एवमेतन्निगदितं पृष्टवान्यद्भवान्मम
अथ तृतीयोऽध्यायः
श्रीशुक उवाच—
एवमेतन्निगदितं पृष्टवान्यद्भवान्मम ।
नृणां यन्म्रियमाणानां मनुष्येषु मनीषिणाम् ॥ १ ॥
पदरत्नावली
हरेः श्रवणादिजनितभगवद्भक्तिरेवापेक्षिताशेषपुरुषार्थसाधनं, नान्यत् । अन्यदेवतायागादिकं प्रातिस्विकफलदम् । तदपि हर्येकायत्तमित्येतदस्मिन्नध्याये निरूप्यते । तत्र प्रथमतो वृत्तमनुवदति- एवमिति ॥ भवान् मनुष्येषु मध्ये म्रियमाणानां मनीषिणां नृणां यत् कर्तव्यत्वेन मम सकाशे पृष्टवान् तदेतदेव निगदितम् । यद्वा मनुष्येषु म्रियमाणानां नृणां यत्कर्तव्यत्वेन मनीषिणां मतं पृष्टवानेतद् इति ॥ १ ॥
प्रकाशिका
श्रीशुको ‘ब्रूहि यद्वा विपर्ययमि’ ति प्रश्नोत्तरं वक्तुं यच्छ्रोतव्यमिति प्रश्नोत्तरकथनं तावदुपसंहरति ॥ एवमेतदिति ॥ भवान्मम मां यत्पृष्टवानिति सामान्यत उक्तमेव विशदयति ॥ नृणामिति ॥ मनुष्येषु मध्ये ये मनीषिणस्तेषामपि मध्ये ये म्रियमाणास्तेषां नृणां यत्कर्तव्यं भवान्पृष्टवान् एतदेतस्योत्तरमेव पूर्वोक्तप्रकारेण निगदितं मया कथितमित्यर्थः ॥ १ ॥
ब्रह्मवर्चसकामस्तु यजेत ब्रह्मणस्पतिम् ।
इन्द्रमिन्द्रियकामस्तु प्रजाकामः प्रजापतीन् ॥ २ ॥
पदरत्नावली
इदानीं प्रातिस्विकफलप्रदयागप्रकारमाह- ब्रह्मेति ॥ ब्रह्मवर्चसकामः वृत्ताध्ययनसम्पत्कामः । शिष्यप्रशिष्यादिषु वेदप्रणेतृत्वेन ब्रह्मणस्पतिं वेदस्य पतिं बृहस्पतिम् । बृहजातिजीवकमलासनशब्दराशिष्वित्यभिधानात् । यजेत तत्तत्तन्त्रोक्ततत्तद्द्रव्यैरिति शेषः । तुना ब्रह्मार्पणबुद्धिं सूचयति । इन्द्रियकामश् चक्षुरादीन्द्रियपाटवकामः शुक्रस्तम्भनकामो वा । प्रजाकामः पुत्रकामः । ‘प्रजा तु जनपुत्रयोः’ इति यादवः । प्रजापतीन् कश्यपादीन् ॥ २ ॥
प्रकाशिका
इदानीं ‘ब्रूहि यद्वा विपर्ययमि’ ति यन्मुमुक्षुणा मोक्षविरोधि, त्याज्यं तुच्छफलकं श्रोतव्यादिकं राज्ञा पृष्टं तद्दर्शयति ॥ ब्रह्मवर्चसकामस्त्वित्यादिना ॥ ब्रह्मवर्चसकामो वेदाध्य-यनादिजनितवर्चोविशेषकामः । ब्रह्मणस्पतिं वेदपतिं वायुं यजेत । तत्तन्त्रोक्तद्रव्यैरिति शेषः । इदं च वक्ष्यमाणं सर्वत्र सम्बध्यते । इन्द्रियकामश्चक्षुरादीन्द्रियपाटवकामः । प्रजाकामः पुत्रकामः । प्रजा-पतीन्दक्षादीन् ॥ २ ॥
देवीं मायान्तु श्रीकामस्तेजस्कामो विभावसुम् ।
वसुकामो वसून्रुद्रान्वीर्यकामस्तु वीर्यदान् ॥ ३ ॥
पदरत्नावली
मायां देवीं लक्ष्मीम् । विभावसुम् अग्निम् । ‘तेजो बले प्रभावेऽन्ने ज्योतिष्यर्चिषि रेतसीति च’ । वसुकामः हिरण्यकामः । वीर्यकामः ‘वीर्यं पराक्रमे तेजस्यन्नमाहात्म्ययोरपि’ इति च
॥ ३ ॥
प्रकाशिका
देवीं मायां लक्ष्मीम् । तेजस्कामः शरीरकान्तिकामः । विभावसुमग्निम् । वसु-कामो धनकामः । वीर्यकामः पराक्रमकामः वीर्यदान् रुद्रान् । यजेतेत्यन्वयः ॥ ३ ॥
अन्नाद्यकामस्त्वदितिं स्वर्गकामोऽदितेः सुतान् ।
विश्वान्देवान्राष्ट्रकामः साध्यान्संसाधको विशाम् ॥ ४ ॥
पदरत्नावली
विशां वैश्यानाम् ॥ ४ ॥
प्रकाशिका
अन्नाद्यं भोज्यं भक्ष्यं च । अदितेः सुतान् आदित्यान् । विशां देशस्थप्रजानां संसाधकः स्वाधीनतामिच्छन् ॥ ४ ॥
आयुष्कामोऽश्विनौ देवौ पुष्टिकाम इलां यजेत् ।
प्रतिष्ठाकामः पुरुषो रोदसी लोकमातरौ ॥ ५ ॥
पदरत्नावली
इलां भूमिम् । प्रतिष्ठाकामः स्वस्थानादभ्रंशेच्छुः । लोकमातरौ लोकस्य मातापितरौ । माता पृथिवी । पिता द्यौः । ‘मधु द्यौरस्तु नः पिता’ इति श्रुतिः ॥ ५ ॥
प्रकाशिका
इलां भूमिम् । प्रतिष्ठाकामः स्वस्थानादप्रच्युतिकामः । रोदसी द्यावापृथिव्यौ । लोकमातरौ लोकस्य मातापितरौ । पृथिवी माता द्यौः पिता ॥ ५ ॥
रूपाभिकामो गन्धर्वान् स्त्रीकामोऽप्सरउर्वशीम् ।
आधिपत्यकामः सर्वेषां यजेत परमेष्ठिनम् ॥ ६ ॥
पदरत्नावली
अप्सराश्चासावुर्वशी चेत्यप्सरउर्वशी ताम् । परमेष्ठिनं चतुर्मुखम् ॥ ६ ॥
प्रकाशिका
रूपाभिकामः सौन्दर्यकामः । अप्सरउर्वशी । अप्सराश्चासावुर्वशी चेत्यप्सरउर्वशी ताम् । परमेष्ठिनं चतुर्मुखम् ॥ ६ ॥
यज्ञं यजेद्यशस्कामः कोशकामः प्रचेतसम् ।
विद्याकामस्तु गिरिशं दाम्पत्यार्थ(र्थं) उमां सतीम् ॥ ७ ॥
पदरत्नावली
यज्ञम् इन्द्रम् । फलभेदान्न पुनरुक्तिः । कोशकामः निधिकामः । प्रचेतसं वरुणम् । गिरिशं दक्षिणामूर्तिधरम् । दाम्पत्यर्थे अखण्डितदाम्पत्याय ॥ ७ ॥
प्रकाशिका
यज्ञं यज्ञाभिमानिनमिन्द्रसूनुम् । कोशकामः कोशो वसुसञ्चयो निधिर्वा तत्कामः । प्रचेतसं वरुणम् । गिरिशं दक्षिणामूर्तिधरम् । दाम्पत्यार्थमखण्डितदाम्पत्याय ॥ ७ ॥
धर्मार्थमुत्तमश्लोकं तन्तुं तन्वन्पितॄन्यजेत् ।
रक्षाकामः पुण्यजनानोजस्कामो मरुद्गणान् ॥ ८ ॥
पदरत्नावली
धर्मार्थमक्षय्यपुण्यफलार्थम् उत्तमश्लोकं विष्णुम् । ‘अकामो धर्मकामो वा मोक्षकामोऽपि यो भवेत् । अथवा सर्वकामो यः स विष्णुं पुरुषं यजेत्’ इत्यनेन विष्णुरेवोत्तमश्लोक इति निश्चीयते । ‘अकामः पुरुषं पुमान्’ इत्यत्रापि पुरुषो विष्णुरेव । अस्मादुक्तप्रमाणात् । तन्तुं सन्तत्य-विच्छेदम् । तन्वन् विततं कुर्वन् । पुण्यजनान् यक्षान् मणिभद्रादीन् ॥ ८ ॥
प्रकाशिका
धर्मार्थम् इष्टापूर्तादिप्रवृत्तधर्मलब्ध्यर्थम् । उत्तमश्लोकं धर्मविषये य उत्तमैः श्लोक्यते तं यमधर्मम् । तन्तुं सन्तानाभिवृद्धिं तन्वन् कुर्वन्निति यावत् । पुण्यजनान् यक्षान् मणिभद्रादीन् । ओजो बलं तत्कामः ॥ ८ ॥
राज्यकामो मनून्देवान्निर्ऋतिन्त्वभिचरन्यजेत् ।
ग्रामकामः यजेत्सोममकामः पुरुषं पुमान् ॥ ९ ॥
पदरत्नावली
अभिचरन् परोपद्रवकर्म कुर्वन् । निर्ऋतिं कोणदिक्पतिम् । सोमं चन्द्रम् । अकामः निषिद्धकामरहितः । पुरुषं पूर्णषड्गुणम् ॥ ९ ॥
प्रकाशिका
अभिचरन् शत्रुमरणमिच्छन् । निर्ऋतिं कोणदिक्पतिम् । सोमं चन्द्रम् ॥ अकाम इत्यत्र नञोऽन्यार्थत्वं विरुद्धार्थत्वं च विवक्षितम् । तथा चोक्तान्यमोक्षविरोधिसर्वजयादिकाम इत्यर्थः । पुरुषं ब्रह्माणं रुद्रं वा । न च प्रागुक्तोत्तमश्लोकशब्दोऽयं पुरुषशब्दश्चाकामो धर्मकामो वेति प्रमाणानु-सारेण विष्णुपरावेव किं न स्यातामिति वाच्यम् । काम्यान्यदेवतायजनप्रकरणविरोधात् । प्रमाणेऽकाम-धर्मशब्दयोरन्यार्थत्वस्य वक्ष्यमाणत्वेन तस्यैतदुभयपरत्वाभावात् ॥ ९ ॥
अकामः सर्वकामो वा मोक्षकाम उदारधीः ।
तीव्रेण भक्तियोगेन यजेत पुरुषं परम् ॥ १० ॥
तात्पर्यम्
अकामो धर्मकामो वा मोक्षकामोऽपि यो भवेत् । अथवा सर्वकामो यः स विष्णुं पुरुषं यजेदि’ति स्कान्दे ॥ १० ॥
पदरत्नावली
अकामः भगवत्प्रसादमन्तरेणान्यत्राकामः । सर्वकाम उक्तसर्वकामो ऽन्यदेवता-यजनमनिच्छन् परं पुरुषं यजेत । विष्णुयजने साधनमाह- तीव्रेणेति ॥ १० ॥
प्रकाशिका
एवं ‘ब्रूहि यद्वा विपर्ययमि’ति प्रश्नोत्तरतया तुच्छप्रातिस्विकफलप्रदान्ययजनं हेयताप्रदर्शनायोक्त्वेदानीमुक्तानुक्तसर्वपुरुषार्थप्रदत्वाद्धरिरेव सर्वैः प्रेक्षावद्भिर्यष्टव्य इत्याह ॥ अकामः सर्वकामो वेति ॥ अत्र परं पुरुषमित्युक्तः पुरुषः क इति न ज्ञायतेऽतः समाख्यास्मृत्यैव व्याख्याति ॥ अकाम इति ॥ अकामो ऽः परमात्मा तन्मात्रकाम एकान्तभक्तो धर्मकामो निवृत्तधर्मानुष्ठानकामः सर्वकाम उक्तानुक्तसर्वकामः । पुरुषमित्यनूद्य विष्णुमिति व्याख्यातम् । अत एव मूले परमित्युक्तम् । एवं च मूले धर्मकामोऽप्युपलक्ष्यः । अकामादिपदान्यपि स्मृतिव्याख्यानरीत्यैव व्याख्येयानि । तीव्रेणानन्यसाधारणेन भक्तियोगेन भक्तिलक्षणज्ञानोपायेन ॥ १० ॥
एतावानेव यजतामिह निःश्रेयसोदयः ।
भगवत्यचलो भावो यद्भागवतसङ्गतः ॥ ११ ॥
पदरत्नावली
काम्यानुष्ठानस्य यथा मुक्तिसाधनता स्यात् तं प्रकारमाह- एतावानिति ॥ इह कर्मभूमौ यजतां काम्यानुष्ठानं कुर्वतां निःश्रेयसोदय एतावान् भागवतानां सङ्गतः सेवालक्षणाद् भगवति हरौ अचलो भावो भक्तिलक्षण इति यत् स इति ॥ ११ ॥
प्रकाशिका
अन्यदेवतायाजिनामपि त्रैविद्यानां मोक्षयोग्यत्वे भागवतसङ्गत्या तत्त्यागेन परमपुरुषं यजतां मोक्षो भवतीत्याशयेनाह ॥ एतावानेवेति ॥ इह कर्मभूमौ यजतां त्रैविद्यानां भागवतसङ्गतो भगवद्भक्तोदितहरिकथारूपात्सङ्गाद्भगवत्यचलो भावो भक्तिर्भवतीति यदेतावानेव निःश्रेयसस्य परमपुरुषार्थस्योदयो लाभोऽन्यत्तु सर्वं तुच्छमित्यर्थः ॥ ११ ॥
ज्ञानं यदा प्रतिनिवृत्तगुणोर्मिचक्र-
मात्मप्रसाद उभयत्र गुणेष्वसङ्गः ।
कैवल्यसम्भृतपथस्त्वथ भक्तियोगः
को निर्वृतो हरिकथासु रतिं न कुर्यात् ॥ १२ ॥
पदरत्नावली
भागवतसङ्गादचलो भावः कथं स्यादित्याशङ्क्य तेषां सदसि प्रसक्तानां हरिकथामृतानां श्रवणलक्षणपानादिना प्रसन्नान्तःकरणस्य पुंसः हरेरितरत्र विरक्तस्य ज्ञानसाधनं भगवत्यचला भक्तिः, तया ज्ञानं भविष्यतीत्याह- ज्ञानमिति ॥ यदा सत्सभासु प्रसक्ताभिः श्रुताभिर् याभिर् हरिकथाभिः पुंस आत्मप्रसादः मनसः प्रसन्नता नैर्मल्यलक्षणा तदा उभयत्र इह परत्र च स्वर्गादौ गुणेषु विषयेषु असङ्गः फलस्नेहराहित्यलक्षणवैराग्यं भवति । अथ भक्तिसाधनवैराग्यजन्मानन्तरं कैवल्यसम्भृतपथः सम्यक् सम्पादितमोक्षमार्गः भक्तियोगो जायते । तुशब्दात्तद्भक्तेष्वपि । अथात्मनो हरेः प्रसादः स्यात् । अनन्तरं हरेर् अपरोक्षज्ञानं भवति । कीदृशं ? प्रतिनिवृत्तम् अपक्रान्तं सत्वादि-गुणनिमित्तानाम् अस्ति जायत इत्यादि षडूर्मीणां चक्रं पुनः पुनरावर्तनं येन तत्तथोक्तम् । यद्वाऽपसारितं सत्वादिगुणा एव ऊर्मयस् तरङ्गास् तेषां चक्रं येन तत्तथेति । यद्वा यदा यासां हरिकथानां श्रवणाद् भगवदपरोक्षज्ञानं तदा प्रतिनिवृत्तगुणोर्मिचक्रं सत्वादिगुणनिमित्ता अशनायापिपासाशोकमोहरागद्वेष-लक्षणा ऊर्मयस् तेषां चक्रं निरस्तं भवति । तस्माद् आत्मप्रसादः । तस्माद् उभयत्र गुणेष्वसङ्गः । तस्माद्वैराग्यात्, कैवल्यं सम्भ्रियते अनेनेति कैवल्यसम्भृतम् अपरोक्षज्ञानं तदेव पन्था मार्गो यस्य सस् तथोक्तः । एवंविधो भक्तियोगो जायते । अथ तस्मात् को निर्वृतो रसज्ञः पुरुषस् तासु हरिकथासु रतिं न कुर्यादित्यर्थः ॥ १२ ॥
प्रकाशिका
उक्तरूपभागवतसङ्गस्याचलभावजनकत्वं परम्परयेति दर्शयन् भागवतसङ्गपद-सूचितां हरिकथारतिं स्तौति ॥ ज्ञानमिति ॥ यद्यासु कथासु श्रुतासु सतीषु ज्ञानं भवति । कथंभूतम् । आ सर्वतः प्रतिनिवृत्तमुपरतं गुणोर्मिणां सत्त्वादिगुणा एवोर्मयस्तरङ्गास्तेषां च चक्रं समूहो यस्मात्तत् । अनन्तरमात्मप्रसादो मनसो नैर्मल्यं भवति । अनन्तरमुभयत्रेह परत्र स्वर्गादौ विद्यमानेषु गुणेषु विषयेष्वसङ्गः स्नेहराहित्यलक्षणवैराग्यं भवति । अथानन्तरं भक्तिलक्षणो योगो जायते । कथंभूतः । कैवल्याय मोक्षाय सम्भृतः सम्पादितः पन्था अपरोक्षज्ञानलक्षणो मार्गो येन स तथोक्तः । निर्वृतो हरिकथाश्रवणसुखज्ञः । विषयेष्वनिर्वृत इति वा । तासु हरिकथासु ॥ १२ ॥
शौनक उवाच—
इत्यभिव्याहृतं राजा निशम्य भरतर्षभः ।
किमन्यत्पृष्टवान्भूयो वैयासकिमृषिं कविम् ॥ १३ ॥
पदरत्नावली
परीक्षित्पृष्टशुकोक्तभगवत्कथा तद्द्विगुणीभूतरसेव स्यादित्याशयवान् शौनकः सूतं पृच्छति- इतीति ॥ ऋषिमात्रस्य त्रिकालदर्शित्वमस्तीत्यतः कविमिति । भगवन्तमपरोक्षतो जानातीति
॥ १३ ॥
प्रकाशिका
वैयासकिं व्यासपुत्रम् । ऋषिं ब्रह्मज्ञानिनम् । कविं शब्दब्रह्मज्ञम् ॥ १३ ॥
एतच्छुश्रूषतां विद्वन्सूत नोऽर्हसि भाषितुम् ।
कथा हरिगुणोदाराः सतां स्युः सदसि ध्रुवम् ॥ १४ ॥
पदरत्नावली
शुश्रूषतां श्रोतुकामानाम् । सत्सभायां कदाचित् प्रसङ्गादितरकथाऽपि सम्भाव्यत इति नेत्याह- कथा इति ॥ ध्रुवमित्यनेन नियमो दर्शितः ॥ १४ ॥
प्रकाशिका
शुश्रूषतां श्रोतुमिच्छतां, हरिगुणैरुदारा उत्कृष्टाः । सदसि सभायाम् । ध्रुवं नियमेन
॥ १४ ॥
स वै भागवतो राजा पाण्डवेयो महारथः ।
बालः क्रीडनकैः क्रीडन्कृष्णक्रीडां य आददे ॥ १५ ॥
पदरत्नावली
अनयोरेकस्याप्यसत्वे नियमभङ्गः स्यादिति नेत्याह- स वा इति ॥ तत्र हेतुमाह- बाल इति ॥ १५ ॥
प्रकाशिका
उभयोरेकस्यासत्वे नियमभङ्गः स्यादित्याशङ्कायां नेत्याह ॥ स वा इति ॥ अत्र हेतुमाह ॥ बाल इति ॥ क्रीडनकैः क्रीडासाधनैर्व्यापारैः । कृष्णक्रीडां कृष्णपूजादिरूपां क्रीडामाददे स्वीकृतवान् ॥ १५ ॥
वैयासकिश्च भगवान्वासुदेवपरायणः ।
उरुगायगुणोदाराः सतां स्युर्हि समागमे ॥ १६ ॥
पदरत्नावली
अस्तूभयोः सत्वम् । ततः किं तत्राह- उरुगायेति ॥ उरुगायेत्यनेन हरिकथाया अवश्यसद्भावं दर्शयति । उरुभिर् वेदविद्याविशारदैर् महात्मभिर् गीयत इति उरुगायः । सतां समितौ प्राचुर्येण हरिकथासत्वेऽपि प्रसङ्गाद् अन्यकथा स्यात् । न तथा श्रीशुकपरीक्षितोरित्यस्मिन्नर्थे हिशब्दः । कथा इति शेषः ॥ १६ ॥
प्रकाशिका
अस्तूभयोः सत्वं ततः किमित्यत आह ॥ उरुगायेति ॥ उरुभिर्ब्रह्मादिभिर्गीयत इत्युरुगायः । अनेन सत्सभायां हरिकथाया नियतत्वमुपपादितमिति ज्ञातव्यम् । कथमन्यथा तस्योरुगायेति नाम स्यादिति । कथा इत्यत्राप्यनुवर्तते ॥ १६ ॥
आयुर्हरति वै पुंसामुद्यन्नस्तञ्च यन्नसौ ।
तस्यर्ते यः क्षणो नीत उत्तमश्लोकवार्तया ॥ १७ ॥
तात्पर्यम्
**तस्यायुष उत्तमश्लोकवार्तया ऋते यः क्षणः स नीत एव वृथा ॥ १७ ॥ **
इति द्वितीयतात्पर्ये तृतीयोऽध्यायः ॥ ३ ॥
पदरत्नावली
वासुदेवकथामन्तरेण जीवनं व्यर्थमित्याह- आयुरिति ॥ उद्यन् अस्तञ्च यन् गच्छन् असौ आदित्यः पुंसां यदायुर्हरति वै । ‘आदित्यस्य गतागतैर् अहरहः सङ्क्षीयते जीवितम्’ इति वचनात् । तस्यायुषः य उत्तमश्लोकवार्तया ऋते विना क्षणः कालविशेषः स नीत एव वृथेत्यन्वयः ॥ १७ ॥
प्रकाशिका
वृथैव क्षीयमाणमायुर्हरिकथया सफलं कुर्वित्याशयेनाह ॥ आयुर्हरतीत्यादि श्लोकत्रयेण ॥ अत्र तस्येति तच्छब्देन सूर्यः प्रकृतः परामृश्यत इति प्रतीतिवारणाय व्याचष्टे ॥ तस्येति ॥ सूर्यस्य क्षणरूपैकदेशाभावेन ग्रहणासम्भवात् । आयुषोऽपि प्रकृतत्वादिति भावः । अपेक्षिता-ध्याहारेण मूलं योजयति ॥ उत्तमश्लोकेति ॥ ननूत्तमश्लोकवार्तयाऽपि यः क्षणो नीयते सोऽपि नीत एव भवति । नष्टस्यापुनरावृत्तेरित्यतस्तस्य तात्पर्यमाह ॥ वृथेति ॥ वृथात्वान्नीत एवेत्युक्तमिति भावः ॥ ततश्चायं श्लोकार्थः ॥ असौ सूर्य उद्यन् उद्गच्छन् अस्तमदर्शनं च यन् गच्छन् तस्यायुषो यः क्षणः कालविशेष उत्तमश्लोकवार्तया ऋते विना भवति स नीत एव वृथैव गत इत्यर्थः ॥ १७ ॥
तरवः किन्न जीवन्ति भस्राः किं न श्वसन्त्युत ।
न खादन्ति न मेहन्ति किं ग्राम्याः(ग्राम) पशवोऽपरे ॥ १८ ॥
पदरत्नावली
हन्त लोके दीर्घकालं जीवन् पुमान् स्तूयत इति तत्राह- तरव इति ॥ तरूणां श्वासाद्यभावादित्यत आह- भस्रा इति ॥ भस्राः कारुदृतयः । खर्वसन्तापनार्थाश्चर्मविशेषाः । भस्राणां निश्चैतन्यत्वान् न तत्साम्यम् अत्राह- नेति ॥ ग्रामपशवः सारमेयादयः मेहन्ति रेतोमूत्रादिकम् उत्सृजन्ति । अपरे तिर्यग्जातिव्यतिरिक्ताः स्त्रीपुरुषाः । अनेन हरिचरितश्रवणाभावे चेतनत्वमप्रयोजकमित्युक्तं भवति
॥ १८ ॥
प्रकाशिका
ननु जीवनमेव तेषामायुषः फलं भविष्यतीत्यत आह ॥ तरव इति ॥ ननु तेषां श्वासो नास्तीत्यत उक्तम् ॥ भस्रा इति ॥ अयःसन्तापनार्थाश्चर्मकोशा इत्यर्थः । ननु तासामाहारादिकं नास्तीत्यत आह ॥ न खादन्तीति ॥ नाश्नन्तीत्यर्थः । मेहनं रेतोमूत्राद्युत्सर्जनम् । ग्राम्या ग्रामे भवाः । अपर इत्युक्त्या एतेऽपि नराकाराः पशव इति सूचितम् ॥ १८ ॥
श्वविड्वराहोष्ट्रखरैः स तुल्यः पुरुषः पशुः ।
न यत्कर्णपथोपेतो जातु नाम गदाग्रजः ॥ १९ ॥
पदरत्नावली
एतदेव विशिनष्टि- श्वविडिति ॥ विड्वराहो ऽमेध्यसूकरः । पशुर् विवेकशून्यः। गदाभृत इति पाठे गदां भृत इति पदार्थः । ग्रामं श्रित इतिवत् ॥ १९ ॥
प्रकाशिका
तदेव स्पष्टमाह ॥ श्वविड्वराहेति ॥ श्वा सारमेयो विड्वराहोऽमेध्यसूकरः । पुरुषः पशुः पुरुषाकारः पशुः । कश्मलविषयासक्तत्वाछ्वाविड्वराहसाम्यम् । कण्टकवद्दुःखप्रदविषया-सक्तत्वादुष्ट्रसाम्यम् । कुटुम्बभारवाहित्वात्खरेण साम्यमिति द्रष्टव्यम् ॥ १९ ॥
बिले बतोरुक्रमविक्रमान्ये
न शृण्वतः कर्णपुटे नरस्य ।
जिह्वाऽसती दार्दुरिकेव सूत (याऽसौ)
न चेत्प्र(चोप)गायत्युरुगायगाथाम् ॥ २० ॥
पदरत्नावली
इतोऽपि हरिकथां श्रावं श्रावं वर्तमानस्य पुंसः श्रोत्रादीन्द्रियसाफल्येनायुषः साफल्यम् । अन्यथा व्यर्थमित्याशयेनाह- बिलेति ॥ शृण्वतः शृणुतः । बिले । पर्वतस्येति शेषः । उरुगायगाथां न प्रगायति चेत् तर्हि दार्दुरिका दर्दुरस्य मण्डूकस्य विद्यमाना जिह्वेव असती अविद्यमानेव
॥ २० ॥
प्रकाशिका
तस्याङ्गानि च व्यर्थानीत्याह ॥ बिल इति पञ्चभिः ॥ बतेति खेदे । शृृण्वतः शृृणुतः । बिले । पर्वतस्येति शेषः । उरुगायगाथां न चोपगायति नैवोपगायति याऽसौ जिह्वाऽसती दुष्टा । केव । दार्दुरिकेव दर्दुरो भेकस्तदीयजिह्वेव ॥ २० ॥
भारः परं पट्टकिरीटजुष्टमप्युत्तमाङ्गं न नमेन्मुकुन्दम् ।
शावौ करौ नो कुरुतः सपर्यां हरेर्लसत्काञ्चनकङ्कणौ वा ॥ २१ ॥
पदरत्नावली
वा यदि । शावौ शवस्य विद्यमानौ ॥ २१ ॥
प्रकाशिका
पट्टेन वस्त्रोष्णीषेण किरीटेन वा जुष्टं युक्तमप्युत्तमाङ्गं शिरो यदि न नमेत्तर्हि परं केवलं भार एव । शावौ मृतकस्तत्करतुल्यौ । लसती काञ्चनकङ्कणे ययोस्तौ । अप्यर्थे वाशब्दः ॥२१॥
बर्हायिते ते नयने नराणां लिङ्गानि विष्णोर्न निरीक्षतो ये ।
पादौ नृणां तौ द्रुमजन्मभाजौ क्षेत्राणि नानुव्रजतो हरेर्यौ ॥ २२ ॥
पदरत्नावली
बर्हायिते पिच्छनेत्रवदाचरिते । निष्फले इत्यर्थः । लिङ्गानि प्रतिमाः । द्रुमवज् जन्म भजत इति । क्षेत्राणि पुण्यस्थलानि । ‘क्षेत्रं पुरे गृहे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतमाज्येऽम्बुसर्पिषोरि’ ति यादवः ॥ २२ ॥
प्रकाशिका
बर्हायिते मयूरपिच्छनेत्रतुल्ये निष्फल इत्यर्थः । लिङ्गानि प्रतिमा निरीक्षतः निरीक्षेते । द्रुमवद्वृक्षवज्जन्म भजत इति तथा । क्षेत्राणि पुण्यस्थानानि । क्षेत्रं पुरे गृहे देहे केदारे योनिभार्ययोः । पुण्यस्थाने समूहे च घृतमाज्येऽम्बुसर्पिषोरिति ॥ २२ ॥
जीवच्छवो भागवताङ्घ्रिरेणुं न जातु मर्त्योऽभिलषेत यस्तु ।
श्रीविष्णुपद्या मनुजस्तुलस्याः श्वसञ्छवो यस्तु न वेद गन्धम् ॥२३॥
पदरत्नावली
भागवतस्य भगवद्भक्तजनस्य अङ्घ्र्योः रेणुम् । यद्वा भागवतयोर् भगवतो विद्यमानयोर् अङ्घ्र्योः रेणुं नाभिलषेत न काङ्क्षेत । जीवच्छवः जीवन्मृतः । श्रीविष्णुपद्याः श्रीविष्णु-पदप्रियायाः । श्वसच्छवः श्वासकृत्कुणपतुल्यः ॥ २३ ॥
प्रकाशिका
भागवतस्य भगवद्भक्तजनस्याङ्घ्रिरेणुं नाभिलषेत न कांक्षेत जीवच्छवो जीवन्मृतः। श्रीविष्णुपद्याः श्रीविष्णुपादलग्नायाः । गन्धं न वेद अवघ्राय नाभिनन्देदित्यर्थः । श्वसन् शवः श्वासकृत्कुणपतुल्यः ॥ २३ ॥
तदश्मसारं हृदयं बतेदं यद्गृह्यमाणैर्हरिनामधेयैः ।
न विक्रियेताथ मुखे विकारो नेत्रे जलं गात्ररुहेषु हर्षः ॥ २४ ॥
पदरत्नावली
पुरुषस्य यद्हृदयं कथारूपेण गृह्यमाणैर् हरिनामधेयैर् न विक्रियेत द्रवीभावात्मकं विकारं नाप्नोति तदिदम् अश्मसारवदतिकठिनम् । अयोघनं वा । अथ यदि दैवाद्विकारस् तदेदं लक्षणम् । मुखे विकासलक्षणो विकारः । नेत्रे जलं स्रवति । गात्ररुहेषु लोमसु हर्षः रोमाञ्चलक्षणः । स्यादिति शेषः ॥ २४ ॥
प्रकाशिका
अश्मसारम् अश्मवत्सारो बलं काठिण्यं यस्य तत् । अयोघनं वा । गृह्यमाणैः कथारूपेण श्रूयमाणैर्विक्रियेत द्रवीभावात्मकं विकारं प्राप्नोति । विकारसाध्यानाह ॥ अथेति ॥ अथ द्रवीभावरूपविकारानन्तरं गात्ररुहेषु रोमसु हर्ष उद्गमः । भक्तानां भवतीति शेषः । तथा च मुख-विकासादिरूपं साध्यं यथा स्यात्तथा न विक्रियेत चेदित्यर्थः ॥ २४ ॥
अथाभिधेह्यङ्ग मनोऽनुकूलं प्रभाषसे भागवतप्रधानः ।
यदाह वैयासकिरात्मविद्याविशारदो नृपतिं साधु पृष्टः ॥ २५ ॥
॥ इति श्रीमद्भागवते द्वितीयस्कन्धे तृतीयोऽध्यायः ॥
**पदरत्नावली **
यत एवं हरिकथाश्रवणाभावे जन्मादेर्नैष्फल्यम् अथ तस्मान् नृपतिना साधु पृष्ट आत्मविद्याविशारदः परमात्मविद्यायां पटुतरः वैयासकिर् नृपतिं यदाह तन्मामभिधेहि । हरिकथाभिधाने मदन्यः किं न स्यात् ? अत्राह- मन इति ॥ मनोऽनुकूलं यथा भवति तथा प्रभाषसे । हेत्वन्तरमाह- भागवतेति ॥ अतस् त्वत्त एव श्रोतुमिच्छा प्रवर्तत इति ॥ २५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायाम् ॥
द्वितीयस्कन्धे तृतीयोऽध्यायः ॥
प्रकाशिका
यस्मादेवं हरिकथाश्रवणाभावे आयुष्यादिकं व्यर्थमथ तस्माद्धरिकथाभिधाने मदन्यः किं न स्यादित्यत उक्तम् ॥ मन इति ॥ मनोनुकूलं मनसः प्रियं यथा भवति तथा प्रभाषसे । हेत्वन्तरमाह ॥ भागवतेति ॥ आत्मविद्यायां परमात्मविद्यायां विशारदः कुशलः । साधु पृष्टः सन्
॥ २५ ॥
॥ इति श्रीभागवतटिप्पण्यां तृतीयोऽध्यायः ॥ २-३ ॥