतेऽतस्तपसैवेति कथमवधारणं युक्तमित्यत आह ॥ ज्ञानवीर्य इति ॥ वीर्यशब्दः पराक्रमपरः । बलं तत्साधनभूता शक्तिः । अनेन वीर्यं मे तप इत्येतदुक्तार्थमिति ज्ञातव्यम् ॥ ततश्चायं सार्धश्लोकार्थः ॥ हे अनघ आलस्यादिदोषरहित । तपः ज्ञानं साक्षात्सर्वदा मे हृदयं प्रियम् । कुत इत्यत उक्तं तपसो ज्ञानस्य सकाशादहमात्माऽऽप्यो यत इति

॥ २२ ॥

सृजामि तपसैवेदं ग्रसामि तपसा पुनः ।

बिभर्मि तपसा विश्वं वीर्यं मे दुस्तरं तपः ॥ २३ ॥

पदरत्नावली

तस्मादिदं तपसैव सृजामि । पदार्थविषयाशेषविशेषज्ञानाभावे तदनुपपत्तेः । उपसंहरति- वीर्यमिति ॥ वीर्यं माहात्म्यम् । जडोपचितज्ञानत्वात्सुतरामितरेषाम् । इदन्तु न तादृशमतो दुस्तरमित्यर्थः । कायक्लेशसाध्येन तपसा सृष्ट्यादिकञ्चेद्धरेरपि क्लेशित्वमापद्यत इत्याशङ्का ‘तपः प्रियं सदा विष्णोस् तपसैवाप्यते हरिः’ इत्यादिना परिहृतेति ज्ञातव्यम् । साक्षादात्मेति, वीर्यमिति कथनाच्च । न हि पूर्णानन्दस्य हरेः क्लेशात्मकत्वं युज्यते । तस्मात् तपःशब्देन ज्ञानमेवोच्यत इत्यर्थः ॥ २३ ॥

प्रकाशिका

हेत्वन्तरमप्याह ॥ सृजामीति ॥ ग्रसामि संहरामि । बिभर्मि पालयामि । इदं विश्वमिति सम्बन्धः । ननु वीर्यादीनामपि सृष्ट्यादिहेतुत्वमन्यत्रोक्तमतः कथं तपसैवोच्यत इत्यत उक्तम् ॥ वीर्यं मे तप इति ॥ वीर्यादयोऽपि ज्ञानरूपा एवातो न कोऽपि विरोध इति भावः । इतरज्ञानवैलक्षण्यदर्शनाय दुस्तरमित्युक्तम् । तर्तुमशक्यं दुस्तरम् । अपारमित्यर्थ इति ॥ २३ ॥

ब्रह्मोवाच—

भगवन्सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् ।

वेद ह्यप्रतिरुद्धेन प्रज्ञानेन चिकीर्षितम् ॥ २४ ॥

पदरत्नावली

वरमादास्यतो ब्रह्मणो हरिं प्रति विज्ञापनप्रकारमाह- भगवन्निति ॥ भवता वरं वरयेति मां प्रति यदादिष्टं तद्विडम्बनं मन्ये । तथा हि- सर्वभूतानां हृदयगुहाम् अध्यक्षः सन् अध्यवस्थितो भवान् अप्रतिरुद्धेन अप्रतिहतेन ज्ञानेन सर्वेषां चिकीर्षितं वेद । हि यस्मात्तस्मान्म-च्चिकीर्षितमपि वेद ॥ २४ ॥

प्रकाशिका

अध्यक्षो द्रष्टा । गुहां गुहायाम् । अवस्थितः सन् । सर्वभूतानां सर्वप्राणिनां चिकीर्षितं, हि यस्माद्वेद तस्मान्मच्चिकीर्षितमपि वेत्येव भवान् । यद्यपीति शेषः ॥ २४ ॥

अथापि नाथमानाय नाथ नाथय नाथितम् ।

परावरे यथा रूपे जानीयां ते त्वरूपिणः ॥ २५ ॥

यथाऽत्ममायायोगेन नानाशक्त्युपबृंहितः ।

विलुम्पन् विसृजन् गृह्णन् बिभ्रदात्मानमात्मना ॥ २६ ॥

क्रीडस्यमोघसङ्कल्प ऊर्णनाभिर्यथोर्णुते ।

तथा तद्विषयां धेहि मनीषां मयि माधव ॥ २७ ॥

पदरत्नावली

तथापि वरं वरयेति भवदाज्ञाकर्तव्यतया वरं याचे इति विज्ञापयति- अथापीति ॥ नाथमानाय याचमानाय नाथितं याचितं वरं नाथय समर्थय । ‘नाथृनाधृयाञ्चोपता-पैश्वर्याशीःष्वि’ति धातुः । कोऽसौ चित्तीकृतो वर इति तत्राह- परावरे इति ॥ अरूपिणः प्राकृतरूपरहितस्य तव चिदानन्दाद्यात्मकवैराजाख्यं परं रूपं सनवावरणाण्डाख्यम् अवरम् अपरं रूपमिति द्वे परावरे रूपे यथा येन प्रकारेण जानीयां तथा तद्विषयां मनीषां मयि धेहि आधेहि इत्यन्वयः । तुशब्देन ते च रूपे सत्ये इत्यवधारयति । ‘द्वे वाव ब्रह्मणो रूपे’ इत्यादिश्रुतिसिद्धत्वात् । अनेन कार्यकारणरूपे व्यवार्तयति ॥

किञ्च यथा ऊर्णनाभिर् लूताकीट ऊर्णाम् ऊर्णुते सृजते बिभर्ति च, ऊर्णामण्डलमध्ये क्रीडति । अथ च आत्मन्येव लुम्पति, तथा आत्ममायायोगेन स्वरूपेच्छायोगेन अवियोगिन्या श्रिया च जगत् सृजन्, आत्मना स्वभावेन आत्मानं गृह्णन् , बिभ्रत् पालयन्, विलुम्पन् क्रीडसि च यथा तथा तद्विषयां मनीषां धेहीति । ‘नानाशक्त्युपबृंहितः’ ‘अमोघसङ्कल्प’ इत्याभ्याम् ऊर्णनाभेर् हरेर्वैशिष्ट्यं दर्शयति ॥२५-२७॥

प्रकाशिका

नाथमानाय याचमानाय । हे नाथ । नाथयाशंसय प्रयच्छ । नाथितं याचितम् । नाथृनाधृयाञ्चोपतापैश्वर्याशीःष्विति धातुव्याख्यानात् । नाथितमेवाह ॥ परावरे इति ॥ अरूपिणः प्राकृतरूपरहितस्य ते तव ज्ञानविज्ञानविषयभूतं परं स्वतन्त्रं परमात्मस्वरूपम् । अवरं तदधीनं जीवजडात्मकमिति द्वे परावरे रूपे । यथा येन प्रकारेण पररूपस्य स्वातन्त्र्यमवररूपस्य चास्वातन्त्र्यं येन प्रकारेण जानीयामित्यर्थः । तथा तद्विषयामिति वक्ष्यमाणेनान्वयः ॥

अन्यदपि नाथितमाह ॥ यथेति ॥ यथोर्णनाभिः कीटविशेष ऊर्णमूर्णुते सृजति । बिभर्त्यूर्ण-मण्डलमध्ये क्रीडति । अन्त आत्मन्येव विलुम्पति च । तथाऽमोघसङ्कल्पः सत्यवाञ्च्छितो नाना-शक्त्युपबृंहितस्तत्तत्कार्यानुकूलशक्तिपरिपूर्णस्त्वमात्ममायायोगेन स्वरूपेच्छालक्षणोपायेन स्वाधीनप्रकृति-लक्षणोपायेन वा जगत्सृजन् आत्मना स्वयमेवात्मानमवतारं गृह्णन् बिभ्रत् पालयन् विलुम्पंश्च क्रीडसि । यथा तथा च तद्विषयां मनीषां बुद्धिं मयि धेहि ॥

अत्र नानाशक्त्युपबृंहितोऽमोघसङ्कल्प इति विशेषणद्वयं हरेरूर्णनाभिवैलक्षण्यमप्यस्तीति द्योतयितुम् । तथा चोर्णनाभिः स्वसृष्टोर्णमध्य एव तदुपजीव्य तिष्ठति । तव तु तद्विलक्षणत्वात्स्वसृष्टजगतोऽन्यत्र सत्वं तदनुपजीवनं च संभावितं तदपि जानीयामित्याशयः । माधवेति सम्बोधनेन सृष्ट्यादिव्यापारे रमाया अप्युपयोगोऽस्तीति दर्शयति ॥ २५-२७ ॥

भगवच्छिक्षितमहं करवाणि ह्यतन्द्रितः ।

नेहमानः प्रजासर्गं बध्येयं यदनुग्रहात् ॥ २८ ॥

पदरत्नावली

तादृशमनीषाप्रयोजनमाह- भगवच्छिक्षितमिति ॥ यदनुग्रहाद् यस्या मनीषाया आनुकूल्येन ग्रहणात् । अतन्द्रितोऽहं भगवता शिक्षितं करवाणि । अथ यदनुग्रहाच्च प्रजासर्गमीहमानः कुर्वाणो न बध्येयं तादृशीं मनीषाम् । यस्य भगवतो अनुग्रहाच्च न बध्येयं तेन भगवता शिक्षितमेव करवाणीति वरान्तरप्रार्थनं वा ॥ २८ ॥

प्रकाशिका

तत्किं सृष्टिकरणेऽलसः सन् एतादृशीं मनीषां प्रार्थयसे नेत्याह ॥ भगवच्छि-क्षितमिति ॥ भगवता त्वया शिक्षितमनुशिष्टमतन्द्रितोऽनलसः सन् करवाणि करिष्यामि । तर्हि किमनया मनीषयेत्यत आह ॥ नेहमान इति ॥ यदनुग्रहाद् यश्चासावनुग्रहश्च तस्मान्मनीषादानरूपात्त्व-दनुग्रहात्प्रजासर्गमीहमानः कुर्वन्नहं न बद्ध्येयम् । अहङ्कारादिभिर्बद्धो न भवेयमतस्तमनुग्रहं कुर्विति भावः ॥ २८ ॥

यावत्सखा सख्युरिवेश ते कृतः

प्रजाविसर्गे विभजामि भोजनम् ।

अविक्लवस्ते परिकर्मणि स्थितो

मा मे समुत्पन्न(समुन्नद्ध)मदोऽजमानिनः ॥ २९ ॥

पदरत्नावली

इदानीं बन्धमूलाहङ्कारनाशं प्रार्थयत इत्याह- यावदिति ॥ ईश, यथा सखा राजादिः स्वोक्तकारिणः सख्युर् जनपदाद्यधिकारं ददाति, तथा ते त्वया प्रजाविसर्गे कृतो ऽधिकृतो ऽविक्लवस् त्वत्प्रसादाद् दैन्यहीनस् ते तव परिकर्मणि जगत्सृष्ट्यादिशुश्रूषाकर्मणि स्थितो ऽहं यावद् रुद्रादिप्रजानां त्वदाज्ञया ‘तवेदं पदं तवायं भोगः’ इत्यादिरूपं भोजनं विभजामि विभज्य विभज्य ददामि तावन् मच्छतायुःपर्यन्तं, अजमानिन आत् सर्वविलक्षणात् त्वज्जातोऽहमित्यभिमानिनो मे समुन्नद्धमदः समुन्नतोऽहङ्कारः जगतः स्रष्टाऽहमित्यादिलक्षणः मा भूदित्यन्वयः । भोः स्वामिन्, यथा सख्युर् व्यापारेऽधिकृतः सखा तात्पर्यात् तत्कार्यं करोति तथाऽहमपि त्वत्प्रजासर्गेऽधिकृतः यावज् जन्यते इति जनः जन्यपदार्थस् तं विभजामि, सुरनरतिर्यगादिरूपेणोत्पादयामि तावत्समुन्नद्धमदो मा भूदिति वा ॥ २९ ॥

प्रकाशिका

इदानीं त्वत्सन्मानादिना मम मदोद्भवो माभूदिति प्रार्थयते ॥ यावदिति ॥ भो ईश । ते त्वया । लौकिकस्य सख्युः सखेवाहं कृतः करस्पर्शादिना सन्मानितः सन् प्रजाविसर्गरूपे तव परिकर्मणि सेवायां स्थितोऽविक्लवोऽव्याकुलो यावज्जनं विभजामि उत्तममध्यमादिभेदेन सृजामि । तेषां भोजनं भोगं विभजामि विभज्य ददामि तावन् ममैतद्व्यापारसमाप्तिपर्यन्तम् । अजमानिन आद् भगवतो जातोऽहमित्यभिमानवतो मे समुत्पन्नो मदो माभूत् । प्रभुसन्मानेनैश्वर्येणाभिजात्या च मदोत्पत्ति-र्लौकिकानां भवति । सा तद्वतोऽपि मम न स्यादित्यर्थः । समुन्नद्धमद इति पाठे समुन्नद्ध उत्कृष्टो मदो माभूदित्यर्थः ॥ २९ ॥

भगवानुवाच—

ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितम् ।

सरहस्यं तदङ्गं च गृहाण गदितं मया ॥ ३० ॥

तात्पर्यम्

‘येन येन यथा ज्ञात्वा नियतं मुक्तिराप्यते । तद्विज्ञानमिति प्रोक्तं ज्ञानं साधारणं स्मृतमि’ति वामने ॥ ३० ॥

पदरत्नावली

यत्किञ्चित् पृष्टं यः कश्चित् परिहार इत्यतः परावरे इति प्रार्थितवरदानप्रकारं वक्ति- ज्ञानमिति ॥ नियतमुक्तिप्रापकेण स्वबिम्बविषयेण विज्ञानेन समन्वितं मे स्वरूपविषयं सरहस्यम् उपनिषत्संवादसहितं यज्ज्ञानं, तस्य ज्ञानस्य यदङ्गञ्च तन् मया गदितं गृहाण इत्यन्वयः । उपनिषदो बाह्यार्थरूपञ्चेदिदमनुपादेयं स्यादित्यत उक्तं- परमेति ॥ ज्ञानं शास्त्रार्थविषयं विज्ञानं स्वानुभव इत्यपव्याख्यानं, गदितमित्यनेन सूचितया ‘येन येन यथा ज्ञात्वा नियतं मुक्तिरिष्यते । तद्विज्ञानमिति प्रोक्तं ज्ञानं साधारणं स्मृतम् ॥’ इति स्मृत्या निरस्तम् ॥ ३० ॥

प्रकाशिका

परावरे इति प्रार्थितवरे तावत्परस्वरूपविषयज्ञानविज्ञानदानप्रकारं वक्तुमाह ॥ ज्ञानमिति ॥ अत्र ज्ञानविज्ञानशब्दयोर्ज्ञानं शास्त्रजन्यं विज्ञानमनुभव इति व्याख्यानमप्रामाणिकमिति भावेन तयोरर्थं प्रमाणेनैव दर्शयति ॥ येन येनेति ॥ येन येनाधिकारिणा । यथा यावद्गुणादिविशिष्टत्वेन । नियतं यथा स्यात्तथा । साधारणं सर्वाधिकारिसाधारणम् । मूले परमगुह्यं गोप्यं सरहस्यमुप-निषत्संवादसहितं, तदङ्गं तस्य ज्ञानस्याप्यङ्गं साधनम् ॥ ३० ॥

यावानहं यथा भावो यद्रूपगुणकर्मकः ।

तथैव तस्य विज्ञानमस्तु ते मदनुग्रहात् ॥ ३१ ॥

पदरत्नावली

‘यथात्ममायायोगेन’ इति याचितवरप्रदानप्रकारमाह- यावानिति ॥ देशकाल-व्याप्त्या यावान् यावत्परिमाणोऽहं यथा भावः यादृशसत्तावान् निरुपाधिकसत्वोपेतः यद्रूपगुणकर्मकः यादृशावतारः यादृशगुणः यादृशकर्मा चाहं, मदनुग्रहात् ते तव तथैव तत्वविज्ञानमस्त्वित्यन्वयः । एवशब्देन सोपाधिकरूपं व्यावर्तयति ॥ ३१ ॥

प्रकाशिका

तत्रादौ ब्रह्म मुक्तिसाधनं विज्ञानं दर्शयन् तद्ददातीत्याह ॥ यावानहमिति ॥ यावान्यादृशपरिमाणो यथा भावो यादृशसत्तावान् अनन्याधीनसत्तोपेतो यद्रूपगुणकर्मको यादृशावतारो यादृग्गुणो यादृशकर्मा च । सर्ववेदप्रतिपाद्य इति शेषः । तथैव । एवशब्दः कार्त्स्न्यार्थे । तस्य सर्वस्यापीत्यर्थः ॥ ३१ ॥

अहमेवासमग्रे च नान्यद्यत्सदसत्परम् ।

पश्चादहं त्वमेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥ ३२ ॥

तात्पर्यम्

परं स्वतन्त्रं न । विष्णोरधीनं प्राक् सृष्टेस्तथैव च लयादनु । अस्य सत्व-प्रवृत्त्यादि विशेषेणाधिगम्यते । स्वातन्त्र्यं स्थितिकाले तु कथञ्चिद्बुद्धिमोहतः । प्रतीयमानमपि तु तस्मान्नैवेति गम्यते । जनिष्येऽहं लयिष्येऽहमिति न ह्यभिसन्धितः । अतो जीवनमप्ये-तद्भवेदीशाभिसं(धि)हितम् । अतः स्वरूपभेदेऽपि ह्यात्मैवेदमिति श्रुतिः । वदत्यस्येशतन्त्र-त्वाद्यद(थाऽ)शक्तस्त्वसन्निति । विद्यन्ते हि तदा जीवाः कालकर्मादिकं तथा । क्वान्यथा हि पुनः सृष्टिः पूर्वकर्मानुसारिणी’ति ब्रह्मतर्के । त्वमेतच्च परं न भवेत् । स्वतन्त्रं न ॥ ३२ ॥

पदरत्नावली

ज्ञानोपदेशप्रकारमाह- अहमिति ॥ अग्रे सृष्टेः प्रागहमेवासम् । चशब्दात् सदसदासीत् कालप्रकृत्यादिकमभूत् । तथा प्रलये यत् कालकर्मादिकम् अन्यत् हरेर् भिन्नमभूत् तत्परं स्वतन्त्रं नास । किञ्च मयाऽऽवृतत्वेन मदधीनमेवाभूत् । पश्चात् सृष्ट्यनन्तरं स्थितिकाले त्वम् अहम् एतज्जगच्च आसीर् आसम् आसीत् । फलितमाह- य इति ॥ स्थितिकाले भोक्ताऽहं कर्ताऽहमिति स्वातन्त्र्यप्रतीतेः सृष्टेः प्राक् लयानन्तरं चास्य जगतः स्वातन्त्र्यं स्यादिति चेन्न तत्प्रतीतेर् बुद्धिमोह-मूलत्वात् । तदुक्तं ‘विष्णोरधीनं प्राक् सृष्टेस् तथैव च लयादनु । अस्य सत्वप्रवृत्यादि विशेषेणाधि-गम्यते ॥ स्वातन्त्र्यं स्थितिकाले तु कथञ्चिद्बुद्धिमोहतः । प्रतीयमानमपि तु तस्मान्नैवेति गम्यते ॥’ इत्यादि । अनेन कालत्रयेऽपि स्वतन्त्रोऽहं, त्वदादिकं सर्वं मदधीनमेवेत्युक्तं भवति ॥ ३२ ॥

प्रकाशिका

इदानीं पररूपस्य स्वातन्त्र्यमपररूपस्यास्वातन्त्र्यं च येन प्रकारेण जानीयामिति प्रार्थितवरदानाय परापररूपयोः स्वातन्त्र्यास्वातन्त्र्ये उपपादयन् ज्ञानं ददातीत्याह ॥ अहमेवेति त्रिभिः ॥ अत्र परशब्दस्य भिन्नार्थत्वेऽन्यदिति व्यर्थमतो व्याचष्टे ॥ परं स्वतन्त्रमिति ॥ यत्सदस-त्तन्नासीदित्यन्वयभ्रमवारणाय नञोऽन्वयं दर्शयति ॥ नेति ॥ तथा च नञः स्वतन्त्रवाचकेन परशब्देनैवान्वय इति भावः । अप्रतिपत्तिविप्रतिपत्तिनिरासाय श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ विष्णोरिति ॥ विष्णोरधीनम् प्राक् सृष्टेरित्यनेनाहमेवासमग्र इत्येतदुक्ततात्पर्यम् । तथैव च लया-दन्वित्यनेन पश्चाद्योऽवशिष्येत सोऽस्म्यहमित्येतदुक्तार्थम् । अस्य सृष्टेः पूर्वं लयादनु पश्चाच्च विद्यमानस्य जीवजडात्मकस्य वस्तुनः सत्त्वप्रवृत्त्यादि, सत्ताप्रवृत्तिप्रतीतयो विशेषेण स्थितिकालापेक्षयाऽन्यस्य स्वातन्त्र्याप्रतीतिरूपेण विष्णोरेवाधीनमवगम्यते । श्रुत्यादिनेति शेषः । इदं च हेतोः पक्षधर्मतोप-पादनाय । अनेन भगवान् स्थितिकालेऽप्यस्य सत्वादिप्रदः पूर्वोत्तरकालयोस्तत्स्वाभाव्यत्वात् । यत्पूर्वोत्तरकालयोर्यत्स्वभावं तत्तन्मध्यकालेऽपि तत्स्वभावं यथा संमतमिति सामान्यव्याप्तिमूलकमनुमानं सूचितमिति ज्ञातव्यम् ।

नन्विदं बाधितविषयं स्थितिकाले जीवानामेव स्वातन्त्र्यस्यानुभवसिद्धत्वादित्याशङ्कायामनुभव एव भ्रमोऽज्ञानमूलकत्वात्प्रमाणबाधितत्वाच्चेत्याह ॥ स्वातन्त्र्यमिति ॥ जीवानामिति शेषः । तुशब्दोऽव-धारणे । अनेन जीवा न स्थितिकाले स्वतन्त्राः पूर्वोत्तरकालयोरतथात्वादित्यनुमानबाधः स्वातन्त्र्य-प्रतीतेरुक्त इति ज्ञातव्यम् । कथञ्चिदित्युक्तमेवाह ॥ बुद्धिमोहत इति ॥ बुद्धिर्मनोविशेषस्तद्गता-ज्ञानादित्यर्थः । अहं जनिष्येऽहं लयिष्ये इति प्रतीयमानमपीत्यन्वयः । तुशब्दः प्रतीतेः पौनःपुन्य-रूपविशेषार्थः । तस्मादुक्तानुमानविरुद्धत्वात् । जीवानां प्रतीयमानस्वातन्त्र्याभावे हेत्वन्तरमप्याह ॥ न हीति ॥ हि यस्मादस्य सत्वप्रवत्त्यादि अभिसन्धितः स्वेच्छातो न भवति । अतः प्रतीयमानमपि स्वातन्त्र्यं नेत्यन्वयः । तर्हि कस्येच्छातो भवतीत्याशङ्कां परिहरन् उपसंहरति ॥ अत इति ॥ जीवानां स्वातन्त्र्याभावादित्यर्थः । अपिशब्दाल्लयसत्ताप्रवृत्त्यादेर्ग्रहणम् । एतज्जीवसम्बन्धित्वेन प्रतीयमानम् । ईशाभिसन्धितमीशेच्छया विषयीकृतम् । तथा चेश्वरस्यैवेति निर्बाधेनोक्तानुमानेन स्वातन्त्र्यसिद्धिरिति भावः ।

ननु यदुक्तमस्य सत्वादि प्राक् सृष्टेर्लयादनु च विष्णोरधीनमिति तदेवासिद्धमित्याशङ्कायां तत्रात्मैवेदमग्र आसीदिति श्रुतिं प्रमाणयति ॥ अत इति ॥ अत इत्यस्यैव विवरणम् ॥ अस्येश-तन्त्रत्वादिति ॥ वदति । परमात्मातिरिक्तवस्त्वभावमवधारणेनेति शेषः । नन्वन्यस्याभाववचनात्कथं तस्येशतन्त्रत्वसिद्धिरित्यत उक्तं स्वरूपाणां जीवजडस्वरूपाणां भेदेऽपि परमात्मातिरिक्तानां सत्वेऽपीति । हिशब्दस्तत्र प्रमाणप्रसिद्धिद्योतकः । तच्चानुपदमेव वक्ष्यते । तथा च तदाऽऽत्मातिरिक्तस्य जीवादेर्विद्यमानस्याप्यभाववचनं तदधीनत्वमेव गौण्या वृत्त्या गमयतीति भावः । नन्वेवं श्रुतौ गौणप्रयोगे किं प्रयोजनमित्यतो रूढोपचारोऽयमित्याशयेन लौकिकं प्रयोगं दर्शयति ॥ यदशक्त इति ॥ यद्यस्माद् लोकेऽशक्तोऽन्याधीनः पुमान् असन्नित्युच्यते तस्मात् । न तत्र प्रयोजनापेक्षेति शेषः ।

ननु श्रुतेर्मुख्यार्थ एव किं न स्यादित्यतस्तत्र प्रमाणबाधं दर्शयति ॥ विद्यन्ते हीति ॥ हिशब्दो यस्मादित्यर्थे । अतो युक्तमुपचारकल्पनमिति शेषः । आदिपदेन प्रकृत्यादेर्ग्रहणम् । सृष्टिः । जीवानामिति शेषः । नन्वहं त्वमेतच्च योऽवशिष्येत सोऽस्मीति जीवाभेदः प्रतीयतेऽतस्त्वमे-तदित्यनयोरन्वयं दर्शयति ॥ त्वमिति ॥ एतज्जीवजातमित्यर्थः । अन्वयेन सिद्धमर्थं दर्शयति ॥ स्वतन्त्रं नेति ॥ ततश्चायं श्लोकार्थः ॥ स्थितिकाले जीवानामेव स्वातन्त्र्यदर्शनात्कथं भगवतः स्वातन्त्र्यमिति, हि येन प्रकारेण जानीयामिति प्रश्नाशयः । तस्येदमुत्तरम् । चशब्दो यस्मादित्यर्थे । यस्मादग्रे सृष्टेः पूर्वम् अहं य एव यद्विध एवासं तदाऽन्येषां स्वातन्त्र्यस्याप्रतीत्याऽहमेव स्वतन्त्र इति श्रुत्यादिना निर्णेतुं शक्य आसमित्यर्थः । पश्चाल्लयादनु यो यद्विधोऽवशिष्येत तदाऽप्यन्यस्वातन्त्र्याप्रतीत्या स्वतन्त्र इति निर्णेतुं शक्येत तस्मात्स्थितिकालेऽपि अहं स तथाविधोऽस्मि । स्वतन्त्रोऽस्मीति यावत् । तथा च पूर्वोत्तर-कालयोरन्यसत्तादिप्रदत्वरूपस्वातन्त्र्योपेतत्वात् स्थितिकालेऽपि तथाविध एवास्मीत्यनुमेयम् । तद्विरोधा-दन्येषां तदा स्वातन्त्र्यप्रतीतिर्भ्रम इति भावः । नन्वात्मैवेदमग्र आसीदित्यादिश्रुत्याऽन्यस्याभाव एवोच्यते । न तस्य भगवदधीनत्वमतः कथमुक्तहेतुसिद्धिरित्यतः श्रौतावधारणार्थं दर्शयति ॥ नान्यदिति ॥ अन्यद्यत्सत् कालकर्मादिकमसदव्यक्तं त्वमेतच्च जीवजातम् । विद्यमानमपीति शेषः । परं स्वतन्त्रं नेत्युच्यते । श्रुत्यादाविति शेषः । ईश्वराधीनत्वादेव विद्यमानमप्यन्यद्गौण्या वृत्त्या नेत्युच्यतेऽतो नासिद्धिरिति भाव इति ॥ ३२ ॥

ऋतेऽर्थं यत्प्रतीयेत न प्रतीयेत चात्मनि ।

तद्विद्यादात्मनो मायां यथाऽऽभासो यथातमः ॥ ३३ ॥

तात्पर्यम्

अर्थवदिव प्रतीयते । न च परमात्मन्यर्थवत्प्रतीयते । अर्थं प्रयोजनमृते । न हि जीवप्रकृतिभ्यामीश्वरस्यार्थः । ‘मुख्यतो विष्णुशक्तिर्हि मायाशब्देन गम्यते । उपचारतस्तु प्रकृतिर्जीवश्चैव हि भण्यत’ इति च । यथाऽऽभासो जीवः ॥ ३३ ॥

पदरत्नावली

अस्वतन्त्रस्य प्रकृत्यादेः स्वरूपमुपदिशतीत्याह- ऋतेऽर्थमिति ॥ यद्वस्तु आप्तकामस्य ममार्थं प्रयोजनमृते सर्वत्र वेदादिषु प्रतीयेत, यच्चात्मनि मयि बाधकं न प्रतीयेत, न हीश्वरस्य जीवप्रकृतिभ्याम् अर्थो बाधश्च स्तः, तद्वस्तु आत्मनः परमात्मनः मायां विद्यादित्यन्वयः । मायेति नेन्द्रजालमुच्यते किन्तु जीवप्रकृती एवेत्याह- यथेति ॥ यथा यथार्थत्वेनैव सत्यत्वेनैव प्रतीय-मान आभासः मम प्रतिबिम्बभूतो जीवः । यथा यथार्थत्वेनैव तमो ऽज्ञानहेतुर् मूलप्रकृतिश्च मायेत्युच्यते । ‘मुख्यतो विष्णुशक्तिर्हि मायाशब्देन भण्यते । उपचारतस्तु प्रकृतिर् जीवश्चैव हि भण्यते ॥’ इति वचनात् । एतदुक्तं भवति- यथा छत्रधराद्या रथस्था अपि रथिनो नोच्यन्ते तथा जीवप्रकृति-कर्मकालाः सदा मयि वर्तमाना अपि जीवेन जीवनाभावात् प्रकृत्या बन्धाभावात् कर्मणा फलाभावात् कालतः परिणामाभावाच्च मयि स्थिता इति नोच्यन्ते । ‘सर्वं परे स्थितमपि नैव तत्रेति भण्यत’ इत्यादेरिति ॥ ३३ ॥

प्रकाशिका

ऋतेऽर्थमिति श्लोके प्रतीयेत न प्रतीयेतेति वचनं व्याहतमिवाभाति । आपादन-स्यात्राविवक्षितत्वाल्लिङ्प्रयोगश्च व्यर्थ इत्यतोऽस्य तात्पर्यमाह ॥ अर्थवदिवेति ॥ तथा च प्रतीयेतेत्यत्रार्थवदिति शेषः । लिङ् च लडर्थे । ऋतेऽर्थमित्यस्य तात्पर्यकथनमिवशब्देनेति ज्ञातव्यम् । तथा चार्थवत्त्वप्रतीतिर्भ्रम इति प्रथमपादे प्रतिज्ञातमिति भावः । अत्र हेतुकथनाय प्रवृत्तस्य द्वितीयपादार्थमाह ॥ न चेति ॥ एवं च चशब्दस्य नञाऽन्वयः । आत्मशब्दः परमात्मपरः । अर्थवदिति शेषः । लिङ् च लडर्थ इत्युक्तं भवति । प्रतीयते । वेदादाविति शेषः । ननु वक्ष्यमाण-मायाया निर्विषयत्वात्कथमर्थवदित्यादिवचनमित्यतोऽर्थशब्दस्यार्थं वदन्नन्वयं दर्शयति ॥ अर्थमिति ॥ तथा च वेदादावर्थवत्त्वस्यानुक्तत्वात्तत्प्रतीतिर्भ्रान्तिरिति भावः ।

नन्वनुक्तिर्न बाधिकेत्यतो युक्तिबाधकमाह ॥ न हीति ॥ ईश्वरस्येति हेतुगर्भम् । जीवप्रकृतिभ्या-मित्यनेन मायाशब्दो जीवप्रकृतिपर इति सूचितम् । तत्र प्रमाणं दर्शयति ॥ मुख्यत इति ॥ तुशब्दस्यात्र सम्बन्धः । परममुख्यवृत्त्येत्यर्थः । विष्णुशक्तिरेवेत्येवकारान्वयः । उपचारत उक्तापेक्षयाऽमुख्य-वृत्त्येत्यर्थः । हिशब्दौ भणनयोः प्रसिद्धिद्योतकौ । नन्वेवमत्र मायाशब्दस्य जीवप्रकृतिवाचकत्वे मायाशब्दार्थं शृृङ्गिग्राहकतया प्रदर्शनाय प्रवृत्तस्य चतुर्थपादस्यासङ्गतिः । तत्र जीवप्रकृत्योरनभि-धानादित्यत आह ॥ यथाऽऽभास इति ॥ यथाऽऽभास इति वाक्ये जीव आभासशब्देन वाच्य इत्यर्थः । इदमुपलक्षणम् । यथातम इत्यत्र तमःशब्देन प्रकृतिर्वाच्येत्यपि ग्राह्यम् ॥ ततश्चायं श्लोकार्थः ॥ उपचारेऽन्यदपि निमित्तं दर्शयन्नपररूपमुपदिशतीत्याह ॥ ऋतेऽर्थमिति ॥ यद्वस्तु आत्मनि परमात्मनि स्थितमपि तत्र स्वसाध्यप्रयोजनाकरणान्नेत्युच्यते । तद्वस्त्वात्मनः परमात्मनोऽधीनां मायां विद्यादित्यन्वयः ।

ननु तत्र स्वसाध्यप्रयोजनाकरणमसिद्धं परमात्मन्यपि प्रकृत्यादिकृतस्य देहादिरूपप्रयोजनस्य कुवाद्युत्प्रेक्षितयुक्त्यादिभिः प्रतीयमानत्वादित्यत उक्तम् ॥ ऋतेऽर्थमिति ॥ प्रयोजनाभावेऽपि प्रयोजनवत्प्रतीयते । युक्त्यादीनामाभासत्वेन सा प्रतीतिर्भ्रान्तिरिति भावः । कुत इत्यत आह ॥ न प्रतीयेतेति ॥ यतो वेदादौ परमात्मनि प्रकृत्यादिकमर्थवदिति कुत्रापि न प्रतिपाद्यत इत्यर्थः । तथात्वे तस्येश्वरत्वहानिरित्यपि द्रष्टव्यम् । इन्द्रजालं मायाशब्देनोच्यत इति प्रतीतिवारणाय मायाशब्दवाच्यं शृृङ्गिग्राहिकया दर्शयति ॥ यथेति चतुर्थपादेन ॥ आभासः प्रतिबिम्बभूतो जीवस् तमः प्रकृतिकाल-कर्मादिजडमात्रोपलक्षकमेतत् । तथा च छत्रधराद्या रथस्था अपि रथिनो नोच्यन्ते तथा जीवप्रकृतिकर्म-कालादिकं परमात्मनि स्थितमपि जीवेन जीवनाभावात् प्रकृत्या बन्धाभावात् कर्मणा फलाभावात् कालतः परिणामाभावाद् आकाशादिनाऽवकाशदानाद्यभावाच्च तत्र नेत्युच्यत इति भाव इति ॥ ३३ ॥

यथा महान्ति भूतानि भूतेषूच्चावचेषु च ।

प्रविष्टान्यप्रविष्टानि तथा तेषु न तेष्वहम् ॥ ३४ ॥

तात्पर्यम्

‘सर्वं परे स्थितमपि नैव तत्रेति भण्यते । यतो हरेर्न जीवेन जीवनं न हरौ ततः । जीवः प्रकृतिरप्यत्र यतो नैव हि बन्धकृत् । कर्म चाफलदातृत्वात्कालश्चापरिणामनात् । यथा छत्रधराद्यास्तु रथस्था अपि सर्वशः । रथिनो नैव भण्यन्ते एवं हरिगता अपि । ‘यथा महान्ति भूतानि शरीरेषु बहिस्तथा । एवं हरिश्च भूतेषु बहिश्च व्याप्तिहेतुतः । तस्मात्तत्स्थो न तत्स्थश्च प्रोच्यते हरिरीश्वर’ इति च ॥ ३४ ॥

पदरत्नावली

भगवान् स्वव्याप्तिं सोदाहरणमुपदिशतीत्याह- यथा महान्तीति ॥ यथा महान्ति पञ्चभूतानि उच्चावचेषु भूतेषु स्वकार्यशरीरेषु प्रविष्टानि वर्तन्ते, ततोऽप्यधिकव्याप्तिसद्भावात् तेषु अप्रविष्टानि च, तथाऽहमपि अनन्तदेशकालव्यापी तेषु भूतेषु प्रविष्टः, तेभ्यो बहिरपि स्थितत्वात् तेषु न प्रविष्टश्च । ‘यथा महान्ति भूतानि शरीरेषु बहिस्तथा’ इत्यादेः ॥ ३४ ॥

प्रकाशिका

ननु यथा हरौ स्थितमपि प्रकृत्यादिकं हर्यधीनत्वादेव तत्र नेत्युच्यते तथा भूतादिस्थितस्यापि हरेर्न च भूतस्थ इत्यादि निषेधवचने किं भूताधीनत्वमेव निमित्तमित्याशङ्कायां तत्र निमित्तान्तरं सदृष्टान्तमाह ॥ यथेति ॥ यथा महान्ति भूतान्युच्चावचेषु भूतेषु स्वकार्यशरीरेषु प्रविष्टानि । ततो बहिरपि तदभावकालेऽपि सद्भावादप्रविष्टानि च । तथाऽहमप्यनन्तदेशकालव्यापी तेषु भूतेषु प्रकृत्यादिषु च प्रविष्टस्तेभ्यो बहिरपि तदभावकालेऽपि स्थितत्वात्तेषु न प्रविष्टश्च । तस्मात्तेषु स्थितोऽपि तेषु न स्थित इति निषेधवचनोपपत्तिरिति भावः ।

श्लोकद्वयार्थं प्रमाणेन दृढयति ॥ सर्वं परे स्थितमपीति ॥ अनेनात्मनि स्थितमपि तत्र नेत्युच्यते स्वसाध्यप्रयोजनाकरणादित्यध्याहारेण मूलयोजनां सूचयति । अस्य किं प्रयोजनं यदकरणं हरा-वित्यतोऽभिप्रेतहेत्वर्थं विशदयन्नुक्तं विविच्य दर्शयति ॥ यतो हरेरित्यादिना ॥ जीवस्ततः स्वेन हरेर्जीवनाभावाद्धरौ नेत्युच्यत इत्यर्थः । अत्र हरौ । हिशब्दः प्रमाणप्रसिद्धिद्योतकः । बन्धकृद्बन्धकर्त्री । ततो हरौ नेत्युच्यत इति प्रतिज्ञा पूरणीया । एवमग्रेऽपि प्रतिज्ञाभागोऽध्याहार्यः । उपलक्षणमेतत् । आकाशादिकमप्यवकाशप्रदत्वाभावात्तत्र नेत्युच्यत इत्यपि द्रष्टव्यम् । अत्र मूलेऽभिप्रेतं दृष्टान्तं दर्शयति ॥ यथेति ॥ तुशब्दो रथे स्वकार्याकारणादिति हेतुद्योतकः । छत्रधराद्याः स्वकार्यं रथिन्येव कुर्वन्ति न रथ इति ज्ञातव्यम् । निगमयति ॥ एवमिति ॥ हरिगता अपि हरिस्थिता इति नोच्यन्त इति शेषः । शरीरेष्वित्यनेन भूतेष्वित्येतदुक्तार्थम् । प्रविष्टानीति शेषः । अप्रविष्टानीत्यस्यार्थः ॥ बहिस्तथेति ॥ तथा तेषु न तेष्वहमित्यस्यार्थकथनम् । एवमिति ॥ भूतेषु प्रकृत्यादिषु च । प्रविष्ट इति शेषः । बहिश्चप्रविष्टश्च कुत इत्यत उक्तम् ॥ व्याप्तिहेतुत इति ॥ सर्वत्र व्याप्तिरूपाद्धेतोरित्यर्थः ॥ तस्मादिति ॥ सर्वस्यान्तर्बहिश्च सत्वादेवेत्यर्थः । प्रोच्यते श्रुत्यादाविति शेषः । अनेन तेषु न तेष्वित्येतत्प्रोच्यते इत्यध्याहारेण प्रकारान्तरेणापि व्याख्यातमिति ज्ञातव्यम् । ईश्वर इत्यनेन यज्जीव-प्रकृत्यादीनां हरौ स्वकार्याकारित्वमुक्तं तदुपपादितमिति ज्ञातव्यम् ॥ ३४ ॥

एतावदेव जिज्ञास्यं तत्वजिज्ञासुनाऽऽत्मनः ।

अन्वयव्यतिरेकाभ्यां यत्स्यात्सर्वत्र सर्वदा ॥ ३५ ॥

तात्पर्यम्

अन्यभावाभावकाले देशे च तद्विद्यमानाविद्यमानशक्तिमांश्चेत्यन्वयव्यतिरकौ

॥ ३५ ॥

पदरत्नावली

उक्तव्याप्तिस्फुटीकरणपूर्वकम् उपदेशमुपसंहरति- एतावदिति ॥ यद्वस्तु सर्वत्र सर्वदेशे, सर्वदा सर्वस्मिन् काले च अन्वयव्यतिरेकाभ्याम् अन्यवस्त्वन्वितानन्वितदेशकालस्वरूपाभ्यां व्याप्तं स्याद् एतावदेव मत्स्वरूपमात्मनः परमात्मनस् तत्त्वजिज्ञासुना त्वया जिज्ञास्यं विचार्यं स्यादि-त्यन्वयः । अनेन वस्त्वन्तरसद्भावरूपाभ्यामन्वयव्यतिरेकाभ्यां सर्वदेशकालयोरेकप्रकारेण गुणक्रियाभि-र्व्याप्तमिति विचार्यमित्युक्तं भवति ॥ ३५ ॥

प्रकाशिका

एवमन्यभावाभाववतोर्देशकालयोः स्वसत्ताया एकप्रकारत्वमुक्त्वेदानीं स्वशक्त्या-देरपि तथात्वं तदङ्गं चेत्युक्तसाधनं चोपदिशतीत्याह ॥ एतावदेवेति ॥ अत्रान्वयव्यतिरेकशब्दयोः प्रकृते विवक्षितमर्थं दर्शयति ॥ अन्येति ॥ अन्यस्य स्वव्यतिरिक्तस्य भावाभावौ यस्मिन्स तथा स चासौ कालश्च तस्मिन् । देश इत्यत्राप्यन्यभावाभावेति पूरणीयम् । अनेनान्वयव्यतिरेकाभ्यामित्यस्य सदा सर्वत्रेत्येताभ्यां सम्बन्ध इत्युक्तं भवति । तस्मिन्स्वव्यतिरिक्ते विषये विद्यमाना तत्राविद्यमाना तदति-रिक्तविषया शक्तिः । उपलक्षणमेतत् । ज्ञानादिकं च तद्वानित्यर्थः । अन्यान्वयवतोस्तद्व्यतिरेकवतोश्च देशकालयोः सर्वविषयकशक्त्यादिमानित्युक्तं भवति । अनेनान्वयव्यतिरेकाभ्यामित्येतत्प्रकारान्तरेण व्याख्यातमिति ज्ञातव्यम् । चशब्दः पूर्वोपदिष्टसमुच्चायकः ॥ ततश्चायं श्लोकार्थः ॥ आत्मनः परमात्मनस्तत्त्वमसाधारणं धर्मं शक्त्यादिकं जिज्ञासुनैतावज्जिज्ञास्यं विचार्यमेव । एतज्जिज्ञासा परमात्म-ज्ञाने मुख्यं साधनमित्यर्थः । एतावदित्युक्तमेव दर्शयति ॥ अन्वयेति ॥ अन्यभावाभावाभ्यां सहिते सदाकाले सर्वत्र देशे च यच्छक्तिज्ञानादिकमन्वयव्यतिरेकाभ्यामन्यविषयकत्वतदतिरिक्तविषयकत्वाभ्यां सहितं स्यात् । सर्वविषयकं स्यादिति यावत् । तदेवात्मतत्त्वमेतावदिति ॥ ३५ ॥

एतन्मतं ममातिष्ठ परमेण समाधिना ।

भवान्कल्पविकल्पेषु न विमुह्यति कर्हिचित् ॥ ३६ ॥

पदरत्नावली

‘नेहमान’ इति प्रार्थितं वरं ददातीत्याह- एतन्मतमिति ॥ ३६ ॥

प्रकाशिका

नेहमान इति प्रार्थितवरं ददातीत्याह ॥ एतन्मतमिति ॥ आतिष्ठ सम्यगनुतिष्ठ । समाधिना चित्तैकाग््रयेण । कल्पेषु विकल्पा विविधाः सृष्टयस्तेषु । न विमुह्यति अहङ्कारादिबन्धं न यास्यति ॥ ३६ ॥

शुक उवाच—

सम्प्रदर्श्यैवमजनो जनानां परमेष्ठिनः ।

पश्यतस्तस्य तद्रूपमात्मनो न्यरुणद्धरिः ॥ ३७ ॥

**पदरत्नावली **

तिरोधानातिरोधाने अपि स्वेच्छाधीने इति ज्ञापयन् हरिः स्वस्वरूपं तिरोधत्त इत्याशयेनाह- सम्प्रदर्श्येति ॥ अजनः जननरहितः जनविरुद्धलक्षणो वा हरिर् जनानां रुद्रादीनां सकाशात् परमेष्ठिन उत्तमस्य हिरण्यगर्भस्य यद्रूपं प्रादर्शयद् आत्मनस् तद्रूपं तस्य विरिञ्चस्य पश्यतः सतः न्यरुणदित्यन्वयः ॥ ३७ ॥

प्रकाशिका

अजनो जननरहितः । इतरजनविलक्षणो वा हरिः । जनानां रुद्रादीनां, परमेष्ठिनः परमे आधिपत्ये स्थितस्य ब्रह्मणः न्यरुणदन्तर्हितवान् ॥ ३७ ॥

अन्तर्हितेन्द्रियार्थाय हरयेऽवहिताञ्जलिः ।

सर्वभूतमयो विश्वं ससर्जेदं स पूर्ववत् ॥ ३८ ॥

तात्पर्यम्

‘सर्वस्यापि प्रधानत्वात्स सर्वमय ईर्यत’ इति च ॥ ३८ ॥

पदरत्नावली

भगवति इन्द्रियविषयान्तर्हिते सति विरिञ्चेन किं कृतमत्राह- अन्तर्हितेति ॥ इन्द्रियार्थ इन्द्रियविषयस् तस्माद् अन्तर्हिताय बाह्येन्द्रियग्राह्यरूपरहितायेत्यर्थः । सर्वभूतमयः सर्वभूतप्रधानः । ‘सर्वस्यापि प्रधानत्वात्स सर्वमय ईर्यत’ इति ॥ ३८ ॥

प्रकाशिका

अन्तर्हित इन्द्रियार्थ इन्द्रियविषयभूतं रूपं येन तस्मै । अवहिताञ्जलिर् बद्धाञ्जलिः सन् । सर्वभूतमय इत्यत्र मयटस्तादात्म्यार्थत्वप्रतीतिवारणायार्थं प्रमाणेनैवाह ॥ सर्वस्यापीति ॥ स ब्रह्मा । तथा च सर्वप्रधान इति मूलं व्याख्येयमिति भावः ॥ ३८ ॥

प्रजापतिर्धर्मपतिरेकदा नियमान्यमान् ।

भद्रं प्रजानामन्विच्छन्नातिष्ठत्स्वार्थकाम्यया ॥ ३९ ॥

पदरत्नावली

सदा स्वेष्टदेवतां सेवमानोऽपि पुमान् विशेषप्रयोजनप्राप्तौ विशेषतस्तदुपास्तिं कुर्यादिति न्यायं दर्शयितुं विरिञ्चस्यापि विशेषोपायमाह- प्रजापतिरिति ॥ धर्मपतिः सम्पदि विपदि वा तत्तद्विशेषकार्यप्राप्तौ तत्तद्योग्यानुष्ठानं कर्तव्यमिति धर्मस्य पालकः । प्रजानां भद्रान्वेषणं न स्वार्थ इत्यत उक्तं- स्वार्थेति ॥ तदपि स्वप्रयोजनमिति मनीषया मुक्तौ सुखोद्रेकार्थत्वादित्यर्थः । ‘अहिंसा सत्य-मस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचञ्चैते यमा दश ॥ तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणञ्चैव ह्रीर्मतिश्च जपो व्रतम् ॥ एते तु नियमाः प्रोक्तास् तांश्च सर्वान्पृथक् शृृणु ॥’ इत्यादि योगशास्त्रे ॥ ३९ ॥

प्रकाशिका

सृष्ट्यनन्तरं पूर्वोक्तो नारदसंवादः प्रवृत्त इत्याह ॥ प्रजापतिरिति पञ्चभिः ॥ प्रजानां हितेच्छायां हेतुसूचनाय प्रजापतिरिति विशेषणम् । नियमादिधर्मानुष्ठानोपपादनाय धर्मपतिरिति । नियमान्- ‘तपः सन्तोष आस्तिक्यं दानमीश्वरपूजनम् । सिद्धान्तश्रवणं चैव ह्रीर्मतिश्च जपो व्रतम् ॥ एते तु नियमाः प्रोक्ताः’ इति स्मृत्युक्तांस्तपआदीन् । यमान् । अहिंसा सत्यमस्तेयं ब्रह्मचर्यं दयाऽऽर्जवम् । क्षमा धृतिर्मिताहारः शौचं चैते यमा दशेति स्मृत्युक्तानहिंसादीन् । ननु प्रजानां भद्रेच्छयाऽपि किं प्रयोजनमित्यत उक्तम् ॥ स्वार्थकाम्ययेति ॥ स्वस्यार्थो भगवत्प्रीतिस्तत्कामनयेत्यर्थः

॥ ३९ ॥

तं नारदः प्रियतमो रिक्थादानामनुव्रतः ।

शुश्रूषमाणः शीलेन प्रश्रयेण दमेन च ॥ ४० ॥

मायां विविदिषुर्विष्णोर् मायेशस्य महामुनिः ।

महाभागवतो राजन् पितरं पर्यतोषयत् ॥ ४१ ॥

तात्पर्यम्

मायां माहात्म्यं विविदिषुः । अन्येषां माहात्म्यपतेः । ‘मुख्यतो विष्णु-माहात्म्यं मायाशब्दोदितं भवेत् । प्रधानत्वाच्च मातृत्वान्मेयत्वं चैव तस्य ही’ति च ॥ ४१ ॥

पदरत्नावली

रिक्थं पित्र्यं धनम् आददत इति रिक्थादाः पुत्रास् तेषां मध्ये नारदोऽतिशयेन प्रियः । मायां जगत्सृष्ट्यादिमाहात्म्यं विविदिषुर् ज्ञातुकामः । मायेशस्य अन्येषां माहात्म्यानां पतेः । ‘मुख्यतो विष्णुमाहात्म्यं मायाशब्दोदितं भवेत् । प्रधानत्वाच्च मातृत्वान्मेयत्वं तस्य चैव हि ॥’ इति

॥ ४०-४१ ॥

प्रकाशिका

रिक्थं पित्र्यं धनमाददति इति रिक्थादाः पुत्रास्तेषां मध्ये प्रियतमः । शुश्रूषमाणः सेवमानः । मायां विविदिषुर्ज्ञातुकामः । अत्र मायाशब्देनानिर्वचनीयाऽविद्योच्यत इति प्रतीतिवारणाय तद्वाच्यं दर्शयति ॥ मायामिति ॥ नन्वेवं मायेशस्येत्यनुपपन्नम् । मैवम् । तत्रान्यमायेशस्येत्यन्य-शब्दाध्याहारस्य विवक्षितत्वादित्याह ॥ अन्येषामिति ॥ ब्रह्मादीनामित्यर्थः । मायाशब्दस्य माहात्म्य-वाचित्वेऽपि विष्णुमाहात्म्यवाचित्वे विशेषोऽस्तीति प्रमाणेनैवाह ॥ मुख्यत इति ॥ अनेन मायाशब्दस्य माहात्म्यवाचित्वमपि प्रमापितमिति ज्ञातव्यम् ॥ प्रधानत्वादिति ॥ अनेन मायाशब्दः प्रधानवाचि-मयशब्दपर्याय इति ज्ञापयति । योगमपि द्वेधा दर्शयति ॥ मातृत्वादिति ॥ अनेन मातीति मीयत इति च मायेति निर्वचनं सूचयति । एवशब्देनानिर्वाच्याविद्यां व्यवच्छिनत्ति ॥ ४०-४१ ॥

तुष्टं निशाम्य पितरं लोकानां प्रपितामहम् ।

देवर्षिः परिपप्रच्छ भवान्यन्मानुपृच्छति ॥ ४२ ॥

तस्मा इदं भागवतं पुराणं दशलक्षणम् ।

प्रोक्तं भगवता प्राह प्रीतः पुत्राय भूतकृत् ॥ ४३ ॥

पदरत्नावली

पितृतोषणप्रयोजनमाह- तुष्टमिति ॥ भगवता स्वस्य प्रोक्तम् । भूतं सत्तावत् सत्यं जगत्करोतीति भूतकृत् ॥ ४२-४३ ॥

प्रकाशिका

मूले निशाम्य दृष्ट्वा ज्ञात्वेत्यर्थः । दश लक्षणानि लक्षणीयार्था विद्यन्ते यस्मिंस्तत् । भगवता स्वस्य प्रोक्तम् । भूतानि प्राणिनः करोतीति भूतकृत् ॥ ४२-४३ ॥

नारदः प्राह मुनये सरस्वत्यास्तटे नृप ।

ध्यायते ब्रह्म परमं व्यासायामिततेजसे ॥ ४४ ॥

तात्पर्यम्

‘हरिर्व्यासादिरूपेण सर्वज्ञोऽपि स्वयं प्रभुः । शृृणोति नारदादिभ्यो मोहायैषां प्रसिद्धय’ इति पाद्मे ॥ ४४ ॥

पदरत्नावली

नारदस्य ‘इति सङ्कल्प्य वर्णये’ति स्वपित्राज्ञापालनप्रकारमाह- नारद इति ॥ मुनय इत्यादि विशेषणेभ्यो व्यासस्य सार्वज्ञ्यादिप्रतीतेर् नारदादिभ्यः श्रवणं मोहनार्थमिति ज्ञातव्यम् । तदुक्तम्- ‘हरिर्व्यासादिरूपेण सर्वज्ञोऽपि स्वयं प्रभुः । शृृणोति नारदादिभ्यो मोहायैषां प्रसिद्धये ॥’ इत्यादि ॥ ४४ ॥

प्रकाशिका

‘नारदस्य इति सङ्कल्प्य वर्णय’ इति स्वपित्राज्ञापालनप्रकारमाह ॥ नारद इति ॥ अत्र मुनयेऽमिततेजस इति विशेषणद्वयेन व्यासस्य नारदाच्छ्रवणं मोहादिकरणायैवेति सूचितमर्थं प्रमाणेन द्रढयति ॥ हरिर्व्यासादिरूपेणेति ॥ एषां नारदादीनां प्रसिद्धये च । मूले व्यासेन च मह्यमुपदिष्टं तुभ्यं चाहमुपदिशामीति पितुर्द्वैपायनादहमधीतवान् तदहं तेऽभिधास्यामीति च पूर्वमेवोक्तत्वादत्र पुनर्नोक्तम्

॥ ४४ ॥

यदुताहं त्वया पृष्टो वैराजात्पुरुषादिदम् ।

यथाऽऽसीत्तदुपाख्यास्ये प्रश्नानन्यांश्च कृत्स्नशः ॥ ४५ ॥

॥ इति श्रीमद्भागवते द्वितीयस्कन्धे नवमोऽध्यायः ॥

तात्पर्यम्

**‘विराड्ब्रह्मा समुद्दिष्टस्तद्गतः परमो यतः । अतो वैराजमित्येनमाहुरीशत्वतो विराडि’ति बृहत्संहितायाम् ॥ ४५ ॥ **

॥ इति द्वितीयतात्पर्ये नवमोऽध्यायः ॥ ९ ॥

पदरत्नावली

अधुना परीक्षित्प्रश्नपरिहाराय श्रीभागवतव्याख्यानं पृथक् पृथक् प्रश्नप्रतिवचनञ्च प्रतिजानीते- यदुतेति ॥ यत्पुराणपरिज्ञानं प्रति अहं त्वया पृष्टस् तव्द्यासकृतं भागवतपुराणं तवो-पाख्यास्ये । तत्पुराणं व्याकुर्वन्प्रथमतः सर्वेशत्वाद् विराडाख्यविरिञ्चस्थितत्वाद् वैराजपुरुषाख्यहरेरिदं विश्वं यथाऽऽसीत्तथोपाख्यास्ये । उत अथान्यान्प्रश्नांश्च कृत्स्नशो व्याख्यास्ये इत्यन्वयः । श्रीभागवत-प्रथमकथानारायणोद्भूतविराडभिधविरिञ्चस्थहरेरधिदैवादिसर्वजगत्सृष्टिर् उत अपीति वा । ‘उताप्यर्थ-विकल्पयोः’ इत्यभिधानम् ॥ ४५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

द्वितीयस्कन्धे नवमोऽध्यायः ॥

प्रकाशिका

पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिता इत्यादिना वैराजात्पुरुषादिदं विश्वं यथाऽऽसीदिति यदहं त्वया पृष्टस्तदुपाख्यास्ये । भागवताख्यानेनैवेति शेषः । अत्र विशेषेण राजत इति विराट् ब्रह्माण्डं तत्सम्बन्धी पुरुषो ब्रह्मा वैराज इति प्रतीतिनिरासाय वैराजशब्दवाच्यं पुरुषं प्रमाणेनैव दर्शयति ॥ विराट् ब्रह्मेति ॥ परो मायाया इति परमो लक्ष्मीशः । ब्रह्मणि विराट्शब्दः केन निमित्तेनेत्यत उक्तम् ॥ ईशत्वत इति ॥ राजशब्दपर्यायो राट्शब्द ईशत्ववाची । विशब्दस्तस्य वैशिष्ठ्यद्योतक इति भावः ॥ ४५ ॥

॥ इति श्रीभागवतटिप्पण्यां नवमोऽध्यायः ॥ २-९ ॥