०५ पञ्चमोऽध्यायः

देवदेव नमस्तेस्तु भूतभावनपूर्वज

अथ पञ्चमोऽध्यायः

नारद उवाच—

देवदेव नमस्तेस्तु भूतभावनपूर्वज ।

तद्विजानीहि यज्ज्ञानमात्मतत्वनिदर्शनम् ॥ १ ॥

तात्पर्यम्

विजानीहि विज्ञापय । ‘व्यत्ययोऽभेदस्वातन्त्र्यकरणेष्वि’ति वचनात् ॥ १ ॥

पदरत्नावली

अस्मिन्नध्याये वेदगर्भनारदाख्यायिकाकथनव्याजेन ग्रन्थादौ प्रतिज्ञातं जगज्जन्मादिकारणत्वलक्षणं तदेकनिष्ठमिति सप्रपञ्चं प्रतिपाद्यते । तत्रादौ नारदप्रश्नप्रकारमाह- देव-देवेति ॥ यज्ज्ञानं, आत्मनः परमात्मनस् तत्वं नितरां दर्शयतीति आत्मतत्वनिदर्शनं तज्ज्ञानं मह्यं विजानीहि विज्ञापय । आत्मब्रह्मणोस् तत्वज्ञाने महान्विशेषोऽस्तीति भेदस्य, परमेश्वरप्रसादमन्तरेण वागादीन्द्रियप्रवृत्तिरपि विपरीता भवतीति तत्स्वातन्त्र्यस्य, अत्र ब्रह्मा कर्ता अहं करणमिति करणत्वस्य विवक्षया व्यत्यस्योक्तम् । जीवब्रह्मभेदः, हरेः स्वातन्त्र्यं, नारदस्य करणत्वमिति त्रयं व्यत्ययार्थः । तदुक्तं- ‘व्यत्ययोऽभेदस्वातन्त्र्यकरणेष्विति वचनात्’ इति ॥ १ ॥

प्रकाशिका

नारदो ब्रह्माणं प्रवचनाय नतिपूर्वकं प्रार्थयते ॥ देवदेवेति ॥ अत्र नारदेन स्वस्य ब्रह्माभेदाभिप्रायेण विजानीहीत्युच्यत इति भाति । अतोऽत्र विजानीहीत्येतदनूद्य प्रकृतसङ्गततया व्याख्याति ॥ विजानीहीति ॥ नन्वेवं विज्ञापयेत्येव वक्तव्ये विजानीहीति व्यत्ययेन वचनं किमर्थ-मित्यतोऽत्र प्रयोजनं महाव्याकरणसूत्रेणैव दर्शयति ॥ व्यत्यय इति ॥ सुप् तिप् विकरणलिङ्ग-पुरुषादिव्यत्ययोऽभेदकरणस्वातन्त्र्येषु विवक्षितेषु व्याख्यातव्य इति सूत्रार्थः । तत्र हि हरिरूपाणां तद्गुणक्रियादीनां च हरिणा परस्परं चाभेदे वक्तुः स्वातन्त्र्ये करणत्वे च विवक्षिते सुप् तिङादीनां व्यत्ययो भवति । प्रकृते च ब्रह्मनारदान्तर्यामिणोरभेदो वक्तुर्ब्रह्मणः प्रयोजककर्तृत्वरूपं स्वातन्त्र्यं नारदचित्ताभिमानितया करणत्वं चाभिप्रेतम् । अत एतत्त्रितयज्ञापनाय व्यत्ययेनोक्तिरिति भावः ॥ ततश्चायं श्लोकार्थः ॥ हे भूतभावन । अत एव सर्वेषां पूर्वज । यदात्मतत्त्वं परमात्मस्वरूपं नितरामतिशयेन दर्शयति प्रतिपादयति । तज् ज्ञायतेऽनेनेति ज्ञानं ज्ञानसाधनं पुराणं विजानीहि विज्ञापय । त्वमेव मच्चित्तं प्रेरयित्वा तत्पुराणमहं यथा सम्यक् जानीयां तथा कुर्वित्यर्थः ॥ १ ॥

यद्रूपं यदधिष्ठानं यतः सृष्टमिदं विभो ।

यत्संस्थं यत्परं यच्च तत्तत्वं वद तत्वतः ॥ २ ॥

तात्पर्यम्

तद्वशत्वादिदं रूपं हरेर्नैव स्वरूपत’ इति मानससंहितायाम् । ‘अधिष्ठानमिति प्रोक्तं मूलाधारं विचक्षणैः । यत्स्थितं दृश्यते वस्तु संस्थानं तदुदीरितम् । उभयं हरिरेवास्य जगतो मुनिपुङ्गवे’ति वामने ॥ ‘हरिः परोऽस्य जगतो ह्यव्यक्तादेश्च कृत्स्नशः । अतस्तत्परमेवेदं वदन्ति मुनयोऽमला’ इति सात्वतसंहितायाम् । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते । विद्यमाने विभेदेऽपि मिथोनित्यं स्वरूपत’ इति भविष्यत्पर्वणि ॥ २ ॥

पदरत्नावली

ज्ञेयं पृच्छति- यद्रूपमिति ॥ इदं विश्वं यस्य रूपमिव रूपम् । न तु साक्षा-द्रूपम् । चित्वेन सत्वेन च सादृश्यात् तद्वशत्वाच्च । तदुक्तम्- ‘तद्वशत्वादिदं रूपं हरेर्नैव स्वरूपतः’ इति । योऽधिष्ठानं मूलाधारो यस्य तद् यदधिष्ठानम् । न त्वारोप्यमाणसर्पस्य रज्जुवदधिष्ठानम् । ‘अधिष्ठानमिति प्रोक्तं मूलाधारं विचक्षणैः’ इति । इदं यतः सृष्टं संभूतम् । ‘यतो वा इमानि भूतानि जायन्त’ इति श्रुतेः । पीठवद् यस्मिन् संस्था संस्थानं यस्य तद् यत्संस्थम् । ‘यत्स्थितं दृश्यते वस्तु संस्थानं तदुदीरितम्’ इति च । पूर्वत्र पृथिवीवद् अत्र पीठवदिति विशेषान् न पुनरुक्तिः । यः परो यस्माज्जगतस् तद् यत्परम् । हरिः परोऽस्य जगतो ह्यव्यक्तादेश्च कृत्स्नश इति । यस्मात् संस्था मृत्युः संहारो यस्य तद् यत्संस्थम् । येन परं पालनं यस्य तद् यत्परम् । ‘येन जातानि जीवन्ति, यत्प्रयन्त्यभिसंविशन्ति’ इति वा । यच्च यदधीनञ्च । यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इति च । तस्य हरेस् तत्वं तत्वतो यथावद् वदेत्यन्वयः ॥ २ ॥

प्रकाशिका

नारदः सामान्यतः स्वावगतं भगवन्माहात्म्यमनुवदन् विशेषतो वदेति प्रार्थयते ॥ यद्रूपमिति ॥ अत्र यद्रूपमित्येतद्यत्स्वरूपमिति प्रतीतिवारणाय प्रमाणेनैव व्याचष्टे ॥ तद्वशत्वादिति ॥ इदं जगद्रूपं रूपमित्युच्यत इत्यर्थः ॥ स्वरूपत इति ॥ मत्स्यादिवत् स्वरूपत्वेनेत्यर्थः । यदधिष्ठानं यत्संस्थ-मित्यनयोर्यदधिष्ठानं यस्य यस्मिन्संस्थितमित्यर्थकत्वात्पौनरुक्त्यमित्याशङ्कायां प्रमाणेनैव तयोरर्थभेदं दर्शयति ॥ अधिष्ठानमितीति ॥ मूलाधारमिति ॥ साक्षादाधारस्याधारमित्यर्थः । गृहे पीठे तिष्ठतीत्यत्र गृहमिवेति भावः । यत्स्थितं यस्मिन्साक्षात्स्थितं सम्यक् स्थीयते वस्तु यस्मिंस्तत्संस्थानं पीठवदिति भावः ।

नन्वेवं यत्संस्थमित्यत्र यच्छब्देन मूलाधारभूतभगवदितरस्यैव ग्रहणप्राप्तौ प्रायपाठविरोध इत्यत आह ॥ उभयं हरिरेवेति ॥ रूपभेदेनेति भावः । यत्परमित्येतद्यस्मात्परमिति प्रतीतिवारणाय प्रमाणेनैव व्याचष्टे ॥ हरिः पर इति ॥ अत एवेति सम्बन्धः । बहुव्रीह्यभिप्रायादेवेत्यर्थः । अनेन यः परो यस्य तद्यत्परमिति मूलं व्याख्यातमिति मन्तव्यम् । यच्चेत्येतदप्यभेदप्रतीतिवारणाय प्रमाणेनैव व्याचष्टे ॥ यदधीनेति ॥ ततश्चायं मूलार्थः ॥ इदं विश्वं यद्रूपं यस्य हरे रूपमिव रूपं तद्वशत्वात् । योऽधिष्ठानो गृहवन्मूलाधारो यस्य तद्यदधिष्ठानम् । यस्मिन्पीठ इव सम्यक् साक्षात्तिष्ठतीति यत्संस्थम् । यः परो यस्य तद्यत्परम् । यच्च यदधीनं च तस्य हरेस्तत्त्वं त्वदपेक्षयोत्तमत्त्वादिरूपं माहात्म्यं तत्त्वतो यथा-वद्वदेति ॥ २ ॥

सर्वं ह्येतद्भवान् वेद भूतभव्यभवत्प्रभुः ।

करामलकवद्विश्वं विज्ञानावसितं तव ॥ ३ ॥

पदरत्नावली

मम वक्तव्यांशे भवतो ज्ञानसामग्री विद्यत इत्याह- सर्वमिति ॥ हिशब्देन ‘प्रजापते नत्वदेतान्’ इत्यादिश्रुतिप्रसिद्धिं द्योतयति । सर्वमेतदिति प्रतिज्ञा । भूतादिप्रभुरिति हेतुः । हीतिव्याप्तिप्रदर्शनम् । करामलकवदिति निदर्शनम् । विज्ञानेति निगमनम् ॥ ३ ॥

प्रकाशिका

मम वक्तव्यांशे तव तत्त्वज्ञानमस्ति । अतो न जानामीति न वाच्यमित्याशये-नाह ॥ सर्वं ह्येतदिति ॥ एतन्मां प्रति वक्तव्यम् । भवान्वेद । कुत इत्यतोऽत्र कैमुत्यं हेतुमाह । हि यस्माद्भूतं जातं भव्यं जनिष्यमाणं भवज्जायमानं तेषां त्वं प्रभुर्यतोऽतस्तव विशिष्टज्ञानेन विश्वं सर्वशास्त्रवेद्यं परमपरं च तत्त्वं करामलकवद् अवसितं निश्चितं तस्मात्सर्वमेतन्मम वक्तव्यं भवान्वेदेति किं वाच्यमिति ॥ ३ ॥

यद्विज्ञानो यदाधारो यत्परस्त्वं यदात्मकः ।

एकः सृजसि भूतानि भूतैरेवात्ममायया ॥ ४ ॥

तात्पर्यम्

तदधिकं ज्ञातुं पूर्वपक्षं दर्शयति । एकः सृजसीत्यादिना ॥ ४ ॥

पदरत्नावली

नैतत्सामान्यविज्ञानं, किन्तु विशिष्टमेव । हरिप्रसादायत्तत्वादिति भावेनाह- यद्विज्ञान इति ॥ यस्य प्रसादाद् विज्ञानं यस्य तव सस् त्वं यद्विज्ञानः । य आधारो यस्य सस् तथा । यः परो यस्मात् स तथा । य आत्मा स्वामी यस्य सः यदात्मकः । त्वं तं वदेति शेषः । उक्तादधिकं ज्ञातुं पूर्वपक्षं दर्शयति- एकः सृजसीत्यादिना ॥ एकस्त्वमेवात्ममायया स्वेच्छया भूतानि चराचराणि पृथिव्यादिपञ्चभूतैः सृजसि ॥ ४ ॥

प्रकाशिका

एवं जगदाधारं हरिं पृष्ट्वा इदानीं तवैव ज्ञानादिप्रदं कथयेति प्रार्थयते ॥ यद्विज्ञान इति ॥ यस्माद्विज्ञानं यस्य, य आधारो यस्य, यदात्मको यत्स्वामिकश्च त्वं तत्तत्त्वं वदेति पूर्वेणान्वयः। एकः सृजसीत्यादिना ब्रह्मण एव सर्वोत्तमत्त्वं स्वोक्तविरुद्धं नारदः कथं वदतीत्यतस्तस्याभिप्रायमाह ॥ तदधिकमिति ॥ तस्माद्ब्रह्मणोऽधिकं ब्रह्ममुखादेव ज्ञातुं पूर्वपक्षं ब्रह्मण एवेश्वरत्वं दर्शयति । हिरण्यगर्भः समवर्तताग्र इत्यादिश्रुतितात्पर्यापरिज्ञानप्राप्तमुपपादयतीत्यर्थः । तथा च पूर्वपक्षस्थितेन नारदेन तथोक्तत्वान्न विरोध इत्याशयः ॥ ततश्चायं मूलार्थः ॥ त्वमेक एवासहाय एव स्वयं स्वतन्त्र आत्ममायया स्वेच्छया स्वाधीनप्रकृत्या वा । भूतानि चराचराणि भूतैः पञ्चमहाभूतैः सृजसि ॥ ४ ॥

आत्मन्भावयसे तानि न पराग्भावये (भावयसे) स्वयम् ।

आत्मशक्तिमवष्टभ्य सूत्रनाभिरिवाक्लमः ॥ ५ ॥

पदरत्नावली

कुलालादेः शालाद्यधिष्ठानं दृष्टम् । किमस्याधिष्ठानमत्राह- आत्मन्निति ॥ अक्लमस् त्वं तानि भूतानि सूत्रनाभिर् ऊर्णनाभिरिव आत्मशक्तिं निजसामर्थ्यमवष्टभ्य आत्मन् आत्मनि भावयसे उत्पादयसि । वर्धयसे च । पराक् त्वत्तो बहिर् न भावये इति ॥ ५॥

प्रकाशिका

सृष्ट्वा तानि चराचराण्यात्मन् आत्मनि । स्वाश्रितानीति यावत् । भावयसे पालयसि । पराक् त्वत्तो बहिर्न भावयसे । क इव । आत्मशक्तिं स्वसामर्थ्यमाश्रित्य श्रमरहित ऊर्णनाभिर्यथा तथेति ॥ ५ ॥

नाहं वेद परं त्वस्मान्नावरं न समं विभो ।

नामरूपगुणैर्भाव्यं सदसत्किञ्चिदन्यतः ॥ ६ ॥

पदरत्नावली

यतस् तस्माद् अस्माद् भवतो विश्वस्य परम् उत्तमं कारणम् अहं न वेद । अवरं हीनं समं कारणञ्च न वेद । तुशब्देन उक्तार्थमवधारयति । निगमयति- नामेति ॥ नाम्ना वाचकेन, रूपेण शुक्लादिना, गुणैः सत्वादिभिः सत् स्थूलम् असत् सूक्ष्मं वा किञ्चिद्वस्तु यद्भाव्यम् उत्पाद्यं तत् त्वदन्यत इत्यपि गर्हितं निन्दितम् । अतस्त्वमेव सर्वकारणमित्यर्थः ॥ ६ ॥

प्रकाशिका

एवं ब्रह्मण एव सृष्ट्यादिकारणत्वमुपपाद्य तदन्यस्य कारणत्वं दूषयति ॥ नाहमिति ॥ नामरूपगुणैर्मनुष्यतिर्यगादिनाम्ना द्विचतुष्पत्वादिरूपेण शुक्लकृष्णादिगुणैः । तद्विशिष्ट-तयेति यावत् । सदसत् स्थूलं सूक्ष्मं किञ्चित्सर्वं जगद्यस्मादन्यतोऽन्यस्माद्भाव्यमुत्पाद्यं तदन्यद्व-स्त्वस्माद्भवतः परमुत्तमं न वेदावरं नीचं न वेद समं सदृशं न वेद । तथा च जगदुत्पादकं त्वदन्यत्त्वदुत्तमं त्वत्समं त्वदवरं वा नास्ति प्रमाणाभावादित्याशयः ॥ ६ ॥

स भवानचरद् घोरं यत्तपः सुसमाहितः ।

तेन खेदयसे नस्त्वं परां शङ्कां च यच्छसि ॥ ७ ॥

पदरत्नावली

ज्ञातत्वेन त्वया प्रश्नः किमिति कृत इति तत्कारणमाह- स भवानिति ॥ तपो ऽचरदिति यत्तेन हेतुना त्वं नोऽस्मान् खेदयसे त्वयि अनलंबुद्धिं प्रापयसि । त्वदितरकर्तृसद्भावे परां शङ्काञ्च यच्छसि इत्यन्वयः । तस्मात् प्रश्नः कृत इति भावः ॥ ७ ॥

प्रकाशिका

तर्ह्येवं ज्ञानवतस्तव प्रश्नः किमर्थस्तन्मूलभूतसंशयाभावादित्यतः संशयबीजमपि दर्शयति ॥ स भवानिति ॥ एवंविधोऽपि भवानित्यर्थः । तपोऽचरदिति यत्तेन नोऽस्मान्खेदयसे त्वय्यनलं बुद्धिं प्रापयसि । परां परविषयां त्वदितरकर्तृसद्भावविषयामिति यावत् । शङ्कां च यच्छसि प्रयच्छसि । पराशङ्कामिति पाठे परस्मिन् त्वदपेक्षयोत्तमविषये आशङ्कामित्यर्थः ॥ ७ ॥

एतन्मे पृच्छतः सर्वं सर्वज्ञ सकलेश्वर ।

विजानीहि यथैवेदमहं बुध्येऽनुशासितः ॥ ८ ॥

तात्पर्यम्

‘त्वदधीना यतः सत्ता अवरस्यापि केशव । अतः स्वरूपतः सम्यक्सति भेदेऽपि तद्भवानि’ति मात्स्ये ॥ ८ ॥

पदरत्नावली

सर्वज्ञ सकलेश्वरेति विशेषणद्वयम् उक्तार्थस्थिरीकरणायोक्तम् । यथा बुध्ये जानामि तथेति शेषः । ‘त्वदधीना यतः सत्ता ह्यवरस्यापि केशवे’त्यनेन पूर्वपक्षोऽयमिति ज्ञायते ॥ ८ ॥

प्रकाशिका

सर्वज्ञ सकलेश्वरेत्युक्तार्थस्थिरीकरणायोक्तम् । अनुशासितः शिक्षितः सन् । बुद्ध्ये बुद्ध्येयम् । तथा विजानीहि विशेषेण ज्ञापयेत्यर्थः । कुतोऽयं पूर्वपक्ष इत्यतस्तदुपपादनाय प्रमाणमाह ॥ त्वदधीनेति ॥ तदप्यवरमपीत्यपिशब्दसम्बन्धः । भवानित्युच्यते । वैदिकैरिति शेषः । एकः सृजसी-त्यादिना नारदेन ब्रह्माणं प्रति त्वमेवेश्वर इत्युक्तं सकलेश्वरेति सम्बोधितत्त्वात् । सिद्धान्ते च जीवेश्वरा-भेदवचनस्यैतत्प्रमाणबलेन तदधीनसत्ताकत्वमेवार्थतया वर्णनीयम् । न च नारदेनात्र तथोक्तम् । नाहं वेद परं त्वस्मादित्युक्तत्वात् । अविज्ञाय परं मत्त इति वक्ष्यमाणत्वाच्च । अतोऽयं पूर्वपक्ष एवेति ज्ञायत इति भावः ॥ ८ ॥

ब्रह्मोवाच—

सम्यक्कारुणिकस्येदं वत्स ते विचिकित्सितम् ।

यदहं चोदितः सौम्य भगवद्वीर्यदर्शने ॥ ९ ॥

पदरत्नावली

नारदप्रश्नं परिहरिष्यन् तज्जिज्ञासितं स्तौति- सम्यगिति ॥ अहं भगवतो हरेर् वीर्यस्य सृष्ट्यादिलक्षणस्य दर्शने ख्यापने चोदित इति यद् यस्माद् अतस् ते विचिकित्सितं सम्यक् समीचीनमित्यन्वयः । कारुणिकस्येत्यनेन लोकोपकारकञ्चेदमिति लक्षयति ॥ ९ ॥

प्रकाशिका

नारदप्रश्नं परिहरिष्यन्नादौ तत्प्रश्नं स्तौति ॥ सम्यगिति ॥ विचिकित्सितं सन्देहः । तन्मूलप्रश्न इति यावत् । सम्यक् समीचीनः । अत्र हेतुर्यद्यतः परधर्मे भगवद्वीर्यदर्शने प्रकाशे चोदितः प्रेरितोऽस्मीति । कारुणिकस्येत्यनेन लोकोपकारायैवेदं तव प्रश्नकरणमिति सूचयति ॥ ९ ॥

नानृतं बत तच्चापि यथा मां प्रब्रवीषि भोः ।

अविज्ञाय परं मत्त एतावत्त्वं यतो हि मे ॥ १० ॥

तात्पर्यम्

नानृतमित्याक्षेपः ॥ १० ॥

पदरत्नावली

तत्र प्रथमतः पूर्वपक्षांशमाक्षिपति- नानृतमिति ॥ त्वम् एकः सृजसीति यथा मां प्रब्रवीषि तथा तद् अनृतं न किं ? अनृतमेव । बत त्वद्वचनं श्रुत्वा अहं खिन्नः । ‘खेदानुकम्पा-सन्तोषविस्मयामन्त्रणे बत’ इति वचनात् । यच्च मत्तः परमधिकमीश्वरमविज्ञाय नाहं वेद परं त्वस्मादिति मामात्थ तच्चानृतं तदप्यनृतमेव । कुत इति तत्राह- अपीति ॥ अतिगर्हितत्वात् । ‘अपिः पदार्थसंभावनान्ववसर्गगर्हासमुच्चयेषु’ इति सूत्रात् । ‘गर्हा समुच्चयप्रश्नशङ्कासंभावनास्वपि’ इत्यभिधानाच्च । कस्मान्मदुक्तमाक्षिपसीति तत्राह- एतावत्त्वमिति ॥ हिशब्द एवार्थे । मे एतावत्त्वं तद्रोचिषा रोचितरोचकत्वं ह्येव । नातोऽधिकमिति यस्मात् तस्माद् इति शेषः ॥ १० ॥

प्रकाशिका

नानृतं बतेति सिद्धान्तवाक्यस्य यत्त्वयोक्तमेकः सृजसीत्यादि तन्नानृतं किन्तु सत्यमेवेति नारदोक्तस्तुतिपरत्वं प्रतीयते । न च तद्युक्तम् । उक्तवक्ष्यमाणविरोधात् । अतस्तस्याभि-प्रायमाह ॥ नानृतमिति ॥ आक्षेपो निराकरणं न स्तुतिरित्यर्थः । काक्वाऽनृतं न किम् अनृतमेवेति योजनीयमिति भावः ॥ ततश्चायं मूलार्थः ॥ त्वमेकः सृजसीत्यादि यथा यन्मां ब्रवीषि तदनृतं न किमनृतमेव । बतेत्यास्वादने । यच्च मत्तः परमधिकमविज्ञाय नाहं वेद परं त्वस्मादिति मामात्थ तच्चानृतं न किं तदप्यनृतमेव । कुत इत्यत उक्तम् ॥ अपीति ॥ अपिर्गर्हायाम् । गर्हितत्वादित्यर्थः । एतदपि कुत इत्यत आह ॥ एतावत्वमिति ॥ यतो म एतावत्वं तदधीनमाहात्म्यवत्वं हि श्रुत्यादि-प्रसिद्धं तस्मादतीव गर्हितमिति ॥ १० ॥

येन स्वरोचिषा विश्वं रोचितं रोचयाम्यहम् ।

यथार्कोऽग्निर्यथा सोमो यथार्क्षग्रहतारकाः ॥ ११ ॥

पदरत्नावली

एतदेव स्पष्टयति- येनेति ॥ तत्र प्रमाणमाह- यथेति ॥ ‘तमेव भान्तमनुभाति सर्वम्’ ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम्’ इत्यादेः ॥ ११ ॥

प्रकाशिका

एतदेव स्पष्टयति ॥ येनेति ॥ येन हरिणा स्वरोचिषा स्वप्रकाशेन रोचितं प्रकाशितं रोचयामि प्रकाशयामि । ऋक्षाण्यश्विन्यादीनि ग्रहा मङ्गलादय आदित्यचन्द्रयोः पृथगुक्तत्वात् । तारका इतरनक्षत्राणि ॥ ११ ॥

नमस्तस्मै भगवते वासुदेवाय धीमहि ।

यन्मायया दुर्जयया मां वदन्ति जगद्गुरुम् ॥ १२ ॥

विलज्जमानया यस्य स्थातुमीक्षापथेऽमुया ।

विमोहिता विकत्थन्ते ममाहमिति दुर्धियः ॥ १३ ॥

तात्पर्यम्

‘मुख्या माया हरेः शक्तिरमुख्या प्रकृतिर्मता । अथामुख्यतमा चैव माया दीना प्रकीर्तिता’ ॥ १२ ॥

पदरत्नावली

बुभूषुणा दुर्मतश्रवणप्राप्तापराधो भगवन्नमनेन परिहर्तव्य इति भावेन भगवन्तं नमति- नम इति ॥ तस्मै वासुदेवाय भगवते नमः । वयं तं धीमहि इत्यन्वयः । अनेन ॐ नमो भगवते वासुदेवाय’ ‘नारायणाय विद्महे वासुदेवाय धीमहि । तन्नो विष्णुः प्रचोदयात्’ इति द्वादशाक्षरी चतुर्विंशदक्षरी चेति द्वे विद्ये हिरण्यगर्भेण नित्यं सेव्ये इति दर्शितम् ।

यद्वा मत्तः परमविज्ञाय यथा एकः सृजसीत्यादि यं प्रकारं मां प्रब्रवीषि तच्च तत्प्रकारविषयवचन-मेवानृतम् । नान्यद् यद्रूपमित्यादि । तदेवानृतं कुत इत्यत आह- नेति ॥ प्रमाणविरोधात् । ‘नाभावान्यविरोधेष्वि’ति वचनात् । अयं पक्षः सम्भावित इत्याह- अपीति ॥ बत सन्तोषहेतुत्वात् । कुतोऽनृतमिति तत्राह- एतावत्वमिति ॥ यतः यस्माद् विष्णोर् मे एतावत्वं परिच्छिन्नप्रभावत्वं हि प्रसिद्धम् । कथं प्रसिद्धमित्यत उक्तमेव विशिनष्टि- येनेति ॥ अनेन हरेः करणत्वं तव कर्तृत्वं प्रतीतं, न तु हरेः स्वातन्त्र्यकर्तृत्वमित्याशङ्क्य दासभावकथनेन स्पष्टयति- नम इति ॥ रामेण मुक्तः शरो रावणमवधीदित्यादाविव करणत्वमपि मुख्यकर्तृत्वं प्रयोजयतीत्यतः करणत्वप्रयोगोऽकिञ्चित्करः । नन्वेवं चेत् तव कर्तृत्वप्रवादः कथं, अत्राह- यन्माययेति ॥

त्रिविधा माया । एका हरेरिच्छा मुख्या । द्वितीया अमुख्या प्रकृतिः । तृतीया अमुख्यतमा दीना जीवानां बन्धकशक्तिरिति । तत्र यस्य विष्णोर् इच्छाधीनया दुर्जयया हरिभजनवर्जितैर् जेतुमशक््यया यस्य हरेर् ईक्षापथे दृष्टिमार्गे स्थातुं विलज्जमानया चित्प्रकृत्या अभिमन्यमानया शैवल्याख्यया जीवस्वरूपाच्छादिकया अमुया मायया मोहिता अन्यथाज्ञानमाप्ता अत एव दुर्धियः जना मम वशे विश्वमस्ति सर्वस्याहं कर्तेति च विकत्थन्ते तं धीमहीत्यन्वयः । ‘मुख्या माया हरेः शक्तिरमुख्या प्रकृतिर्मते’ त्यादिना त्रैविध्यावगमान् नेन्द्रजाललक्षणा मायाऽत्रोच्यते ॥ १२,१३ ॥

प्रकाशिका

दुर्मतश्रवणजनितपापपरिहाराय वासुदेवद्वादशाक्षरविद्यां विष्णुगायत्रीं च स्मरन्न-मति ॥ नम इति ॥ अनेन हरिमाहात्म्यं वक्तुमादौ नमनरूपं मङ्गलं कृतमित्यपि ज्ञातव्यम् । नन्वेवं चेत्तव कर्तृत्वप्रवादो लोके किंनिबन्धन इत्यत आह ॥ यन्माययेति ॥ मोहिताः सन्त इति शेषः । जगद्गुरुं जगज्जनकम् । अत्रानिर्वाच्याऽविद्यैव मायाशब्दवाच्येत्यन्यथाप्रतीतिवारणाय प्रमाणेनैवात्र विवक्षितां मायां दर्शयति ॥ मुख्या मायेति ॥ प्रकृतिश्चेतना । दीना दुःखिता । स्वगुणाच्छादिकारूपा । तथा चात्र त्रिविधाऽपि ग्राह्येति भावः । दुर्जयया हरिभजनवर्जितैर्जेतुमशक्यया ॥ १२ ॥

दीनां मायामभिप्रेत्याह ॥ विलज्जमानयेति ॥ यस्य हरेरीक्षापथे कृपाकटाक्षमार्गे । तद्विषय इति यावत् । हरिर्यमुद्धरिष्यामीति कृपाकटाक्षेणेक्षते तस्मिन्पुरुषे स्थातुं विलज्जमानयैव तस्मिन्स्वकार्य-मकुर्वन्त्येति यावत् । अमुया स्वगुणाच्छादिकरूपया मोहिता अत एव ममाहमिति दुर्धियो दुरभिमान-युक्ता विकत्थन्ते । सर्वप्रमाणविरुद्धं ममैव सर्वोत्तमत्वकथनं कुर्वन्ति ये एवं कथयन्ति ते न हरेः कृपाकटाक्षविषया इति भावः । तं धीमहीत्यन्वयः ॥ १३ ॥

द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।

वासुदेवात्परो ब्रह्मन्न चान्योऽर्थोऽस्ति तात्वतः ॥ १४ ॥

तात्पर्यम्

परो ऽधिकः । ‘तद्वदेव स्थितं यत्तु तात्वतं तत्प्रचक्षत’ इति कौर्मे ॥ १४ ॥

पदरत्नावली

ननु विष्णोरितरत्कारणं नास्तीति कथमुच्यते । पृथिव्यादीनां प्रातिस्विककारणत्व-प्रतीतेरिति तत्राह- द्रव्यमिति ॥ द्रव्यं पृथिव्यादि । कर्म पुण्यपापलक्षणम् । पृथिव्यादीनां परिणामविशेषो वा । कालः परिणामहेतुस् त्रुटिलवात्मकः । स्वभावः सात्विकादिः । जीवः सुख-दुःखाश्रयः । द्रव्यं पुरोडाशादि । कर्म ऋत्विगादिव्यापारः । कालः वसन्तादिः । स्वभावो ब्राह्मणत्वादिः । जीवः यजमानसंज्ञ इति वा । द्रव्याद्यन्यतमोऽन्योर्थः वासुदेवात् परो ऽधिकः नास्ति । तर्हि तत्समः कश्चित् स्यात् । अत्राह- तात्वत इति ॥ नेत्यनुवर्तते । तात्वतस् तद्वदेव स्थितः समोऽपि नास्तीत्यर्थः । ‘तद्वदेव स्थितं यत्तु तात्वतं तत्प्रचक्षत’ इति वचनात् । अनेन द्रव्यादीनां प्रातिस्विककारणत्वस्य भगवदेकनियतत्वेन हरेर् अखण्डकर्तृत्वं सुस्थिरमिति सिद्धम् ॥ १४ ॥

प्रकाशिका

ननु भवतो भगवदधीनत्वेन तदुत्तमत्वतत्समत्वयोरसम्भवेऽपि साङ्ख्याद्युक्तरीत्या प्रकृतिकर्मादिकमेव भगवदुत्तमं तत्समं वा स्यादित्यत आह ॥ द्रव्यमिति ॥ अत्र परशब्दस्यान्यार्थ-त्वेऽन्य इति पदं व्यर्थमतस्तदनूद्य व्याचष्टे ॥ परोऽधिक इति ॥ अप्रतीत्या तात्वतशब्दं प्रमाणेनैव व्याचष्टे ॥ तद्वदेवेति ॥ ततश्चायं श्लोकार्थः ॥ द्रव्यं प्रकृतिः, कर्मेष्टानिष्टप्रापकं, कालो वसन्तादिः, स्वभावस्तत्तद्वस्तुस्वभावः । जीवो देवदत्तादिः । जीवाद्भवन्ति भूतानीत्यादिश्रुतेः । उक्तादन्यश्चार्थः शिवशक्त्यादिरूपो वासुदेवात्परोऽधिको नैव । तात्वतश्च तद्वदेव स्थितश्च तत्समश्च नैव । प्रकृत्या-दीनामचेतनत्वेनास्वातन्त्र्यात् । जीवस्यापि हिताहिताकरणादिना तथात्वस्यानुभवसिद्धत्वात् । शिवादीनामप्यस्वतन्त्रतया श्रुत्यादिसिद्धत्वादिति भावः ॥ १४ ॥

नारायणपरा वेदा देवा नारायणाङ्गजाः ।

नारायणपरा लोका नारायणपरा मखाः ॥ १५ ॥

तात्पर्यम्

वेदप्रतिपाद्येषु स पर इत्यादि । ‘गम्येज्यज्ञेयवाच्येषु योज्येषु च परो हरिः । तपसा पूज्यमानानां सर्वलोकेभ्य एव चे’ति वाराहे ॥ १५ ॥

पदरत्नावली

ननु ‘हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । ब्रह्मा देवानां प्रथमः सम्बभूव विश्वस्य कर्ता भुवनस्य गोप्ता’ इत्यादिश्रुतयस्त्वद्गुणप्रतिपादनपराः कथमन्यविषयाः स्युर् इत्याशङ्क्य मदन्तःस्थस्य मन्नाम्नो हरेर् गुणप्रतिपादिका इत्याशयेनाह- नारायणपरा इति ॥ स्वप्रतिपाद्येषु वस्तुषु नारायण एव परो अधिको येषां ते तथोक्ताः । सर्वस्मादुत्कृष्टं नारायणमेव प्रतिपादयन्तीति कुत इति तत्राह- देवा इति ॥ नारायणस्य चक्षुराद्यवयवेभ्यो जाता इत्यनेन देवानामवरत्वं नारायणस्योत्कृष्टत्वमुक्तमिति ज्ञायते । नारायण एव पालकत्वेन परो येभ्यस्ते तथोक्ताः । ‘अहं हि सर्वयज्ञानां’ इत्यादेः । इज्येषु इन्द्रादिषु अयं पर इति कृत्वा नारायणपरा मखा इत्युक्तम्

॥ १५ ॥

प्रकाशिका

नन्वेवं हिरण्यगर्भः समवर्तताग्र इत्यादिश्रुतिविरोधः । तत्र भवदादीनामेव सर्वोत्तमत्वकथनादित्यत आह ॥ नारायणपरा वेदा इति ॥ तर्हि वेदाद्देवाद्यसिद्धिरिति शङ्कापरि-हारायास्य तात्पर्यमाह ॥ वेदप्रतिपाद्येष्विति ॥ स परो मुख्यः । तथा च नारायणे महातात्पर्य-सिद्धिरितरत्रावान्तरतात्पर्यमतो न तदसिद्धिरिति भावः । आदिपदेनेज्येषु योज्येषु तपसा पूज्यमानेषु ज्ञेयेषु गम्येषु स पर इत्यस्य ग्रहणम् । इत्यादि व्याख्यानमत्राभिमतमिति शेषः । अत्र प्रमाणमाह ॥ गम्येज्येति ॥ हरिरेव पर इत्यन्वयः ॥ ततश्चायं श्लोकार्थः ॥ वेदा हिरण्यगर्भ इत्याद्या नारायण एव परः प्रतिपाद्येषु मुख्यो येषां ते तथोक्ताः । तथा चोदाहृता वेदा मुख्यतो नारायणमेव प्रतिपादयन्ति । अमुख्यवृत्त्येतरानतो न तद्विरोधो नापि देवाद्यसिद्धिरिति भावः । एतदेवोपपादयति ॥ देवा इति ॥ देवा वेदप्रतिपाद्या नारायणाङ्गेभ्यो जाताः श्रूयन्तेऽतोऽमुख्या इति शेषः । वेदप्रतिपाद्या भूरादयस्त्रि-लोका अपि नारायणपरा नारायणापेक्षयाऽमुख्याः । यतस्तेऽपि नारायणाङ्गजाः । उक्तसमन्वयसिद्धये वेदप्रतिपाद्यं यज्ञादिकमप्यमुख्यमित्युपपादयति । मखा यज्ञा अपि नारायणपरा नारायण एवेज्येषु परो येषां ते तथोक्ताः ॥ १५ ॥

नारायणपरो योगो नारायणपरं तपः ।

नारायणपरं ज्ञानं नारायणपरा गतिः ॥ १६ ॥

पदरत्नावली

अष्टाङ्गयोगेन योज्यमानेष्वपि परो हरिरेव । कृच्छ्रचान्द्रायणादितपसां विषयोऽपि स एव । अत्रापि तपसा युज्यमानानां पर इत्यर्थः । नारायणपरं ज्ञानं ज्ञानेन परमज्ञेयो हरिः । नारायणपरा गतिर् आश्रयेषु गम्येषु वा मुख्याश्रयो मुख्यगम्यश्चायमेव । तदुक्तं- ‘गम्येज्यज्ञेयवाच्येषु योज्येषु च परो हरिः’ इत्यादि । अनेन हिरण्यगर्भादिशब्दानां चतुर्मुखादिविषयत्वमपहस्तितम् । ‘सर्वे वेदा यत्पदमामनन्ति’ इति श्रुतेः ॥ १६ ॥

प्रकाशिका

योगोऽष्टाङ्गोपेतो नारायण एव योज्येषु परो यस्य स तथा । एवं तपो नारायण एव परः स्वपूज्येषूत्तमो यस्य तत्तथा । ज्ञानं नारायण एव परं मुख्यं ज्ञेयं यस्य तत्तथा । गतिर्गम्यं नारायण एव परो मुख्यो यस्याः सा तथा । अनेन मखादिगत्यन्तप्रतिपादकवेदस्य नारायण एव समन्वयप्रकारो दर्शित इति ध्येयम् ॥ १६ ॥

तस्यापि द्रष्टुरीशस्य कूटस्थस्याखिलात्मनः ।

सृज्यं सृजामि सृष्टोऽहमीक्षयैवाभिचोदितः ॥ १७ ॥

पदरत्नावली

ननु भवतः स्रष्टृत्वाभावे कथं त्वन्नाम लोके ख्यातं वर्तत इत्यतस् तं प्रकारं दर्शयति- तस्यापीति ॥ तद्दृष्टिं प्रतिष्टब्धुं कोऽपि समर्थो नास्तीति- ईशस्येति ॥ ईशत्वञ्च वरादिप्राप्तं नेति- निर्विकारस्येति ॥ एतदपि बलवत्प्रतिबन्धकेनान्यथा न भवतीति- अखिलस्वामिन इति ॥ एवंविधस्य तस्य हरेर् अपिशब्दात् श्रियश्च ईक्षयैव कटाक्षवीक्षणेनैवाभिचोदितः, तेन सृष्टो ऽहं सृज्यं जगत्सृजामीत्यन्वयः । एवशब्देन सृष्टौ प्रयोजकान्तरं निवारयति ॥ १७ ॥

प्रकाशिका

ननु भवतः कर्तृत्वाभावे ब्रह्मैव कर्तेति पौराणिकी प्रसिद्धिः कथमित्यत आह ॥ तस्यापीति ॥ अवाप्तसमस्तकामतया स्वप्रयोजनशून्यस्यापीत्यर्थः । द्रष्टुः । कार्यकारणादेरिति शेषः । ईशस्य तत्तद्वस्तुप्रेरकस्याथाऽपि निर्विकारस्याखिलात्मनोऽखिलान्तर्यामिणः । तृतीयार्थे षष्ठी । तेन सृज्यमेव स्रष्टुं योग्यतामापादितमेव । सर्जनोन्मुखीकृतमेवेति यावत् । तेन सृष्टोऽहमीक्षया कृपा-कटाक्षेणाभिचोदितः प्रेरित एव सन्सृजामि । कार्यकारणादिकं सृष्ट्वा तत्प्रविश्य स्वयमविकार एव तत्परिणामादिशक्तिं प्रेरयित्वा यत्सृज्यं करोति तदेव तेनान्तर्बहिश्च प्रेरितः सन् अहं करोम्यतः पुराणेषु मम कर्तृताप्रसिद्धिरिति भावः ॥ १७ ॥

सत्वं रजस्तम इति निर्गुणस्य गुणास्त्रयः ।

स्थितिसर्गनिरोधेषु गृहीता मायया विभोः ॥ १८ ॥

तात्पर्यम्

युगपत्क्रमशोऽपि वेत्यस्य परिहारः ‘सत्वं रजस्तम’ इति । ‘नित्यं गृहीताः सत्वाद्याः स्थित्यादिषु विशेषतः । युगपत्क्रमशश्चैव गृह्णाति भगवान्स्वयमि’ति ब्रह्मवैवर्ते ॥ १८ ॥

पदरत्नावली

एवं हरेर् मुख्यकर्तृत्वं प्रदर्श्याधुना युगपत् क्रमशोऽपि वेति प्रश्नं परिहरति- सत्वं रजस्तम इति ॥ तेन हरिणा नित्यं गृहीता अपि सत्वं रजस्तम इति त्रयो गुणाः, निर्गुणस्य सन्ततं सत्वादिगुणरहितस्य । विभोर् मायया इच्छया स्थित्यादिषु निमित्तभूतेषु क्रमशो युगपच्च गृहीता इत्यन्वयः । माययेति विशेषणान् मूलसृष्ट्यादिषु क्रमशः दैनन्दिनसृष्ट्यादिषु युगपद्गृहीता इति विशेषः । तदुक्तं ‘नित्यं गृहीताः सत्वाद्याः स्थित्यादिषु विशेषतः । युगपत्क्रमशश्चैव’ इति ॥ १८ ॥

प्रकाशिका

एवं नारदेनाक्षिप्तं स्वकर्तृत्वं प्रतिषिध्य भगवत एव कर्तृत्वमुपपादितम् । इदानीं सत्त्वंरजस्तम इत्यादिना प्रकृतासङ्गतं किमुच्यत इत्याशङ्कायां तस्य सङ्गतिमाह ॥ युगपत्क्रमशोऽपीति ॥ न चायं प्रश्नो राज्ञैव कृतो न नारदेनेति वाच्यम् । नारदायेति पृच्छत इत्यत्र राजकृतप्रश्नप्रकारेणैव नारदेनापि प्रश्नः कृत इति सूचितत्वात् । तथा च युगपत्क्रमशोऽपि वेत्यस्य प्रश्नस्य परिहारो यथा स्यात्तथा प्रागुक्तं भगवतः कर्तृत्वं विशदयतीत्यर्थः । प्रश्नपरिहारप्रकारं प्रमाणेनैव दर्शयति ॥ नित्यं गृहीता इति ॥ यद्यपि नित्यं गृहीतास्तथाऽपीत्यर्थः । स्थित्यादिषु स्थित्याद्यर्थं विशेषतः स्वस्वकार्य-करणक्षमत्वेन । स्वयमेवेति ब्रह्मरुद्रयो रजस्तमसोर्ग्रहणं व्यावर्तयति । इदानीं युगपत्केषाञ्चित्सृष्टिसमय एव केषाञ्चित्स्थितेरन्येषां लयस्य च दर्शनाद् आदिसृष्टिं, महाप्रलयम्, तदन्तरां स्थितिं चापेक्ष्य क्रमश इत्यभिप्रेत्य युगपत्क्रमशश्चेत्युक्तम् । ततश्च निर्गुणस्य सत्त्वादिगुणकृतविकारशून्यस्य सत्त्वादिग्रहणेऽपि जीववन्न तत्कृतविकारोऽस्यास्तीति दर्शयितुमिदमुक्तम् । तृतीयार्थे षष्ठी । निर्गुणेन विभुनेत्यर्थः । मायया स्वेच्छया नित्यं गृहीता अपि स्थितिसर्गनिरोधार्थं विशेषतो युगपक्रत्मशश्च गृहीता इत्यध्याहारेण मूलं योज्यमिति भावः ॥ १८ ॥

कार्यकारणकर्तृत्वे द्रव्यज्ञानक्रियाश्रयाः ।

बध्नन्ति नित्यदा मुक्तं मायिनं पुरुषं गुणाः ॥ १९ ॥

तात्पर्यम्

‘ज्ञानेन्द्रियैश्च मनसा सत्वं बध्नाति पूरुषम् । रजः कर्मेन्द्रियैर्नित्यं शरीरेण तमस्तथा ॥ आन्तरं यत्तु कर्तृत्वं तत्सत्वेनाभिमन्यते । रजसा त्वभिमन्येत करणैः कर्म-कारणैः ॥ शारीरं वेदनाद्यं तु तमसा ह्यभिमन्यते । अकर्ता करणैर्हीनः शरीरेण विवर्जितः ॥ नित्यज्ञानस्वरूपोऽसौ गुणैरेवाभिमन्यते । एवं जीवः परेणैव प्रेरितः संसृतिं व्रजेत् । न परः संसृतिं क्वापि स्वातन्त्र्यादधिकत्वतः॥ एवं जीवपरौ भिन्नौ किमन्यच्छ्रोतुमिच्छसी’ति पाद्मे ॥ मायिनं ज्ञानिनं स्वतः ॥ १९ ॥

पदरत्नावली

रजोगुणमुपादानीकृत्य सृष्टिं वक्ष्यन्हरेः सत्वादिगुणैर् जीवबन्धकत्वमहिमानमाह- कार्येति ॥ पुरुषमिति जातावेकवचनम् । द्रव्यज्ञानक्रियाश्रया द्रव्यं तामसाहङ्कारकार्यं शरीरम् । ज्ञानं वैकारिकाहङ्कारकार्यं मनः, श्रोत्रादीन्द्रियाणि च । क्रिया तैजसाहङ्कारकार्यं वागादीन्द्रियजातम् आश्रयो येषां ते तथोक्ताः । एवंविधाः प्रकृतेः सत्वादयो गुणा अभिमानमन्तरेण नित्यदा मुक्तं प्रकृति-सम्बन्धविधुरं मायिनं स्वतो ज्ञानिनं पुरुषं जीवसमुदायं कार्यकारणकर्तृत्वे बध्नन्तीत्यन्वयः । तत्रायं विभागः । तमोगुणः कार्ये शरीरे तद्गतदुःखाद्यनुभवेन बध्नाति । रजोगुणः कर्मकारणैरिन्द्रियैः कारणेषु कर्मसु बध्नाति । सत्वगुणस्तु मनसा ज्ञानेन्द्रियैश्च आन्तरं यत्सुखम् अनुभवामीति तत्र कर्तृत्वे बध्नाति । इदमुक्तं भवति । शरीरगतदुःखाद्यनुभवे तमो गुणः । कर्मसु रजो गुणः । अहं सुखीति सुखानुभवे सत्वगुणः कारणम् । गुणानामचेतनत्वेन स्वतः प्रवृत्यनुपपत्तेस् तन्नियमने मुख्यकारणम् ईश्वरेच्छेति । तदुक्तं ‘ज्ञानेन्द्रियैश्च मनसा सत्वं बध्नाति पूरुषम् । रजः कर्मेन्द्रियैर्नित्यं शरीरेण तमस्तथा ॥’ इत्यादि

॥ १९ ॥

प्रकाशिका

नन्वीश्वर एव सत्त्वादिगुणरूपोपाधिभिर्जीवभावमापद्यते । तयोर्भेदे मानाभावादतः कथं निर्गुणस्येत्याद्युक्तमित्याशङ्कायामीश्वरस्य जीवाद्भेदं साधयितुं तावद्गुणैर्जीवबन्धकत्वरूपं माहात्म्य-माह ॥ कार्यकारणेति ॥ इमं श्लोकमप्रतीतेः प्रमाणेनैव व्याचष्टे ॥ ज्ञानेन्द्रियैरिति ॥ अनेन ज्ञानशब्देन मनःसहितानि ज्ञानेन्द्रियाणि ग्राह्याणि । क्रियाशब्देन कर्मेन्द्रियाणि, द्रव्यशब्देन शरीरमित्युक्तं भवति ॥ बध्नातीति ॥ कर्तृत्वाभिमानवन्तं करोतीत्यर्थः । कस्मिन्विषये बध्नातीत्यपेक्षायां मूले कार्यकारणकर्तृत्व इत्युक्तं तद्व्याख्याति ॥ आन्तरमिति ॥ अत्र सत्त्वादयः स्थूला एव विवक्षिताः । सूक्ष्माणां मोचकत्वेन बन्धकत्त्वाभावात् । आन्तरं मनोगतसुखानुभवलक्षणक्रियासम्बन्धिकर्तृत्वं सुखभोक्तृत्वरूप-मभिमन्यते तत्र मदीयत्वाभिमानं करोतीत्यर्थः । अनेन कारणकर्तृत्व इत्येतदुक्तार्थं भवति । कारणै-र्ज्ञानेन्द्रियैर्विषयसाक्षात्कारद्वारा यत्सुखभोक्तृत्वरूपं कर्तृत्वं तद्विषय इति व्याख्यानस्य सूचनात् । कारणकर्तृत्व इत्येतदेव रजःकृतबन्धविषयप्रदर्शनपरतयाऽपि व्याचष्टे ॥ रजसेति ॥ कारणैर् इन्द्रियैः । क्रियाकर्तृत्व इति शेषः । अभिमन्येताभिमन्यते । तथा च कारणैः कर्मेन्द्रियैः करणैर्यद्वचनादि-रूपबाह्योन्द्रियक्रियाकर्तृत्वं तद्विषय इति मूलं योजितमिति ज्ञातव्यम् । द्वन्द्वान्ते श्रूयमाणं कर्तृत्वपदं कार्यपदेनापि सम्बध्यते इत्यभिप्रेत्य कार्यकर्तृत्व इत्येतद्व्याचष्टे ॥ शारीरमिति ॥ कार्यपदव्याख्यानं शारीरमिति ॥ वेदनाद्यमिति ॥ अनेन तज्जनितदुःखं लक्ष्यते । अत्र वेदना नाम वातधातुविक्रियादि-जनिता उदरादिशूला । आदिपदेन पित्तादिधातुविक्रियाजनितं शिरोभ्रमणादिकं ग्राह्यम् । तथा च कार्यसम्बन्धिवेदनाजनितं दुःखं तत्कर्तृत्वे तद्भोक्तृत्वविषय इति मूलं योजितमिति ज्ञातव्यम् । नन्वयं त्रिविधोऽपि बन्धो जीवस्य गुणकृतः कुतोऽङ्गीकार्यः । तत्स्वभाव एव किं न स्यादित्यत आह ॥ अकर्तेति ॥ अकर्ता स्वभावत उक्तस्वरूपेण कर्ता नेत्यर्थः । करणैर्जडेन्द्रियैः । शरीरेण जडेनेति शेषः । अनेन नित्यदा मुक्तमित्येतदुक्ततात्पर्यम् । तर्हि तत्स्वरूपं कीदृशमित्यत आह ॥ नित्येति ॥ इदमुपलक्षणम् । नित्यक्रियास्वरूपोऽभिमानमन्तरेण कर्ता ज्ञानात्मकदेहेन्द्रियादियुक्त इत्यपि ग्राह्यम् । अनेन मायिनं पुरुषमित्येतदुक्ततात्पर्यमिति ज्ञातव्यम् । यत एतादृशोऽतो गुणैरेवाभिमन्यत इत्यर्थः ।

ननु गुणानामचेतनानां कथं स्वातन्त्र्येण बन्धकत्वमित्यत आह ॥ एवमिति ॥ प्रेरित एवेत्यन्वयः । परमात्मनोऽपि बन्धोऽस्ति किं, नेत्याह ॥ नेति ॥ क्वापि देशे काले । स्वातन्त्र्यमेव कुत इत्यत आह ॥ अधिकत्वतःसर्वोत्तमत्वादिति ॥ अनेन सर्वेषां मम चेश्वर इत्येतस्य तात्पर्यमुक्तमिति ध्येयम् । परमसाध्यं दर्शयन्नुपसंहरति ॥ एवमिति ॥ बद्धत्वबन्धकत्वरूपविरुद्धधर्माधिकरणत्वेनेत्यर्थः । मायिन-मित्येतन्नित्यज्ञानस्वरूप इति प्रमाणेन व्याख्यातम् । तत्तेन कथं लब्धमित्यतस्तदनूद्य व्याख्याति ॥ मायिनमिति ॥ माया वयुनं ज्ञानमिति ज्ञाननामसु पाठादित्याशयः ॥ स्वत इति ॥ जडशरीरेन्द्रियादिकं विनेत्यर्थः । तथा चैतादृशस्यापि ज्ञानित्वं यत्तत्स्वरूपभूतज्ञानेनैवेति सिद्ध्यतीति भावः ॥ १९ ॥

स एष भगवाल्लिङ्गैस्त्रिभिरेतैरधोक्षजः ।

स्वलक्षितगतिर्ब्रह्मन्सर्वेषां मम चेश्वरः ॥ २० ॥

तात्पर्यम्

लिङ्गैर्ज्ञापकैः । त्रिगुणैः । एतैर्लिङ्गैः । स्वप्रसादाज्जीवेन लक्षितगतिः । ‘स्वप्रसादादिमं जीवः पश्येत्तेन स्वलक्षित’ इति षाड्गुण्ये ॥ २० ॥

पदरत्नावली

न केवलमेतानि देहेन्द्रियमनांसि बन्धकानि । हरिप्रसादसामग्रीयोग्यानां मुक्ति-साधकानि चेत्याह- स एष इति ॥ यो ‘येन स्वरोचिषा विश्वम्’ इत्यारभ्य ‘कार्यकारणर्कृत्वे’ इत्यन्तेन ग्रन्थेन प्रतिपादितः स एषो ऽधोक्षजः भगवान् एतैस् त्रिभिर् देहेन्द्रियमनोभिर् लिङ्गैर् ज्ञानोपायलक्षणैर् यमादिसाधनैर् यतमानैर् एतैर् जीवैः स्वलक्षितगतिः प्रदर्शितस्वरूपो भवति । एतदुक्तं भवति । देहेन्द्रियमनोजयिनस् तैरेव साधनैर् भगवद्विषयैस् तं पश्यन्तीति । ‘स्वप्रसादादिमं जीवः पश्येत्तेन स्वलक्षितः’ इति । अधःकृतेन्द्रियजन्यज्ञानत्वेन सुप्तोऽप्यधोक्षजः स्याद् इत्याह- सर्वेषामिति ॥ सर्वेषां मुक्तामुक्तानाम् । स्वस्य सर्वान्तर्भावेऽपि नारदस्य विशेषशङ्कापरिहाराय मम चेति विशिष्योक्तम् ॥२०॥

प्रकाशिका

एवमीश्वरस्य गुणैर्जीवबन्धकत्वमुक्त्वा इदानीं भेददार्ढ्याय तैरेव तन्मोचकत्वमपि वदन्परमसाध्यं दर्शयति ॥ स एष इति ॥ अत्र लिङ्गैरनुमापकैरित्याद्यन्यथाप्रतीतिवारणाय तद्व्याचष्टे ॥ लिङ्गैर्ज्ञापकैरिति ॥ त्रिभिरेतैरित्यनेन परामृश्यं दर्शयति ॥ त्रिगुणैरिति ॥ ज्ञापकत्वमुपपादयन् स्वलक्षितगतिरित्येतत् सुष्टु अलक्षितस्वरूप इत्यन्यथाव्याख्यानिरासाय व्याचष्टे ॥ एतैर्लिङ्गैरिति ॥ जीवेनेति योग्यताबललब्धमुक्तम् । लक्षितगतिर्दृष्टस्वरूपः । एते च सत्त्वादयः सूक्ष्मा एव विवक्षिताः । तेषामेव मोचकत्वस्य श्रुत्यादिसिद्धत्वात् । अत्र प्रमाणमाह ॥ स्वप्रसादादिति ॥ यत इति शेषः । स्वलक्षित इत्युच्यते । भगवानिति शेषः ।

ततश्चायं श्लोकद्वयार्थः ॥ पुरुषमिति जातावेकवचनम् । गुणाः सत्त्वाद्या हरिप्रेरिता इति शेषः । कार्यकारणकर्तृत्वे उक्तरीत्या कार्यकर्तृत्वे कारणकर्तृत्वे च विषये नित्यदा मुक्तं स्वतो जडेन्द्रियरहितम् । मायिनं नित्यदा ज्ञानवन्तं पुरुषं चिद्रूपदेहवन्तं जीवजातं बध्नन्ति । अभिमानेनेति शेषः । अत्रायं विवेकः । सत्त्वगुणो ज्ञानपदोदितज्ञानेन्द्रियाण्याश्रित्य कारणैर्ज्ञानेन्द्रियैर्यत्कर्तृत्वं तत्तद्विषयसाक्षात्कारजन्य- सुखभोक्तृत्वरूपं तस्मिन्विषये बध्नाति । मदीयमित्यभिमानं जनयतीत्यर्थः । रजोगुणः क्रियापदोदित- कर्मेन्द्रियाण्याश्रित्य कारणैः कर्मेन्द्रियैर्यद्वचनादिरूपबाह्यक्रियाकर्तृत्वं तद्विषये बध्नाति । तमोगुणोऽपि द्रव्यपदोदितशरीरमाश्रित्य कार्यकर्तृत्वे शारीरवेदनादिजन्यदुःखभोक्तृत्वरूपे तद्विषये बध्नातीति । स येन स्वरोचिषेत्यादिना मत्स्वामितयोक्त एषो जीवबन्धकतयोक्तो भगवान् एतैर्बन्धकतया पूर्वमुक्तैस्त्रिभिः सूक्ष्मैः सत्त्वादिगुणैर्लिङ्गैः सूक्ष्मरूपेण स्वज्ञापकैरधःकृताक्षजोऽपि जीवप्रयत्नाद्द्रष्टुमयोग्योऽपीति यावत् । स्वेन स्वप्रसादेन जीवेन लक्षिता दृष्टा गतिः स्वरूपं यस्य सः । भवतीति शेषः । अत्राप्ययं विवेकः । जीवमोचनाय हरिणा प्रेरितः सूक्ष्मसत्त्वगुणो ज्ञानेन्द्रियषट्कमाश्रित्य हरिविषयकश्रवणादिरूपज्ञानजनको भवति । सूक्ष्मो रजोगुणः कर्मेन्द्रियाण्याश्रित्य हरिप्रीत्यर्थानि कर्माणि कारयन् अन्तःकरणशुद्धिद्वारा हरिज्ञानजनको भवति । सूक्ष्मतमोगुणोऽपि शरीरमाश्रित्य हरिप्रीतिजनकोपवासादितपोजनितवेदनादिकम् उत्पादयन् हरिज्ञानसाधको भवतीति । यत एवं बन्धको मोचकश्चातो भगवान्सर्वजीवेभ्यो भिन्न-स्तेषामीश्वरश्च । स्वस्य सर्वान्तर्भावेऽपि नारदस्य शङ्कापरिहाराय मम चेति विशिष्योक्तमिति ॥ २० ॥

कालं कर्म स्वभावञ्च मायेशो मायया स्वया ।

आत्मन्यदृच्छया प्राप्तं विबुभूषुरुपाददे ॥ २१ ॥

तात्पर्यम्

स्वया मायया स्वशक्त्या । ‘यत्रान्यहेत्वभावः स्यादीश्वरेच्छादिना विना । तदिच्छा हि यदृच्छा स्यादतस्तत्र यदृच्छये’ति ब्रह्मतर्के । ‘कालकर्मस्वभावादि नित्ययेशेच्छया सदा । प्राप्तमेव विशेषेण सृष्ट्यादावुन्नयत्यज’ इति च ॥ विबुभूषुर् बहुधा बुभूषुः । ‘ईशो बह्वीः पुरः सृष्ट्वा तत्रैव बहुरूपताम् । तत्तन्नियामकतया प्राप्तुं कालाद्युपादद’ इति च ॥ २१ ॥

पदरत्नावली

सृज्यं सृजामि सृष्टोऽहमितीममर्थं स्पष्टयितुं सृष्टिप्रकारमाह- कालमिति ॥ ब्रह्मज्ञाने मुख्यलक्षणं जगज्जन्मादिकारणत्वमेवेति ज्ञापयितुमित्यतो वा सृष्टिप्रकारमाह- कालमिति ॥ मायेशः लक्ष्मीपतिः परनामस्वनिमेषान्ते सृष्टिकाले प्राप्ते विबुभूषुर् बहुधा भवितुकामो ऽनादित एव आत्मन् आत्मनि यदृच्छया स्वेच्छया प्राप्तमेव कालं सृष्टिकालं, कर्म जीवानां नानाविधादृष्टं, स्वभावं सात्विकादिलक्षणं, चशब्दात् सगुणत्रयां प्रकृतिं स्वया मायया स्वशक्त्या विशेषत उपादद इत्यन्वयः । प्रकृतिं प्रविश्य स्वशक्त्या क्षोभयामासेत्युक्तं भवति । ‘यत्रान्यहेत्वभावः स्वादीश्वरेच्छादिना विना । तदिच्छा हि यदृच्छा स्यादतस्तत्र यदृच्छया’ इति ‘कालकर्मस्वभावादिनित्ययेशेच्छया सदा । प्राप्तमेव विशेषेण सृष्ट्यादावुन्नयत्यजः ॥’ इति च । ‘ईशो बह्वीः पुरः सृष्ट्वा तत्रैव बहुरूपताम् । तत्त-न्नियामकतया प्राप्तुं कालाद्युपाददे ॥’ इति वचनेभ्यो न मायामयी सृष्टिरत्रोच्यत इति सिद्धम् ॥ २१ ॥

प्रकाशिका

एवमीश्वरस्य सगुणजीवापेक्षया भिन्नत्वान्निर्गुणत्वं युक्तमित्युपपाद्येदानीं तस्मात्सृष्टिं वक्तुम्, ननु भगवान्सृष्टौ कालकर्मादिरूपं कारणान्तरमपेक्षते न वा । आद्ये स्वातन्त्र्यहानिः । द्वितीये कालकर्मादीनां सृष्टिकारणत्वप्रतिपादकश्रुत्यादिविरोध इत्याशङ्कां तावदपाकरोति ॥ कालमिति ॥ अत्र माययेत्यनिर्वाच्याविद्ययेत्यन्यथाप्रतीतिवारणायान्वयं दर्शयन्व्याचष्टे ॥ स्वयेति ॥ स्वशक्त्येत्यनेन स्वयेत्येतत् स्वीययेति व्याख्यातमिति द्रष्टव्यम् । यदृच्छयेत्येतदकस्मादिति प्रतीतिवारणाय प्रमाणेनैव व्याचष्टे ॥ यत्रान्येति ॥ ईश्वरेच्छादिनेत्यत्रादिपदेन तज्ज्ञानादेर्ग्रहणम् । यत्र कार्येऽन्यहेत्वभावः दृष्ट-कारणाभावस् तत्र कार्ये यदृच्छयेदं जातमिति प्रयुज्यत इत्यर्थः । कुतो, यस्मात्तदिच्छादृष्टकारणाभावेऽपि जायमानकार्यविषयकेश्वरेच्छा यदृच्छाशब्दवाच्या हि प्रमाणप्रसिद्धा अत इत्यर्थः । आत्मनि यदृच्छया प्राप्तं कालादिकमुपादद इत्यनेन पूर्वं कालादिकं नास्तीति प्रतीयतेऽतः प्रमाणेनैव तदभिप्रायमाह ॥ कालेति ॥ आदिपदेन प्रकृतेर्ग्रहणम् । अनेन मूले चशब्दार्थो दर्शितः । यदृच्छयेत्यस्य व्याख्यानम्- ईशेच्छयेति ॥ स्वयेत्यस्य स्वरूपभूतयेत्यर्थकस्यात्रापि सम्बन्धमभिप्रेत्य नित्ययेत्युक्तम् । विशेषेण सृष्ट्यादावुन्मुखतयोन्नयति प्रेरयतीत्यर्थः । पालनादावपि कालकर्माद्युपादानवचनस्यायमेवाभिप्राय इति सूचयितुं सृष्ट्यादावित्युक्तम् । पूर्वकालादिनियामकतया भगवतो विद्यमानतोपपादनायाज इत्युक्तम् । विबुभूषुरित्यत्र विशब्दस्य निषेधार्थत्वप्रतीतिनिवारणाय व्याचष्टे ॥ विबुभूषुरिति ॥ बहुधेत्यनेन विशब्दो विविधार्थ इत्युक्तं भवति । तथा च विविधरूपतया भवितुमिच्छुरिति मूलार्थ इत्याशयः ।

ननु यदि भगवान् बहुधा भवितुमिच्छति तर्हि किं महदादिसृष्ट्यर्थं कालादिग्रहणेन मत्स्यादि-वद्बहिरेव बहुधा भवनसम्भवादित्याशङ्कायां नात्र मत्स्यादिवद्बहुधाभवनं विवक्षितं किन्तु तत्तत्कार्य-नियामकतयाऽन्तर्यामिरूपेणैवेत्यभिप्रेत्यात्र समाख्यामाह ॥ ईश इति ॥ पुरो ब्रह्मादिशरीराणि तत्रैव शरीरेष्वेव न बहिरित्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ मायेशो वासुदेवो विबुभूषुरुक्तरीत्या विविध-भवनेच्छुः । अनादित एवात्मन् आत्मन्यात्माधारतया यदृच्छया केवलस्वेच्छया प्राप्तमेव कालं सृष्टिकालं कर्म जीवानां नानाविधमदृष्टं, स्वभावं तत्तत्कारणस्वभावम् । चशब्दात्प्रकृतिम् । स्वया मायया स्वशक्त्या । विशेषत उपाददे । तेषु प्रविश्य सृष्ट्यर्थं प्रेरयामासेत्यर्थः । तथा च श्रुत्यादिप्रसिद्धानि अनादित एव स्वाधारतया स्थितानि यानि कालादिकारणानि तानि स्वेच्छयैवोपादाय सृष्टावुन्मुखी-चकारातो न कालाद्युपादानेऽपि स्वातन्त्र्यहानिरिति भावः ॥ २१ ॥

कालाद्गुणव्यतिकरात्परिणामस्वभावतः ।

कर्मणो जन्म महतः पुरुषाधिष्ठितादभूत् ॥ २२ ॥

तात्पर्यम्

प्रकृतेः परिणामस्वभावतः । ‘गुणकालस्वभावेभ्य ईशेनाधिष्ठितत्वतः । जगदादि महत्तत्त्वमभूत्तस्येच्छया हरेरि’ति षाड्गुण्ये ॥ २२ ॥

पदरत्नावली

गुणव्यतिकरात्मकमूलप्रकृतेर् महत्तत्वोत्पत्तिप्रकारमाह- कालादिति ॥ यदा सिसृक्षुर् विष्णुः कालकर्मस्वभावरजोगुणानाविश्य सृष्टये प्रेरकः, तमोगुणो रजोगुणेन च संयुक्तोऽभूत्, सः गुणवैषम्यात्मको गुणव्यतिकरः । तस्मात् । कालादिति पञ्चमी तृतीयार्थे । कालेन सृष्टिहेतुना । कर्मणः कर्मणा हिरण्यगर्भादृष्टेन तदुपकृतत्वात् । परिणामस्वभावत इति तसिः । सस् तृतीयार्थे । विकारस्वभावया मूलप्रकृत्या च सहितात् । पुरुषाधिष्ठितादिति पुरुषेण विष्णुना अधिष्ठाय क्षोभ्यमाणान् महतः महत्तत्वस्य चतुर्मुखदेहस्थानीयस्य जन्माभूदित्यन्वयः । गुणानां व्यतिकरो विषमावस्था यस्मिन् तस्मादव्यक्तादिति वा । तदुक्तं- ‘गुणकालस्वभावेभ्य ईशेनाधिष्ठितत्वतः । जगदादिमहत्तत्वम-भूत्तस्येच्छया हरेः ॥’ इति ॥ २२ ॥

प्रकाशिका

इदानीं तस्मान्महत्तत्त्वसृष्टिमाह ॥ कालादिति ॥ अत्र परिणामस्वभावत इत्येतद्बहव्रीहितया कालस्य कर्मणो वा विशेषणमिति भाति । न च तद्युज्यते । तटस्थतया तयो-र्निमित्ततास्वभावत्वादतः कर्मधारयोऽयमित्याशयेन प्रकृतेरित्यध्याहृत्य योजयति ॥ प्रकृतेरिति ॥ परिणामरूपस्वभावादित्यर्थः । इदमुपलक्षणम् । कालस्य कर्मणश्च तटस्थतया निमित्ततास्वभावादित्यपि द्रष्टव्यम् । पुरुषाधिष्ठितादित्येतद्धेतुगर्भं सत् कालादित्यादौ सर्वत्र सम्बध्यत इत्याशयेन तत्र प्रमाण-माह ॥ गुणकालेति ॥ गुणेत्यनेन गुणव्यतिकरादित्युक्तगुणग्रहणम् । अत्र कर्मापि ग्राह्यम् । अधिष्ठि-तत्वतो नियामकतयाऽन्तराश्रितत्वादित्यर्थः । जगदादि जगत्कारणम् । न केवलमुपादाननिमित्तान्त-र्नियामकतयैव हरेः कारणत्वं किन्तु कुलालादिवद्बहिः स्थितस्य कर्तृतयाऽपीत्याशयेनोक्तं तस्य हरेरिच्छयेति ॥ ततश्चायं श्लोकार्थः ॥ गुणव्यतिकाराद्गुणानां सत्त्वादीनां व्यतिकरो वैषम्यं तस्मात् । तृतीये वक्ष्यमाणरीत्या वैषम्यावस्थापन्नगुणेभ्य इति यावत् । प्रकृतेः परिणामस्वभावात्कालादे-र्निमित्ततास्वभावाच्च कर्मणश्चतुर्मुखजनकादृष्टात् । महतो महत्तत्त्वस्य जन्म जननम् । नन्वचेतनस्य कालादेः स्वतः प्रवृत्त्यनुपपत्तेः कथं जनकत्वमित्यत उक्तम् ॥ पुरुषेति ॥ कालादीनां चतुर्णामपीदं विशेषणम् । कालादिस्वभावस्यापि पृथक् कारणत्वं गुणकालस्वभावेभ्य इति प्रमाणानुसारेणोक्तमिति मन्तव्यमिति ॥ २२ ॥

महतस्तु विकुर्वाणाद्रजस्सत्वोपबृंहितात् ।

तमः प्रधानस्त्वभवद्द्रव्यज्ञानक्रियात्मकः ॥ २३ ॥

तात्पर्यम्

‘भूतानि द्रव्यनामानि ज्ञानं ज्ञानेन्द्रियाण्यपि । क्रिया कर्मेन्द्रियाण्याहु-स्तन्मूलत्वादहं त्रिधे’ति गारुडे ॥ २३ ॥

पदरत्नावली

तुशब्देन कालादिकमनुकर्षति । कालकर्मस्वभावेभ्यः विकुर्वाणात् । रजःसत्वोप-बृंहितात् सत्वेनानुस्यूतरजोगुणेन प्रवृद्धात् । महत्तत्वात्, तमःप्रधानस् तत्वविशेषोऽभवदित्यन्वयः । द्वितीयस्तुशब्दो महत्तत्वमपेक्ष्य तमःप्रधानत्वं नेतरापेक्षया तदपेक्षया सत्वप्रधान एवेत्यस्मिन्नर्थे । इतोऽपि तमःप्रधानत्वमौपचारिकमिति भावेनाह- द्रव्येति ॥ द्रव्याणि भूतानि, ज्ञानं ज्ञानेन्द्रियाणि क्रिया कर्मेन्द्रियाणि च आत्मा स्वरूपं यस्य स तथा ॥ २३ ॥

प्रकाशिका

महतस्त्वित्यत्र तुशब्दसूचितमहत्तत्त्वे विशेषं दर्शयति ॥ रजःसत्त्वोपबृंहिता-दिति ॥ सत्त्वोपबृंहितरजःपूर्णादित्यर्थः । एतच्च स्पष्टयिष्यत्याचार्यः । तमःप्रधानस्त्वित्यत्र तुशब्दो महत्तत्त्वमपेक्ष्यैव तमःप्रधानत्वं नेतरापेक्षयेति विशेषं दर्शयितुम् । अत्र तमसः प्राधान्यं नाम कदाचित्सत्वकार्यप्रतिरोधकत्वमेव न समानाधिकरणसत्त्वाद्यपेक्षयाऽऽधिक्यं वक्ष्यमाणविरोधात् । महत्तत्त्वे त्वितोऽधिकतमःसत्वेऽपि तस्य कदाऽपि सत्त्वकार्याप्रतिरोधकत्वात् तन्न तमःप्रधानमित्युच्यत इति द्रष्टव्यम् । तमःप्रधानकत्वमुक्तरूपेणौपचारिकमेव न मुख्यम् । तथात्वेऽहङ्कारस्य सत्त्वादिकार्यज्ञान- कर्मेन्द्रियाद्यात्मकत्वासम्भवादित्याशयेनाह ॥ द्रव्येति ॥ एतदर्थमेव रजःसत्त्वोपबृंहितादिति । एतदुपादाने महत्तत्त्वे विशेषणम् । अत्र विवक्षितान्द्रव्यादिपदार्थान्प्रमाणेनैव दर्शयति ॥ भूतानीति ॥ भूतानि पञ्चभूतानि ज्ञानं ज्ञाननामानि क्रिया क्रियानामानि । नन्वेवं मूलेऽहङ्कारस्य कथं द्रव्याद्यात्म-कत्वोक्तिरित्यतस्तदुपपादयति ॥ तन्मूलत्वादिति ॥ तेषां त्रयाणामुपादानत्वादहङ्कारस्त्रिधा त्रिप्रकारात्मक उच्यत इत्यर्थः ॥ २३ ॥

सोऽहङ्कार इति प्रोक्तो विकुर्वन्समभूत्त्रिधा ।

वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ।

द्रव्यशक्तिः क्रियाशक्तिर्ज्ञानशक्तिरिति प्रभोः ॥ २४ ॥

तात्पर्यम्

विशिष्टकार्यशक्तित्वाद्देवा वैकारिकाः स्मृताः ॥ अतिजाज्वल्यमानत्वात्तै-जसानीन्द्रियाण्यपि । तामसानि तु भूतानि यतस्तावन्न तूभयमि’ति पाद्मे । ज्ञानेन्द्रियाणां देवानां ज्ञानशक्तिरुदीरिता । क्रिया कर्मेन्द्रियाणां च भूतानां द्रव्यशक्तिते’ति स्कान्दे । ‘द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवदमानयोः । पूर्वं वेगाभिसम्बन्धादाकाशस्तु प्रदेशत’ इति प्रकाशसंहितायाम्

॥ २४ ॥

पदरत्नावली

किन्नामको ऽसौ पदार्थ इति तत्राह- सोऽहङ्कार इतीति ॥ तद्विभागमाह- विकुर्वन्निति ॥ त्रीन् निर्दिशति वैकारिक इति ॥ यस्याहङ्कारस्य भिदा भेदः । प्रकारान्तरेण तद्भेद-माह- द्रव्यशक्तिरिति ॥ द्रव्यनामकपञ्चभूतोत्पादनशक्तिमत्वात् क्रियानामककर्मेन्द्रियजननशक्तिमत्वात् तथा ज्ञाननामकज्ञानेन्द्रियजननशक्तिमत्वान् मनोदिगादिदेवानाञ्चोत्पत्तिशक्तिमत्वात् तस्य अहङ्कारात्मनः प्रभोः रुद्रस्य द्रव्यशक्तिरित्यादिभेदोऽवगन्तव्यः । तथा चोक्तम्- ‘भूतानि द्रव्यनामानि ज्ञानं ज्ञानेन्द्रियाणि च’ इत्यादि ॥ २४ ॥

प्रकाशिका

कोऽसौ पदार्थ इति तत्राह ॥ सोऽहंकार इति ॥ तद्विभागमाह मूले- विकुर्वन्निति ॥ इति त्रिधा समभूदित्यन्वयः । अहङ्कारप्रभेदेषु वैकारिकादिशब्दाः कथं प्रवर्तन्त इत्यपेक्षायां तत्प्रदर्शनाय तत्कार्याणां देवादीनां वैकारिकादिशब्दवाच्यत्वं तावत्प्रमाणेनैवोपपादयति ॥ विशिष्टेति ॥ विशिष्टं कार्यं ज्ञानकर्मरूपं तज्जनकशक्तिमत्वादित्यर्थः । देवा दशेन्द्रियाभिमानिनः । वैकारिका वैकारिकशब्दवाच्याः । तैजसानि तैजसशब्दवाच्यानि । अपिशब्दोऽनुक्तप्राणबुद्धिसङ्ग्रहार्थः । तामसानि तामसशब्दवाच्यानि । तुशब्द इतरापेक्षया विशेषेण तामसत्वद्योतनार्थः ॥ उभयमिति ॥ विशिष्टकार्यशक्तित्वमतिजाज्वल्यमानत्वं चेत्युभयं भूतानां तावन्न तु नैवेत्यनेनाल्पमस्तीति सूचयति । अत इति शेषः । एवं च कार्याणां देवादीनां वाचका वैकारिकादिशब्दास्तत्कारणेष्वहङ्कारप्रभेदेषूपचारेणैव प्रवर्तन्त इत्याशयः । वैकारिकादीनां त्रयाणां व्युत्क्रमेण लक्षणान्याह मूले- यद्भिदेति ॥ यदित्यव्ययं यस्येत्यर्थः । वस्तुस्वरूपप्राधान्यक्रमेणोद्देशः । बन्धकत्वप्राधान्यक्रमेण लक्षणोक्तिरिति ज्ञातव्यम् ।

अत्र वैकारिकादीनां त्रयाणां यथाक्रममेव शक्तित्रयं लक्षणत्वेनोच्यत इति प्रतीतिवारणाय का शक्तिः कस्य लक्षणमिति जिज्ञासायां प्रमाणेनैव तद्दर्शयति ॥ ज्ञानेन्द्रियाणामिति ॥ देवानां चेति शेषः। ज्ञानशक्तिर्ज्ञानजनकत्वशक्तिः । क्रिया क्रियाजनकत्वशक्तिः । चशब्दो देवानां चेत्यस्यानुकर्षणार्थः । अनेन ज्ञानेषु ज्ञानेन्द्रियेषु तद्देवेषु च विद्यमाना शक्तिर्यस्मात्सा ज्ञानशक्तिः । क्रियासु कर्मेन्द्रियेषु तद्देवेषु च विद्यमानशक्तिर्यस्मात्सा क्रियाशक्तिर् द्रव्येषु भूतेषु तद्देवेषु च विद्यमाना शक्तिर्यस्मात्सा द्रव्य-शक्तिरिति मूले जनकतासम्बन्धेन शक्तित्रयं वैकारिकादीनां लक्षणमुक्तं भवतीति ज्ञातव्यम् । तथा च जगद्बन्धकतया प्रभोर्यस्य वैकारिकादिभेदेन विभक्तस्य इति शक्तित्रयस्यापादकत्वं भिदा भेदकम् । लक्षणमिति यावत् । सोऽहङ्कार इति प्रोक्त इत्यन्वयो द्रष्टव्यः ॥ ज्ञानशक्तिरित्यादिवन्न द्रव्यशक्ति-रित्येतद्व्याख्यातुं शक्यम् । द्रव्यपदेन पूर्वं भूतानामेवोक्तत्वेन भूतानां भूतजनकत्वशक्त्यसम्भवात् । अतोऽत्र विवक्षितां द्रव्यशक्तिं प्रमाणेनैव दर्शयति ॥ द्रव्यं त्विति ॥ द्रवणेन धावनेन प्राप्यं प्राप्तुं योग्यम् । अहमेवेदं पूर्वं प्राप्नुयामिति पूर्वप्राप्तिविषये विवदमानयोर्मध्ये यत्कुड्यादिकं वेगादिसम्बन्धाद्वेग-वत्वेन पूर्वमेकस्य द्रवणेन प्राप्यं तत्कुड्यादिकं द्रव्यमित्युच्यत इत्यर्थः । तथा च द्रवणप्राप्तियोग्यत्वमेव द्रव्यगता शक्तिरित्युक्तं भवति ।

नन्विदं ब्रह्माण्डान्तर्गतेषु पृथिवीजलतेजोवाय्वाकाशविशेषेषु सम्भवति । तेषां द्रवणेन प्राप्तिदर्शनात् । ब्रह्माण्डबाह्येषु भूतेषु कथम् । तत्र कस्यापि द्रवणाभावेन तत्प्राप्यत्वासम्भवादिति चेत् । सत्यम् । द्रवणे सति प्राप्तियोग्यतायास्तत्रापि सत्त्वात् । अत एव द्रवणप्राप्यमित्युक्तम् । नन्वव्याकृताकाशोऽपि क्वचिद्द्रव्यशक्तिमत्तयोच्यते । तत्रेदं न सम्भवति । तस्यापरिच्छिन्नतया द्रवणप्राप्तियोग्यताया अप्यभावा-दित्यत आह ॥ आकाशस्त्विति ॥ तुशब्दो भूताकाशव्यावृत्त्यर्थः । प्रदेशतः प्रदेशमपेक्ष्य । द्रवणप्राप्य इति शेषः । अतस्तत्रापि द्रव्यशक्तिवचनमुपपन्नमिति भावः ॥ २४ ॥

तामसादपि भूतादेर्विकुर्वाणादभून्नभः ।

तस्य मात्रागुणः शब्दो लिङ्गं यद्द्रष्टृदृश्ययोः ॥ २५ ॥

तात्पर्यम्

‘पञ्चेन्द्रियाभिमेयत्वान्मात्रागुण इतीरित’ इति मात्स्ये । ‘शब्देनैव परो द्रष्टा ज्ञायते जगदेव चे’ति विष्णुसंहितायाम् ॥ २५ ॥

पदरत्नावली

द्रव्याद्युत्पादनशक्तिमत्वाद् द्रव्यादिशक्तिरित्युक्तम् । तं प्रकारमाह- तामसा-दपीति ॥ अपिशब्दः कालकर्माद्यनुकर्षणार्थः । भूतादेर् भूतानां मूलकारणात् । तस्य आकाशस्य मात्रागुणः पञ्चेन्द्रियैर् मेयत्वान् मात्रागुणः शब्दोऽभूत् । तस्मान्नभोऽप्यभूदित्युत्पत्तिविशेषोऽत्र ज्ञातव्यः । तथा वक्ष्यमाणत्वात् । तत्प्रयोजनमाह- लिङ्गमिति ॥ यच्छब्दरूपं द्रष्टृदृश्ययोर् द्रष्टुर् हरेर् दृश्यस्य विश्वस्य च लिङ्गं ज्ञापकं प्रमाणम् । तदुक्तम्- ‘पञ्चेन्द्रियाभिमेयत्वान्मात्रागुण इतीरितः । शब्देनैव परो द्रष्टा ज्ञायते जगदेव च ॥’ इति च । शब्दः क्वचिदाश्रितः गुणत्वादिति च ॥ २५ ॥

प्रकाशिका

तत्र तावत्तामसाहङ्काराद्भूतोत्पत्तिप्रकारमाह ॥ तामसादपीति ॥ भूतादेर्भूतानाम् मूलकारणादिति हेतुगर्भविशेषणम् । अपिशब्दस्य शब्द इत्यनेन सम्बन्धः । तथा च शब्दोऽप्य-भूदित्यर्थः ॥ कथंभूतः शब्दः । तस्याकाशस्य मात्रागुणः । अत्रासाधारण्येन विवक्षितं मात्रागुणशब्दार्थं प्रमाणेनैव दर्शयति ॥ पञ्चेति ॥ पञ्चेन्द्रियाभिमेयगुणत्वादित्यर्थः । ततश्च मात्राशब्दः कर्मव्युत्पत्त्या मेयार्थः । पञ्चेन्द्रियेति योग्यतया लभ्यते । मेयेत्यनन्तरं गुणेति पूरणीयमिति भावः । त्वगादिवेद्येषु स्पर्शादिगुणेषु मूलकारणतया शब्दस्यानुस्यूतत्वेन स्पर्शाद्यभेदे त्वगादिवेद्यत्वस्यापि सम्भवात्पञ्चेन्द्रियाभि-मेयत्वं तस्योपपन्नमिति ध्येयम् । यद्वा । त्वगिन्द्रियादिवेद्यत्वं स्पर्शादीनां मात्राशब्दवाच्यत्वे निमित्तं दर्शयितुं पञ्चेन्द्रियाभिमेयत्वादित्युक्तमिति ज्ञेयम् । शब्दस्य द्रष्टृदृश्यलिङ्गत्वं मूले उक्तम् । तत्र को द्रष्टा किं दृश्यं किञ्च तल्लिङ्गत्वमित्यतस्तत्सर्वं प्रमाणेनैव दर्शयति ॥ शब्देनैवेति ॥ पर उत्तमो द्रष्टा भगवानित्यर्थः । दृश्यशब्दार्थकथनं जगदिति ॥ ज्ञायत एवेति सम्बन्धः । अनेन परापरतत्व-ज्ञापकत्वमेवात्र लिङ्गत्वमित्युक्तं भवति । अत्राकाशगुणस्य ध्वन्यात्मकशब्दस्य वर्णव्यञ्जकतयैव ज्ञापकत्वं न वर्णवत्प्रतिपादकत्वरूपमिति ध्येयम् । तथा च द्रष्टृदृश्ययोर्लिङ्गं शब्द इति योज्यम् । अत्र तामसाहङ्काराद्गुणस्य शब्दस्य पूर्वमुत्पत्तिः । पश्चात्तेन गुणिन आकाशस्योत्पत्तिरेवमग्रेऽपि गुणानामुत्पत्तिः पूर्वं, पश्चाद्गुणिन इति द्रष्टव्यम् ॥ २५ ॥

नभसोऽथ विकुर्वाणादभूत्स्पर्शगुणोऽनिलः ।

परान्वयाच्छब्दवांश्च प्राण ओजः सहो बलम् ॥ २६ ॥

तात्पर्यम्

‘सर्वचेष्टयितृत्वात्तु प्राणोऽभिभवशक्तितः। ओजस्त्वनभिभाव्यत्वात्सहश्च स्वेच्छया कृतेः । बलं विधारकत्वाच्च विधृतिर्वायुरुच्यत’ इति भारते ॥ २६ ॥

पदरत्नावली

स्पर्शाख्यो गुणस् त्वगिन्द्रियैकग्राह्यः यस्य स तथा । परस्याकाशस्य अन्वयात् संसर्गात् शब्दवान् शब्दगुणोपेतः । वायोरौत्पत्तिकगुणानाह- प्राण इति ॥ सर्वचेष्टयितृत्वात् प्राणः । अभिभवशक्तित्वाद् ओजो ऽवष्टम्भकशक्तेर्वा । अनभिभाव्यत्वात् सहः । स्वेच्छाकरणशक्ति-स्वरूपत्वाद्बलम् । तदुक्तम्- ‘सर्वचेष्टयितृत्वात्तु प्राणोऽभिभवशक्तितः । ओजस्त्वि’ त्यादि । ‘ओजोऽवष्टम्भबलयोः’ इति यादवः ॥ २६ ॥

प्रकाशिका

परान्वयादिति ॥ परस्य पूर्वकालीनस्याकाशस्योपादानतयाऽन्वयादनुगमाद्वायु-स्तद्गुणभूतशब्दवांश्चेत्यर्थः । एवमग्रेऽपि व्याख्येयम् ॥ वायोरौत्पत्तिकगुणानाह ॥ प्राण इति ॥ अत्र प्राणो देहधारणमोजःसहोबलानीन्द्रियमनःशरीराणां पाटवानि तेषां हेतुरिति व्याख्यानमसदिति भावेन प्रमाणेनैव प्राणादिशब्दान्व्याचष्टे ॥ सर्वेति ॥ अनेन प्रकर्षेणानयति चेष्टयतीति निर्वचनं सूचयति । प्रशब्दार्थः- सर्वेति ॥ अभिभवो वैरिपराभवस्तज्जनकशक्तिरूपत्वादित्यर्थः । अनभिभाव्यत्वात् शत्रुभिः पराभावयितुमशक्यत्वात् ॥ स्वेच्छयेति ॥ स्वेच्छया कृतिस्वरूपत्वाद्बलशब्दवाच्य इत्यर्थः । अत एव दुर्बलस्य स्वेच्छया करणमसम्भावितमिति भावः । विधारकत्वादित्यनेन मूले उपलक्षणया विधृतिरित्यपि ग्राह्यमिति सूचयति । अत्र भूतं भूताभिमानी चेति न्यायेन मुख्यवायोरप्यनिलशब्देन विवक्षित-त्वात्तदभिप्रायेण ते गुणा उक्ताः । तथा चानिलो मुख्यवायुः प्राण ओजः सहोबलरूपश्चेति मूलं व्याख्येयमिति भावः ॥ २६ ॥

वायोरपि विकुर्वाणात्कालकर्मस्वभावतः ।

उदपद्यत तेजो वै रूपवत्स्पर्शशब्दवत् ॥ २७ ॥

तेजसस्तु विकुर्वाणादासीदम्भो रसात्मकम् ।

रूपवत्स्पर्शवच्चाम्भो घोषवच्च तदन्वयात् ॥ २८ ॥

विशेषस्तु विकुर्वाणादम्भसो गन्धवानभूत् ।

परान्वयाद्रसस्पर्शरूपशब्दगुणान्वितः ॥ २९ ॥

वैकारिकान्मनो जज्ञे देवा वैकारिका दश ।

दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः ॥ ३० ॥

तात्पर्यम्

अनाद्यनन्तोऽपि हरिर्वैकारिकगणेष्वजः । अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्व-भुग्विभुः । पाददेवस्तु यज्ञोऽन्यस्तं प्रविश्य हरिः स्वयम् । सर्वं विधारयन्देहे वर्ततेऽ-नन्तशक्तिधृगि’ति वह्निपुराणे ॥ ३० ॥

पदरत्नावली

कालकर्मस्वभावतः विकृर्वाणाद् वायोस् तेज उदपद्यत उत्पन्नमभूत् । तेजः स्वतो रूपवत् । कारणानुस्यूतत्वात् स्पर्शादिगुणवत् । उपाधिवशात् स्पर्शादिगुणवत्वं न स्वत इति वैशेषिककल्पितं स्वकपोलकल्पितमिति दर्शितं, वा इत्यनेन ।

विकुर्वाणात्तेजस इत्यादौ कालकर्मस्वभावत इत्येतदनुवर्तनीयम् । तदन्वयात् कारणपरम्परान्वयात् । रूपस्पर्शघोषवत् । रसगुण आत्मा स्वरूपं यस्य तत्तथा । रसगुणोत्पत्तिपूर्वकमिति भावः । घोषवत् शब्दवत् ।

सर्वे गुणाः पृथिव्यां विशिष्यन्त इति विशेषः पृथिवी । गन्धवानिति गन्धतन्मात्रागुणोत्पत्ति-पूर्वकमित्यर्थः । परान्वयात् कारणसंसर्गात् ।

वैकारिकाहङ्कारात् सृष्टिप्रकारमाह- वैकारिकादिति ॥ वैकारिकाहङ्कारात् सात्विकांशान् मनो ऽन्तःकरणम् । शब्दज्ञानादिविशिष्टकार्यशक्तित्वाद् वैकारिकनामानो देवाः । ते अपि तस्माज्जज्ञिर इति शेषः । तदुक्तम्- ‘विशिष्टकार्यशक्तित्वाद्देवा वैकारिकाः स्मृताः’ इति । न्यूनाधिकसंख्याव्यवच्छेदार्थं दशेति । तेषां नामसङ्कीर्तनं करोति- दिग्वातेति ॥ प्रचेता वरुणः । अश्वीत्यश्विनौ । उपेन्द्रो विष्णुः । तस्य न पादाभिमानित्वम् । किन्तु पादाभिमानिनो यज्ञनाम्नो देवस्यान्तर्यामित्वेन पादाङ्गुष्ठमधिष्ठाय शरीरधारकत्वात्तन्नामकीर्तनम् । ‘अनाद्यनन्तोऽपि हरिर्वैकारिकगुणेष्वजः । अवतीर्णः पदाङ्गुष्ठमध्यास्ते विश्वभुग्विभुः ॥’ इत्यादेः । को दक्षप्रजापतिः ॥ २७-३० ॥

प्रकाशिका

घोषवच्छब्दवत् । तदन्वयात्पूर्वपूर्वकारणानामन्वयादनुगमादित्यर्थः । सर्वे गुणाः पृथिव्यां विशिष्यन्त इति विशेषः पृथिवी ॥ वैकारिकान् दश देवान्निर्दिशति ॥ दिगिति ॥ दिक्- शब्दवाच्या देवाः श्रोत्राभिमानिनः । वातशब्दवाच्यः प्राणस्त्वगभिमानी । अर्कः सूर्यश्चक्षुरभिमानी । प्रचेता वरुणो जिह्वाभिमानी । अश्विनौ घ्राणाभिमानिनौ । वह्निर्वागभिमानी । इन्द्रो हस्ताभिमानी । उपेन्द्रो वामनः पादाभिमानी । मित्रः पाय्वभिमानी । को दक्षो मेढ्राभिमानी । इति वक्ष्यमाण-दशेन्द्रियाभिमानिनो देवा एवात्र कथ्यन्ते । तत्रोपेन्द्रस्य विष्णुत्वात्कथमिन्द्रियाभिमानिषु गणनमित्यतस् तदभिप्रायं प्रमाणेनैव दर्शयति ॥ अनाद्यनन्तोऽपीति ॥ वैकारिकगणेषु वैकारिकाहंकारकार्यदेह-वदिन्द्रियाभिमानिदेवगणेषु । विश्वभुक् सर्वपालकः ।

ननु तर्हीन्द्रसूनोर्यज्ञनाम्नः पाददेवतात्वप्रसिद्धिविरोध इत्यत आह ॥ पाददेव इति ॥ अन्यो भगवदपेक्षया । यज्ञो रुद्रच्छिन्नयज्ञाभिमानी । तर्ह्युपेन्द्रस्य किं कृत्यं येन सोऽत्र गणेऽवतीर्ण इत्यत आह ॥ तं प्रविश्येति ॥ २७-३० ॥

तैजसात्तु विकुर्वाणादिन्द्रियाणि दशाभवन् ।

ज्ञानशक्तिः क्रियाशक्तिर्बुद्धिः प्राणस्तु तैजसौ ॥ ३१ ॥

श्रोत्रत्वग्घ्राणदृग्जिह्वावाग्दोर्मेढ्राङ्घ्रिपायवः ।

य एतेऽसङ्गता भावा भूतेन्द्रियमनोगुणाः ।

यदायतननिर्माणे न शेकुर्ब्रह्मवित्तम ॥ ३२ ॥

पदरत्नावली

तैजसाहङ्कारकार्याणि किमिति नोच्यत इति । पक्वं भक्षयेति भावेनाह- तैजसादिति ॥ अत्रापि कालाद्यनुकर्षः कर्तव्यः । तेषां शक्तिवैषम्यात् क्रोडीकारेण विभागमाह- ज्ञानशक्तिरिति ॥ अचेतनानामिन्द्रियाणां ज्ञानादिजनकत्वं कथं घटते इति तत्राह- बुद्धिरिति ॥ ज्ञानेन्द्रियाणां ज्ञाने ज्ञानजनने शक्तिर् यस्याः सा ज्ञानशक्तिर् बुद्ध्यभिमानिन्युमा बुद्धिः, कर्मेन्द्रियाणां क्रियायां क्रियाजनने शक्तिर् यस्य सः क्रियाशक्तिः प्राण आहङ्कारिकश्च तैजसौ तैजसाहङ्कारा-दुत्पन्नावित्यर्थः । ‘ज्ञानेन्द्रियाणां देवानां ज्ञानशक्तिरुदाहृते’ त्यादावुदीर्यमाणदेवानां ज्ञानादिशक्तिरपि बुद्धिप्राणयोः प्रसादादित्यवगन्तव्यम् । इन्द्रियाणां तैजसाभिधानम् अतिजाज्वल्यमानत्वात् । भूतानां तामसत्वञ्च ज्ञानक्रियाशक्त्योरभावात् । तदुक्तम्- ‘अतिजाज्वल्यमानत्वात्तैजसानीन्द्रियाण्यपि’ इत्यादि भूतानां द्रव्यत्वञ्च द्रवणप्राप्यनिमित्तम् । अहं पूर्वमहं पूर्वमिति विवदमानयोरिव स्थितयोर्द्वयोः पृथिव्यपोर् वायुतेजसोर्वा वेगलक्षणसंस्कारसंपर्कान् मिथो द्रवणं युज्यते । आकाशस्य व्याप्तत्वेन द्रवणाभावेऽपि प्रदेशात्मना तत्संभवाद् द्रव्यत्वं युक्तम् । तदुक्तम्- ‘द्रव्यं तु द्रवणप्राप्यं द्वयोर्विवद-मानयोः । पूर्वं वेगाभिसम्बन्धादाकाशश्च प्रदेशत’ इति ।

इन्द्रियाणां विशेषनामान्याह- श्रोत्रेति ॥ त्वक् त्वगिन्द्रियम् । दोषौ हस्तौ । मेढ्रं गुह्येन्द्रियम् । बाह्यसृष्टिमुक्त्वा तेभ्यस्तत्वेभ्यो ब्रह्माण्डसृष्टिप्रकारमाह- य एत इति ॥ ये एते कथिताः । भूतेन्द्रियमनोगुणा इत्युपलक्षणम् । पञ्चभूतदशेन्द्रियतैजसबुद्धिप्राणमनःशब्दादिसत्वादिगुण- मह-दहङ्काराख्या भावाः पदार्था अन्योन्यमसङ्गता असंश्लिष्टा यदा आयतननिर्माणे ब्रह्माण्डकरणे न शेकुः शक्तिमन्तो नासन् ॥ ३१-३२ ॥

प्रकाशिका

मूले ज्ञानशक्तिर्बुद्धिः क्रियादिशक्तिः प्राण इति विवेकः । तैजसौ तैजसाहङ्कारकार्यौ ॥ इन्द्रियाणां विशेषनामान्याह ॥ श्रोत्रेति ॥ दोः पाणिः । मेढ्रो गुह्येन्द्रियम् । क्रमश्च न विवक्षितः ॥ एवं बाह्यतत्त्वसृष्टिमुक्त्वा तेभ्यो ब्रह्माण्डसृष्टिप्रकारमाह ॥ य एत इति ॥ गुणाः शब्दाद्याः सत्त्वाद्याश्च । इदमुपलक्षणम् । महदहङ्कारप्राणबुद्धयोऽपि ग्राह्याः । भावाः पदार्थाः । असङ्गताः परस्परमसंश्लिष्टाः । यदायतनस्य ब्रह्माण्डस्य निर्माणे जनने न शेकुः शक्तिमन्तो नासन्

॥ ३१-३२ ॥

तदा संहत्य चान्योन्यं भगवच्छक्तिचोदिताः ।

सदसत्वमुपादाय नो भयं ससृजुर्ह्यदः ॥ ३३ ॥

तात्पर्यम्

सदसत्वं व्यक्ताव्यक्तत्वम् । नः भयम् । अदो ब्रह्माण्डम् । ब्रह्माण्डं हि वदन्तीति जीवानां भयकारणम् । तत्र हि संसृतिः । ‘आकाशवायू त्वव्यक्तावितरेऽण्डे प्रका-शिताः । तथात्वाद्बाह्यभूतानामण्डस्थानां च सा गतिरि’ति मात्स्ये ॥ ३३ ॥

पदरत्नावली

तदा भगवन्तमभिषूय शरणं गताः । ततः स्तुतिप्रसन्नस्य तस्य चेष्टकरूपेण तं गणं प्रविष्टस्य हरेः शक्त्या चोदिता मिथः संहत्य संश्लिष्य सदसत्वं व्यक्ताव्यक्तत्वधर्मवत् पृथिव्यादि-भूतत्रयम् आकाशवाय्वाख्यभूतद्वयञ्च उपादाय उपादानीकृत्य नो ऽस्माकं संसारभयजनकम् अदः ब्रह्माण्डं ससृजुरित्यन्वयः । ‘नोभयं सदसद्विलक्षणम्’ इत्येतद् अयुक्तम् । ‘यतः सत्यत्वं प्रत्यक्षादिप्रमाणसिद्धम्, अतः’ इति हेतुवादिनो हिशब्दाद् ब्रह्माण्डे संसारः । ‘अतोऽण्डं भयकारणमिति’ भयहेतुत्वं वा हिशब्देन प्रतीयते । तदुक्तम्- ब्रह्माण्डं हि वदन्ति जीवानां भयकारणम् । तत्र हि संसृतिरिति । ‘आकाशवायू त्वव्यक्तौ इतरेऽण्डे प्रकाशिताः’ इत्यादेर् भूतानां सदसत्वं युक्तम् ॥ ३३ ॥

प्रकाशिका

तदा भगवतश्चेष्टकरूपेण स्वप्रविष्टस्य हरेः शक्त्या चोदिताः प्रेरिताः सन्तोऽ-न्योन्यं संहत्य संश्लिष्य । सदसत्त्वं धर्मिप्रधानो निर्देशः । सदसदुपादायोपादानीकृत्य नो भयमदो ब्रह्माण्डं ससृजुरित्यन्वयः । अत्र सदसत्वं प्रतियोगितयोपादाय नोभयमिति तदुभयवैलक्षण्यरूप-मनिर्वाच्यत्वं ब्रह्माण्डस्योच्यत इति प्रतीतिनिरासाय सदसत्वमित्येतदनूद्य व्याचष्टे ॥ सदसत्वमिति ॥ सदेर्गत्यर्थस्य कर्मणि क्विपि कृते सच्छब्दस्य व्यक्तत्वमर्थ इति भावः । नोभयमित्यत्र पदच्छेदं दर्शयति ॥ नः भयमिति ॥ तथा च न उभयमिति पदच्छेदो न विवक्षितः । येनोक्तार्थाप्रतीतिः स्यादिति भावः । अदःशब्दार्थमाह ॥ अद इति ॥ तर्हि ब्रह्माण्डस्य कथं भयत्वमित्यत आह ॥ ब्रह्माण्डं हीति ॥ तथा च भयशब्दो भयकारणपर इति भावः । कुत इत्यत आह ॥ तत्र हीति ॥ संसृतिश्च भयहेतुरिति प्रसिद्धमेवेति भावः । सदसच्छब्दौ व्यक्ताव्यक्तपरावित्युक्तम् । तत्र ब्रह्माण्डोपा-दानेषु पञ्चभूतेषु व्यक्ताव्यक्तत्वं कथमित्याकांक्षायां प्रमाणेनैव तद्विविच्य दर्शयति ॥ आकाशवायू इति ॥ इतरेऽग्न्याद्यास्त्रयः । प्रकाशिता व्यक्ताः । कुत इत्यत उक्तम् ॥ तथात्वादिति ॥ उक्तरीत्या व्यक्ताव्यक्तत्वादित्यर्थः ॥ सा गतिरिति ॥ व्यक्ताव्यक्तत्वादिरूपा स्थितिरित्यर्थः ॥ ननु महाभारत-तात्पर्यनिर्णयादौ ‘सुषाव सैवाण्डमधोक्षजस्य शुष्मं हिरण्यात्मकमम्बुमध्य’ इत्यादिना ब्रह्माण्डस्य विष्णुवीर्यात्मकतयोक्तत्वेनात्र पञ्चभूतोपादानकत्वोक्तौ तद्विरोधः स्यादिति चेन्न । सदसदुपादाय विष्णुवीर्यात्मना परिणाम्यादः ससृजुरिति व्याख्यानात् ॥ ३३ ॥

वर्षपूगसहस्रान्ते तदण्डमुदकेशयम् ।

कालकर्मस्वभावस्थो(ऽ)जीवो(ऽ)जीवमजीजनत् ॥ ३४ ॥

तात्पर्यम्

कालकर्मस्वभावस्थ अजीवः परमेश्वरः । अजीवं स्वात्मानमजीजनत् । तदण्डं यथा स्वात्मानं प्रसूते तथा चकार । ‘यः प्राणधारणं प्राणप्रसादात्कुरुतेऽनिशम् । स जीव इति सन्दिष्टस्तदन्योऽजीव उच्यते । यत्प्रसादात्स तु प्राणः कुरुते स्वस्य धारणमि’ति वायुप्रोक्ते ॥ ‘कालकर्मस्वभावस्थो वासुदेवः परः पुमान् । अकरोदण्डमुद्वृद्धमात्मप्रसवकारणमि’ति ब्रह्माण्डे ॥ जीव इति वा । ‘प्राणं धारयते यस्मात्स जीवः परमेश्वरः । अजीवोऽपि महातेजास्त्वथवा जीवयञ्जगदि’ति स्कान्दे ॥ ३४ ॥

पदरत्नावली

ब्रह्माण्डान्तःसृष्टिं वक्तुं हरेस्तत्र व्यक्तिप्रकारमाह- वर्षपूगेति ॥ कालाद्युद्बोध-कत्वेन कालकर्मस्वभावस्थो ऽजीवः संसारिव्यतिरिक्तः परमेश्वरः सहस्रवत्सरमुदकेशयम् आवरणजलमध्ये स्थितं तदण्डं वर्षपूगसहस्रान्ते तैस् तत्वैः सह प्रविश्य तदण्डं यथा स्वात्मानं प्रसूते तथा परिबृंह्य अजीवं स्वात्मानं तत्राजीजनद् व्यञ्जयामास । ‘यः प्राणधारणं प्राणप्रसादात्कुरुतेऽनिशं स जीव इति सन्दिष्टः, इत्यादेः ‘अजीव’ इत्येव पदच्छेदः । कालकर्मस्वभावस्थो वासुदेवः परः पुमान् । अकारोदण्डमुद्वृद्धमात्मप्रसवकारणम्’ इति वचनात् ‘अजीवम्’ इत्येव । यद्वा जीवः प्राणधारकः परमात्मा, जीवं तथाविधार्थं स्वात्मानं तत्राजीजनदिति । प्राणान्धारयते यस्मात्स जीवः परमेश्वरः’ इति च । जीवादत्युद्रिक्ततेजस्त्वादजीवः । जगज्जीवनहेतुत्वाज्जीव इति हेतुद्वयादिदं युक्तञ्च । ‘अजीवोऽपि महातेजास्त्वथवा जीवयञ्जगत्’इति वचनात् । यद्वा अजीवः परमेश्वरः जीवं सर्वजीव-प्रधानं चतुर्मुखमुत्पाद्य तदन्तर्यामित्वेन प्राणधारकं स्वात्मानमजीजनत् । विरिञ्चस्यापि विराा-ख्याण्डान्तर्वर्तिरूपजननस्यात्रभिप्रेतत्वात् । तदुक्तम्- ‘अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च’ इत्यादि ॥ ३४ ॥

प्रकाशिका

ब्रह्माण्डान्तर्हरेर्विराड्रूपेण व्यक्तिं वक्तुं तत्र तद्देहावस्थानाय ब्रह्माण्डबृंहणप्रकारं तावदाह ॥ वर्षपूगेति ॥ अत्र कश्चन जीवः कञ्चन जीवमजीजनदित्यन्यथाप्रतीतिवारणायोभयत्रा-कारप्रश्लेषेण छेदं प्रदर्श्य व्याख्याति ॥ कालेति ॥ जीव इत्येव पदच्छेदे इदं विशेषणमनुपपन्नं स्यादिति बाधकप्रदर्शनायास्योदाहरणम् । ननु तदण्डमुदकेशयमित्येतदसङ्गतं भातीत्यतस्तत्सङ्गत्यर्थ-मपेक्षित-मध्याहृत्य तस्य सङ्गतिं दर्शयन्नेव श्लोकतात्पर्यमाह ॥ तदण्डमिति ॥ प्रसूयते वक्ष्यमाणस्वप्रादुर्भाव-परिमितावकाशवद्यथा स्यात् । अत्र यथा प्रसूत इत्यध्याहारः । अजीवमित्यस्यार्थप्रदर्शनम् ॥ स्वात्मानमिति ॥ अजीजनदित्यस्य तात्पर्यकथनम् ॥ चकारेति॥ भगवत्यजीवशब्दं प्रमाणेनैव व्याख्याति ॥ यः प्राणेति ॥ प्राणप्रसादान्मुख्यप्राणप्रसादात् । तदन्यो मुख्यप्राणप्रसादात्प्राणधारणाकर्ता । एतादृशो मुख्यप्राणोऽपि भवतीत्यत आह ॥ यत्प्रसादादिति ॥ तथा च पराधीनप्राणधारणाकर्ता जीव इति भावः । तुशब्दस्तस्य रुद्राद्युत्तमत्वरूपविशेषद्योतकः । पूर्वोक्तश्लोकतात्पर्ये प्रमाणसंवादं दर्शयति ॥ कालेति ॥ आत्मप्रसवकारणं वक्ष्यमाणस्वात्मदेहपरिमितावकाशवद्यथा स्यात्तथोद्वृद्धं बृंहितमकरो-दित्यन्वयः । जीव इति पदच्छेदेऽपि न दोषः । जीवशब्देन प्रसिद्धजीवभिन्नस्य भगवत एव विवक्षित-त्वादित्याशयेनाह ॥ जीव इति वेति ॥ छेद इति शेषः । भगवति जीवशब्दस्य द्वेधा वृत्तिं प्रमाणेन दर्शयति ॥ प्राणमिति ॥ प्राणं मुख्यम् । अजीवोऽपि जीवभिन्नोऽपि ॥ ततश्चायं श्लोकार्थः ॥ कालाद्युद्बोधकतया कालादिस्थोऽजीवः प्रसिद्धजीवविलक्षणः परमात्मा उदकेशयमावरणजलमध्ये स्थितं तदण्डं वर्षपूगसहस्रान्ते यथाऽजीवं स्वात्मानं प्रसूयते स्वदेहपरिमितावकाशवद्यथा स्यात्तथाऽ-जीजनदकरोत् । परमात्माऽण्डान्तःस्थं जलादिरूपं कश्मलं विनाश्य वक्ष्यमाणस्वरूपदेहावस्थानायाण्डं बृंहितमकरोदित्याशय इति ॥ ३४ ॥

स एष पुरुषस्तस्मादण्डं निर्भिद्य निर्गतः ।

सहस्रोर्वङ्घ्रिबाह्वक्षिः सहस्राननशीर्षवान् ॥ ३५ ॥

तात्पर्यम्

‘अण्डे जातौ पुमांसौ द्वौ हरिर्ब्रह्मा तथैव च । अनादिस्तु हरिस्तत्र ब्रह्मा सादिरुदाहृत’ इति च ॥ ३५ ॥

पदरत्नावली

तामेवाभिव्यक्तिं स्फुटीकरोति- स एष इति ॥ अयमर्थः । यो महदादितत्वानि सृष्ट्वा तदन्तःप्रविष्टस् तदुपादानतया अण्डं निर्माय तदन्तः प्राविशत् स एषः पुरुषः करचरणाद्यवयव-वत्त्वेन पुरुषनामा हरिर् अण्डं निर्भिद्य बृंहयित्वा तस्मादण्डान् निर्गतः प्रकाशितोऽभूत् । पुरुषत्वेऽपि लोकविलक्षणोऽयमिति भावेन विशिनष्टि- सहस्रेति ॥ अत्र सहस्रशब्दस्य यथासम्भवमर्थो वक्तव्यः

॥ ३५ ॥

प्रकाशिका

एवं ब्रह्माण्डबृंहणमुक्त्वेदानीं तत्र पुरुषरूपेण भगवतः प्रादुर्भावमाह ॥ स एष इति ॥ सः यो महत्तत्त्वादिब्रह्माण्डान्तपदार्थजनकः परमेश्वरोऽण्डं निर्भिद्योक्तरीत्या बृंहयित्वा तस्मादण्डादभिव्याप्य पुरुषः पुरुषनामा सन्निर्गतो नितरां प्रकाशितः । प्रादुर्भूत इति यावत् । अत्रैष इति कर्त्रन्तरोक्त्या एष मन्मूलरूपो मल्लक्षणपुरुषस्तस्मात्तदभिव्याप्य निर्गत उत्पन्न इत्यपि व्याख्येयमित्याशयेनात्र प्रमाणमाह ॥ अण्ड इति ॥ अण्ड इति सप्तमीनिर्देशेन तस्मादिति उक्तरीत्या ल्यब्लोपनिमित्ता पञ्चमीति सूचयति । तथाचशब्दौ परस्परसमुच्चये । अनादिरेवेत्येवशब्दसंबन्धः । तुशब्दो हरेः प्रादुर्भावरूपजनिलक्षण-विशेषद्योतकः । पूर्वोक्तजीवत्वोपपादनायास्य पुरुषसूक्तोक्तं माहात्म्यं वक्तुं तावत् सहस्रशीर्षेत्यर्धर्चोक्तं माहात्म्यमाह ॥ सहस्रेति ॥ ऊर्वादिग्रहणेन सूक्ते शीर्षादिपदानि तदुपलक्षकानीति सूचयति ॥ ३५ ॥

यस्येहावयवैर्लोकान् कल्पयन्ति मनीषिणः ।

ऊर्वादिभिरधः सप्त सप्तोर्ध्वं जघनादिभिः ॥ ३६ ॥

तात्पर्यम्

‘हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम् । साक्षात्सत्यमतोऽन्यस्माद् व्यावहारिकमुच्यत’ इति मात्स्ये ॥ ३६ ॥

पदरत्नावली

पुरुषाख्यविष्णोरवयवेभ्य एव चतुर्दशभुवनसृष्टिर् अन्येभ्यस्त्वमुख्येति भावेनाह- यस्येति ॥ इह पञ्चाशत्कोटिविस्तीर्णब्रह्माण्डे आयामतो विस्तारतस्तावद् विपुलानन्दादिदेहत्वेनावतीर्णस्य चतुर्दशभुवनेभ्यो अण्डाच्च भिन्नस्य पुरुषाख्यस्य हरेर् अवयवैर्निमित्तकारणैः । मनीषिणश् चतुर्दशलोकान् सृष्टान् कल्पयन्तीति यस्मात् तस्मात् तत्सृष्टेर् ज्ञानिप्रत्यक्षसिद्धत्वाद् अन्यतः सृष्टिरमुख्येति भावः । ‘हरेरवयवैर्लोकाः सृष्टा इति विकल्पनम्’ इत्यादेश्च । तत्सृष्टिकल्पनाप्रकारमाह- ऊर्वादिभिरिति ॥ ऊर्वादिभिः पादतलान्तैरवयवैरतलादिपातालान्ताः सप्तलोका निर्मिताः । जघनादिभिर् मूर्धान्तैरवयवैर् ऊर्ध्वं पृथिव्यादिसत्यान्ताः सप्तलोकाः सृष्टा इति ॥ ३६ ॥

प्रकाशिका

नाभ्या आसीदन्तरिक्षमिति ऋगुक्तमाहात्म्यमाह ॥ यस्येति ॥ अत्र यच्छब्देन पूर्वप्रकृतयोरुभयोः पुरुषयोर्ग्रहणे तयोर्लोककल्पकावयवत्वं समकक्षमिति प्रतीयते । कल्पयन्तीत्यनेनोक्तं कल्पनं च भ्रम इति । अत एतदुभयप्रतीतिनिरासाय प्रमाणेनैव श्लोकतात्पर्यमाह ॥ हरेरिति ॥ साक्षात्सृष्टा इति विकल्पनं ज्ञानं सत्यमबाध्यं न भ्रम इत्यर्थः । अन्यस्माद्विरिञ्चावयवसमूहाद्य-ल्लोककल्पनमुच्यते तद्व्यावहारिकं व्यवहारमात्रसिद्धं सत्यं न मुख्यमित्यर्थः । अत्र हरेरवयवैरिति तृतीयया हर्यवयवानां स्रष्टृत्वमुच्यते । तत्तु हर्यवयवेषु मुख्यं न विरिञ्चावयवेषु तेषां लोकोपादानत्वेन च तत्सृष्टृत्वाभावादतस्तत्र तृतीयाऽमुख्येति भावः । तथा च यस्य परमपुरुषस्यावयवैरिह ब्रह्माण्डे लोका-न्मनीषिणो ज्ञानिनः कल्पयन्ति साक्षात्स्रष्टा इति जानन्ति । स निर्गत इति पूर्वेणान्वय इति योजना द्रष्टव्या । विरिञ्चपक्षे तु यस्य विरिञ्चस्यावयवैर्लोकान्कल्पयन्त्यवयवा एव लोकाकारतया परिणता भवन्तीति जानन्तीति व्याख्येयम् । लोकानां चतुर्दशत्वविवक्षायां तत्कल्पनाप्रकारमाह ॥ ऊर्वादिभि-रिति ॥ ऊर्वादिभिः पादतलान्तैरवयवैरतलादिपातालान्तान् अधो विद्यमानान् सप्तलोकान्कल्पयन्तीति । जघनादिभिर्मूर्धान्तैरवयवैरूर्ध्वं विद्यमानान् पृथिव्यादिसत्यान्तान् सप्तलोकान्कल्पयन्तीत्यन्वयः ॥ ३६ ॥

पुरुषस्य मुखं ब्रह्म क्षत्रमेतस्य बाहवः ।

ऊर्वोर्वैश्यो भगवतः पद्भ्यां शूद्रो व्यजायत ॥ ३७ ॥

तात्पर्यम्

‘ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः । यथावदत् श्रुतौ तद्वज्जीवो ब्रह्मेति वाग्भवेदि’ति ब्राह्मे ॥ ३७ ॥

॥ इति द्वितीयतात्पर्ये पञ्चमोऽध्यायः ॥ ५ ॥

पदरत्नावली

इदानीं पुरुषस्य मुखाद्यङ्गेभ्यो ब्राह्मणादिजातिजनिमाह- पुरुषस्येति ॥ ‘ब्राह्मणो मुखमित्येव मुखाज्जातत्वहेतुतः’ इत्यादेर् मुखमित्यादिप्रथमा पञ्चम्यर्थे । प्रमाणान्तरगवेषणायासो न कर्तव्यः । अत्रैव दर्शनादिति भावेनाह- ऊर्वोरिति ॥ अनेन पुरुषनाम्नो हरेर् यथा मुखाद्यङ्गेभ्यो ब्राह्मणादिजात्युत्पत्तिर् एवं लोकसृष्टिरपि तदङ्गेभ्यः सिद्धा । नान्यतः ॥ ३७ ॥

प्रकाशिका

इदानीं ब्राह्मणोऽस्य मुखमासीदिति ऋगुक्तं तदङ्गेभ्यो ब्राह्मणादिजातिजन्माह ॥ पुरुषस्येति ॥ अत्र जनकस्य मुखादेर्जन्येन ब्राह्मणादिनाऽभेदप्रतीतिवारणाय तदुक्तेरभिप्रायं प्रमाणे-नैवाह ॥ ब्राह्मण इति ॥ वाग्भवेद् ब्रह्मजातत्वहेतुत इति शेषः । तथा च सप्तसु प्रथमेति सूत्रान्मुख-मित्यादि प्रथमा पञ्चम्यर्थे व्याख्येय इति भावः ॥ ३७ ॥

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकोऽस्य नाभितः ।

हृदा स्वर्लोक उरसा महर्लोको महात्मनः ॥ ३८ ॥

ग्रीवायां जनलोकश्च तपोलोकोऽस्य नेत्रयोः ।

मूर्धभिः सत्यलोकस्तु ब्रह्मलोकः सनातनः ॥ ३९ ॥

तत्कट्यामतलं क्लृप्तमूरूभ्यां वितलं विभोः ।

जानुभ्यां सुतलं क्लृप्तं जङ्घाभ्यान्तु तलातलम् ॥ ४० ॥

महातलन्तु गुल्फाभ्यां प्रपदाभ्यां रसातलम् ।

पातालं पादतलत इति लोकमयः पुमान् ॥ ४१ ॥

भूर्लोकः कल्पितः पद्भ्यां भुवर्लोकस्तु नाभितः ।

स्वर्लोकः कल्पितो मूधर्ि्न इति वा लोककल्पना ॥ ४२ ॥

॥ इति श्रीमद्भागवते द्वितीयस्कन्धे पञ्चमोऽध्यायः ॥

पदरत्नावली

तामेव सृष्टिं प्रपञ्चयति- भूर्लोक इति ॥ भूरिति भूमेर् अव्ययं नामान्तरम् । भूर्लोकः पद्भ्यां जात इति कल्पित इत्यन्वेतव्यम् । भुवरित्यन्तरिक्षलोकः । इदमप्यव्ययम् । जघन-पादयोः सामीप्याज् जघनादिभिरित्यनेन न विरोधः । कट्योर्जघनान्तर्भावेऽपि ऊर्वोस् तत्सामीप्याद् ऊर्वादिभिरित्यस्य अविरोध इति । उपसंहरति- इतीति ॥ यत एवं हरेर् लोकनिर्मातृत्वं लोकाधारत्वं लोकोत्तमत्वम्, अतो वैराजाख्यो विष्णुर् लोकमय इत्युपासीतेति शेषः । प्रकारान्तरेण पुरुषावयवेभ्यो लोकसृष्टिप्रकारमाह- भूर्लोक इति ॥ अत्र अतलादीनां भूम्यन्तर्भावेन महरादीनां स्वर्लोकान्तर्भावेन त्रिलोकविवक्षा ज्ञेया । अतो नोक्तविरोधः । अत्रेदं तात्पर्यमुक्तं भवति । चतुर्दशलोकस्त्वेकः । सप्तलोकपक्षस्त्वपरः । त्रिलोकपक्षस्त्वन्यः । अधिकारिभेदेन ध्यानार्थत्वात्कल्पनायास् ततो विकल्प उपपन्न इति ॥ ३८-४२ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां द्वितीयस्कन्धे पञ्चमोऽध्यायः ॥

प्रकाशिका

ऊर्वादिभिरित्यत्र सामान्यत उक्तं चतुर्दशलोकसृष्टिं प्रपञ्चयति ॥ भूर्लोक इति भूरित्यव्ययं भूमेर्नामन्तरम् । भूर्लोकः पद्भ्यां जात इति कल्पितो ज्ञात इत्यर्थः । एवमग्रेऽपि । भुवरित्यन्तरिक्षलोकः । इदमप्यव्ययम् । जघनपादयोः सामीप्याज् जघनादिभिरित्यनेनाविरोधः । कटेरप्यूरुसामीप्यादूर्वादिभिरित्यनेनाविरोधः । उपसंहरति ॥ इति लोकमय इति ॥ लोकनिर्मातेत्यर्थः। यद्वा ऊर्वादिभिरिति चतुर्दशलोकविवक्षया लोककल्पनामुक्त्वेदानीं पक्षे सप्तलोकविवक्षायां लोककल्पनां दर्शयति ॥ भूर्लोक इत्यादिना ॥ अस्मिन्पक्षेऽतलादीनां भूलोक एवान्तर्भाव इति भावः । पच्छब्देन पादतलमारभ्योरूपर्यन्तं ग्राह्यम् । अतो न कोऽपि विरोधः । प्रकारान्तरेणापि सप्तलोककल्पनामाह ॥ तत्कट्यामित्यादिना ॥ अस्मिन्पक्षे भूम्यादीनामतललोक एवान्तर्भाव इति ज्ञातव्यम् । ऊरुलक्षणकेन कटिशब्देन जघनादिशीर्षान्तं ग्राह्यम् । अनेन ऋचि तथा लोकानकल्पयन्निति यत्सामान्यतो लोककल्पनमुक्तं तत्प्रपञ्चितमिति ज्ञातव्यम् । इदानीं त्रिलोकविवक्षायाम् ऋगुक्तं लोककल्पनं दर्शयति ॥ भूर्लोक इति ॥ अस्मिन्नपि पक्षेऽतलादीनां भुव्यन्तर्भावः । महरादीनां स्वर्लोक इति ज्ञेयम् ॥३८-४२॥

॥ इति श्रीमद्भागवततात्पर्यटिप्पण्यां द्वितीयस्कन्धे पञ्चमोऽध्यायः ॥ २-५ ॥