०६ षष्ठोऽध्यायः

वाचो वह्नेर्मुखं क्षेत्रं छन्दसां सप्तधातवः

अथ षष्ठोऽध्यायः

ब्रह्मोवाच—

वाचो वह्नेर्मुखं क्षेत्रं छन्दसां सप्तधातवः ।

हव्यकव्यामृतान्नानां जिह्वा सर्वरसस्य च ॥ १ ॥

पदरत्नावली

आध्यात्मिकाधिदैविकाधिभौतिकादिरूपस्य जगतो हरेर्मुखादिरूपस्य उत्पत्तिस् तस्य ततो भिन्नत्वं तदुत्तमत्वं प्रतिमावदस्य रूपत्वञ्च प्रतिपाद्यतेऽस्मिन्नध्याये । तत्र प्रथममध्या-त्मेन्द्रियतदभिमानिदेवतादिसर्वपदार्थानां तदङ्गेभ्य उत्पत्तिप्रकारमाह- वाच इत्यादिना ॥ वाचो वागिन्द्रियस्य वक्तव्यस्य च तदभिमानिनो वह्नेर् अग्निदेवस्य च पुरुषस्य मुखं क्षेत्रं योनिः कारणम् उत्पादकमित्यर्थः । ‘क्षेत्रं पुरे गृहे देहे केदारे योनिभार्ययोः’ इति । ‘योनिः स्त्रीणां भये स्थाने कारणं ताम्रके पणे’ इति च यादवः । गायत्र्युष्णिगनुष्टुप्बृहतीपंक्तित्रिष्टुप्जगतीसंज्ञानां सप्तानां छन्दसाम् अस्य पुरुषस्य त्वक्चर्ममांसरुधिरमेदोमज्जास्थ्याख्याः सप्त धातवः क्षेत्रमित्यनुवर्तते । अत्र तदुत्पन्नत्वं तदाश्रितत्वञ्चेति तात्पर्यम् उत्तरत्राप्युनुसन्धेयम् । हव्यादिसर्वान्नानां जिह्वेन्द्रियस्य च कषायमधुरादि-सर्वरसस्य च तस्य पुरुषस्य जिह्वा क्षेत्रम् ॥ १ ॥

प्रकाशिका

इदानीं चक्षोःसूर्योऽजायत, मुखादिन्द्रश्चाग्निश्च, दिशःश्रोत्रादित्यादिना तदङ्गेभ्यो यदिन्द्रियदेवतादिजननं संक्षेपेणोक्तं तदुपलक्षणमित्यभिप्रेत्येन्द्रियदेवतादिजनकाङ्गत्वरूपं सूत्रोक्तं माहात्म्यं दर्शयति ॥ वाच इत्यादिना ॥ वाचो वागिन्द्रियस्य वह्नेस्तदभिमानिनो देवस्य वक्तव्यस्य च पुरुषस्य मुखं क्षेत्रमुत्पत्तिस्थानमाश्रयश्च । गायत्र्युष्णिक्-अनुष्टुप्-बृहती-पङ्क्ती-त्रिष्टुप्-जगती संज्ञानां छन्दसामस्य पुरुषस्य त्वक्चर्ममांसरुधिरमेदोमज्जास्थ्याख्याः सप्त धातवः क्षेत्रम् । क्षेत्रमित्यस्य सर्वत्रानुवृत्तिः । हव्यं देवानामन्नम् । कव्यं पितॄणाम्, अमृतं तदुभयोः । शेषं मनुष्याणाम् । तेषामन्नानां सर्वरसस्य मधुरादेः षड्विधस्य । चकाराद्रसनेन्द्रियस्य तदभिमानिनो वरुणस्य च पुरुषस्य जिह्वा क्षेत्रम् । एवं सर्वत्रानुक्त-मुन्नेयम् ॥ १ ॥

सर्वासूनाञ्च वायोश्च तन्नासे परमायने ।

अश्विनोरोषधीनाञ्च घ्राणो गन्धस्य चैव हि ॥ २ ॥

पदरत्नावली

सर्वासूनां सर्वमरुतां मुख्यवायोश्च तन्नासे तस्य हरेर् नासापुटे क्षेत्रे परमायने च उत्तमाश्रयणे च । अभिमानिनोरश्विनोर् व्रीह्याद्योषधीनाञ्च घ्राणेन्द्रियस्य च गन्धस्य सुरभ्यसुरभिलक्षणस्य च तस्य घ्राणः क्षेत्रम् । नपुंसकस्य घ्राणस्य पुंशक्तिमत्वद्योतनाय घ्राण इत्युक्तम् । क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका’ इत्यमरः ॥ २ ॥

प्रकाशिका

सर्वासूनां मरुतां मुख्यवायोश्च तस्य पुरुषस्य नासे नासापुटे परमायने उत्तमक्षेत्रे । अश्विनोर्घ्राणाभिमानिनोर् ओषधीनां व्रीह्यादीनां पुरुषस्य घ्राणो घ्राणेन्द्रियम् । गन्धस्य सुरभ्यादिरूपस्य । चशब्दाद्घ्राणेन्द्रियस्य च । पुंशक्तिमत्वाद्घ्राण इति पुल्लिङ्गः ॥ २ ॥

रूपाणां तेजसां चक्षुर्दिवः सूर्यस्य चाक्षिणी ।

कर्णौ दिशाञ्च तीर्थानां श्रोत्रमाकाशशब्दयोः ॥ ३ ॥

तात्पर्यम्

तीर्थानां शास्त्राणाम् ॥ ३ ॥

पदरत्नावली

चक्षुरिन्द्रियस्य तद्विषयाणां च रूपाणां, विषयप्रकाशकानां च तेजसां ज्योतिषां हरेश् चक्षुः क्षेत्रम् । दिवः द्युलोकस्य, अभिमानिनः सूर्यस्य च हरेर् अक्षिणी चक्षुर्गोलके क्षेत्रमिति शेषः । दिशां दिग्देवतानां, तीर्थानां शास्त्राणाञ्च हरेः कर्णौ क्षेत्रम् । ‘तीर्थं मन्त्राद्युपाध्याये शास्त्रेष्वम्भसि पावन’ इत्यभिधानम् । श्रोत्रेन्द्रियस्य तद्विषयस्य शब्दस्य आकाशस्य च हरेः श्रोत्रेन्द्रियं कारणम् ॥ ३ ॥

प्रकाशिका

चक्षुरिन्द्रियस्य तद्विषयाणां रूपाणां तेजसां विषयप्रकाशकानां ज्योतिषां पुरुषस्य चक्षुश्चक्षुरिन्द्रियम् । दिवो द्युलोकस्य चक्षुरभिमानिनः सूर्यस्याक्षिणी चक्षुर्गोलके क्षेत्रम् । कर्णौ श्रोत्रगोलके दिशां श्रोत्राभिमानिदिग्देवतानाम् । तीर्थानामित्येतद्भागीरथ्यादितीर्थानामिति प्रतीतिवारणाय यथावद्व्याचष्टे ॥ तीर्थानां शास्त्राणामिति ॥ अन्यथा नाड्यो नदनदीनां चेत्यनेन पौनरुक्त्यप्रसङ्ग इति भावः । श्रोत्रं पुरुषस्य श्रोत्रेन्द्रियम् । आकाशशब्दयोरित्यत्र श्रोत्रेन्द्रियमपि ग्राह्यम् ॥ ३ ॥

तद्गात्रं वस्तुसाराणां सौभाग्यस्य च भाजनम् ।

त्वगस्य स्पर्शवायोश्च सर्वमेधस्य चैव हि ॥ ४ ॥

पदरत्नावली

वस्तुसाराणां वस्तुश्रेष्ठानां वस्तुबलानां वा सौभाग्यस्य च तस्य हरेर् गात्रम् उत्पादकं, भाजनं निधानं निधानपात्रञ्च । त्वगिन्द्रियस्य स्पर्शगुणस्य स्पर्शाभिमानिनो वायोः सर्वमेधस्य सर्वयज्ञस्य च अस्य हरेस् त्वगिन्द्रियं क्षेत्रम् ॥ ४ ॥

प्रकाशिका

वस्तुसाराणां वस्तुश्रेष्ठानां तस्य हरेर्गात्रं शरीरं भाजनं क्षेत्रम् । अस्य पुरुषस्य त्वगिन्द्रियं स्पर्शवायोः स्पर्शेन सहितो वायुस्त्वगिन्द्रियाभिमानी देवस्तस्य । सर्वमेधस्य सर्वयज्ञस्य । चशब्दात्त्वगिन्द्रियस्य । हिशब्देनात्र सर्वत्र वैदिकीप्रसिद्धिः प्रमाणमिति सूचयति । त्वगेवेति सम्बन्धः । तेनोपलक्षणतया सर्वत्रेतरकारणाभावं सूचयति ॥ ४ ॥

रोमाण्युद्भिजजातीनां यैर्वा यज्ञस्तु सम्भृतः ।

केशश्मश्रुनखान्यस्य शिलालोहाभ्रविद्युताम् ॥ ५ ॥

तात्पर्यम्

याज्ञिका रोममूलस्था रोमान्तस्थास्तु तत्परे । उद्भिजो वासुदेवस्य लिङ्गगास्तु जरायुजा इति पाद्मे । हरेः श्मश्वाश्रया विद्युच्छिलालोहा नखाश्रया’ इत्याग्नेये ॥ ५ ॥

पदरत्नावली

यैर् उद्भिजजातिविशिष्टैः पलाशादिवृक्षैर् यज्ञः सम्भृतः सम्पादितः । यज्ञ-कारिभिरिति शेषः । तेषाम् उद्भिजजातीनां वृक्षाणां हरेः रोमाणि रोममूलानि क्षेत्रम् । यैर् अयज्ञः सम्भृतः, यज्ञाद् अन्यः कार्यविशेषः साधितः, तेषां हरेः रोमान्तर्भागाः । अयं विकल्पो वाशब्द-सूचितात् ‘याज्ञिका रोममूलस्था रोमान्तस्थास्तु तत्परे’ इति वचनाज् ज्ञायते । तुशब्द उक्तार्थावधृतौ वर्तते । अस्य हरेः केशा अभ्राणां, श्मश्रूणि विद्युतां, शिलालोहानां नखानि क्षेत्रम् । ‘पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियामि’त्यमरः । ‘हरेः श्मश्वाश्रया विद्युच्छिलालोहा नखाश्रयाः’ इति वचनात् ॥ ५ ॥

प्रकाशिका

रोमाणीत्यत्र वा इत्यनेन सूचितं व्यवस्थितविकल्पं प्रमाणेनैव दर्शयति ॥ याज्ञिका इति ॥ यज्ञोपयुक्ता उद्भिजो वृक्षा इत्यन्वयः । लिङ्गगा इत्यनेन पुंसः शिश्न इति वक्ष्यमाणमूले इदमप्युपलक्ष्यमिति सूचयति । तथा चोद्भिजजातीनां वृक्षाणां मध्ये यैर्यज्ञः संभृतः संपादितः । यजमानैरिति शेषः । तेषामेव पलाशादीनामस्य रोमाणि रोममूलानि क्षेत्रम् । यैरयज्ञो यज्ञेतरकार्यविशेषः संभृतस्तेषां रोमाणि तदग्राणि क्षेत्रमिति मूलं योज्यमिति भावः । मूले तुशब्द उक्तार्थावधारणपरः । केशश्मश्रुनखानीत्यत्र यथाक्रमं सम्बन्धे विद्युदतिरिच्यतेऽतो यथायोग्यसम्बन्ध इत्याशयेनात्र प्रमाणमाह ॥ हरेरिति ॥ तथा चायमर्थः ॥ अस्य हरेः केशा अभ्राणां क्षेत्रम् । पूर्वमीशस्य केशान्विदुरम्बुवाहा-नित्युक्तत्वात् । श्मश्रूणि विद्युतां, शिलालोहानां नखानि क्षेत्रमिति ॥ ५ ॥

बाहवो लोकपालानां प्रायशः क्षेमकर्मणाम् ।

विक्रमो भूर्भुवःस्वश्च क्षेमस्य शरणस्य च

सर्वकामवरस्यापि हरेश्चरण आस्पदम् ॥ ६ ॥

तात्पर्यम्

ब्राह्मणवैश्यादीन्वर्जयितुं प्रायश इति । ‘मोक्षः शान्तिश्च शरणं निर्वाणं चाभिधीयत’ इति ब्राह्मे । ‘भेजे खगेन्द्रध्वजपादमूलमि’ति च । स्वोत्पत्त्यङ्गेषु देवानामन्येषां पादमूलतः । मुक्तिस्तु विहिता विष्णोर्निर्दिष्टेषु यथावच’ इत्यध्यात्मे ॥ ६ ॥

पदरत्नावली

ब्राह्मणवैश्यादीन् वर्जयितुं प्रायश इत्युक्तम् । भूर्भुवःस्वरिति भुवनत्रयमस्य हरेर् विक्रमः पादविक्षेपस्थानम् । क्षेमस्य मङ्गलस्य प्राप्तरक्षाया वा, शरणस्य मोक्षस्य च, सर्वकामवरस्य च सर्वाभिमतलाभस्य च हरेश् चरण आस्पदम् । दातृत्वेनेति शेषः । ‘मोक्षः शान्तिश्च शरणं निर्वाणञ्चाभिधीयत’ इति वचनात् शरणं मोक्षः । ‘भेजे खगेन्द्रध्वजपादमूलं’ इत्यतो मोक्षोऽपि पादमूलमिति भावः । ‘स्वोत्पत्यङ्गेषु देवानाम् अन्येषां पादमूलतः । मुक्तिस्तु विहिता विष्णोर्निर्दिष्टेषु यथा वचः ॥’ इति वचनाच् चशब्दसूचितान्नोक्तविरोधः ॥ ६ ॥

प्रकाशिका

क्षेमकर्मणां लोकक्षेमकर्मणाम् । अत्र प्रायःशब्दव्यावर्त्याप्रतीतेराह ॥ ब्राह्मणेति ॥ सत्यादिलोकपालेषु ब्रह्माग्नी ब्राह्मणौ, कुबेरो वैश्यो, निर्ऋतिः शूद्र, एतेषां बाहुजत्वं परिहर्तुं प्रायश इत्युक्तमित्यर्थः । तथा चैतान्विना ये इन्द्रादयो लोकपालाः क्षत्रियास्तेषां बाहवः क्षेत्रमिति भावः । भूर्भुवःस्वश्च पृथिव्यन्तरिक्षस्वर्गाणां विक्रमः पादविक्षेप आस्पदमाश्रय इत्यन्वयः । भूरादिशब्दा-नामव्ययत्वात् षष्ट्या लुक् । क्षेमस्य प्राप्तरक्षणस्य । शरणस्येत्येतद्भयाद्रक्षणस्येति व्याख्यानेऽल्पार्थता स्यादतो मोक्षस्येति व्याख्येयमित्याशयेन शरणशब्दस्य मोक्षवाचकत्वे प्रमाणमाह ॥ मोक्ष इति ॥ प्रमाणान्तरसंवादाच्चायमेवार्थ इत्याशयेन मोक्षस्य हरिचरण आस्पदमित्यत्र प्रमाणमाह ॥ भेज इति ॥ नन्विदमयुक्तम् । सायुज्यभाजां देवानां पादमूले मुक्त्यभावादतोऽत्र विवक्षितानधिकारिणो दर्शयितुं देवादीनामधिकारिणां मुक्तिस्थानभेदं प्रमाणेनैव दर्शयति ॥ स्वोत्पत्त्यङ्गेष्विति ॥ स्वेषामुत्पत्तिर्येषु तेषु विष्णोरङ्गेष्वित्यर्थः । देवानां तत्त्वाभिमानिनाम् । अन्येषामप्रतीकालम्बनानाम् । पादमूलतः पादमूलं वैकुण्ठमहरादिमाश्रित्य मुक्तिः स्वरूपानन्दानुभवरूपा । तुशब्दोऽप्रतीकालम्बनत्वादिरूपाधिकारि- विशेषद्योतकः । चक्षोः सूर्योऽजायतेत्यादिवेदे निर्दिष्टेषु विष्णोः स्वोत्पत्त्यङ्गेषु यथावचस्तत्तद्वेद-वचनमनतिक्रम्य देवानां मुक्तिर्विहितेत्यन्वयः । तथा च येषामधिकारिणां पादमूले मुक्तिस्तदभिप्रायेणेदं वचनमिति भावः । मूले सर्वकामवरस्यापीत्यत्र सर्वेषां कामानां वरस्य वरणस्य लाभस्येति यावदिति व्याख्या द्रष्टव्या ॥ ६ ॥

अपां वीर्यस्य सर्गस्य पर्जन्यस्य प्रजापतेः ।

पुंसः शिश्न उपस्थस्तु प्रजात्यानन्दनिर्वृतेः ॥ ७ ॥

पदरत्नावली

अपां जलस्य, वीर्यस्य रेतसः, सर्गस्य सृष्टेः, जलाभिमानिनः पर्जन्यस्य, सर्गाभिमानिनो दक्षप्रजापतेः, शिश्नस्य च परस्य पुंसः शिश्नः क्षेत्रम् । प्रजातिः प्रजननं, आनन्दः सुखं ताभ्यां सहिताया निर्वृतेर् अथवा प्रजातिर् मैथुनक्रिया तन्निमित्तादानन्दाद् या निर्वृतिस् तस्या हरेर् उपस्थः गुह्येन्द्रियं तुशब्दाद् गुह्येन्द्रियस्य च क्षेत्रम् ॥ ७ ॥

प्रकाशिका

वीर्यस्य रेतसः, सर्गस्य सृष्टेः पर्जन्यस्य जलाभिमानिनो देवस्य प्रजापतेः सर्गाभिमानिनो दक्षस्य । पुंसः परमपुरुषस्य शिश्नो गुह्येन्द्रियगोलकम् । उपस्थो गुह्येन्द्रियम् । तुशब्द उक्तावधारणार्थः । प्रजात्यानन्दः सन्तानार्थं सम्भोगस्तेन निर्वृतिस्तापहानिस्तस्याः ॥ ७ ॥

पायुर्यमस्य मित्रस्य परिमोक्षस्य नारद ।

हिंसाया निऋतेर्मृत्योर्निरयस्य गुदः स्मृतः ॥ ८ ॥

पदरत्नावली

मित्रनाम्नो देवस्य पाय्विन्द्रियस्य तद्विषयस्य परिमोक्षस्य गुदक्रियाविशेषस्य यमनाम्नो देवस्य च पुंसः पाय्विन्द्रियं क्षेत्रमित्येतन् मन्दमतीनां सुबोधार्थमन्वीयते । हिंसादीनां पुंसो गुदो ऽपानद्वारं क्षेत्रम् ॥ ८ ॥

प्रकाशिका—पायुरिन्द्रियम् । परिमोक्षस्य मलविसर्जनस्य । गुदः पाय्विन्द्रियाधिष्ठानमपानद्वारम्

॥ ८ ॥

पराभूतेरधर्मस्य तमसश्चापि पश्चिमः ।

नाड्यो नदनदीनान्तु गोत्राणामस्थिसंहतिः ॥ ९ ॥

पदरत्नावली

पराभूतेः पराजयस्य अलक्ष्म्या वा । अधर्मस्य पापस्य तदभिमानिनो ऽधर्मस्य कलेश्च, तमसस् तमोगुणस्य च पुंसः पश्चिमः पृष्ठभागः क्षेत्रम् । नदनदीनां तुशब्दाद् इतरनदीनां च पुंसो नाड्यः क्षेत्रम् । गोत्राणां पर्वतानां हरेर् अस्थ्नां संहतिः क्षेत्रम् ॥ ९ ॥

प्रकाशिका

पराभूतेः पराजयस्य । अलक्ष्म्याश्च । तमसोऽज्ञानस्य पश्चिमः पृष्ठभागः । तु- शब्दो नदीष्ववान्तरलक्षणद्योतनार्थः । गोत्राणां पर्वतानामस्थ्नां संहतिः समूहः ॥ ९ ॥

अव्यक्तरससिन्धूनां भूतानां निधनस्य च ।

उदरं विदितं पुंसो हृदयं मनसः पदम् ॥ १० ॥

पदरत्नावली

अव्यक्तस्य मूलप्रकृतेः । रसानां मधुरादीनाम् । सिन्धूनां समुद्राणाम् । भूतानां जीवानां निधनस्य च संहारस्य च पुंस उदरं क्षेत्रमिति विदितम् । मनसः परस्य हृदयं पदं क्षेत्रम्

॥ १० ॥

प्रकाशिका

अव्यक्तं प्रधानम् । रसो मधुरादिः । सिन्धवः समुद्राः । भूतानि पृथिव्यादीनि । प्राणिनो वा । निधनं प्रलयः । एतेषां पुंस उदरं पदं स्थानं विदितम् । ज्ञानिभिरिति शेषः । पुंसो हृदयं मनसः पदम् ॥ १० ॥

धर्मस्य मम तुभ्यञ्च कुमाराणां भवस्य च ।

विज्ञानस्य च तत्वस्य परस्यात्मा परायणम् ॥ ११ ॥

तात्पर्यम्

‘कुमारब्रह्मरुद्राद्या हरेर्मध्यात्समुद्गता’ इति वामने । आत्मेति मध्यदेहश्च सर्वदेहोऽपि वा भवेत् । मनोबुद्धिरहङ्कारश्चित्तं जीवश्च कथ्यते । अथवा स्वयमेवेति वायुर्ब्रह्माऽपि वा भवेत् । मुख्यतो ब्रह्म परममात्मशब्देन भण्यत’ इति नाममहोदधौ । ‘देहेन्द्रियादिभेदेन निर्भेदोऽपि हरिः स्वयम् । भण्यते केवलैश्वर्यादनाद्यानन्दचिद्धन’ इति गारुडे ।

पदरत्नावली

धर्मस्य सुकृतस्य तदभिमानिनो धर्माख्यदेवस्य, चतुर्मुखनाम्नो मम, तुभ्यं तव, कुमाराणां सनकादीनां चतुर्णां, भवस्य रुद्रस्य च, विज्ञानस्य तत्वस्य च, तदभिमानिन्याः सरस्वत्याश्च परस्य पुंस आत्मा मध्यदेहः परायणम् । ‘कुमारब्रह्मरुद्राद्या हरेर्मध्यात्समुद्गताः’ इत्यनेन ‘आत्मा जीवे धृतौ देहे’ इत्याद्यभिधानमपविद्धम् ॥ ११ ॥

प्रकाशिका

धर्मस्य सुकृतस्य तदभिमानिनो धर्माख्यदेवस्य । तुभ्यं तव । कुमाराणां सनकादीनां चतुर्णाम् । भवस्य रुद्रस्य ॥ विज्ञानस्य तत्त्वस्य तदभिमानिन्याः सरस्वत्याश्च परस्य हरेरात्मा परायणं क्षेत्रम् । आत्मशब्दो मध्यदेहपर इत्याशयेनात्र प्रमाणसंवादमाह ॥ कुमारेति ॥ आद्यपदेन धर्मनारदादीनां ग्रहणम् । आत्मशब्दस्य मध्यदेहवाचित्वेऽभिधानमप्याह ॥ आत्मेति ॥ वाचो वन्हेर्मुखं क्षेत्रमित्यारभ्य परस्यात्मा परायणमित्यन्तेन ग्रन्थेन देहेन्द्रियादेः पृथग्व्यवहारेण भेदमाशङ्क्याचिन्त्यैश्वर्यवशाद्भेदाभावेऽपि तथा व्यवहार इति प्रमाणेनैव दर्शयति ॥ देहेन्द्रिय इति ॥ आदिपदेनावयवादेर्ग्रहणम् ॥ ११ ॥

अहं भवान् भवश्चैव य इमे मुनयोऽग्रजाः ।

सुरासुरनरा नागाः खगा मृगसरीसृपाः ॥ १२ ॥

गन्धर्वाप्सरसो यक्षा रक्षोभूतगणोरगाः ।

पशवः पितरः सिद्धा विद्याध्राश्चारणाद्रुमाः ॥ १३ ॥

अन्ये च विविधा जीवा जलस्थलनभौकसः ।

ग्रहर्क्षकेतवस्तारास्तडितः स्तनयित्नवः ॥ १४ ॥

सर्वं पुरुष एवेदं भूतं भव्यं भवच्च यत् ।

तेनेदमावृतं विश्वं वितस्तिमधितिष्ठता ॥ १५ ॥

तात्पर्यम्

‘सर्वं पुरुष एवेति भण्यतेऽभेदवज्जगत् । तदधीनं तु सत्तादि यतो ह्यस्य सदा भवेदि’ति ब्रह्मतर्के । ‘वितस्तिमात्रं हृदयमास्थाय व्याप्नुते जगदि’ति गारुडे ॥ १५ ॥

पदरत्नावली

सृजामि तन्नियुक्तोऽहमिति यत्सर्वस्वातन्त्र्यं हरेरुक्तं तत्पुरुषसूक्तसंवादेन विवृणोति- अहं भवानित्यादिना ॥ अग्रजा मुनयः सनकादयः । घटादिवन्न भातीति नभ आकाशो ऽकारान्तोऽप्यस्ति । यदेतदस्मदादिकम् आतृणं भूतं भव्यं जगद् एतस्माद्धरेरुत्पन्नं तदिदं सर्वं पुरुष एव पुरुषाधीनसत्ताद्येव । त्रिकालमपि तदधीनमेव । न तु तेनैकीभूतम् । ‘यदधीना यस्य सत्ता तत्तदीत्येव भण्यत’ इति वचनात् । यद्वा पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यमिति पुरुषेणैवेदं व्याप्तम् आतृणादा-करीषात् सर्वं भगवानिति मिथ्या दृष्टिरेषा’ इति श्रुतेः । तामेव व्याप्तिं स्पष्टीकरोति- तेनेदमिति ॥ वितस्तिमात्रं जीवहृदयम् अधितिष्ठता तेन पुरुषेण । ‘सर्वं पुरुष एवेति भण्यतेऽभेदवज्जगत्’ वितस्तिमात्रं हृदयमास्थाय व्याप्नुते जगत्’ इत्यादेः सर्वं सिद्धम् ॥ १२-१५ ॥

प्रकाशिका

एवं चक्षोः सूर्योऽजायतेत्यादिकमुपलक्षणमित्यभिप्रेत्य भगवदङ्गेभ्य इन्द्रियादि-सृष्टिमुक्त्वेदानीं पुरुष एवेदं सर्वमित्यर्धर्चोक्तं माहात्म्यं सर्वशब्दार्थविवरणपूर्वकं दर्शयति ॥ अहं भवानिति ॥ अग्रजा मुनयः सनकादयः ॥

जलं च स्थलं च नभश्चौकांस्यावासस्थानानि येषां ते जलस्थलनभौकस इति संधिश्छान्दसः । न भातीति व्युत्पत्त्या यौगिको नभशब्दोऽयमन्य एवाकारान्त आकाशवाचीत्याचार्याः ॥

इदं पूर्वोक्तं सर्वं भूतमतीतं, भव्यम् भविष्यत् । ऋगुक्तमुपलक्षणमित्याशयेनाह ॥ भवद्वर्तमानं चेति ॥ अत्रेदं सर्वं पुरुष एवेति सर्वस्य पुरुषाभेद उच्यत इति भाति । अतस्तदुक्तेरभिप्रायं प्रमाणेनैव दर्शयति ॥ अभेदवदिति ॥ अत्र भिद्यत इति व्युत्पत्त्या भेदशब्दो भिन्नपरः । तथा चाभिन्नव-दित्यर्थः । यथा केनचिदभिन्नं वस्तु तद्व्यतिरेकेणेदं नास्तीत्युच्यते तथेति भावः । सत्तादीत्यत्रादिपदेन प्रतीतिप्रवृत्त्योर्ग्रहणम् । हीत्यनेनात्र ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यत’ इत्यादि प्रमाणप्रसिद्धिं दर्शयति । सदेत्यनेन यत्सर्वदा यदधीनसत्तादिकं तद्व्यतिरेकेण नास्तीत्युच्यत इति लोके दर्शनादयमुपचार इति सूचयति । स भूमिं विश्वतो वृत्वेत्यर्धर्चोक्तं माहात्म्यमाह ॥ तेनेदमिति ॥ अत्र क्रमव्यत्यासो नाशङ्क्यः । यथास्थितक्रमस्य मूले वेद एव स्थित्योपवेदादौ तदभावात् । यथाहुः ॥ अन्यथात्वं च तत्र स्यादावापोद्वापतस्त्वृचामिति । अतो मूले वेदादिगतक्रमानुसारेणायं ग्रन्थः प्रवृत्त इति प्रतिभाति । अत एवात्र परित्यक्तऋगुक्तमाहात्म्यं दर्शयितुं स्वधिष्ण्यमित्यादि वक्ष्यति । अत्र वितस्तिशब्देन किमधिष्ठान-तयोच्यत इति न भातीत्यतः प्रमाणेनैवार्धर्चतात्पर्यं दर्शयति ॥ वितस्तिमात्रमिति ॥ तथा च मूले दशाङ्गुलमित्यस्यार्थः ॥ वितस्तिमिति ॥ अतीत्यस्याधीति । भूमिमित्यस्योपलक्षणतया विश्वमिति । तथा चायं मन्त्रार्थः सूचितः । स पुरुषो दशाङ्गुलं वितस्तिमात्रपरिमितं लोकानां हृदयमति आधिक्येन वृत्वाऽऽस्थाय भूमिं तदुपलक्षितं जगद्विश्वतः सर्वतः स्वल्पमपि प्रदेशमविहायातिष्ठद्व्याप्तवानिति । आदौ सर्वप्राणिहृदयमाविश्य बहिरपि व्याप्तवानित्याशयः ॥ १२-१५ ॥

स्वधिष्ण्यं प्रतपन्प्राणो बहिश्च प्रतपत्यसौ ।

एवं विराजं प्रतपंस्तपत्यन्तर्बहिः पुमान् ॥ १६ ॥

तात्पर्यम्

पश्यन् स्वधिष्ण्यं देहं स बहिष्ठान्विषयानपि । एवमण्डान्तरं पश्यन्बहिः सर्वं च पश्यती’ति वामने ॥ १६ ॥

पदरत्नावली

हृदयोपाध्यवच्छिन्नस्य हरेर् जीववैलक्षण्यमाह- स्वधिष्ण्यमिति ॥ ‘तप सन्तापदर्शनयोः’ इति धातोः स्वधिष्ण्यं स्वस्थानं हृदयमधिष्ठाय अन्तः सर्वं प्रतपन् पश्यन् असौ प्रकृष्टचेष्टायोगात्प्राणनामा परमात्मा देहाद्बहिश्च बहिष्ठान् विषयानपि प्रतपति पश्यति । एवं विराजं विराजाख्याण्डं तदन्तःस्थितान् सर्वपदार्थान् प्रतपन् बहिर् ब्रह्माण्डाद्बहिष्ठान् विशेषादिमूलप्रकृत्यन्तान् सर्वान् पदार्थान् अशेषविशेषाकारेण तपति पश्यति । ‘पश्यन् स्वधिष्ण्यं देहं स बहिष्ठान्विषयानपि एवमण्डान्तरं पश्यन् बहिः सर्वञ्च पश्यति ॥’ इति वचनात् ॥ १६ ॥

प्रकाशिका

अत्र देहान्तर्बहिश्च व्याप्तेः प्रयोजनं वक्तुं प्रवृत्ता या त्यक्ता ऋक् तदुक्तं माहात्म्यमाह ॥ स्वधिष्ण्यमिति ॥ तत्र ऋगुक्तानुसारेण प्राण इत्युक्तम् । अत्र स्वधिष्ण्यप्रतपन्-शब्दयोर्विवक्षितमर्थं दर्शयन् श्लोकव्याख्यानरूपं प्रमाणमुदाहरति ॥ पश्यन्निति ॥ ततश्चायं श्लोकार्थः ॥ प्राणः प्रकृष्टचेष्टकोऽसौ पुमान्पुरुषो यथा स्वधिष्ण्यं देहं प्रतपन् पश्यन् बहिर्देहाद्बहिरपि तपति विषया-न्पश्यति । एवं विराजं ब्रह्माण्डमन्तः प्रतपन् बहिरपि विद्यमानान्पदार्थान्प्रतपति पश्यतीति ॥ १६ ॥

सोऽमृतस्याभयस्येशो मर्त्यमन्नं यदत्यगात् ।

महिमैष ततो ब्रह्मन्पुरुषस्य दुरत्ययः ॥ १७ ॥

तात्पर्यम्

अव्यक्तमात्मनोऽन्नं च महदादि विनाशि च । यदतीतः परो विष्णुः स एवातो विमोक्षद’ इति नारदीये ॥ १७ ॥

पदरत्नावली

नन्वस्तु अमुक्तप्रपञ्चाद्वैलक्षण्यम् । मुक्तप्रपञ्चवैलक्षण्यं कुत इति तत्राह- स इति ॥ सः पुरुषो ऽभयस्य जननादिभयरहितस्य अमृतस्य अनन्तमुक्तसमुदायस्य ईशः स्वामी । सर्वाभीष्टदानेनेति शेषः । आत्मनोऽन्नं भोग्यं नित्यमुक्तलक्ष्मीतत्वं तदभिमन्यमानमव्यक्तं जडं तत्कार्यं मर्त्यं देहनाशादिना विनाशिनं महदादितत्वाभिमानिनं ब्रह्मादिसर्वजीवसमुदायं तानि तत्वानि च अत्यगाद् अनाद्यनन्तकालत इति शेषः । नानैकान्तिकोऽयं हेतुरिति भावेनाह- महिमेति ॥ ब्रह्मादितत्वं पक्षान्तर्भूतमिति यत् तत इति । ‘अव्यक्तमात्मनोऽन्नञ्च महदादि विनाशि च । यदतीतः परो विष्णुः स एवातो विमोक्षदः’ इति स्मृतेः ॥ १७ ॥

प्रकाशिका

उतामृतत्वस्येशान इत्यर्धोक्तं मुक्तेशानत्वरूपं माहात्म्यं दर्शयति ॥ सोऽमृत-स्येति ॥ स पुरुषोऽमृतत्वस्येति वैदिकं पदं भवितृप्रधानमित्यभिप्रेत्यामृतस्येत्यनूद्याभयस्येति व्याख्यातम् । जननादिभयरहितस्य मुक्तसमुदायस्येत्यर्थः । ईशः प्रेरक इति ईशानपदार्थः । अत्र हेतुकथनाय यदन्नेत्यादिकं प्रवृत्तमित्यभिप्रेत्यान्नेनेति पदं तृतीया द्वितीयार्थे विवक्षितेत्याशयेनान्नमित्यनूद्य मर्त्यं मरणशीलमिति व्याख्यातम् । अत्र किं मर्त्यकथनं, कथं चास्य मुक्तेशानत्वे हेतुत्वमित्यतः प्रमाणेनैव तद्दर्शयति ॥ अव्यक्तमिति ॥ अनेनान्नशब्दार्थतयाऽव्यक्तमपि मूले ग्राह्यमिति सूचयति । अव्यक्तं प्रकृतिरात्मनो हरेरन्नम् । भोग्यमिति शेषः । मर्त्यशब्दार्थकथनम्- विनाशीति ॥ महदादिकं चान्नं मर्त्यं विनाशि । अनेनाद्यं ह्यन्नमुच्यते । तत्राव्यक्तस्यान्नशब्दप्रवृत्तिनिमित्तमद्यत्वं भोग्यत्वरूपं महदादौ तु विनाश्यत्वमेवेत्युक्तं भवति । पूर्वोक्तस्य सर्वस्यान्नत्ववचनं तस्य भगवदधीनत्वोपपादनाय । अत्राव्यक्तमहदादिशब्दैस्तद्बद्धाश्चेतना अपि ग्राह्याः। यद्यस्मादतीतोऽतिक्रान्तः । तदधिपतिरिति यावत् ॥ तथा चायमर्थः ॥ यद्बन्धकमव्यक्तादितत्त्वं यच्च तेन बद्ध्यं ब्रह्मादिचेतनजातं तदुभयाधिपत्यं यत्पूर्वोक्तं तदेव यद्यस्मादन्नमतिरोहतीति हेतुतयाऽनूद्यामृतत्वस्योतामृतस्याभयस्य जन्मादिभयरहितस्य मुक्तसमूह-स्यापीशान ईश इति मुक्ताधिपत्यं श्रुतौ विधीयत इत्युक्तं भवति । यदि मुक्ताः स्वाधीना न स्युस्तर्हि बन्धकबद्ध्येशः प्रेक्षावांस्तान् बन्धान्न मोचयेदित्याशय इति ॥ एतावानस्य महिमेत्यर्धर्चोक्तं माहात्म्यं दर्शयति ॥ महिमैष इति ॥ ततस्तस्मादव्यक्तादीनां तदपेक्षया नीचत्वात्पुरुषस्यैषः पूर्वोक्तमहिमा दुरत्ययः केनाप्यत्येतुमशक्यः । अपार इति यावत् । अनेनास्य पुरुषस्य महिमैतावान्पूर्वोक्तः न केवलमेतावान्किंत्वतः पूर्वोक्तादपि महिम्नो ज्यायान् । अधिकमहिमोपेतोऽयं पुरुषोऽतोऽस्य महिमा दुरत्यय इति योजनां सूचयति ॥ १७ ॥

पादोऽस्य सर्वाभूतानि पुंसः स्थितिविदो विदुः ।

अमृतं क्षेममभयं त्रिमूर्ध्नोऽधायि मूर्धसु ॥ १८ ॥

तात्पर्यम्

‘स्वरूपांशो विभिन्नांश इति द्वेधांश इष्यते । अनन्तासनवैकुण्ठपद्मनाभाः स्वयं हरिः । जीवा इमे विभिन्नांशा धर्माधर्मादिसंयुता’ इति वामने । सर्वस्य यथावत्स्थिति-विदः । ‘त्रिमूर्धा सन् हरिर्धत्ते द्युत्रयं मूर्धभिस्त्रिभिः । अनन्तासनवैकुण्ठनारायणपुराणि तु । बहुलक्षोच्छ्रितेष्वेषु स वसत्यमृतो हरिरि’ति मात्स्ये ॥ १८ ॥

पदरत्नावली

जीवानां परमात्मांशत्वात् कथं दुरत्ययत्वं महिम्न इति तत्राह- पाद इति ॥ स्वरूपांशो भिन्नांश इति द्विविधांशो हरेरस्ति । तत्र सर्वभूतानि सर्वजीवा अस्य पुरुषस्य पादः भिन्नांश इति स्थितिविदः सर्वस्य यथावत् स्थितिज्ञा विदुः । अतः खद्योतस्य कालाग्न्यंशत्वेऽपि तन्महिमात्ययत्वं यथा नास्ति प्रमाणविरुद्धत्वाद् एवं जीवानामपीति भावः । तर्हि स्वरूपांशाः के कुत्र सन्तीति तत्राह- अमृतमिति ॥ अमृतम् अनन्तासनाख्यं, क्षेमं वैकुण्ठाख्यं, अभयं श्वेतद्वीपाख्यमिति पुरत्रयं त्रिमूर्ध्नः हरेस् त्रिषु मूर्धसु अधायि धृतम् । रूपान्तरेणेति शेषः ।

नन्वनेन प्रश्नपरिहारः कथमागत इत्यस्यापि इदमेवोत्तरम् । तथा हि । त्रिविधा मुरः जीवास् तान् धत्ते इति त्रिमूर्धा । तस्य हरेर् अमृतम् अनन्तगतं रूपम् अनन्तासनमिति यावत् । अमि अनन्ते ऋतं गतं रूपमिति । ‘अमनन्तं विदुर्बुधा’ इत्येकाक्षरमालायाम् । विकुण्ठनाम्नोऽपमृत्युलक्षणं क्लेशं क्षिणोतीति क्षेमं वैकुण्ठाख्यम् । भा दीप्ताविति धातोर् दीप्तिविरोधित्वाद् अभानि जलानि याति आप्नोति आश्रयत्वेनेति अभयं नारायणाख्यम् इति रूपत्रयम् एषु त्रिषु मूर्धसु उत्तमेषु बहुलक्षोच्छ्रितेषु पुरेषु अधायि निहितम् । तस्मादनन्तासनवैकुण्ठनारायणाः स्वरूपांशा एषु लोकेषु सन्तीति भावः । तदुक्तम्- ‘स्वरूपांशो विभिन्नांश इति द्वेधांश इष्यते’ इत्यादि । ‘त्रिमूर्धा सन् हरिर्धत्ते द्युत्रये मूर्धभिस्त्रिभिः’ इत्यादिना ‘ब्रह्मविष्णुमहेश्वरात्मना त्रयो मूर्धानो यस्य स त्रिमूर्धा तस्य मूर्धसु सत्यवैकुण्ठकैलासाख्य-स्थानेषु तेषामेव नामान्तरविशिष्टम् अमृतमित्यादिरूपत्रयमधायी’ त्यपव्याख्यानमपहस्तितम् ॥ १८ ॥

प्रकाशिका

पादोऽस्येत्यर्धर्चोक्तं माहात्म्यं दर्शयितुं पूर्वपादोक्तमर्थमनुवदति ॥ पादोऽस्येति ॥ अत्र पादशब्दोंऽशपरः । तथा चामृतपादत्रयवद्विश्वभूतानामप्यंशत्वमुच्यत इति प्रतीतिनिरासाय श्लोकं प्रमाणेनैव व्याचष्टे ॥ स्वरूपांश इति ॥ स्वरूपांशान्दर्शयति ॥ अनन्तासन इति ॥ अनेनामृत- शब्दवाच्यानन्तासनस्थोऽनन्तासननामाऽमृतशब्दाभिधेयः । क्षेमपदवाच्यवैकुण्ठस्थो वैकुण्ठनामा क्षेमपदवाच्यः । अभयपदवाच्यश्वेतद्वीपस्थः पद्मनाभनामाऽभयपदवाच्य इति क्रमेणामृतक्षेमाभयशब्दा व्याख्याता इति द्रष्टव्यम् । अमृतादिशब्दानामनन्तासनादिवाचकत्वे निमित्तं प्रमाणान्तरेण ज्ञातव्यम् । स्वयं हरिर् हरिस्वरूपभूता इत्यर्थः । विभिन्नांशत्वे हेतुमाह ॥ धर्माधर्मादीति ॥ यत इति शेषः । स्थितिविद इत्येतद्भूतानां भिन्नांशत्वे प्रमाणप्रदर्शनपरमित्याशयेन व्याचष्टे ॥ सर्वस्येति ॥ यथावद्विभिन्नांशत्वरूपां स्थितिं जानन्त इत्यर्थः । त्रिपादस्यामृतं दिवीत्युत्तरपादोक्तमाहात्म्यं दर्शयति ॥ अमृतमिति ॥

अत्र कस्त्रिमूर्धा तन्मूर्धसु निहितमनन्तासनादिकं चेद्दिवीति तेषां द्युस्थितत्वोक्तिविरोध इत्याशङ्कां प्रमाणेनैव परिहरति ॥ त्रिमूर्धेति ॥ रूपान्तरेणेति शेषः । अनेनामृतादिशब्दत्रयं द्युत्रयवाचकमिति सूचयति । द्युत्रयं दर्शयति ॥ अनन्तासनेति ॥ नारायणः पद्मनाभः । अनन्तासनादीनां पुराणीत्यर्थः । तु विशेषेण । द्युशब्दवाच्यानीति शेषः । कुतो द्यु- शब्दवाच्यत्वमेतेषामित्यत आह ॥ बहुलक्षेति ॥ तथा च लोकत्रयविवक्षायां ‘परतो लक्षयोजनात्सर्वं द्यौरि’ति वचनाद् यदा लक्षयोजनो-च्छ्रितान्तरिक्षोपरितनानां लोकानां द्युशब्दवाच्यत्वं तदा बहुलक्षोच्छ्रितानामेषां तदस्तीति किं वाच्यमिति भावः । त्रिपादस्यामृतमित्यस्य तात्पर्यम् ॥ स इति ॥ अनेनामृतं क्षेममभयमिति पदत्रयम् अनन्तासनादि पुरस्थितानन्तासनादिनामकहरिपरमपि भवतीति सूचयति ।

ततश्चायं श्लोकार्थः ॥ अस्य पुंसः पुरुषस्य सर्वभूतानि ब्रह्मादयः सर्वे जीवाः पादो विभिन्नांशाः । कुत इत्यतः प्रमाणमाह ॥ स्थितीति ॥ सर्वस्य जीवसमुदायस्येति शेषः । स्थितिं भिन्नांशत्वादिरूपं स्वरूपं विदन्तीति तथा इति विदुरित्यर्थः । तथा च सर्वज्ञानां प्रत्यक्षमेवात्र मानमिति भावः ॥ अमृतं क्षेममभयमेतन्नामकमनन्तासनादिलोकत्रयं त्रयो मूर्धानो यस्य स त्रिमूर्धा हरेरवतारविशेषस्तस्य मूर्धस्वद्यापि धृतम् । तेषु लोकेषु यदमृतादिपदवाच्यं हरिस्वरूपांशभूतमनन्तासनादिमूर्तित्रयं तदप्यधायीति । अनेन दिवि द्युशब्दवाच्येऽनन्तासनादि लोकत्रयेऽस्य पुंसोऽमृतं स्वरूपभूतं त्रिपादम् अंशत्रयं तिष्ठतीति वेदयोजनां सूचयति ॥ १८ ॥

पादास्त्रयो बहिस्त्वासन्नप्रजानां य आश्रयाः ।

अन्तस्त्रिलोक्यास्त्वपरो गृहमेधैर्बृहद्धुतः ॥ १९ ॥

तात्पर्यम्

**‘अनन्तासनवैकुण्ठनारायणपुराणि तु । त्रीणि धामानि वै विष्णोस्त्रिलोका-द्बहिरेव च । अदायादास्तु पुत्राणामुद्रिक्तज्ञानचक्षुषः । नारायणपरा देवा एवं तान्याप्नुवन्ति’ च ॥ ‘स एवान्यस्वरूपेण शक्रलोकसमीपगः । इज्यो यज्ञपुमान्नाम ज्ञानिनां गृहिणां पदम् । यतीनां ध्रुवलोकस्थो वनिनां मेरुमध्यगः । आदित्यमण्डलस्थस्तु ज्ञानिनां ब्रह्मचारिणामि‘ति ब्रह्माण्डे ॥ १९ ॥ **

पदरत्नावली

ते च लोकास्त्रिलोक्या बहिरेवेत्याह- पादा इति ॥ पादयन्ति प्रापयन्त्यात्मान-मिति पादाः । ये लोका ये च तेषु वसन्तः स्वरूपांशा अप्रजानाम् अपुत्राणाम् अदायादानां ब्रह्मादिदेवानाम् आश्रयास् ते भूम्यादित्रिलोक्या बहिरेवासन्नित्यन्वयः । अत्र तुना सूचितमिदं प्रमाणम्- ‘अनन्तासनवैकुण्ठनारायणपुराणि तु’ इत्यादि । तस्यैव त्रिधाम्नो विष्णोस् त्रिलोक्यन्तर्गतस्वरूपांशान्तर-माह- अन्तरिति ॥ बृहदिति भावप्रधानः । स एव विष्णुस् त्रिलोक्या अन्तो ऽपरः यज्ञपुरुषाख्यः गृहमेधैर् गृहस्थैर् बृहत्वेन ब्रह्मत्वेन । ब्रह्मार्पणबुध्येति यावत् । हुतो वसतीति शेषः । तुना तस्य स्थानस्य शक्रलोकसामीप्यं सूचयति । तदुक्तम्- ‘स एवान्यस्वरूपेण शक्रलोकसमीपग’ इत्यादि । न केवलं शक्रलोकनिकटवर्तिलोकस्थ एव पूज्यते अपि तु त्रिलोक्या अन्तर्ध्रुवादिलोकस्थोऽपि इतीममर्थमपिशब्देनाह । तदुक्तम्-‘यतीनां ध्रुवलोकस्थो वनिनां मेरुमध्यग’ इत्यादि ॥ १९ ॥

प्रकाशिका

त्रिपादूर्ध्व इत्यर्धर्चोक्तं माहात्म्यं दर्शयति ॥ पादास्त्रय इति ॥ तुशब्दोऽ-वधारणार्थः । अत्र बहिरित्यस्यावधिर्न प्रतीयते । त्रिलोक्या अवधित्वेऽपि उक्तपादत्रयस्य सृती विचक्रमे इत्यादिना त्रिलोकान्तर्गतत्वेऽपि विद्वदादिस्थितत्वस्य वक्ष्यमाणत्वेनावधारणानुपपत्तिः । अप्रजाना-मित्यस्यान्तस्त्रिलोक्यास्त्वपर इत्यस्य च विवक्षितोऽर्थो न प्रतीयतेऽतः श्लोकं प्रमाणेनैव व्याचष्टे ॥ अनन्तासनेति ॥ नारायणपुरं श्वेतद्वीपाख्यम् । धामानि व्यक्त्याऽऽवासस्थानानि । तेषु च विष्णोस्त्रीणि धामानि स्वरूपाणि । तिष्ठन्तीति शेषः । तथा च पादत्रयव्यक्तिस्थानानां त्रिलोक्या बहिरेव स्थितत्वात्तद्गते पादत्रये बहिरेव स्थितत्ववचनमौपचारिकमिति भावः । यद्यपि श्वेतद्वीपानन्तासनयोर्न त्रिलोकाद्बहिःस्थितत्वं तथाऽपि स्वर्गलोकत्वेन साङ्कल्पिकस्वर्गविवक्षायां तदुपरितनत्वं स्वर्गसमाने श्वेतद्वीपे बहुलक्षयोजनोच्छ्रितेऽनन्तासने चोपपद्यत इति ध्येयम् । अनन्तासनादिलोकेषु पुरुषस्य व्यक्त्यावासे प्रयोजनं वक्तुम् अप्रजानामित्युक्तम् । तत्राप्रजाशब्देन विवक्षितान्दर्शयति ॥ देवा इति ॥ तेषामप्रजात्वमुपपादयितुमुक्तम्- अदायादास्तु पुत्राणामिति ॥ अत एव तेषां ‘न पुत्रादायमुपयन्ती’ ति श्रुतिरिति भावः । तुशब्दोऽवधारणे । तेन प्रजाभावं व्यावर्तयति । देवानां तत्प्राप्तत्वमुपपादयितु-मुद्रिक्तज्ञानचक्षुषो नारायणपरा इति विशेषणद्वयम् । आप्नुवन्तीति संसारदशायां पूजाद्यर्थं मुक्तौ तु सायुज्यार्थमिति ज्ञातव्यम् । तथा चोक्तं पादत्रयं देवानामेव संसारदशायामिज्यमन्ते प्राप्यं चेत्युक्तं भवति । अत एव लोकत्रयान्तर्गतभगवदंशानां गृहस्थादीज्यत्वमन्ते तत्प्राप्यत्वं च वक्ष्यति । अनेन त्रिपात्पुरुषस्वरूपभूतस्त्रिविधोंऽश ऊर्ध्वस्त्रिलोक्युपरितनानन्तासनादिलोकगतः सन् उदैद्व्यक्तोऽभूदित्याद्य-पादयोजना सूचितेति ज्ञातव्यम् । पुरुषस्य त्रिलोक्यन्तर्गतान् अपरान्स्वरूपभूतांशान्दर्शयितुं प्रवृत्तस्य पादोऽस्येति द्वितीयपादस्यार्थं दर्शयितुं मूलेऽन्तस्त्रिलोक्या इत्युक्तम् । तत्र श्रौतपुनःशब्दार्थकथनायापर इत्युक्तम् । तद्व्याख्याति ॥ स एवेति ॥ इहेत्यस्य श्रौतपदस्यार्थो ऽन्तस्त्रिलोक्या इति । तत्रापि स्थानविशेषानाह ॥ शक्रेति ॥ इन्द्रलोकादधःस्थितवैश्वानरलोकगत इत्यर्थः । अत एवाह ॥ यज्ञपुमान्नामेति ॥ एतच्च मूले तु- शब्देन सूचितमिति ज्ञातव्यम् । तस्य प्रयोजनं वक्तुमुक्तस्य गृहमेधै-रित्यस्यार्थमाह ॥ गृहिणामिति ॥ पद्यत इति पदमाश्रयः । यतीनामित्यादौ ज्ञानिनामित्यस्यानुवृत्तिः । तथा च मूले गृहमेधैरित्येतदुपलक्षणतयोक्तमिति भावः । अत एव मन्त्रे इहेति मूले चान्तस्त्रिलोक्या इति सामान्यत एवोक्तस्थानान्युक्तानि । ततश्च गृहमेधैर्गृहस्थाश्रमोचितयज्ञवद्भिर्बृहत्पूर्णं सांगमिति यावत् । यथा स्यात्तथा हुत इष्ट आश्रितश्च वर्तत इति मूलं योज्यमिति भावः ॥ ततश्चायं मन्त्रार्थः ॥ अस्य पुरुषस्य पुनः पादोऽपरः पादः । समुदायापेक्षायामेकवचनम् । इह त्रिलोक्या अन्त इह शक्रलोकसमीपस्थे वैश्वानरलोके गृहिभिः पूज्यः प्राप्यश्चाभवदिति । तथा इह ध्रुवलोके यतिभिः, तथा इह मेरुमध्ये वानप्रस्थैस् तथा इह आदित्यमण्डले ब्रह्मचारिभिः पूज्यः प्राप्यश्च अभवदिति ॥ १९ ॥

सृती विचक्रमे विष्वक्साशनानशने उभे ।

यदविद्या च विद्या च पुरुषस्तूभयाश्रयः ॥ २० ॥

तात्पर्यम्

त्रिपात्स एव भगवान्सर्वप्राणिषु संस्थितः । निरन्नेषु च विद्वत्सु त्रिदशे-ष्वितरेषु च’ इत्यध्यात्मे ॥ २० ॥

पदरत्नावली

एते त्रयोऽपि स्वरूपांशा इति निर्णयाय मूलरूपवद्भिन्नांशेषु देवादिसर्वजीवेषु तेषां व्याप्तिप्रकारमाह- सृती इति ॥ अनन्तासनवैकुण्ठनारायणाख्यत्रिपाद्भगवान् यद् ये द्वे ब्रह्मविद्या तदविद्या च आश्रिते ते विरुद्धलक्षणत्वाद् उभे देवमुनुष्यसंज्ञे सृती सरणी मार्गौ विष्वक् सर्वतः विचक्रमे व्याप । देवमनुष्यसंज्ञे कुतोऽवगते इति तत्राह- साशनानशने इति ॥ साशना मनुष्या अनशना देवास् तद्विषयत्वात्तथोक्ते । यद्वा ये विद्या चाविद्या च ते सृती इत्यनेन तद्वन्तः पुरुषा लक्ष्यन्ते । तेषु विक्रम्य स्थितः । तदुक्तम्- ‘त्रिपात्स एव भगवान् सर्वप्राणिषु संस्थितः । निरन्नेषु च विद्वत्सु त्रिदशेष्वितरेषु च ॥ ’ इति । ननु हरेर् आधेयत्वेन पारतन्त्र्यमागतमत्राह- पुरुष इति ॥ पुरुषो विष्णुर् उभयोराश्रय आधारः । तुशब्देन अन्ये मत्स्यादयः स्वरूपांशा अपि सर्वव्याप्तिमन्त इति सूच्यते ॥ २० ॥

प्रकाशिका

एवं पुरुषस्यानन्तासनादिस्थानेषु देवादिप्राप्यत्वमुक्त्वेदानीं तत्साधनीभूत-ज्ञानकर्माधिकारिषु देवादिषु स्थित्वा पुरुषः स्वयमेव तत्कारयतीति वक्तुं प्रवृत्तस्य, ततो विष्वङ्व्य-क्रामदित्यर्धर्चस्यार्थकथनाय मूले सृतीति श्लोकः प्रवृत्तः । तत्र विष्वक्, साशनानशने, उभयाश्रय इति पदत्रयतात्पर्यं प्रमाणेनैव दर्शयति ॥ त्रिपादिति ॥ अनेन विविधं सुष्टु अञ्चत्यनन्तासनादिस्थानानि गच्छतीति विष्वक् इति विष्वक्पदार्थः सूचित इति ज्ञातव्यम् । एवकारेणात्र विष्वक्शब्देन क्षेत्रज्ञो विवक्षित इति व्याख्यानं प्रमाणविरुद्धमिति सूचयति । उभयाश्रयपदतात्पर्यप्रदर्शनं सर्वप्राणिषु संस्थित इति । तुशब्दार्थं दर्शयितुं समित्युक्तम् । कारयितृतयेत्यर्थः । तथा चोभयाश्रयपदस्य बहुव्रीहित्वमिति भावः । साशनानशनशब्दार्थौ दर्शयन् सर्वप्राणिष्वित्युक्तमेव विवृणोति ॥ निरन्नेष्विति ॥ अनशनशब्दस्य बहुव्रीहित्वज्ञापनाय निरन्नेत्युक्तम् । अतिप्रसङ्गपरिहाराय तद्विशेष्यमुक्तम्- त्रिदशे-ष्विति ॥ इतरेष्विति साशनशब्दार्थप्रदर्शनम् । तत्राप्यतिप्रसङ्गवारणाय विद्वत्स्विति तद्विशेषणमुक्तम् । तथा च देवतातिरिक्ता ज्ञानिनो ऋष्यादय एव साशनशब्दवाच्या इत्युक्तं भवति ।

ततश्चायं श्लोकार्थः ॥ विविधरूपैः सुष्ट्वनन्तासनादिस्थानानि अञ्चतीति विष्वक् । त्रिपात्स पुरुषो यद् येऽविद्या हरिपूजारूपं कर्म विद्या तत्वज्ञानं चेत्युभे सृती ऊर्ध्वलोकगमनमार्गभूते । पुनः कथंभूते । साशनानशने तदुभयसंबन्धिन्यौ तत्कारयितृतया उभयाश्रयः साशनानशनरूपोभयविधाधिकारिगतः सन् स्वयमेव विचक्रमे विशेषेण कारितवानित्यर्थ इति । अनेन ततस्तदर्थम् उक्तलोकप्राप्त्यर्थमिति यावत् । विविधं सुष्ट्वञ्चति गच्छतीति विष्वक् त्रिपात् स पुरुषः । अत्रापूजार्थस्याप्यञ्चतेर्नुं लोपाभावश्छान्दसः । अभि सर्वतो विद्यमाने साशनानशने तत्संबन्धिन्यावुभे विद्याकर्मरूपे सृती व्युत्क्रामत्तदधिकारिषु देवेषु प्रेरकतया स्थित्वा स्वयमेव कारयामासेति मन्त्रयोजनां सूचयति ॥ २० ॥

तस्मादण्डाद्विराड् जज्ञे भूतेन्द्रियगुणाश्रयः ।

तद्द्रव्यमत्यगाद्विश्वं गोभिः सूर्य इवाश्रयम् ॥ २१ ॥

तात्पर्यम्

‘तस्माद्धरेरण्डमभूदण्डादपि चतुर्मुखः । स विराण्नामकस्तस्मादधिको हरिरेव तु ॥ ‘अण्डाज्जातस्य तस्यान्यद्रूपं पद्मादभूद्धरेः । यदोभयात्मको जज्ञे ब्रह्मा लोकपितामहः । तदैव सोऽतिरिक्तोऽभूच्छर्वपूर्वापराज्जनात् । त्रिलोकस्थानगं विष्णुमयजच्च समाहितः । तद्रूप-भूतांस्त्रींल्लोकान् पशून्कृत्वा महामना’ इति गारुडे ॥ २१ ॥

पदरत्नावली

अण्डव्याप्तचतुर्मुखोत्पत्तिमाह- तस्मादिति ॥ पूर्वं महदादितत्वोत्पादनाय हरिणा यदण्डं निरमायि तस्मादण्डाद् ब्रह्मनामा विराड् जज्ञे । अण्डव्यापिनं तं विशिनष्टि- भूतेति ॥ भूतानां पृथिव्यादीनां जीवानां वा, इन्द्रियाणां श्रोत्रादीनां, गुणानां शब्दादीनाम् इन्द्रियगुणानां, इन्द्रियाणां विषयवृत्तौ सहकारिणां दिगादिदेवानां वा आश्रय आधारः । यद्वा स्वसृष्टात् तस्मादण्डाद् विश्चासौ राट्चेति विराट् विष्णुर् जज्ञे शेषशायित्वेन प्रादुर्भूतः । किञ्च अण्डादभिव्यक्तात् तस्माच्छेषशायिनो हरेर् नाभिपद्माद् रूपान्तरेण भूतेन्द्रियगुणाश्रयो विराट् ब्रह्मा जज्ञ इत्यन्वयः । ‘तस्माद्धरेरण्डमभूदण्डादपि चतुर्मुख’ इत्यादेरुक्तार्थ एवायं श्लोकः । एतस्माद्गुणयोगात्परमेष्ठिनाम चास्याभूदिति भावेनाह- तद्द्रव्यमिति ॥ यदा ब्रह्माण्डान्तरुभयात्मको ब्रह्मा जज्ञे तदैव सः लोकपितामहः हरेः स्वस्माद्वा यत् शर्वपूर्वादिविश्वमुत्पन्नं तद्द्रव्यं गोभिर् भक्तिज्ञानादिगुणलक्षणाभिर् अत्यगाद् उद्रिक्तोऽभूत् । कथमिव यथा सूर्यः दिगन्तविश्रान्तैः रश्मिभिर् अन्तरिक्षाद्याश्रयमत्येति तथेत्यन्वयः । तदुक्तं ‘यदोभयात्मको जज्ञे ब्रह्मा लोकपितामहः’ इत्यादि ॥ २१ ॥

प्रकाशिका

तस्माद्विराडजायतेत्युत्तरमन्त्रोक्तं माहात्म्यं दर्शयितुं तस्मादण्डादित्यादिकं मूले प्रवृत्तम् । तदप्रतिपत्तिविप्रतिपत्तिनिरासाय प्रमाणेनैव व्याख्याति ॥ तस्माद्धरेरिति ॥ अनेन मूले तस्मादित्यस्य हरिपरामर्शकत्वमण्डाद्विराट् जज्ञ इत्यनुवादादण्डं जज्ञ इति विधिरध्याहर्तव्य इति सूचयति । अपिपदं जज्ञ इत्यस्यानुकर्षणार्थम् । चतुर्मुख इति पदं रूढ्या ब्रह्मपरं न तु योगेन पाद्मपरम् । विराण्नामक इत्यनेन विराडित्युक्तार्थम् । विराजोऽधिपूरुष इत्यनेन पुरुषस्य विराडाधिक्य-मुक्तम् । तदुपपादकं हेतुं वक्तुं मूले भूतेन्द्रियगुणाश्रय इत्युक्तम् । भूताद्यात्मकदेहवानित्यर्थः । तथा च विराट् भूतेन्द्रियात्मकदेहवान् यतोऽतो विराजोऽधिकः पुरुष इति शेषमभिप्रेत्य भूतेन्द्रियेत्यस्य श्रौतं साध्यं दर्शयति ॥ तस्मादिति ॥ विराज इत्यर्थः । तु इत्यनेन हरेर्भूताद्यात्मकदेहवत्त्वाभावरूपं विशेषं सूचयति । तस्माद्धरेरण्डाज्जातो विराट् अन्येन रूपेण भूताद्यात्मकपद्माश्रयः सन् जज्ञे इत्यस्यैव मूलस्यार्थान्तरमभिप्रेत्याह ॥ अण्डाज्जातस्येति ॥ स जातोऽत्यरिच्यत इत्यर्धर्चार्थं सदृष्टान्तमुपपादयितुं द्रव्यमत्यगादिति मूलं तत्तात्पर्यमाह ॥ यदोभयात्मक इति ॥ अनेन मूले उभयात्मको ब्रह्मेति कर्तृपदमध्याहार्यमिति सूचयति ॥ पितामह इति तस्य श्रैष्ठ्योपपादनाय । तदैव न तु कालविलम्बे-नेत्यर्थः । अतिरिक्तोऽतिक्रान्तः । श्रेष्ठ इति यावत् । शर्वेत्यनेन मूले द्रव्यपदं विश्वपदं च न जडमात्र-परमिति सूचयति । पुरः पश्चादिति श्रौतपदद्वयतात्पर्यकथनाय पूर्वापरादित्युक्तम् । अत्र पूर्वपदं तन्त्रेणोपात्तम् । तथा च शर्वः पूर्वो यस्य स शर्वपूर्वः । शर्वपूर्वश्चासौ पूर्वापरश्च तस्मादित्यर्थः ॥

ततश्चायं श्लोकार्थः ॥ तस्मादुक्तमाहात्म्योपेताद्धरेरण्डं जज्ञे । अण्डादण्डमभिव्याप्य विराण्नामको ब्रह्मा जज्ञे । अण्डाज्जातो विराट् अन्येन रूपेण भूतेन्द्रियगुणाश्रयः पञ्चभूतैकादशेन्द्रियसत्त्वादिगुणात्मक- पद्माश्रितः सन् जज्ञे । तस्माद्ब्रह्मणोऽप्राकृतदिव्यविग्रहः पुरुषोऽधिक इति श्रुत्यनुसारेण पूरणीयम् । तत्र हेतुतया यतो विराट् भूतेन्द्रियगुणात्मकदेहाश्रितः । तद्बद्ध इति यावत् । अत इत्यपि योज्यम् । स उभयात्मको ब्रह्माऽऽश्रयं स्वाश्रयं तद्द्रव्यं तद्ब्रह्माण्डं पद्मं वा । श्रुतौ भूमिपदमुपलक्षणमित्यभिप्रेत्य विश्वमित्युक्तम् । भूम्यादिसर्वलोकमित्यर्थः । तदभिमानिनः शर्वादिदेवांश्च गोभिर्ज्ञानरश्मिभिरत्यगा-दुत्कृष्टोऽभूत् । अत्र दृष्टान्तः । आश्रयं स्वाश्रयमन्तरिक्षं तदभिमानिनं च गोभिः स्वरश्मिभिः सूर्य इवेति । अनेन तस्माद्धरेर्विशेषेण राजत इति विराडण्डम् अजायत । अण्डादण्डमभिव्याप्य विराट् विराण्णामा ब्रह्माऽजायत । तस्मात्पुरुषाद्विराट् अन्येन रूपेणाजायत । अयं विराट् यतो भूतेन्द्रिय-गुणबद्धोऽतोऽस्माद्विराजोऽधि अधिकः पुरुषोऽप्राकृतदेहवत्त्वात् । स उभयात्मको ब्रह्मा यदा जातस्तदैव पश्चाज्जायमानं भूमिपदोपलक्षितं विश्वं पुनः पूर्वजातं ब्रह्माण्डं पद्मं तदभिमानिनश्चात्यरिच्यताति-क्रान्तवानिति मन्त्रयोजनां सूचयति । अत्र ब्रह्माण्डोत्पत्तिकथनं पुर इत्यनेन वक्ष्यमाणपूर्वजातवस्तु-प्रदर्शनायेति मन्तव्यम् । ब्रह्मा विष्णोस्त्रीणि रूपाणि पशून् कृत्वा त्रीन् लोकानयजदिति कुत्रचिदुक्तस्य तात्पर्यमाह ॥ त्रिलोकेति ॥ तथा च तत्र त्रिलोकशब्देन तत्स्थानगो विष्णुरिज्यतया विष्णुप्रतिमाभूतं लोकत्रयमेव पशुतया विवक्षितं न तु विष्णुस्वरूपभूतरूपाणि । अतो न कोऽपि दोष इति भावः ॥२१॥

यदाऽस्य नाभ्यान्नलिनादहमासं महात्मनः ।

नाविन्दं यज्ञसम्भारान् पुरुषावयवानृते ॥ २२ ॥

पदरत्नावली

प्रथमरूपस्य विरिञ्चस्यापि स एष पुरुष इत्युक्तवैराजपुरुषाभिधहरेर् मुख्या-धिष्ठानत्वात् ‘यस्येहावयवैः’ इत्याद्युक्तलक्षणं चतुर्मुखेऽपि सम्भवतीति तत्परिहारायाह- यदेति ॥ यदा अस्य नाभ्यान् नाभिप्रदेशाज्जातान् नलिनाद् अहमासं द्वितीयरूपेणोत्पन्नोऽभवम् । महात्मन इत्यनेन तन्माहात्म्यात् स्वमाहात्म्यस्य अत्यन्तार्वाचीनत्वं सूचयति । तदा भक्त्या तं यियक्षुरहं पुरुषावयवानृते अण्डस्य पुरुषप्रतिमात्वाद् लोकादियागसम्भाराणामुक्तप्रकारेण तदवयवोत्पन्नत्वात्तदवयवव्याप्तत्वात् तदाश्रितत्वाच्च पुरुषावयवान्विहाय लोकादियज्ञसम्भारान्नाविन्दं न लब्धवानित्यन्वयः । अनेन यज्ञकर्मणा भगवद्विषयेण शुद्धान्तःकरणस्य पुंसः समुद्रिक्तभक्तिज्ञानादिभिस् तत्प्रसादातिशयो भवतीत्युक्तं भवति

॥ २२ ॥

प्रकाशिका

ब्रह्मा पाद्मो ब्रह्मा पुरुषावयवैर्यज्ञसाधनानि संपाद्य यज्ञेन पुरुषमयजदिति मूलवेदादावुक्तस्यार्थस्य सङ्ग्रहाय ‘यदाऽस्य नाभ्यादि’त्यादि मूलं प्रवृत्तम् । ततश्चायं मूलार्थः ॥ अस्य विराट्कल्पप्रलयजलशायिनः पुरुषस्य नाभौ भवं नाभ्यं तस्मात् । नाविन्दमित्यतः पूर्वं तदेति शेषः। यज्ञसंभारान् यज्ञानां साधनानि नाविन्दं न लब्धवान् । अनेन पुरुषावयवानां यज्ञसम्भारकारणत्वमुक्तम्

॥ २२ ॥

तेषु यज्ञाश्च पशवः सवनस्पतयः कुशाः ।

इदञ्च देवयजनं कालश्चात्मगुणान्वितः ॥ २३ ॥

पदरत्नावली

पुनः ब्रह्मणा किमकारीत्याशङ्क्य तदर्थत्वेन तत्सृष्टत्वेन तत्सन्निधानविशिष्टैस् तैस्तैर् हरियजनाद्धरिप्रीतिरेव भवतीति विमृश्य यज्ञसम्भरणप्रकारमाह- तेष्विति ॥ तेषु पुरुषावयवेषु तदाश्रिता यज्ञादिसम्भारा मया सम्भृताः सम्पादिता इत्यन्वयः । यज्ञा अग्निष्टोमादयः । पशवोऽजादयः । वनस्पतयोऽश्वत्थादयः यैर् अरण्यादिनिर्माणं क्रियते । देवयजनं यागभूमिः । कालो वसन्तादिः । तस्य गुणा धर्माद्याः ॥ २३ ॥

प्रकाशिका

तान्यज्ञसंभारान्दर्शयंस्तान्निगमयति ॥ तेष्वित्यादिना संभृता मयेत्यन्तेन ॥ तेषु यज्ञसंभारेषु मध्ये यज्ञाद्याः समर्पणान्ता एते प्रधानभूताः संभारा मया संभृताः संपादिता इत्यन्वयः । यज्ञाः प्रयाजाद्याः । पशवोऽजादयः । वनस्पतयोऽश्वत्थादयः ॥ देवयजनं यागभूमिः । इदं चेति वचनाद्यज्ञार्हस्थाने उपविष्टः कथयतीति गम्यते । कालो वसन्तादिः । आत्मनः स्वस्य गुणा धर्मादयस्तदन्वितः ॥ २३ ॥

वसून्योषधयः स्नेहा रसलोहमृदो जलम् ।

ऋचो यजूंषि सामानि चातुर्होत्रञ्च सत्तम ॥ २४ ॥

पदरत्नावली

वसूनि काञ्चनादीनि । ओषधयः व्रीह्यादयः । स्नेहा आज्यादयः । रसाः क्षीरगुडादयः । लोहा अयःप्रभृतयः । मृदो वल्मीकमृदिष्टकादयः । जलं गङ्गादिजलम् । नियतपाद-बद्धा ऋचः । अनियतच्छन्दोबन्धोपेतानि यजूंषि । गानप्रधानानि सामानि । चतुर्भिर् अध्वर्य्वादिभिः क्रियमाणं कर्म चातुर्होत्रम् ॥ २४ ॥

प्रकाशिका

वसूनि धनानि । ओषधयो व्रीह्यादयः । स्नेहा आज्यादयः । रसा मधुराद्याः क्षीरगुडादयो वा । लोहोऽयःप्रभृतयः । मृद इष्टिकादिसाधनभूताः । जलं गङ्गादिसम्बन्धि । चतुर्भिर्होतृपोतृउद्गातृप्रतिहर्तृसंज्ञकैर् ऋत्विग्भिः क्रियमाणं कर्म चातुर्होत्रम् ॥ २४ ॥

नामधेयानि मन्त्राश्च दक्षिणाश्च व्रतानि च ।

देवतानुक्रमः कल्पः सङ्कल्पः सूत्रमेव च ॥ २५ ॥

गतयो मतयः श्रद्धा प्रायश्चित्तं समर्पणम् ।

पुरुषावयवैरेतैः सम्भाराः सम्भृता मया ॥ २६ ॥

तात्पर्यम्

सूत्रं मीमांसासूत्रम् ॥ २५ ॥

पदरत्नावली

नामधेयानि इन्द्र इत्यादीनि । अग्निहोत्रदर्शादीनि वा । मन्त्रा द्विविधा बीजात्मका मालात्मकाः । त्रिंशद्वर्णादर्वाक् बीजमन्त्राः । ततोऽधिका मालाख्याः । ते च द्रव्य-देवतादिप्रकाशकाः । चन्द्रकलावद् बिन्दुमण्डितशिरसोवर्णा बीजाख्याः । चतुर्थ्यन्तेन्द्रादिनामविशिष्टा नमःस्वाहाफडन्ता मालामन्त्राः । उभये च जपाधिका न्यूनजपा इति । कर्म दक्षयन्तीति दक्षिणा होत्रादिभ्यो द्रव्यदानसम्बन्धाः । व्रतानि ब्रह्मचर्यादीनि । देवतास् तत्तन्मन्त्रवाच्या अग्न्यादिकाः । अनुक्रमस् तासां तारतम्यं पौर्वापर्यलक्षणम् । अनुपाठो वा । कर्मक्रमो वा । कल्पः प्रयोग-विधिप्रतिपादको बौधायनादिः । सङ्कल्प इदं करिष्ये इति मनोवाग्भ्यां स्मरणकीर्तनलक्षणः । सूत्रं मीमांसासूत्रम् । चशब्दात् कर्मदेवमीमांसासूत्रे च गृहीते ॥ २५ ॥

गतयः स्वर्गादिफलानि । मतयो ज्ञानानि । ऋषिमतभेदभिन्नानि वा । श्रद्धा आस्तिक्यबुद्धिः ‘इदं सत्यम् अस्मात्प्रयोजनमस्ति’ इत्येवंरूपा । प्रायश्चित्तम् अन्तराावाप्तान्तरायपरिहारत्वेन यथोक्तफलसाधनं कर्म । समर्पणं ब्रह्मणीति शेषः ॥ २६ ॥

प्रकाशिका

नामधेयानि ज्योतिष्टोम इत्यादीनि । इन्द्र इत्यादीनि वा । ऋगादीनामुक्तत्वादत्र मन्त्रशब्देन बीजात्मका मालात्मकाश्च मन्त्रा ग्राह्याः । त्रिंशद्वर्णादर्वाग्विद्यमाना बीजात्मकास्ततोऽधिक-वर्णा मालात्मकाः । व्रतानि ब्रह्मचर्यादीनि ॥ देवतानामिन्द्रादि शब्दवाच्यानामनुक्रमस्तारतम्यम् । पौर्वापर्येण निर्देशो वा । कल्पः प्रयोगविधिप्रतिपादकाश्वलायनादि- सूत्रात्मकग्रन्थः । सङ्कल्पोऽनेनाहं यक्ष्य इति मनोवाग्भ्यामित्यनुसन्धानकीर्तनलक्षणः । सूत्रं विविधमीमांसाः । देवतातारतम्यांतगत्वेन हर्यनुसन्धानपूर्वककर्मस्वरूपज्ञानस्यापि यज्ञाङ्गत्वात् । एव- शब्दस्य पुरुषावयवैरित्यनेन सम्बन्धः

॥ २५ ॥

गतयः स्वर्गादिफलानि । मतयो देवताध्यानादिरूपाः । श्रद्धा ‘अत्रोक्तं सत्यम् अस्मान्मम प्रयोजनमस्ति’ इत्येवंरूपाऽऽस्तिक्यबुद्धिः । प्रायश्चित्तं यज्ञादिरूपकर्मणोऽन्तरालावाप्तान्तरायपरिहार-कत्वेन यथोक्तफलसाधनतापादकं कर्म । समर्पणं नाहं कर्ता हरिः कर्तेत्याद्यनुसन्धानपूर्वकं हरिप्रीति-प्रार्थनम् ॥ अत्रोक्तयज्ञसंभारसंपादकाः पुरुषावयवविशेषा मूलवेदाद्युक्ता विस्तरभयान्न प्रदर्शिता इति ध्येयम् । तत्र सूत्रशब्देन विवक्षितमर्थं दर्शयति ॥ सूत्रं मीमांसेति ॥ अत्र मीमांसेति साधारणोक्त्या मीमांसा त्रिविधा । तत्र ब्राह्मी दैवी च कार्मीत्युक्ता त्रिविधाऽपि मीमांसा ग्राह्या ॥ २६ ॥

इति सम्भृतसम्भारः पुरुषावयवैरहम् ।

तमेव पुरुषं यज्ञं तेनैवायजमीश्वरम् ॥ २७ ॥

पदरत्नावली

इतिशब्द आदिवचनः । एवमादिसम्पादितयज्ञसाधनोऽहं पुरुषावयवैः कल्पितैः पश्वादिभिस् तमेव यज्ञपुरुषं तेन मय्यनुविष्टेन प्रेरितः देशकालपश्वादिसाधनेषु चाहितेन मद्दृष्टिविषयेण च अयजमित्यन्वयः । ईश्वरमित्यनेन स्वेन यष्टव्यमाहात्म्यं सूचयति ॥ २७ ॥

प्रकाशिका

यज्ञं यज्ञनामकपुरुषम् । तेनैव प्रेरित इति शेषः । ईश्वरमित्येतत्तस्य यष्टव्यत्वोपपादकम् ॥ २७ ॥

ततस्ते भ्रातर इमे प्रजानां पतयो नव ।

अयजन्व्यक्तमव्यक्तं पुरुषं सुसमाहिताः ॥ २८ ॥

पदरत्नावली

स्वकृतयज्ञस्य व्याप्तिं कथयति- तत इति ॥ अनेन स्वस्य सर्वस्मात् श्रैष्ठ्यं स्वकर्मणः प्रामाण्यञ्च दर्शितम् । ते तव भ्रातरो मरीच्यादयः, न सनकादय इति परिच्छिनत्ति- प्रजानां पतय इति ॥ व्यक्तं गम्यम् । अव्यक्तमगम्यम् । अनेन साधनसामग्य्रसामग्रीभ्यां हरेः कश्चन स्वभावो दर्शितः । पुरुषं बहुफलप्रदम् । समाहिता इदमेव श्रेयो नान्यदित्येकाग्रचित्तगुणाः ॥ २८ ॥

प्रकाशिका

तेन देवा अयजन्त साध्या ऋषयश्च ये इत्येतदुपलक्षणमित्यभिप्रेत्य तदर्थमाह ॥ ततस्त इति श्लोकद्वयेन । भ्रातरो मरीच्यादयः । सनकादिव्यावृत्त्यर्थं प्रजानां पतय इत्युक्तम् ॥ व्यक्तं भक्तानुकंपया प्रत्यक्षीभूतम् । अव्यक्तं स्वभावतः । समाहिताश्चित्तैकाग््रयोपेताः । यथा वस्तु तथा ज्ञानिनो वा ॥ २८ ॥

ततश्च मनवः काल ईजिरे ऋषयोऽपरे ।

पितरो विबुधा दैत्या मनुष्याः क्रतुभिर्विभुम् ॥ २९ ॥

पदरत्नावली

काले वसन्तादिसमये । अपरे मरीच्यादिव्यतिरिक्ताः । पितरोऽग्निष्वात्तादयः । विबुधा इन्द्रादयः । दैत्याः प्रह्लादादयः । मनुष्याः प्रियव्रतप्रभृतयः । क्रतुभिर् यागैः । अत्राहं भवानित्यारभ्य ततश्च मनव इत्यन्तैर् ग्रन्थैः पुरुषसूक्तार्थो विवृत इति ज्ञातव्यम् । तथा हि- सर्वं पुरुष इत्यनेन पुरुष एवेदं सर्वमित्यस्यार्थः प्रदर्शितः । तेनेदमित्यनेन सहस्रशीर्षेत्यस्य । सोऽमृतस्येत्यनेन उतामृतत्वस्येशान इत्यस्य । महिमैव इत्यनेन एतावानस्येत्यस्य । पादास्त्रय इत्यनेन त्रिपादूर्ध्वमित्यस्य । सृती इत्यनेन ततो विष्वङ् इत्यस्य । तस्मादण्डादित्यनेन तस्माद्विराजायतेत्यस्य । तद्द्रव्यमित्यनेन स जात इत्यस्य । तेषु यज्ञा इत्यनेन ब्राह्मणोऽस्य मुखमासीदित्यस्य । इति संभृतेत्यनेन यत्पुरुषेणेत्यस्य । ततस्ते भ्रातर इत्यनेन यज्ञेन यज्ञम् इत्यादेः ॥ २९ ॥

प्रकाशिका

काले वसन्तादिरूपे । स्वस्वकाल इति वा । अपरे मरीच्यादिव्यतिरिक्ताः । पितरोऽर्यमादयः । विबुधा इन्द्रादयः । दैत्याः प्रल्हादादयः । मनुष्याः प्रियव्रतप्रभृतयः । क्रतुभिर्यज्ञैः

॥ २९ ॥

नारायणे भगवति तदिदं विश्वमाहितम् ।

गृहीतमायोरुगुणे सर्गादावगुणे स्वतः ॥ ३० ॥

तात्पर्यम्

यस्मात्तमेवायजंस्तस्मादिदं तस्मिन्नाहितम् । ‘नित्यं गृहीताः सत्वाद्या जीव-वज्जडवन्न तु । मिथ्यामानात्स्वरूपत्वात्स्वातन्त्र्याद्बहिरेव त्वि’ति ब्रह्मतर्के ॥ ३० ॥

पदरत्नावली

तद्द्रव्यमत्यगादित्यनेन भक्त्यादिभिरेवोत्तमत्वमुच्यते । न तु स्वरूपत इत्युक्तमेवार्थं स्फुटयन्नुपसंहरति- नारायण इति ॥ श्रीमत्पुण्डरीकाक्षकटाक्षप्रेक्षणप्राप्तसर्वप्रभावोऽहं तमेव नारायणं यज्ञादिभिरयजमिति यस्मात्तत्तस्मादिदमस्मदादिविश्वं तस्मिन्नारायण एवाहितं तदाधारतया तदधीनतया तद्व्याप्ततयाऽवस्थितमित्यन्वयः । आहितत्वे हेतुमाह- गृहीतेति ॥ सत्वादिगुणाधीनं सर्वम् । ते चानेन गृहीताः । अतः सर्वं तस्मिन्नाहितम् । ग्रह उपादान इति धातोः । सर्गादौ उपादानीकृतप्रकृत्युरुगुणे अन्यदा समीपावाप्तमायोरुगुणे । ननु हरेर् जीवजडवद् गुणसंबन्धः किं न स्यादिति तत्राह- अगुण इति ॥ जीवस्य स्वतो गुणराहित्येऽपि मिथ्याभिमानाज् जडस्य तु तन्मयत्वाद्गुणित्वं युक्तम् । हरेस्तदुभयाभावादगुणत्वम् । गुणस्वातन्त्र्याद् बहिः समीप एव सदाऽवस्थानाद् गृहीतगुणत्वं युक्तम् । उर्वित्यनेन हरेरतिशयितमाहात्म्यं सूचयति । ‘नित्यं गृहीताः सत्वाद्या जीववज्जडवन्न तु । मिथ्यामानात्स्वरूपत्वात्स्वातन्त्र्याद्बहिरेव तु ॥’ इत्येतदत्र मानम् ॥ ३० ॥

प्रकाशिका

नारायणे भगवतीत्युत्तरश्लोकस्य पूर्वेण सङ्गत्यप्रतीतेस्तां दर्शयति ॥ यस्मात्त-मेवेति ॥ अनेन मूले तच्छब्दस्तस्मात्तस्मिन्नित्यावृत्त्या योजनीय इति सूचयति । तदपेक्षया यस्मादिति पूरितम् । तथा च जगत्पूज्या अस्मदादयोऽपि यस्मात्तं पुरुषमेवायजंस्तस्मादस्मदादिपूज्यतया तस्यैव सर्वोत्तमत्वादिदं महदादिकं विश्वं तस्मिन्पुरुषशब्दाभिधेये नारायणे आहितमाश्रितम् । तदधीनमिति यावत् । तथा च पुरुष एवेदं सर्वमित्यत्र यद्विश्वस्य पुरुषाधीनत्वमुक्तं तत्रास्मदादिभिर्हीज्यत्वरूपं हेतुं सविस्तरमुक्त्वा तदेव पुनर्निगमयति ॥ नारायण इति ॥ इति अस्य श्लोकस्य सङ्गतिर्वक्तव्येति भावः । नारायणस्य पुरुषशब्दाभिधेयत्वं दर्शयितुं भगवतीत्युक्तम् । अनेन पुरवः षाः षड्गुणा यस्येति निर्वचनं सूचयति ॥ ननु विश्वं रजःप्रभृतिभिः प्रकृतिगुणैः सृष्ट्यादिकं प्राप्नोतीति श्रुत्यादावुच्यतेऽतस्तदधीनमेवेदं स्यादित्यत उक्तम् ॥ गृहीतमायोरुगुण इति ॥ अत्र सर्गादौ सर्गाद्यर्थम् । गृहीतमायोरुगुण इत्युक्त्या पूर्वं न तद्ग्रहणमिति भाति । तथात्वे भगवदगृहीतानां तेषामवस्थानासंभवेनानादित्वोक्तिविरोधः । किञ्च भगवतो गुणग्रहणं जीववच्चेद्बद्धत्वं स्याज्जडवच्चेद्विकारित्वम् । स्वतोऽगुण इत्युक्तिविरुद्धं चातः कथमेतदित्याशङ्कां प्रमाणेनैव परिहरति ॥ नित्यं गृहीता इति ॥ आद्यस्तुशब्दोऽवधाराणार्थः । अन्त्यो विशेषार्थः । तथा च यद्यपि सत्त्वाद्या नित्यं गृहीतास्तथाऽपि सर्गाद्यर्थं, तु विशेषेण कार्योन्मुख-तयोपगृह्यन्तेऽतः सर्गाद्यर्थं गृहीता इत्युच्यन्त इति भाव उक्तो भवति । द्वितीयशङ्कां परिहर्तुमुक्तम् ॥ जीववदित्यादि ॥ जीवानां यथा मिथ्याभिमानादस्वकीयेषु स्वकीयत्वभ्रमाज् ज्ञानेन्द्रियैश्च मनसेत्यादि-नोक्तरीत्या तदापादकतयेति यावत् सत्वादिग्रहणं तथा जडवज् जडानां स्वरूपत्वाद् विकारित्वात् तदापादकतया इति यावद् यथा तद्ग्रहणं तथा नैवेत्यर्थः । किं त्वित्यतस्तृतीयशङ्कां परिहर्तुमगुण इत्यस्य तात्पर्यं दर्शयति ॥ बहिरेवेति ॥ उक्ताभिमानविकारानापादकतयैवेत्यर्थः । कुत इत्यत उक्तम् ॥ स्वातन्त्र्यादिति । तत्सत्तादेर्भगवदधीनत्वेन तेषां तद्बन्धनाद्यापादनाक्षमत्वादिति भावः । तथा च सर्गादौ सर्गस्थितिसंहारार्थं गृहीता मायायाः प्रकृतेरुरव उत्कृष्टाः कार्योन्मुखा गुणा रजआद्या येन तस्मिन्स्वतः स्वभावतोऽगुणे गुणकृताभिमानविकाररहिते नारायण इति मूलयोजना द्रष्टव्या ॥ ३० ॥

सृजामि तन्नियुक्तोऽहं हरो हरति तद्वशः ।

विश्वं पुरुषरूपेण परिपाति त्रिशक्तिधृक् ॥ ३१ ॥

पदरत्नावली

येन स्वरोचिषा विश्वमित्याद्युक्तमुपसंहरन् हरस्य संहारस्वातन्त्र्यं मन्दमतीनां प्रतीयमानं परिहरति- सृजमीति ॥ पुरुषरूपेण विष्णुरूपेण त्रिशक्तिधृक् सृष्टिपालनसंहारशक्तिधरः ज्ञानबलक्रियाशक्तिधरो वा ॥ ३१ ॥

प्रकाशिका

ननु नारायणस्यैव रजःप्रभृतिगुणग्राहकत्वे ब्रह्मा रजसा सृजति हरस्तमसा संहरति इति वैदिकी प्रसिद्धिः कथमित्यत आह ॥ सृजामीति ॥ तेन मन्निविष्टेन ब्रह्मनाम्ना नारायणेन नियुक्तः प्रेरितस्तस्य स्वनिविष्टस्य हरे रूपस्य नारायणस्य वश अधीनः । प्रेरित इति यावत् । पुरुषरूपेण विष्णुरूपेण । तिस्रः शक्यत्वाच्छक्तिशब्दवाच्या गुणत्रयाभिमानिनी श्रीभूदुर्गा धरतीति त्रिशक्तिधृक् । नारायण एव ब्रह्मादिनामकमूर्तित्रयेण लक्ष्मीमूर्तित्रयाभिमन्यमानगुणत्रयं धृत्वा सृष्ट्यादिकं करोति । अहं च हरश्च तत्प्रेरणयैव रजस्तमोभ्यां सृष्टिसंहारकर्तारावतो गुणग्राहकत्वोक्तिस्तस्मिन्नेव मुख्याऽऽ-वयोस्त्वमुख्यत एवातो न विरोध इति भावः ॥ ३१ ॥

इति तेऽभिहितं तात यथेदमनुपृच्छसि ।

नान्यद्भगवतः किञ्चिद्भाव्यं सदसदात्मकम् ॥ ३२ ॥

तात्पर्यम्

‘सदिति व्यक्तमुद्दिष्टमसदव्यक्तमुच्यते । गम्यागम्यस्वरूपत्वात्तत्सत्तादिर्हरेर्यतः। अतस्तस्मादन्यदेव ह्यनन्यदिति भण्यत’ इति च ॥ ३२ ॥

पदरत्नावली

प्रश्नप्रतिवचनमुपसंहरति- इतीति ॥ अथ कुत्रापि कदाचिदपि मे जगतः स्वातन्त्र्यबुद्धिं न कुरु इति भावेनाह- नान्यदिति ॥ सदसदात्मकं व्यक्ताव्यक्तात्मकं ज्ञेयाज्ञेय-स्वरूपत्वात्तत्तत्स्वभावं, भाव्यम् उत्पाद्यं महदहङ्कारादि यज् जगत् किञ्चिदपि हरेर् अन्यन् न, स्वतन्त्रं न भवति । किन्तु तदधीनसत्ताकम् । अतो युज्यते तदनन्यदितीत्यर्थः । तदुक्तं- ‘सदिति व्यक्तमुद्दिष्टम-सदव्यक्तमुच्यते’ इत्यादि ॥ ३२ ॥

प्रकाशिका

यद्रूपं यदधिष्ठानमित्यादि प्रश्नप्रतिवचनमुपसंहरति ॥ इतीति ॥ इदं यद्रूप-मित्यादिनोक्तम् इतिशब्दपरामृष्टमेव संक्षेपतो दर्शयति ॥ नान्यदिति ॥ अत्र सदसदात्मकं विश्वं भगवतोऽन्यन्नेत्युक्त्याऽभेद एवोक्त इति प्रतीयते । सदसदात्मकत्वं चैकस्य विरुद्धमतः प्रमाणेनैवास्य तात्पर्यं दर्शयति ॥ सदिति ॥ उक्तार्थे सदसच्छब्दौ निर्वक्ति ॥ गम्येति ॥ अनेन गत्यर्थस्य सदेः कर्मणि क्विपि सदिति रूपमित्युक्तं भवति । तथा च व्यक्ताव्यक्तात्मकमिदं भाव्यमुत्पाद्यं किञ्चिन्मदा-दिकं विश्वं भगवतोऽन्यत्तदनधीनसत्तादिमन्न किन्तु तदधीनसत्तादिकमेवेत्यादि प्रमेयं त्वत्प्रश्नानुसारेण तुभ्यमभिहितमिति मूलं योज्यमिति भावः ॥ ३२ ॥

न भारती मेऽङ्ग मृषोपलक्ष्यते

न कर्हिचिन्मे मनसो मृषा गतिः ।

न मे हृषीकाणि पतन्त्यसत्पथे

यन्मे हृदौत्कण्ठ्यवता धृतो हरिः ॥ ३३ ॥

पदरत्नावली

एवंविधमाहात्म्यस्य हरेः प्रसादः कस्य स्यादित्याशङ्क्य भक्तिनदीस्नानेन निर्धूतमनोमलस्य सदा भगवदेकविषयेन्द्रियव्यापारस्य पुरुषस्य स्यादिति भावेनाह- नेति ॥ हृषीकाणि इन्द्रियाणि । अत्र हेतुमाह- यन्म इति ॥ औत्कण्ठ्यं प्रियवस्तुनि मनोवृत्तिविशेषः, स्नेहलक्षणा भक्तिः । तद्वता हृदा मनसा धृत इति यत्तस्मादित्यर्थः । अनेन भगवत्प्रसादसामग्रीसंपादने भक्तिरङ्ग-मित्युक्तं भवति ॥ ३२ ॥

प्रकाशिका

एवं पुरुषसूक्ताद्युक्तमाहात्म्यवन्तं भगवन्तं नारदप्रश्नोत्तरतयाऽभिधायोपसंहृतम् । इदानीं पुनस्तमेव साकल्येन वर्णयेति नारदस्य मनसि विद्यमानं चोद्यं परिहर्तुं साकल्येन तद्वर्णनं केनापि कर्तुं न शक्यते साकल्येन तस्य केनापि ज्ञातुमेवाशक्यत्वादित्युत्तरं वक्तुं सर्वदेवाद्युत्तमस्य मम वायोश्च तावत्साकल्येन तज्ज्ञाने शक्तिर्नास्तीत्याह ॥ न भारतीति श्लोकद्वयेन ॥ म इत्येतद्वायोरित्य-स्याप्युपलक्षकम् । तं भगवन्तं नाध्यगच्छम् । अधीति विशेषणान्मद्योग्यतापेक्षयाऽऽधिक्येन नाज्ञासिष-मित्यर्थः । इदमुपलक्षणम् । वायुरपि नाधिगच्छतीति ग्राह्यम् । ननु साकल्येन तदज्ञानं नाशक्तिनिबन्धनं किं त्विन्द्रियजयादितज्ज्ञानसामग््रयभावनिबन्धनमेवेत्यतः सा सर्वाऽप्यस्तीति वक्ष्यन् तावदिन्द्रियजय आवयोः स्वभावसिद्ध इत्याहाद्येन । भारती वागिन्द्रियम् । अङ्ग हे नारद । मृषाऽविद्यमानार्थक-वाक्यप्रयोगरूपे, व्यर्थवाक्यप्रयोगरूपे वा विषये प्रवर्तमाना नोपलक्ष्यते । मयाऽन्येन वा न दृश्यत इत्यर्थः । मृषाऽविद्यमाने व्यर्थे वाऽर्थे । हृषीकाणि वाङ्मनसेतरेन्द्रियाणि । कुतो युवयोरिन्द्रियजय औत्पत्तिक इत्यतोऽत्र कारणमाह । यतो यस्मान्मे आवाभ्याम् । औत्कण्ठ्यं भक्त्युद्रेकस्तद्युक्तेन हृदा मनसा । हरिर्धृतो ध्यातस्तस्मादिति ॥ ३३ ॥

सोऽहं समाम्नायमयस्तपोमयः

प्रजापतीनामभिवन्दितः पतिः ।

आस्थाय योगं निपुणं समाहित-

स्तन्नाध्यगच्छं यत आत्मसम्भवः ॥ ३४ ॥

पदरत्नावली

इतोऽपि पुंसां भक्तिरेव साध्या तत्प्रसादजननी । अन्यथाऽसौ दुर्ज्ञेय इति भावेनाह- सोऽहमिति ॥ मद्भक्तिविषयः यः विष्णुस् तस्यानुग्रहमन्तरेणाऽऽम्नायमयः वेदप्रतिपाद्येषु प्रधानः समीचीनज्ञानसंप्रदायप्राचुर्यो वा । तपोमयस् तपस्विषु प्रधानः । दक्षादिप्रजापतीनां पतिस् तैरभिवन्दितश्च । समाहित एकाग्रतया निश्चलमना भूत्वा निपुणं चतुरतमं योगं ध्यानलक्षणमुपायम् आस्थाय यत आत्मनो मम संभवस् तं भगवन्तं नाध्यगच्छम् । अधीति विशेषणाद् अनन्तत्वेना-नधिगतविशेषस्याधिक्यान् नाज्ञासिषमित्यर्थः ॥ ३४ ॥

प्रकाशिका

एवमिन्द्रियजयरूपं ज्ञानसाधनमावयोरस्तीत्यभिधाय श्रवणादित्रयमपि तत्साधन-मस्तीत्याह ॥ सोऽहमिति ॥ अत्रापि वायुरुपलक्ष्यः । स्वाभाविकेन्द्रियजयवानहं सम्यक् प्रचुरवे-दोऽनन्तवेदज्ञानवानित्यर्थः । प्रचुरतपःसंपन्नः । प्रजापतीनां मरीच्यादीनाम् । तृतीयार्थे षष्ठी । अनेन वेदसंप्रदायप्रवर्तकावावामिति सूचयति । निपुणं यथा स्यात्तथा समाहित एकाग्रचित्तः सन् । योगं ध्यानलक्षणमुपायमास्थाय कृत्वाऽपि । यत आत्मसंभव इत्यनेन तदसम्बन्धित्वात्तदज्ञानमिति शङ्काऽपि न कार्यमिति सूचितम् । तथा च साकल्येन तदज्ञानमावयोरशक्तिनिबन्धनमेवेति भावः ॥३४॥

नतोऽस्म्यहं तच्चरणं समीयुषां

भवच्छिदं स्वस्त्ययनं सुमङ्गलम् ।

यः स्वात्ममायाविभवं स्वयं गतो

नाहं नभस्वांस्तमथापरे कुतः ॥ ३५ ॥

तात्पर्यम्

‘सर्वजीवनिकायेषु ब्रह्मवायू हरेर्विदौ । न चान्यस्तादृशो वेत्ता यावद्वेत्ति हरिः स्वयम् । तावत्तावपि नो विष्णुं जानीतो लोकवन्दितावि’ति ब्रह्माण्डे ॥ ३५ ॥

पदरत्नावली

नारदायैवंविधहरिमहिमानं व्याचक्षाणस् तं स्मारं स्मारं भक्तिप्रसारसिन्धुनिमग्नस् तन्नतिं करोति- नतोऽस्मीति ॥ यः विष्णुः स्वात्ममायायाः स्वरूपभूतमहिम्नः विभवं विविधभवनम् अनन्ततां स्वयं गतः स्वयमेव जानाति । विशिष्योक्तौ निमित्तमाह- नाहमिति ॥ नभस्वान् वायुः । अपरे वाणीशेषाद्याः । अथशब्दात् साकल्यज्ञानमेव निषिध्यते । न तु तद्विषयज्ञानमात्रम् । ‘सर्वजीव-निकायेषु ब्रह्मवायू हरेर्विदौ’ इत्यादिवाक्यसूचनाद् अयं विशेषो बोद्धव्यः प्रेक्षावतेति । ‘मङ्गलानन्तरा-रम्भप्रश्नकार्त्स्नेष्वथो अथ’ इत्यमरः । ‘अथातोऽनन्तराप्यर्थविकल्पारम्भमङ्गल’ इति च । समीयुषां शरणं प्राप्तानां स्वस्त्ययनम् अलम्बुद्धिगोचरस्वानन्दानुभवप्रदम् । सुमङ्गलं मङ्गलानां मङ्गलम् । तच्चरणं तस्य हरेश् चरणम् । नतोऽस्मीत्येतावदेव सुशकमिति भावः । मङ्गलानाञ्च मङ्गलमिति च ॥ ३५ ॥

प्रकाशिका

एवं स्वस्य वायोश्च साकल्येन भगवज्ज्ञानेऽसामर्थ्यमुपपाद्येतरेषां कैमुत्येनैव तत्सिद्धमिति दर्शयन् इतरागम्यत्वरूपविशेषणविशिष्टतयैव भगवन्नमनरूपं मङ्गलमन्तेऽप्याचरति ॥ नतोऽस्मीति ॥ समीयुषां शरणागतानां, भवच्छिदं संसारनिवर्तकं, स्वस्त्ययनं मङ्गलावहं, सुमङ्गलं परममङ्गलरूपम् । नन्वेवमितराविदितं माहात्म्यं भगवतो नास्त्येव प्रमाणाभावादित्यत आह ॥ य इति ॥ स्वात्ममायायाः स्वस्वरूपभूतमहिम्नो विभवं विस्तारम् । साकल्यमिति यावत् । स्वयं स्वयमेव गतो जानाति । अनेनेश्वरप्रत्यक्षमेव तत्सद्भावे प्रमाणमित्युक्तं भवति । अपरे सरस्वत्याद्यास्तं भगवन्तमथ कार्त्स्न्येन जानीयुरिति कुतः प्रत्याशेत्यर्थः । मङ्गलानन्तरारंभप्रश्नकात्स्नर्््येष्वथो अथेत्यमरः । य इति यच्छब्दस्य तच्चरणमिति पूर्वेणान्वयः । अत्र कैमुत्योक्त्या इतरजीवापेक्षया ब्रह्मवाय्वोर्भगवज्ज्ञानाधिक्यं भगवत एव साकल्येन स्वज्ञानित्वं चोक्तम् । कुत इत्यतो ऽत्र पुराणान्तरसंवादमाह ॥ सर्वजीवेति ॥ अनेन कैमुत्यसूचितमाधिक्यं दर्शितम् । स्वयमित्येतत्सावधारणमिति ज्ञापयितुं न चान्य इति । हरेरित्यनुवर्तते । नाहमित्यादेस्तात्पर्यमाह ॥ यावदिति ॥ लोकवन्दितावित्यनेन प्रजापतीनामभिवन्दित इत्येतत्प्रमापितमिति ज्ञातव्यम् ॥ ३५ ॥

नाहं न यूयं बत तद्गतिं विदुः

न वामदेवः किमुतापरे सुराः ।

यन्मायया मोहितबुद्धयस्त्विदं

विनिर्मितं स्वात्मसमं विचक्ष्महे ॥ ३६ ॥

पदरत्नावली

इदानीं स्वात्मानं निदर्शनीकृत्य कस्यापि साकल्यज्ञानं नास्तीत्याह- नाहमिति ॥ लुप्तोपममिदम् । यथाऽहं साकल्येन तद्गतिं न वेद्मि तथा यूयं भवन्तोऽपि न विदुः । अत्रापि व्यत्ययात् साकल्यज्ञानमेव निषिध्यते । उत्तरखण्डेन स्वयोग्यज्ञानस्योक्तत्वादिति ज्ञातव्यम् । त्रिपुरान्तकः सर्वज्ञ इत्यप्यज्ञरूढिरेव न विद्वद्रूढिरिति भावेनाह- न वामदेव इति ॥ वामो निर्दोषो देवो नारायणो यस्य मते स तथोक्तः । ‘वामं शुभं पेशलम्’ इत्यभिधानम् । अनेनैवान्यस्यासद्भावं सिद्धमुद्गयति- किमुतेति ॥ अत्र हेतुमाह- यन्माययेति ॥ यस्य हरेर् मायया बन्धकशक्त्या मोहितबुद्धित्वादित्यर्थः । तत्फलमाह- इदमिति ॥ विनिर्मितमिदं जगत् स्वात्मसमं परमात्मसदृशं विचक्षते । ननु भवन्तोऽ-प्येष्वेके किमित्याशङ्क्य, सत्यं, विशेषोऽस्तीत्याह- त्विदमिति ॥ वयन्तु येनेदं निर्मितं भगवन्तं स्वात्मसमं स्वयोग्यतानुसारं विचक्ष्महे । नातोऽधिकम् । तदपि तत्प्रसादायत्तम् अतो न विद्म इति ब्रूम इत्ययं विशेषस् तुशब्दादवगन्तव्य इति । ‘तुः स्याद्भेदेऽवधारण’ इति । स्वाप्नसममिति पाठे स्वाप्नपदार्थवद् अनित्यम् अस्वतन्त्रमिदम् । अत एतन्नियामकेन स्वतन्त्रेण परमनित्येन भवितव्यमिति विचक्ष्मह इति भावः ॥ ३६ ॥

प्रकाशिका

एतदेवाज्ञाने कारणप्रदर्शनेन प्रपञ्चयति ॥ नाहमिति ॥ वामदेवः शिवः । कुतो न विदुरित्यतोऽत्र हेतुमाह ॥ यन्माययेति ॥ यस्य बन्धकशक्त्येत्यर्थः । अत्र ब्रह्मवाय्वो-र्मायामोहितबुद्धित्वमेकादशतात्पर्ये वक्ष्यमाणरीत्या द्रष्टव्यम् । येनेदं विश्वं निर्मितं तद्गतिं तस्य स्थिति-मित्यन्वयः । किं सर्वथैव न विदुरित्यत उक्तम् ॥ स्वात्मसममिति ॥ स्वयोग्यतानुसारं यथा स्यात्तथैव तद्गतिं विचक्ष्महे विद्मो नाधिकमित्यर्थः ॥ ३६ ॥

यस्यावतारकर्माणि गायन्ति ह्यस्मदादयः ।

न यं विदन्ति तत्वेन तस्मै भगवते नमः ॥ ३७ ॥

पदरत्नावली

इतोऽपि तत्स्वरूपसाकल्यज्ञानमेव निषिध्यते । न तु तद्विषयज्ञानमात्रम् । अन्यथा वागिन्द्रियप्रवृत्तिस् तद्विषया नोपपद्यते । सा चास्ति । तस्मादुक्तं युक्तमिति भावेनाह- यस्येति ॥ एकदेशज्ञानमपि स्वातन्त्र्येणेत्यभिमाने तदपि न स्यादिति भयेन पौनःपुन्येन नमनमिति भावः ॥ ३७ ॥

प्रकाशिका

ननु मूलरूपं साकल्येन ज्ञातुं वर्णयितुं वाऽशक्यं चेत्तद्विहाय तदवतारांस्तत्कर्माणि च साकल्येन वर्णयेति नारदमानसशङ्कां ज्ञात्वा हरेरवतारांस्तत्कर्माणि च वक्तुं शक्यानीत्यतो साकल्येन वर्णनं तत्राप्यशक्तमित्यभिप्रेत्य साकल्येनाविज्ञेयत्वरूपविशेषेण विशिष्टतया भगवन्नमनरूपं मङ्गलमादावाचरति ॥ यस्येति ॥ गायन्ति । योग्यतानुसारेणैवेति शेषः । यं विचित्रकर्मकर्त्रवतारवन्तम् । तत्त्वेन साकल्येन ॥ ३७ ॥

स एष आद्यः पुरुषः कल्पे कल्पे सृजत्यजः ।

आत्माऽऽत्मन्यात्मनाऽऽत्मानं स संयच्छति पाति च ॥ ३८ ॥

तात्पर्यम्

‘स्वयमेव स्वरूपाणि मत्स्यकूर्मादिकान्यजः । स्वात्मन्येवेच्छया सृष्ट्वा तैर्दे-वादीन्प्रपात्यसौ ॥ संयच्छत्यसुरान्विष्णुः कल्पे कल्पे जगत्प्रभुः । तिरोहितं स्वरूपं च प्रकाश-यति शास्त्रत’ इति भागवततन्त्रे ॥ ३८ ॥

पदरत्नावली

प्रपञ्चान्तस्थरूपबाहुल्यं तन्नियमनलक्षणं कर्म च अन्तरेण अन्यावताराणां तत्कर्मणाञ्च सद्भावे किम्प्रमाणमित्याशङ्क्य संक्षिप्य तदाह- स एष इति ॥ यो मदादिभिः सर्वैः साकल्येनाविज्ञातः स एष पुरुषः श्रीनारायणः । आत्मा स्वयमेव, कल्पे कल्पे आत्मना स्वेच्छया नियतमनसा आत्मनि स्वाधारतया आत्मानं मत्स्यादिरूपेण सृजति दीपाद्दीपान्तरवव्द्यक्तं करोति । देवदत्तवन्न जायत इत्यज इति । आद्य उपजीव्य इति व्यक्तीकरणम् । उपजीव्यत्वमेवाह- स संयच्छतीति ॥ तैरवतारैर् देवादिस्वजनं पाति । हयग्रीवादिदैत्यान्संयच्छति । चशब्द उक्तार्थसमुच्चये व्यासाद्यवतारान्तरसूचने च वर्तते । तथा च- व्यासाद्यवतारैर् मणिमदादितामसजनवचनेन तिरोहितं स्वरूपं शास्त्रप्रवर्तनेन प्रकाशयतीति ज्ञायते । तथा चोक्तम्- स्वयमेव स्वरूपाणि मत्स्यकूर्मादिका-न्यजः । स्वात्मन्येवेच्छया सृष्ट्वा तैर्देवादीन् प्रपात्यसौ’ इत्यादि ॥ ३८ ॥

प्रकाशिका

अवतारकर्माणि संक्षेपतस्तावद्दर्शयति ॥ स एष इति ॥ अत्रात्मानमित्यस्य सृजतीत्यनेनेव संयच्छति पाति चेति क्रियाद्वयेनापि सम्बन्धः प्रतीयते । आत्मादिशब्दानां च विवक्षितार्थो न प्रतीयतेऽतः प्रमाणान्तरेणैवेमं श्लोकं व्याचष्टे ॥ स्वयमेवेति ॥ आत्मेत्यस्यार्थः स्वय-मेवेति । आत्मशब्दस्य स्वयमेवेत्यर्थकत्वम् ‘अथवा स्वयमेवे’ति पूर्वोदाहृतप्रमाणसिद्धम् । आत्मान-मित्यस्यार्थः ॥ स्वरूपाणीत्यादि ॥ स्वाभिन्नानीत्यर्थः । आत्मनीत्यस्य स्वात्मनीति । एवेत्यनेना-धारान्तरव्यवच्छेदः । आत्मनेत्यस्य तात्पर्यम् ॥ इच्छयेति ॥ पातीत्यत्र देवादीनिति शेषः पूरणीय इत्याशयेनाह ॥ देवादीनिति ॥ संयच्छतीत्यत्रासुरानिति शेष इत्याशयेनाह ॥ असुरानिति ॥ कल्पे कल्पे प्रतिकल्पम् । अयं कल्पो दैनन्दिनः । पातीत्यस्यार्थान्तरमभिप्रेत्य व्यासाद्यवतारकर्माण्याह ॥ तिरोहितमिति ॥ शास्त्रतः कुसमयेभ्यस्तिरोहितमाच्छादितं स्वस्य स्वरूपं स्वातन्त्र्येण सर्वकर्तृत्वादिकं शास्त्रतो ब्रह्ममीमांसादिशास्त्रेभ्यः प्रकाशयति ॥ ततश्चायं श्लोकार्थः ॥ स पुरुषसूक्ताद्युक्तमाहात्म्योपेतः । एषः साकल्येन वर्णयितुमशक्यतयोक्तः पुरुषः पद्मनाभः कल्पे कल्पे प्रतिब्रह्मदिवसम् । अजो देहोत्पत्तिशून्य आत्मा स्वयमेवात्मनि स्वात्माधारतयैवात्मना स्वेच्छयाऽऽत्मानं स्वाभिन्नमेव मत्स्यादिकं रूपं सृजति व्यक्तं करोति । तैरसुरान्संयच्छति संहरति सुरादीन्पाति । तिरोहितमात्मानं स्वस्वरूपं व्यासादिरूपैः पाति प्रकाशयति चेति ॥ ३८ ॥

विशुद्धं केवलं ज्ञानं प्रत्यक् सम्यगवस्थितम् ।

सत्यं पूर्णमनाद्यन्तं निर्गुणं नित्यमद्वयम् ॥ ३९ ॥

ऋतं विद(न्द)न्ति मुनयः प्रशान्तात्मेन्द्रियाशयाः ।

यदा तदैवासत्तर्कैस्तिरोधीयेत विप्लुतम् ॥ ४० ॥

तात्पर्यम्

‘ऋतं तदात्मना ज्ञप्तेः सत्यं साधुत्वतः परम् । सम्यक्संस्थमदूष्यत्वाच्छुद्धं दोषोज्झितत्वतः । केवलं तादृशाभावात्प्रत्यगन्तरवस्थितेः । एतदेतादृशं तत्त्वं यो वेद स विमुच्यत’ इति ब्रह्मतर्के ॥ ३९, ४० ॥

पदरत्नावली

शास्त्रतः कीदृशं प्रकाशितमत्राह- विशुद्धमिति ॥ विशुद्धं निर्दोषत्वात् । केवलम् अद्वितीयम् । ज्ञानं विषयनिरपेक्षसंविसद्रूपम् । प्रत्यक् सर्वेषामन्तरभिमुखत्वेन स्थितम् । स्वतः शुद्धस्यापि परतो दोषित्वं स्यादित्यतः सम्यगवस्थितं दूष्यांशरहितत्वात् । सत्यं निर्दुःखनित्यनिरतिशया-नन्दानुभवरूपम् । पूर्णं देशतः कालतो गुणतश्चापरिच्छिन्नम् । अनाद्यन्तम् आदिविनाशवर्जितम् । निर्गुणं सत्वादिगुणरहितम् । अत एव नित्यं परिणामस्वभाववर्जितम् । अद्वयं स्वगतभेदवर्जितम् ॥

स्वतो विकाराभावेऽपि निमित्तेन स्यादित्यत आह- ऋतमिति ॥ शश्वदेकप्रकारम् । तदुक्तम्- ऋतं तदात्मना ज्ञप्तेः सत्यं साधुत्वतः परमित्यादि । एतज्ज्ञानस्य मोक्षैकफलहेतुत्वादिदमेव शास्त्रेण प्रकाशितं नान्यदित्याशयेनाह- विन्दन्तीति ॥ प्रकर्षेण शान्ता मङ्गलीभूता, आत्मा, मनः श्रोत्रादी-नीन्द्रियाणि, आशयो बुद्धिर्येषान्ते तथोक्ताः । यदा भगवदेकनिष्ठया निर्मलीभूतमनआदीन्द्रियप्रवृत्तयो मुनयः सर्वज्ञा ब्रह्मादय एवंविधगुणोपेतं ब्रह्मापरोक्षीकृत्य विन्दन्ति स्वानन्दं लभन्ते तदैवासत्तर्कैर् विमतं मिथ्या दृश्यत्वादित्यादिलक्षणैर् विप्लुतमुपहतम् अन्यथाभूतं बाह्यान्तःकरणं संसारबीजभूतं तिरोधीयेत दग्धबीजवद्भवतीत्यन्वयः । अनेन अवतारकर्मकीर्तनश्रवणादिना किम्फलमिति चोद्यमपि निरस्तम् । किञ्च मूलरूपस्य यादृशं रूपं यादृशं कर्म यादृशो गुणस् तत्सर्वमवताराणामप्यस्तीति अतस् तत्स्वरूपत्वं युक्तमिति च ज्ञापितम् ।

यद्वा असत्तर्कैः ‘यदि गुणवान् तर्हि दोषवान्, यदि कर्ता तर्हि श्रान्तः स्याद् देवदत्तादौ दृष्टत्वादित्यादिरूपैस् तिरोहितं विशुद्धत्वादिलक्षणं रूपं व्यासादिप्रणीतशास्त्रानिशितया बुद्ध्या यदा सम्यग्विन्दन्ति मुनयस् तदैव दोषित्वादिरूपं तिरोधीयेत तत्तद्विषया बुद्धिर्निवर्तत’ इति । कदा अवतारप्रसङ्ग इत्यतो वाऽऽह- स एष इति ॥ यदा बौद्धाद्यसत्तर्कैर् विप्लुतं धर्मशास्त्रं तिरोधीयेत । अधर्मशास्त्रमुज्जृम्भेत च तदाऽऽत्मानं सृजतीत्यन्वयः । कीदृशमात्मानमित्यत उक्तम्- विशुद्धमित्यादि ॥ मत्स्याद्यवतारा विष्णोः स्वरूपांशा इत्यत्र तेषां प्रत्यक्षं प्रमाणमवतारप्रसङ्गे चेत्यर्थः ॥ ३९-४० ॥

प्रकाशिका

व्यासादिरूपैः कीदृशं भगवत्स्वरूपं प्रकाशितं किं तज्ज्ञानेन फलमित्यत आह ॥ विशुद्धमिति ॥ अत्र ऋतसत्यादिशब्दानामेकार्थत्वप्रतीतिनिरासायार्थभेदं प्रमाणेनैवाह ॥ ऋतमिति ॥ तदात्मना पूर्वावगतस्वरूपेणैव ज्ञप्तेर्ज्ञायमानत्वात् । ऋगताविति धातोर्ऋतं ज्ञातं तदात्मनेति योग्यतया सम्बध्यते । तथा च पूर्वं यथा ज्ञातं तथैव सर्वदा ज्ञायतेऽतो ऋतशब्दस्य शश्वदेकप्रकारत्वमर्थ इति भावः । साधुत्वतो गुणपूर्णत्वतः । परं तत्वमिति सम्बन्धः । सम्यगवस्थितमित्येतदर्थतोऽनूद्य व्याख्याति ॥ सम्यक् संस्थमिति ॥ अदूष्यत्वात् । अपवित्रस्पर्शादिनेति शेषः । दोषोज्झितत्त्वतः स्वतो निर्दोषत्वात्परं तत्त्वमेतदुक्तरूपम् । एतादृशमेवंविधं यो वेद स विमुच्यते दग्धबीजायितजडान्तःकरणो भवतीत्यर्थः । अनेन विदन्ति मुनय इत्यादिकमुक्तार्थम् ।

ततश्चायं श्लोकार्थः ॥ विशुद्धं स्वतो निर्दोषम् । केवलं स्वसमरहितम् । ज्ञानमखिलज्ञप्तिरूपम् । प्रत्यक् सर्वान्तस्थम् । सम्यगवस्थितम् अपवित्रस्पर्शेऽपीति शेषः । तथा च परतोऽपि दोषित्वं नास्तीति भावः। सत्यं साधुगुणं पूर्णं देशतोऽपरिच्छिन्नम् । अनाद्यन्तं कालतोऽपि परिच्छेदशून्यम् । निर्गुणं सत्त्वादिगुणाबद्धम् । नित्यं देहतोऽपि नित्यम् । अथवा । नित्यं सर्वदाऽस्य पूर्वोत्तरेण वा सम्बन्धः। अद्वयं स्वगतभेदशून्यम् ॥

ऋतम् अपरिणामि भगवत्स्वरूपम् । मुनयः प्रशान्तात्मेन्द्रियाशयाः । आशयो मनः प्रकर्षेण शान्ता विषयेष्वलंबुद्धिं प्राप्ता देहेन्द्रियमनसो येषां ते तथा सन्तः । यदा विदन्ति व्यासादिकृतसच्छास्त्र-श्रवणमननादिनाऽपरोक्षतो जानन्ति । तदैवासत्तर्कैरसच्छास्त्रोदिततर्काभासैर्विप्लुतं मिथ्याज्ञानपरंपराजनक-तया दूषितं जडान्तःकरणं तिरोधीयेत दग्धबीजवद्भवतीति ॥ ३९-४० ॥

आद्योऽवतारः पुरुषः परस्य

कालः स्वभावः सदसन्मनश्च ।

द्रव्यं विकारो गुण इन्द्रियाणि

विराड् स्वराट्स्थास्नु चरिष्णु भूम्नः ॥ ४१ ॥

तात्पर्यम्

**‘यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः । स तु नारायणो नाम नराणामयनत्वतः । रूपं द्वितीयं भवति दीपाद्दीपान्तरं यथा । सिसृक्षोस्तस्य पुरुष इत्याहुस्तद्विदो जनाः । स रमाया द्वितीये तु रूपे प्रकृतिसंज्ञिते । वीर्यमाधत्त पुरुषो महांस्तस्मादजायत । योऽसौ हिरण्यगर्भाख्यः पुरुषः सोऽपि भण्यते । श्रद्धेत्युक्ता तु तत्पत्नी साऽपि प्रकृतिरुच्यते । प्रलये त्वशरीरौ तौ विभागेन व्यवस्थितौ । शरीरं प्राप्य पुरुषात्संयोगं तौ प्रचक्रतुः । ततः पुनर्महत्तत्त्वं प्रजातं जगदङ्कुरम् । स्वस्यैव पुत्रतां यातमहङ्कारस्ततोऽजनी’ति व्योमसंहितायाम् । पुरुषस्तस्यैवाद्योऽवतारः । कालादयो रूपवत् । अस्वरूपमपि प्रियत्वात् । ‘पुरुषाद्या हरेरूपं ब्रह्माद्यास्तत्प्रियाः स्मृताः । स्वरूपभूता नैवैते तत्सन्निधियुता अपी’ति पाद्मे । ‘कालो वस्तु-स्वभावश्च प्रकृतिः प्राण एव च । मनश्च पञ्चभूतानि विकारस्त्रिगुणा अपि । न स्वरूपं हरेरेतत्तथाप्येषु हरिः स्थित’ इति पाद्मे । सत्प्राणः । ‘सदिति प्राण’ इति श्रुतेः । ‘द्रव्यं तु पञ्चभूतानि विकारोऽण्डमुदाहृतम् । विराजं गरुडं प्राहुः स्वराडिन्द्र उदाहृत’ इति षाड्गुण्ये । सर्वं तु रूपवद्विष्णोर्विशेषेण विभूतिमत् । अतिप्रियत्वान्नैवैतत्स्वरूपमपि भण्यत’ इति स्कान्दे । ‘स्वतो महत्वं तु महोविशेषप्राप्तिशक्तिता । विभूतिर्लक्षणोन्नाहो लक्ष्मीशब्देन भण्यत’ इति ब्रह्मतर्के । ‘प्रधानत्वेन सर्वस्मान्मत्स्यकूर्मादयो हरेः । अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृताः । न स्वरूपं तु ब्रह्माद्याः स्मृता मायाविभूतयः । स्वेच्छयैषां विशिष्टत्वं कुरुते तत्तथा स्मृत’ इति व्योमसंहितायाम् ॥ ‘यज्ञशब्दोदितौ द्वौ तु देवौ लोकपुरस्कृतौ । एको नारायणस्तत्र रुद्रच्छिन्नस्तथापरः । स तु यज्ञाभिमानी स्यात्तत्पतिः केशवः स्मृत’ इति पाद्मे ॥ ४१ ॥ **

॥ इति द्वितीयतात्पर्ये षष्ठोऽध्यायः ॥ ६ ॥

पदरत्नावली

तत्र प्रथमावतारः क इत्याशङ्क्य तमाह- आद्य इति ॥ परस्य परायणस्य हरेर् आद्योऽवतारः पुरुष इति वदन्तीति शेषः । प्रलयोदके शयानो महाकृतिर्नराणामाश्रयत्वेन नारायणः शून्यनामाऽभूत् । सिसृक्षोस् तस्य दीपाद्दीपान्तरं यथा तथा द्वितीयं रूपमभूत् । तत्तत्वविदो जनास् तद्रूपं नाम्ना पुरुष इति संवदन्ते । स पुरुषः प्रकृतिनामि्न रमाया द्वितीये रूपे स्ववीर्यमाधत्त । तस्माद् वीर्यान् नाम्ना महानभूत् । यः हिरण्यगर्भः स पुरुष इति भण्यते । तत्पत्नी चोच्यते श्रद्धेति । तौ प्रलये स्थूलशरीररहितत्वाद् विश्लिष्टौ पुरुषाद्देहं प्राप्य संयोगं कृत्वा जगदङ्कुरं महत्तत्वं पुनरुदभावयताम् । स्वस्यैव पुत्रतां यातान् महत्तत्वाद् अहंतत्त्वमजनीति इतिहासम् आचक्षते ‘यः शेते प्रलये विष्णुः शून्यनामा महाकृतिः’ इत्यादिवाक्यसिद्धम् । सन्निधानविशेषाधिष्ठानत्वाद् अंशत्वं ब्रह्मादीनां न साक्षादितीममर्थं स्पष्टमाह- काल इत्यादिना ॥ यद्यत् कालाद्यद्भुतार्णान्तं, तत्तत्परं विशिष्टं सर्वं नारायणस्य रूपवत् प्रतिमावदधिष्ठानं प्रीतिहेतुत्वात् । स्वतो अस्वरूपं प्राकृतत्वात् । ‘पुरुषाद्या हरे रूपं ब्रह्माद्यास्तत्प्रिया स्मृताः । प्रधानत्वेन सर्वस्मान् मत्स्यकूर्मादयो हरेः । अवताराः श्रुतौ ख्याताः स एवैते ततः स्मृताः’ इत्यादेः । कालः परमाण्वादिपरममहदन्तः । स्वभावः वस्तुस्वभावः । सत् प्राणो ऽसत् सूक्ष्मत्वान्मूलप्रकृतिः । मनः मनस्तत्वम् । ‘कालो वस्तुस्वभावश्च प्रकृतिः प्राण एव च’ इत्यादेः । ‘सदिति प्राणः’ इति श्रुतेश्च । द्रव्यं पञ्चभूतानि । विकारोऽण्डम् । गुणः सत्वादिः । विराड् गरुडः । स्वराडिन्द्रः । ‘दिव्यन्तु पञ्चभूतानि विकारोऽण्डमुदाहृतम् । विराजं गरुडं प्राहुः स्वराडिन्द्र उदाहृतः ॥’ इति च । स्थास्नु चरिष्णु स्थावरं जङ्गमञ्च ॥ ४१ ॥

प्रकाशिका

अथ विस्तरतोऽवतारान्दर्शयिष्यन्प्रथमावतारं तावद्दर्शयति ॥ आद्य इति ॥ अत्र परस्येत्यस्योक्तविशुद्धस्वरूपादन्यस्य मायावच्छिन्नस्येत्यर्थः प्रतीयते । पुरुषपदेन च पुन्नामको ब्रह्मा । एतदुभयं प्रमाणविरुद्धमित्याशयेन परपुरुषशब्दौ सम्यग्व्याख्यातुं तावत्प्रमाणमुदाहरति ॥ यः शेत इति ॥ प्रलये सर्वकार्यद्रव्यविनाशकाले । अत एव शून्यनामा । तर्हि निराकारत्वप्रसङ्ग इत्यत उक्तम् ॥ महाकृतिरिति ॥ अपरिच्छिन्नशरीरः । नन्वेवमेको नारायण आसीदिति श्रुतिविरोध इत्यत आह ॥ स त्विति ॥ स एव । नरशब्दश्चेतनपरः । सर्वचेतनानां प्रलये तदुदरगतत्वान्नराणामयनत्वत इत्युपपन्नम् । अनेन परशब्दार्थो दर्शित इति ज्ञातव्यम् । आद्योऽवतारः पुरुष इत्यस्यार्थं दर्शयति ॥ द्वितीयमिति ॥ तदेवाद्यपदेनात्र विवक्षितमिति भावः । अवतारशब्दं व्याख्याति ॥ दीपादिति ॥ अभिमानि-देवतापेक्षयैतत् । जडस्य भिन्नाभिन्नत्वेन प्रकृते दृष्टान्तताऽयोगात् । अनेन मूलरूपादत्यन्ताभिन्न-स्यांशस्यातिरेक एवावतारशब्दार्थो न देहसम्बन्धेन जनिरित्युक्तं भवति । तस्य शून्यनामकस्य सकाशात् । विदो ज्ञानिनस्तद् द्वितीयं रूपं पुरुष इत्याहुः । अनेन पुरुषशब्दार्थो ज्ञानिवचनसंमतिप्रदर्शनेनोप-पादितः । परमसाङ्ख्योक्तप्रकृतिपतित्व, महदादितत्त्वस्रष्टृत्वरूपपुरुषलक्षणवत्त्वाच्चास्य पुरुषनामेत्या-

शयेनाह ॥ स रमाया इति ॥ मूलगतावतारशब्दव्यावृत्त्यं पुरुषशब्दाभिधेयमन्यं दर्शयति ॥ योऽसाविति ॥

ननु तस्मिन्साङ्ख्योक्तप्रकृतिपतित्वमहदादितत्त्वस्रष्टृत्वरूपपुरुषलक्षणाभावे कथं तस्य पुरुषशब्दाभि-धेयत्वप्रसक्तिरित्यतस्तदप्यस्तीति दर्शयति ॥ श्रद्धेत्यादिना ॥ पुनः स्थूलात्मना । तथा चायं पुरुष-शब्दाभिधेयो यद्यपि भवति, तथाऽपि पुरुषाद्देहसम्बन्धेन जन्मोक्त्याऽवतार इत्युक्त्यैवास्य व्यावृत्तिर्मूले दर्शितेति भावः । एवं प्रमाणमुदाहृत्याद्योऽवतारः पुरुषः परस्येत्येतत् स्ववचनेनापि व्याचष्टे ॥ पुरुष इति ॥ तस्य विशुद्धस्य शून्यनामकस्य नारायणस्यैवेत्यर्थः । एवकारो मायावच्छिन्नव्यावृत्त्यर्थः । तथा च परस्येत्येतदुत्तमस्येति व्याख्येयमिति भावः । अण्डान्तर्गतपुरुषव्यावृत्यर्थमाद्य इत्युक्तम् । पुन्नामक-ब्रह्मव्यावृत्यर्थम्- अवतार इति ॥ पुरुष एवेदं सर्वमित्यादिवचनात् कालादीनामप्यवतारत्वप्रतीति-मुत्तरवाक्येनान्वयप्रदर्शनेनैवापाकरोति ॥ कालादय इति ॥ रूपवत्स्वरूपवत् । अवतारवदिति यावत् । उच्यन्त इति शेषः । ननु स्वरूपत्वमेव कालादीनां किं न स्यादित्यत उक्तम् ॥ अस्वरूपमिति ॥ स्वरूपभिन्नं प्रमितम् । यत इति शेषः ।

ननु तर्हि स्वरूपभिन्ने स्वरूपत्वोक्तिः किंनिमित्तेत्यपेक्षायां तदनूद्य तन्निमित्तं दर्शयति ॥ अस्वरूपमपीति ॥ परमात्मस्वरूपत्वाभावेऽपि कालादयो रूपवदुच्यन्ते । परमात्मप्रियत्वादित्यर्थः । राजप्रियेऽमात्ये राजशब्दप्रयोगदर्शनादिति भावः । अत्र प्रमाणमाह ॥ पुरुषाद्या इति ॥ ब्रह्माद्याः कालाद्यभिमानिनः । स्वरूपत्वोक्तौ निमित्तान्तरमाह ॥ तत्सन्निधीति ॥ तत्सन्निधियुताश्च यतोऽतः । स्वरूपवदुच्यन्त इति शेषः । कालादीनां न हरिस्वरूपत्वं किन्तु तत्सन्निधियुतत्वमेवेत्यत्र प्रमाणान्तर-माह ॥ काल इति ॥ वस्तुस्वभाव इत्यनेन स्वभावपदं व्याख्यातम् । असच्छब्दार्थप्रदर्शनम्- प्रकृतिरिति ॥ सच्छब्दार्थः- प्राण एवेति ॥ चशब्द इन्द्रियाणां समुच्चायकः । द्रव्यशब्दार्थः- पञ्चभूतानीति ॥ विकारोऽण्डम् । गुण इत्यस्यार्थः- त्रिगुण इति ॥ उदाहृतप्रमाणे प्राणस्य सच्छब्द-वाच्यत्ववचनात् श्रुतिसंमत्या सच्छब्दं प्राणपरतया व्याख्याति ॥ सदिति ॥

ननु सदसच्छब्दौ मूर्तामूर्तपञ्चभूतपरावन्यत्र व्याख्यातौ । तथैवात्र कुतो न व्याख्याताविति चेत् । तथात्वे द्रव्यपदेन पुनरुक्तिप्रसङ्ग इत्याशयेन द्रव्यादिपदार्थान्प्रमाणेनैव दर्शयति ॥ द्रव्यं त्विति ॥ गरुडमिति ॥ विशब्दवाच्यपक्षिराजत्वादिति भावः । इन्द्र इति ॥ स्वशब्दोऽपि स्वशब्दवत्स्वर्ग-वाचकोऽस्तीति भावः ।

ननु विभूत्यादिमतोऽद्भुतार्णवस्य प्राचुर्येणावतारत्ववचनात्स्वरूपांशत्वमेवास्त्वित्याशङ्कायां तत्र प्राचुर्येण स्वरूपत्ववचने निमित्तान्तरं प्रमाणेनैव दर्शयति ॥ सर्वमिति ॥ तुशब्दो हेतुसूचनार्थः, स च प्रियत्वादिरूपः । रूपवदुच्यत इति शेषः । विभूतिमद्विभूत्यादिमत् । विशेषेण प्राचुर्येण रूपवदि-त्युच्यते । कुत एतदित्यत उक्तम् ॥ नैवेतदिति ॥ एतदपि स्वरूपं नैवेति श्रुत्यादौ भण्यत यत इत्यर्थः। महत्वादित्यादौ महो विभूति श्रीशब्दार्थान्प्रमाणेनैव दर्शयति ॥ स्वतो महत्वमिति ॥ स्वतो महत्वं न वरादिप्राप्तमिति तुशब्दार्थः । उन्नाह उत्कर्षः । लक्ष्मीशब्दस्य श्रीशब्दपर्यायत्वान्नासङ्गतिः । प्राधान्यतो यानित्यत्र मत्स्यादीनामवतारत्वे प्राधान्यत इति हेतुरुक्तस्तमुपपादयन् कालादिषु मध्ये विभूत्यादिमन्तः के इत्यपेक्षायां तानपि दर्शयन्प्रमाणमुदाहरति ॥ प्रधानत्वेनेति ॥ श्रुतौ ख्याता इत्यनेन ऋषयो वेदद्रष्टार आमनन्तीति व्याख्येयमिति सूचयति । न तु नैव स्वरूपमिति कुत इत्यतोऽत्र स्मार्ते हेतुमाह ॥ मायेति ॥ यत इति शेषः । स्मृतिगतमायाविभूतिपदमनूद्य व्याचष्टे ॥ स्वेच्छयेति ॥ विशिष्टत्वं स्वजात्याधिक्यं तत्तस्मात् । अनेन मायया ईशेच्छया विशिष्टभूतिर्भवनं येषामिति विग्रहो दर्शित इति ज्ञातव्यम् । अहं भवो यज्ञ इत्यत्र यज्ञशब्देन रुचिसूनुः प्रतीयते । तस्य च भगवदवतारत्वेन प्रमाणसिद्धस्य विभूतिरूपेषु गणनं बाधितमतोऽत्र विवक्षितं यज्ञशब्दार्थं दर्शयितुं यज्ञशब्दाभिधेयं प्रमाणेनैवाह ॥ यज्ञशब्देति ॥ तुशब्दोऽवधारणे । तत्र तयोर्मध्ये । केशवस्त्विति सम्बन्धः । सर्वेषां यज्ञानामभिमानी । अत एव यदा रुद्रेण दक्षाध्वरो ध्वंसितस्तदाऽयं यज्ञनामा देव एव छिन्न इति दर्शयितुं रुद्रच्छिन्न इत्युक्तम् ।

नन्वेवं यज्ञशब्दोदितयोः किं साम्यं नेत्याह ॥ तत्पतिरिति ॥ केशवो ब्रह्मरुद्रप्रवर्तक इति कैमुत्येन तत्पतित्वोपपादनायोक्तम् । जातो रुचेरजनयदित्युत्तराध्यायगतश्लोकस्थ यज्ञशब्दतात्पर्यमनेनाप्युप-पादयितुमस्य प्रमाणस्यान्ते निवेश इति ज्ञेयम् । ततश्च कालः स्वभाव इत्यादेरयमर्थः ॥

ननु कथं पुरुषादेरेवातारत्वं प्रमाणान्तरेषु कालादेरपि भगवदवतारत्वकथनादित्याशङ्कापरिहाराय कालादीनां भगवत्स्वरूपत्वप्रतिपादकवचनानि गौणार्थानीति वक्तुं कालादिकं तावदनुवदति ॥ काल इत्यादि ॥ अत्र कालादिशब्दैस्तदभिमानिनोऽपि ग्राह्याः । स्थास्नु स्थावरम् । चरिष्णु जङ्गमम् । भूम्न इत्यनेन कालादिषु तत्सन्निधिं सूचयति ॥ ४१ ॥

अहं भवो यज्ञ इमे प्रजेशा दक्षादयो ये भवदादयश्च ।

स्वर्लोकपालाः खगलोकपाला नृलोकपालास्तललोकपालाः ॥ ४२ ॥

पदरत्नावली

भूम्न इत्यनेन स्थावरादिव्यापित्वं युक्तमित्याह- अहमिति ॥ अहं चतुर्मुखः । भवः शिवः । यज्ञः यज्ञाभिमानी रुद्रच्छिन्नः । ‘यज्ञशब्दोदितौ द्वौ तु देवो लोकपुरस्कृतौ’ इत्यादेः । भवदादयः परमहंसाः । स्वर्लोकपाला इन्द्रादयः । खगलोकपाला गरुडादयः । नृलोकपालाः प्रियव्रतादयः । तललोकपाला अनन्तबल्यादयः ॥ ४२ ॥

प्रकाशिका

कालाभिमानित्वेन ब्रह्मण उक्तत्वेऽपि रूपान्तरविवक्षयाऽहमित्युक्तिः । भवः शिवो, भवदादयः परमहंसाः । स्वर्लोकपाला इन्द्रादयः । खगलोकपाला अरुणादयो, नृलोकपालाः प्रियव्रतादयस्तललोकपाला बल्यादयः ॥ ४२ ॥

गन्धर्वविद्याधरचारणेशा ये यक्षरक्षोरगनागनाथाः ।

ये वा ऋषीणामृषभाः पितॄणां दैत्येन्द्रसिद्धेश्वरदानवेन्द्राः ॥ ४३ ॥

पदरत्नावली

गन्धर्वेशा विश्वावस्वादयः । विद्याधरेशाश् चित्रकेत्वादयः । चारणेशाः पुष्प-दन्तादयः । यक्षनाथाः कुबेरादयः । रक्षोनाथा निर्ऋत्यादयः । उरगनाथा वासुक्यादयः । नागनाथा अनन्तादयः । पूर्वोक्तोऽनन्तो एककुण्डलः । ऋषीणामृषभा वसिष्ठादयः । पितृणाम् ऋषभो यमः । दैत्येन्द्राः प्रह्लादादयः । सिद्धेशाः सनकादयः । दानवेन्द्रा वृषपर्वादयः ॥ ४३ ॥

प्रकाशिका

गन्धर्वेशा विश्वावस्वादयो विद्याधरेशाश्चित्रकेत्वादयश्चारणेशाः पुष्पदन्तादयः । रक्षोरगेति सन्धिश्छान्दसः । यक्षनाथाः कुबेरादयो, रक्षनाथा निर्ऋत्यादय उरगनाथा वासुक्यादयो, नागनाथा अनन्तादयो, ऋषीणामृषभा वसिष्ठादयः, पितॄणामृषभा अग्निष्वात्तादयो, दैत्येन्द्रा प्रह्लादादयः, सिद्धेश्वराः सनकादयो, दानवेन्द्रा वृषपर्वादयः ॥ ४३ ॥

अन्ये च ये प्रेतपिशाचभूतकूष्माण्डयादोमृगपश्वधीशाः ।

यत्किञ्च लोके भगवन्महस्वदोजः सहस्वद्बलवत्क्षमावत् ।

ह्रीश्रीविभूत्यात्मवदद्भुतार्णं तत्तत्परं रूपवदस्वरूपम् ॥ ४४ ॥

पदरत्नावली

प्रेतेशोऽपि यमः । रूपान्तरविवक्षया पुनर्वचनम् । व्यासवासुदेववत् । पिशाचेशा घण्टाकर्णादयः । भूतेशा भैरवादयः । कूष्माण्डेशा भृङ्गिरुट्यादयः । यादसामीशास् तिमिङ्गिलादयः । मृगाणामीशाः सिंहादयः । पशूनामीशा नन्दिकेश्वरादयः । भगवद्यशोज्ञानादिमत् । महस्वत् स्वतो महत्ववत् । ओजस्वद् अवष्टम्भवत् । सहस्वत् सहनगुणवत् । बलवद् इच्छाकरणशक्तिमत् । क्षमावत् क्रोधासमुत्थितिमत् । ह्रीमद् योग्यलज्जावत् । श्रीमल्लक्षणोन्नद्धम् । विभूतिमद् विशेषप्राप्तियोग्यतावत् । ‘स्वतो महत्वन्तु महो विशेषप्राप्तिशक्तिता । विभूतिर्लक्षणोन्नाहो लक्ष्मीशब्देन भण्यत’ इति । आत्मवद् धृतिमन् मनोजयवद्वा । अद्भुतार्णम् आश्चर्यसमुद्रम् । स्वेच्छयैषां विशिष्टत्वं कुरुते तत्तथा स्मृत’मित्यतो मिथ्याविभूतित्वं प्रत्युक्तम् ॥ ४४ ॥

प्रकाशिका

प्रेतेशो यमः । पिशाचेशा घण्टाकर्णादयः । भूतेशा भैरवादयः । कूष्माण्डेशा भृङ्ग्यादयो, यादसां जलचराणामीशास्तिमिङ्गलादयः । मृगाणामीशाः सिंहादयः । पशूनामीशा नन्दिकेश्वरादयः । भगवदैश्वर्यादिषड्गुणवत् । महस्वत्स्वतो महत्ववत् । ओजस्ववदवष्ठम्भकशक्तिमत् । सहस्ववत्सहनवत् । बलवच्छरीरशक्तिमत् । क्षमावत्क्रोधासमुत्थितवत् । ह्रीमल्लज्जायोग्यलज्जावत् । श्रीमल्लक्षणोन्नाहवत् । विभूतिमद्विशेषप्राप्तिशक्तिमत् । आत्मवन्मनोजयवत् । अद्भुतार्णमाश्चर्यसमुद्रम् । परं विशिष्टम् । सर्वं नारायणस्य अस्वरूपं पुरुषादिवत्स्वरूपं न भवति तथाऽपि रूपवत्स्वरूप-वदामनन्तीति वक्ष्यमाणेन सम्बन्धः । तत्प्रियत्वात्तत्सन्निधियुतत्वाच्च । विभूत्यादिमदतिप्रियत्वाद्रूप-वदतिशयेन रूपवदामनन्ति ॥ ४४ ॥

प्राधान्यतो यानृषय आमनन्ति लीलावतारान्पुरुषस्य भूम्नः ।

आपीयतां कर्मकषायशोषाननुक्रमिष्ये त इमान्सुपेशलान् ॥ ४५ ॥

॥ इति श्रीमद्भागवते द्वितीयस्कन्धे षष्ठोऽध्यायः ॥

पदरत्नावली

पुरुषनामैक एव स्वरूपांशावतारः नान्य इति शङ्कां परिहरन्निव तदवतारानु-क्रमणं प्रतिजानीते- प्राधान्यत इति ॥ ऋषयः ब्रह्मादिज्ञानिनः । भूम्न आनन्दादिगुणपूर्णस्य पुरुषस्य यान् लीलावतारान् आमनन्ति पठन्ति अभ्यासेनोपासते च तान्, ते तव प्राधान्यतो अनुक्रमिष्ये गणयिष्यामीत्यन्वयः । भवता तदनुक्रमणरसः कर्णपुटेन आपीयताम् अभिगम्यताम् । यद्वा आपीयतां गायतां ध्यायतां पश्यतां पिबतां जनानां कर्मकषायः देहारम्भहेतुकर्माख्यरसस् तस्य शोषो यैस् ते तथोक्तास् तान् । पेयत्वे गुणमाह- सुपेशलानिति ॥ मधुरेभ्योऽप्यतिमधुरान् । इमानिति स्वमनसि प्रकाशितत्वेन कालक्षेपं क्षिपति ॥ ४५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

द्वितीयस्कन्धे षष्ठोऽध्यायः ॥

प्रकाशिका

मत्स्यादीनामवतारत्वे युक्तिं वदंस्तेषामनुक्रमेण कथनं प्रतिजानीते ॥ प्राधान्यत इति ॥ सर्वोत्तमत्वेनेत्यर्थः । ऋषयो वेदद्रष्टारः ॥ आपीयतां तत्कथामृतं त्वयाऽपीयतामभिगम्यताम् । यद्वा । सुबन्तोऽयम् । कर्णपुटेन पिबतां पुरुषाणां कर्मकषायो देहारंभककर्मकषाय इव नानाविधौषध-रसक्वाथ इव तस्य शोषो यैस्ते तथोक्तास्तान् । अत एव सुपेशलान्मधुरान् । श्रवणसुखप्रदानिति यावत् । ते तुभ्यमनुक्रमिष्येऽनुक्रमेण वर्णयिष्य इति ॥ ४५ ॥

॥ इति श्रीभागवतटिप्पण्यां षष्ठोऽध्यायः ॥ २-६ ॥