०४ चतुर्थोऽध्यायः

वैयासकेरिति वचस्तत्वनिश्चयमात्मनः

अथ चतुर्थोऽध्यायः

वैयासकेरिति वचस्तत्वनिश्चयमात्मनः ।

उपधार्य मतिं कृष्णे औत्तरेयः सतीं व्यधात् ॥ १ ॥

पदरत्नावली

सङ्क्षेपतः श्रुतहरिचरितत्वात् तस्मिन्नेवाहितान्तःकरणस्य परीक्षितो भक्त्यतिशयात् पुनर्विशेषतः श्रोतुकामस्य हरिसज्जनलीलाविलासविषयप्रश्नप्रकारः श्रीशुकाचार्यस्य गुरुदेवता-नमस्कारपुरःसरं तत्प्रश्नप्रतिवचनप्रतिज्ञाप्रकारश्चास्मिन्नध्याये प्रतिपाद्यते । तत्र प्रथमतः शुकोपदेशात् तस्य प्रवृत्तविज्ञानविरक्ती अनुवदति- वैयासकेरिति ॥ आत्मनः सर्वगुणपूर्णस्य हरेस् तत्वस्य निश्चयो येन तत्तथा । उपधार्य हृदि निधाय । सतीं मतीं भक्तिपरिप्लुताम् ॥ १ ॥

प्रकाशिका

राज्ञः प्रश्नं कथयितुं तस्यातिशयिताधिकारज्ञापनाय शुकोपदेशसञ्जातविज्ञान-विरक्ती तावदाह ॥ वैय्यासकेरिति द्वाभ्याम् ॥ आत्मनः परमात्मनस्तत्त्वस्य निश्चयो येन तत्तथा । उपधार्य हृदि निधाय । औत्तरेय उत्तराया अपत्त्यम् । सतीं रागादिदोषविधुराम् ॥ १ ॥

आत्मजायासुतागारपशुद्रविणबन्धुषु ।

राज्ये चाविकले नित्यनिरूढां ममतां जहौ ॥ २ ॥

तात्पर्यम्

अन्येषां नित्यं निरूढा । तदा विशेषतो जहौ ॥ २ ॥

पदरत्नावली

आत्मजायाराज्यादिचिन्तामलकलिलान्तःकरणस्य तस्य कृष्णे सन्मतिविधानं कथं ? तत्राह- आत्मेति ॥ स औत्तरेय आत्मजायादौ अन्येषां नित्यनिरूढां ममतां जहावित्यन्वयः । हरेः सर्वस्वातन्त्र्यादिज्ञानविधुराणाम् अहं ममेति नित्यनिरूढामनेन नित्यं तद्विदुषा पुरैव त्यक्तामपि तदा विशेषतस्त्यक्तवानित्यस्मिन्नर्थे चशब्दः । आत्मा देहः । ‘स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन्राज्यमुच्यत’ इति मनुवचनादविकले सप्तप्रकृतिपूर्णे ॥ २ ॥

प्रकाशिका

आत्मा देहः । आगारं गृहम् । ‘स्वाम्यमात्यौ पुरं राष्ट्रं कोशदण्डौ तथा सुहृत् । सप्तैतानि समस्तानि लोकेऽस्मिन् राज्यमुच्यते’ इति मनुवचनात् । अविकले सप्तकलापूर्णे । नन्वपरोक्षज्ञानिनश्चरमदेहवतो राज्ञो ममताया असंभावितत्वात्कथं तस्या नित्यनिरूढत्वोक्तिरित्यत आह ॥ अन्येषामिति ॥ न परीक्षित्सम्बन्धिनी ममताऽत्रोच्यते । किं त्वन्येषां हरिस्वातन्त्र्याज्ञानिनां नित्यनिरूढा उन्मूलयितुमशक्या ममतेति ममतास्वरूपमेवातो नोक्तदोष इत्यर्थः । तर्हि कथं जहाविति राज्ञस्तत्त्यागोक्तिरित्यत आह ॥ तदेति ॥ तथा च या ममताऽन्येषां देहादौ नित्यनिरूढा तां पूर्वं त्यक्तामपि प्रारब्धकर्मवशादीषदनुवर्तमानां तदा विशेषतो निःशेषतो जहौ त्यक्तवानित्यर्थः ॥ २ ॥

पप्रच्छ चेममेवार्थं यन्मां पृच्छथ सत्तमाः ।

कृष्णानुभावश्रवणे श्रद्दधानो महायशाः ॥ ३ ॥

पदरत्नावली

किमन्यत्पृष्टवानिति प्रश्नं परिहरति- पप्रच्छेति ॥ ३ ॥

प्रकाशिका

किमन्यत्पृष्टवानिति प्रश्नं परिहरति ॥ पप्रच्छेति ॥ ३ ॥

संस्थां विज्ञाय सन्यस्य कर्म त्रैवर्गिकञ्च यत् ।

वासुदेवे भगवति स्वात्मभावं दृढं गतः ॥ ४ ॥

तात्पर्यम्

‘आप्तेः सर्वगुणानां य आत्मनामतया हरिम् । उपास्ते नित्यशो विद्वानाप्त-कामस्तदा भवेदि’ति वामने ॥ ४ ॥

पदरत्नावली

संस्थां मरणम् । त्रैवर्गिकं धर्मार्थकामसाधनं यत् कर्म तच्च सन्यस्य । स्वस्य आत्मा स्वामीति भावं भक्तिं गतः । एवमधिकारसामग्रीमान् राजा यमर्थं यूयं मां पृच्छथ इममेवार्थं परिपप्रच्छ च । शुकमिति शेषः ॥ ४ ॥

प्रकाशिका

संस्थां मरणम् । त्रैवर्गिकं धर्मार्थकामसाधनं यत्कर्म तत्सन्न्यस्य । अत्रात्मभाव-मित्येतत्स्वात्मत्वमित्यन्यथाप्रतीतिवारणाय प्रमाणेनैव व्याचष्टे ॥ आप्तेरिति ॥ यो विद्वान् हरिं सर्वगुणानामाप्तेः सर्वगुणपूर्णत्वान्निमित्तादात्मनामतयाऽऽत्मशब्दवाच्यत्वेन नित्यश उपास्ते स तदाप्तकाम अवाप्तस्वरूपभूतपरमानन्दो भवेदित्यर्थः । अनेनात्मभावं गत इत्येतदावृत्त्या योजनीयमिति सूचयति । दृढमित्यस्य तात्पर्यम्- नित्यश इति ॥ ततश्चायमर्थः ॥ वासुदेवे भगवति विषये आत्मभावमात्मेति भावनां गुणपूर्णत्वेनात्मशब्दवाच्यत्वोपासनां दृढं यथा स्यात्तथा । नित्यश इति यावत् । गतः प्राप्तः कुर्वन् आत्मभावं स्वस्वभावभूतमानन्दं गतः प्राप्तः सन् पप्रच्छेति सम्बन्ध इति ॥ ४ ॥

राजोवाच—

समीचीनं वचो ब्रह्मन्सर्वज्ञस्य तवानघ ।

तमो विशीर्यते मह्यं हरेः कथयतः कथाः ॥ ५ ॥

पदरत्नावली

स्वाभीष्टं प्रष्टुं शुकवचनं स्तौति- समीचीनमिति ॥ यदिष्टसाधनावबोधकं तत्प्रतिबन्धकनिवर्तकञ्च तदेव वचनं समीचीनं दृष्टम् । एतत्कथमत्राह- तम इति ॥ मह्यं मम तम आन्तरम् अज्ञानं विशीर्यत इत्यनेन समूलभूतमुच्छिद्यते इत्युक्तं भवति । मह्यमित्यनेन स्वेष्टसाधनं ज्ञानञ्च येन दीयत इति सूचितं भवति । हेतुर्वानेनोच्यते । मह्यं तमो विशीर्यत इति येन तस्मात् समीचीनमिति

॥ ५ ॥

प्रकाशिका

स्वाभीष्टं प्रष्टुं शुकवचनं स्तौति ॥ समीचीनमिति ॥ अत्र हेतुमाह ॥ तमो विशीर्यत इति ॥ तमोऽज्ञानं विशीर्यते नश्यति । मह्यं मम तव कथयतः सतोऽतः समीचीनम् ॥ ५ ॥

भूय एव विवित्सामि भगवानात्ममायया ।

यथेदं सृजते विश्वं दुर्विभाव्यमधीश्वरैः ।

यथा गोपायति विभुर् यथा संयच्छते पुनः ॥ ६ ॥

पदरत्नावली

आत्ममायया स्वेच्छया । स्वनियतया प्रकृत्या च । अन्यैर् दुर्विभाव्यं दुरुत्पाद्यम् इदं विश्वं यथा येन प्रकारेण सृजते, येन प्रकारेण गोपायति रक्षति, पुनः येन प्रकारेण संयच्छते संहरति तं प्रकारं भूयः पुनरपि विवित्सामि ज्ञातुमिच्छामि ॥ ६ ॥

प्रकाशिका

विवित्सामि वेदितुमिच्छामि । आत्ममायया स्वेच्छया स्वाधीनप्रकृत्या च । यथा केन प्रकारेण । दुर्विभाव्यमन्यैरुत्पादयितुमशक्यम् ॥ गोपायति रक्षति ॥ संयच्छते संहरते । तं प्रकारं भूयो विवित्सामीत्यन्वयः ॥ ६ ॥

यां यां शक्तिमुपाश्रित्य पुरुशक्तिः परः पुमान् ।

आत्मानं क्रीडयन्क्रीडन्करोति विकरोति च ॥ ७ ॥

पदरत्नावली

पुरुशक्तिर् अनन्तशक्तिः परः पुमान् आत्मानं जीवं संसारे क्रीडयन् अवतारैश्च क्रीडन् यां यां शक्तिमुपाश्रित्य विश्वस्य यदपेक्षितं तत्सर्वं सामान्यतो विशेषतश्च करोति तदपि विवित्सामीति । चशब्देन ‘निर्विकारः सदा शुद्धः’ इति वाक्यं प्रमाणयति ॥ ७ ॥

प्रकाशिका

यां यां शक्तिमिति ॥ सत्त्वाद्यभिमानिभूतासु श्रीभूदुर्गासु शक्यत्वाच्छक्ति- शब्दवाच्यासु मध्ये कां कां शक्तिमाश्रित्य सृजते गोपायति संयच्छत इत्यन्वयः । ननु शक्त्याश्रयणेन सर्जनादिकरणे अस्वातन्त्र्यप्रसङ्ग इत्यत उक्तम् ॥ पुरुशक्तिरिति ॥ अनन्तशक्तिरित्यर्थः । तथा च लीलयैव शक्त्याश्रयणमिति भावः ॥ प्रश्नान्तरं करोति ॥ आत्मानमिति ॥ यथेत्यनुवर्तते । तथा च स्वयमवतारैः क्रीडन् यथा करोति, आत्मानं जीवसङ्घं संसारे क्रीडयन्, यथा विकरोति विविधं करोति तदपि विवित्सामीत्यर्थः ॥ ७ ॥

नूनं भगवतो ब्रह्मन्हरेरद्भुतकर्मणः ।

दुर्विभाव्यमिवाभाति कविभिश्च विचेष्टितम् ॥ ८ ॥

पदरत्नावली

भगवच्चेष्टाविषयस्य ज्ञानस्य वक्ता ज्ञानिष्वपि दुर्लभ इति भावेनाह- नूनमिति ॥ अज्ञैर् दुर्विज्ञेयमिति किं वक्तव्यमित्यस्मिन्नर्थे चशब्दः ॥ ८ ॥

प्रकाशिका

नन्वतिसुगमे हरिचेष्टिते किमर्थं त्वदीयः प्रश्न इत्यत आह ॥ नूनमिति ॥ हरेर्विचेष्टितं कविभिर्ज्ञातमपि दुर्विभाव्यमिव सम्यक् ज्ञातुमशक्यमिवाभाति । साकल्येन तस्याज्ञानादतः प्रश्नो युज्यत इति भावः ॥ अज्ञैर्दुर्विभाव्यमिति किं वक्तव्यमिति कैमुत्यार्थम् । चशब्दोऽप्यर्थः ॥८॥

यथा गुणांस्तु प्रकृतेर्युगपत्क्रमशोऽपि वा ।

बिभर्ति भूरिशस्त्वेकः कुर्वन्कर्माणि जन्मभिः ॥ ९ ॥

पदरत्नावली

अथाप्येकः प्रश्नोऽस्तीत्याह- यथेति ॥ एको हरिर् जन्मभिर् वासुदेवाद्यवतारैर् भूरिशः सृष्ट्यादिकर्माणि कुर्वन् प्रकृतेः सत्वादिगुणान् यथा कथं बिभर्ति । युगपत् क्रमशः क्रमेण वेति । तुशब्देन गुणानां विरुद्धस्वभावत्वेन युगपद्ग्रहणेऽनुपपत्तिं सूचयति । अपिपदेन क्रमशो ग्रहणं सम्भावितमिति ॥ ९ ॥

प्रकाशिका

पुनः पृच्छति ॥ यथेति ॥ एको हरिर्जन्मभिः स्वावतारैस्तु भूरिशोऽतिशयेन भूरीणि सृष्ट्यादिकर्माणि कुर्वन् प्रकृतेर्गुणान्सत्त्वादीन्यथा कथं बिभर्ति कारणतया स्वीकरोति । किं युगपदेव क्रमश एव वा । युगपत्क्रमशोऽपि वेति प्रश्नार्थः ॥ ९ ॥

विचिकित्सितमेतन्मे ब्रवीतु भगवान्यथा ।

शब्दब्रह्मणि निष्णातः परस्मिंश्च भवान् खलु ॥ १० ॥

पदरत्नावली

न केवलं विवित्सामि किन्तु वक्तव्यमिति त्वां प्रार्थये इत्याह- विचिकित्सित-मिति ॥ यथा यथावत् । एतद्वक्तुं तव पाण्डित्यञ्चास्तीत्याशयेनाह- शब्देति ॥ अनेनालौकिकमपि वस्तु यथा बोद्धुं शक्यं तथा वक्तुं बोधायितुञ्च त्वं समर्थ इत्युक्तं भवति ॥ १० ॥

प्रकाशिका

विचिकित्सितं सन्दिग्धम् । यथा यथावत् ॥ निष्णातो नितरां स्नातो विचारेणोभयविषयकनिश्चयवानित्यर्थः ॥ १० ॥

सूत उवाच—

इत्युपामन्त्रितो राज्ञा गुणानुकथने विभोः ।

हृषीकेशमनुस्मृत्य प्रतिवक्तुं प्रचक्रमे ॥ ११ ॥

पदरत्नावली

परीक्षित्पृष्टः शुकः किञ्चकारेति सूतः शौनकस्य हार्दाशङ्कां परिहरति- इतीति ॥ इतिशब्दः प्रकारवचनः । हृषीकेशमित्यनेन मुख्यतो वागादीन्द्रियशक्त्युद्बोधकत्वं हरेरित्यभिप्रैति । प्रतिवक्तुं प्रचक्रमे प्रारब्धवान् । भागवतसंहितामिति शेषः ॥ ११ ॥

प्रकाशिका

परीक्षित्पृष्टः शुकः किं चकारेति शौनकस्य हार्दामाशङ्कां सूतः परिहरति ॥ इतीति ॥ उपामन्त्रितः प्रार्थितः ॥ हृषीकेशं वागादीन्द्रियप्रेरकम् । अनेन प्रश्नप्रतिवचनोपक्रमे तत्स्म-रणमावश्यकमिति सूचयति । प्रचक्रमे देवतागुरुनमस्कारादिरूपमुपक्रमं कृतवानित्यर्थः ॥ ११ ॥

श्रीशुक उवाच—

नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया ।

गृहीतशक्तित्रितयाय देहिनामन्तर्ध्रुवायाऽनुपलभ्यवर्त्मने ॥ १२ ॥

तात्पर्यम्

गृहीतशक्तित्रितयायेति, ‘इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः । स्वरूपभूता अपि तु भेदवद्व्यावहारिका’ इति प्रकाशसंहितावचनान्नित्यगृहीतशक्तित्वमेव ॥१२॥

पदरत्नावली

परीक्षित्प्रश्नोत्तररूपत्वेन भागवतपुराणं वक्तुकामः शुकः शिष्टाचारं परिपालयन् स्वेष्टदेवतां प्रणमति- नमः परस्मा इत्यारभ्य नमस्तस्मा इत्यन्तैः श्लोकैः ॥ भूयस्त्वमुपपादयति- सदित्यादिना ॥ सतः सत्यस्य जगत उद्भव उत्पत्तिः, स्थानं पालनरूपा स्थितिः, निरोधो लयः, एतन्निमित्तलीलया । गृहीतं शक्तीनाम् इच्छाज्ञानक्रियाख्यानां त्रितयं येन स तथोक्तस् तस्मै । ‘इच्छा ज्ञानं क्रिया चेति नित्याः शक्तय ईशितुः’ इति वचनान्नित्येति पदमध्याहार्यम् । नित्यगृहीतशक्ति-त्रितयायेत्यर्थः । वेदादिरेवात्र प्रमाणम् । न प्रत्यक्षमिति भावेनाह- देहिनामिति ॥ देहिनां जीवानां चक्षुरादिना अनुपलभ्यवर्त्मने दुर्ज्ञेयमार्गाय । दूरस्थत्वादिति नेत्याह- अन्तर्ध्रुवायेति ॥ अन्तर्यामित्वेन सन्ततमन्तःस्थिताय । ‘यो वै भूमा तत्सुखं’ ‘द्वाविमौ पुरुषौ लोक’ इत्यादिवाक्यमत्र प्रमाणम् ॥१२॥

प्रकाशिका

एतदेवाह ॥ नमः परस्मा इत्यादित्रयोदशभिः श्लोकैः । परस्मै पुरुषाय सर्वोत्तमपुरुषाय । कुतः सर्वोत्तमत्वम् । भूयसे पूर्णगुणाय । भूयस्त्वं कुतो ज्ञेयमित्यत उक्तम् ॥ सदिति ॥ सतः सत्यस्य जगतः, उद्भव उत्पत्तिः, स्थानं स्थितिर्निरोधो लयस्तेषु निमित्तभूता या लीला तया गृहीतं शक्तीनां त्रितयं येन स तथोक्तस्तस्मै । अत्र रजआदिकं शक्तित्रितयं तद्ग्रहणं च कादाचित्कमिति प्रतीतिवारणाय तदुपादाय प्रमाणेनैव व्याचष्टे ॥ गृहीतशक्तीति ॥ नित्या इत्यनेन कादाचित्कग्रहणं व्यावर्तयति । नित्यत्वमुपपादयितुमुक्तम् ॥ स्वरूपभूता इति ॥ अपि तथाऽपि । तु विशेषबलात् । व्यावहारिका व्यवहारविषया भवन्तीत्यर्थः । नित्यगृहीतशक्तित्वमेवेत्यनन्तरं विवक्षितमिति शेषः । अनेन मूले गृहीतेत्यतः प्राक् नित्यमित्यध्याहार्यमिति सूचयति । तथा च नित्यं सर्वदा गृहीतं ज्ञानेच्छाक्रियाख्यानां शक्तीनां त्रितयं येनेत्येवं मूलं व्याख्येयमित्युक्तं भवति । एवं लीलयैव नित्यगृहीतोक्तशक्तिभिर्जगज्जन्मादिकर्तृत्वात्तस्य गुणपूर्णत्वमनुमेयमिति भावः । उद्भवादिना स्वप्रयोजनं नास्तीति सूचनाय लीलयेत्युक्तम् । नन्वेवंविधः परः पुरुषः कुलालवत्कस्माद्देहिभिर्न दृश्यत इत्यत उक्तम् ॥ अनुपलभ्यवर्त्मन इति ॥ देहिनां देहिभिर्दुर्विज्ञेयमार्गायेत्यर्थः । तदीयो मार्गोऽपि दुर्ज्ञेयः किमु स इति सूचयितुमेवमुक्तम् । किं दूरस्थत्वादनुपलभ्यवर्त्मा, नेत्याह ॥ देहिनामन्तर्ध्रुवाय स्थितायेति । तथा च समीपस्थोऽपि न दृश्यतेऽव्यक्तस्वभावत्वादित्युक्तं भवति ॥ १२ ॥

भूयो नमः सद्वृजिनच्छिदेऽसतामसम्भवायाऽखिलसत्वमूर्तये ।

पुंसां पुनः पारमहंस्य आश्रमे व्यवस्थितानामनुमृग्यदाशुषे ॥ १३ ॥

तात्पर्यम्

अखिलसत्वमूर्तये । पूर्णसाधुभावस्वरूपाय । निःशेषगुणपूर्णत्वात्सत्व इत्येव तं विदुरिति महासंहितायाम् ॥ १३ ॥

पदरत्नावली

सर्वस्मान्नारायणप्रसादसाधनाद्भक्तिपूर्वकं पुनः पुनर्नमनमेव तत्प्रीतिजनकमिति भावेनाह- भूय इति ॥ भूयोऽपि परस्मै पुरुषाय नम इत्यन्वयः । यत इष्टावाप्तितत्प्रतिबन्धकनिवृत्ती स्यातां स एव नन्तव्यो दृष्टः । अस्य कथमिति तत्राह- सदिति ॥ सतां नमनादिप्रशस्तकर्मणां पुंसां वृजिनं दुःखकारणं पापं छिनत्ति निर्मूलयतीति सद्वृजिनच्छित् तस्मै । असतामप्रशस्तकर्मणा-मसुरादीनामसम्भवाय असत्ताकरणाय । सुखप्रतिबन्धकजननिर्मूलकायेत्यर्थः । एतत्करणसामर्थ्य-मस्यास्तीति भावेनाह- अखिलेति ॥ अखिलसत्वमूर्तये पूर्णसाधुभावस्वरूपाय । निःशेषगुण-पूर्णत्वात्सत्य इत्येव तं विदुः’ इति वचनात् साधुभावा गुणा इति ज्ञायन्ते । अनेन समस्तचराचर-लक्षणप्राणिमूर्तय इत्येतन्निरस्तम् । अथाप्यस्मादिष्टावाप्तिः कथमवगतेत्यत्राह- पुंसामिति ॥ परमहंस-सम्बन्धिनि आश्रमे व्यवस्थितानां सन्यासधर्मवतां पुंसामनुमृग्यदाशुषे निजानन्दानुभवलक्षणमोक्षदात्रे । दाशृ दाने इति धातुः । अवधारणवाचिना पुनःशब्देन अन्ययोगं निवारयति । एतेभ्य एव अनुमृग्यं ददाति । नान्येभ्य इत्यर्थः ॥ १३ ॥

प्रकाशिका

भक्तिपूर्वकं पुनः पुनर्भगवन्नमनमेव विशेषतस्तत्प्रीतिजनकमित्याशयेन पुनः पुनर्नमति ॥ भूय इति ॥ अत्राखिलसत्त्वमूर्तय इत्येतदखिलं समग्रं सत्त्वं सत्त्वगुणो मूर्तिर्देहो यस्येति व्याख्याननिरासायानूद्य सप्रमाणकं व्याचष्टे ॥ अखिलसत्त्वेति ॥ साधुभावाः शुभधर्माः । अखिले-त्यस्यार्थः- पूर्णेति ॥ सत्त्वमित्यस्यार्थः- साधुभावेति ॥ मूर्तय इत्यस्य- स्वरूपायेति ॥ पूर्णत्वादेवेति सम्बन्धः । यद्यपि प्रमाणेऽखिलापरपर्यायनिःशेषत्वस्यापि सत्त्वशब्दार्थान्तर्गततयोक्तत्वेन मूलेऽखिलेति व्यर्थः । तथाऽपि पृथग्विशेषणसमवधान इति न्यायेन मूले सत्त्वशब्देन गुणापरपर्यायस्य साधुभावमात्रस्य ग्रहणमिति मन्तव्यम् ॥ ततश्चायं श्लोकार्थः ॥ भूयो नमः पुनरपि नम इत्यर्थः । सज्जनानामनिष्ट-निवर्तकत्वादयमेव नम्य इत्याशयेनोक्तम् ॥ सद्वृजिनच्छिद इति ॥ सतां वृजिनं दुःखं पापं वा तन्नाशकायेत्यर्थः । ननु पापप्रेरकाणामसुराणां सत्वे पुनः पापोदयः स्यादत आह ॥ असतामसम्भवा-येति ॥ असतामसुराणामसम्भवायानुद्भवकराय निर्मूलनकरायेत्यर्थः । एतत्करणेऽस्य सामर्थ्यमस्तीति भावेनाह ॥ अखिलेति ॥ पूर्णसाधुभावस्वरूपायेत्यर्थः । न केवलमनिष्टनिवर्तकतयाऽयं नम्यः किन्तु परमपुरुषार्थरूपसायुज्यप्रदत्वाच्चेत्याशयेनाह ॥ पुंसामिति ॥ पुनःशब्दः समुच्चयार्थः । परमहंसो भगवान् तत्सम्बन्धिन्याश्रमे व्यवस्थितानां विष्णुमुद्दिश्यैव क्रियमाणस्वाश्रमधर्मवतामिति यावत् । अनुमृग्यं योग्यतानुसारेण विचार्यं यत्स्वस्वरूपं तद्दाशुषे दात्रे स्वसायुज्यप्रदायेत्यर्थ इति ॥ १३ ॥

नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः कुयोगिनाम् ।

निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ १४ ॥

पदरत्नावली

नन्वन्यशब्देन सन्यासीतरज्ञानिविवक्षायां ‘तमेवं विद्वानमृत’ इतीदम् अप्रमाणं स्यात् । अज्ञविवक्षायां ‘अज्ञानां ज्ञानदो विष्णुः’ इति च । अतः केऽत्र विवक्षिता इति मन्दाशङ्कां परिहरिष्यन् भागवतशास्त्रोक्तिविरुद्धयोगा एत इति वक्ति- नमो नम इति ॥ सात्वतसंहितोक्तविधिना विष्णुमर्चयन्तः सात्वन्तः । तेषां सात्वताम् । ऋषं ज्ञानं भासयति दीपयतीति ऋषभः । ज्ञानमुद्दीप्य मुक्तिं ददातीत्यर्थः । तस्मै । ‘सत्वन्तु शोभनत्वं स्यात्तद्युक्ताः सात्वता मता’ इति वचनात् सात्वताः शोभनत्ववन्तः । तेषाम् अनुत्पन्नज्ञानानां तद्योग्यपुण्यवतां ज्ञानं ददातीति ऋषभः । तस्मा इति वा । अनेनोक्तवाक्यद्वयमपि प्रमाणमित्यायातमिति । यः परस्मै पुरुषायेति प्रक्रान्तस् ते तस्मै । यद्वा स्वचित्तस्थं सम्बोध्य ते तुभ्यं नम इति । एवंविधफलदातृत्वेन तत्स्वामीति वाक्यार्थः । ‘भस भर्त्सनदीप्त्योः’ इति धातोष् टिलोपेन सलोपः । शास्त्रकुत्सितो योग ऐक्यध्यानलक्षणः स एषामस्तीति कुयोगिनः । तेषाम् । विदूरे काष्ठा परिपूर्तिर् अपरिच्छिन्नत्वलक्षणा यस्य सस् तथा तस्मै । भगव-दधिष्ठितदिङ्मात्रमपि न जानन्तीत्यतो वा विदूरकाष्ठायेति । ‘दिशस्तु ककुभः काष्ठा’ इत्यमरः । स्वतस्तृप्तत्वेन न स्वप्रयोजनमपेक्ष्य ज्ञानादिदातृत्वमिति भावेनाह- निरस्तेति ॥ निरस्तौ साम्यातिशयौ येन तत्तथोक्तम् । तेन राधसा संसिध्या । स्वधामनि स्वयंप्रकाशे ब्रह्मणि । अनवच्छिन्नचिदानन्दैकरसे रंस्यते रममाणाय । सदातनोऽनुभवोऽयमिति शतृप्रयोयः । लोकविलक्षणेयं रतिरिति द्योतयितुं परस्मैपदप्रयोगः । प्रतिपदमनुसन्धेयमिति नमसां बहुत्वम् ॥ १४ ॥

प्रकाशिका

नन्वेतादृशं पुरुषार्थं हरिः सर्वेषां कस्मान्न प्रयच्छतीत्याशङ्कां परिहरन् पुनर्नमति ॥ नम इति ॥ स्वचित्तसंस्थं सम्बोध्याह ॥ ते तुभ्यमिति ॥ पञ्चरात्रोक्तविधिना हरिमर्चयन्तः सात्वतास्तेषाम् ऋषभाय श्रेष्ठाय । तिलकायेति यावत् । कुत्सितः पञ्चरात्रागमासंमतो योगो मोक्षोपायो येषामस्ति ते कुयोगिनस्तेषाम् । विदूरा काष्ठा गतिर् यस्य स विदूरकाष्ठस्तस्मै । स्वप्रणीतपञ्चरात्रागम-विद्वेषितत्वात्स्वाधिष्ठितदिङ्मात्रज्ञानमपि तेषां न प्रयच्छतीत्याशयः । लीलयेत्यनेन यदुद्भवादिना स्वप्रयोजनं नास्तीति सूचितं तत्कुत इत्यपेक्षायामाह ॥ निरस्तेति ॥ निरस्तौ साम्यातिशयौ येन तन्निरस्तसाम्यातिशयं तेन । राधसा संसिद्ध्या । सर्वाभीष्टेनेति यावत् । स्वधामनि स्वस्वरूपे स्वाश्रये वा ब्रह्मणि देशतः कालतो गुणतश्च पूर्णे रंस्यते रममाणाय । अनेनावाप्तसमस्तकामतया स्वरमणत्वादिति हेतुरुक्त इति ज्ञातव्यम् । नम इत्येतत्प्रति विशेषणमनुसन्धेयमिति दर्शयितुमत्र नमसां बहुत्वम् ॥ १४ ॥

यत्कीर्तनं यच्छ्रवणं यदीक्षणं यद्वन्दनं यत्स्मरणं यदर्हणम् ।

लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ १५ ॥

पदरत्नावली

कीर्तनादिना विधूतकल्मषस्य नमस्क्रिया सम्पद्यत इति भावेनाह- यत्कीर्तन-मिति ॥ सुभद्रश्रवसे सुमङ्गलकीर्तये । सद्य इत्यनेन भक्तिपूर्वकमिति सूचयति । ‘क्षेमो ना प्राप्तरक्षायां भद्रोऽप्यस्त्री तु मङ्गल’ इति यादवः ॥ १५ ॥

प्रकाशिका

ननु सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृता इति वचनात् कथं सात्वतामपि शुद्धधर्मानुष्ठानसंभव इत्याशङ्कां परिहरन् पुनर्नमति ॥ यत्कीर्तनमिति ॥ लोकस्य सज्जनस्य कल्मषं कर्मानुष्ठानकाले प्राप्तम् । तत्कीर्तनादीनां कल्मषापहत्वे हेतुमाह ॥ सुभद्रेति ॥ सुभद्रमतिमङ्गलं श्रवो यशो यस्य स सुभद्रश्रवास्तस्मै । मङ्गलयशस्कस्य कीर्तनादिकं पापपरिहारकमिति प्रसिद्धमेवेति भावः । अत्रोत्तरत्र च नमसो द्वित्वे पूर्ववत्प्रयोजनं ज्ञेयम् ॥ १५ ॥

विचक्षणा यच्चरणोपसादनात्सङ्गं व्युदस्योभयतोऽन्तरात्मनः ।

विन्दन्ति हि ब्रह्मगतिं गतक्लमास्तस्मै सुभद्रश्रवसे नमो नमः ॥ १६ ॥

पदरत्नावली

वैराग्येण दृढीभूतया भक्त्या भगवच्चरणनिषेवणं ब्रह्मज्ञानसाधनं भवतीत्याशयेनाह- विचक्षणा इति ॥ यच्चरणोपसाधनाद् यच्चरणैकशरणप्राप्तिलक्षणनिषेवणाद् अन्तरात्मनो ऽन्तःकरणस्य उभयत इहामुत्रविषयेषु सङ्गं स्नेहं व्युदस्य निरस्य ब्रह्मज्ञानं तेन मोक्षञ्च विन्दन्ति । यस्य गुरुरूपस्य हरेश् चरणोपसत्तेर् अन्तरात्मनः क्षेत्रज्ञस्य उभयतः सङ्गं स्थूलसूक्ष्मशरीरसङ्गं व्युदस्य अपोह्य ब्रह्मगतिं ब्रह्मस्वरूपं विन्दन्ति अवगच्छन्तीति यन्मतं तत् हेतुवाचिना हिशब्देन निरस्तम् । यतो भेदः प्रत्यक्षादिप्रमाणसिद्धो ऽतोऽनुपपन्न ऐक्यवादः । सुभद्रं श्रवः श्रवणं यस्य स तथा तस्मै ॥ १६ ॥

प्रकाशिका

एवं हरिकीर्तनादिना शुद्धं कर्म कुर्वतां किं फलमित्याशङ्कां परिहरन् पुनर्नमति ॥ विचक्षणा इति ॥ विचक्षणा विवेकिनो यच्चरणयोरुपसादनाद्यस्य चरणयोरुपसादनादुपसत्तेः । भजनादिति यावत् । अन्तरात्मनोऽन्तःकरणस्योभयत इहामुत्रविषयेषु सङ्गं स्नेहं व्युदस्य निरस्य गतक्लमाः प्रयासरहिता ब्रह्मगतिं ब्रह्मज्ञानं, तया ब्रह्मरूपां गतिं गम्यं च विन्दन्ति लभन्ते । हीत्यत्र प्रमाणप्रसिद्धिं दर्शयति ॥ १६ ॥

तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः ।

क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ १७ ॥

प्रकाशिका

कर्मकरणे इत्थं भावं दर्शयन् पुनर्नमति ॥ तपस्विन इति ॥ मनस्विनो मनो-योगयुक्ताः । सुमङ्गलाः सदाचाराः । क्षेमं कर्मफलं ज्ञानादिकं, यदर्पणं यस्मिन् समर्पणम् ‘नाहं कर्ता हरिः कर्ते’ त्याद्यनुसन्धानरूपम् । सुभद्रश्रवस इत्यस्यावृत्तिस् तद्यशःश्रवणादेरावश्यकत्वज्ञापनाय ॥१७॥

किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङ्कायवनाश्शकादयः ।

येऽन्ये च पापा यदपाश्रयाश्रयाच्छुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ १८ ॥

पदरत्नावली

सज्जनसेवाया अप्येतादृशमाहात्म्यं किमुत भगवत्सेवाया इति भावेन तन्महिम-विशिष्टं नमति- किरातेति ॥ किरातादयो येऽन्ये च पापास् ते सर्वे यदपाश्रयाश्रयाच्छुध्यन्ति इत्यन्वयः । यस्माद् अन्य आश्रयः नास्ति येषां ते यदपाश्रया विप्रादयस् तेषाम् आश्रयात् सेवालक्षणात् शुध्यन्ति निष्पापा भवन्तीत्यर्थः । शबरात् पर्णशबरीजाताः किराता आटविकाः । वैदेहकात् पुल्कसीजाता हूणाः । वैश्याद् ब्राह्मणीजाता वैदेहकाः । वैदेहकपुत्रा आन्ध्राः । अज्ञातविप्रादिभाषा मधुपायिनः । निष्ट्यात् किरातीजाताः पुलिन्दाः । व्यभिचाराज्जातश् चौर्यः । तस्माज्जाता वा । शूद्राद् ब्राह्मणी-जातश्चण्डालः । तस्माज्जाताः पुल्कसाः । ब्राह्मणाद् वैश्यायां जातोऽम्बष्ठः । ब्राह्मणात् तस्याम्बष्ठस्य कन्यायां जाता आभीराः । कङ्काः कर्पराः । नृपाद्वैश्याजाता यवनाः श्मश्रुाः । शकास्तु तुरुष्कविशेषाः । डोम्बकुरुविन्दमूतिबपूर्वा आदिशब्दगृहीताः । तथा चानुक्तैः सह चतुष्षष्टिजातयः । तथाचोक्तम् ‘ब्राह्मणस्य त्रयः पुत्रा वर्णास्त्रिष्वनुलोमजाः । शूद्रस्य च त्रयः पुत्रास् तेष्वेव प्रतिलोमजाः । त्रयस्त्रयः क्षत्रविशोः प्रतिलोमानुलोमजाः । एते द्वादशवर्णानां पुत्रा एकैकशस्तु ते । चातुर्वर्ण्ये प्रसूयन्ते चतुरश्चतुरः सुतान् । ते चत्वारिंशदष्टौ च पूर्वैर् द्वादशभिः सह । ब्राह्मणाद्यैश्चतुर्भिश्च चतुःषष्टिर्हि जातयः । ते सर्वे दस्यवो दोषैश्चौर्याद्यैः सद्बहिष्कृताः’ ॥ इति जातिविवेकाभिधाने । अन्ये पापा ब्रह्महत्यादिकर्तारः । तस्मै प्रभविष्णवे प्रभवनशीलाय नम इत्यन्वयः ॥ १८ ॥

प्रकाशिका

यद्धरिकीर्तनादिकं शुद्धिकरमित्युक्तं तत्कैमुत्येनोपपादयति ॥ किरातेति ॥ किरातादयः पापजातयः जातिविवेकाभिधायकग्रन्थादवगन्तव्याः । अन्ये पापाः । ब्रह्महत्यादिकर्मभिः पापाः । यस्मादन्य आश्रयो येषां नास्ति ते यदपाश्रया भागवता विप्रादयस्तेषामाश्रयात्सेवारूपात् शुद्ध्यन्ति निष्पापा भवन्तीत्यर्थः । एवं च यदा भागवतानां सेवायाः शुद्धिप्रदत्वं तदा किं वाच्यं भगवत्कीर्तनादिरूपायास्तत्सेवाया इति भावः । भागवतानामिव भगवतोऽपि माहात्म्यं नान्यायत्तं किन्तु तस्य स्वभाव एवेत्याह ॥ प्रभविष्णव इति ॥ प्रकर्षेणोक्तमाहात्म्यवत्वेन भवितुं शीलमस्यास्तीति प्रभविष्णुस्तस्मा इत्यर्थः ॥ १८ ॥

स एष आत्माऽऽत्मवतामधीश्वरस्त्रयीमयो धर्ममयस्तपोमयः ।

गतव्यलीकैरजशङ्करादिभिर्वितर्क्यलिङ्गो भगवान्प्रसीदताम् ॥ १९ ॥

तात्पर्यम्

**वेदानुसारिवशगः स्वेच्छया तु हरिर्यतः । अतः स्वतन्त्रमप्याहुः प्राज्ञा वेद- मयेति ह’ इत्यध्यात्मे ॥ १९ ॥ **

॥ इति द्वितीयतात्पर्ये चतुर्थोऽध्यायः ॥ ४ ॥

पदरत्नावली

य एवंविधमहिमवत्वेन प्रसिद्धः स एष आत्मा परमात्मा भगवान् प्रसीदता-मित्यन्वयः । किं विशिष्टः- आत्मवतां भक्त्या अपरोक्षीकृतपरमात्मतत्वानां मुक्तानां ‘प्रशंसायां मतुप्’ इति प्रशस्तमनसां ज्ञानिनां वा अधीश्वरः । वेदधर्मतपोनुसारिणां पुंसां वशगत्वात् त्रयीमयः धर्ममयस् तपोमय इत्यनेन भक्तवात्सल्यं दर्शितम् । तदुक्तं ‘वेदानुसारिवशगः स्वेच्छया’ इति । अत्र प्रमाणमाह- गतेति ॥ ‘व्यलीकं त्वप्रियेऽनृत’ इत्यभिधानाद् गतव्यलीकैर् अजशङ्करादिभिर् ब्रह्मशिवादिभिर् वितर्क्यं विशेषेणानुमेयं लिङ्गं जगज्जन्मादिलक्षणं यस्य सस् तथोक्तः ॥ १९ ॥

प्रकाशिका

एवं नतिरूपमङ्गलं कृत्वेदानीं तत्साध्यं भगवत्प्रसादं प्रार्थयते ॥ स एष इत्यादिभिश्चतुर्भिः ॥ य एवंविधमहिमावत्वेन वेदादिप्रसिद्धो यश्च पूर्वं नमस्कृतः स एष आत्मा परमात्मा भगवान् प्रसीदतामिति सम्बन्धः । कुतोऽस्य प्रीतिः प्रार्थनीयेत्याशङ्कायामुक्तम् ॥ आत्मवतां देहिनामाधिक्येनेश्वर इति ॥ भक्तवत्सलत्वाच्च तस्यैव प्रीतिराशास्येत्याशयेनाह ॥ त्रयीमयो धर्ममय-स्तपोमय इति ॥ अत्र वेदविद्यात्मकतोच्यत इति प्रतीतिनिरासायोपलक्षणतया त्रयीमय इत्येतत्प्रमाणेनैव व्याचष्टे ॥ वेदानुसारीति ॥ तुशब्दोऽवधारणे । स्वतन्त्रमित्यनुवादात्स्वतन्त्र इति लभ्यते । ततश्च स्वतन्त्रोऽपि हरिर्यतः स्वेच्छयैव भक्तेषु वात्सल्येनैव वेदानुसारिपुरुषवशगोऽतः प्राज्ञाः स्वतन्त्रमप्येनं हरिं हे वेदमयेत्याहुः सम्बोधयन्तीत्यर्थः । अनेन मूले त्रयीशब्दस्तदनुसारिलक्षकः । प्राधान्यार्थो मयट् । ततश्चात्र त्रय्यनुसारिप्रधानकस्तद्वशग इति यावदिति योजनां सूचयति । एवमेव धर्ममयतपोमयशब्दौ धर्मिवशगस्तपस्विवशग इति व्याख्येयौ न्यायसाम्यादिति भावः । ननु ब्रह्मादयोऽप्यधीश्वरतया तत्तच्छास्त्रेषु कथ्यन्तेऽतः कथमयमेवाधीश्वर इत्यत उक्तम् ॥ अज- शङ्करादिभिर्वितर्क्यं विचार्यं लिङ्गं स्वरूपं यस्येति । तथा च तच्छास्त्रमप्रमाणमिति भावः । विष्णुवन्मोहनार्थमेव ब्रह्मादयो विचारयन्तीति किं न स्यादित्यत उक्तम् ॥ गतव्यलीकैरिति ॥ निष्कपटैरित्यर्थः ॥ १९ ॥

श्रियःपतिर्यज्ञपतिः प्रजापतिर्धियां पतिर्लोकपतिर्धरापतिः ।

पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान्सतां पतिः ॥ २० ॥

पदरत्नावली- चित्तीकृततत्तदभीष्टसिद्धये तत्तद्गुणविशिष्टस्य हरेः प्रसादं प्रार्थयते- श्रियः पतिरिति ॥ श्रीधरयोः पतित्वकथनेन सर्वाधिपत्ये सिद्धेऽपि तदवान्तरदेवतानामाधिपत्यं निवारयति । वेदादिवाङ्मात्राभिमानित्वेन श्रीप्रसादोऽपि प्रार्थनीय इत्यभिप्रायेण श्रियःपतिरिति । इतरविशेषणा-न्येवमनुसन्धेयानीति । बहुजनाश्रयत्वेन क्षमागुणनिधित्वेन स्थिराया धरायाः पतिः । मनआदीन्द्रिय-व्यापारसाध्यस्य देहान्तरभोग्यफलस्य यज्ञकर्मणः फलदातृत्वेन तत्फलपालकः । फलपालनं किमर्थमिति तत्राह- प्रजापतिरिति ॥ कर्मण्यधिकृतस्य जनस्य जीवनहेतुत्वेन पतिः । ‘प्रजा तु जनपुत्रयोः’ इति । प्रजापतिशब्दवाच्यत्वं मुख्यमस्येति वा । प्रवृत्तेर्ज्ञानपूर्वकत्वेन सम्भवात् तदर्थं धियां पतिरिति । लोकपतिरित्येन पुरन्दरादीनां तत्पतित्वं निवारयति । पतिर्गतिश्चेत्यादिना भक्तवात्सल्यातिशयं दर्शयति । निरपेक्षत्वेन सतां स्वामित्वापेक्षा नास्तीति शङ्कां निवारयति- सतां पतिरिति ॥ २० ॥

प्रकाशिका

अधिकृतत्वाच्चास्यैव प्रीतिराशास्येत्याशयेनैतद्ग्रन्थप्रतिपाद्यविशेषणविशिष्टस्य प्रीतिं प्रार्थयते ॥ श्रियः पतिरिति ॥ अनेन सर्ववाग्देवताया रमाया अपि प्रीतिः प्रार्थितेति ज्ञातव्यम् । अत्र हि रुक्मिणी सत्यभामापतित्वोक्त्या ‘श्रीर्यत्र रूपिण्युरुगाय पादयोरि’ त्यादिना च मूलरूपेऽपि उत्तरत्र श्रीधरापतित्वं दक्षाध्वरादिपालकत्वोक्त्या यज्ञपतित्वं तापसादिमनुरूपेण प्रजापतित्वमनिरुद्धादिरूपेण श्रीपदोपलक्षितसकलतत्त्वपतित्वम् । वचनव्यापारस्य बुद्धिसाध्यत्वाद्धियां स्वपदेनोपादानम् । यज्ञोपेन्द्रादिरूपेण लोकपतित्वम् । कृष्णरूपेणान्धकवृष्ण्यादिपतित्वगतित्वे । दत्तकपिलव्यासादिरूपेण साक्षात्कृष्णरूपेण च सतां पतित्वं चोक्तमिति ज्ञातव्यम् । अन्धकादयो यादवप्रभेदाः । गतिश्च सर्वापत्सु रक्षकः ॥ २० ॥

यदङ्घ्र्यभिध्यानसमाधिधौतया

धियाऽनुपश्यन्ति हि तत्वमात्मनः ।

वदन्ति चैतत्कवयो यथारुचि(यथारुचं)

स मे मुकुन्दो भगवान्प्रसीदताम् ॥ २१ ॥

पदरत्नावली

उक्तार्थजातमिदं किम्प्रमाणकम् । कथं वा ज्ञातुं शक्यम् इति तत्राह- यदङ्घ्रीति ॥ कार्त्स्न्येनानिवृत्तविषयसंस्कारस्मरणमभिध्यानम् । निवृत्तविषयसंस्कारोऽसम्प्रज्ञाताख्यः समाधिः । यदङ्घ्रिविषयाभ्यां ताभ्यां धौतया निर्णिक्ताविद्याकामकर्ममलया धिया आत्मनः परमात्मनस् तत्वम् अनुपश्यन्ति । हि यस्मात्तस्माद्दर्शनं प्रमाणम् । दृष्ट्वा च यथारुचं यथारुचि शिष्यादिभ्य एतत्तत्वं वदन्ति चेत्यतस् तदुपदेशशास्त्रेण ज्ञातुञ्च शक्यमित्यर्थः ॥ २१ ॥

प्रकाशिका

विन्दन्ति हि ब्रह्मगतिमित्यत्र कर्मसाध्यतयोक्तं स्वयोग्यं ज्ञानं परोक्षमपरोक्षं चाभिप्रेतम् । तत्र च कर्म न साक्षाज्जनकम् । कृतेऽपि कर्मणि तयोरदर्शनात् । अतोऽत्र यदवान्त-रकारणं तद्दर्शयन् पुनः प्रीतिं प्रार्थयते ॥ यदङ्घ्रीति ॥ यस्यांघ््रयोश्चरणयोरभिध्यानं प्रत्याहारादि-रूपप्रयत्नेन सन्ततचिन्तनं, समाधिरप्रयत्नेन चिन्तनं ताभ्यां धौतया विशुद्धया धियाऽन्तःकरण-विशेषेणात्मनःपरमात्मनस्तत्त्वं स्वयोग्यं पश्यन्ति । दृष्ट्वैतत्परमात्मतत्त्वं यथारुचि श्रोतॄणां रुच्यनुसारेण वदन्त्युपदिशन्ति च । स मुकुन्दो मोक्षप्रदः प्रसीदताम् । अनेनापरोक्षज्ञाने उक्तरूपा समाधिरवान्तर-कारणं स्वयोग्यगुणकस्य हरेः परोक्षज्ञाने च दृष्टपरमात्मस्वरूपाणामुपदेश एवेत्युक्तं भवति । ये परमात्मतत्त्वं पश्यन्ति तेषामपि पूर्वमन्येषां दृष्टतत्त्वानामुपदेशसम्भवात् । मुकुन्द इत्यनेन परम-साध्यप्रदर्शकेन ब्रह्मगतिमित्यत्र यद्ब्रह्मरूपां गतिमिति व्याख्यानं तदपि विवृतमिति ज्ञातव्यम् ॥ २१ ॥

प्रचोदिता येन पुरा सरस्वती

वितन्वताऽजस्य सतीं स्थितिं हृदि ।

स्वलक्षणा प्रादुरभूत्किलाऽस्यतः

स मे ऋषीणामृषभः प्रसीदताम् ॥ २२ ॥

पदरत्नावली

ग्रन्थारम्भे सरस्वतीचतुर्मुखादिप्रसादश्चाभीष्टसाधनं भवतीत्यभिप्रायेणाह- प्रचोदितेति ॥ पुरा सर्गादौ । अजस्य आत् परब्रह्मणो जातस्य चतुर्मुखस्य । हृदि सतीं सर्वचेतनेभ्य उत्तमां स्थितिं सन्निधानलक्षणां वितन्वता संस्कारोद्बोधद्वारेण विस्तारयता येन भगवता प्रचोदिता प्रेरिता स्वलक्षणा स्वरूपभूतनित्यत्वाख्यलक्षणा स्वरूपनिर्णायकषडङ्गाख्यलक्षणा वा सरस्वती वाक् ऋगादि-वेदरूपा तस्यास्यत आस्यचतुष्टयात् प्रादुरभूद् अभिव्यक्ताऽभूत् । ‘चत्वारो निर्गता वेदास्तव वक्त्त्रचतुष्टयात्’ इत्यादेः । स ऋषीणां ब्रह्मादिज्ञानिनाम् ऋषभः ज्ञानप्रदः परमवागीश्वरीपतिर् नारायणः मे प्रसीदतां प्रसन्नो भवत्वित्यन्वयः । किलेत्यनेन सर्वश्रुत्यादिसंवादं दर्शयति । ‘वार्तासंवादयोः किल’ इति यादवः । यद्वा पुरा शास्त्रप्रबन्धे अधिकृतेन अजस्य मम पितामहस्य पराशरस्य हृदि सतीं ज्ञानोपदेशलक्षणां स्थितिं वितन्वता येन व्यासेन प्रचोदिता संक्लृप्ता स्वलक्षणा स्वयोग्यसर्गादिलक्षणा सरस्वती भागवतसंहितारूपा यस्याऽस्यतः प्रादुरभूत् स ऋषीणाम् ऋषभो व्यासः मे प्रसीदतामित्यन्वय इति । ‘अजः पितामहेऽनादौ’ इति । ‘प्रबन्धे निकटेऽतीते पुराणेऽनागते पुरा’ इति च । ‘छागे विष्णौ हरे ह्यज’ इत्यतोऽजस्य विष्णोः सतीं स्थितिं वितन्वता हृदि लोकस्येति शेष इति वा ॥ २२ ॥

प्रकाशिका

इदानीं स्वगुरुभूतस्य व्यासरूपस्य भगवतः प्रीतिं प्रार्थयते ॥ प्रचोदितेति ॥ पुराऽऽदिसृष्टावजस्योत्पत्तिशून्यस्य सृष्टिकर्तुर्नारायणस्य हृद्यन्तःकरणे सतीं विद्यमानां वेदवाचां स्थितिं शिक्षाद्युक्तस्वरवर्णक्रमादिरूपाम् । कालादिबलेनोत्सन्नामिति शेषः । वितन्वता विस्तारं कुर्वता । यत्स्वरवर्णाद्युपेतो वेद आदिसृष्टौ नारायणान्तःकरणे स्थितस् तत्स्वरवर्णक्रमाद्युपेततयैव वेदमुद्धर्तुकामेनेति यावत् । येन व्यासेन प्रचोदिता प्रेरिता सरस्वती वेदवाणी स्वलक्षणा स्वानि लक्षणानि यस्याः सा । आस्यतो यस्य मुखात् । प्रादुरभूद्व्यक्ताऽभूत् । किलेति श्रुत्यादिसंवादमत्र दर्शयति, स ऋषीणां ज्ञानिनाम् ऋषभः श्रेष्ठो व्यासो मे प्रसीदतामित्यर्थः । प्रचोदितेत्यनेनास्य वेदोद्धरणमितरेषामिव न प्रणिधानादि-रूपप्रयत्नसाध्यमिति सूचयति ॥ २२ ॥

भूतैर्महद्भिर्य इमाः पुरो विभुर्निर्माय शेते यदमूषु पूरुषः ।

भुङ्क्ते गुणान्षोडशषोडशात्मकः सोऽलङ्कृषीष्ट भगवान्वचांसि मे ॥ २३ ॥

पदरत्नावली

इदानीं देहेन्द्रियादिप्रवर्तकं हरिं प्रसादयति- भूतैरिति ॥ यो विष्णुर् महद्भिर् व्याप्तैर् भूतैः पृथिव्यादिभिः । पुरः शरीराणि निर्माय अमूषु पूर्षु आत्मादिरूपैः शेते इति यद् यस्मात् तत एव यः पुरुषः पुरिशयनयोगेन पुरुषनामा । ‘तस्येदमेव शिर’ इति श्रुतेः । गोलकात्मक-देहव्याप्तत्वाद्वा । षोडशात्मक एकादशेन्द्रियपञ्चभूतव्यापी । षोडशगुणान् शब्दादिविषयसारान् भुङ्क्ते । न दुःखानि । भगवान् स्वविषयपुराणं व्याकर्तुकामस्य मे वचांसि अलङ्कृषीष्ट स्वप्रीतिजनकानि कुर्यादित्यन्वयः ॥ २३ ॥

प्रकाशिका

इदानीं स्ववचसां साहित्यशास्त्रप्रसिद्धालङ्कारप्रदत्वेन देहान्तर्गतं सर्वेन्द्रियप्रेरकं हरिं प्रार्थयते ॥ भूतैरिति ॥ यो विभुर्विष्णुर्महद्भिर्भूतैः पृथिव्यादिभिः पुरः शरीराणि निर्मायामूषु पूर्षु शेत इति यद् अत एव पुरुषः पुरुषनामा सन् षोडशात्मकः पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, मनो बुद्धिरहङ्कारश्चित्तं चेतनञ्चेति पञ्च मनांस्येकः साक्षीत्येवं षोडशेन्द्रियव्यापी च सन् षोडशगुणान् षोडशसंख्याकान् तत्तदिन्द्रियविषयान् भुङ्क्ते शब्दादीन् भुङ्क्ते चेतरान्प्रेरयतीत्यर्थः । स विष्णुर्मे वचांस्यलङ्कृषीष्ट साहित्यशास्त्रप्रसिद्धालंकारयुक्तानि करोतु । तादृशान्येव हि वचांसि श्रोतॄणा-माह्लादजनकानीत्यत इदं प्रार्थितमिति ज्ञातव्यम् ॥ २३ ॥

नमस्तस्मै भगवते वासुदेवाय वेधसे ।

पपुर्ज्ञानमयं सौ(सो)म्या यन्मुखाम्बुरुहासवम् ॥ २४ ॥

पदरत्नावली

इदानीं भक्त्यतिशयेन देवकीनन्दनं कटाक्षीकृत्य नमति- नमस्तस्मै इति ॥ सौम्या ज्ञानसोमार्हा ब्रह्मादयो ज्ञानमयं ज्ञानात्मकं, यस्य हरेर् मुखाम्बुरुहादुत्पन्नम् आसवं मधु पपुः । तस्मै वेधसे कर्त्रे वासुदेवाय भगवते नमः । सौम्या उद्धवादयः ज्ञानमयं यन्मुखाम्बुरुहासवं पपुस् तस्मै वेधसे कंसाद्यसुरहन्त्रे वासुदेवाय शौरये नम इति वा । सौम्या नारदादयः ज्ञानमयं ज्ञानप्रतिपादकं भागवतं नाम पुराणं यन्मुखाम्बुरुहासवं पपुस् तस्मै वेधसे चतुर्मुखाय नमः । कीदृशाय वासुदेवाय नारायणपुत्राय । शौरेः पुत्रोऽपि शौरिरितिवत् । सौम्या व्यासादयस् तस्मै वेधसे विधिपुत्राय नारदाय । वासुदेवाय वासुदेवभक्ताय । सौम्या वैशम्पायनादयस् तस्मै वासुदेवाय वासुदेवावताराय व्यासाय नमः । वेधसे भारतादिशास्त्रकर्ते ॥ २४ ॥

प्रकाशिका

इदानीं भक्त्यतिशयेन श्रीकृष्णं नमति ॥ नम इति ॥ सोम्या ज्ञानरूपसोमार्हा उद्धवादयो ज्ञानमयं ज्ञानरूपं, यस्य कृष्णस्य मुखाम्बुरुहे वक्त्रकमले विद्यमानमासवं मकरन्दम् । वासुदेवाय वसुदेवकुमाराय । वेधसे भक्ताभीष्टकर्त्रे ॥ २४ ॥

एतदेवात्मभू राजन्नारदायेति पृच्छते ।

वेदगर्भोऽभ्यधात्साक्षाद् यदाह हरिरात्मनः ॥ २५ ॥

॥ इति श्रीमद्भागवते द्वितीयस्कन्धे चतुर्थोऽध्यायः ॥

पदरत्नावली

स्वाभीष्टदेवताप्रसादं प्रार्थयित्वा साम्प्रतं परीक्षित्प्रश्नं प्रतिवक्तुमुपक्रमते- एतदेवेति ॥ हरिर् आत्मनः स्वस्य पुरा यत् पुराणम् आह आत्मभूः परमात्मपुत्रः वेदगर्भः ब्रह्मा तदेतत्सर्वम् इति त्वत्प्रश्नप्रकारेण पृच्छते नारदाय अभ्यधादित्यन्वयः । अर्थव्यत्यासो नास्तीत्येवशब्दः । एतदुक्तं भवति । आदौ नारायणेन ब्रह्मणे प्रोक्तम् । ब्रह्मणा नारदाय । नारदेन व्यासाय । व्यासेन मह्यम् । तदहं त्वत्प्रश्नपरिहारत्वेन वक्ष्यामीति ॥ २५ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

द्वितीयस्कन्धे चतुर्थोऽध्यायः ॥

प्रकाशिका

इदानीं राज्ञा कृतस्य प्रश्नस्योत्तरतया ब्रह्मनारदसंवादं प्रस्तौति ॥ एतदेवेति ॥ आत्मनः परमात्मनो भवतीत्यात्मभूः परमात्मपुत्रः । अनादित एव वेदा गर्भे उदरे यस्य स वेदगर्भो ब्रह्मा हरिरात्मनः स्वस्य साक्षात् स्वयमेव न परंपरयेत्यर्थः । यत्पुराणमाह तदेतदेव भागवतमेव इति त्वत्प्रश्नप्रकारेण पृच्छते नारदायाभ्यधात् । तथा च तत्त्वत्प्रश्नस्याप्युत्तरं भविष्यतीति भावः । अर्थव्यत्यासो नास्तीति सूचयितुमेवशब्दः ॥ २५ ॥

॥ इति श्रीभागवततात्पर्यटिप्पण्यां चतुर्थोऽध्यायः ॥ २-४ ॥