०८ अष्टमोऽध्यायः

ब्रह्मणा चोदितो ब्रह्मन्गुणाख्यानेऽगुणस्य च

अथ अष्टमोऽध्यायः

राजोवाच—

ब्रह्मणा चोदितो ब्रह्मन्गुणाख्यानेऽगुणस्य च ।

यस्मै यस्मै यथा प्राह नारदो देवदर्शनः ॥ १ ॥

पदरत्नावली

अस्मिन्नध्याये परीक्षिद् भागवतपुराणप्रतिपाद्यं शुकं पृच्छति । तत्र प्रथमं नारदेन विरिञ्चाज्ञापालनं कथमकारि इति भावेन पृच्छति- ब्रह्मणेति ॥ अगुणस्य नित्यनिर्मुक्तसत्वादिगुणस्य सर्वत्र प्रधानस्येति वा । गुणाख्याने इति तादर्थ्ये सप्तमी । व्यासादन्यस्मै यस्मै ॥ १ ॥

प्रकाशिका

विपुलीकुर्वित्युक्तं विपुलीकरणं राजा पृच्छति सार्धश्लोकेन । अगुणस्य सत्त्वादिगुण-शून्यस्य । देववद्दर्शनं यस्य स देवदर्शनः ॥ १ ॥

एतद्वेदितुमिच्छामि तत्वं वेदविदां वर ।

हरेरद्भुतवीर्यस्य कथा लोकसुमङ्गलाः ॥ २ ॥

प्रथयस्व महाभाग यथाऽहमखिलात्मनि ।

कृष्णे निवेश्य निःसङ्गं मनस्त्यक्ष्ये कलेवरम् ॥ ३ ॥

पदरत्नावली

नारदव्याससंवादानन्तरं व्यासमुखविगलितभागवतोक्तहरिकथाप्रथनमेव मदभीष्ट-मितीदमेव तत्वं वेदितुमिच्छामीत्युक्तमिति भावेनाह- हरेरिति ॥ यथा प्रथितश्रुतगुणोपसंहारपूर्वकं निःसङ्गं मनः कृष्णे निवेश्य अहम् इदं कलेवरं त्यक्ष्ये तथा प्रथयस्वेत्यन्वयः ॥ २-३ ॥

प्रकाशिका

तत्त्वं यथा स्यात्तथा । हरिकथाप्रस्तावायान्यांश्चार्थान्प्रष्टुं तावत्स्वस्य हरिकथा-साध्यप्रयोजनं दर्शयंस्ताः प्रथयस्वेति प्रार्थयते ॥ हरेरिति ॥ व्यासोपदिष्टभागवतोक्ता हरिकथाः प्रथयस्व विस्तारेण कथयस्व । यतो लोकानां सुष्टु मङ्गलं याभ्यस्ताः । भग एव भागो, महान् भागो यस्य, हे महाभाग ॥ २-३ ॥

शृण्वतः श्रद्धया नित्यं गृणतश्च स्वचेष्टितम् ।

कालेनानतिदीर्घेण भगवान्विशते हृदि ॥ ४ ॥

पदरत्नावली

श्रवणादिनेदं फलं स्यादित्याह- शृृण्वत इति ॥ ४ ॥

प्रकाशिका

हरिकथाश्रवणादिनाऽन्येषामपि फलं दर्शयति ॥ शृण्वत इति ॥ ४ ॥

प्रविष्टः कर्णरन्ध्रेण स्वानां भावसरोरुहम् ।

धुनोति शमलं कृष्णः सलिलस्थं(सलिलस्य) यथा शरत् ॥ ५ ॥

पदरत्नावली

ततः किं तत्राह- प्रविष्ट इति ॥ ५ ॥

प्रकाशिका

भावसरोरुहं हृदयकमलम् ॥ ५ ॥

धौतात्मा पुरुषः कृष्णपादमूलं न मुञ्चति ।

मुक्तसर्वपरिक्लेशः पान्थः स्वशरणं यथा ॥ ६ ॥

पदरत्नावली

तत्फलमाह- धौतात्मेति ॥ पान्थः पथिकः । स्वशरणं स्वगृहम् । शरणं गृहरक्षित्रोरित्यभिधानात् ॥ ६ ॥

प्रकाशिका

पान्थः पथिकः । प्रवासादागत इति यावत् । स्वशरणं स्वगृहं यथा न मुञ्चति तद्वत् ॥ ६ ॥

यदधातुमतो ब्रह्मन्देहारम्भोऽस्य धातुभिः ।

यदृच्छया हेतुना वा भवन्तो जानते यथा ॥ ७ ॥

पदरत्नावली

इत्थं भागवतार्थकथनश्रवणादेः पुरुषार्थहेतुत्वमुक्त्वा स्वतश्चिद्रूपस्य ओहस्य देह-सम्बन्धहेतुं पृच्छति- यदिति ॥ अधातुमतः स्वतः प्रकृत्यादिधातुसम्बन्धरहितस्य नित्यस्य जीवस्यास्य धातुभिः प्रकृत्यादिभिर् उपादानकारणैर् देहारम्भोऽस्तीति यत् तत् किं यदृच्छया केवलेश्वरेच्छया निमित्तभूतया उतान्येन हेतुना कर्मणा ? अत्र हरीच्छैव हेतुः । तां विना हेत्वन्तरमप्यस्तीति प्रश्नतात्पर्यम् । भवन्तस् तदेतद् यथा यथावज् जानते तदस्माकं वदन्त्विति शेषः । धातुभिर् नित्ययोगो नास्तीति अधातुमद् इत्युक्तम् । ‘धातुर्वातादिशब्दादिगैरिकादित्वगादिषु । महाभूतेष्विन्द्रियेषु शब्दयोनिस्वभावयोः’ इत्याभिधानम् ॥ ७ ॥

प्रकाशिका

एवं हरिकथाश्रवणस्य पुरुषार्थहेतुत्वमुपपाद्य सन्दिग्धार्थान्पृच्छति ॥ यदधातुमत इत्यादिना ॥ अधातुमतः । अत्र पृथिव्यादयो धातुशब्दवाच्यास्तद्विकारी देहो(तद्विकारात्तद्देहः) धातुमानित्युच्यते । जीवस्तु नित्यचिद्रूपो न धातुमान् । अतो धातुमद्भिन्नस्यास्य जीवस्य धातुभिः पृथिव्यादिभिर्देहारम्भः देहोत्पत्तिरिति यत् तत्किं यदृच्छया केवलेश्वरेच्छयोतान्येनाप्यनादिना हेतुना । भवन्तस्तदेतद्यथा यथावज्जानते । अतस्तद्वदन्तु इति शेषः । ईश्वरेच्छातिरिक्तं स्वतश्चिद्रूपस्य जीवस्य देहसम्बन्धापादकं प्रधानं कारणं किञ्चिदस्ति न वेति प्रश्नाशयः ॥ ७ ॥

आसीद्यदुदरात्पद्मं लोकसंस्थानलक्षणम् ।

यावानयं वै पुरुष इयत्तावयवैः पृथक् ।

तावानसाविति प्रोक्तस्तथाऽवयववानिव ॥ ८ ॥

पदरत्नावली

पुराणाधिकारिलब्धये जीवानां बन्धहेतुं पृष्ट्वा श्रुतार्थमनुवदति- आसीदिति ॥ आदौ महाप्रलये श्रीसहायतया शयानस्य नारायणस्य सिसृक्षोः परमपुरुषतयाऽवतीर्य तत्वसृष्टिपूर्वकमण्डं सृष्ट्वा तैस्तत्वैः सह अण्डं प्रविश्य अण्डोदेऽपि शेषपर्यङ्के शयानस्य यस्योदराल्लोकसंस्थानलक्षणं चतुर्दशभुवनसन्निवेशरूपं पद्ममासीत् स एवाण्डान्तर्वैराजाख्यो अवतीर्ण इति यावत् । अयं पुरुषो ऽण्डकोशः पुरुषाकारभगवद्रूपेणाधिष्ठितत्वात् पुरुष इत्युच्यते । पातालादिभिर् इयत्तावयवैर् इयत्तावच्छिन्नावयवैर् यावान् तावत्परिमाणो ऽसावपि वैराजाख्यस् तावान् तावत्परिमाण इति प्रोक्तस् तथाऽवयववानिव तदन्तःस्थितत्वात् तद्भिन्नत्वेऽपि तथा तादृशावयववानिव प्रोक्त इत्यन्वयः । वा इत्यनेन प्रोक्तार्थस्य प्रमाणप्रसिद्धिं, ‘अयमाध्यात्मिकः शिरःपाण्यादिमान् अस्मदादिदेहः पृथगियत्तावयवैर् यावत् परिमाणो ऽसौ आधिदैविको विराड्देहोऽपि तावत्परिमाण’ इत्यपव्याख्यानस्य पापहेतुत्वञ्च सूचयति । ‘समुच्चये च वै पापे वाक्यारम्भप्रसिद्धयोः’ इति ॥ ८ ॥

प्रकाशिका

एवं जीवविषयकं प्रश्नं कृत्वेश्वरविषयेऽपि पृच्छति ॥ आसीदिति ॥ लोकानां संस्थानं विक्रिया तदेव लक्षणं स्वरूपं यस्य तत्पद्मं यस्योदरादासीत् । असावीश्वरः पृथक् प्रत्येक-मियत्तायुक्तैः स्वपरिमितैरवयवैरयं प्रसिद्धो लौकिकः पुरुषो यावान् यत्संस्थानविशेषवान् तावान् तादृशसंस्थानविशेषवान् । तथाऽवयववानिति प्रोक्तः । अतो जीववदीश्वरस्यापि देहित्वेन त्वयोक्तत्वादीश्वरस्य को विशेष इति प्रश्नाशयः । विशेषोऽपि त्वयैवोक्त इति दर्शयितुमासीद्यदुदरा-त्पद्ममित्युक्तम् । अतः प्रश्नमूलभूतः संशय इति भावः ॥ ८ ॥

अजः सृजति भूतानि भूतात्मा यदनुग्रहात् ।

ददृशे येन तद्रूपं नाभिपद्मसमुद्भवः ॥ ९ ॥

पदरत्नावली

आसीद्यदुदरादित्युक्तभगवद्रूपदर्शनप्रकारं तदवस्थितिप्रदेशञ्च पृच्छति- अज इति ॥ भूतात्मा स्वसृष्टतत्तत्कार्यव्यापी सर्वविलक्षणाद् आद् विष्णोर्जातत्वाद् अजो ब्रह्मा तानि अहङ्कारादिजीवान् तदभिमन्यमानानि च तत्वानि सृजति । सृष्टिरपि न स्वातन्त्र्यादित्युक्तम्- यदनु-ग्रहादिति ॥ पाद्मकल्पे च नाभिपद्मसमुद्भवो विरिञ्चः स्वकारणं पद्मनाभं दिदृक्षुः, येन प्रकारेण तद्रूपं ददृशे । तस्योत्तरत्रान्वयः ॥ ९ ॥

प्रकाशिका

विशेषान्तरमपि पूर्वोक्तमनुवदति ॥ अजः सृजतीति ॥ भूतात्मा स्वसृष्टकार्य-व्यापी । आद्विष्णोर्जातत्वादजो ब्रह्मा । यस्येश्वरस्यानुग्रहात् । तथा चैवमादिविशेष ईश्वरस्यापि जीववद्देहित्वे कथमुपपद्यत इति भावः । ईश्वरस्य जीववच्छिरःकराद्युपेतदेहवत्त्वेऽपि न जीवसाम्यं तच्छरीरस्याप्राकृतत्वादिति यत उत्तरत्र निरूपणं भविष्यति तदेवास्योत्तरमिति ज्ञातव्यम् ॥ ९ ॥

स चापि यत्र पुरुषो विश्वस्थित्युद्भवाप्ययः ।

मुक्त्वाऽऽत्ममायां मायेशः शेते सर्वगुणाश्रयः ॥ १० ॥

पदरत्नावली

विश्वस्य स्थित्युद्भवाप्यया यस्मात्स तथोक्तः । मायाया बन्धकशक्तेर् लक्ष्म्या वा ईशः । ज्ञानानन्दादिसर्वगुणानाम् आश्रयः । सृष्ट्यादौ गुणभूतानां ब्रह्मादीनाम् आश्रयो वा । पुरुषः पुरुषाकारवान् सः पद्मनाभ आत्ममायां स्वेच्छाधीनां बन्धकशक्तिं मुक्त्वा तत्प्रवर्तकत्वं विरम्य मुक्तप्रवर्तकत्वेन यत्र यस्मिन् लोके शेते ॥ १० ॥

प्रकाशिका

पुनः प्रश्नान्तरं करोति ॥ ददृशे येन इत्यादिना ॥(अयं पादः विजयध्वजीये पूर्वश्लोके पठितः) येनानुगृह्णता येन च प्रकारेण तस्य रूपं ददृशे स चापि पुरुषो यत्र यस्मिन् लोके शेते तं पुरुषं तं प्रकारं तल्लोकं चोदाहर्तुमर्हसीत्युत्तरेणान्वयः । चापिशब्दौ परस्परसमुच्चये । विश्वस्य स्थित्युद्भवाप्यया यस्मात्स तथोक्तः ॥ मायेशो लक्ष्मीशः । आत्ममायामात्मनो बन्धकशक्तिं मुक्त्वा तत्रत्यान् जीवान् बन्धवर्जितान् कृत्वेति यावत् । सर्वेषां गुणानां ज्ञानानन्दादीनां तद्रूपाणां मुक्तानां वाऽऽश्रयः ॥ १० ॥

पुरुषावयवैर्लोकाः सपालाः पूर्वकल्पिताः ।

लोकैरमुष्यावयवाः सपालैरिति शुश्रुमः ॥ ११ ॥

तात्पर्यम्

निजावयवेभ्यः सृष्टाः । बाह्यावयवा लोकैः कल्प्यन्ते ॥ ११ ॥

पदरत्नावली

अधुना पुनरपि श्रुतार्थमनुवदति- पुरुषेति ॥ अण्डस्थितस्य वैराजाख्यस्य पुरुषस्य हरेर्निजावयवैः सपाला इन्द्रादिलोकपालैः सहिताः पातालादयो लोकाः पूर्वकल्पिता प्रथमं सृष्टाः । सपालैः पातालादिलोकैर् अमुष्य वैराजाख्यस्य हरेर् बाह्यावयवाः कल्पिताः । प्रतिमात्मकब्रह्माण्डा-वयवैः क्लृप्ता इत्यन्वयः । सपालैर् लोकैर् अमुष्यावयवाः प्रतिमावत् सङ्कल्पिता इति वा ॥ ११ ॥

प्रकाशिका

प्रश्नान्तरमाह ॥ पुरुषावयवैरिति ॥ लोका इत्युपलक्षणम् । ब्रह्माण्डान्तर्गता-ध्यात्मिकादिकं सर्वं ग्राह्यम् । पुरुषस्य ब्रह्मगतस्य वैराजस्यावयवैः पूर्वकल्पिता ‘यस्येहावयवैरि’त्यादिना पूर्वं कल्पितत्वेनोक्ताः सर्वं ब्रह्माण्डान्तर्गतं पदार्थजातं वैराजावयवेभ्यो जातमिति त्वया पूर्वमुक्तं तद्यथाऽऽसीत्तथोदाहर्तुमर्हसीति वक्ष्यमाणेनान्वयः ॥ किं तद्वचनेनेत्यत आह ॥ लोकैरिति ॥ लोकादिभिरित्यर्थः । अमुष्य वैराजस्य पातालमेतस्येत्यादिना कल्पिता धारणाविषयतयोक्ताः । सम्यग्वचनाभावे उक्तधारणाऽन्नुपपन्नाऽतस्तद्वचनमावश्यकमिति भावः । अत्र यथाश्रुतेऽन्योन्या-श्रयत्वा-शङ्कापरिहाराय पूर्वोक्तं स्मारयति ॥ निजावयवेभ्य इति ॥ स्वरूपभूतावयवेभ्य इत्यर्थः । तथा च यस्येहावयवैरित्यत्र स्वरूपभूतावयवैरित्यर्थो विवक्षित इति भावः । बाह्यावयवा ब्रह्माण्डरूपप्रतिमा-वयवाः । लोकैः पातालादिसत्यान्तैः कल्प्यन्ते लोकात्मकतया पातालमेतस्येत्यादिना धारणाविषयतया निरूप्यन्तेऽतो न कोऽपि दोष इति भावः ॥ ११ ॥

यावान्कल्पो विकल्पो वा यथा कालोऽनुमीयते ।

भूतभव्यभवच्छब्द आयुर्मानञ्च यत्कृतम् ॥ १२ ॥

पदरत्नावली

श्रुतार्थमनूद्याधुना प्रस्तुतपुराणार्थं पृच्छति- यावानित्यादिना ॥ कल्पः ब्रह्मकल्पः द्विपरार्धाख्यः । ब्रह्मणो दिनं वा । यावान् यावत्परिमितः । विकल्पः मन्वादिकालः । वाराहादिर्वा । भूतो भव्यो भवन्निति शब्दो यस्मिन् स तथोक्तः । अतीतानागतवर्तमानाख्य इत्यर्थः । यथा यथार्थतया अनुमीयते ज्ञायते । कथं वा । आयुषो मानं प्रमाणञ्च येन कालेन कृतं स कालः ॥ १२ ॥

प्रकाशिका

पुनरप्यज्ञातान् बहून् अर्थान्पृच्छति ॥ यावानित्यादिना ॥ यावान्यावत्परिमितः कल्पो ब्रह्मकल्पो द्विपरार्धाख्यः । विकल्पो दैनन्दिनो मन्वादिकल्पो वा ॥ भूतो भव्यो भवन्निति शब्दो यस्मिन्स भूतभव्यभवच्छब्दोऽतीतानागतवर्तमानशब्दवाच्य इत्यर्थः । यथा यथावदनुमीयते ज्ञायते कथं च आयुषो मानं प्रमाणं च येन कालेन कृतम् ॥ १२ ॥

कालस्यानुगतिर्या तु लक्ष्यतेऽण्वी महत्यपि ।

यावतीः कर्मगतयो यादृशीर्द्विजसत्तम ॥ १३ ॥

पदरत्नावली

अण्वी परमाणुलक्षणा । महती परममहत्परिमिता कालस्य गतिः । सापि कथं लक्ष्यते । कर्मगतयः कर्मफलानि । यावतीः कतिसङ्ख्याकानि । यादृशीः कीदृशानि ॥ १३ ॥

प्रकाशिका

अण्वी परमाणुलक्षणा । महती परममहती कालस्यानुगतिः प्रवृत्तिः साऽपि वा कथं लक्ष्यते ज्ञायते । कर्मगतयः कर्मप्राप्यस्थानानि यावतीर्यावत्यः कति संख्याकानि । यादृशीर्यादृश्यः कीदृशानि ॥ १३ ॥

यस्मिन्कर्मसमावापो यथा येनोपगृह्यते ।

गुणानां गुणिनां चैव परिमाणं सुविस्तरम् ॥ १४ ॥

तात्पर्यम्

जीवे कर्मसमावापः । परमेश्वरेण गृह्यते । गुणिनां महदादिजीवानां सामर्थ्य-परिमाणम् ‘देवासुरेभ्यो मघवान्’ इत्यादि ॥ १४ ॥

पदरत्नावली

यस्मिन् कस्मिन् ? जीवे किं कर्मसमावापः ? यथा कथं ? येन केन । स कर्मसमावाप उपगृह्यते ? कर्मसमावापकर्ता कः ? सत्वादिगुणानां परिमाणं गुणिनां महदादिजीवानां सामर्थ्यपरिमाणम् । ‘गुणानां शब्दादीनां गुणिनाम् आकाशादीनां’ इति व्याख्यानमयुक्तम् । परिमाणानुक्तेः । ‘देवासुरेभ्यो मघवान्’ इत्यादिनोक्तेश्चान्यत्र ॥ १४ ॥

प्रकाशिका

यस्मिन्कर्मणां सम्यगावापः संग्रहः कर्मसङ्ग्रहकर्ता क इत्यर्थः । तत्कर्म येन केन स्वामिना यथा कथमुपगृह्यते । एतत्प्रश्नद्वयस्योत्तरमुत्तरत्र कुत्रोक्तमिति न प्रतीयतेऽतस्तदुत्तरस्थानं दर्शयति ॥ जीव इति ॥ एवं च जीव ईश्वरसेवारूपं कर्म करोति । तदीश्वरः स्वपूजात्वेन गृह्णातीति यत्राग्रे भविष्यति तदेवास्य प्रश्नद्वयस्योत्तरस्थानमिति भावः ॥ गुणानां महदादिकार्याणां परिमाणं तृतीयादौ कथ्यत इति स्पष्टम् । गुणिनस्तु के, किं विषयं परिमाणं कुत्र च तदुक्तमित्यत आह ॥ गुणिनामिति ॥ महदादिजीवानां महत्तत्त्वाद्यभिमानिब्रह्मादिजीवानां सामर्थ्यविषयं परिमाणं परिमितिः । देवासुरेभ्यो मघवनित्यादि यथा स्यात्तथा । कथ्यत इति शेषः ॥ १४ ॥

भूपातालककुब्व्योम ग्रहनक्षत्रभूभृताम् ।

सरित्समुद्रद्वीपानां सम्भवञ्चैतदोकसाम् ॥ १५ ॥

पदरत्नावली

भूपातालादीनां च परिमाणम् । एतानि भूम्यादीनि ओकांसि येषां ते तथा तेषां संभवम् उत्पत्तिश्च ॥ १५ ॥

प्रकाशिका

भूपातालादीनां च परिमाणम् । एतानि भूम्यादीन्योकांसि येषां प्राणिनां तेषां संभवमुत्पत्तिं च ॥ १५ ॥

प्रमाणमण्डकोशस्य बाह्याभ्यन्तरवस्तुनः ।

महताञ्चानुचरितं वर्णाश्रमविनिर्णयम् ॥ १६ ॥

पदरत्नावली

बाह्याभ्यन्तरे च वर्तमानस्य वस्तुनः हरेः परमाण्वादिपरममहदन्तानां रूपाणाञ्च परिमाणम् । सत एवेत्यादिना वक्ष्यमाणत्वात् । महतां मरीचिकर्दमादीनाम् अनुचरितम् । वर्णानाम् आश्रमाणां विशेषतो निर्णयम् ॥ १६ ॥

प्रकाशिका

यच्छब्दस्य सर्वत्रानुषङ्गः । बाह्याभ्यन्तरे वर्तमानस्य वस्तुनो हरेःप्रमाणं परिमाणम् । सत एव पदार्थस्येत्यादिना वक्ष्यमाणम् । महतां मरीचिकर्दमादीनाम् । वर्णानामाश्रमाणां च विशेषतो निर्णयम् ॥ १६ ॥

अवतारानुचरितं यदाश्चर्यतमं हरेः ।

युगानि युगमानञ्च धर्मो यश्च युगे युगे ॥ १७ ॥

पदरत्नावली

यद् आश्चर्यतमम् । अन्येषामिति शेषः । हरेरवतारानुचरितं तच्च । कति युगानि । युगमानं वर्षैरियत्तायाः परिच्छेदः । अनुयुगं यो यो धर्मस् तं तञ्च ॥ १७ ॥

प्रकाशिका

आश्चर्यतमम् । अन्येषामिति शेषः ॥ युगानि कति ॥ १७ ॥

नृणां साधारणो धर्मः सविशेषश्च यादृशः ।

श्रेणीनां राजर्षीणाञ्च धर्मः कृच्छ्रेषु जीवताम् ॥ १८ ॥

तात्पर्यम्

श्रेणीनामङ्गरक्षकाणां युद्धेषूच्यते ॥ १८ ॥

पदरत्नावली

साधारणो धर्मः जातिमात्रप्रयुक्तो ऽहिंसादिलक्षणः यः धर्मः विशेषसहितः, यादृशः कीदृशः । श्रेणीनाम् अङ्गरक्षकाणां धर्मो युद्धेषूच्यते । राजर्षिणां प्रियव्रतादीनां कृच्छ्रेषु आपत्सु जीवताम् ॥ १८ ॥

प्रकाशिका

साधारणो धर्मः सर्ववर्णाश्रमाणामिति शेषः । सविशेषो विशेषेण सहितः । ब्राह्मणादीनां यत्यादीनां चासाधारणो धर्मश्च यादृशः कीदृश इत्यर्थः ॥ श्रेणीनां धर्मः पृच्छ्यते । तत्र के श्रेणयः कुत्र च तेषां धर्म उक्त इत्यत आह ॥ श्रेणीनामिति ॥ अङ्गरक्षकाः श्रेणीशब्दवाच्यास्तेषां धर्मः । युद्धेषूत्तरत्र कथ्यमानेषूच्यते तदेवास्योत्तरमिति भावः । राजर्षीणां प्रियव्रतादीनाम् । कृच्छ्रे-ष्वापत्सु जीवतां च धर्मो यः क इत्यर्थः ॥ १८ ॥

तत्वानां परिसङ्ख्यानं लक्षणं हेतुलक्षणम् ।

पुरुषाराधनविधिं(धिः) योगस्याऽध्यात्मिकस्य च ॥ १९ ॥

तात्पर्यम्

हेतुलक्षणं ब्रह्मलक्षणम् ॥ १९ ॥

पदरत्नावली

तत्वानां महदादीनां परिसङ्ख्यानं सामान्यविशेषसङ्ख्या, तेषां लक्षणं व्यावर्तक-धर्मम् । हेतोः कारणस्य ब्रह्मणः लक्षणं स्वरूपम् । पुरुषस्य विष्णोः, आध्यात्मिकस्य परमात्म-संबन्धिनः । यमादियोगस्य भक्तियोगस्य च विधिस् तञ्च ॥ १९ ॥

प्रकाशिका

तत्त्वानां प्रकृत्यादीनां परिसङ्ख्यानं गणनं तेषां लक्षणं स्वरूपम् । हेतुलक्षण-मित्येतदप्रतीत्या व्याचष्टे ॥ हेतुलक्षणमिति ॥ पुरुषस्य विष्णोः पूजाप्रकारः । आध्यात्मिकस्य परमात्मसम्बन्धिनो योगस्य ध्यानादिरूपस्य ॥ १९ ॥

योगेश्वरैश्वर्यगतिं लिङ्गभङ्गञ्च योगिनाम् ।

वेदोपवेदधर्माणामितिहासपुराणयोः ॥ २० ॥

तात्पर्यम्

योगतो लिङ्गभङ्गः पूर्वोक्तः । पानेन ते देवेत्यादि पश्चात् ॥ २० ॥

पदरत्नावली

योगेश्वरैश्वर्यगतिं योगेश्वराणामणिमाद्यष्टैश्वर्यप्राप्तिं तेषां स्वरूपञ्च । योगिनां यमादियोगाभ्याससिद्धानां वेदान्तादिशास्त्राभ्याससिद्धानाञ्च योगतो लिङ्गभङ्गं सूक्ष्मशरीरनाशप्रकारञ्च । स्थिरं सुखञ्चेत्यादिनोक्तोऽयम् । ‘पानेन ते देवकथासुधायाः’ इत्यादि पश्चाच्च । ऋगादिवेदानाम् आयुर्वेदाद्युपवेदानां वेदादिविहितवर्णाश्रमधर्माणाञ्च यः सम्भव उद्धारादिस्तञ्च । इतिहासपुराणयोः सम्भव उत्पत्तिः ॥ २० ॥

प्रकाशिका

योगेश्वराणामैश्वर्यगतिमणिमाद्यष्टैश्वर्यप्राप्तिम् । लिङ्गभङ्गमिति ॥ ननु योगिनां लिङ्गभङ्गश्चरमशरीरत्यागः ‘स्थिरं सुखं चासनम्’ इत्यादिना पूर्वमेवोक्तः । अतो व्यर्थोऽयं प्रश्न इत्यत आह ॥ योगत इति ॥ अयमाशयः । द्विविधा योगिनः । यमादियोगाभ्यासप्रधानाः । भक्तिपूर्व-कश्रवणाद्यभ्यासप्रधानाश्चेति । तत्राद्यानामेव योगतः स्थिरं सुखं चासनमित्यादिनोक्ताद्योगाल्लिङ्ग-भङ्गश्चरमदेहत्यागः पूर्वोक्तो न तु द्वितीयानामतोऽयं प्रश्नो द्वितीययोगिलिङ्गभङ्गविषयः । तदुत्तरं च ‘पानेन ते देव कथासुधाया’ इत्यादिरूपं पश्चादुत्तरत्रैव भविष्यति अतो न कोऽपि दोष इति । वेदा ऋगादयः । उपवेदा आयुर्वेदादयः । धर्मा धर्मशास्त्राणि तेषामितिहासपुराणयोश्च ॥ २० ॥

सम्भवः सर्वभूतानां विक्रमः प्रतिसङ्क्रमः ।

इष्टापूर्तस्य काम्यानां त्रिवर्गस्य च यो विधिः ॥ २१ ॥

पदरत्नावली

विक्रमः विविधचरित्रलक्षणः । प्रतिसंक्रमः संहारः । इष्टस्य यागादेः । पूर्तस्य वापीकूपादेः । काम्यानां कारीर्यादीनाम् । त्रिवर्गस्य च धर्मार्थकामलक्षणस्य ॥ २१ ॥

प्रकाशिका

सम्भवः यथासम्भवम् उद्धार उत्पत्तिश्च । विक्रमो विशिष्टक्रमः स्थितिः प्रतिसङ्क्रमः संहारः । इष्टस्य यागादेः । पूर्तस्य ‘वापीकूपतटकादिदेवताऽऽयतनानि च । अन्नप्रदानमारामः पूर्तमित्यभिधीयत’ इति वचनाद् वापीकूपादेः । काम्यानां कारीर्यादीनां, त्रिवर्गस्य धर्मार्थकामलक्षणस्य

॥ २१ ॥

यो वाऽनुशयिनां सर्गः पाखण्डस्य च सम्भवः ।

आत्मनो बन्धमोक्षश्च व्यवस्थानं स्वरूपतः ॥ २२ ॥

पदरत्नावली

प्रकृतावनुशयनाद् अनुशयिनः संसारिणस् तेषाम् । स्वर्गादेः परिभ्रष्टानां संभवः । आत्मनो जीवस्य । मोक्षं विशिनष्टि- व्यवस्थानमिति ॥ यद्वा तारतम्येनावस्थानम् ॥ २२ ॥

प्रकाशिका

अनुशयिनां कर्मानुसारेण गर्भवासिनाम् । आत्मनो जीवस्य । मोक्षो बन्धध्वंसः स्वरूपतो व्यवस्थानं स्वरूपानन्दानुभवेन स्थितिः ॥ २२ ॥

यथाऽऽत्मतन्त्रो भगवान्विक्रीडत्यात्ममायया ।

विसृज्य च यथा मायामुदास्ते साक्षिवद्विभुः ॥ २३ ॥

तात्पर्यम्

**‘द्वेधा वावात्ममाया तद्रूपा तद्वशा च’ इति । तद्वशया संसारयति । स्वरूपया विमोचयत्युदास्ते तद्वशां विमुक्तस्थ इतरयैनं रमयत्येष आत्मैष आनन्द’ इति सौकारायणश्रुतिः **

॥ २३ ॥

पदरत्नावली

आत्मतन्त्रो भगवान् । आत्ममायया स्वेच्छया चित्प्रकृत्या च जगत्सृष्ट्यादिना यथा येन प्रकारेण विक्रीडति । द्विविधा आत्ममाया अस्ति स्वरूपभूता तद्वशा चेति । तत्र तद्वशया जीवं संसारयन्, स्वरूपभूतया भक्त्यादिसाधनसम्पन्नं साधयन् संसाराद्विमोचयन् सुखेन रमयन् पुनस्तद्वशां बन्धकशक्तिं विसृज्य साक्षिरूपपुरुषवन्निर्लेपो यथोदास्ते प्रवृत्तिं मुक्त्वा तिष्ठति । ‘द्वेधा वा वात्ममाया तद्रूपा तद्वशेति । तद्वशया संसारयति । स्वरूपया विमोचयत्युदास्ते’ इत्यादिश्रुतेर् नानिर्वाच्या मायाऽत्रोच्यते ॥ २३ ॥

प्रकाशिका

यथाऽऽत्मतन्त्रो भगवानिति श्लोके आत्ममाययेत्युच्यमाना मायाऽनिर्वाच्याविद्येति प्रतीतिवारणाय श्रुत्यैव दर्शयति ॥ द्वेधेति ॥ तद्रूपा तदिच्छारूपा । तद्वशा प्रकृत्यादिरूपा । संसार-यति । जीवमिति शेषः । विमुक्तस्थो मुक्तजीवे नियामकतया विद्यमानः परमात्मा तद्वशां तद्वशेति निर्दिष्टां स्ववशां बन्धकप्रकृत्यादिरूपामुदास्ते । तस्या बन्धनकरणत्वं तत्र न ददातीत्यर्थः । इतरया स्वेच्छारूपया । एनं मुक्तजीवम् ॥ ततश्चायं श्लोकार्थः ॥ आत्मतन्त्रः स्वतन्त्र आत्ममायया स्वात्मभूतयेच्छारूपया स्वाधीनया प्रकृत्यादिरूपमायया जीवम् । बद्ध्वेति शेषः । विशेषेण क्रीडति । जीवं संसारयतीति यावत् । मायां प्रकृत्यादिरूपां स्ववशामात्ममायया स्वस्वरूपभूतेच्छया विसृज्य विमुच्योदास्ते तस्या बन्धनकरणत्वं पुनर्न प्रयच्छति । तत्कृतलेपाभावं वक्तुं साक्षिपुरुषवदित्युक्तम् । आत्ममायया स्वरूपेच्छया विक्रीडति मुक्तजीवस्थस्तं विशेषेण क्रीडयति रमयतीति ॥ २३ ॥

सर्वमेतच्च भगवान् पृच्छतो मेऽनुपूर्वशः ।

तत्वतोऽर्हस्युदाहर्तुं प्रपन्नाय महामुने ॥ २४ ॥

पदरत्नावली

प्रश्नराशिमुपसंहरति- सर्वमिति ॥ चशब्दादन्यदपृष्टञ्च । यदनुपूर्वशः पूर्वं वक्तव्य-मिति प्रतीयते तत्क्रमेण उदाहर्तुमर्हसि । इतिहासं पुरस्कृत्य । प्रपन्नायेत्यनेन ‘आनुकूल्यस्य सङ्कल्पः प्रातिकूल्यस्य वर्जनम् । रक्षिष्यतीति विश्वासो गोप्तृत्ववरणं तथा । आत्मतर्पणकार्पण्ये षडि्वधा शरणागतिः’ इत्युक्तमर्थमात्मनः सूचयति । महामुने इत्यनेन शुकस्य स्वप्रश्नप्रतिवचनसामर्थ्यसद्भावं सूचयति ॥ २४ ॥

प्रकाशिका

प्रश्नराशिमुपसंहरति ॥ सर्वमिति ॥ चशब्दादन्यदपृष्टं च ॥ २४ ॥

अत्र प्रमाणं हि भवान्परमेष्ठी यथाऽऽत्मभूः ।

अपरे ह्यनुतिष्ठन्ति पूर्वेषां पूर्वजैः कृतम् ॥ २५ ॥

तात्पर्यम्

यस्मादनुतिष्ठन्ति तस्मात्परमेष्ठी प्रमाणम् ॥ २५ ॥

पदरत्नावली- सर्वज्ञस्यापि केनचिन्निमित्तेनान्यथावचनं सम्भाव्यत इति मन्दमत्याशङ्कां परिहरति- अत्रेति ॥ यथा आत्मभूः परमात्मन उपन्नः परमेष्ठी सर्वजीवोत्तमो ब्रह्मा सर्वजनानां सर्वशास्त्रार्थेषु प्रमाणं सम्यग्वक्तृत्वेनाप्ततमस् तथा व्यासपुत्रो भवानपि अत्र अस्मदर्थे प्रमाणं हि यस्मात्तस्मादुक्तं युक्तमिति । एतदेवोपपादयति- अपर इति ॥ अपरे अन्ये पूर्वेषां मरीच्यादीनामपि पूर्वजैर् ब्रह्म-भवादिभिः कृतं शास्त्रमनुतिष्ठन्ति । हि प्रसिद्धम् । ‘यद्यदाचरति श्रेष्ठः’ इत्यादौ । अनेन अपरे अनुतिष्ठन्तीत्यादि यस्मात् तस्मात् परमेष्ठी प्रमाणम् । अतो भवानप्यत्र प्रमाणमिति वाक्यार्थ उक्तो भवतीति ॥ २५ ॥

प्रकाशिका

महामुनीनामपि बृहस्पत्यादीनामिव विप्रलम्भकत्वं संभावितं तदपि त्वयि नास्तीत्याह ॥ अत्र प्रमाणमिति ॥ अत्र पृष्टेष्वर्थेषु भवान् प्रमाणमाप्तो न विप्रलम्भकः । कुतः । हि यस्मादत्रान्यत्र चार्थेष्वात्मभूः परमात्मपुत्रः परमेष्ठी प्रमाणमाप्ततमः । तथात्वेऽपि कुतो यथा परमेष्ठी अत्र प्रमाणं तथा भवानपि नारदव्यासद्वारागतपरमेष्ठिसम्प्रदायवक्तृत्वात्तवेति भावः ।

नन्वेवमुत्तरार्धवैय्यर्थ्यमित्याशङ्कायां परमेष्ठिनः सर्वशास्त्रार्थेष्वाप्तत्वसमर्थनाय तदुपयोग इत्याशयेन तद्योजनां दर्शयति ॥ यस्मादिति ॥ अनेन हिशब्दार्थो दर्शितः । पूर्वेषां मरीच्यादीनां पूर्वजैर्ब्रह्मादिभिः कृतं शास्त्रार्थमपरेऽन्येऽपि ऋषयोऽनुतिष्ठन्ति तस्मात्परमेष्ठी प्रमाणम् । न हि परमेष्ठिन आप्तत्वाभावे सर्वेषां शिष्टानामविगानेन तदुक्तानुष्ठानं सम्भवति । अतो यथा परमेष्ठी अत्र प्रमाणं तथा तत्सम्प्रदाय-वक्ता भवानप्यत्र प्रमाणमिति पूर्वोक्तं युक्तमिति भावः ॥ २५ ॥

न मेऽसवः परायन्ति ब्रह्मन्ननशनादमी ।

पिबतोऽच्युतपीयूषं त्वद्वाक्याद्धि विनिःसृतम् ॥ २६ ॥

पदरत्नावली

अनश्नतस्तव मनआदीन्द्रियदौर्बल्यादस्मदुक्तावधारणाऽशक्तेररण्यरोदनवद्व्यर्थ-मापद्यते इति तत्राह- न म इति ॥ न परायन्ति मृतप्राया न भवन्ति । अशनादप्यतिबलहेतुरसायन-पानादित्याह- पिबत इति ॥ अच्युतकथापीयूषम् ॥ २६ ॥

प्रकाशिका

अनश्नतस्तव मनआदीन्द्रियदौर्बल्यादस्मदुक्तावधारणमशक्यमित्यत आह ॥ न मेऽसव इति ॥ असव इन्द्रियाणि न परायन्ति नापगच्छन्ति न व्याकुलीभवन्तीत्यर्थः । अशनाद-प्यतिबलहेतुपीयूषपानादित्याह ॥ पिबत इति ॥ अच्युतकथापीयूषम् ॥ २६ ॥

सूत उवाच—

स उपामन्त्रितो राज्ञा कथायामिति सत्पतेः ।

ब्रह्मरातो भृशं प्रीतो विष्णुरातेन संसदि ॥ २७ ॥

तात्पर्यम्

‘बालोऽपि स गुरुत्वेन मुनिभ्यो ब्रह्मणा यतः । दत्तोऽतो ब्रह्मरातेति नाम वैयासकेरभूदि’ति ब्राह्मे ॥ २७ ॥

पदरत्नावली

सूतस्तावन् मुनिसंसदि राज्ञा पृष्टः शुकः किं प्रत्यवोचदिति शौनकादिमुनीनां मानसीं शङ्कां परिहरति- स इति ॥ मुनिसंसदि विष्णुरातेन विष्णुदत्तेन परीक्षिता सतां ब्रह्मादीनां पत्युर् हरेः कथायामित्युपामन्त्रितः सत्कृत्य व्याख्यातुं व्यापारितोऽत एव भृशं प्रीतः ब्रह्मरातः शुकः । ‘बालोऽपि स गुरुत्वेन मुनिभ्यो ब्रह्मणा यतः । दत्तोऽतो ब्रह्मरातेति नाम वैय्यासकेरभूत् ॥’ इति वचनात् शुकस्य ब्रह्मरातत्वं नान्यस्येति ॥ २७ ॥

प्रकाशिका

उपामन्त्रितः पृष्टः । सतां ब्रह्मादीनां पतेर्हरेः । ब्रह्मरातः शुको विष्णुरातेन परीक्षिता । अत्र शुकस्य ब्रह्मरातनामवत्त्वं केन निमित्तेनेत्यतस्तत्र निमित्तं प्रमाणेनैव दर्शयति ॥ बालोऽपीति ॥ सः शुको गुरुत्वेन गुरुत्वाभिप्रायेण दत्तः । रा दान इति धातोरिति भावः । वैय्यासकेर्व्यासपुत्रस्य । विष्णुना कृष्णरूपेण रातो दत्त इति परीक्षितो विष्णुरात इति नाम प्रसिद्धमिति नात्र निमित्तमुक्तम् ॥ २७ ॥

आह भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

ब्रह्मणे भगवत्प्रोक्तं ब्रह्मकल्प उपागते ॥ २८ ॥

तात्पर्यम्

**‘यत्र ब्रह्मान्तरोत्पत्तिर् ब्रह्मकल्पः स ईरित’ इति च ॥ २८ ॥ **

इति द्वितीयतात्पर्ये अष्टमोऽध्यायः ॥ ८ ॥

पदरत्नावली

भागवतं नाम पुराणं तत्प्रश्नोत्तरत्वेनाहेत्यन्वयः । आप्तिमूलत्वमाह- ब्रह्मण इति ॥ अतीतब्रह्मप्रलयानन्तरं ब्रह्मकल्पे ब्रह्मान्तरोत्पत्तिनिमित्ते प्राप्ते सति स्वपुत्राय ब्रह्मणे भगवता नारायणेन प्रोक्तमाहेति शेषः ॥ २८ ॥

प्रकाशिका

ब्रह्मसम्मितं वेदसंवादि वेदसमानमिति वा । ब्रह्मण आप्तत्वं प्रकारान्तरेणापि साधयति ॥ ब्रह्मण इति ॥ तथा च ब्रह्मा पूर्वं पृष्टेष्वर्थेष्वाप्तस्तद्विषये परमाप्ततमेन भगवतो-पदिष्टत्वादिति साधनं सूचितमिति ज्ञातव्यम् । अत्र ब्रह्मकल्पशब्दस्य विवक्षितमर्थं प्रमाणेनैव दर्शयति ॥ यत्रेति ॥ यस्मिन्काल इत्यर्थः । ब्रह्मान्तरोत्पत्तिः पूर्वब्रह्मप्रलयानन्तरमन्यस्य ब्रह्मण उत्पत्तिरित्यर्थः । तथा च ब्रह्मकल्पे ब्रह्मान्तरोत्पत्तिसमये उपागते प्राप्ते सत्यादिसृष्ट्युपक्रमकाल इति यावत् । तथा च पुन्नामकब्रह्मणे वासुदेवेन प्रोक्तमेव चतुर्मुखाय पद्मनाभेनोपदिष्टमित्याशयान्न कश्चित्क्षुद्रोपद्रवः ॥ २८ ॥

यद्यत्परीक्षिदृषभः पाण्डूनामनुपृच्छति ।

आनुपूर्व्येण तत्सर्वमाख्यातुमुपचक्रमे ॥ २९ ॥

॥ इति श्रीमद्भागवते द्वितीयस्कन्धे अष्टमोऽध्यायः ॥

पदरत्नावली

परीक्षित्प्रश्नप्रतिवचनतया शुकेनोक्तम् उत अन्यद् यत्किञ्चिदिति शङ्कां परिहर्तुमाह- यद्यदिति ॥ २९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

द्वितीयस्कन्धे अष्टमोऽध्यायः ॥

प्रकाशिका

ननु राज्ञा पृष्टस्योत्तरमनुक्त्वा भागवतपुराणकथनमसङ्गतमित्यत आह ॥ यद्यदिति ॥ पाण्डूनामृषभः श्रेष्ठः । आनुपूर्व्येण क्रमेण । प्रस्तावक्रम एवात्र विवक्षितो न प्रश्नक्रमः । तत्सर्वं तस्य सर्वस्योत्तरम् । उपचक्रमे । भागवतमिति शेषः । भागवताख्यानेनैव प्रश्नानामुत्तरं दातुं भागवतपुराणमारब्धमतो नासङ्गतिरिति भावः ॥ २९ ॥

॥ इति श्रीभागवतटिप्पण्यामष्टमोऽध्यायः ॥ २-८ ॥