यत्रोद्गतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः
अथ सप्तमोऽध्यायः
ब्रह्मोवाच—
यत्रोद्गतः क्षितितलोद्धरणाय बिभ्रत् क्रौडीं तनुं सकलयज्ञमयीमनन्तः ।
अन्तर्महार्णव उपागतमादिदैत्यं तं दंष्ट्रयाऽद्रिमिव वज्रधरो ददार ॥ १ ॥
पदरत्नावली
अस्मिन्नध्याये प्रतिज्ञातान् परमपुरुषस्यावतारान् तच्चरितानि च वक्ति । तत्र प्रथमतो वाराहकल्पमनुसृत्य वराहावतारं तत्कर्म चाह- यत्रेति ॥ अत्र दंष्ट्राशब्देन सुदर्शनं गदा चोपलक्ष्यते । सकलयज्ञमयीं स्रुक्स्रुवादिसर्वयज्ञोपकरणजननीं तदाधारां क्रौडीं क्रोडस्य वराहस्य विद्यमानां तनुं बिभ्रद् ब्रह्मादिभिः स्तुतोऽनन्तः यत्र यदा क्षितितलोद्धणाय उद्गतः समुद्रे निमज्य रसातलगतां महीम् उद्धृत्य दंष्ट्राग्रे निधाय ऊर्ध्वं गतो भगवान् तदा अन्तर्महार्णवे तद्रोधाय उपागतं तम् आदिदैत्यं हिरण्याक्षं वज्रधर इन्द्रः वज्रेण अद्रिं यथा तथा दंष्ट्रया ददार । गदया विदीर्णगात्रं मुष्टिभिः कर्णमूले हत्वा गतासुमकरोदित्यर्थः । दृ विदारण इति धातोः । येनान्तर्महार्णवे भूर् नीता तमिति वा
॥ १ ॥
प्रकाशिका
तत्र प्रथमतो वराहकल्पमनुसृत्य वराहावतारं तत्कर्म चाह ॥ यत्रेति ॥ अनन्तो यत्र यदा क्रौडीं क्रोडस्य वराहस्य विद्यमानाम् । सकलयज्ञमयीं यज्ञोपकरणकुशादिजननीं तनुं बिभ्रत् । क्षितितलोद्धरणायोद्गतो जलादूर्ध्वङ्गतः । हन हिंसागत्योः । तदोपागतं तं प्रसिद्धम् । ददार । दृ विदारण इति धातोः । विदारितवानित्यर्थः ॥ १ ॥
जातो रुचेरजनयत्सुयशाः सुयज्ञः
आकूतिसूनुरमरानथ दक्षिणायाम् ।
लोकत्रयस्य महतीमहरद्य आर्तिं
स्वायम्भुवेन मनुना हरिरित्यनूक्तः ॥ २ ॥
तात्पर्यम्
‘क्रियाभिमानाद्यज्ञोऽसाविन्द्रसूनुः प्रकीर्तितः । यज्ञेशत्वात्स्वयं विष्णुर्यज्ञो रुचिसुतः स्मृत’ इति पाद्मे । हरिरिति ज्ञात्वेशावास्यमित्यादिनाऽनूक्तः । ‘त्रयी श्रुतिर्नित्यवाक्च वेदोऽनुवचनं तथे’ति ह्यभिधानम् ॥ २ ॥
पदरत्नावली
सु पूज्यं यशो यस्य स सुयशा उत्तमश्लोकशिखामणिः । स्वार्पणबुद्ध्या क्रियमाणः शोभनो यज्ञो यस्य सः सुयज्ञः । क्रियाभिमानी यज्ञनामा इन्द्रसूनुः शोभनो यस्मात्स इति वा । सः नारायणः रुचेः प्रजापतेः सकाशाद् यज्ञ इति नाम्ना आकूत्यां रुचिपत्न््नयां जातोऽभूत् । अथेन्द्रपदस्थ आकूतिसूनुर् यज्ञः दक्षिणायां रमावतारायां स्वपत्न््नयां स्वायम्भुवमन्वन्तरे तुषिताख्यान् अमरान् अजनयत् । यः राक्षसैर् अत्तुं प्राप्तेन स्वायम्भुवेन मनुना संसारक्लेशहरणाद्धरिरिति ज्ञात्वा ईशावास्यमित्यादि अनूक्तः वेदवचनेन स्तुतः । ‘त्रयी श्रुतिर्नित्यवाक्यं वेदोऽनुवचनं तथा’ इत्यभि-धानात् । किञ्च यश्चासुरजनादुत्पन्नां लोकत्रयस्य महतीम् आर्तिम् अहरत् तत्ध्यानेनेति शेषः । लोकत्रयस्य महतीम् आर्तिम् अहरदिति यस्मात् तस्मात् हरिरिति ज्ञात्वा अनूक्त इति वा । ‘क्रियाभिमानाद्यज्ञोऽ-साविन्द्रसूनुः प्रकीर्तितः । यज्ञेशत्वात्स्वयं विष्णुर् यज्ञो रुचिसुतः स्मृतः ॥’इत्यादेरयं यज्ञो हरिरेवेति
॥ २ ॥
प्रकाशिका
यज्ञावतारं तत्कर्म चाह ॥ जात इति ॥ अत्र सुयज्ञ इत्येतत् सुशब्दव्यावृत्यमन्यं यज्ञं प्रमाणेनैव दर्शयन्व्याचष्टे ॥ क्रियाभिमानादिति ॥ इन्द्रसूनौ यज्ञशब्दप्रवृत्तिनिमित्तं क्रियारूप-यज्ञाभिमानित्वम् । भगवति तु तदीशत्वमेवेत्यर्थः । स्वयं साक्षाद्विष्णुस्तथा चेन्द्रसूनोर्यज्ञस्य व्यावृत्त्यर्थं मूले सुशब्द इति भावः । हरिरिति शब्देनानु पश्चादुक्त इति व्याख्यानमसत् । स्वायंभुववचने ईशावास्यमित्यादिरूपे हरिशब्दप्रयोगाभावादतोऽत्रापेक्षितमध्याहृत्य सम्यग्व्याचष्टे ॥ हरिरितीति ॥ तथा च ज्ञात्वेत्यध्याहारः । अनूक्त इति चैकं पदमिति भावः । अनूक्तपदान्तर्गतानुवचनं दर्शयन् उक्तपदं व्याख्याति ॥ ईशावस्यमिति ॥ अनेनानूक्त इत्यत्र प्रकृतेस्तन्त्रन्यायेनोपसर्गप्रत्ययाभ्यां सम्बन्धः । तथा चानुवचनेनेशावास्यमित्यादिना वेदेनोक्तः स्तुत इति लभ्यत इति व्याख्यानं सूचयति । अनुवचनशब्दस्य वेदवाचकत्वेऽभिधानमाह ॥ त्रयीति ॥ ततश्चायं श्लोकार्थः ॥ सु पूज्यं यशो यस्य सः सुयशा अनन्तो रुचेः प्रजापतेः सकाशाच्छोभना यज्ञा यस्मादिति यज्ञेशत्वेन सुयज्ञनामा सन् आकूत्यां रुचिभार्यायां जातः प्रादुर्भूतोऽभूत् । अथेन्द्रपदं प्राप्य दक्षिणायां रमावतारायां स्वभार्यायां तुषिताख्यानमरा-नजनयद्धरिरिति ज्ञात्वा स्वायंभुववचनेनेशावास्यमित्यादि वेदेनोक्तः स्तुत इति ॥ २ ॥
जज्ञे च कर्दमगृहे द्विज देवहूत्यां
स्त्रीभिः समं नवभिरात्मगतिं स्वमात्रे ।
ऊचे य आत्मशमलं गुणसङ्गपङ्कम्
अस्मिन्विधूय कपिलः स्वगतिं प्रपेदे ॥ ३ ॥
पदरत्नावली
चशब्द आनन्तर्यार्थे । हे द्विज अथ स विष्णुः । कर्दमगृहे कर्दमप्रजापति-पत्न््नयां नाम्ना देवहूत्यां नवभिः स्त्रीभिर् मरीच्यादिपत्नीभिस्समं सह कपिलनामा जज्ञे इत्यन्वयः । तच्चरितमाह- आत्मगतिमिति ॥ यः कपिलः स्वमात्रे आत्मगतिं तत्वसङ्ख्यानरूपाम् आत्मविद्याम् ऊचे । स कपिलोऽस्मिन्सात्विकप्रकृतिचेतनगणे विद्यमानं गुणसङ्गपङ्कं शब्दादिगुणानां सङ्गान् निरन्तरनिषेवणाद् उत्पन्नम् अविद्याकामकर्माख्यपङ्कम् आत्मशमलं मनःकश्मलं साङ्ख्यशास्त्रश्रवणजातज्ञानवारिणा विधूय प्रक्षाल्य स्वगतिं दत्वा स्वलोकं प्रपेदे इत्यन्वयः ॥ ३ ॥
प्रकाशिका
कपिलावतारमाह ॥ जज्ञ इति ॥ अनन्तपदमत्राप्यनुषञ्जनीयम् । अनन्तः । हे द्विज नारद । कर्दमगृहे कर्दमप्रजापतिपत्न््नयां नाम्ना देवहूत्यां नवभिः स्त्रीभिर्भगिनीभिः समं सह कपिल-नामा जज्ञ इत्यन्वयः । तत्कर्माह ॥ स्वमात्र इत्यादिना ॥ यः स्वमात्रे देवहूत्यै आत्मगतिं परमसाङ्ख्यशास्त्ररूपां स्वात्मविद्यामूचे उपदिष्टवान् । यश्चास्मिन्नधिकारिजने विद्यमानं गुणसङ्गपङ्कं शब्दादिविषयसम्बन्धप्राप्तपङ्कस्थानीयमात्मशमलं मनोदोषं परमसाङ्ख्यशास्त्रोपदेशादिना विधूय प्रक्षाल्य स्वगतिं स्वसाक्षात्कारं प्रपेदे प्राप्तवान् । तत्साक्षात्कारविषयो जात इत्यर्थः । स कपिलो जज्ञ इत्यन्वयः
॥ ३ ॥
अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद्भगवान्स दत्तः ।
यत्पादपङ्कजपरागपवित्रदेहायोगर्धिमापुरमयीं यदुहैहयाद्याः ॥ ४ ॥
तात्पर्यम्
अमयीं विष्णुप्रधानाम् ॥ ४ ॥
पदरत्नावली
हरिणा समम् अपत्यम् अभिकाङ्क्षत इच्छतो ऽत्रेर् मुनेस् तपसा तुष्टो भगवान् तपसा प्रसन्नेन, मया अहं तव पुत्रत्वेन दत्त’ इति आहेति यद् यस्मात् तस्मात्स हरिर् अत्रेर् अनसूयायाम् अवतीर्णो नाम्ना दत्त इति प्रसिद्धोऽभूत् । यस्य दत्तस्य पादपङ्कजपरागनिषेवया पवित्रदेहाः । यदुः कार्तवीर्यस्य पूर्वजः, हैहयः कार्तवीर्यार्जुनस् तौ आद्यौ येषां ते तथा । अमयीं विष्णुप्रधानां योगर्धिम् अणिमादियोगसिद्धिम् आपुरित्यन्वयः । ‘अ इति ब्रह्म’इति श्रुतेः । मयटोऽपि प्राधान्ये प्रयोगदर्शनात् । उभयीमिति पाठ इहलोकपरलोकविषयां सगुणनिर्गुणविषयां चेत्यपव्याख्यानञ्च नाम्नायज्ञानमिति ज्ञातव्यम् ॥ ४ ॥
प्रकाशिका
दत्तात्रेयावतारमाह ॥ अत्रेरिति ॥ अत्रामयीमित्येतदप्रतीतेरनूद्य व्याचष्टे ॥ अमयीमिति ॥ विष्णुप्रधानां विष्णुसेवोपयुक्ताम् । अकारस्य विष्णुवाचकत्वान्मयटश्च प्राधान्याद्यर्थ-त्वादिति भावः ॥ ततश्चायं श्लोकार्थः ॥ हरिसममपत्यमभिकांक्षत इच्छतोऽत्रेर्मुनेस्तपसा तुष्टो भगवान्, ‘मया तुभ्यमहं पुत्रतया दत्तः’ इति यद्यस्मादाह तस्मात्स अत्रिपुत्रो नाम्ना दत्त इति प्रसिद्धः । भक्तेभ्यो योगैश्वर्यदानं तत्कर्म चाह ॥ यत्पादेति ॥ यस्य दत्तस्य पादपङ्कजपरागेन शिरसा धृतेन पवित्रा देहा येषां ते तथा । योगर्द्धिम् अणिमादियोगसमृद्धिम् । यदुर्ययातिपुत्रो, हैहयः कार्तवीर्यार्जुनः ॥ ४ ॥
तप्तं तपो विविधलोकसिसृक्षया मे
आदौ सनात्सुतपसस्तपतः स नोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्वं
सम्यग्जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥
तात्पर्यम्
मे तपतः सतः । सः नो ऽर्थे । सनात्पूर्वम् । ‘ब्रह्मणस्तपतः पूर्वं विष्णुर्जात उरुक्रमः । सर्वलोकहितार्थाय येन रूपं प्रकाशितम् । यश्च पाति सदा लोकानजितो जयतां वरः । तस्माद्रुद्रः समुत्पन्नः सर्वसंहारकृद्विभुः । एते त्रिपुरुषाः प्रोक्ताः सृष्टिस्थित्यन्तकारिणः । निमित्तमात्रं तौ देवौ विष्णुः सर्वस्य कारणमि’ति स्कान्दे ॥ ५ ॥
पदरत्नावली
आदावित्युभयत्र सम्बध्यते । यदा आदौ मया विविधलोकसिसृक्षया तपस् तप्तं कृतं तदा मे मम तपतस् तपः कुर्वतः सतः । सुतपसः सर्वपूज्यतपसः सनाद् आदौ सनोत्पत्तेः पूर्वं नो ऽस्माकमर्थे स विष्णुनामाऽभूदित्यन्वयः । अवतीर्य च यत्तत्वं मुनय आत्मन् आत्मनि हृदयपद्म-कर्णिकायाम् अचक्षत । प्राक्कल्पस्य सम्प्लवेन जलीभावेन प्रलयेन इह जगति विनष्टं तिरोहितं तद् आत्मतत्वं सम्यग्जगाद मम उपदिदेशेत्यन्वयः । ‘ब्रह्मणस्तपतः पूर्वं विष्णुर्जात उरुक्रमः’ इत्यादि-वाक्यञ्चेममर्थमनुवदति । ‘सनात् सम्भजनात् समाराधनलक्षणात् स्वतपसः स्वतपःसाधनाज् ज्ञान-भक्तिरूपात् कारणादिति यावत् । स आराधितो देवः, चतुःसनोऽभूत् सनकः सनन्दनः सनातनः सनत्कुमार इति चतुर्मूर्तिरभूत्’ इतीदं पूर्वोक्ततुल्यमिति (पूर्ववदपव्याख्यानमित्यर्थः)। अस्यावतारस्य मुख्यप्रयोजनं जगद्रक्षणम् । आत्मतत्ववचनं प्रासङ्गिकमिति ज्ञातव्यम् । तदभिप्रायेणोक्तमाचार्यैः सर्वज्ञैः- ‘यश्च पाति सदा लोकानजितो जयतां वरः’ इत्यादि ॥ ५ ॥
प्रकाशिका
विष्ण्ववतारं तत्कर्म चाह ॥ तप्तमिति ॥ अत्र सनाद् आदौ सनोऽभूदिति व्याहतं भातीत्यतः श्लोकं समग्व्याख्याति ॥ मे तपत इति ॥ अनेन तपत इत्यस्य सनादित्यनेनान्वयभ्रान्तिं वारयति । मे तपतः सकाशादित्यर्थप्रतीतिवारणाय सत इत्युक्तम् । सन इति नैकपदं किन्तु सः न इति पदद्वयम् । अतो नोक्तव्याहतिरित्याशयेनाह ॥ सः न इति ॥ तादर्थ्ये चेयं षष्ठीत्याशयेनार्थ इत्युक्तम् । तेन पदद्वयकरणेनानन्वयशङ्का परास्ता । आदावित्यस्यान्वयं दर्शयति ॥ सनात्पूर्वमिति ॥ अयमवतारः क इति न प्रतीयतेऽतः प्रमाणेनैव तद्दर्शयन्नुक्तार्थं दृढीकरोति ॥ ब्रह्मण इति ॥ विष्णुर्जातो विष्णुनामा जात इत्यर्थः । उरुक्रमो मूलरूपी । सनोऽर्थ इत्यस्य तात्पर्यम् ॥ सर्वलोकेति ॥ आत्मतत्त्वं जगादेत्यस्यार्थः- येन रूपं स्वरूपं प्रकाशितमिति ॥ मूलोक्तमस्य कर्मोपलक्षणमित्याशयेनाह ॥ यश्च पातीत्यादि ॥ त्रयाणां साम्यशङ्कामपाकरोति ॥ निमित्तेति ॥
ततश्चायं श्लोकार्थः ॥ आदौ मया विविधलोकसिसृक्षया तपस्तप्तं कृतम् । तदा मे मम तपतस्तपः कुर्वतः सतः । सुतपसः पूज्यतपसः सनादादौ सनोत्पत्तेः पूर्वं, नोऽस्माकमर्थे स विष्णुनामकोऽभूत् । अनन्तरं प्राक् कल्पसंप्लवः प्रलयस्तेन विनष्टं तिरोहितमिहाधिकारिजने । आत्मतत्त्वं परमात्मस्वरूपं सम्यक् जगादोपदिदेश । उपदेशानन्तरं यदात्मतत्त्वं मुनय आत्मन् स्वहृदयेऽचक्षत । तज्जगादेत्यन्वय इति ॥ ५ ॥
धर्मस्य दक्षदुहितर्यजनि स्वमूर्त्या
नारायणो नर इति स्वतपःप्रभावः ।
दृष्टात्मनो भगवतो नियमावलोपं
देव्यस्त्वनङ्गपृतना घटितुं न शेकुः ॥ ६ ॥
तात्पर्यम्
‘नरो नारायणश्चैव हरिः कृष्णस्तथैव च । चत्वारो धर्मतनया हरिरेव त्रयो मतः । अनन्तो नरनामाऽत्र तस्मिंस्तु नरनामवान् । विशेषेण स्वयं विष्णुर्निवसत्यम्बुजेक्षणः । तस्माच्चतुर्धा धर्मस्य जातो विष्णुरितीरित’ इति षाड्गुण्ये ॥ ६ ॥
पदरत्नावली
धर्मस्य भगवतः, दक्षदुहितरि दक्षपुत्र्याम् । स्वमूर्त्या सच्चिदानन्दलक्षणस्वदेहेन नारायणः नर इति नाम्नाऽजनि । कीदृशः स्वतपसः स्वज्ञानस्य प्रभावो माहात्म्यं यस्मिन् सः स्वतपःप्रभावः । प्रतापमाहात्म्ययोः प्रभावः स्यादित्यतः लोकशिक्षार्थं स्वतपःप्रतापवान्वा । अत्रेदं तात्पर्यं- ‘नारायणो हरिः कृष्ण इति त्रयः विष्णोः साक्षादवताराः । नरनामि्न अनन्ते अन्तर्यामितया नरनामाऽवतीर्ण’ इति तत्र लोकशिक्षार्थं तपः कुर्वाणौ बदर्यां वसन्तौ सहैव तिष्ठत इति नारायणो नर इत्येतावेवोक्तौ इति ज्ञातव्यम् । ‘नरो नारायणश्चैव हरिः कृष्णस्तथैव च’ इत्यादिवचनात् । स्वतपः-प्रभाव इत्युक्तं विवृणोति- दृष्टात्मन इति ॥ दृष्टात्मनः नित्यमपरोक्षीभूतनिजस्वरूपस्य नरनारायणात्मनः भगवतः नियमावलोपं तपआदेर्भङ्गम् अनङ्गस्य पृतनाः सेनास्थानीया देवस्त्रियः घटितुं कर्तुं न शेकुरित्यन्वयः । किञ्च स्वतोऽप्यधिकसौन्दर्यमन्दिराणां भगवता तत्क्षणसृष्टानां स्त्रीणां दर्शनाद् लज्जितास्ततो न्यवर्तन्तेत्यस्मिन्नर्थे तुशब्दः । यद्यप्यनङ्गपृतनास् तथापीति यद्यर्थे वा ॥ ६ ॥
प्रकाशिका
नरनारायणावतारं तत्कर्म चाह ॥ धर्मस्येति ॥ अत्र नरस्यापि भगवदवतारत्वं प्रतीयते । नरनारायणयोर्द्वयोरेव धर्मपुत्रत्वं चातः प्रमाणेनैव श्लोकतात्पर्यं दर्शयति ॥ नरो नारायण इति ॥ द्वितीयश्चशब्द इतिशब्दार्थकः । हरिरेवेत्यत्र न नर इवाविष्ट इत्येवकारार्थः । अनन्तः शेषः । नरस्य शेषत्वे धर्मगृहे हरिश्चतुर्धा जात इति ग्रन्थान्तरविरोधं परिहर्तुमाह ॥ तस्मिंस्त्विति ॥ तुशब्दोऽवधारणे । अम्बुजेक्षण इत्यनेन तत्राविष्टस्य हरेर्नराकारत्वं सूचयति । प्रथमार्धगताद्यैवकार-स्यानन्त एवेति सम्बन्धः । तत्रत्यद्वितीयैवकारस्य तस्मादेवेति सम्बन्धः । धर्मस्य गृह इति शेषः । सकाशादिति वा । तथा च मूले हरिकृष्णावप्युपलक्षणया ग्राह्याविति भावः ।
ततश्चायं श्लोकार्थः ॥ धर्मस्य सकाशाद्दक्षदुहितरि दक्षकन्यायां मूर्तिसंज्ञायां धर्मपत्न्यां स्वमूर्त्या स्वरूपभूतदेहेन नारायणो नरो हरिः कृष्ण इति नाम्नाऽजनि । कीदृशः । लोकशिक्षार्थं स्वतपसः प्रभावःप्रतापो यस्मिन्स स्वतपः प्रभावः । लोकशिक्षार्थं तपःकुर्वाणौ नरनारायणौ बदर्यां सहैव तिष्ठत इति तयोरेव स्वपदेन ग्रहणम् । स्वतपःप्रभाव इत्युक्तमेव विवृणोति ॥ दृष्टात्मन इति ॥ नित्यम-परोक्षीकृतनिजस्वरूपस्येत्यर्थः । अनेन कदाचिद्धर्यपरोक्षज्ञानिनोऽपि नियमावलोपः केनापि कर्तुं न शक्यते किमु सदाऽपरोक्षज्ञानिनोऽस्येति सूचयति । हेत्वन्तरमाह ॥ भगवत इति ॥ नियमावलोपं तपआदेर्भङ्गम् । देव्यस्तु देवस्त्रियोऽपि । कथंभूताः । अनङ्गस्य कामस्य पृतना इव पृतनाः सेनास्थानीया घटितुं कर्तुं न शेकुः शक्ता न जाता इत्यर्थः ॥ ६ ॥
कामं दहन्ति कृतिनो ननु रोषदृष्ट्या
रोषं दहन्तमुत ते न दहन्त्यसह्यम् ।
सोऽयं यदन्तरमलं निविशन्बिभेति
कामः कथं नु पुनरस्य मनः श्रयेत ॥ ७ ॥
पदरत्नावली
क्रोधवत एव मनसि कामः पदं लभते । हरेस्तु स एव पदं नाप्नोति । नितरां कामः । अतस् तत्साधनं न कार्यक्षममभूदित्याह- काममिति ॥ कृतिनः महात्मानः शङ्करादयः रोषाविष्टदृष्ट्या कामं दहन्ति ननु प्रसिद्धोऽयमर्थः । उतशब्दोऽप्यर्थे । तेऽपि दहन्तं रोषं न दहन्ति । अत्र हेतुगर्भं विशेषणमाह- असह्यमिति ॥ सोऽयं रोषः यस्य हरेरन्तरं मनः । निविशन् निवेष्टुमिच्छन् अलं बिभेति । अत्र हेतुरमलमिति वा । क्रोधनिवेशनसहकारिरागद्वेष- लक्षणमल-विधुरत्वादित्यर्थः । कामो ऽस्य हरेर् मनः कथं नु श्रयेत । न कथमपि । सहकारिणः क्रोधस्य प्रवेशसन्देहादित्यर्थः । कञ्चनावसरमासाद्यापीत्यर्थे पुनरिति ॥ ७ ॥
प्रकाशिका
अनेनार्थात्कामजय उक्तः । स तु न युक्तः । दृष्टात्मनां जितकामानां शङ्करादीनां मनसि पुनः पार्वत्यादिकामनादर्शनादित्यतस्तद्वैलक्षण्यं दर्शयन् अस्य मनसि पुनः कामोदयो नास्ती-त्याह ॥ काममिति ॥ कृतिनस्तपस्विनो रुद्रादयः । रोषपूर्वकदृष्ट्या कामं दहन्ति ननु प्रसिद्धमेतत् । अनेन रोषं न दहन्तीत्येतदुपपादितमिति ज्ञातव्यम् । रोषदाहे रोषदृष्टेरसम्भवात् । उतशब्दोऽप्यर्थः । तेऽपि रोषं न दहन्ति । अनेन क्रोधयुतं रुद्रादीनां मनोऽतः सदोषमिति सूचयति । ननु रोषस्य स्वानपकारित्वात्ते न दहन्तीत्यत उक्तम् ॥ दहन्तमत एवासह्यमिति ॥ सः दोषतया प्रसिद्धोऽयं रुद्रस्य मनसि विद्यमानो रोषो यदन्तो यस्य नारायणस्यान्तो मनो निविशन्प्रवेष्टुं यत्नं कुर्वन् बिभेति । कुतः, यत इदममलं प्रकृतिसम्बन्धादिमलशून्यम् । अस्य नारायणस्य मनः प्रकृतिसम्बन्धशून्यं कथं श्रयेत न कथमपि । नु वितर्के । तथा च तर्क एवात्र प्रमाणमिति सूचयति । स चैवंरूपः रुद्रादीनां मनसि पुनः कामोदयो युक्तः । तन्मनसः कामाभावेेऽपि क्रोधलक्षणकार्योन्नेयप्रकृति- सम्बन्धादिरूपदोषयुक्तत्वात् । नारायणमनसि न तद्वत् प्रकृतिसम्बन्धादिदोषोन्नायकं क्रोधादिकमस्ति । अतस्तत्सर्वथा निर्दोषमिति निश्चीयते । एवं च निर्दोषतया निश्चिते तत्रानादितो जितः कामः पुनरुत्तरत्रापि कथं स्यादिति ॥ ७ ॥
विद्धः सपत्न्युदितपत्रिभिरन्ति राज्ञो
बालोऽपि सन्नपगतस्तपसे वनाय ।
तस्मा अदाद्ध्रुवगतिं गृणते प्रसन्नो
दिव्याः स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
तात्पर्यम्
‘अवतारो महाविष्णोर्वासुदेव इतीरितः । यो ध्रुवाय निजं प्रादात्स्थानमन्या-नधिष्ठितमि’ति प्रकाशसंहितायाम् ॥ ८ ॥
पदरत्नावली
य उत्तानपादनाम्नो राज्ञो ऽन्तिके सुनीत्याः सपत्न््नया उदितपत्रिभिर् वाग्बाणैर् विद्धः सन् बालोऽपि पुराद् अपगतः निर्गतस् तपसे वनाय अगमदिति शेषः । तत्र नारदोपदिष्टविधिना तपश्चरते, प्रत्यक्षं दृष्ट्वा गृणते स्तुवते तस्मै ध्रुवाय । तपसा प्रसन्नो हरिर् वासुदेवनामविग्रहविशेषं गृहीत्वा ध्रुवगतिं नित्यस्थानमदादित्यन्वयः । वैकुण्ठाद्यन्यतममदात्किम् इत्याशङ्क्य तद्विशिनष्टि- दिव्या इति ॥ यदुपर्यधस्ताद् यस्या ध्रुवगतेर् उपरि अधस्तात् स्थिता अम्बरचारिणः मुनयः यां स्तुवन्ति तामिति शेषः । ‘अवतारो महाविष्णोर्वासुदेव इतीरितः’ इत्यादेः किन्नामायमवतारः ? इति शङ्का निरस्तेति ॥ ८ ॥
प्रकाशिका
विद्ध इति श्लोके उच्यमानोऽवतारः क इति न प्रतीयतेऽतस्तं प्रमाणेनैव दर्शयति ॥ अवतार इति ॥ ध्रुवतपसा प्रसन्नो हरिर्येन विग्रहविशेषेण तस्मै वरं दत्तवान् सोऽयमवतारो वासुदेव इति शास्त्रे प्रतिपादित इत्यर्थः । अत एव तस्मै नारदेन वासुदेवद्वादशाक्षरविद्योपदिष्टेति वक्ष्यमाण-मुपपन्नमिति ध्येयम् । निजमित्येतदेव विवृणोति ॥ अन्यानधिष्ठितमिति ॥ तथा च ध्रुवगमनात्पूर्वं स्वयमेव तत्राधिपतितया स्थित इति भावः ॥ ततश्चायं श्लोकार्थः ॥ मातुः सपत्न्या सुरुच्या उदितानि वाक्यान्येव पत्रिणो बाणास्तै राज्ञ उत्तानपादस्यांति समीपे विद्धः सन् ध्रुवस्तपसे तपस्तप्तुमपगतः पुरान्निर्गतः । वनाय वनमुद्दिश्य । ध्रुवगतिमचलस्थानम् । वैकुण्ठादिव्यावृत्त्यर्थमाह ॥ दिव्या इति ॥ उपरि स्थिता दिवि भवा देवाः । अधस्तात्स्थिता मुनयः सप्तर्षयः । यद्यां स्तुवन्ति । तामिति शेष इति
॥ ८ ॥
यद्वेनमुत्पथगतं द्विजवाक्यवज्र-
निष्पिष्टपौरुषभगं निरये पतन्तम् ।
ज्ञात्वार्थितो जगति पुत्रपदञ्च लेभे
दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
तात्पर्यम्
‘पृथुर्नाम महाराजस्तत्र विष्णुः स्वयं प्रभुः । पृथुनामा चतुर्बाहुः प्रविष्टस्तेन चार्थित’ इति महासंहितायाम् ॥ ९ ॥
पदरत्नावली
अथ उत्पथगतं मामेव यजध्वं मत्तोऽन्यद्दैवं नास्तीत्यद्वैतमार्गवर्तिनं, अत एव द्विजवाक्यवज्रेण निष्पिष्टपौरुषभगं विनाशितपुरुषाकारभागधेयं मृत्वा निरये पतन्तं वेनं ज्ञात्वा परमर्षिभिर् जगत्पालनायार्थितः जगति भूलोके पुत्रपदं मथितवेनदक्षिणभुजोत्पन्नपृथ्वाख्यमहाराजस्थानं लेभे इत्यन्वयः । स्वयञ्च पृथुनामा तत्राविष्ट इत्यर्थं चशब्देनानुवदति । ‘पृथुर्नाम महाराजस्तत्र विष्णुः स्वयं प्रभुः’ इत्यादेः । तत्कर्माह- दुग्धेति ॥ येन पृथ्वाविष्टेन पृथुनाम्ना हरिणा वसुधा भूमिः सकलानि वसूनि अमृतादिद्रव्याणि दुग्धेत्यन्वयः ॥ ९ ॥
प्रकाशिका
यद्वेनमिति श्लोके वेनपुत्रः पृथुर्भगवदवतार इति प्रतीयते । तत्तु प्रमाणविरुद्धम् । अत आवेशाभिप्रायकमिदं व्याख्येयमिति प्रमाणेनैव दर्शयति ॥ पृथुर्नामेति तेन चेति ॥ तेन पृथुना पूर्वजन्मन्यर्थितो, वेनमरणानन्तरम् ऋषिभिश्चेति चार्थः ॥ तथा चायं मूलार्थः ॥ यद्यदोत्पथगतं मामेव यजध्वम् । मत्तोऽन्यो देवता नास्तीत्यद्वैतमार्गवर्तिनमत एव द्विजवाक्यलक्षणेन वज्रेण निष्पिष्टौ विनाशितौ पौरुषं पराक्रमो भग ऐश्वर्यं च तौ यस्य तम् । निरये पतन्तम् । निरयपाताभिमुखं च ज्ञात्वाऽर्थितः । ऋषिभिरिति शेषः । पृथुना पूर्वजन्मनि तदा पुत्रपदं वेनपुत्रस्य पृथोः शरीररूपं स्थानं लेभे । तत्राविष्ट इत्यर्थः । वेनपुत्रस्य पदं पृथुरिति नाम च लेभ इति चशब्दार्थः । तत्कर्म चाह ॥ दुग्धेति ॥ वसुधा भूमिर्येन पृथ्वाविष्टेन पृथुनाम्ना विष्णुना दुग्धा । सकलानि वसून्यमृतादिद्रव्याणि दुग्धानि । वसुधां निमित्तीकृत्य पृथुनाम्ना विष्णुना सकलानि द्रव्याणि दुग्धानीत्यर्थ इति ॥ ९ ॥
नाभेरसावृषभ आस सुदेविसूनुः
यो वै चचार समदृग् हृदि योगचर्याम् ।
यत्पारमहंस्यमृषयः पदमामनन्ति
स्वस्थः प्रशान्तकरणः परिमुक्तसङ्गः ॥ १० ॥
तात्पर्यम्
यद्रूपं परमहंसप्राप्यं पदमामनन्ति ॥ १० ॥
पदरत्नावली
असौ नारायणः नाभे राज्ञः सकाशात् सुदेविसूनुर् आसेत्यन्वयः । मेरुदेव्याः सुदेवीति नामान्तरं राजकृतम् । तदवतारकर्माह- यो वा इति ॥ ऋषभनामा यो वै हृदि समदृक् सर्वान्तर्हृदिस्थितं समं ब्रह्म पश्यतीति नित्यापरोक्षीकृतस्वरूप इत्यर्थः । योगचर्यां परमहंसधर्मं चचार । ऋषयः यद्रूपं पारमहंस्यं परमहंसप्राप्यम् आमनन्ति । यश्च स्वस्थः स्वाधारः प्रशान्तकरणः प्रकृष्ट-सुखात्मकदेहेन्द्रियः । अत एव परिमुक्तसङ्गः बाह्यसुखानपेक्षः । विधिनिषेधविमुक्तस्य योगचर्याचरणं किमर्थमित्याशङ्का वा इत्यनेन निरस्ता । लोकसंग्रहार्थत्वेन तदाचरणप्रसिद्धेरिति । स्वस्थ इत्यादि-विशेषणबाहुल्याच्च प्राप्यप्रयोजनान्तरं नास्ति ॥ १० ॥
प्रकाशिका
ऋषभावतारमाह ॥ नाभेरिति ॥ अत्र यत्पारमहंस्यं पदमित्येतत्प्रत्ययार्थं दर्शयन्व्याचष्टे ॥ यद्रूपमिति ॥ यस्य रूपमित्यर्थः । परमहंसप्राप्यं परमहंसधर्मं ज्ञातुमिति शेषः । तथा च मूले यदित्यव्ययं षष्ठ्यर्थे । पदमित्यनूद्य रूपमिति व्याख्यातमिति ज्ञेयम् ॥ ततश्चायं श्लोकार्थः ॥ असौ नारायणः । नाभेः राज्ञः सकाशात् सुदेविसुनूर्ऋषभ आसेत्यन्वयः । नाभिपत्न्या मेरुदेव्याः सुदेवीति नामान्तरम् । तत्कर्माह ॥ यो वा इति ॥ सर्वेषां हृदि समं स्वात्मानं पश्यतीति समदृक् । योगचर्यां परमहंसधर्मं चचार । लोकशिक्षार्थमिति शेषः । यद्यस्य पदं रूपं पारमहंस्यं परमहंसधर्मज्ञानाय परमहंसैः प्राप्यमामनन्तीत्यर्थः । यश्च स्वस्थः स्वस्मिन्नेव स्थितः प्रशान्तकरणः प्रकृष्टसुखात्मकेन्द्रियो ऽत एव परिमुक्तसङ्गो बाह्यसुखापेक्षारहितः स ऋषभ इति यच्छब्दान्वयः
॥ १० ॥
सत्रे ममास भगवान्हयशीर्ष एषः
साक्षात्सयज्ञपुरुषस्तपनीयवर्णः ।
छन्दोमयो मखमयोऽखिलदेवतात्मा
वाचो बभूवुरुशतीः श्वसतोऽस्य नस्तः ॥ ११ ॥
तात्पर्यम्
‘छन्दांसि च मखाश्चैव देवा लोकाश्च सर्वशः । सर्वे विष्णौ स्थिता यस्मादतः सर्वमयो ह्यसावि’ति महासंहितायाम् ॥ ११ ॥
पदरत्नावली
साक्षाद् एष यज्ञपुरुषः मम सत्रे यज्ञे नाम्ना हयशीर्ष आसेत्यन्वयः । तिर्यग्योनित्वेऽप्यैश्वर्यादिगुणसामग्रीमानित्याह- भगवानिति ॥ तपनीयं रूप्यहेम्नोरित्यभिधानान् मूलावताररूपापेक्षया उभयवर्णत्वं युक्तम् । अनेन साक्षान्नारायण एवेति निरणायि । हिरण्यश्मश्रु-रित्यादिश्रुतेः । इतोऽप्ययं नारायण एवेत्याह- छन्दोमय इति ॥ ‘छन्दांसि च मखाश्चैव देवा लोकाश्च सर्वशः’ इत्यादिना मयटो विकारार्थत्वं प्रत्युक्तम् ॥ ११ ॥
प्रकाशिका
हयग्रीवावतारं तत्कर्म चाह ॥ सत्रे इति ॥ अत्र छन्दोमय इत्यादिना वेदादि- तादात्म्यं प्रतीयतेऽतस्तदभिप्रायं प्रमाणेनैव दर्शयति ॥ छन्दांसि चेति ॥ अत एवेति सम्बन्धः । सर्वमयश् छन्दादिसर्वमय इत्युच्यत इत्यर्थः । हिशब्दस्तत्प्रमाणप्रसिद्धिद्योतकः ॥ ततश्चायं श्लोकार्थः ॥ सः वेदादिप्रसिद्ध एष यज्ञपुरुषो यज्ञभोक्ता पुरुषः सत्रे आसेत्यस्योपपादकमेतत् । भगवान्नारायणः साक्षात्स्वयमेव । मम सत्रेति ॥ मया क्रियमाणे यज्ञे । हयशीर्षो हयग्रीवनामाऽऽस । तपनीयं सुवर्णं तद्वद्वर्णो यस्य स तपनीयवर्णः । छन्दोमय इत्यादि छन्दाद्याधारो ऽखिलपदमखिललोकपरम् । तथा चाखिललोकदेवताधार इत्यर्थः । वेदानां तद्विधेयानां यज्ञानां तदिज्यानां देवतानां तत्प्राप्यानां लोकानां च सत्तादिप्रद इति भावः । अस्य हयग्रीवस्य श्वसतः श्वासं कुर्वतो नस्तो नासापुटादुशती-रुशत्योऽपौरुषेयत्वेन शुद्धा वाचो वेदादिलक्षणा बभूवुर् निर्गता इति ॥ ११ ॥
मत्स्यो युगान्तसमये मनुनोपलब्धः
क्षोणीमयो निखिलजीवनिकायकेतः ।
विस्रंसितानुरुभये सलिले मुखान्मे
आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
तात्पर्यम्
क्षोणीमयनौकाश्रयत्वात्क्षोणीमयः ॥ १२ ॥
पदरत्नावली
मे मुखाद् विस्रंसितान् निर्गतान् वेदमार्गान् हयग्रीवदैत्येनापहृतान् दृष्ट्वा मत्स्योऽवतीर्य तं हत्वा तान् समादाय स्थितः पुनर्युगान्तसमये मन्वन्तरप्रलये सप्तर्षिभिः सह स्तुवता वैवस्वतमनुना उपलब्धः दृष्टः क्षोणीमयः क्षोणीमयनावाश्रयत्वाद् अत एव निखिलजीवनिकायानां केत आश्रयः । तत्र उरुभये महाभयङ्करे सलिले प्रयसमुद्रजले विजहारेत्यन्वयः ॥ १२ ॥
प्रकाशिका
मत्स्यावतारं तत्कर्म चाह ॥ मत्स्य इति ॥ मत्स्यावतारद्वयकर्मात्र कथ्यते । स भगवान्मे मुखाद्विस्रंसितान्निर्गतान्वेदमार्गान्वेदप्रभेदान् । सर्वानपि वेदानिति यावत् । उरु भयं यस्मात्तस्मिन्सलिले वेदापहर्त्रा हयग्रीवनामकेन दैत्येन आच्छादितानिति शेषः । आदाय तं हत्वा पुनः समादाय तत्र सलिले विजहारेत्याद्यमत्स्यावतारकृत्यम् । युगान्तसमये चाक्षुषमन्वन्तरसमाप्तिसमये मनुना भाविमनुवैवस्वतेन सत्यव्रतनाम्ना राज्ञा मत्स्य उपलब्धो दृष्टः । क्षोणीमयत्वं तस्मिन् घटयति ॥ क्षोणीमयेति ॥ तथा च क्षोणीशब्देन भूम्यात्मिका नौरेवात्र विवक्षितेति भावः । तदाश्रयत्वात् क्षोणीमय इत्युच्यत इति शेषः । अत एव निखिलजीवनिकायानां केत आश्रय उरुभये सलिले मन्वंतरप्रलयजले विजहारेति द्वितीयमत्स्यावतारकर्मेति ज्ञेयम् । हेत्यत्र प्रमाणप्रसिद्धिं दर्शयति ॥ १२ ॥
क्षीरोदधावमरदानवयूथपानां
उन्मथ्नताममृतलब्धय आदिदेवः ।
पृष्टेन कच्छपवपुर्विदधार गोत्रं
निद्रेक्षणोऽद्रिपरिवर्तकषाणकण्डुः ॥ १३ ॥
पदरत्नावली
अमृतलब्धये अमरदानवयूथपानां क्षीरसमुद्रमुन्मथ्नतां सताम् अतिभारेण क्षीरोदधौ मज्जन्तं गोत्रं पर्वतम् । स आदिदेवः कच्छपवपुर् भूत्वा पृष्ठेन विदधारेत्यन्वयः । ‘उपर्यधश्चात्मनि नेत्रगोत्रयोः’ इत्यर्थद्योतको वीत्युपसर्गः । तज्जातिस्वभावमाह- निद्रेक्षण इति ॥ निद्रयेषन्मीलितनेत्रः । निद्राहेतुमाह- अद्रीति ॥ मन्दराद्रेः परिवर्तः परिभ्रमणं तेन कषाणं विलेखनं तेन जाता कण्डुः कण्डूयनं यस्य स तथा ॥ १३ ॥
प्रकाशिका
कूर्मावतारं तत्कर्म चाह ॥ क्षीरोदधाविति ॥ आदिदेवो नारायणोऽमृत-लब्धयेऽमरदानवयूथपानां क्षीरोदधिमुन्मथ्नतां सतां क्षीराब्धौ मज्जन्तं गोत्रं मन्दरपर्वतम् । कच्छपवपुः कूर्माकारशरीरो भूत्वा पृष्टेन विदधार । यथाऽद्रिर्न पुनर्मज्जति तथा दधारेति विशब्दार्थः । तज्जाति-स्वभावमाह ॥ निद्रेक्षण इति ॥ निद्रयेषन्मीलितनेत्रः । निद्राहेतुमाह ॥ अद्रीति ॥ मन्दराद्रेः परिवर्तः पृष्टे परिभ्रमणं स एव कषः कषाणं घर्षणं तेनाणति गच्छतीत्यणः कषाणा कण्डुर्यस्य स तथोक्तः ॥१३॥
त्रैविष्टपोरुभयहारिनृसिंहरूपं
कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् ।
दैत्येन्द्रमाशुगदयाऽभिपतन्तमारात्
ऊरौ निपात्य विददार नखैः स्फुरन्तम् ॥ १४ ॥
पदरत्नावली
त्रैविष्टपानां देवानां दैत्याद्युरुभयं तद्धारि तद्धननशीलम् । भ्रमन्त्या स्फुरन्त्या भ्रुकुट्या दंष्ट्राभ्याञ्च करालं भयङ्करं वक्त्रं यस्य तत्तथा । नृसिंहयोर् नरस्य सिंहस्य च रूपमिव रूपं, कृत्वा स हरिर् आराद् दूराद् गदया अभिपतन्तं स्फुरन्तं दैत्येन्द्रं हिरण्यकशिपुं वेगेन ऊरौ निपात्य नखैर् विददारेत्यन्वयः । दृ विदारण इति धातोः ॥ १४ ॥
प्रकाशिका
नृसिंहावतारं तत्कर्म चाह ॥ त्रैविष्टपेति ॥ आदिदेवः । त्रैविष्टपानां देवानां यदुरुभयं तद्धरति संहरतीति त्रैविष्टपोरुभयहारिनृसिंहरूपं कृत्वा प्रकटीकृत्य । कथंभूतम् । भ्रमन्तीभिर्भृ-कुटीभिर्दंष्ट्राभ्यां च करालं भयङ्करं वक्त्रं यस्य स तथा । दैत्येन्द्रं हिरण्यकशिपुम् । आरात्समीपे स्फुरन्तम् ॥ १४ ॥
अन्तः सरस्युरुबलेन पदे गृहीतो ग्राहेण यूथपतिरम्बुजहस्त आर्तः ।
आहेदमादिपुरुषाखिललोकनाथतीर्थश्रवः श्रवणमङ्गलनामधेय ॥ १५ ॥
तात्पर्यम्
‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः । गजेन्द्रं मोचयामास ससर्ज च जगद्विभुरि’ति मात्स्ये ॥ १५ ॥
पदरत्नावली
यदा यूथपतिर् गजेन्द्रः सरसि अन्तः ग्राहेण पदे गृहीत आर्तः सन् अम्बुज-हस्तः हे आदिपुरुष अखिललोकनाथ, तीर्थश्रवः पावनकीर्ते, श्रवणमात्रेण मङ्गलप्रदनारायणाद्यभिधान त्वम् अस्मान्रक्ष इतीदमाह ॥ १५ ॥
प्रकाशिका
हर्यवतारं तत्कर्म चाह ॥ अन्तःसरसीति ॥ अत्र हरिरिति मूलरूपी हरिः प्रतीयते । तदसङ्गतम् । अवतारगणनप्रस्तावात् । अतोऽत्र हरिशब्दवाच्यं गजेन्द्रमोचकमवतारं प्रमाणेनैव दर्शयति ॥ हरिरिति ॥ मनुर्मनुत्वेनावतीर्णो हरिर्हरिर्नामा वै प्रसिद्धः ‘चतुर्थ उत्तमभ्राता मनुर्नाम्ना च तापसः । हरिरित्याहुतो येन गजेन्द्रो मोचितो ग्रहात्’ इति वक्ष्माणत्वात् । ननु तर्हि तस्य तापसनाम कथमित्यत उक्तं तपसि क्रियमाणे स एव तापसनामा जातो बभूवेति । तथा च हरिनामकस्य चतुर्थमनोस्तापस इति तपःकरणनिमित्तं नामान्तरमिति भावः । तत्कर्माह ॥ गजेन्द्रमिति ॥ ततश्चायं श्लोकार्थः ॥ यदा यूथपतिर्गजेन्द्रः सरस्यन्तर्ग्राहेण नक्रेण पदे गृहीत आर्तः सन्नम्बुजहस्तः शुण्डयाऽम्बुजं गृहीत्वा । तीर्थं पवित्रं श्रवः कीर्तिर्यस्य स तीर्थश्रवास्तस्य सम्बुद्धिः । हे तीर्थश्रवः श्रवणमात्रेण मङ्गलप्रदं नारायणादि नामधेयं यस्य । इतीदमाह ॥ १५ ॥
स्मृत्वा हरिस्तमरणार्थिनमप्रमेयः
चक्रायुधः पतगराजभुजाधिरूढः ।
चक्रेण नक्रवदनं विनिपाट्य तस्मात्
हस्ते प्रगृह्य भगवान्कृपयोज्जहार ॥ १६ ॥
पदरत्नावली
तदा तापसनामा भगवान् अरणार्थिनं शरणार्थिनं तं स्मृत्वा तत्रागत्य कृपया तं हस्ते प्रगृह्य उज्जहार । भगवच्छब्दवाच्यत्वम् ऋष्यादीनामप्यस्तीति ततो व्यावर्तयति- अप्रमेय इत्यादिना ॥ अप्रमेय इयत्तारहितः । एतदाकाशस्याप्यस्तीत्यतः- चक्रायुध इति ॥ नन्वनेन योद्धाप्युच्यत इति तत्राह- पतगेति ॥ पतगराजो गरुडस् तस्य भुजम् अधिरूढः । भुजस्कन्धयोरति-सामीप्यादेवमुक्तम् । किङ्कृत्वा- चक्रेण सुदर्शनेन नक्रस्य ग्राहस्य वदनं विनिपाट्य छित्वा । ‘हरिस्तापसनामाऽसौ जातस्तपसि वै मनुः’ इत्यादेः कोऽयमवतारो नाम इति शङ्का निरस्ता ॥ १६ ॥
प्रकाशिका
तदा हरिर्हरिनामा तापसो मनुस्तमरणार्थिनं शरणार्थिनं स्मृत्वा तदनुग्रहोन्मुखो भूत्वा । नित्यज्ञानस्य भगवतः संस्कारजन्यज्ञानरूपस्मरणासम्भवात् । कृतं स्मरेतीशावास्यवाक्य- व्याख्यावसरे भगवत्पादैरेवमेव स्मरणशब्दस्य व्याख्यातत्वाच्चोक्तं व्याख्यानं युक्तमिति ध्येयम् । नन्वल्पेनैव स्तोत्रेण कथमनुग्रहोन्मुखो जात इत्यत उक्तम् ॥ अप्रमेय इति ॥ साकल्येन केनापि प्रमापितुमेवाशक्यो दूरे स्तोतुमिति भावः । भुजपदेन स्कन्धो लक्ष्यः । विनिपाट्य छित्वा तस्माद्ग्रहाद्धस्ते शुण्डायाम् । उज्जहारोद्धृतवानिति ॥ १६ ॥
ज्यायान्गुणैरवरजोऽप्यदितेः सुतानां
लोकान्विचक्रम इमान्यदथोऽधियज्ञः ।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन
याञ्चामृते पथि चरन्प्रभुभिर्न चाल्यः ॥ १७ ॥
पदरत्नावली
वामनत्रिविक्रमावतारौ तत्कर्म चाह- ज्यायानित्यादिश्लोकद्वयेन ॥ अत्र यत्तच्छब्दावध्याहार्यौ । तथा हि- यो ऽधियज्ञः भगवान् गुणैर् ज्यायानपि अदितेः सुतानाम् अवरजोऽ-भूत् तेन भगवता दैत्यानां गर्वं वामयति उद्गारयति इति वामनस् तेन वामनरूपेण त्रिपदच्छलेन क्ष्मां जगृहे इति यद् अथो तस्मात् स एव वामन इमान् त्रीन् लोकान् त्रिभिः पदैर् विचक्रमे । तस्मात् त्रिविक्रम इति चाभूदिति वाक्यशेष इत्यर्थः । किमर्थमेवं हरिणा कृतम् अत्राह- याञ्चामिति ॥ मार्गवर्ती पुमान् प्रभुभिरप्युपायेन विना न चाल्य इति न्यायदर्शनार्थमेवं कृतमिति भावः । यद्वा अधियज्ञः क्ष्मायाम् उर्व्यां वामनेन ह्रस्वतरेण रूपेण जगृहे त्रिलोकीमिति शेषः । कथं ? त्रिपदच्छलेन । इमान् त्रीन् लोकान् विचक्रम इति यस्मात् तस्माद् अदितेः सुतानां जन्मना अवरजोऽपि गुणैर् ज्यायान् । सममन्यत ॥ १७ ॥
प्रकाशिका
वामनावतारं तत्कर्म चाह द्वाभ्याम् ॥ ज्यायानिति ॥ अधियज्ञो यजमान-ऋत्विगादिसर्वदेहनियामको हरिः । अधियज्ञोऽहमेवात्र देह इति । देहस्था विष्णुरूपाणि अधियज्ञ इतीरित इति वचनात् । तथा चाधिगतो यज्ञमिति प्रादिसमासो वाऽधिष्ठितो यज्ञोऽनेनेति बहुव्रीहिर्वा समासो नाव्ययीभाव इति ज्ञातव्यम् । बलेर्भूदाने हेतुगर्भविशेषणमिदम् । गुणे ज्यायानपि अदितेः सुतानामिन्द्रादिदेवतानामवरजः कनीयानभूत् । गुणैर्ज्यायस्त्वमुपपादयति यद्यस्मादिमांल्लो-कान्विचक्रमे पादन्यासैराक्रान्तवान् अथो तस्माद्गुणैर्ज्यायानित्यन्वयः । ननु लोकान्कुतो विचक्रम इत्यतो हेतुमाह ॥ क्ष्मामिति ॥ यद्यस्माद्बलेः सकाशात्क्ष्मां भूमिं वामनेन ह्रस्वेन रूपेण त्रिपदच्छलेन मह्यं मत्पादत्रय-परिमितां भूमिं देहीति त्रिपादभूमियाञ्चाव्याजेन जग्रहे गृहीतवान् । अथो तस्माद्विचक्रम इत्यन्वयः । नन्वीश्वरः स्वयं कथं दुर्बल इव याचितवानित्यत आह । याञ्चां विना पथि धर्ममार्गे विचरन्वर्तमानो न चाल्य ऐश्वर्यान्न भ्रंशनीय इति यदथो तस्मात्त्रिपदच्छलेन जगृह इत्यन्वयः ॥ १७ ॥
नार्थो बलेरयमुरुक्रमपादशौचम्
अम्भः शिवं धृतवतो विबुधाधिपत्यम् ।
यो वै प्रतिश्रुतमृतेऽपि च शीर्षमाणं
आत्मन्यमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥
तात्पर्यम्
‘ऐन्द्रं पदं नान्तरीयं फलं तु हरितोषणम् । जगद्दातुर्बलेर्यस्मादानन्दोद्रिक्तता भवेदि’ति ब्रह्मतर्के । शीर्षाख्यं मानम् ॥ १८ ॥
पदरत्नावली
त्रिपदच्छलेन त्रैलोक्यं दत्तवतो बलेर् दानफलमिन्द्रपदावाप्तिरिति सङ्गिरन्ते । तन्न । किन्तु हरितोषणद्वारा मुक्तौ आनन्दोद्रेकिता एव । ‘ऐन्द्रं पदं नान्तरीयं फलन्तु हरितोषण’-मित्यादेरित्याशयेनाह- नार्थ इति ॥ अङ्ग नारद यः प्रतिश्रुतं पदत्रयम् ऋतेऽपि च आत्मन्यं स्वसम्बन्धि शीर्षमाणं शीर्षाख्यं मानं मनसा मनःपूर्वकं हरये अभिमेने समर्पयामास तस्यास्य उरुक्रम-पादशौचम् अम्भः शिवं शिरसा धृतवतः बलेर् यद्विबुधाधिपत्यलक्षणं फलम् अयम् अर्थो न, साक्षात्फलं न भवति । तन्नान्तरीयकमेवेत्यन्वयः । वा इत्यनेनास्यार्थस्यानन्यथात्वं वक्ति ॥ १८ ॥
प्रकाशिका
ननु तर्हि याञ्चयाऽपि चालनमनुचितमित्याशङ्क्येतोऽप्यधिकं फलं दास्यामी-त्याशयेन याचितवानित्याह ॥ नार्थ इति ॥ अत्र विबुधाधिपत्यं भाविमन्वन्तरे ऐन्द्रं पदम् अर्थः फलं न भवतीति ऐन्द्रपदस्य सर्वथा फलत्वं निषिध्यते इति भाति, अतः प्रमाणेनैव तदभिप्रायं दर्शयति । ऐन्द्रं पदमिति ॥ नान्तरीयमानुषङ्गिकम् । फलं तु मुख्यं फलम् । ननु हरितोषणस्य कथं मुख्यफलत्व-मित्यत आह ॥ यस्मादिति ॥ हरितोषणादित्यर्थः । मुक्ताविति शेषः । शीर्षमाणमित्येतदप्रतीत्या व्याख्याति ॥ शीर्षाख्यमिति ॥ मानं मेयम् । कर्मणि ल्युट् । परिमेयमित्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ हे अङ्ग नारद । यः प्रतिश्रुतपदत्रयमृतेऽपि विनाऽपि । आत्मन्यं स्वसम्बन्धि, शीर्षमाणं च शीर्षाख्यं मानं परिमेयं च मनसा मनःपूर्वकं हरये वामनरूपायाभिमेने भक्त्या समर्पितवान् । तस्योरुक्रमो वामनः । तस्य पादशौचं पादप्रक्षालनरूपमत एव शिवमम्भो धृतवतो बलेर्यद्विबुधाधिपत्यं भाविमन्वन्तरे ऐन्द्रपदं हरिणा दत्तम् । अयमर्थो न मुख्यं फलम्, किंत्वानुषङ्गिकं फलम् । मुख्यफलं मुक्तावानन्दाभिवृद्धिकरं हरितोषणमेव । वै प्रमाणप्रसिद्धमेतत् । तथा च वामनस्य याञ्चया बलेर्भूप्रतिग्रहस्तदनुग्रहायैव न तदैश्वर्यनाशायेत्युक्तं भवति ॥ १८ ॥
तुभ्यञ्च नारदभृशं भगवान्विवृद्धभावेन साधु परितुष्ट उवाच योगम् ।
ज्ञानञ्च भागवतमात्मसुतत्वदीपं यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
तात्पर्यम्
ऐतरेयो हरिः प्राह नारदाय स्वकां तनुम् । यत्प्रापुर्वैष्णवा नान्ये यदृते न सुखं परमि’ति ब्राह्मे ॥ १९ ॥
पदरत्नावली
महिदासनाम्नो हरेरवतारचरितमाह- तुभ्यमिति ॥ विवृद्धभावेन समुद्रिक्तभक्त्या साधुपरितुष्टः नाम्ना महिदासो भगवान् तुभ्यम् अस्मादादिभ्यश्च भगवद्विषयं कर्मयोगं ज्ञानयोगञ्च उवाचेत्यन्वयः । आत्मेत्यनेन भागवतत्वं स्पष्टयति । अत्र प्रमाणमाह- यदिति ॥ यज् ज्ञानं वासुदेवशरणा ब्रह्मादयः । अवैष्णवनिषेधार्थ एवशब्दः । तदुक्तम्- ‘ऐतरेयो हरिः प्राह नारदाय स्वकां तनुम् । यत्प्रापुर्वैष्णवा नान्ये यदृते न सुखं परम् ॥’ इति ॥ १९ ॥
प्रकाशिका
तुभ्यमिति श्लोके नारदाय योगोपदेष्टा कथ्यते । सोऽवतारः क इति न प्रतीय-तेऽतः प्रमाणेनैव श्लोकतात्पर्यं दर्शयति ॥ ऐतरेय इति ॥ महिदास इत्यर्थः । आत्मसुतत्त्वदीपमित्यस्य तात्पर्यम्- स्वकां तनुमिति ॥ यद्वासुदेवशरणा एव विदुरित्यस्य तात्पर्यम्- यत्प्रापुर्वैष्णवा नान्य इति ॥ साधु परितुष्ट इत्यस्य तात्पर्यम्- यदृत इति ॥ ततश्चायं मूलार्थः ॥ महिदासावतारं तत्कर्म चाह ॥ तुभ्यमिति ॥ चशब्दादस्मदादिभ्योऽपीति । साधु परितुष्टः परमसुखजनकस्वात्मोप- देशानु-कूलप्रीतियुक्तः । भगवान्महिदासो योगं कर्मयोगम् । भागवतमित्येतदेव स्पष्टयति ॥ आत्मेति ॥ यज्ज्ञानादिकं वासुदेवशरणा वैष्णवा एव विदुः प्रापुरिति ॥ १९ ॥
चक्रञ्च दिक्ष्वविहतं दशसु स्वतेजो
मन्वन्तरेषु मनुवंशधरो बिभर्ति ।
दुष्टेषु राजसु दमं विदधत्स्वकीर्तिं
सत्ये निविष्ट उशतीं प्रथयंश्चरित्रैः ॥ २० ॥
तात्पर्यम्
‘मन्वन्तरेषु भगवान् चक्रवर्तिषु संस्थितः । चतुर्भुजो जुगोपैतद्दुष्टराजन्य-नाशकः । राजराजेश्वरेत्याहुर्मुनयश्चक्रवर्तिनाम् । वीर्यदं परमात्मानं शङ्खचक्रगदाधरमि’ति सत्य-संहितायाम् ॥ २० ॥
पदरत्नावली
राजराजेश्वरावतारं तच्चरितञ्चाह- चक्रञ्चेति ॥ राजराजेश्वर इति नाम्नाऽवतीर्णो हरिः स्वायम्भुवादिमनुवंशधरः सन् दुष्टेषु राजसु दमं विदधत् सत्ये धर्मे सत्यसन्धाने वा निविष्ट उशतीं कमनीयां स्वकीर्तिं चरित्रैः प्रथयन् प्रख्यापयन् मन्वन्तरेषु प्रियव्रतादिचक्रवर्तिष्वप्यास्थितः दशसु दिक्षु अविहतम् अप्रतिहतं स्वतेजः स्वरूपभूतप्रभावं चक्रम् आज्ञालक्षणं बिभर्तीत्यन्वयः । मन्वन्तरेषु भगवांश्चक्रवर्तिषु संस्थितः’ इत्यादिकमत्र मानम् ॥ २० ॥
प्रकाशिका
चक्रं चेति श्लोकोक्तोऽवतारः क इति न प्रतीयते । मनुवंशधर इत्युक्त्या मनुवंशोत्पन्नराजाभेदश्च प्रतीयतेऽतः प्रमाणेनैव श्लोकं व्याख्याति ॥ मन्वन्तरेष्विति ॥ चक्रवर्तिषु मनुवंशोत्पन्नेषु चक्रवर्तित्वादिप्रदतया स्थितः । अनेन चक्रेत्यादेरर्थ उक्त इति ज्ञातव्यम् । दुष्टेष्वि-त्यादेस्तात्पर्यम्- दुष्टराजन्येति ॥ तन्नामाह ॥ राजराजेति ॥ गदेत्यनन्तरमभयमिति शेषः । अत एवाह ॥ जुगोपेति ॥ अनेन चक्रं चेत्यस्यार्थान्तरमुक्तमिति ज्ञातव्यम् ॥ ततश्चायं श्लोकार्थः ॥ राजराजेश्वराख्यमवतारं तत्कर्म चाह ॥ चक्रमिति ॥ स्वस्य तेजो यस्मिंस्तत्तेजश्चक्रं सुदर्शनम् । चशब्दाच्छङ्खगदाभयानि च बिभर्ति । अनेन चतुर्भुज इति सूचयति । कथंभूतं चक्रम् । दशसु दिक्ष्वविहतं सर्वत्राप्रतिहतमित्यर्थः । मन्वन्तरेषु चतुर्दशसु । मनूनां स्वायम्भुवादीनां वंशा येषां ते मनुवंशा मनुवंशोत्पन्नाश्चक्रवर्तिनस्तेषु स्थित्वा वीर्यादिप्रदानेन तान्धरतीति धरः । दशसु दिक्ष्वविहतं स्वतेजः स्वामर्थ्ययुक्तं चक्रमाज्ञारूपं च बिभर्ति । पुनः कथंभूतमुभयविधं चक्रम् । दुष्टेषु राजसु दमं दण्डं विदधत् । किं कुर्वन् । सत्ये सत्यवचने । उपलक्षणमेतत् । सर्वेषु सद्धर्मेषु निविष्टोऽभिनिविष्टः । उशतीं निर्मलां स्वकीर्तिं चरित्रैः कर्मभिः प्रथयन्विस्तारयन् बिभर्तीति ॥ २० ॥
धन्वन्तरिश्च भगवान्स्वयमास देवो
नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवाप चाद्धा
आयुश्च वेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥
पदरत्नावली
देवो भगवान् स्वयमेव विशेषावेशमन्तरेण धन्वन्तरिश्च आस । अवतीर्णश्च पुरुरुजां बहुरोगाणां, रुजः रोगात्, नाम्ना उच्चारितेन हन्ति । स एव अमृतायुर् नित्यमुक्तः सन् अद्धा यज्ञे भागञ्चावाप । आयुर्वेदञ्च वैद्यशास्त्रञ्चानुशास्ति । कृत्वा लोके प्रवर्तयति ॥ २१ ॥
प्रकाशिका
धन्वन्तर्यवतारं तत्कर्म चाह ॥ धन्वन्तरिश्चेति ॥ देवो भगवान्नारायणः स्वयं स्वयमेव विशेषावेशमन्तरेणैव धन्वन्तरिश्चेत्यासावतीर्णः । अवतीर्य पुरुरुजां बहुरोगाणां नृणां रुजो रोगान्नाम्ना स्वनाममन्त्रेण हन्ति । न केवलमैहिकं रोगनाशं करोति किं त्वमृतायुश्च । अमृतं मरण-रहितमायुर्मोक्षो यस्मात् । अज्ञानादिनाशनद्वारा मोक्षप्रदश्चेत्यर्थः । अद्धा यज्ञभागं चावाप । लोके आयुश्च वेदमायुर्विषयं वेदं वैद्यशास्त्रं चानुशास्ति प्रवर्तयति ॥ २१ ॥
क्षत्रं क्षयाय विधिनोपहृतं महात्मा ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।
उद्धंत्यसाववनिकण्टकमुग्रवीर्यस्त्रिःसप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥
पदरत्नावली
भार्गवावतारं तत्कर्म च सङ्क्षिप्याह- क्षत्रमिति ॥ उं रुद्रं ग्रसतीति उग्रं वीर्यं यस्य स उग्रवीर्यः । आत्मभ्यः पुरुषेभ्यः महान् पुरुषोत्तमो ऽसौ । उर्वी धारा निशिताग्रं यस्य स उरुधारः स चासौ परश्वधः परशुस् तेन । अवनिकण्टकम् अत एव नरकार्तिलिप्सु नरकदुःखं लब्धुकामम् उज्झितपथं त्यक्तसन्मार्गं ब्रह्मध्रुक् ब्राह्मणद्रोहि अत एव विधिना दैवेन क्षयाय उपहृतं समर्पितं क्षत्रं क्षत्रियकुलम् उद्धन्ति उन्मूलयतीत्यन्वयः । त्रिःसप्तकृत्व एकविंशतिवारम् ॥ २२ ॥
प्रकाशिका
परशुरामावतारं तत्कर्म चाह ॥ क्षत्रमिति ॥ उग्रं तीक्ष्णं वीर्यं यस्य स उग्रवीर्यो महात्मा पूज्यस्वरूपो भार्गवः । उर्वी निशिता धारा यस्य स उरुधारः स चासौ परश्वधः परशुविशेषस् तेन । अवनिकण्टकमत एव नरकार्तिलिप्सु नरकदुःखप्राप्तिसंभावनाविषयमुज्झितपथं त्यक्तसन्मार्गं ब्रह्मध्रुक् ब्राह्मणद्रोहि । अत एव विधिना दैवेन क्षयाय मृत्यवे उपहृतं समर्पितं क्षत्रं क्षत्रियकुलं त्रिसप्तकृत्व एकविंशतिवारमुद्धन्त्युन्मूलयति ॥ २२ ॥
कृत्स्नप्रसादसुमुखः कलया कलेशः
इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।
तिष्ठन्वनं सदयितानुज आविवेश
यस्मिन्विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
यस्मा अदादुदधिरूढभयाङ्गवेपो मार्गं सपद्यरिपुरं हरवद्दिधक्षोः ।
दूरेसुहृन्मथितरोषसुशोषदृष्ट्या तातप्यमानमकरोरगनक्रचक्रः ॥ २४ ॥
वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाह-
दन्तैर्विलम्बितककुब्जयरूढहासः ।
सद्योऽसुभिः सह विनेष्यति दारहर्तुः
विस्फूर्जितैर्धनुष उच्चरितैः ससैन्यः ॥ २५ ॥
तात्पर्यम्
प्राणादिकलेशः । दूरस्था सुहृद्यस्य भगवतः स दूरेसुहृत् । सुशोषोऽग्निः। ‘अग्निः सुशोषः कक्षघ्नस्तिमिरारिर्हिरण्यद’ इति ह्यभिधाने । विनेष्यति विनाशम् एष्यति । दारहर्तुर् भगवतः ॥ ‘धनुर्विस्फूर्जितैर्नष्टो रावणः पूर्वमेव तु । पुनः शरै राममुक्तैः सानुबन्धो विनेश्यती’ति स्कान्दे ॥ २३,२४,२५ ॥
पदरत्नावली
रामावतारं तद्विक्रमञ्च श्लोकत्रयेणाह- कृत्स्नप्रसादेति ॥ दशकन्धरो रावणः यस्मिन् विरुध्य आर्तिं मरणलक्षणाम् आर्च्छत् प्रापत् सः कलेशः ‘प्राणः श्रद्धा खं वायुः’ इत्यादि श्रुत्युक्तानां कलानां स्वकार्यशक्तिप्रदः प्रभुः, कृत्स्नः पूर्णः प्रसाद आनन्दो यस्य स तथा । कार्येण कारणोपलक्षणम्, सु सुन्दरं मुखं यस्य सस् तथा । कृत्स्नप्रसादश्चायं सुमुखश्चेति समासः । इक्ष्वाकुवंशे कलया स्वरूपांशेनावतीर्य गुरोर् दशरथस्य निदेशे नियोगे तिष्ठन् सदयितानुजः सीतालक्ष्मणाभ्यां सहितः रामः वनमाविवेशेत्यन्वयः । इक्ष्वाकुवंश अवतीर्येति सन्धिकार्यस्यानाकाङ्क्षितत्वात् कस्यचिद् विशेषस्य सम्भवात् पञ्चमवेदत्वाच्च ।
दूरे स्थिता सुहृत् सीता यस्य सस् तथा तस्य रामस्य मथित उज्ज्वालितः रोष एव सुशोषो ऽग्निस् तेन युक्तया दृष्ट्या । ‘अग्निः सुशोषः कक्षघ्नस् तिमिरारिर्हिरण्यद’ इति । मकराश्च उरगाश्च नक्राश्च मकरोरगनक्राः । तातप्यमानानां पुनः पुनः पच्यमानानां मकरोरगनक्राणां चक्राणि यस्मिन् स तथा । ऊढं भयं येन स तथा । ओ वेपः कम्पो यस्य स तथा । ऊढभयश्च अङ्गवेपश्च । एवंविध उदधिः, त्रिपुरं हरवत्, अरिपुरं लङ्कां दिधक्षोर् दग्धुकामाय यस्मै रामाय सपदि मार्गम् अदादित्यन्वयः।
वक्षःस्थलस्पर्शेन रुग्णा भग्ना महेन्द्रवाहस्य ऐरावतस्य दन्ता वक्षःस्थलस्पर्शरुग्णमहेन्द्रवाहदन्तास् तैः । विलम्बितः विलम्बं प्राप्तः ककुभां जयः विलम्बितककुब्जयः । तेन रूढ उत्पन्नः हासो ऽट्टहासो यस्य स तथा । ससैन्यः सैन्यैन सहितः रावणः । दारहर्तुर् दारान् सीताम् आहर्तुकामस्य तस्य रामस्य । धनुष उच्चरितैर् निर्गतैर् विस्फूर्जितैर् असुभिः सह विनेष्यति । पूर्वं विनयं मदविनाशमेष्यति पुनः सद्यस् तत्क्षण एव राममुक्तैः शरैर् विनेष्यति विनाशं प्राप्नोतीत्यन्वयः । ‘धनुविस्फूर्जितैर्नष्टो रावणः पूर्वमेव तु । पुनः शरै राममुक्तैः सानुबन्धो विनेष्यति ॥’ इत्यनेन धनुर्विस्फूर्जितैर्विनाशः कथमभूदितीयमाशङ्का निरस्तेति । ससैन्य इत्यस्य विवरणं सानुबन्ध इति ॥ २३,२४,२५ ॥
प्रकाशिका
रामावतारं तद्विक्रमं च श्लोकत्रयेणाह ॥ कृत्स्नप्रसादेति ॥ अत्र कलेश इत्येतच्चन्द्र इत्यन्यथाप्रतीतेर्व्याचष्टे ॥ प्राणादीति ॥ आदिपदेन श्रद्धाकाशादेर्ग्रहणम् । तथा च स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुमित्यादि षट्प्रश्नोपनिषदुक्तप्राणादिषोडशकलातदभिमानदेवतेश इति व्याख्यातं भवति । दूरेसुहृदित्येतदन्यथाप्रतीत्या व्याख्याति ॥ दूरस्था इति ॥ सुहृद्भार्या यस्येत्यन्यपदार्थं दर्शयति- भगवतो रामस्येति ॥ तथा चालुक् समासोऽयमिति भावः । सुशोषपदमप्रतीत्या सप्रमाणकं व्याचष्टे ॥ सुशोषोऽग्निरिति ॥ विनेष्यतीत्यनूद्य प्रकृतसङ्गतत्वेन व्याचष्टे ॥ विनेष्यतीति ॥ तथा च विनेत्यनन्तरं शमिति पूरणीयमिति केचित् । तत्र शमितिपूरणेऽपि इष्यति इत्यस्य प्राप्नोतीत्यर्थकत्वं कथमिति न बुध्यामहे । वस्तुतस्तु विनष्यति इति वक्तव्ये विनेष्यतीति स्वातन्त्र्यज्ञापनार्थं छान्दसो व्यत्ययः । दारहर्तुरित्येतद्रावणस्येत्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ दारहर्तुरिति ॥ तथा च हर्तृपदम् आहर्तृपरमिति भावः । धनुषो विस्फूर्जितैर्विनेष्यतीति न युक्तम् । रावणस्य ग्रन्थान्तरे रामशरेणैव नष्टत्वस्य कथितत्वादतस्तदभिप्रायं प्रमाणेनैव दर्शयति ॥ धनुर्विस्फूर्जितैरिति ॥ नष्ट इव नष्टो नष्टधैर्य इत्यर्थः । सानुबन्ध इत्यनेनासुभिः सहेत्यादेस्तात्पर्यमुक्तमित्यवधेयम् ॥
ततश्चायं श्लोकत्रयार्थः ॥ दशकन्धरो रावणो यस्मिन्विरुध्यार्तिं मरणरूपामार्च्छत्प्रापत् स कलेशः प्राणश्रद्धादिकलातदभिमानिसत्तादिप्रदः । अनेन रामशरीरं षोडशकलात्मकं नेति सूचयति । ब्रह्मादिदेवेषु कृत्स्नः पूर्णः प्रसादो यस् तेन सुमुखो विकसितवदनः । कलया स्वरूपांशेन । गुरोर्दशरथस्य निदेशे नियोगे तिष्ठन् सदयितानुजः सीतालक्ष्मणाभ्यां सहितो रामो वनमाविवेशेत्यन्वयः ।
यस्मै रामायोदधिर्मार्गं ददौ । सपदि शीघ्रम् । हरवद्धरो यथा त्रिपुरं दिधक्षुस्तद्वदरिपुरं लङ्कां दिधक्षोर्दग्धुमिच्छोः । षष्ठी चतुर्थ्यर्थ्ये । यद्वा पञ्चमीयम् । दिधक्षो रामादूढं प्राप्तं यद्भयं तेनाङ्गवेपः कम्पो यस्येत्युदधिविशेषणम् । अत्र हेतुभूतं विशेषणान्तरमाह ॥ दूर इति ॥ दूरे स्थिता सुहृत्सीता यस्य स दूरेसुहृद्रामस्तस्य मथितो ज्वलितो रोष एव सुशोषोऽग्निस्तेन युक्तया दृष्ट्या । तातप्यमानान्यत्यन्तं तप्यमानानि मकराणामुरगाणां नक्राणां च चक्राणि समूहो यस्मिन्सः । यस्मा इति यच्छब्दस्य तस्य दारहर्तुरित्युत्तरेणान्वयः ।
युद्धे रावणस्य वक्षःस्थलस्य स्पर्शेन सङ्घट्टनेन रुग्णा भग्ना महेन्द्रवाहस्यैरावतस्य दन्तास्तैर्विलंबितो विलम्बं प्राप्तः ककुभां दिशां यो जयस्तेन रूढ उत्पन्नो हासोऽट्टहासो यस्य सः । ससैन्यो रावणस्तस्य दारहर्तुर्दारान्सीतामाहर्तू रामस्य धनुष उच्चरितैर्निर्गतैविस्फूर्जितैर्ध्वनिविशेषैर्विनेष्यति धैर्यविनाशमेष्यति पश्चाद्विस्फूर्जितैः प्रकाशमानैः । शरैरिति शेषः । असुभिः प्राणैः सह विनाशं मृत्युमेष्यतीति
॥ २३,२४,२५ ॥
भूमेः सुरेतरवरूथविमर्दितायाः
क्लेशव्ययाय कलया सितकृष्णकेशः ।
जातः करिष्यति जनानुपलक्ष्यमार्गः
कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥
तात्पर्यम्
‘राम एको ह्यनन्तांशस्तत्र रामाभिधो हरिः । शुक्लकेशात्मकस्तिष्ठन्रमयामास वै जगदि’ति ब्राह्मे । ‘विष्णोर्नान्येन कर्माणि परेषां तन्निबन्धनमि’ति मात्स्ये । ‘सहस्र-धनुषस्तूर्ध्वं द्युशब्देनापि भण्यत’ इति तन्त्रमालायाम् । इतरथा विष्णुर्न चेत् । स्वमहिम-निबन्धनत्वेन न भाव्यम् । दिव्यमिव स्तुत्यमिव । तदपेक्षया । अन्येषां स्तुत्यमेव यत्तस्य तच्च दिव्यमिव । ‘अन्यथाज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तिते’ति तन्त्रमालायाम् ॥ ‘यत्तु सर्वात्मनाऽज्ञानं निशा स परिकीर्तिते’ति कौर्मे । कलपदं च आयतं च । ‘सप्तस्वरसमाहारो मूर्च्छनेति प्रकीर्तिते’ति गान्धर्वे । विद्वेषिणोऽप्युदासीना भक्ता अपि न संशयः । हरेर्हि सदनं यान्ति व्यक्तं भक्तैस्तु गम्यते । आरभ्य तम आमुक्तेः कृष्णस्य सदनं यतः । अव्यक्तहरिलोक-त्वादन्येषामन्यलोकते’ति बृहत्संहितायाम् ॥ ‘रामभीमार्जुनादीनि विष्णोर्नामानि सर्वशः । रमणाभयवर्णाद्याः शब्दवृत्तेर्हि हेतवः । हरिर्हि तत्र तत्रस्थो रमणादीन्करोत्यजः । अतस्तस्यैव नामानि व्याजादन्यगतानि तु । व्यवहारप्रवृत्त्यर्थं दुष्टानां मोहनाय चे’ति स्कान्दे ॥२६-३५॥
पदरत्नावली
कृष्णावतारमनन्यसाध्यं तत्कर्म च सङ्गृह्य कथयति- भूमेरित्यादिश्लोकदशकेन ॥ सः हरिः सितकृष्णकेश इति नामककलया जातः कर्माणि करिष्यतीत्यन्वयः । कर्मणा तत्वज्ञानं कस्मान्नोदेतीत्यत उक्तम्- जनेति ॥ प्राकृताज्ञेयमार्गत्वादित्यर्थः । अवतारप्रयोजनमाह- सुरेतरेति ॥ सुरेतरेषाम् असुराणां वरूथेन समूहेन गुप्तसेनया वा विमर्दितायाः पीडिताया भूमेः क्लेशव्ययायेति । कीदृशानि कर्माणि आत्ममहिमोपनिबन्धनानि स्वमहिमनिमित्तानि पूतनावधादीनि हरेः कर्माणि परकर्मनिबन्धनानि न भवन्ति । अन्येषां कर्माणि तन्महिमनिबन्धनानीति चार्थः । तदुक्तम्- ‘विष्णो-र्नान्येन कर्माणि परेषां तन्निबन्धनम्’ इति । अत्रानन्तांशे रौहिणेयरामे शुक्लकेशात्मकरामाभिधानो हरिस्तिष्ठन् जगद्रञ्जयतीत्येतत् ‘राम एको ह्यनन्तांशस् तत्र रामाभिधो हरिः’ इत्यादिनोक्तम् । अत एवमेव ग्राह्यमिति भावः ॥ २६ ॥
प्रकाशिका
कृष्णावतारं तत्कर्म चाह ॥ भूमेरित्यादि श्लोकदशकेन ॥ अत्र सितकृष्णकेशो जात इत्युक्त्या कृष्णवद्रामस्यापि साक्षादवतारत्वं प्रतीयतेऽतोऽस्य तात्पर्यं प्रमाणेनैव दर्शयति ॥ राम एक इति ॥ एको भार्गवरामभ्यामन्यो रामो बलरामोऽनन्तांशः शेषावतारः । हीति तत्र प्रमाणप्रसिद्धिं दर्शयति । हरे रामाभिधत्वे निरुक्तिं दर्शयति ॥ रमयामासेति ॥ अनेन रमयतीति राम इति निरुक्तिं सूचयति । तथा च शेषावतारे बलरामे शुक्लकेशात्मकस्य रामनाम्नो हरेर्विशेषेण सन्निधानात्तस्यैव कृष्णेन सहगणनं न शेषावतारस्य बलरामस्येति भावः । ननु सर्वेषामपि कर्माणि स्वात्ममहिमोपनिबन्धनान्यतः कथमिदं कृष्णेऽसाधारणमित्यतोऽस्य तात्पर्यं प्रमाणेनैव दर्शयति ॥ विष्णोरिति ॥ तन्निबन्धनं विष्णुनिमित्तकम् । कर्मेति शेषः । तथा चात्ममहिमामात्रोपनिबन्धनानीति मूलं व्याख्येयमिति भावः । दिविस्पृशोरित्यर्जुनयोः स्वर्गलोकस्पर्श इत्युच्यत इति प्रतीयतेऽतोऽत्र विवक्षितं द्युशब्दार्थं प्रमाणेनैवाह ॥ सहस्रधनुष इति ॥ ऊर्ध्वं तु ऊर्ध्वप्रदेशस्तु । न केवलमन्तरिक्षशब्देन किन्तु द्युशब्देनापीत्यर्थः । इतरथेत्यत्र कस्य व्यतिरेक इति न प्रतीयतेऽत आह ॥ इतरथा विष्णुर्न चेदिति ॥ कृष्णो विष्णुर्न चेदित्यर्थः ।
ननु समुद्रपानादिकं कर्मेतरेषामशक्यं विष्णुत्वाभावेऽप्यगस्त्यादीनां दृश्यतेऽतो नेदमप्यसाधारण-मित्याशङ्कापरिहाराय न भाव्यमित्यस्य तात्पर्यमाह ॥ स्वमहिमेति ॥ स्वमहिममात्रनिमित्तत्वेन न भाव्यमित्यर्थः । अगस्त्यादीनां तु तत्कर्म विष्णुमहिमोपनिबन्धनं न स्वात्ममहिममात्रोपनिबन्धनमिति भावः । एतत्प्रमापयितुमेव प्राक् परेषां तन्निबन्धनमिति प्रमाणशेषोदाहरणं कृतम् । दिव्यमिवेत्येतदनूद्य दीव्यतेरनेकार्थत्वादत्र विवक्षितं दिव्यशब्दार्थं प्रदर्शयति ॥ दिव्यमिवेति ॥
ननु कृष्णकृतकर्मजातमखिलैः स्तुत्यमेव । इवशब्देन वस्तुतो न स्तुत्यमिति प्रतीयतेऽतः कथमिदमित्यतोऽस्याभिप्रायमाह ॥ तदपेक्षयेति ॥ कृष्णापेक्षयेत्यर्थः । एतदेव विवृणोति ॥ अन्येषामिति ॥ चशब्दोऽप्यर्थस्तस्येत्यनेन सम्बध्यते । अन्येषां ब्रह्मादीनां वस्तुतः स्तुत्यमेव । यत्कृष्णकर्तृकं कर्मजातं तत्तस्यापि कृष्णस्यापि स्तुत्यमिव न वस्तुतस्तस्य स्तुत्यमित्यर्थः। फलापेक्ष-योत्कर्षप्रतिपादकशब्दप्रयोगविषयत्वं हि स्तुत्यत्वम् । कृष्णकर्तृकं कर्मजातं च मदीयं कर्मानन्यसाध्यं लोकविलक्षणमिति ब्रह्मादिभिरिव कृष्णेनाप्युत्कृष्टतया प्रतिपाद्यत एव । अत उत्कर्ष-प्रतिपादक-शब्दविषयकत्वसाम्यादेव तस्यापि स्तुत्यमिवेत्युक्तं न वस्तुतस्तस्य स्तुत्यम् । ब्रह्मादिभिरिव कृष्णेन फलापेक्षया तादृशशब्दप्रयोगस्याकरणादित्यभिप्राय इति भावः ।
जल्प्यावृतमित्यत्र जल्पिशब्दार्थं प्रमाणेनैव दर्शयति ॥ अन्यथेति ॥ तथा च दुःशास्त्रमेव जल्पि-शब्दवाच्यमिति भावः । निशिशयानमित्यत्र निट्शब्दस्यात्रोपयुक्तमर्थं प्रमाणेनैव दर्शयति ॥ यत्त्विति ॥ सर्वात्मनेति ॥ केनापि प्रकारेणेत्यर्थः । इदं च सम्यग्ज्ञानविरुद्धतयाऽज्ञानशब्दवाच्येऽन्यथाज्ञानेऽति-व्याप्तिवारणाय । तत्राविद्यमानस्य प्रकारस्य भानेनाज्ञान इव सर्वात्मना ज्ञानविरोधित्वाभावादिति ज्ञेयम् । तुशब्दस्तस्यानादित्वादिविशेषद्योतकः । निशाशब्दस्य निट्शब्दपर्यायत्वान्नासङ्गतिः । कलपदायत-मूर्च्छितेनेत्यत्र तत्पुरुषत्वादिप्रतीतिवारणाय कर्मधारयोऽयमित्याशयेनाह ॥ कलपदं चेति ॥ चेत्यनन्तरं तदित्यध्याहार्यम् । आयतं चेत्यनन्तरं मूर्छितं चेत्यपि पूरणीयम् । बहुलग्रहणात्तु विशेषणानामेव समासः। तत्र मूर्छितमित्यस्य प्रकृतोपयुक्तमर्थं प्रमाणेनाह ॥ सप्तस्वरेति ॥ समाहारः सम्मेलनम् । तथा च मूर्छितमित्यस्य सप्तस्वरसमाहारयुक्तमित्यर्थ उक्तो भवतीति ज्ञातव्यम् ।
ननु ये च प्रलम्बखरेत्यादिनोक्तानां सर्वेषां ‘तदीयनिलयं यास्यन्ति’ इति हरिलोकप्राप्तिः फलतयोच्यते । सा च भक्तानामेव युक्ता न द्वेषिणामुदासीनानां वाऽतः कथमेतदित्यतोऽस्याभिप्रायं प्रमाणेनैव दर्शयति ॥ विद्वेषिणोऽपीति ॥ ननु भक्तगम्यस्य वैकुण्ठादेरेव हरिसदनत्वं प्रसिद्धं न विद्वेष्यादिगम्यस्य तम आदेरित्यत उक्तम् ॥ आरभ्येति ॥ अतस्त्रिविधा अपि हरेः सदनं यान्तीति । युक्तमिति शेषः । नन्वेवं भक्तैर्हरिलोको गम्यतेऽभक्तैरन्यो लोक इति ग्रन्थान्तरविरोध इत्यतस्तदभि-प्रायमाह । व्यक्तं भक्तैस्तु गम्यते, अव्यक्तहरिलोकत्वादन्येषामन्यलोकतेति पादत्रयेण । व्यक्तं वैकुण्ठादिगतं भगवद्रूपम् । भक्तैर्गम्यत इत्युच्यत इति शेषः । अव्यक्तेति ॥ अव्यक्त एव हरिर्यत्र तमसि नरके वाऽपि तिष्ठति तद्गतत्वादित्यर्थः । अन्येषां द्वेषिणामुदासीनानां चान्यलोकताऽन्यलोक-गन्तृतावचनम् । उपपद्यत इति शेषः ।
बलपार्थभीमव्याजाव्हयेनेत्यस्य बलो भीमः पार्थ इत्यादयो व्याजाव्हयाः कपटनामानि यस्येति व्याख्याननिरासाय प्रमाणेनैव तात्पर्यमाह ॥ रामेति ॥ तत्रादिपदेन प्रद्युम्नमुचकुन्दग्रहणम् । विष्णो-स्तन्नामत्वे निमित्तानि दर्शयति ॥ रमणेति ॥ अनेन रमतेऽसाविति योगेन रमणकर्तृत्वं रामशब्दप्रवृत्तौ, भीर्भयं मा नास्ति यस्मिन्नसाविति योगेन भयरहितत्वं भीमशब्दप्रवृत्तौ, वर्णो रूपविशेषस्तद्वत्त्वं रूढ्याऽर्जुनशब्दप्रवृत्तौ निमित्तमित्युक्तं भवति । आद्यशब्देन प्रकृष्टद्युतिमत्त्वादिकं प्रद्युम्नादिशब्द-प्रवृत्तिनिमित्तं ग्राह्यम् ।
ननु तर्हि कथं बलादीनां तन्नामवत्त्वप्रसिद्धिरित्यतोऽव्यक्ताधिकरणन्यायेनेत्याशयेनाह ॥ हरिर्हीति ॥ स्वाधीनतया शरीररूपके तत्र तत्र बलभीमादौ स्थितः सन्स्वयं रमणादीन् करोतीति रमणकर्तृत्वाद्युक्त-प्रवृत्तिनिमित्तवान् भवति । हि यस्मादतः परममुख्यया वृत्त्या तस्यैव नामानि व्याजात्तच्छरीररूपकत्व-लक्षणान्निमित्तादन्यगतान्यन्यत्र प्रसिद्धानि भगवतैव कृतानीति शेषः । करणे प्रयोजनद्वयमाह ॥ व्यवहारप्रवृत्त्यर्थमिति ॥ तथा च बलपार्थभीमेषु व्याजेनोक्तनिमित्तेन प्रवर्तिता आव्हया यस्येति मूलं व्याख्येमिति भावः । आदिशब्देन मूले बलादिशब्दाः प्रद्युम्नाद्युपलक्षका इति सूचयति ॥
तथा च श्लोकदशकार्थः ॥ सुरेतरेऽसुरांशभूता राजानस्तेषां वरूथैः सैन्यैर्विमर्दिताया भारेण पीडितायाः क्लेशव्ययाय दुःखनाशाय । सितकृष्णौ केशौ यस्य स भगवान् कलया शुक्लकेशरूपांशेन शेषांशे रामे जात आविष्टः कृष्णकेशरूपांशेन साक्षादेव जातः प्रादुर्भूतः सन् । अत्र रामकृष्णयोः शुक्लकृष्णकेशरूपांशत्वकथनं भूभारहरणं भगवतोऽतितुच्छं कर्म यत्तत्केशाभ्यामेव कृतमिति ज्ञापनाय रामकृष्णयोः शुक्लकृष्णरूपोपपादनाय चेति ज्ञातव्यम् । कथंभूतः कृष्णः । परमेश्वरतया जनैरनुपलक्ष्यो द्रष्टुमशक्यो मार्गो यस्य स तथा । तर्हीश्वरत्वं तस्य साधुभिः कथं ज्ञातव्यमित्यतोऽर्थापत्त्येत्याह । आत्ममहिमा स्वसामर्थ्यं तदेवोपनिबन्धनं निमित्तं येषां तानि कर्माणि करिष्यती । तथा च स्वमहिममात्रनिमित्तककर्मकर्तृत्वान्यथानुपपत्त्या कृष्णस्येश्वरत्वं ज्ञातव्यम् । अन्यकर्मस्वीश्वरसामर्थ्य- निमित्तकत्वस्यापि सत्वेन स्वमहिममात्रोपनिबन्धनकर्मकर्तृत्वस्येश्वरत्वाव्यभिचारादिति भावः ॥ २६ ॥
तोकेन जीवहरणं यदुलूपिकायाः
त्रैमासिकस्य च पदा शकटोऽपवृत्तः ।
यद्रङ्गताऽन्तरगतेन दिवि स्पृशोर्वा
उन्मूलनन्त्वितरथाऽर्जुनयोर्न भाव्यम् ॥ २७ ॥
पदरत्नावली
तोकेन अत्यणुना बालेन अनिर्दशेनेत्यर्थः । शरीरोत्थानादिप्रवृत्तिहेतुत्वाद् अवः प्राणास् तान् लुम्पतीति उलूपिका तस्याः पूतनायाः स्तनपानेन जीवहरणं यत्कर्म, त्रैमासिकस्य त्रयो मासा वयोलक्षणा निवृत्ता यस्य स तथा तस्य कृष्णस्य उत्क्षिप्तेन पादेन शकटो ऽपवृत्तः व्यत्यस्ताक्षेण शकटेन शकटाख्यो हत इति, यच्च उलूखलबद्धेन रङ्गता क्रीडता अन्तरगतेन मध्यगतेन बालेन दिविस्पृशोः सहस्रधनुमात्रोर्ध्वदेशं स्पृशतोस् तावदुछ्रययोरित्यर्थः । यमलार्जुनयोर् उन्मूलनञ्च यत् तत्सर्वं कर्म इतरथा विष्णुर् न चेत् स्वमहिमोपनिबन्धनत्वेन न भाव्यम् । ‘सहस्रधनुषस्तूर्ध्वं द्युशब्देनापि भण्यते’ इति च ॥ २७ ॥
प्रकाशिका
उक्तार्थापत्तिमेव प्रपञ्चयति ॥ तोकेनेति श्लोकद्वयेन ॥ तोकेनातिबालकेन । ऊन् प्राणान् लुंपतीत्युलूपिका बालप्राणहारिणी पूतना तस्याः स्तनपानेन जीवहरणं यत्कर्म, त्रयोमासा वयोलक्षणा निवृत्ता यस्य स तथा तस्य कृष्णस्य पदा पादेन शकटस्तन्नामकोऽसुरोऽपवृत्तो नाशित इति यद् यच्च रङ्गता जानुभ्यां गच्छताऽन्तरं गतेन मध्ये गमनेन दिवि सहस्रधनुषोऽप्यूर्ध्वदेशे स्पृशोः स्पृशतोः । अत्युच्चयोरिति यावत् । अर्जुनयोर्वृक्षविशेषयोरुन्मूलनं तत्सर्वं कर्म इतरथा कृष्णस्य विष्णुत्वं विना न भाव्यं स्वात्ममहिममात्रोपनिबन्धनत्वेन न भाव्यम् । भवति तथा तस्मात्स विष्णुरिति निर्णीयत इत्यर्थः । एवमग्रेऽपि योजना द्रष्टव्या ॥ २७ ॥
यद्वै व्रजे व्रजपशून् विषतोयपीतान्
गोपांस्तु (बालान)जीवयदनुग्रहदृष्टिवृष्ट्या ।
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्वम्
उच्चाटयिष्यदुरगं व्यहरद् ह्रदिन्याम् ॥ २८ ॥
पदरत्नावली
विषतोयपीतान् विषमिश्रजलं पीतवतः । जीवयद् अजीवयत् । अनुग्रहलक्षण-दृष्टिवृष्ट्या । तच्छुद्धये यमुनाह्रदजलशुद्धये । ह्रदिन्यां यमुनानद्यां व्यहरत् क्रीडितवान् । कालीय-नागमुच्चाटयिष्यन् उच्चाटितं करिष्यति च । विषजले विहरणं, दुर्गस्थानात् ह्रदाद् उच्चाटनञ्चानन्यसाध्यं तदनेन कृतमितरथा न भाव्यमित्यर्थः ॥ २८ ॥
प्रकाशिका
विषमिश्रं जलं विषतोयं तस्य पीतं पानं येषां तानदजीवयत् । अनुग्रहपूर्वक-दृष्टिरूपवृष्ट्या । तच्छुद्धये यमुनाह्रदजलशुद्धये । अतिविषवीर्येण विलोला चञ्चला जिह्वा यस्य तमुरगं कालियाख्यं नागम् । उच्चाटयिष्यन् उच्चाटनयुक्तं करिष्यन् ह्रदिन्यां यमुनानद्यां व्यहरद्विहरणं कृतवानिति यत्कर्मजातं तदितरथा न भाव्यमित्यन्वयः ॥ २८ ॥
तत्कर्म दिव्यमिव यन्निशि निःशयानं
दावाग्निनाशु विपिने परिदह्यमाने ।
उन्नेष्यति व्रजमितोऽवसितान्तकालं
नेत्रे पिधाय्य(पिधाप्य) सबलोऽनधिगम्यवीर्यः ॥ २९ ॥
पदरत्नावली
आशु आशुना विष्वग्व्यापिना दावग्निना । विपिने परिदह्यमाने सति । निशि सर्वात्मनाऽज्ञाने । ‘यत्तु सर्वात्मनाऽज्ञानं निशा सा परिकीर्तिता’ इति वचनात् । निःशयानं नितरां शयानं कर्तव्यमूढम् । तर्हि अचेतनं किं नेत्याह- अवसितान्तकालं निश्चितमरणकालं व्रजं तेषां नेत्रे पिधाप्य पिहिते कारयित्वा इतः दावाग्नेर् उन्नेष्यतीति यत् तत्कर्म तदन्येषां दिव्यमिव स्तुत्यमेव । स्वस्य तु स्तुत्यमिव । कुत इति तत्राह- अनधिगम्येति ॥ नित्यसमाहितैर् ब्रह्मादिभिरपि अविज्ञेय-माहात्म्यत्वादित्यर्थः । सबल इत्यनेन बलस्याप्येतादृशी शक्तिर्नास्तीति लक्ष्यते ॥ २९ ॥
प्रकाशिका
निशि निःशयानमिति कालियोच्चाटनानन्तरं यमुनातीरे रात्र्यां शयानम् । विपिने वने । परितः समन्ताद्दह्यमाने सति । इतो दावाग्नेः । अवसितान्तकालं लोकैर्निश्चितमरणकालं व्रजं गोकुलम् । उन्नेष्यत्युद्धरिष्यति । किं कृत्वा । नेत्रे पिधाय्य पिहिते कारयित्वा । इदं मुञ्जाटव्यां दावाग्न्युद्धरणविषयमिति बोध्यम् । अन्यथा निशि निःशयानमित्यनेन विरोधप्रसङ्गात् । ननु नेत्रपिधानं कस्मात्कारितमित्यत उक्तम् । अन्यैरधिगन्तुं द्रष्टुमयोग्यं वीर्यं यस्येति । अन्यैरपि श्रीकृष्णवचनादिना परिशेषाच्च अधिगतत्वेऽपि न साक्षाद् दृष्टम् । अतो ऽधिगन्तुमित्यस्य द्रष्टुमिति व्याख्या कृता । एवं स्थानद्वये दावाग्नेर्व्रजोद्धरणादिरूपं यत्कर्म तत्तस्यापि दिव्यमिव स्तुत्यमिव । मदीयं कर्म कर्तुं केनाप्यशक्यमत एवात्युत्तममिति ब्रह्मादिभिरिव कृष्णेनाप्युत्कृष्टतया प्रतिपाद्यमानत्वसाम्यात् । इयांस्तु विशेषः । कृष्णेन क्रियमाणकर्मोत्कर्षप्रतिपादनस्य न स्तुतित्वम् । इतरवत्फलापेक्षया करणाभावादत इवेत्युक्तम् । इतरैरुक्तरूपेण क्रियमाणकर्मोत्कर्षप्रतिपादनस्य स्तुतित्वमेव । फलापेक्षासत्वात् । फलापेक्षयोत्कर्षप्रतिपादकशब्दत्वस्यैव स्तुतिलक्षणत्वादिति ॥ २९ ॥
गृह्णीत यद्यदुपबद्धुममुष्य माता
शुल्बं सुतस्य न तु तत्तदमुष्य माति ।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी
संवीक्ष्य शङ्कितमनाः प्रतिबोधितस्य ॥ ३० ॥
पदरत्नावली
अमुष्य कृष्णस्य माता सुतम् उपबद्धुं यद्यत् शुल्बं दाम गृह्णीत गृह्णाति तत्तद्दाम अमुष्य सुतस्य न माति न पूर्यते । इत्यमेयत्वलक्षणं माहात्म्यम् । यद् गोपी प्रतिबोधितस्य निद्रया उत्थितस्य जृम्भतः मुखं व्यादायालस्यं परिहरतो ऽस्य कृष्णस्य वदने चतुर्दशभुवनानि सम्यग्वीक्ष्य शङ्कितमाना भीतमना अभूदिति यच्च तदपि ॥ ३० ॥
प्रकाशिका
अमुष्य कृष्णस्य माता यशोदा । सुतस्य सुतमुपबद्धुं शुल्बं दाम गृण्हीतागृहीत् तदा तद्दामामुष्य सुतस्य न माति न पूर्यत इति, यद्गोपी यशोदा, प्रतिबोधितस्य निद्राया उत्थापितस्यात एव जृंभत आलस्यपरिहारायैव मुखव्यादानं कुर्वतोऽस्य कृष्णस्य वदने चतुर्दशभुवनानि सम्यग्वीक्ष्य शङ्कितमना भीतमना अभूदिति च यद् यत्कर्म तस्यापि दिव्यमिवेति सम्बन्धः । एवमग्रेऽपि दिव्यमिवेत्यनेन सम्बन्धो बोद्धव्यः ॥ ३० ॥
नन्दञ्च मोक्ष्यति भयाद्वरुणस्य पाशात्
गोपान्बिलेषु पिहितान्मयसूनुना च ।
जल्प्यावृतं निशि शयानमतिश्रमेण
लोके विकुण्ठ उपधास्यति गोकुलं स्म ॥ ३१ ॥
पदरत्नावली
पाशाद् भयात् । निशि अविद्यायां शयानं जल्प्या अन्यथाज्ञानहेतुवाचा आवृतम् । ‘अन्यथाज्ञानहेतुर्या वाक् सा जल्पिः प्रकीर्तिता’ इति च । अत एवातिश्रमेण संसारक्लेशेन पीडितं गोकुलं विकुण्ठलोके उपधास्यतीति यत् तदपि ॥ ३१ ॥
प्रकाशिका
वरुणस्य पाशाज्जाताद्भयात् । मयसूनुना व्योमनामकेन । जल्प्याऽन्यथाज्ञान-जनककुशास्त्रेणावृतं तज्जनितविपर्ययसंशयाभ्यां तिरोहितसम्यग्ज्ञानम् । निशि अनाद्यविद्यायां तन्निमित्तके संसारेऽतिश्रमेण विविधदुःखानुभवेन नितरां शयानं मोक्षसाधनानुष्ठाने जागरणशून्यं गोकुलं गोकुलस्थं जनम् । स्मेत्याश्चर्ये । विकुण्ठे लोके उपधास्यति इति यत्तदपीति सर्वत्र योज्यम् ॥ ३१ ॥
गोपैर्मखे प्रतिहते व्रजविप्लवाय
देवेऽभिवर्षति पशून्कृपया रिरक्षुः ।
धर्तोच्छिलीन्ध्रमिव सप्त दिनानि
सप्तवर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥
पदरत्नावली
मखे आत्मोद्देश्ये यज्ञे । देवे इन्द्रे । व्रजविप्लवाय जलौघेन गोष्ठनाशाय । ‘गोष्ठाध्वनिवहाव्रजा’ इति । रिरक्षुः रक्षितुं कामः । महीध्रं गोवर्धनगिरिं सलीलं धर्ता धारयिष्यति । उच्छिलीन्द्रं छत्राकम् ॥ ३२ ॥
प्रकाशिका
मखे स्वात्मोद्देशेन कर्तव्ये यज्ञे । देवे इन्द्रे । व्रजविप्लवाय गोष्ठनाशाय । रिरक्षुः रिरक्षिषुर्महीध्रं गोवर्धनसंज्ञं महीधरं सलीलं यथा स्यात्तथा धर्ता धरिष्यति । उच्छिलिन्ध्रमिव उद्गतं छत्राकमिव । सप्त वर्षाणि वयो यस्य स सप्तवर्षः । हे अनघ निर्दुष्टेति नारदं प्रति संबोधनम् ॥ ३२ ॥
क्रीडन्वने निशि निशाकररश्मिगौर्यां
रासोन्मुखः कलपदायतमूर्च्छितेन ।
उद्दीपितस्मररुजां व्रजसद्वधूनां
हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
पदरत्नावली
निशाकरस्य रश्मिभिर् गौर्यां धवलत्वं प्राप्तायां, निशि रात्रौ रासक्रीडाभिमुखः श्रीकृष्णः वने क्रीडन् सन् कलपदञ्च आयतञ्च मूर्च्छितञ्च कलपदायतमूर्च्छितं तेन सप्तस्वरसमाहारवता गानेन । ‘सप्तस्वरसमाहारो मूर्च्छनेति प्रकीर्तिता’ इति ॥ उद्दीपित उज्वलितः स्मराख्यो रुक् रोगो यासां ता उद्दीपितस्मररुजस् तासाम् । व्रजसदां व्रजनिलयानां वधूनां स्त्रीणां हर्तुर् नेतुर् धनदानुगस्य शङ्खचूडाख्यस्य शिरो हरिष्यतीति इदमपि विष्णुत्वे घटते नान्यथेति ॥ ३३ ॥
प्रकाशिका
निशाकरस्य रश्मिभिर्गौर्यां धवलायां निशि रात्रौ । रासक्रीडाभिमुखः कृष्णो वने क्रीडन् सन् कलानि मञ्जुलानि पदानि यस्मिंस्तत् कलपदं तच्चायतं दीर्घं च तन्मूर्च्छितं च सप्तस्वर-समाहारयुतं च तेन । गीतेनेति शेषः । उद्दीपित उत्कृष्टतया ज्वलितः स्मराख्यो रुग्रोगो यासां ता उद्दीपितस्मररुजस्तासां व्रजसद्वधूनां व्रजगतानां वधूनां स्त्रीणां हर्तुर्नेतुर्धनदानुगस्य कुबेरभृत्यस्य शङ्खचूडाख्यस्य शिरो हरिष्यति ॥ ३३ ॥
ये च प्रलम्बखरदर्दुरकेश्यरिष्टमल्लेभ-
कंसयवनाः कुजपौण्ड्रकाद्याः ।
अन्येऽपि शाल्वकपिबल्वलदन्तवक्र-
सप्तोक्षशंबरविडूरथ रुग्मिमुख्याः ॥ ३४ ॥
ये वा मृधे समितिशालिन आत्तचापाः
काम्भोजमत्स्यकुरुसृञ्जयकैकयार्णाः(कैकयाद्याः) ।
यास्यन्त्यदर्शनमिता बलपार्थभीम-
व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥
पदरत्नावली
ये प्रलम्बादयः कृष्णाख्येन हरिणा अदर्शनमिताः । ये चान्ये मैन्दादयस् तथा जरासन्धादयः ये च कुरुपाण्डवसेनागताः काम्भोजादयः बलपार्थभीमभीष्मद्रोणद्रौण्यादिव्याजाह्वयेन हरिणा मरणं प्रापितास् ते सर्वे तदीयं निलयं यान्तीत्यन्वयः । द्वेषिण उदासीना भक्ता इति त्रिविधा जीवाः । तत्र द्वेषिणः नितरां लीयते सुखं यस्मिन् तदन्धन्तमः यान्ति । उदासीना निरयं नरकम् । भक्ता निकामस्य अभीष्टस्य आनन्दस्य प्राप्तिर् यस्मिन् तं वैकुण्ठादिलोकं यान्तीत्यर्थः । सर्वञ्च स्थानं हरेर्विद्यमानम् । तदुक्तम्- ‘विद्वेषिणोऽप्युदासीना भक्ता अपि न संशयः । हरेर्हि सदनं यान्ति व्यक्तं भक्तैस्तु गम्यते । आरभ्य तम आमुक्तेः कृष्णस्य सदनं यतः । अव्यक्तहरिलोकत्वादन्येषामन्यलोकता ॥ इति । रामभीमादिनामानि हरेरेव मुख्यानि । रमणशक्त्यभयवर्णादीनां शब्दवृत्तिहेतूनां हरौ मुख्यत्वाद् अन्यत्रामुख्यत्वाद् व्यवहारार्थं सङ्केतितत्वाद् व्याजानि । तदप्युक्तम्- ‘रामभीमार्जुनादीनि विष्णोर्नामानि सर्वशः । रमणाभयवर्णाद्याः शब्दवृत्तेर्हि हेतव’ इत्यादि । रय गताविति धातुः । रलयोरभेदः । न्यग्भावरयं नीचगतिं तम इति वा । ‘निर्न्यग्भावनिकामयोः’ इति ॥ ३४, ३५ ॥
प्रकाशिका
ये च प्रलम्बादयस्ते सर्वे हरिणा कृष्णेनादर्शनं मरणमिताः प्राप्ताः सन्तस्तदीयं निलयं यास्यन्तीत्युत्तरेणान्वयः । खरो धेनुकः । दर्दुर इव दर्दुरो बकः । इभः कुवलयापीडः । कपि-र्विवदः । कुजो नरकः ।
मृधे कुरुपाण्डवयुद्धे । समितौ सङ्ग्रामे शालन्ते श्लाघ्यन्ते ते समितिशालिनः । ननु प्रलम्बखर-कपिबल्वलरुग्मिप्रमुखा बलभद्रेण निहताः । कांभोजादयश्च भीमार्जुनद्रोणादिभिः । शम्बरः प्रद्युम्नेन । यवनो मुचकुन्देन । न तु हरिणाऽतः कथमेतदित्यत उक्तम् । बलपार्थभीमव्याजाव्हयेनेति ॥ अत्र बलादिशब्दैः प्रद्युम्नादयोऽप्युपलक्ष्याः । तथा च बलपार्थभीमादिषु व्याजात्तेषां स्वशरीररूपत्वव्याजा-न्निमित्तात्तेषु स्वेनैव सङ्केतिता आव्हया नामानि यस्य स तथोक्तस्तेनेत्यर्थः । हरिरेव बलादिषु स्थितो मुख्यतस्तत्तन्नामा तान् जघानातो युक्तमुक्तमिति भावः । अत्र ये च प्रलम्बेत्यादिना द्वेष्युदासीनभक्तानां त्रयाणामुक्तत्वात् तदीयं निलयमित्यनेन तमो नरकं वैकुण्ठादिकं चेति त्रयमपि तत्तद्योग्यं हर्यावासस्थानं ग्राह्यम् । इयांस्तु विशेषः । वैकुण्ठादेर्व्य-क्तस्थानत्वात्तदीयनिलयत्वप्रसिद्धिस्तथा नरकतमसोरव्यक्त-हरिस्थानत्वादिति ॥ ३४-३५ ॥
कालेन मीलितदृशामवमृश्य नॄणां
स्तोकायुषां स्वनिगमो बत दूरपारः ।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां
वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
तात्पर्यम्
तृतीये सप्तमे चैव षोडशे पञ्चविंशके । अष्टाविंशे युगे कृष्णः सत्यवत्यामजायत । व्यासाचार्यस्तु पूर्वेषु चरमे स्वयमेव तु । विव्यास वेदांश्चक्रे च भारतं वेदसंमितमि’ति च ॥ ३६ ॥
पदरत्नावली
कालबलेन मीलितदृशाम् उत्सन्नज्ञानानां स्तोकायुषाम् अल्पायुषां नृणां स्वनिगमः स्वविषयो वेदः दूरपार इत्यवमृश्य स विष्णुर् बत कृपया सत्यवत्याम् आविर्हितो ऽवतीर्णः । वेदद्रुमं विटपशः शाखोपशाखाभेदेन विभजिष्यतीत्यन्वयः । कस्मिन्युगे इत्यत उक्तम्- अनुयुगमिति ॥ एतदुक्तं भवति । तृतीये सप्तमे षोडशे पञ्चविंशे अष्टाविंशे च द्वापरे पुर्वेषु चान्यैर्व्यासनामभिर् विभाजयिष्यति । अष्टाविंशे स्वयमेव विभजिष्यतीति । ‘तृतीये सप्तमे चैव षोडशे’ इत्यादिवचनञ्च विशेषवाचिना तुशब्देन गृहीतम् । कृष्णावतारादुपरि व्यासावतारकथनं तदुपरितनमन्वन्तरेऽपि व्यासावतारसद्भावादविरुद्धमित्यस्मिन्नर्थे हिशब्दः । पुराणप्रसिद्धेरिति ॥ ३६ ॥
प्रकाशिका
व्यासावतारं तत्कर्म चाह ॥ कालेनेति ॥ अत्रानुयुगमित्यस्य प्रतियुगमित्य-न्यथाप्रतीतिवारणाय प्रमाणेनैव तात्पर्यं दर्शयति ॥ तृतीय इति ॥ युगे महायुगान्तर्गतद्वापरे । तथा च वैवस्वतमनोस्तृतीयादिपञ्चमहायुगान्तर्गतद्वापरेषु कृष्णो व्यासः सत्यवत्यामजायतेत्यभिप्रेत्यैवानुयुग-मित्युक्तम् । न तु प्रतियुगमित्यभिप्राय इति भावः । पूर्वेषु तृतीयसप्तमषोडशपञ्चविंशकमहायुगान्तर्गत-द्वापरेषु । व्यासानां वेदविस्तारकर्तॄणामन्येषां स्वयमाचार्यः । तुशब्दोऽवधारणे । चरमेऽष्टाविंश-महान्तर्गतद्वापरे तु पूर्वव्यासापेक्षया विशेषेण विव्यास विस्तृतवान् । वेदः सम्यक् मित उपबृंहितो येन तद्वेदसम्मितम् । इतिहासपुराणाभ्यां वेदं समुपबृंहयेदिति वचनात् । अथवा । वेदसम्मितं वेदसंवादि । न तु वेदसदृशमित्यर्थः । भारतस्य वेदोत्तमत्वात् ॥ ततश्चायं श्लोकार्थः ॥ कालेन द्वापरयुगमहिम्ना । मीलितोत्सादिता दृक् तत्त्वज्ञानं येषां तेषां मीलितदृशां, स्तोकमल्पमायुर्येषां तेषां, स्वनिगमः स्वविषयको वेदराशिः । बत अहो । दूरे पारं यस्येति दुर्गमं चरमावधिरित्यवमृश्य स हरिः सत्यवत्यामनुयुगं तृतीयादिपञ्चसु महायुगेषु सत्यवत्यामाविर्हित आविर्भूतः सन् वेदलक्षणद्रुमं विटपशः शाखोपशाखाभेदेन विभजिष्यतीति । बुद्धावतारात्पूर्वं व्यासावतारकथनं दुर्जनमोहकशास्त्रप्रणयनविषये व्यासस्य बुद्धसाम्यं दर्शयितुमिति ज्ञातव्यम् ॥ ३६ ॥
देवद्विषां निगमवर्त्मनि विष्ठितानां
पूर्भिर्मयेन विहिताभिरदृश्यमूर्तिः ।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं
वेषं विधाय यदभाषत औपधर्म्यम् ॥ ३७ ॥
पदरत्नावली
देवद्विषां मतिविमोहं बुद्धिमोहजनकं, अतिप्रलोभम् अतिवञ्चकं बालवेषं विधाय यद् औपधर्म्यम् उपधर्माणां पाषण्डधर्माणां प्रतिपादकं शास्त्रं तदभाषतेत्यन्वयः । नारायण इति शेषः । एतेऽसुराः के इत्याशङ्क्य पूर्वजन्मकर्मपूर्वकं तान्विशिनष्टि- निगमेत्यादिना ॥ प्राग्जन्मनि मयेन विहिताभिस् तिसृभिः पूर्भिः पुरीभिर् लोकान् घ्नतां नाशयतां रुद्रेण रणे हतानां पुनर्विप्रजन्म लब्ध्वा निगमेन विहिताभिः क्रियाभिर् निगमवर्त्मनि विष्ठितानां वेदमार्गे प्रतिष्ठाय यज्ञादिविशिष्टकर्मानुष्ठाने स्थिराणाम् अदृश्या मूर्तिर् यस्य स तथा दैत्यैरज्ञेयस्वरूप इत्यनेन ततो वेदमार्गाच्चालनाय देवैः प्रत्यक्षीकृत्य प्रार्थित इति ज्ञातव्यम् । बुद्धोक्तशास्त्रस्य वेदबाह्यधर्मप्रतिपादकत्वञ्चाज्ञजनदृष्ट्या । वेदोऽप्रमाणमित्यादिरूपस्य तस्यैव विष्णौ प्रमाणमित्यादिवेदप्रतिपाद्यार्थत्वेन देवेभ्यः प्रशान्तसंहितायां हरिणा उक्तत्वाद् इति द्योतनाय अभाषतेत्युक्तम् । स्वसूत्राणां भाष्यञ्च कृतवानित्यर्थः ॥ ३७ ॥
प्रकाशिका
बुद्धावतारं तत्कर्म चाह ॥ देवद्विषामिति ॥ अदृश्यमूर्तिर्हरिर्मयेन विहिताभी रचिताभिः पूर्भिः पुरीभिर्लोकान् घ्नतां हन्तॄणां रुद्रेण हतानामिति पूरणीयम् । देवद्विषामसुराणां पुनः विप्रजन्म लब्ध्वा निगमवर्त्मनि वेदविहितानुष्ठाने विष्ठितानां विशेषेण स्थिराणां मतिविमोहं बुद्धिभ्रंशकर-मतिप्रलोभमत्यन्तं वञ्चकं वेषं बालवेषं विधाय धृत्वा यदौपधर्म्यमुपधर्माणां पाषण्डधर्माणां प्रतिपादकं शास्त्रं तदभाषत धर्माभासप्रतिपादकसूत्रभाष्यादिकं कृतवानित्यर्थः । ननु वेदमार्गे स्थिरैरयं वञ्चक इति कथं न ज्ञातमित्यत उक्तम् ॥ अदृश्यमूर्तिरिति ॥ अज्ञेयस्वरूप इत्यर्थः ॥ ३७ ॥
यर्ह्यालयेष्वपि सतां न कथा हरेः स्युः
पाषण्डिनो द्विजजना वृषला नृदेवाः ।
स्वाहा स्वधा वषडिति स्म गिरो न यत्र
शास्ता भविष्यति कलेर्भगवान्युगान्ते ॥ ३८ ॥
पदरत्नावली
यर्हि यस्मिन्युगे सताम् आलयेष्वपि हरेः कथा न स्युः । द्विजजनाश्च पाषण्डिनः पाषण्डवर्तिनः स्युः । नृदेवा वृषला धर्मविनाशकाः । यत्र यस्मिंश्च युगे स्वाहादिगिरो न सन्ति स्म । वचनाभावे स्मरणमपि नास्ति । इतिशब्द आद्यर्थे । तदा तस्य कलेर् युगस्योपान्ते अवसाने भगवान् शास्ता भविष्यति । दुष्टानामिति शेषः । इत्यन्वयः । इतिशब्दः स्वरूपावतारकथनसमाप्तिवचनो वेति
॥ ३८ ॥
प्रकाशिका
कल्क्यावतारमाह ॥ यर्हीति ॥ यर्हि यदा सतामालयेषु गृहेष्वपि हरेः कथा न स्युर्वृषलाः शूद्रादयो नृदेवा राजानो यत्र यस्मिन्काले तस्मिन्युगान्ते कलियुगान्ते भगवान् कलेः शास्ता कात्कारकर्ता । अनेन कल्किशब्दार्थो दर्शितः । कलेस्तु कात्कारत एव कल्कीत्यन्यत्रोक्तत्वात् । तथा च कल्किशब्दवाच्यरूपवान् भविष्यतीति भावः ॥ ३८ ॥
सर्गे तु योऽहमृषयो नव ये प्रजेशाः
स्थानेऽथ धर्ममखमन्वमरावनीशाः ।
अन्ते त्वधर्महरमन्युवशासुराद्याः
मायाविभूतय इमाः पुरुशक्तिभाजः ॥ ३९ ॥
तात्पर्यम्
‘हरीच्छया विभूतिर्यद् ब्रह्मादीनां सदा भवेत् । इच्छया वा बहुविधस्तेषु विष्णुः स्वयं स्थितः । अतो मायाविभूतित्वं तेषां मत्स्यादिकाः(मत्स्यादयः) स्वयमि’त्यध्यात्मे
॥ ३९ ॥
पदरत्नावली
मायाविभूतीराह- सर्ग इति ॥ योऽहं चतुर्मुखः, ये च ऋषयः कर्दमाद्या ये च मरीच्याद्या नवप्रजापतयस् ते सर्वे, सर्गे सृष्टिसमये प्राप्ते पुरुशक्तिभाजः पूर्णशक्तिभाजः हरेर्मायाविभूतयः । अथ यः धर्मः ये मखा ये चतुर्दशमनवः ये चामरेशाश् चतुर्दशेन्द्रा ये चावनीशाः प्रियव्रतादयस् ते सर्वे स्थाने स्थितिकाले प्राप्ते पालनाय विष्णोर्मायाविभूतयः । यो ऽधर्मः यश्च हरो रुद्रः ये च मन्युवशासुराद्याः क्रोधवशासुरपुरःसरास् ते सर्वे अन्ते तु संहारकाले च प्राप्ते संहाराय हरेर्मायाविभूतय इत्यन्वयः । सृष्टिपालनसंहारकालेषु मायया स्वेच्छया विविधो भूत्वा अस्मदादिषु स्थित्वा सृष्टिपालनसंहारान्करोति । यद्वा मायया भगवदिच्छया अस्मदादीनां सदा विभूतयः भवन्तीत्यतो अस्मादादयो हरेर् मायाविभूतयः । न तु स्वरूपविभूतय इत्ययं विशेषस् तुशब्दसूचितया ‘हरीच्छया विभूतिर्यद्ब्रह्मादीनां सदा भवेत् । इच्छया वा बहुविधस्तेषु विष्णुः स्वयं स्थितः । अतो मायाविभूतित्वं तेषां मत्स्यादयः स्वयम् ॥’ इति स्मृत्या गृहीत इति ॥ ३९ ॥
प्रकाशिका
सृष्ट्यादिकर्मभेदेन हरेर्विभूतिरूपस्थानान्याह ॥ सर्गे त्विति ॥ तुशब्दौ सर्गान्तयोः सर्वसम्बन्धित्वरूपविशेषप्रदर्शनाय । सर्गे सृष्ट्यर्थम् । योऽहं जगदुत्पादकतया प्रसिद्धः । ये च मरीच्यादयो ऋषयः । ये च कर्दमाद्या नव प्रजापतयः । ते सर्वे पुरुशक्तिभाजः पूर्णशक्तिमतो हरे-र्मायाविभूतयः । अथ सृष्ट्यनन्तरं स्थाने स्थित्यर्थं धर्मश्च मखा यज्ञाश्च मनवश्चामराश्चावनीशाश्च ते मायाविभूतयः । अन्ते संहारार्थम् । अधर्मश्च हरो रुद्रश्च मन्युवशाः क्रोधवशाश्च ते चासुराद्याश्च ये ते मायाविभूतय इति सम्बन्धः । सृष्ट्यादिषु ब्रह्मादीनां निमित्ततयोपादानं हरेर्नाशक्ततया किन्तु तेषां ख्यात्याद्यर्थमेवेति दर्शयितुं पुरुशक्तिभाज इत्युक्तम् । अत्र मायाविभूतय इत्येतन्मायाकल्पितविभूतय इति प्रतीतिनिरासाय प्रमाणेनैव द्वेधा व्याचष्टे ॥ हरीच्छयेति ॥ विभूतिरैश्वर्यम् । अनेन मायया हरीच्छया विभूतिरैश्वर्यं येषां ते मायाविभूतय इति व्याख्यातं भवति । प्रकारान्तरेणापि व्याख्याति ॥ इच्छयेति ॥ यदिति वर्तते । अनेन मायया हरीच्छया हरेर्विविधा भूतिर्भवनं येषु ते मायाविभूतय इति व्याख्यातमिति ज्ञातव्यम् । मायाविभूतित्वं मायाविभूतिशब्दवाच्यत्वम् । तेषां ब्रह्मादीनाम् । ननु मत्स्यादीनामपि क्वचिन्मायाविभूतित्वमुच्यते । तत्र कथं व्याख्यानमित्यपेक्षायामाह ॥ मत्स्यादिका(मत्स्यादयः) इति ॥ स्वयमित्यनेन मायया स्वेच्छया विभूतयो विविधभवनरूपा इति व्याख्येयमिति सूचयति ॥ ३९ ॥
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह
यः पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ यः स्वरभसा स्खलितं त्रिपृष्ठं
यन्मां निशाम्य सदनादुरुकम्पमानम् ॥ ४० ॥
पदरत्नावली
ननु स्वरूपमायाविभूतीनाम् एतावत्त्वं चेद् इदं सर्वसुलभज्ञानमित्याशङ्क्य अनन्ता-युषाऽपि विभूतीनां गणनं न सुशकमित्याह- विष्णोर्न्विति ॥ यः सदनाद्विशरणान्नाशादुरुकम्पमानं मां निशाम्य स्वरभसा त्रिविक्रमक्रमणवेगेन स्खलितं चलितम् आसन्नपतनं त्रिपृष्ठं सत्यलोकं चस्कम्भ स्तम्भितवान् । तस्य विष्णोर् वीर्यगणनां विभूतिलक्षणमाहात्म्यप्रसङ्ख्यानं प्रति कवीनां कतमोऽर्हति नु न कोऽपीत्यन्वयः । आदिकविरपि न समर्थ इत्याह- पार्थिवानीति ॥ यः कविः प्रतिभाविशेष-संपन्नोऽपि ब्रह्मा पार्थिवानि रजांसि भूमिपरमाणून् विममे गणितवान् सोऽपि न शक्नोतीति शेषान्वयः । यदिति हेत्वर्थे । अनन्तानि यद् यस्मात् तस्मादिति ॥ ४० ॥
प्रकाशिका
इदं मया संक्षेपेणोक्तं विस्तरेण वक्तुं न कोऽपि समर्थ इत्याशयेनात्र ‘विष्णोर्नु कं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजांसि । यो अस्कभायदुत्तरं सधस्थं विचक्रमाणस्त्रेधोरुगायः’ इति मन्त्रं प्रमाणयन् अर्थतस्तमनुवदति ॥ विष्णोरिति ॥ योऽपि कविरिह भूम्यां पार्थिवानि रजांसि विममे गणितवान्सोऽपि कवीनां मध्ये कतमो नु साकल्येन विष्णोर्वीर्यगणनां कर्तुमर्हति । न कोऽपि । कथंभूतस्य । यो विष्णुस्त्रिपृष्टं सत्यलोकं चस्कम्भ स्तम्भितवान् । किमिति चस्कम्भ । यद्यस्मात्स्वरभसा स्वपादवेगेन स्खलितं चलितम् । रभस्शब्दो रंहस्शब्दपर्यायः सकारान्तः रभसेन स्खलितमिति वा । निमित्तान्तरमाह । सदनान्निमित्तादुर्वधिकं कम्पमानं मां निशाम्य निरीक्ष्येति । लोकरूपसदनचलनेन ममापि चलनं निरीक्ष्येत्यर्थः । अनेनोत्तरं सधस्थमित्यस्यार्थानुवादः कृत इति ज्ञातव्यम् ॥ ततश्चायं मन्त्रार्थः ॥ विष्णोर्वीर्याणि नु साकल्येन कं कः प्रवोचं प्रवोचेन्न कोऽपि । यः पार्थिवानि रजांसि विममे गणितवान्सोऽपि न प्रवोचमित्यन्वयः । यो विष्णुस्त्रेधा विचक्रमाणस्त्रिविक्रमं कुर्वन् उत्तरमुपरितनं सत्यलोकं चस्कम्भ यत्स्तम्भितवान् । कथंभूतम् । सधस्थं सहस्य सधादेशस् तिष्ठतीति स्थः । तत्रस्थेन ब्रह्मणा सहितमिति ॥ ४० ॥
नान्तं विदाम्यहममी मुनयः प्रजेशाः
मायाबलस्य पुरुषस्य कुतोऽपरे ये ।
गायन्गुणान्दशशतानन आदिदेवः
शेषोऽधुनाऽपि समवस्यति नास्य पारम् ॥ ४१ ॥
तात्पर्यम्
विदुर्नान्तम् । अनन्तत्वात् ॥ ४१ ॥
पदरत्नावली
अनन्तत्वमुपपादयति- नान्तमिति ॥ विदामीति विकरणव्यत्ययेन चतुर्मुखाद् ब्रह्मणः, शेषस्य सहस्रमुखत्वकथनाज् ज्ञानाधिक्यमस्तीत्यज्ञशङ्कां निवारयति । न समवस्यति न निश्चिनोति । ‘माल्याक्षतादिदानेऽस्त्री शेष’ इति वैजयन्तीकोशाद् अक्षताशीर्वचनवान् शेषः कश्चित् पुमानिति संशयं निरस्यति- दशशतानन इत्यनेन ॥ अयमपि नागेष्वन्यतमः कश्चिदित्यत आह- आदिदेव इति ॥ अपरे अर्वाचीनाः । अनेन श्लोकद्वयेन ‘विष्णोर्नु कं वीर्याणि प्रवोचम् । न ते विष्णोर्जायमान’ इत्यृगर्थत उदहारि ॥ ४१ ॥
प्रकाशिका
अनन्तत्वं कैमुत्येनोपपादयति ॥ नान्तमिति ॥ अत्रामी मुनय इत्यादौ क्रियापदा-भावात्क्रियापदमध्याहृत्यान्वयं दर्शयति ॥ विदुरिति ॥ विद्यमानमप्यन्तं न विदुरित्यन्यथाप्रतीति-वारणायाभिप्रायमाह ॥ अनन्तत्वादिति ॥ अन्यथा पूर्वोत्तरविरोध इति भावः । मूले पुरुषस्य हरेर्मायाबलस्येच्छासामर्थ्यस्यान्तमित्यन्वयः । ननु चतुर्मुखब्रह्मापेक्षया सहस्रवदनस्य शेषस्य ज्ञानाधिक्येन तस्य हरिपारज्ञानं भविष्यतीति मन्दाशयमनुसृत्याह ॥ गायन्निति ॥ इतरगानव्यावृत्त्यर्थम्- आदिदेव इति ॥ न समवस्यति न निश्चिनोति ॥ ४१ ॥
येषां स एव भगवान्दययेदनन्तः
सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ।
ते वै विदन्त्यतितरन्ति च देवमायां
नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ॥ ४२ ॥
तात्पर्यम्
देवमायां विदन्ति । संसारमतितरन्ति च ॥ ४२ ॥
पदरत्नावली
नन्वेवं चेन् न कस्यापि ज्ञानाभावेन पुरुषार्थप्राप्तिरित्याशङ्क्य तत्प्रसादेन सर्वं सुलभमित्याह- येषामिति ॥ सोऽनन्तो भगवान् स्वयमेव येषां दययेद् दयां करोति ते देवस्य मायां स्वरूपशक्तिं विदन्ति । संसारहेतुं शैवलीं मायाम् अतितरन्ति च । तत्साधनमन्तरेण दययेच्चेत् तस्य वैषम्यं नैर्घृण्यञ्च स्यातामित्यत्राह- सर्वात्मनेति ॥ तत्रेत्थंभावमाह- नैषामिति ॥ एषां सेवकानां श्वसृगालभक्षणयोग्ये देहे ममाहमिति धीर् नास्ति । देहाद्यभिमानशून्यत्वेन भाव्यमिति भावः । तत्तद्योग्यतानुसारेण तत्प्रसादोऽपि बहुविध इत्यस्मिन्नर्थे वैशब्दः ॥ ४२ ॥
प्रकाशिका
यदि न केऽपि विदन्ति कथं तर्हि अधिकारिणां मुक्तिरित्यतस्तत्प्रसादादेवेत्याह ॥ येषामिति ॥ अत्र चशब्दादतितरन्तीत्यत्रापि देवमायामित्येतदेव कर्मतयाऽन्वेतीति प्रतीति-वारणा-यान्यत्कर्माध्याहृत्यान्वयं दर्शयति ॥ देवमायामिति ॥ ततश्चायं मूलार्थः ॥ अनन्तः स भगवानेव येषां दययेद्दयां कुर्यात् ते देवस्य क्रीडादिगुणस्य तस्य मायां माहात्म्यं विदन्ति जानन्ति । अतितरन्ति च संसारम् । ननु तत्साधनमन्तरेण दययेच्चेत्तस्य वैषम्याद्यापात इत्यत उक्तम् । ते यदि निर्व्यलीकं निष्कपटं सर्वात्मना सर्वप्रकारेण । मनोवाक्कायकर्मभिरिति यावत् । आश्रितपद आश्रितचरणाः । तर्ह्येव दययेदित्यन्वयः । चरणाश्रयणेऽपीत्थं भावमाह ॥ नैषामिति ॥ एषामधिकारिणां श्वसृगालभक्षणयोग्ये देहे ममाहमिति धीर्नास्ति तेषां दययेदित्यन्वयः । अत्रानन्त इत्यनेनाघटितघटकशक्तिसम्पत्त्या स्वयमव्यक्तस्वभावोऽपि व्यक्तो भवतीत्युपपादितमिति ज्ञातव्यम् ॥ ४२ ॥
वेदाहमङ्ग परमस्य हि योगमायां
यूयं भवश्च भगवानथ दैत्यवर्यः ।
पत्नी मनोः स च मनुस्तदपत्यभूताः(मनुश्च तदात्मजाश्च)
प्राचीनबर्हिऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
पदरत्नावली
ननु तर्हि तत्प्रसादयोग्याः के इति तानाह- वेदाहमिति ॥ ‘ऋतस्य तन्तुं विततं विवृत्य तदपश्यत्तदभवत्प्रजासु’ इति श्रुतिद्योतको हिशब्दः । प्रथमप्रक्रान्तत्वाच्चतुर्मुखः सर्वाधिकं वेत्ति । तदन्ये यथायोग्यं वेत्तार इत्यर्थस्मारको वा । भगवानिति विशेषणाद् भवस्य नारदादेर्ज्ञानातिशयोऽस्तीति सूचयति । अथेत्यनेन दैत्येषु प्रह्लादस्य ज्ञाननैर्मल्यं सूचयति । अङ्गो वेनस्य पिता ॥ ४३ ॥
प्रकाशिका
हरिप्रसादेन तन्माहात्म्यज्ञानिनः क इत्यतस्तानुदाहरति ॥ वेदाहमिति श्लोक-त्रयेण ॥ योगमायां स्वरूपसामर्थ्यम् । सनकादीनन्तर्भाव्य यूयमिति बहुवचनम् । दैत्यवर्यः प्रह्लादः । मनुः स्वायम्भुवः । तस्य पत्नी शतरूपा । तदात्मजाः पुत्रपौत्राश्च । अङ्गो वेनस्य पिता ॥ ४३ ॥
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधिरघ्वम्बरीषसगरा गयनाहुषाद्याः ।
मान्धात्रलर्कशतधन्वनरन्तिदेवदेवव्रता बलिरमूर्तरयो दिलीपः ॥ ४४ ॥
पदरत्नावली
ऐल इलायाः पुत्रः पुरूरवाः । नाहुषो ययातिः ॥ ४४ ॥
प्रकाशिका
ऐल इलायाः पुत्रः पुरूरवाः । नाहुषो ययातिः । रन्तिदेवान्तैः सहितो देवव्रतः
॥ ४४ ॥
सौभर्युदङ्कशिबिदेवलपिप्पलादाः सारस्वतोद्धवपराशरभूरिषेणाः ।
येऽन्ये विभीषणहनूमदुपेन्द्रदत्तपार्थार्ष्टिषेण विदुरश्रुतदेवमुख्याः ॥ ४५ ॥
पदरत्नावली
हरेः स्वरूपांशानाम् उपेन्द्रदत्तादीनां नित्यबद्धगुणेेषु सहपाठो दुष्टजनमोहनार्थः
॥ ४५ ॥
प्रकाशिका
उपेन्द्रदत्तयोर्ज्ञानिषु गणनं दुष्टजनमोहाय । यद्वा । उप समीपे इन्द्रो विष्णुर्यस्य स उपेन्द्रो ब्रह्मा तेन दत्तः शुकः । तस्य ब्रह्मरातनामकत्वात् ॥ ४५ ॥
ते वै विदन्त्यतितरन्ति च देवमायां
स्त्रीशूद्रहूणशबरा अपि पापजीवाः ।
यद्यद्भुतक्रमपरायणशीलशिक्षाः
तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
तात्पर्यम्
तत्परायणास्तच्छीलास्तच्छिक्षाश्च ॥ ४६ ॥
पदरत्नावली
अत्र कैमुत्यन्यायमाह- त इति ॥ ये स्त्रीशूद्रहूणशबराः पापजीवास् तेऽपि देवस्य मायां विदन्ति । संसारमतितरन्ति च । किमुतास्मदादय इत्यन्वयः । तर्हि किमिति सर्वे निस्तीर्णसंसारा नाभूवन् तत्राह- यदीति ॥ अद्भुतक्रमो विष्णुः स एव परायणं तस्य शीलं तस्य शिक्षा च येषां ते तथोक्ताः । अद्भुतं जगत् क्रमतीति अद्भुतक्रमः । अत्रापि कैमुत्यन्यायमाह- तिर्यगिति ॥ वृन्दावनगताः पशुपक्ष्यादयस् तिर्यग्जना अपि देवमायां विदन्ति । अतितरन्ति च । ये श्रुतधारणास् ते विदन्तीति किमु वक्तव्यमित्यन्वयः ॥ ४६ ॥
प्रकाशिका
अत्र कैमुत्यन्यायमाह ॥ त इति ॥ पापजीवाः पापयोनिमाप्ता सज्जीवाः सर्वे । तर्हि किमिति सर्वे मुक्ता नाभूवन्नित्यत आह ॥ यद्यदभुतेति ॥ अत्र विवक्षितयोजनां दर्शयति ॥ तत्परा-यणा इति ॥ अद्भुताः क्रमाः पदन्यासा यस्य हरेः स तथोक्तः । तदाश्रयास्तद्विषयकस्वभावा-स्तद्विषयकशिक्षावन्तश्चेत्यर्थः । अत्रापि कैमुत्यन्यायमाह ॥ तिर्यगिति ॥ जरितर्यादयोऽपि । श्रुते भगवद्रूपे धारणा ध्यानविशेषो येषां ते श्रुतधारणाः ॥ ४६ ॥
शश्वत्प्रशान्तमभयं प्रतिबोधमात्रं
शुद्धं समं सदसतः परमात्मतत्वम् ।
शब्दो न यत्र पुरुकारकवान्क्रियार्थो
माया परैत्यभिमुखे च विलज्जमाना ॥ ४७ ॥
तात्पर्यम्
‘अव्यक्ताद्यनहंमानादात्मतत्त्वं हरिः स्मृतः । अशब्दश्चाप्रसिद्धत्वाच्छान्तः पूर्णसुखत्वत’ इति ब्रह्मतर्के ॥ ४७ ॥
पदरत्नावली
अद्भुतक्रमः किंलक्षणक इति तत्राह- शश्वदिति ॥ यत् शश्वत् सदैकप्रकारम् । प्रशान्तं प्रकृष्टपूर्णसुखम् । अद्वितीयत्वादभयम् । ‘द्वितीयाद्वै भयं भवतीति’ श्रुतेः । यच्च प्रतिबोधमात्रं निर्दोषज्ञानस्वरूपम् । मात्रशब्दोऽवधारणार्थः । प्रतिशब्दो मुख्यार्थः । अत एव शुद्धं रागादिदोष-रहितम् । यच्च समं परमाण्वादिपरममहदन्तेषु पदार्थेषु नातिरेकगुणविधुरम् । वैषम्यादिरहितं वा । सदसतः परं व्यक्ताव्यक्तजगतो विलक्षणम् । आत्मतत्त्वम् अव्यक्तादिसर्वप्रपञ्चेऽहंभावरहितम् । पुरूणि बहूनि कारकपदानि कर्तृकर्मक्रियावाचीनि यस्मिन् सन्ति स तथा । अग्निष्टोमाद्यनेकक्रियार्थः शब्दः वाक्यलक्षणोऽनन्तवेदाख्यः शब्दः यत्र यस्मिन् साकल्येन वाचकत्वेन न वर्तते । तदुक्तम्- ‘अव्यक्ता-द्यनहंमानादात्मतत्वं हरिः स्मृतः । अशब्दश्चाप्रसिद्धत्वाच्छान्तः पूर्णसुखत्वतः ॥’ इति । हरिः स्वयं मायाधीनश्चेत् तदुपासकाः कथं तां तरन्ति इति तत्राह- मायेति ॥ माया संसारकारणं प्रकृतिर् यस्य अभिमुखे स्थातुं विलज्जमाना यस्माद् यदुपासकेभ्यश्च परैति अपसरति दृष्टिमार्गं विहाय वर्तत इति
॥ ४७ ॥
प्रकाशिका
अद्भुतक्रमः किंलक्षणकः(किंलक्षणः कश्च) इत्यपेक्षायामाह ॥ शश्वदिति ॥ अत्र प्रशान्तमिति निर्व्यापारत्वमात्मतत्त्वमित्यात्मनो ज्ञातृजीवस्य तत्त्वं स्वरूपमित्यभेदः, शब्दो यत्र कारकवान् प्रति-पादको नेत्यशब्दत्वमुच्यत इत्यादिप्रतीतिवारणाय प्रमाणेनैव प्रशान्तमित्यादेरर्थं दर्शयति ॥ अव्यक्तादीति ॥ जीवानामिवाव्यक्ताद्यात्मके शरीरे विद्यमानाहंमानाभावादित्यर्थः । तथा चात्मनि स्वाधीनतया शरीररूपकेऽव्यक्तादौ तत्त्वमनारोपितं रूपं यत्तदात्मतत्त्वमिति व्याख्यानं सूचयति । अप्रसिद्धत्वादेव अशब्दो न तु सर्वथाऽवाच्यत्वात् ॥ ततश्चायमर्थः ॥ यच्छश्वत्सर्वदैक-प्रकारम् । प्रशान्तं प्रकृष्टपूर्णसुखम् । प्रतिबोधमात्रं जडामिश्रज्ञानरूपम् । शुद्धं रागादिदोषदूरं, समं सर्वत्रैकप्रकारं, सता कार्येण सहितमसत्कारणं सदसत् तस्मात्परं विलक्षणम् । शब्दो वेदादिरूपो यत्र यस्मिन् पुरु साकल्येन कारकवान् कर्मकारकवान् । तत्प्रतिपादको नेत्यर्थः । कथंभूतः शब्दः क्रियार्थो धात्वादिलब्धार्थः । पदसमन्वयन्यायेन प्रवर्तमानोऽपीत्यर्थः । हरिः स्वयं मायाधीनश्चेत्तदुपासकाः कथं संसारं तरन्तीत्यत आह ॥ मायेति ॥ माया बन्धकप्रकृतिः । परैत्यपसरत्यभिमुखे तदनुग्रहदृष्टिविषये भक्ते । स्थातुमिति शेषः । विलज्जमानेव विलज्जमाना । अनेन हरिकृपादृष्टिविषयो भक्तोऽपि न मायाधीनः किमु हरिरित्युक्तं भवति ॥ ४७ ॥
तद्वै पदं भगवतः परमस्य पुंसो
ब्रह्मेति यद्विदुरजस्रसुखं विशोकम् ।
सम्यङ् निशाम्य यतयो यमलोकहेतुं
जह्युः सुधामिव निपानखनित्रमिन्द्रः ॥ ४८ ॥
पदरत्नावली
यच्च सर्वगुणपूर्णत्वाद्ब्रह्मेति अजस्रसुखं निरन्तरसुखमिति च विदुर् अतीतानागत-वर्तमाना ब्रह्मादयः श्रवणादिभिर्यतमानत्वाद्यतयः साधनपरिपाकेन यत् सम्यक् निशाम्य इन्द्रः सुधां प्राप्य निपानखनित्रं कूपखननसाधनं कुद्दालादीव, यमेनाधिकृतो लोको नरकाख्यस् तस्य हेतुं संसारं जह्युस् त्यजन्ति, परमस्य पुंसो नारायणस्य पदं स्वरूपं तद्वै तादृक् लक्षणकं हीत्यन्वयः । इन्द्र ईश्वरः धनवान् सुधाम् अमृतं जलं प्राप्येति वा ॥ ४८ ॥
प्रकाशिका
एवमद्भुतक्रमलक्षणान्युक्त्वेदानीं ज्ञानिनः संसारत्यागरूपं तरणं दृष्टान्तमुखे-नोपपादयति ॥ तद्वै पदमिति ॥ यतयः श्रवणादिप्रयत्नवन्तोऽजस्रसुखं नित्यसुखमत एव विशोकं यद्ब्रह्मेति विदुः पूर्वज्ञानिनः । अनेनाद्भुतक्रमस्य ब्रह्मत्वं ज्ञानिप्रत्यक्षसिद्धमिति दर्शितम् । तेन तस्याब्रह्मात्मकत्वात्कथं तज्ज्ञानं मोक्षसाधनमिति शङ्का निरस्तेति ज्ञेयम् । तत्परमस्य पुंसो भगवतः पदं स्वरूपं सम्यक् स्वयोग्यतानुसारेण निशाम्यापरोक्षीकृत्य यमलोकहेतुं संसारं जह्युस्त्यजन्ति । वै प्रसिद्धमेतत् । यथेन्द्रः सुधाममृतं निशाम्य निपीयतेऽस्मिन्निति निपानं कूपादि तस्य खनित्रं खननसाधनं कुद्दालादिकं त्यजति तथैवेति ॥ ४८ ॥
स श्रेयसामपि विभुर्भगवान्यतोऽस्य
भावस्वभावविहितस्य सतः प्रसिद्धः ।
देहे स्वधातुविगमे तु विशीर्यमाणे
व्योमेव तत्र पुरुषो न विशीर्यतेऽजः ॥ ४९ ॥
तात्पर्यम्
भावस्वभावो भक्तिस्वभावः । तथा निर्मितस्य सत्पुरुषस्य प्रसिद्धः । ‘भावो भक्तिः प्रणामश्च प्रावण्यमपि चादर’ इत्यभिधानात् ॥ ४९ ॥
पदरत्नावली
इदानीम् एवंविधभगवज्ज्ञानाधिकारी सत्पुरुष इत्याह- स इति ॥ न केवलं धर्मादिसर्वश्रेयसां विभुः स्वामी अपि तु फलदाता च । अधर्मादिसर्वाश्रेयसामपीति वा । भगवान् अनादिकालमारभ्य हरिप्रसादेन परिवृद्धेन भावस्वभावेन भक्तिस्वभावेन विहितस्य निर्मितस्य अस्य सतः जीवराशेः प्रसिद्धः करतलामलकवत् प्रत्यक्षः स्यादिति यतो ऽतोऽत्र सात्विकप्रकृतिजीवराशिस् तादृशज्ञानाधिकारी । एतेनोक्तार्थे ज्ञानिप्रत्यक्षं प्रमाणमुक्तं भवति । ‘भावो भक्तिः प्रणामश्च प्रावण्यमपि चादरः’ इति । उत्पत्तिमतोऽस्यानित्यत्वेन कथं तस्य परमात्मा प्रसिध्येद् इति तत्राह- देह इति ॥ स्वारम्भकाणां पृथिव्यादिधातूनां विगमे विनाशलक्षणविश्लेषे सति, देहे तु विशीर्यमाणे स्वकारणेषु विलीयमाने सति, तत्र देहे स्थितः पुरुषः स्वकर्मानुसारेण पुराणि सरन् स्वतोऽजः जननविधुरोऽपि केवलं देहाभिमानेन जायमानः यथा देहे स्थितं व्योम न विशीर्यते तथा न विशीर्यते । अतो देहस्यैवोत्पत्तिमरणधर्मवत्वाच् चेतनस्य नित्यत्वाद् उचितस् तस्य प्रसिद्धः परम इति । अनेन परमात्माऽपि व्याख्यातस् तत्र जीववद् अभिमाननिमित्तजन्मादिमानपि न भवतीति विशेषः । अत एव दृष्टान्तेन हरेः शश्वत्प्रतिबोधादिरूपत्वं न विघटनीयमिति भावः ॥ ४९ ॥
प्रकाशिका
ज्ञानिनां मोक्षेतरपुरुषार्थमपि भगवानेव ददातीत्याह ॥ स श्रेयसामिति ॥ स ज्ञानिभिरपरोक्षीकृतो भगवान् श्रेयसां ज्ञानिकाम्यानामपि विभुर्दाता न केवलं ‘येषां स एव भगवान्’ इत्यत्रोक्तमोक्षस्य । तत्र हेतुमाह ॥ यत इति ॥ अत्र भावस्वभाव इत्येतद्विवक्षितार्थाप्रतीत्या व्याख्याति ॥ भावस्वभाव इति ॥ भावस्वभाव इत्ययं भावप्रधानो बहुव्रीहिरिति दर्शयन्विहित-स्येत्यस्यार्थमाह ॥ तथेति ॥ तथा भावस्वभावत्वेन । सत इत्यस्य विद्यमानस्येत्यर्थकत्वभ्रमवारणायाह ॥ सत्पुरुषस्येति ॥ कर्तरि षष्ठी । सत्पुरुषेण ज्ञात इत्यर्थः । भावशब्दस्य भक्तिवाचकत्वेऽभिधानं दर्शयति ॥ भाव इति ॥ तथा चायमर्थः ॥ यतो भावो भक्तिः स्वभावो यस्य स भावस्वभावस्तत्त्वेन विहितस्य निर्मितस्य स्वाभाविकभक्तिमत्तयोत्पन्नस्यात एव सतः सत्पुरुषस्यास्य भगवद्दयापात्रस्य । एतादृशेन प्रसिद्धोऽपरोक्षतो ज्ञातोऽतः श्रेयसां विभुरित्यन्वयः । यदि कामादिर्नैमित्तिकभक्तिमता ज्ञातः स्यात्तदा कामितमेकमेव पुरुषार्थं दद्यात् । आजन्मसिद्धस्वाभाविकभक्त्यादिमता ज्ञातस्तु कथमेकमेव पुरुषार्थं दद्यात् । किन्तु समस्तमपि ददातीति ।
ननु देहेन सह नष्टस्य जीवस्य कथमामुष्मिकं पुरुषार्थं भगवान् ददातीत्यत आह ॥ देह इति ॥ स्वारम्भकाणां धातूनां भूतानां विगमे विश्लेषे सति देहे विशीर्यमाणे विलीयमाने सति तत्र देहे विद्यमानः पुरुषो जीवो न विशीर्यते । कुतः । यतोऽजो देहवत् स्वरूपलाभलक्षणोत्पत्तिशून्यः । ननु देहनाशे कथं तदन्तर्गतस्यानाश इत्यतोऽत्र दृष्टान्तमाह ॥ व्योमेवेति ॥ यद्वा । ननु जीववद्भगवतोऽपि देह-स्थत्वाद्देहनाशेन नष्टस्य कथमामुष्मिकपुरुषार्थप्रदत्वमित्यत आह ॥ देह इति ॥ अत्र पुरुषो भगवान् । शिष्टं पूर्ववत् ॥ ४९ ॥
सोऽयं तेऽभिहितस्तात भगवान्विश्वभावनः ।
समासेन हरेर्नान्यदन्यस्मात्सदसच्च यत् ॥ ५० ॥
तात्पर्यम्
‘सत्तादिर्यत्स्वतो विष्णोस्तस्मादन्यः स सर्वतः । यत्सत्तादिरतोऽन्यस्य नान्यत्वं भेदिनोऽपि त्वि’ति ब्रह्माण्डे ॥ ५० ॥
पदरत्नावली
देव देव नमस्तुभ्यमित्यारभ्य प्रश्नप्रतिवचनाभ्यामुक्तमर्थमुपसंहरति- सोऽयमिति ॥ समासेन सङ्क्षेपेण । एतावज्ज्ञानं सर्वथा न विस्मर्तव्यमिति भावेनाह- हरेरिति ॥ चशब्द एवार्थे । यत् सदसत् कार्यकारणात्मकं जगत् तत्सर्वस्मादन्यस्माद्विलक्षणाद्धरेर् नान्यद् भिन्नं न । एतदुक्तं भवति । स्वतो हरेर् भिन्नमपि तदधीनसत्तादिमत्वे स्वातन्त्र्याभावेन अभिन्नमिवोच्यते न तु स्वतो भेदाभावात् । तस्मात् स हरिः स्वतन्त्रोऽन्यदस्मदादिकं सर्वं तदधीनमिति विजानीहीति । तदधीनसत्तादिमत्वात्तदित्युच्यते । तत्र किं मानमित्येतच्चोद्यं ‘सत्तादिर्यत्स्वतो विष्णोस्तस्मादन्यः स सर्वतः’ इत्यादिना परिहर्तव्यम् ॥ ५० ॥
प्रकाशिका
देवदेव नमस्तुभ्यमित्यारभ्य प्रश्नप्रतिवचनाभ्यामुक्तार्थमुपसंहरति ॥ सोऽयमिति ॥ समासेन संक्षेपेण । उक्तेषु प्रमेयेष्विदं सर्वथा न विस्मर्तव्यमिति भावेनोक्तमेव पुनः स्मारयति ॥ हरेरिति ॥ अत्र जगतोऽन्यस्माद्धरेर्यत्सदसदात्मकं कार्यकारणात्मकं जगत्तदन्यन्नेति हरेर्जगदन्यत्वं जगतश्च हर्यनन्यत्वं परस्परं विरुद्धं कथमुच्यत इति शङ्कापरिहारायात्र विवक्षितमन्यशब्दार्थं प्रमाणेनैव दर्शयति ॥ सत्तादिरिति ॥ आदिपदेन प्रतीतिप्रवृत्त्यादेर्ग्रहणम् । स्वतः स्वत एव न जगद्वदन्यस्मा-दित्यर्थः । अन्य इत्युच्यत इति शेषः । अतो विष्णोरन्यस्य जगतः सत्तादिर्यद्यस्माद् अतो विष्णोर्भवतीति शेषः । अतो भेदिनोऽपि विष्णुप्रतियोगिकभेदवतोऽपि । अनन्यत्वं जगद्विष्णोरन्यन्नेति अन्यत्वप्रतिषेधश्चोच्यत इति योजना । अन्यशब्दप्रयोगे निमित्तं हि अन्यान-धीनसत्तादिमत्वं तथा लोके दर्शनात् । तच्च विष्णावस्त्यतो विष्णुरन्यशब्दोक्तः । जगति च तन्नास्ति हर्यधीनसत्तादिमत्वात् । अतो जगद्धरेरन्यन्नेत्युच्यत इति न कोऽपि विरोध इति भावः ॥ ५० ॥
इदं भागवतं नाम यन्मे भगवतोदितम् ।
सङ्ग्रहोऽयं विभूतीनां तदेतद्विपुलीकुरु ॥ ५१ ॥
पदरत्नावली
भगवद्विभूतिसंग्रहरूपमिदं भागवतं पुराणं नृलोके प्रवर्तनाय त्वया व्यासाय विज्ञापनीयमित्यभिप्रायवानाह- इदमिति ॥ सर्गादौ यद्भगवता मे मम उदितं तदिदं भागवतं नाम प्रकाश्यम् । उपदिश्येति शेषः । कस्माद् भागवतमिति प्रकाश्यमिति तत्राह- संग्रह इति ॥ यत्रोद्यत इत्याद्युक्तविभूतीनां ‘सर्गे तु योऽहमि’त्याद्युक्तमायाविभूतीनाञ्च संग्रहः क्रोडीकार इति हेतुगर्भः । सङ्क्षिप्योक्तमिति न श्रद्धेयमिति तत्राह- तदेतदिति ॥ तदेतन्नृलोके ज्ञानप्रवर्तनायावतीर्णव्यासरूप- नारायणाय विज्ञाप्य विपुलीकुरु । एतदर्थविस्ताररूपं भागवतपुराणं कुर्विति विज्ञापयेत्यर्थः । ‘नाम प्रकाश्यसंभाव्यक्रोधापगमकुत्सन’ इति ॥ ५१ ॥
प्रकाशिका
एवं नारदाय हरेर्माहात्म्यं साक्षादवतारान्विभूतिरूपाणि चोपदिश्येदं भगवत्सम्प्र-दायागतमतोऽतीव श्रद्धेयमिति दर्शयन् तस्योत्तरत्र कर्तव्यं निरूपयति ॥ इदमिति ॥ यन्मे भगवतोदितं तदिदं भागवतं नाम प्रसिद्धं तुभ्यं मे मयोदितम् । उदितस्य भागवतनामवत्त्वं कुत इत्यत आह ॥ सङ्ग्रहोऽयमिति ॥ विविधा हरेर्विभूतिर्भवनं येषु ते ब्रह्माद्या विविधा च सा भूतिर्भवनमिति वराहादयश्च विभूतयस्तासाम् । उपलक्षणमेतत् । माहात्म्यानामित्यपि ग्राह्यम् । अयं पूर्वोक्तः सङ्ग्रहः क्रोडीकारो यतोऽत इदं भगवत्सम्बन्धित्वाद्भागवतं नामेत्यर्थः । तदेतन्मयोक्तं विपुलीकुरु । व्यासं प्रत्युक्त्वा तेनैतदर्थप्रतिपादकं पुराणं कारयित्वा लोके विस्तृतं कुर्वित्यर्थः ॥ ५१ ॥
यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधार इति सङ्कल्प्य वर्णय ॥ ५२ ॥
पदरत्नावली
एतदेव विशदयति- यथेति ॥ यथा सात्विकप्रकृतीनां नृणां सर्वात्मनि सर्वस्वामिनि अत एवाखिलाधारे भगवति सर्वोत्तमत्वज्ञानपूर्वकप्रेमलक्षणा भक्तिर्भविष्यति इत्येवं हेतुपूर्वकं सङ्कल्प्य समर्थ्य समाधिभाषया सम्यक् कृत्वा शुकादिशिष्येभ्यो वर्णयेति विज्ञापयेत्यन्वयः ॥ ५२ ॥
प्रकाशिका
व्यासं प्रति कथनप्रकारं दर्शयति ॥ यथेति ॥ यथा येन वर्णितेन वर्णनेन वा नृणां हरौ भक्तिः प्रेमातिशयो भविष्यति तथा तादृशं हरिमाहात्म्यं भक्तिरसोपेतं वर्णनं च सङ्कल्प्य बुद्धिस्थं कृत्वा वर्णय । तादृशं पुराणं कुरु । इति वर्णय व्यासं प्रति विज्ञापयेति योज्यम् । अत्र सर्वात्मनि सर्वस्वामिन्यखिलाधारे भगवतीति विशेषणत्रयं हराविति विशेष्यं च तस्मिन् प्रेमातिशयरूपभक्तेः कर्तव्यत्वोपपादनाय ॥ ५२ ॥
नृजन्मनि न तुष्येत किम्फलं यमनश्वरे ।
कृष्णे यद्यपवर्गेशे भक्तिः स्यान्नानपायिनी ॥ ५३ ॥
तात्पर्यम्
‘आक्षिप्यते किमित्येतद्यतोऽल्पफलता भवेत् । वस्तुनो यस्य चाल्पत्वं पुंसो वा नेति चोच्यत’ इति प्रकाशसंहितायाम् ॥ ५३ ॥
॥ इति द्वितीयतात्पर्ये सप्तमोऽध्यायः ॥ ७ ॥
पदरत्नावली
इतोऽपि हरिभक्तिजनकपुराणरचनमेव तवावतारप्रयोजनं नान्यदित्यभिप्रेत्याह- नृजन्मनीति ॥ भक्तिविषयोऽन्यस् तत्फलदोऽन्य इत्यत उक्तम्- अपवर्गेश इति ॥ कृष्णे पूर्णबलप्राणात्मनि हरौ यद्यनपायिनी नित्या भक्तिर् न चेन् न जायते चेन् नृजन्मा पुमान्, यमनश्वरे यमाद् अन्तकान् नाशं गच्छति नृजन्मनि न तुष्येत अलं पुरुषार्थसाधनां बुद्धिं नाप्नुयात् । धर्मादिफलमस्तीत्याह- किम्फलमिति ॥ धर्मादेर् अनित्यस्वर्गादिफलं किं ? नैव फलम् । अत्यल्पफलत्वादित्यर्थः । तस्मात् कृष्णभक्तेरेव नृजन्मफलत्वात् तत्प्रतिपादकपुराणकरणे विज्ञापनं युक्तमिति भावः ॥ ५३ ॥
प्रकाशिका
ननु किं भक्त्या प्रयोजनं येन तदुत्पत्तिप्रकारं सङ्कल्प्य वर्णयेति विज्ञापनीयमित्यत आह ॥ नृजन्मनीति ॥ किं फलं न किमपि । यमनश्वरे यमेन नाशं गच्छति । अपवर्गेश इत्यनेनापवर्गो भक्तेः प्रयोजनमिति दर्शयति ॥ अनपायिनीति ॥ अनपायिनी नित्या । अत्र किं फलमित्याक्षेपो बाधितः । विषयभोगादिरूपफलस्य सत्वादित्यत आक्षेपोक्तेरभिप्रायं प्रमाणेनैव दर्शयति ॥ आक्षिप्यत इति ॥ यतो यस्य साधनस्याल्पफलता एतत्साधनं किमित्याक्षिप्यते । अनेन किं स्यादित्युत्तरश्लोक-गतसाधनाक्षेपाभिप्राय उक्त इति ज्ञातव्यम् । यस्य च वस्तुनोऽल्पत्वं तदपि किमित्याक्षिप्यते । यस्य वा पुंसोऽल्पत्वं सोऽपि किमित्याक्षिप्यते । एतदुक्तसाधनादित्रयं नेति चोच्यते । न केवलं किं शब्देनाक्षिप्यते किन्तु नञापि इत्यर्थः । अनेन मूले न तुष्येत नृजन्मन्यलम्बुद्धिं नाप्नुयात् । कुत इत्यत उक्तम् ॥ किं फलमिति ॥ नृजन्मन इति शेषः । भोगादिरूपवस्तुजातस्य फलत्वेऽपि तस्याल्प-त्वादाक्षेपः । यस्तुष्येत स किं कुत्सितम् । न । अविद्यमानश्चेति योजना सूचिता ॥ ५३ ॥
किं स्याद्वर्णाश्रमाचारैः किं दानैः किं तपःश्रुतैः ।
सर्वाघघ्नोत्तमश्लोके न चेद्भक्तिरधोक्षजे ॥ ५४ ॥
पदरत्नावली
किं फलमित्युक्तं विवृणोति- किं स्यादिति ॥ किं स्यादित्याक्षेपः । तदुक्तम्- ‘आक्षिप्यते किमित्येतद्यत्राल्पफलता भवेत्’ इति । ‘प्रश्ने क्षेपे विकल्पे किमिति’ यादवः ॥ ५४ ॥
प्रकाशिका
ननु वर्णाश्रमाचारादिभिरेवापवर्गसंभवे किं भक्त्येत्यत आह ॥ किं स्यादिति ॥ भक्त्यजनकैरेतैर्जायमानं फलं किं न किमपि । यच्च जायते फलं तदल्पमतो युक्त आक्षेप इति भावः॥ ५४ ॥
मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदतः ।
शृण्वतः श्रद्धया नित्यं माययाऽऽत्मा न मुह्यति ॥ ५५ ॥
॥ इति श्रीमद्भागवते द्वितीयस्कन्धे सप्तमोऽध्यायः ॥
पदरत्नावली
भागवतपुराणोक्तप्रकारेण भगवति भक्तिं कुर्वतः पुंसः पुत्रकलत्रादिलक्षणा माया संसारहेतुर् न स्यात् । अत एतत्पुराणकरणं विज्ञापनीयमिति भावेनाह- मायामिति ॥ अमुष्य ईश्वरस्य जगत्स्रष्टृत्वादिलक्षणां मायां माहात्म्यं सद्गुरुमुखाच्छ्रुत्वा मननपूर्वकं सच्छिष्येभ्यो वर्णयतस् तथा तां मायां श्रद्धया अनुमोदतो ऽनुमोदमानस्य तथा व्याख्यानाद्यशक्त्या शृृण्वतः यावज्जीवं श्रवणैकपरायणस्य पुंस आत्मा मनः मायया बन्धकशक्त्या न मुह्यति अहङ्कारममकाराभ्यां न भ्रमतीत्यतः सर्वसज्जन-पुरुषार्थकारणं भागवतकरणविज्ञापनमिति भावः । अमुष्य ईश्वरस्येति सन्ध्यकरणेनास्य भागवतस्य वेदसाम्यं सूचयति । यद्वा ईश्वरशब्देन शिवो नोच्यते । तद्विलक्षणशील ईः लक्ष्मीस् तस्या ईश्वरो नारायण इति द्योतयति । अत्र सवर्णदीर्घत्वम् अनुसन्धेयमिति ॥ ५५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम् ॥
॥ द्वितीयस्कन्धे सप्तमोऽध्यायः ॥
प्रकाशिका
उक्तकथां कथयतः शृृण्वतोऽनुमोदतश्च फलमाह ॥ मायामिति ॥ मायां पूर्वोक्तं माहात्म्यं, मायया बन्धकशक्त्या कैवल्यादिरूपयाऽऽत्मा मनो न मुह्यति । अहङ्कारममकाराभ्यां न भ्रमतीत्यर्थः ॥ ५५ ॥
॥ इति श्रीभागवतटिप्पण्यां सप्तमोऽध्यायः ॥ २-७ ॥