०२ द्वितीयोऽध्यायः

एवं पुरा धारणयाऽऽत्मयोनिर्नष्टां स्मृतिं प्रत्यवरुह्य तुष्यन्

अथ द्वितीयोऽध्यायः

शुक उवाच—

एवं पुरा धारणयाऽऽत्मयोनिर्नष्टां स्मृतिं प्रत्यवरुह्य तुष्यन् ।

तथा ससर्जेदममोघदृष्टिर्यथाऽप्ययात्प्राग्व्यवसायबुद्धिः ॥ १ ॥

पदरत्नावली

एवं वैराजाख्यस्थूलरूपस्य धारणाश्रयत्वमुक्त्वा अस्मिन्नध्याये तत्तद्धृदय-कमलकर्णिकान्तर्वर्तिनो हरेर् आत्माख्यरूपस्य धारणाविषयत्वं तदुपासकानां फलञ्च उपदिशति । तत्र प्रथमतः धारणायां क्षिप्रप्रवृत्तये कुत्र कस्य दृष्टफलेयं धारणेति शङ्काशङ्कुमुन्मूलयन् ‘ब्रूहि यद्वा विपर्ययं’ इति प्रश्नं परिहरति- एवमित्यादिना ॥ आत्मा परमात्मा योनिः कारणं यस्य स तथा स ब्रह्मा । पुरा आदिसृष्टौ । कालेन नष्टां तिरोहितां प्राक्कल्पविषयां स्मृतिम् एवम् उक्तधारणया प्रत्यवरुह्य अङ्कुरीकृत्य प्रतिलभ्य । तुष्यन् अलम्बुद्धिं गच्छन् । व्यवसाये जगत्सर्जनोद्योगे बुद्धिर् यस्य स तथा । तत एव धारणाया एव अमोघदृष्टिः । अप्ययात् प्राक् प्रलयात् पूर्वम् । यथास्थितं तथा इदं जगत्ससर्जेत्यन्वयः । ब्रह्मणा दृष्टफलत्वादियं विश्वसनीयेति विज्ञायते ॥ १ ॥

प्रकाशिका

एवं मनोजयसाधनीभूतां भगवतः स्थूलरूपधारणामुक्त्वा यत्पूर्वं स्वयोग्यध्यानं कर्तव्यतयोक्तं तत्प्रपञ्च्यतेऽस्मिन्नध्याये । तत्र तावदुक्तधारणायां विश्वासजननाय पूर्वं ब्रह्मणा तत्फलं लब्धमिति दर्शयति- मूले एवमिति ॥ आत्मा परमात्मा योनिः कारणं यस्य स ब्रह्मा । पुराऽऽदिकाले । नष्टां तिरोहितां प्राक्कल्पविषयां स्मृतिम् । एवम् उक्तरूपया धारणया प्रत्यवरुह्याङ्कुरीकृत्य । प्रतिलभ्येति यावत् । तुष्यन् धारणाविषये हरौ तोषं प्राप्नुवन् अत एवामोघदृष्टिः । व्यवसाये जगत्सर्जनोद्योगे बुद्धिर्यस्य स तथा । अप्ययात्प्रलयात्प्राक् पूर्वं यथेदं जगत्स्थितं तथा ससर्जेत्यन्वयः ॥ १ ॥

शब्दस्य हि ब्रह्मण एष पन्था यन्नामभिर्ध्यायति धीरपार्थैः ।

परिभ्रमंस्तत्र न विन्दतेऽर्थान्मायामये वासनया शयानः ॥ २ ॥

तात्पर्यम्

एष हरिः । यदपार्थैर्ध्यायति । तत्रार्थान्न विन्दते ॥ २ ॥

पदरत्नावली

वाङ्मनसागोचरस्य कथं धारणालम्बनत्वमत्राह- शब्दस्येति ॥ उक्तप्रकारेण श्रोतव्यादित्वेन विपश्चितां सम्मतत्वात्, स्वतन्त्रत्वात्, ब्रह्मादिसर्वजगत्स्त्रष्टृत्वात्, सर्वान्तःस्थितत्वात्, सर्वस्य तदधीनत्वात्, सर्वगुणपूर्णत्वाच्च शब्दस्य ब्रह्मणःवेदादिसर्वशब्दराशेर् एष हरिः पन्था विषयः मुख्यवाच्य इत्यन्वयः । इन्द्रादिनाम्नां पुरन्दरादिष्वेव रूढत्वात् हरेस् तन्नामवाच्यत्वे रूढेः क्वाप्य-प्रयोजकत्वमत्राह- यन्नामभिरिति ॥ मायामये ईश्वरेच्छानिर्मितत्वात् तदधीने संसारे शयानः किमप्यजानन् वर्तमानः । अत एव वासनया नानाकर्मवासनया । नानायोनिषु परिभ्रमन् यो जीवस् तस्य धीर् यत्पुरन्दरादिकम् इन्द्रादिनामभिर् ध्यायति तत्र पुरन्दरादौ अर्थान् इन्द्रादिनाम्नाम् अनुपहत-परमैश्वर्यादिलक्षणान् न विन्दते अलम्बुद्धिं न प्राप्नोति । किञ्च तदुपास्त्या तेभ्यः पुरुषार्थांश्च न लभते । कुत इत्यत उक्तम्- अपार्थैरिति ॥ तत्रैश्वर्याद्यर्थानामसम्भवात् । अतो हरिरेव परमैश्वर्यादिगुणाकरत्वेन मुख्याभिधेय इति स एव स्मर्तव्य इति अन्यत्सर्वम् अस्मर्तव्यं प्राधान्येनेति भावः । अनुपसर्गेऽपि क्विप्प्रत्ययविधानाद् ध्यायतीति धीर् ज्ञानाश्रयः पुरुषो वा । यदित्यस्याव्ययत्वेन अपार्थैरित्यनेन संयोज्य यदपार्थैर् यस्मिन् पुरन्दरादौ अपार्थैर् इन्द्रादिनामभिः पुरन्दरादिकं ध्यायति तत्र पुरन्दरादाविति वा । ‘सर्वनामा यतो विष्णुस्तदन्यार्थान्न तु स्मरेत्’ इति स्मृतिप्रसिद्धिं हिशब्देनाह ॥ २ ॥

प्रकाशिका

एवं मनोजये स्थूलरूपभगवद्धारणारूपमेकं साधनं संक्षेपविस्ताराभ्यामुक्त्वेदानीं मुख्यतो भगवद्वाचकैरिन्द्राग्न्यादिनामभिरितरार्थास्मरणरूपमन्यदपि तत्साधनं विधातुं तावत्सर्वनाम्नां भगवानेव मुख्यवाच्य इति सप्रमाणकमाह- शब्दस्य हीति ॥ अत्रैष इत्यनेन प्रकृतविरिञ्चपरामर्शे तस्य सर्वशब्दवाच्यत्वसमर्थनानुपपत्तेस्तदनूद्य तत्परामर्शविषयं दर्शयति- एष हरिरिति ॥ आत्मयोनि-रित्यात्मशब्देन तस्यापि प्रकृतत्वादिति भावः ॥ यन्नामभिरित्यत्रैकपदत्वे ध्यायतीत्यस्य कर्माभावः प्राप्नोति । अतो यदिति भिन्नमेव पदं कर्मवाचीति दर्शयंस्तस्यान्वयमाह- यदिति ॥ यत्पुरन्दरादिक-मिन्द्रादिनामभिर्ध्यायति निरन्तरं स्मरति तत्र तेभ्योऽर्थान् पुरुषार्थान्न विन्दते न प्राप्नोति । कुत इत्यतो यदित्यस्य हेत्वर्थमप्यभिप्रेत्यान्वयं दर्शयति- यदपार्थैरिति ॥ यद्यस्मादपगताः परमैश्वर्यादयोऽर्थाः प्रवृत्तिनिमित्तभूता येभ्यस्तैर्नामभिर्ध्यायति तस्मादित्यर्थः । तदवाचकैरेव तान् ध्यायतीति हेतोस्तेभ्यः पुरुषार्थान्न प्राप्नोतीति भावः ॥

ततश्चायं श्लोकार्थः ॥ ध्यायतीति धीर्जीवो यत्पुरन्दरादिकमिन्द्रादिनामभिर्ध्यायति तत्र तस्मा-त्पुरन्दरादेरर्थान् पुरुषार्थान्न विन्दते न प्राप्नोति । कुतः । यद्यस्मादपार्थैरपगतैश्वर्यादिप्रवृत्तिनिमित्तैः । तदवाचकैरिति यावत् । नामभिर्ध्यायति तस्मात् । ननु जीवः कुतस्तदवाचकैरेव नामभिस्तान् ध्यायतीत्यत उक्तम्- परिभ्रमन्निति ॥ पुरन्दरादिकमेवेन्द्रादिशब्दमुख्यवाच्यमिति भ्रान्तो यत इत्यर्थः। भ्रमेऽपि किं निमित्तमित्यत उक्तम्- मायेति ॥ मायामये भगवदिच्छाधीने प्रकृतिनिर्मिते वा संसारे वासनयाऽविद्ययाऽनादिसंस्कारेण वा शयानो बद्ध इति । ननु तर्हीन्द्रादिशब्दमुख्यार्थः क इत्यत उक्तम्- ब्रह्मण इति ॥ ब्रह्मणोऽपरिमितस्य शब्दस्य वेदादिरूपस्यैष हरिः पन्था मार्गो मुख्यवाच्य इति । हीति तत्रागमप्रसिद्धिं दर्शयति ॥ ननु कर्मविध्यादेरपि वेदेन प्रतिपादनात्कथमशेषवेदराशेर्हरिरेव मुख्यवाच्य इति शङ्कानिरासाय मुख्यवाच्य इति वक्तव्ये पन्था इत्युक्तम् । तेनान्यत्रापि शब्दप्रवृत्तौ हरिरेव मार्ग इति समन्वयप्रकारस्य सूचनान्नोक्तशङ्काऽवकाशः । यद्वक्ष्यति । ‘मां विधत्तेऽभिधत्ते माम्’ इत्यादीति । हरिरशेषेन्द्रादिशब्दमुख्यवाच्यस्तथा ध्यानेन पुरुषार्थप्रदत्वात् । व्यतिरेकेणेन्द्रादिवदित्यनुमानमप्यत्राभि-पे्रतम् । तत्र न विन्दतेऽर्थानित्यनेनोक्तहेतोः सूचनात् ॥ २ ॥

अतः कविर्नामसु यावदर्थः स्यादप्रमत्तो व्यवसायबुद्धिः ।

सिद्धेऽन्यथार्थे न यतेत तत्तत्परिश्रमं तत्र समीक्षमाणः ॥ ३ ॥

तात्पर्यम्

‘सर्वनामा यतो विष्णुस्तदन्यार्थान्न तु स्मरेत् । स्मरंस्तु यावदर्थः स्यादन्यथा स्वात्महा स्मृत’ इति ब्रह्माण्डे ॥ ३ ॥

पदरत्नावली

सर्वशब्दानां विष्ण्वेकविषयत्वे विदुषामभिवदनादिसर्वव्यवहारोच्छेदप्रसङ्ग इति तत्राह- अत इति ॥ एवं सर्वनामार्थतया हरिरेव ध्येयस् तद्व्यवहार्यश्च यतोऽतः कविः सर्वज्ञः, अप्रमत्तो जागरणशीलः । नाम्नां हरिविषयत्वमविस्मरन्नित्यर्थः । अत एव व्यवसायबुद्धिर् निश्चयबुद्धिर् नामसु हरीतरविषयेषु घटादिषु अभिवदनादिना यावदर्थः यावानर्थः स्वप्रयोजनं यस्य सस् तथा स्यात् । नातोऽधिकप्रयोजन इत्यर्थः । अन्यथा घटादिविषयलोकव्यवहारमन्तरेण अर्थे स्वप्रयोजने सिद्धे स्वयमेव सम्पन्ने न तत्र यतेतेत्यन्वयः । कुतः ? अत्राह- तत्तदिति ॥ तत्तत्पदार्थेषु तत्तत्परिश्रमम् अर्थपूर्त्यभावेन मनःक्लेशं समीक्षमाण इत्यन्वयः ॥ ३ ॥

प्रकाशिका

इदानीं मनोजये इतिकर्तव्यतारूपं नामभिरितरार्थास्मरणं विधत्ते- अत इति ॥ अतः सर्वनाम्नां मुख्यतो हरिवाचकत्वात् । कविर्ज्ञानी । नामस्विन्द्रादिनामसु । अप्रमत्तः स्यादितरार्थ-स्मरणशीलो न स्यात् । नन्वेवं चेद्देहयात्रा तस्य कथमित्यत उक्तम् ॥ व्यवसायबुद्धिर्यावदर्थ इति ॥ व्यवसाये शरीरयात्रारूपोद्योगे बुद्धिर्यस्य स तथा । यावदर्थः स्याद्यावतेतरपदार्थस्मरणेनार्थः प्रयोजनं यस्य स तथा । शरीरयात्रोपयुक्तमितरार्थस्मरणं न मनोजयप्रतिबन्धकमिति भावः । इतरार्थ-स्मरणकालेऽपि हरिविषयकत्वानुसन्धानमावश्यकमिति दर्शयितुमपि व्यवसायबुद्धिरित्युक्तम् । व्यवसायरूपा नाम्नां हरिविषयकत्वनिश्चयरूपा बुद्धिर्यस्येत्यर्थः । अन्यथेतरार्थस्मरणमन्तरेण तत्तस्मिन्नर्थे स्वत एव सिद्धे सति तत्तस्मिन्नर्थे न यतेत । कुत इत्यत उक्तम्- तत्रेति ॥ तत्र यत्ने परिश्रममिष्टस्य मनोजयस्य हानादनिष्टस्य नरकादेरादानादात्मनाशं समीक्षमाण इति । श्लोकद्वयार्थे प्रमाणमाह- सर्वनामेति ॥ स्मरंस्त्वित्यतः पूर्वं देहयात्रार्थमिति शेषः । अन्यथा प्रयोजनेऽन्यथासिद्धेऽप्यन्यार्थस्मरणे आत्महाऽऽत्मानं मनोजयालाभेनापुरुषार्थभागिनं नरकाद्यनर्थभागिनं च करोतीत्यर्थः ॥ ३ ॥

सत्यां क्षितौ किं कशिपोः प्रयासैर्बाहौ स्वसिद्धे ह्युपबर्हणैः किम् ।

सत्यञ्जलौ किं पुरुपर्णपात्रैर्दिग्वस्त्रलाभे सति किं दुकूलैः ॥ ४ ॥

पदरत्नावली

इदानीं स्वतः सिद्धिप्रकारं दर्शयति- सत्यामिति ॥ देवनिर्मितायां क्षितौ सत्यां कशिपोः शय्यायाः सम्पादनप्रयासैः किं ? न किमपि प्रयोजनम् । शरीरयात्रानिर्वाहस्य द्रव्यान्तरेण सिद्धत्वादिति भावः । बाहौ, स्वसिद्धे स्वतो ऽनायासेन संपन्ने सति उपबर्हणैः शिरःपीठैर् उच्छीर्षकैः किं ? कराञ्जलौ सति पुरुभिर् विस्तीर्णैः पर्णपात्रैः किं ? ‘बर्हं पर्णं दलं पत्रं’ इत्यभिधानात् । दिशामेव वस्त्राणां लाभे सति दुकूलैर् निष्कापाद्यक्षौमादिवसनैः किम् ॥ ४ ॥

प्रकाशिका

इदानीं स्वतः सिद्धिप्रकारं दर्शयति- सत्यामित्यादिना ॥ कशिपोः शय्यायाः । प्रयासैः संपादनायासैः । स्वसिद्धे स्वतोऽनायासेन संपन्ने सत्युपबर्हणैः शिरःपीठैः । उच्छीर्षकैरिति यावत् । पुरुपर्णपात्रैर्विस्तीर्णैः पत्रनिर्मितभोजनपात्रैः । दिग्वस्त्रलाभे दिग्रूपाणां वस्त्राणां लाभे । दिगम्बरतारूपनग्नतायां सत्यामिति यावत् । दुकूलैः क्षौमादिवसनैः ॥ ४ ॥

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां

नो वाऽङ्घ्रिपाः परभृतः सरितोऽप्यशुष्यन् ।

रुद्धा गुहाः किमवधूतसुहृन्न कृष्णः

कस्माद्भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥

पदरत्नावली

ननु भवादृशानां योगिनां क्षित्यादिना शरीरयात्रासिद्धावपि अपरिपक्वयोगिनां पुंसां कथमुपभोगः संपत्स्यत इत्यत्राह- चीराणीति ॥ ‘पटचीराणि गृहिभिर्देयानि पथि तोरणे । दरिद्राणाञ्च भिक्षूणाम् आच्छादनकराणि च ’ इति स्मृतेः पथि तोरणे गृहस्थैर् निहितानि चीराणि जीर्णवस्त्राणि मूषिकादिप्रभिन्नानि वा न सन्ति किं ? भोजनार्थमिति चेत् परान् फलपुष्पादिना बिभ्रतीति परभृतो ऽङ्घ्रिपा वृक्षा भिक्षां फलादिना नो दिशन्ति वा ? दिशन्त्येव । उदकार्थमिति चेत् सरितः स्यन्दमाना नद्यो ऽशुष्यन्नपि किं ? नाशुष्यन्नित्यर्थः । शयनार्थमिति चेत् ? गुहा रुद्धाः पिहिताः किं ? केनचिदिति शेषः । गुहासु सिंहादिभयेन कथं वासः सम्पत्स्यत इति तत्राह- किमिति ॥ कृष्णो ऽवधूतानां धूलिधूसराङ्गानां योगिनां सुहृन्न किं ? सुहृदेव । अतः वस्त्राद्याशया कवयः धनादिदुर्मदेन अन्धान् विवेकचक्षूरहितान् राजादीन् कस्माद्भजन्ति ? न भजन्त्येव । अतो मुमुक्षुणा यदृच्छया लब्धाशनादिना भाव्यमिति भावः ॥ ५ ॥

प्रकाशिका

एवं परिपक्वयोगिनां स्वतः सिद्धिप्रकारमुक्त्वाऽपरिपक्वयोगिनामपि तमाह- चीराणीति ॥ ‘पटचीराणि गृहिभिर्देयानि पथि तोरणे । दरिद्राणां च भिक्षूणामाच्छादनकराणि च’ इति स्मृतेः पथि तोरणे गृहस्थैर्भिक्षुकार्थं निहितानि चीराणि वस्त्रखण्डानि न सन्ति किं सन्त्येव । नन्वेवं वस्त्राणामन्यथासिद्ध्या तदर्थं यत्नाभावेऽप्यन्नार्थमुदकार्थं वा स्वस्थानार्थं वा यत्न आवश्यक इत्यतस्तेषामप्यन्यथासिद्धिं क्रमेणाह- दिशन्ति भिक्षामित्यादिना ॥ अङ्घ्रिपा वृक्षाः । परान् बिभ्रति फलादिभिः पुष्णन्ति ते परभृतः । इदं हेतुगर्भविशेषणम् । वाऽपिशब्दौ किमित्यनुकर्षणार्थे । तथा च भिक्षां फलादिरूपमन्नं किं नो दिशन्ति दिशन्त्येवेत्यर्थः । सरितो नद्योऽशुष्यन् किं नाशुष्यन्नित्यर्थः । गुहा गिरिदर्यो रुद्धाः पिहिताः किम् । केनचिदिति शेषः । गुहासु सिंहादिभये कथं वासः शक्यत इत्यत उक्तम्- किमवधूतेति ॥ अवधूतानां धूलिधूसराङ्गानाम् । योगिनामिति यावत् । सुहृन्न किं सुहृदेव । तथा च स एव सिंहादिभयं परिहरिष्यतीति भावः । कस्मादित्यतः पूर्वमेवं सतीति शेषः । कस्माद्भजन्ति न भजन्त्येव ॥ ५ ॥

एवं स्वचित्ते स्वत एव सिद्ध आत्माप्रियोऽर्थो भगवाननन्तः ।

तं निर्वृतो नियतार्थो भजेत संसारहेतूपरमश्च यत्र ॥ ६ ॥

तात्पर्यम्

एतमितः प्रेत्याभिसम्भविताऽस्मी’ति नियतार्थः ॥ ६ ॥

पदरत्नावली

इदानीमुक्तानुष्ठानपरिपाकप्रकारमाह- एवमिति ॥ एवम् उक्तप्रकारेण यदृच्छया लब्धाशनादिना वृत्तिं दृष्ट्वा प्रसन्नस्य स्वतः स्वतन्त्रस्य हरेः प्रसादात् स्वचित्ते स्वाधीनतया वर्तमाने सति । भगवान् ऐश्वर्यादिगुणसमुद्रः । अनन्तः परिच्छेदशून्यः । आत्मा परमात्मा देहपुत्रादिभ्योऽ-प्यत्यन्तं प्रियोऽर्थ इति कृत्वा निर्वृतः समुद्भूतरोमाञ्चः । नियतार्थः ‘एतमितः प्रेत्याभिसम्भविता-स्मी’ति निश्चितार्थः पुरुषस् तं भगवन्तं भजेत । कदाचिदपि तद्भजनं न मुञ्चेत् । ततः किं फलं ? अत्राह- संसारेति ॥ यत्र यस्मिन् सेव्यमाने सेवकस्य संसारहेतूनाम् अविद्यादीनामुपरमः । अविद्यादीनां सद्भावे सोऽस्तीति शक्यशङ्कम् । त एव न सन्ति । अतस् तथा शङ्कमानोऽसुरप्रकृतिरिति भावः । ‘तदेतत्प्रेय’इत्यादिश्रुतिसिद्धं हरेः प्रियार्थत्वञ्च । न केवलं संसारहेतूपरमः फलं, किन्तु निर्दुःखा-नन्दानुभवलक्षणमोक्षप्राप्तिश्चेति चशब्दः ॥ ६ ॥

प्रकाशिका

एवं मनोजयसाधनं द्वयेनाभिधायेदानीं तत्साध्यं स्वयोग्यध्यानं कर्तव्यमिति यदुक्तं तत्प्रपञ्चयति- एवमित्यादिना ॥ एवमुक्तसाधनद्वयेन स्वचित्ते स्वस्य जडरूपे स्वस्वरूपभूते च चित्ते । स्वत एवानायासेन सिद्धे वशीकृते सति यो भगवाननन्तो व्याप्तस्तं भजेत तद्ध्यानं निरन्तरं कार्यमित्यर्थः । अनेनोत्तमाधिकारिणां योग्यं ध्यानं विहितमिति ज्ञातव्यम् । भजनीयत्वे हेतुः- आत्मा प्रियोऽर्थ इति ॥ यत इति शेषः । भक्तं स्वकीयतयाऽऽदत्त इत्यात्मा यतश्च प्रियोऽर्थः । देह-पुत्रादिभ्योऽपीति शेषः । भजनसमये कर्तव्यमित्थम्भावं दर्शयति- निर्वृतो नियतार्थ इति ॥ अत्र नियतार्थ इत्येतदप्रतीत्या व्याचष्टे- एतमित इति ॥ इतो देहात्प्रेत्यैतं परमात्मानमभिसम्भविता प्राप्तोऽस्मीति श्रुत्युक्तप्रकारेण नियतार्थो निश्चितप्रयोजन इत्यर्थः । तथा च निर्वृतः स्वरूपानन्दानुभवेन समुद्भूतरोमाञ्च उक्तप्रकारेण नियतार्थश्च सन् भजेतेति मूलार्थः । न केवलं ‘नियतार्थ’ इत्यत्रोक्त-भगवत्प्राप्तिरेव ध्यानफलं किं त्वनिष्टनिवृत्तिरपीति दर्शयति- संसारेति ॥ यत्र यस्मिन् भजने सति । संसारहेतूनामविद्याकाम्यकर्मादीनामुपरमश्चात्यन्तिकनिवृत्तिश्च भवतीत्यर्थः । अत्रोक्तेत्थम्भावफले सर्वाधिकारिसाधारणध्यानपर इति ज्ञातव्यम् ॥ ६ ॥

स सर्वविद्हृद्यनुभूश्च सर्व आत्मा यथा सुप्तजनेक्षितैकः ।

तं सत्यमानन्दनिधिं भजेत सर्वात्मनाऽतोऽन्यत आत्मघातः ॥ ७ ॥

तात्पर्यम्

‘यथैकस्तु बहून्सुप्तानसुप्तः पश्यति प्रभुः । एवमीशो बहूञ्जीवानज्ञान्पश्यति नित्यदृगि’ति व्योमसंहितायाम् । ‘स्वप्नेन शारीरमभिप्रहत्यासुप्तः सुप्तानभिचाकशीती’ति च ॥ ‘यथेष्टभवनाद्विष्णुरनुभूः परिकीर्तितः । उदधिः कर्मणामीशः सर्वः पूर्णगुणो यतः । सत्यः केवलसारत्वान्नियमो नियतेरज’ इति बृहत्संहितायाम् ॥ ७ ॥

पदरत्नावली

भजनापरपर्यायोपासनं गुणोपसंहारेण कार्यमिति यदतस् तद्गुणकथनपूर्वकं तदेवोपासनं स्पष्टीकुर्वन् विपक्षे बाधकमाह- स सर्वविदिति ॥ ‘प्राणाग्नय एवैतस्मिन् पुरे जाग्रती’ति श्रुतेः पञ्चवृत्तिरेको मुख्यप्राण एव यथा सुप्तजनस्येक्षिता द्रष्टा तथा स हरिः सर्वान् पश्यतीति सर्ववित् । हृदि स्थित्वाऽनुभूर् यथेष्टानन्दानुभवनात् । सर्वः गुणपूर्ण आत्मा स्वामी इत्येवं गुणानुपसंहृत्य सत्यं सर्वतः सारम् आनन्दनिधिं तं विष्णुं भजेत उपासीत । आधिव्याध्यादिसम्भवेऽपि उपासनं न हातव्यमित्याशयेनोक्तं- सर्वात्मनेति ॥ अतोऽन्यतः परमात्मानुपासने आत्मघातो ऽहितकरणादिना स्वात्महननाख्यदोषापत्त्या नित्यदुःखतमःप्राप्तिः स्यादित्यन्वयः । चशब्दस् तत्तद्योग्यतानुसारेणेत्य-स्मिन्नर्थे । ‘यथैकस्तु बहून्सुप्तानसुप्तः पश्यति प्रभुः’ ‘यथेष्टभवनाद्विष्णुरनुभूः परिकीर्तित’ इत्यादेरुक्त एवार्थ इति । स्वेच्छानुकूलविग्रहग्रहणाद्वाऽनुभूः । अनेन प्राणेन दत्तानि चेष्टालक्षणानि कर्माणि इत्यानन्दशब्देन कर्माण्युच्यन्ते । तेषां फलपर्यन्तं निधापकत्वेन निधिपालवत् स्वामित्वाद् आनन्दनिधिर् हरिस् तं वा ॥ ७ ॥

प्रकाशिका

उपसंहार्यगुणोक्तिपूर्वकं ध्यानं पुनर्विधाय तदकरणे बाधकमप्याह- स सर्व-विदिति ॥ अत्र यथा सुप्तजनेक्षितैक इत्येतदप्रतीत्या प्रमाणेनैव व्याचष्टे- यथैकस्त्विति ॥ तुशब्दोऽव-धारणे । यथैक एवेशः स्वयमसुप्त एव बहून्सुप्तान् जीवान् सुप्त्यवस्थायां पश्यति । प्रभुर्यत इति हेतुगर्भविशेषणम् । एवं नित्यदृक् स्वयमज्ञानशून्यः बहूनज्ञान् अज्ञानबद्धान् जीवान्पश्यति । जाग्रदवस्थायामिति शेषः । सुप्त्यवस्थायामसुप्त ईशः सुप्तान्पश्यति इत्यत्र श्रुतिं चाह- स्वप्नेनेति ॥ स्वप्नेन सुषुप्त्या । शारीरं जीवमभिप्रहत्य संयोज्य स्वयमसुप्तः सुप्तान् जीवानभिचाकशीति सम्यक् पश्यतीत्यर्थः । अनुभूः सर्वः सत्यमिति पदत्रयार्थं प्रमाणेनैव दर्शयति- यथेष्ट इति ॥ अनेनेच्छामनुसृत्य भवतीत्यनुभूरिति व्याख्यातं भवति । उदधिनियमपदेऽन्यत्र गते प्रमाणेन व्याख्याते इति ज्ञेयम् । अनेनेदं विशेषणद्वयं चशब्दार्थतया व्याख्येयमिति सूचयति । कर्मणामीश इत्यनेनोदानि कर्माणि धीयन्ते समर्प्यन्तेऽस्मिन्नित्युदधिरिति व्याख्यातं भवति । ‘सच्छब्द उत्तमं ब्रूयादि’ति वचनात्सच्छब्दपर्यायस्य सत्यशब्दस्योत्तमवाचित्वम् । मुख्ये सम्भवत्यमुख्यग्रहणमनुचितमिति चाभिप्रेत्य केवलसारत्वादित्युक्तम् । निरवधिकोत्तमत्वादित्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ यो भजनीयोऽनन्तः सर्ववित् । सर्वेषां हृदि स्थित इति शेषः । स्वेच्छानुसारेण विग्रहग्रहणादनुभूः । चशब्दोऽनुक्तगुणान्तरसमुच्चयकः । सर्वः पूर्णगुणः । आत्मा स्वामी । यथैकः स्वयमसुप्तः सुप्त्यवस्थायां सुप्तजनेक्षिता बहून्सुप्तान् जनान्पश्यति । तथा जाग्रदवस्थायामप्येक एव स्वयमज्ञानरहितः सुप्तजनेक्षिताऽज्ञानबद्धजनान्पश्यतीत्यावृत्त्या योज्यम् । तं सत्यं सर्वोत्तमम् । आनन्दनिधिमानन्दो नितरां धीयतेऽस्मिन्नित्यानन्दनिधिस्तम् । पूर्णानन्दमिति यावत् । सर्वात्मना सर्वथा भजेतोपासीत । आधिव्याधिसद्भावेऽप्येतदुपासनं न हातव्यमित्याशयेन सर्वात्मने-त्युक्तम् । अत्र सर्वविदात्मा सत्यमानन्दनिधिमिति पदचतुष्टयेन सच् चिद् आनन्द आत्मेति गुणचतुष्टयमानन्दादयः प्रधानस्येत्यत्र सर्वाधिकारिसाधारणमुपसंहार्यमुक्तं तदेव सूचितमिति ज्ञातव्यम् । अतो भजनादन्यतोऽन्यस्मादभजनाद्विषयसेवनाच्चात्मघात आत्मनः स्वस्य नाश इव । इष्टस्य मोक्षस्यालाभादनिष्टस्य नरकस्य लाभाच्चेति ॥ ७ ॥

कस्तन्त्वनादृत्य परानुचिन्तामृते पशुत्वमसतीं नाम युञ्ज्यात् ।

पश्यञ्जनं पतितं वैतरण्यां स्वकर्मजान्परितापाञ्जुषाणम् ॥ ८ ॥

पदरत्नावली

भगवदुपासनामकुर्वाणस्य पशोरपि वैलक्षण्यं नास्तीत्याह- कस्तमिति ॥ नरके विगततरणत्वाद्वैतरणी नाम नदी या तस्याम् । हरेर् अनुपासनाख्यदोषात्पतितं स्वकर्मजान् स्वकृत-कर्मसमुद्भूतान् परितापान् सर्वतोदिशम् आयातान् दुःखविशेषान् जुषाणं भुञ्जानं जनं गुरुशास्त्रोपदेशदृष्ट्या पश्यन् तुशब्दसूचिततादृशदुःखनिवर्तकालम्बुद्धिगोचरसुखप्रदं हरिञ्च पश्यन् को विवेकी तं भगवन्तम् अनादृत्य असतीम् अशुभां परानुचिन्ताम् इतरविषयाम् उपास्तिलक्षणां स्मृतिं युञ्ज्यात् । पशुत्वं विवेकबुद्धिराहित्यमृते ? यदि युञ्ज्यात् तर्हि स पशुरेव, न विवेकीत्यन्वयः । ‘चतुर्वेद्यपि यो विप्रो वासुदेवं न विन्दति । वेदभारभराक्रान्तः स वै ब्राह्मणगर्दभः’ इति ॥ ८ ॥

प्रकाशिका

एतदेवान्यचिन्तानिन्दया दृढयति ॥ कस्तमिति ॥ विगततरणत्वाद्वैतरणीनामनरके विद्यमाना नदी तस्यां, हरिविषयानादरेतरचिन्ताप्रयुक्तदोषेण पतितं स्वकर्मजान्स्वदुष्कर्म- समुद्भूता-न्परितापान्दुःखविशेषान् जुषाणं भुञ्जानं जनं गुरूपदिष्टशास्त्रेण पश्यन् जानन् को नाम विवेकी तं भगवन्तम् । तुशब्दो विशेषणार्थः । उक्तविशेषणविशिष्टमनादृत्यानुपास्यासतीमशुभां परानुचिन्तामितर-विषयस्मृतिं पशुत्वं विवेकबुद्धिराहित्यमृते विना युञ्ज्यात्कुर्यात् । यस्तु कुर्यात्स पशुरेवेत्यर्थः ॥ ८ ॥

केचित्स्वदेहान्तर्हृदयावकाशे प्रादेशमात्रं पुरुषं वसन्तम् ।

चतुर्भुजं कञ्जरथाङ्गशङ्खगदाधरं धारणया स्मरन्ति ॥ ९ ॥

पदरत्नावली

योग्यतातारतम्येनाधिकारिणां बहुत्वात् स्थूलरूपोपासनायोग्यानां तदुपास्तिमभिधाय अधुना स्वदेहहृदयकमलकर्णिकानिकेतनात्मोपासनायोग्यानां तदुपासनां विधत्ते- केचिदिति ॥ केचिदात्मोपासनायोग्याः । स्वदेहान्तर्हृदयावकाशे वसन्तं प्रादेशमात्रं प्रादेशपरिमाणं, कञ्जं पद्मं रथाङ्गं सुदर्शनं शङ्खं पाञ्चजन्यं गदां कौमोदकीं धारयतीति कञ्जरथाङ्गशङ्खगदाधरस् तं धारणया तैलधारावद् अखण्डितमनोवृत्त्या स्मरन्तीत्यन्वयः ॥ ९ ॥

प्रकाशिका

एवमुत्तमाधिकारिणां ध्यानं विधायेतरेषामपि तद्विधत्ते ॥ केचिदिति ॥ केचिदित्यत्र मध्यमाधिकारिविवक्षायां स्वश्चासौ देहश्च स्वदेह इति व्याख्येयम् । अधमाधिकारिविवक्षायां तु स्वस्य देह इति । तथा च स्वरूपभूतस्य स्वस्वामिकस्य वा देहस्यान्तर्मध्ये यद्धृदयं तत्र योऽवकाश-स्तस्मिन्वसन्तम् । प्रादेशस्तर्जन्यङ्गुष्ठयोर्विस्तारः । स एव मात्रा प्रमाणं यस्य । कञ्जं पङ्कजं रथाङ्गं चक्रम् । धारणयाऽऽदावेकैकावयवयुक्तस्मृत्या स्मरन्ति । समग्रमिति शेषः ॥ ९ ॥

प्रसन्नवक्त्रं नलिनायतेक्षणं कदम्बकिञ्जल्कपिशङ्गवाससम् ।

लसन्महाहारहिरण्मयाङ्गदं स्फुरन्महारत्नकिरीटकुण्डलम् ॥ १० ॥

पदरत्नावली

श्लोकचतुष्टयेन तमेव विशिनष्टि- प्रसन्नवक्त्रमित्यादिना ॥ प्रसन्नं भक्तानां प्रसादाभिमुखं वक्त्रं यस्य स तथा तम् । नलिनवद् रक्तपद्मदलवद् आयते दीर्घे ईक्षणे यस्य सस् तथा तम् । कदम्बः कृष्णप्रियस्तरुस् तस्य पुष्पस्य किञ्जल्को ऽङ्कुरविशेषस् तद्वत् पिशङ्गं पीतं वासो यस्य सस् तथा तम् । लसन्महाहारश्च हिरण्मयाङ्गदश्चेति लसन्महाहारहिरण्मयाङ्गदस् तम् । स्फुरन्ति शोभमानानि महान्ति च रत्नानि तैर् युक्तं किरीटं कुण्डले च यस्य सस् तथा तम् ॥ १० ॥

प्रकाशिका

श्लोकचतुष्टयेन तमेव विशिनष्टि- प्रसन्नवक्त्रमित्यादिना ॥ नलिनवद्रक्तपद्म-वदायते दीर्घे ईक्षणे यस्य स तथा तम् । कदम्बस्तरुविशेषस्तेन तत्पुष्पं लक्ष्यते । तथा च कदम्बपुष्पस्य किञ्जल्काः केसरास्तद्वत्पिशङ्गे पीते वाससी यस्येत्यर्थः । लसन्महान्हारो यस्य स लसन्महाहारः । हिरण्मयान्यङ्गदानि यस्य स हिरण्मयाङ्गदः । लसन्महाहारश्चासौ हिरण्मयाङ्गदश्चेति कर्मधारयः । तम् । स्फुरन्ति कान्तिमन्ति महान्ति च रत्नानि ययोस्ते स्फुरन्महारत्ने, किरीटकुण्डले यस्य स तथा तम् ॥ १० ॥

उन्निद्रहृत्पङ्कजकर्णिकालये योगेश्वरास्थापितपादपल्लवम् ।

श्रीलक्षणं कौस्तुभरत्नकन्धरमम्लानलक्ष्म्या वनमालयाऽञ्चितम् ॥११॥

पदरत्नावली

उन्निद्रस्य विकसितस्य हृत्पङ्कजस्य कर्णिकाख्यालये । योगेश्वरैः सनकादिभिर् आस्थापितौ सन्निधापितौ पादपल्लवौ यस्य स तथा तम् । श्रीरेव लक्षणं चिह्नं यस्य वक्षसि स तथा तम् । कुस्तुभात् समुद्राज् जातं कौस्तुभं तेन रत्नेन युक्ता कन्धरा यस्य सस् तथा तम् । अम्लाना अनवलूनवद् अतान्ता लक्ष्मीर् यस्याः सा तथा ॥ ११ ॥

प्रकाशिका

उन्निद्रं विकसितं यद्धृत्पङ्कजं तस्य कर्णिकैवालयः स्थानं तस्मिन्योगीश्वरैरा-स्थापितौ पादपल्लवौ यस्य स तथा तम् । श्रीरेव लक्षणं चिह्नं यस्य स तथा तम् । कुस्तु-भात्समुद्राज्जातं कौस्तुभं तेन युक्ता कन्धरा यस्य स तथा तम् । अम्लाना लक्ष्मीः शोभा यस्याः सा तथा तया । अञ्चितं पूजितम् । भक्तैरिति शेषः ॥ ११ ॥

विभूषितं मेखलयाङ्गुलीयकैर्महाधनैर्नूपुरकङ्कणादिभिः ।

स्निग्धामलैः कुञ्चितनीलकुन्तलैर्विरोचमानाननहासपेशलम् ॥ १२ ॥

पदरत्नावली

मेखलया काञ्च्या । आङ्गुलीयकैर् अङ्गुलीभूषणैः । महान्ति धनानि गृह्णन्तीति महाधनानि तैः । स्निग्धाश्च अमलाश्च ते तैः । कुञ्चिता वक्राश्च नीलाश्च ते कुन्तलास् तैः । विरोचमाने आनने यः हासस् तेन पेशलं सुन्दरम् ॥ १२ ॥

प्रकाशिका

मेखलया काञ्च्या । अङ्गुलीयकैरङ्गुलीभूषणैः । महान्ति धनानि मौल्यानि येषां तानि महाधनानि तैः । स्निग्धत्वादिविशेषणविशिष्टैः कुन्तलैः केशैर्विरोचमाने आनने यो हासस्तेन पेशलं सुन्दरम् ॥ १२ ॥

अदीनलीलाहसितेक्षणोल्लसद्भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।

ईक्षेत चिन्तामयमेनमीश्वरं यावन्मनो धारणयाऽवतिष्ठते ॥ १३ ॥

तात्पर्यं

चिन्तामयं चिन्ताप्रधानम् । ‘यस्मात्सञ्चिन्तितो विष्णुश्चिन्तितं प्रददात्यजः । तस्माच्चिन्तामयं देवं वदन्ति ज्ञानचक्षुष’ इति च ॥ १३ ॥

पदरत्नावली

अदीनलीलया उद्भूताभ्यां हसितेक्षणाभ्याम् उल्लसन्त्योर् भ्रुवोर् भङ्गेन स्फुरण-विशेषेण संसूचितः भूर्यनुग्रहः यस्य सस् तथा तम् । ईक्षेत चिन्तयेत । चिन्तामयं चिन्ताप्रधानम् । ‘यस्मात्सञ्चिन्तितो विष्णुश् चिन्तितं प्रददात्यज’ इत्यादेः । कियन्तं कालं चिन्तनमत्राह- यावदिति ॥ यावद्धारणया समग्राङ्गे मनो ऽचलमवतिष्ठते तावदिति शेषः ॥ १३ ॥

प्रकाशिका

अदीनमुदारं यल्लीलाहसितं तेन यदीक्षणं तस्मिन्नुल्लसन्तो ये भ्रूभङ्गा भ्रूविक्षेपास्तैः संसूचितो भूर्यनुग्रहो येन स तथा । तमीक्षेत ध्यायेत् । चिन्तामयमित्येतदनूद्य चिन्ताविकार-मित्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ चिन्तेति ॥ अत्र चिन्ताशब्देन भक्तस्य हरिविषयिणी चिन्ता विषयोपेक्षा च विवक्षिता । तथा चेयमुभयरूपा चिन्ता प्रधाना फलदाने प्रधानसाधनभूता यस्य स तथोक्त इत्यर्थः । अत्र प्रमाणमाह ॥ यस्मादिति ॥ चिन्तितं भक्तापेक्षितम् । कियत्कालमेवं ध्यानमित्यत उक्तम् ॥ यावन्मन इति ॥ यावद्धारणया एकैकावयवेन युक्तध्यानेन समग्राङ्गे मनोऽचलमवतिष्ठते तावदिति शेषः ॥ १३ ॥

एकैकशोऽङ्गानि धियाऽनुभावयेत्पादादियावद्धसितं गदाभृतः ।

जितं जितं स्थानमपोह्य धारयेत्परं परं शुध्यति धीर्यथा यथा ॥ १४ ॥

पदरत्नावली

सर्वाङ्गस्मरणाशक्तस्य स्मरणप्रकारमाह- एकैकश इति ॥ ध्यानेन जितं जितम् अनायासेन ध्यानविषयं स्थानम् अवयवम् अपोह्य वशीकृत्य परं परम् अजितम् अजितम् अनभ्यस्तम् अवयवं पादमारभ्य यावद्धसितम् । पुष्पितं वनमितिवत् हासेन विकासितं मुखं हसितमित्युपलक्ष्यते । मुखपर्यन्तं साङ्गोपाङ्गं प्रति धिया मनो धारयेत् । यथा यथा धीः सिध्यति सर्वाङ्गध्याने क्षमा भवति तथा तथा अभ्यस्तं कुर्यात् । अतः सर्वाङ्गध्यानसामर्थ्योदयपर्यन्तम् एकैकावयवमनुभावयेदित्यर्थः ॥ १४ ॥

प्रकाशिका

मनो धारणया समग्राङ्गेऽवतिष्ठत इत्युक्तमेव विशदयति ॥ एकैकश इति ॥ अनुभावयेद्ध्यायेत् । हसितं हासेन विकसितं मुखं, जितं जितमनायासेन ध्यानविषयं, स्थानं पादगुल्फादिकमपोह्य त्यक्त्वा परं परं स्थानं जङ्घजान्वादिकं धारयेद्ध्यायेत् । धीर्मनो यथा यथा शुद्ध्यति क्रमेण समग्राङ्गविषयं भवति तथा तथा धारयेत् । अभ्यस्तं कुर्यादित्यर्थः ॥ १४ ॥

यावन्न जायेत परावरेऽस्मिन् विश्वेश्वरे द्रष्टरि भक्तियोगः ।

तावत्स्थवीयः पुरुषस्य रूपं क्रियावसाने प्रयतः स्मरेत ॥ १५ ॥

तात्पर्यम्

स्थवीयः पातालमेतस्येत्यादि ॥ १५ ॥

पदरत्नावली- इममर्थमुपसंहरति- यावदिति ॥ परा ब्रह्मादयोऽपि अवरा यस्मात्सः परावरस् तस्मिन् । द्रष्टरि सर्वसाक्षिणि । विश्वेश्वरे हरौ । यावद् भक्तियोगः सर्वोत्तमो मम महोपकारकोऽत एव सर्वतः प्रियतम इति ज्ञानपूर्वकप्रेमलक्षणभक्तियोगो ऽखण्डध्यानप्रापको न जायेत तावत्पर्यन्तं ‘पातालमेतस्य हि पादमूलं’ इत्यादिनोक्तं सर्वलोकदेवाद्याधारं पुरुषस्य स्थवीयो ऽतिस्थूलं रूपं स्मरेत । तत्रापि निरन्तरध्यानाशक्तः सन् नित्यक्रियावसाने प्रयतः प्रयत्नवान् स्मरेतेत्यन्वयः ॥ १५ ॥

प्रकाशिका

पूर्वोक्तवैराजधारणाया उक्तध्यानानान्तरं भक्तियोगसाधनत्वमप्यस्तीत्याह ॥ यावदिति ॥ परा ब्रह्मादयोऽप्यवरा यस्मात्स परावरस्तस्मिन्द्रष्टरि सर्वसाक्षिणि विश्वेश्वरे विश्वनियाम-केऽस्मिन्स्वध्येये हरौ । भक्तियोगः सर्वोत्तमो मम महोपकारकोऽत एव सर्वतः प्रियतम इति माहात्म्य-ज्ञानपूर्वकः सुदृढः प्रेमप्रवाहो भक्तिस्तल्लक्षणो योग उपायोऽखण्डध्यानप्रापको यावन्न जायेत तावत् तावत्पर्यन्तं पुरुषस्य पूर्णषड्गुणस्य भगवतः स्थवीयोऽतिस्थूलं रूपं क्रियावसाने आवश्यक-कर्मानुष्ठानानन्तरं प्रयतः प्रयत्नवान्स्मरेत । अनेन नित्यकर्मापि भक्तियोगसाधनमिति सूचितम् । अत्र स्थवीयोरूपं किमित्यपेक्षायां स्थवीय इत्येतनूद्य तद्दर्शयति ॥ स्थवीय इति ॥ पाताल-मेतस्येत्यादिनोक्तमित्यर्थः ॥ १५ ॥

स्थिरं सुखञ्चासनमास्थितो यतिः

यदा जिहासुरिममङ्ग लोकम् ।

काले च देशे च मनो न सज्जेत्

प्राणान्नियच्छेन्मनसा जितासुः ॥ १६ ॥

तात्पर्यम्

‘भक्त्या प्राणं वशं नीत्वा जितप्राणो भवत्युते’ति षाड्गुण्ये ॥ १६ ॥

पदरत्नावली

इदानीम् उक्तविधोपासनाजनितज्ञानेनापरोक्षीकृतपरमात्मतत्वस्य तत्प्रसादाद्विज्ञात-ब्रह्मादितत्वस्य च ज्ञानिनः यदा देहत्यागेच्छा तदा स्वदेहगतेन्द्रियाद्यभिमानिदेवतालयस्मरणपूर्वकं मोक्षप्रकारमाह- स्थिरमिति ॥ यतिर् निर्जितेन्द्रियग्रामो ऽपरोक्षज्ञानी इमं लोकं देहं यदा जिहासुस् त्यक्तुमिच्छति तदा यथा सुखं भवति तथा स्थिरम् अचलम् आसनम् आस्थितः काले देशे च कालस्थेषु देशस्थेषु च विषयेषु धावन्मनः न सज्जेत् सक्तं न कुर्यात् । अथ मनसा स्ववशेन प्राणान् विषयान् धावन्तीन्द्रियाणि च नियच्छेत् तत आहरेत् । आहृत्य च प्राणान्नियच्छेत् प्राणायामान् कुर्यात् । अथ जितासुर् भक्त्या प्राप्तप्राणप्रसाद इन्द्रियप्रेरकान् दिगादिदेवान् मनोभिमानिनीन्द्रे नियच्छेद् इन्द्राधीनान् चिन्तयेत् ॥ १६ ॥

प्रकाशिका

एवमुक्तध्यानानन्तरमपरोक्षज्ञानवतां प्रारब्धभोगानन्तरं यदा चरमदेहत्यागेच्छा तदा तेषां कर्तव्यं दर्शयन् मोक्षप्रकारमाह ॥ स्थिरमित्यादिना ॥ यतिर्निजितेन्द्रियग्रामोऽपरोक्षज्ञानीमं लोकं देहं यदा जिहासुर्हातुमिच्छति तदा सुखं सुखकरं स्थिरमचलमासनमास्थितः सन् काले उत्तरायणादौ देशे पुण्यक्षेत्रादिरूपे मनो न सज्जेत् सक्तं न कुर्यात् । ‘न तु कालविशेषोऽस्ति ज्ञानिनां नियमा-त्फलमि’त्यादि वचनात्पुण्यक्षेत्राद्यलाभे मनःखेदं न कुर्यादिति भावः । तर्हि किं कार्यमित्यत उक्तम् ॥ प्राणानिति ॥ जितासुः प्राणान्वागादीन्द्रियदेवानुमादीन् । मनसा तदभिमानिरुद्रेण यच्छे-न्नियम्यांश्चिन्तयेदित्यर्थः । अत्र जितासुरित्यनेन देवोत्तमस्य वायोर्जय उच्यते स कथमित्यतः प्रमाणेनैव तदभिप्रायमाह ॥ भक्त्या प्राणमिति ॥ उतशब्दः प्राणायामसमुच्चयार्थः । तथा च जितासुरित्यस्य भक्तिपूर्वकप्राणायामेन प्राप्तमुख्यप्राणप्रसाद इत्यर्थ उक्तो भवतीति ज्ञातव्यम् ॥ १६ ॥

मनश्च बुध्याऽमलया नियम्य क्षेत्रज्ञ एतां निनयेत्तमात्मनि ।

आत्मानमात्मन्यवरुध्य धीरो लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १७ ॥

तात्पर्यम्

‘जीवस्थो भगवान्विष्णुः क्षेत्रज्ञ इति गीयते । देहस्थोऽपि(हृद्गतस्तु) स एवात्मा व्याप्तोऽप्यात्मेति भण्यत’ इति तत्त्वनिर्णये । हरौ हरेर्भवेन्नीतिस्तदेकत्वस्य चिन्तनम् । अन्यत्र तन्नियम्यादिचिन्तनं नीतिरुच्यत’ इति प्रकाशसंहितायाम् ॥ १७ ॥

पदरत्नावली

मनश्च मनोभिमानिनम् इन्द्रं च अमलया बुध्या बुद्धिदेवतया उमया नियम्य तदधीनं स्मृत्वा एतां बुद्धिदेवताम् उमां क्षेत्रज्ञे जीवान्तर्यामिणि हरौ निनयेन् नितरां तदधीनां चिन्तयेत् । तं क्षेत्रज्ञम् आत्मनि देहमध्यस्थे हरौ निनयेत् तदैक्येन चिन्तयेत् । तं देहमध्यगतम् आत्मानं हरिम् आत्मनि सर्वगते हरौ अवरुध्य तदेकीभावेन सञ्चिन्त्य देहादुत्क्रम्य लब्धोपशन्तिः प्राप्तसर्वाधिकमङ्गलाख्य- विष्णुरूपः धीरः कृत्याद् विधिनिषेधलक्षणात् कार्याद् विरमेतेत्यन्वयः । ‘भक्त्या प्राणं वशं नीत्वा जितप्राणो भवत्युत’ । ‘जीवस्थो भगवान्विष्णुः क्षेत्रज्ञ इति गीयते । हृद्गतस्तु स एवात्मा व्याप्तोऽप्यात्मेति भण्यते’ । ‘हरौ हरेर्भवेन्नीतिस्तदेकत्वस्य चिन्तनम् । अन्यत्र तन्नियम्यादिचिन्तनं नीतिरुच्यते’ । इति प्रमाणेभ्य उक्त एवार्थोऽन्यो न स्वकपोलकल्पित इति भावः । ‘मनस्तत्वं बुद्धितत्वे बुद्धितत्वं क्षेत्रज्ञे अधिष्ठानभूते तं क्षेत्रद्रष्टारम् आत्मनि शोधितत्वंपदार्थे चिन्मात्रे तमात्मानं शोधितत्वंपदार्थभूतमात्मनि शोधिततत्पदार्थभूते परमात्मन्यवरुध्य एकीकृत्य भेदहेतुमविद्याम् अधिष्ठान-याथात्म्यज्ञानेन निरस्य कृत्याद् विरमेत’ इति मायावादिनः । ‘एतां व्यष्टिरूपां बुद्धिं क्षेत्रज्ञे समष्टि-रूपहिरण्यगर्भात्मनि, तं क्षेत्रज्ञम् आत्मनि कारणात्मके, तं कारणात्मकम् आत्मनि शुद्धे ब्रह्मणि अवष्टभ्य कृत्याद् विरतः स्यात्’ इति पौराणिकंमन्या इति द्वयमपि प्रमाणविरुद्धत्वादुपेक्षणीयम् । मनश्चेति चशब्देन मनःशब्दवाच्यं रुद्रं, बुद्धिशब्दवाच्यवाणीविरिञ्चलक्ष्मीद्वारा क्षेत्रज्ञे लयं तत्वानां स्वस्वकारणेषु ब्रूत इति ज्ञातव्यम् । ‘उपोऽधिके समीपे च’ इति ‘शान्ती प्रशममङ्गले’ इति च ‘मङ्गलं भगवान् विष्णुः’ इति च ॥ १७ ॥

प्रकाशिका

मनोभिमानिनो रुद्रस्याप्यन्याधीनत्वं चिन्तनीयमित्याह ॥ मनश्चेति ॥ अत्र क्षेत्रज्ञशब्दमात्मशब्दद्वयं च जीवाद्यर्थत्वप्रतीतिनिरासाय प्रमाणेनैव व्याचष्टे ॥ जीवस्थ इति ॥ स एव विष्णुरेव । आत्मेत्यत्रेति भण्यत इत्यस्यानुकर्षणम् । क्षेत्रज्ञस्यात्मन्यात्मनश्च व्याप्ते नीतिर्न मनोबुद्ध्योरिव । प्रमाणविरोधात् । अतो हरावन्यत्र च विवक्षितां नीतिं प्रमाणेनैव दर्शयति ॥ हरौ हरेरिति ॥ आदिपदेन लयो ग्राह्यः ॥ ततश्चायं श्लोकार्थः ॥ मनो मनोऽभिमानिनं रुद्रममलया बुद्ध्या तदभिमानिन्या सरस्वत्या । उमाव्यावृत्त्यर्थममलयेति विशेषणम् । नियम्य तदधीनं ज्ञात्वा । एतां सरस्वतीं क्षेत्रज्ञे जीवान्तर्यामिणि विष्णौ निनयेन् नितरां प्रापयेत् । ब्रह्मलक्ष्मीद्वारा तदधीनां चिन्तयेदित्यर्थः । अत एव नीत्युपसर्गः । तं जीवान्तर्यामिणमात्मनि देहान्तर्गते विष्णौ निनयेदत्य-न्तमभिन्नतया चिन्तयेत् । आत्मानं देहान्तर्गतमात्मनि सर्वत्र व्याप्ते विष्णाववरुद्ध्यैकीभावेन सञ्चिन्त्य लब्धोपशान्तिः प्राप्तपरमानन्दः कृत्यात्पुनरन्यस्यापि तदुत्तमस्य चिन्तनरूपाद्विरमेत तमेव चिन्तयेत् । तदुत्तमस्य चिन्तनीयस्यान्यस्याभावादिति भावः ॥ १७ ॥

न यत्र कालोऽनिमिषां परः प्रभुः कुतो नु देवा जगतां य ईशिरे ।

न यत्र सत्वं न रजस्तमश्च न वै विकारो न महान्प्रधानम् ॥ १८ ॥

तात्पर्यम्

कालो वायुः । ‘हरिश्च प्रकृतिश्चैव ब्रह्मवायू तथैव च । सुपर्णशेषरुद्राश्च शक्रः सूर्ययमावपि । अग्निर्यमानुजश्चैव कालशब्देरिताः क्रमात् । पूर्वोक्तास्त्वपरोक्तानां प्रभवः सर्वशो मताः’ इत्युद्दामसंहितायाम् ॥ १८ ॥

पदरत्नावली

एवम् उत्क्रान्तो ज्ञानी यं लोकम् आप्नोति तमितरलोकेभ्यो व्यावर्तयति- न यत्रेति ॥ यत्र यस्मिन् लोके अनिमिषाणां रुद्रादिदेवानां प्रभुः कालो वायुर् न प्रभुः स्वशक्तेरुद्बोधकः । ‘हरिश्च प्रकृतिश्चैव ब्रह्मवायू तथैव च’ इत्यादेः । ये रुद्रादयः देवा जगताम् ईशिरे जगन्ति स्वस्वकार्येषु प्रवर्तयामासुस् ते देवा न प्रभवन्ति । कुतोऽन्यस्यावकाशः? न कुतोऽपीत्यर्थः । यत्र यस्मिन् स्थाने सत्वादिगुणत्रयञ्च स्वशक्तिप्रकाशकं न । विकारो वै भूतेन्द्रियात्मको अहङ्कारश्च न । महान् महत्तत्वञ्च न । प्रधानं प्रकृतिश्च न । जरादिस्वधर्मापादिका न भवन्तीत्यर्थः ॥ १८ ॥

प्रकाशिका

तत उत्तममन्यन्नास्तीत्येतदेव विशदयति ॥ न यत्रेत्यादिना ॥ अत्र काल-स्यानिमिषां परः प्रभुरिति सर्वदेवोत्तमत्वमुच्यते । तत्प्रसिद्धकालग्रहणेऽनुपपन्नमतोऽत्र विवक्षितं कालशब्दार्थमाह ॥ कालो वायुरिति ॥ वायोः कालशब्दवाच्यत्वं कुत इत्यतस्तत्र प्रमाणमाह ॥ हरिश्चेति ॥ तथैव चेत्यत्र विद्यमानस्य चशब्दस्य शक्र इत्यनेन सम्बन्धः । यमानुजः शनैश्चरः । अत्राद्यस्यैवशब्दस्य हरिरेव मुख्यतः कालशब्देरितो न तथाऽन्य इत्यर्थः । द्वितीयस्य त एव कालशब्देरिताः । न तथा प्रसिद्धकाल इत्यर्थः । तृतीयस्य क्रमादेवेति सम्बन्धः । अत्र सुपर्णशेषादेरपि कालशब्दवाच्यत्वकथनं मूलेऽनिमिषामिति यत्कालबहुत्वमुक्तं तदुपपादनाय । अनिमिषामित्यस्य कालवाचित्वमेव कथमिति चेत् ‘कालस्यानिमिषत्वं च लवादेर्नित्यवीक्षणादि’ति वक्ष्यमाणत्वात् । अनिमिट्शब्दस्यानिमिषशब्दपर्यायत्वात् । पूर्वोक्ता इत्यनेनानिमिषां पर इत्येतदपि प्रमापितमिति ज्ञातव्यम् ॥ ततश्चायं मूलार्थः ॥ यत्रात्मशब्दवाच्ये विष्णौ अनिमिषां कालशब्दवाच्यानां शेषसुपर्णादीनां देवानां पर उत्तमः कालो वायुर्न प्रभुः किमपि कर्तुं न समर्थः । तदा देवाः शेषरुद्रादयः कालशब्दवाच्याः प्रभव इति कुतो नु न कुतोऽपीत्यर्थः । देवनियम्यानां जगतां का वार्ता प्रभुत्वस्येत्या-शयेनाह । जगतां प्राणिनां ये ईशिरे स्वस्वकार्यं प्रवर्तयामासुस्ते देवा इति सम्बन्धः। जगत्कारणान्यपि गुणत्रयादितत्त्वानि तत्सृष्ट्यादौ न प्रभवन्तीत्याह ॥ न यत्रेति ॥ यत्रात्मशब्दवाच्ये विष्णौ सत्त्वं न प्रभुरित्यादि योज्यम् । विकारोऽहङ्कारः । महान् महत्तत्त्वम् । प्रधानं मूलप्रकृतिः । अत्र यत्रेति पदद्वयस्याग्रिमश्लोकस्थेन तत्पदेनान्वयः ॥ १८ ॥

परं पदं वैष्णवमामनन्ति तद्यन्नेति नेतीत्यतदुत्सिसृक्षवः ।

विसृज्य दौरात्म्यमनन्यसौहृदा हृदोपगु(गू)ह्यापुरमुं पदे पदे ॥ १९ ॥

पदरत्नावली

ननु कालादिसंसर्गाभावात् शशविषाणवन्नास्तीति तत्राह- परं पदमिति ॥ तद्वैष्णवं विष्णोर् विद्यमानं परं पदं प्राप्तव्योत्तमं लोकम् आमनन्ति पठन्तीत्यन्वयः । अनेन यथा कालादिकृतोपद्रवो हरेर् नास्ति तथा लोकस्यापीत्युक्तं भवति । यत्सम्बन्धाल्लोकोऽपि तादृङ्महिमा स विष्णुः किंमहिमेति तत्राह- यन्नेति ॥ वैष्णवमित्यनेन प्रस्तुतो विष्णुर् यदित्युच्यते । अतत् तस्माद्ब्रह्मण इतरत् संसारलक्षणं दुःखम् उत्सिसृक्षवस् त्यक्तुकामा विशिष्टाधिकारिणः यं विष्णुं नेति नेति पृथिव्यादिवन्नाकाशादिवच्च न तत्कारणमहदादिवच्च न तदभिमानिवच्च नेत्युपास्य दौरान्त्यं दुरात्मनाम् आसुरप्रकृतीनां विद्यमानं संसारदुःखं विसृज्य । अनन्यसौहृदा अनन्यभक्ता हृदा निरतिशयस्नेहलक्षणभक्त्या उपगुह्य पदे पदे मनसा निरन्तरं परिरभ्य अमुम् आपुर् एवंविधस्य हरेर् विद्यमानमिति पूर्वेणान्वयः ।

यद्वा यत्सर्वोत्तमं परममङ्गलं विष्णुरूपम् आप्तवान् तद्रूपमितरेभ्यो व्यावर्तयति- न यत्रेति ॥ अतत् तस्माद् ब्रह्मणोऽन्यज् जगद् उत्सिसृक्षवस् त्याजयितुकामाः ‘स वा एष आत्मा नेति’ इत्यादिवेदा यं नेति नेतीत्यामनन्ति तदित्यन्वयः । वेदानाम् अचेतनत्वेन बुद्धिपूर्वप्रवृत्त्यसम्भवात् कथं तदुक्तं निर्णेतुं शक्यते इत्यत्राह- विसृज्येति ॥ वेदोक्तं निर्णीय दौरात्म्यं दुष्टोपास्तिम् ऐक्यविषयां विसृज्य पदे पदे अन्वहं हृदोपगुह्य अपरोक्षीकृत्य अनन्यसौहृदा भूतभवद्भविष्यन्तो ऽमुम् आपुर् आप्नुवन्ति आप्स्यन्ति च । अतो युक्तमुक्तमिति ॥ १९ ॥

प्रकाशिका

उक्तरीत्या चिन्तनीयस्य विष्णोरेव सर्वोत्तमत्वे प्रमाणं दर्शयति ॥ परं पदमिति ॥ यद्वैष्णवं पदं विष्णुसम्बन्धिस्वरूपं नेति नेतीत्याद्या वेदाः परमामनन्ति सर्वोत्तमं प्रतिपादयन्ति तत्त-देवोक्तात्मशब्दवाच्यं चिन्तनीयमुक्तमित्यर्थः । स वा एष आत्मा नेति नेतीत्यादिवाक्यानां तात्पर्यं दर्शयति ॥ अतदुत्सिसृक्षव इति ॥ तद् ब्रह्म तस्मादन्यद् आत्मप्रकृत्यादि, तदुत्सिसृक्षवो न सर्वोत्त-ममिति त्यक्तुकामाः । अनेनैष आत्मा प्रकृतिवन्न तत्कार्यवन्न तदभिमानिवच्च न किन्तु सर्वोत्तम एवेति तद्वाक्ययोजनां सूचयति । नन्वतदुत्सिसृक्षव इति कथं ? ‘हिरण्यगर्भः समवर्तताग्र’ इत्यादौ विरिञ्चा-देरपि सर्वोत्तमतयाऽभिहितत्वादित्याशङ्कायां वेदाभिप्रायं दर्शयति ॥ विसृज्येति ॥ ये वेदा दौरात्म्यं दुष्टप्रकृतीनामापाततः प्रतीयमानं हिरण्यगर्भादिकं विसृज्य त्यक्त्वा पदे पदे हिरण्यगर्भादिसर्वपदेषु अमुं विष्णुमुपगूह्य वाच्यतयाऽभिप्रेत्यानन्यसौहृदा नान्यस्मिन्सौहृदं स्वारस्यं येषां ते तथाभूताः सन्तः हृदा महातात्पर्येणामुं विष्णुमेवापुः प्रतिपादितवन्तस्ते आमनन्तीति सम्बन्धः । अत्र वेदा योग्युपमया वर्णिता इति ज्ञातव्यम् । योगिनोऽप्यतद्ब्रह्मान्यत्सांसारिकदुःखमुत्सिसृक्षवस्त्यक्तुकामा दौरात्म्यं दुरात्मना-मजितमनसां सम्बन्धि रागादिकं विसृज्यानन्यसौहृदाः सन्तो हृदा मनसाऽमुं पदे पदे क्षणे क्षणे उपगूह्य परिरभ्य ध्यात्वाऽऽपुः प्राप्तास्तथैवेति ॥ १९ ॥

इत्थं मुनिस्तूपरमेद्व्यवस्थितो

विज्ञानदृग्वीर्यसुरन्धिताशयः ।

स्वपार्ष्णिनाऽऽपीड्य गुदं ततोऽनिलं

स्थानेषु षट्सून्नमयेज्जितक्लमः ॥ २० ॥

पदरत्नावली

सम्प्रति ज्ञानिनो देहादुत्क्रमणप्रकारमाह- इत्थमिति ॥ तुशब्दः प्रकरणभेदार्थः । इत्थं ‘स्थिरं सुखं चासनम्’इत्युक्तप्रकारेण मुनिर् उपरमेद् उत्क्रान्तो भवेत् । कथम् अत्राह- व्यवस्थित इति ॥ देहादुत्क्रमणे व्यवस्थितो निश्चितबुद्धिः । विज्ञानम् आत्मयोग्यज्ञानं स्वबिम्बविषयम् । तदेव दृक् । तस्या वीर्येण सुष्ठु रन्धितो दग्धःआशयो बाह्यान्तःकरणं यस्य स तथोक्तः । विज्ञानं ब्रह्मेति श्रुतेर् विज्ञानस्य ब्रह्मणो दृशो वीर्येणेति वा । जितक्लमः शरीरग्लानिरहितः प्रथमं स्वपार्ष्णिना गुल्फाधोभागेन गुदम् अपानद्वारम् आपीड्य ततोऽपानद्वारनिरोधानन्तरं ततो मूलाधाराच् चतुर्दलपद्माद् अनिलम् उदानवायुम् उत्थाप्य नाभिहृदयोरस्तालुमूलभ्रूमध्यमूर्धसु षट्सु स्थानेषु क्रमाद् उन्नमयेद् ऊर्ध्वं गमयेदित्यर्थः ॥२०॥

प्रकाशिका

इदानीं तस्य ज्ञानिनो देहादुत्क्रमणप्रकारमाह ॥ इत्थमिति ॥ इत्थमुक्तप्रकारेण व्यवस्थितो हरावेव निश्चितबुद्धिर्मुनिर्मौन्युपरमेद्देहादुत्क्रान्तो भवेत् । इतरोत्क्रान्तिवैलक्षण्यद्योतनाय तुशब्दः । कथमत्राह ॥ विज्ञानेति ॥ विज्ञानरूपा दृक् ‘विज्ञानमात्मयोग्यं स्यात्’ इति वचनादात्म-योग्यापरोक्षज्ञानं, तस्य वीर्यं सामर्थ्यं तेन सुष्टु रन्धितो दग्ध आशयो बाह्यान्तःकरणं यस्य स तथोक्तः । अत एव जितक्लमो ग्लानिरहितः । प्रथमं स्वपार्ष्णिना गुल्फाधोभागेन गुदमपानद्वारमापीड्य निरुद्ध्य ततो गुदप्रदेशगतब्रह्मनाडीस्थमूलाधाररूपाच्चतुर्दलपद्मादनिलमुदानं वायुं षट्सु स्थानेषु वक्ष्यमाणेषु नाभिहृदयोरस्तालुमूलभ्रूमध्यमूर्धसु क्रमादुन्नमयेदूर्ध्वं गमयेत् ॥ २० ॥

नाभ्यां स्थितं हृद्यवरोप्य तस्मादुदानगत्योरसि तं नयेन्मुनिः ।

ततोऽनुसन्धाय धिया मनस्वी स्वतालुमूलं शनकैर्नयेत ॥ २१ ॥

तस्माद्भ्रुवोरन्तरमुन्नयेत निरुद्धसप्ताश्वपथोऽनपेक्षः ।

स्थित्वा मुहूर्तार्धमकुण्ठदृष्टिर्निर्भिद्य मूर्धन्विसृजेत्परं गतः ॥ २२ ॥

तात्पर्यम्

उदानगत्या ब्रह्मनाड्या । ‘अथैकयोर्ध्व उदान’ इति श्रुतेः । ‘प्राणापाना-विडायां च पिङ्गलायां च वर्ततः । व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिगः । सर्वत्रैव समानस्तु समं चरति सर्वग’ इति भारते ॥ परं चिन्तयन् ॥ २१,२२ ॥

पदरत्नावली

सङ्क्षिप्योक्तं विशिनष्टि- नाभ्यामित्यादिना ॥ मुनिर् मूलाधाराच् चतुर्दलपद्माद् उन्नीय नाभ्यां स्थितं षड्दलपद्मे नीतं, उदानगत्या ब्रह्मनाड्या हृदि दशदलपद्मे अवरोप्य सन्निधाप्य ततो दशदलपद्मात् तम् उरसि द्वादशदलपद्मे नयेत् । मनस्वी मनःसमाधाननिरतः, ततो द्वादशदलपद्माद् यथा नाड्यन्तरं न गच्छेत् तथा धिया अनुसन्धाय शनकैर् असम्भ्रमेण स्वतालुमूलं षोडशदलकमलं नयेत ॥

तस्माद् भ्रुवोर् अन्तरं भ्रूमध्यस्थितं द्विदलं कमलम् उन्नयेत । अत्रापीतिकर्तव्यतया भाव्यमित्याह- निरुद्धेति ॥ निरुद्धाः सप्तानाम् अश्वानां कर्णाक्षिनासिकादिसञ्ज्ञानां पन्थानो येन सस् तथोक्तः । अनपेक्षः बाह्यसुखानिच्छुः । अत्रापीत्थंभावमाह- स्थित्वेति ॥ मनसा परं गतः भ्रूमध्ये तु मुहूर्तार्धं स्थित्वा मार्गगम्यविशेषेषु अकुण्ठदृष्टिर् मूर्धन् मूर्धनि शिरोमध्ये निर्भिद्य विसृजेत् शरीरमिति शेषः । गत इत्यनेन चिन्तनमुच्यते, ‘अथैकयोर्ध्व उदानः’ ‘प्राणापानाविडायाञ्च पिङ्गलायाञ्च वर्ततः । व्यानः सन्धिषु सर्वत्र उदानो ब्रह्मनाडिग’ इति श्रुतिस्मृतिभ्याम् उदानगतिर् ब्रह्मनाड्यामिति सिद्धम् । ‘इत्थं मुनिरित्यनेन निर्गुणविद्याफलमुक्त्वा स्वपार्ष्णिनेत्यनेन सगुणविद्याविदो देहोत्क्रमणप्रकार उच्यत’ इत्येतदनुपपन्नम् । एकवाक्यतया मुख्यार्थे सम्भवति वाक्यभेदायोगादिति ॥ २१, २२ ॥

प्रकाशिका

संक्षिप्योक्तं विशदयति- नाभ्यामित्यादि ॥ अत्रोदानगत्या इत्येतत् षष्ठीतत्पुरुष-भ्रान्तिवारणायानूद्य व्याचष्टे- उदानगत्येति ॥ तथा चोदानस्य गतिर्यस्यामिति बहुव्रीहिरिति भावः । उदानगत्याधारा ब्रह्मनाड्येव कुत इत्यतस्तत्र श्रुतिस्मृती दर्शयति- अथैकयेति ॥ श्रुतावुदानगतिर्ब्रह्म-नाड्यामिति स्पष्टोक्त्यभावात्स्मृत्युदाहरणम् । प्राण इडायामपानः पिङ्गलायामिति योज्यम् । सन्धिषु सन्धिस्थितनाडीषु । समानस्तु सर्वगः सर्वनाडीगत इति सम्बन्धः । तत्र समानशब्दप्रवृत्तिनिमित्तं सूचयति- सर्वत्रैवेति ॥ समं यथा स्यात्तथा चरतीति । अनेन समं नयतीति समान इति निरुक्तिः सूचितेति ज्ञातव्यम् । परं गतो विसृजेदिति ब्रह्मप्राप्त्यनन्तरं देहत्यागः प्रतीयते । स चानुपपन्नः । अतो यथावद्व्यचष्टे ॥ परं चिन्तयन्निति ॥ तथा च परङ्गत इत्यत्र मनसेति शेषः पूरणीय इति भावः ॥ ततश्चायं मूलार्थः ॥ ब्रह्मनाडी हि गुदमारभ्य मूर्धपर्यन्तम् ऋज्वी वर्तते । तन्मध्ये वक्ष्यमाणानि पद्मानि सन्ति । तान्येवात्र नाभ्यादिपदैर्लक्षणीयानि । ततश्चेयं योजना । नाभ्यां स्थितमित्यनुवादबलान्मूलाधार-चतुर्दलपद्मान्नाभिप्रदेशस्थब्रह्मनाडीगतषट्दलपद्मे उन्नयेदिति ग्राह्यम् । हृदिप्रदेशगतब्रह्मनाडीस्थेऽष्टदलपद्मे उरसि कण्ठाधोदेशगतब्रह्मनाडीसंस्थे द्वादशदलपद्मे । मनस्वी मनःसमाधानान्वितस्ततो द्वादशदलपद्मा-द्यथा नाड्यन्तरं न गच्छेत्तथा धियाऽनुसन्धाय शनकैस्त्वरामकुर्वन् । सावधान इति यावत् । स्वतालुमूलं तत्प्रदेशगतब्रह्मनाडीसंस्थं द्विदलपद्मम् ॥

भ्रुवोरन्तरम् । तत्प्रदेशगतब्रह्मनाडीसंस्थं चतुर्दलपद्मम् । एतत्पद्मं प्रति नयनसमये कर्तव्यमित्थम्भावं दर्शयति- निरुद्धेति ॥ निरुद्धाः सप्तानां कर्णाक्षिनासिकावाक्संज्ञानामश्वानामश्वायितानामिन्द्रियाणां पन्थानः सञ्चरणमार्गा येन स तथोक्तः । अनपेक्षो बाह्यसुखानिच्छुः । उक्तपद्मनयनानन्तरं कर्तव्य-मित्थंभावमाह- स्थित्वेति ॥ मनसा परं गतस्तं चिन्तयन्निति यावत् । उक्तपद्मे मुहूर्तार्धं स्थित्वा मार्गगम्यविशेषेषु अकुण्ठदृष्टिर्मूर्धन्मूर्धनि तत्प्रदेशस्थब्रह्मनाडीगतद्वादशदलं पद्ममुन्नयेत् । पश्चान्मूर्धन्मूर्धनि निर्भिद्य विदार्य विसृजेत् । देहमिति शेषः । एतानि पद्मानि तन्त्रसारोक्तानि । यथोक्तम् ॥ ‘मूले च नाभौ हृदयेन्द्रयोनिभ्रूमध्यमूर्धद्विषडन्तकेषु । चतुःषडष्टद्विचतुर्द्विषट्कदलेषु पद्मेषु सितारुणेष्वि’ति ॥ अत्रानुक्तमप्युरःस्थानगतं पद्मं पूर्वटीकोक्तमुक्तमित्यवगन्तव्यम् । साधका द्विविधाः । भक्त्यादिप्रधाना वायुजयादियोगप्रधानाश्च । तत्र ये वायुजयादियोगप्रधानास्तेषाम् एवायमुत्क्रमणप्रकार उक्तो न सर्वोत्क्रमिषु साधारण इति ज्ञातव्यम् ॥ २१,२२ ॥

यदि प्रयास्यत्यथ पारमेष्ठ्यं वैहायसानामुत यद्विहारम् ।

अष्टाधिपत्यं गुणसन्निवाये सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २३ ॥

योगेश्वराणां गतिमामनन्ति बहिस्त्रिलोक्याः पवनान्तरात्मा ।

न कर्मभिस्तां गतिमाप्नुवन्ति विद्यातपोयोगसमाधिभाजाम् ॥ २४ ॥

तात्पर्यम्

चिन्मात्राणीन्द्रियाण्याहुर्मुक्तानामन्यदैव तु । तान्येव जडयुक्तानि ह्यभिन्नानि स्वरूपत’ इति ब्राह्मे ॥ पवनस्याप्यन्तरात्मा यस् तम् । पवनश्चान्तरात्मा चेति वा । ‘ईयुस्त्रीन् कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् । तत्र मुख्या हरिं यान्ति तदन्ये वायुमेव तु । अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा । स्थानमात्राश्रितास्ते तु पुनर्जनिविवर्जिता’ इति ब्रह्मतर्के

॥ २३, २४ ॥

पदरत्नावली

एवं देहादुत्क्रान्तानां योगिनां प्राप्यस्थानं गम्यञ्चाह- यदीत्यादिश्लोकद्वयेन ॥ अत्र यदि, यत्, अथ, उतेति शब्दाः पुनरावृत्यान्वेतव्याः । तथा हि- यदि सम्यग् पक्वभक्त्यादि-साधनवान् तर्हि अथ उत्क्रमणानन्तरमेव पारमेष्ट्यं परमेष्ठिनो ब्रह्मणो लोकं प्रयास्यति । तत्रायं किङ्करोतीति तत्राह- अथेति ॥ अथ तल्लोकप्राप्त्यनन्तरं पुनरुत्पत्तिहीनो ब्रह्मसालोक्यमात्रं प्राप्य अथ भक्त्यादिकल्याणपरिपाकोद्योगी वसति । अनन्तरं ब्रह्मप्रलये ब्रह्मणा सह स्वयोग्यां मुक्तिं प्राप्नोतीति शेषः । उतशब्दोऽप्यर्थे । यद् यदि तत उत पूर्वोक्तयोगिनोऽपि अपरिपक्वभक्त्यादिकल्याणवान् तर्हि वैहायसानां वैमानिकानां सिद्धानां विहारं क्रीडास्थानं महर्लोकादि प्रयास्यति । तत्र अस्य योगफलमाह- अष्टाधिपत्यमिति ॥ अथ महर्लोकादिस्थाने अष्टानाम् अणिमादियोग्यानाम् आधिपत्यम् अवाप्य वसति । अथ यदि सम्यक् पक्वभक्त्यादिमान् अप्रतीकालम्बनस् तर्हि यत्र पवनस्यान्तरात्मा विकुण्ठनाथस् तत्र विकुण्ठनाथलोकेऽमुक्तस्थाने अमुक्तैर् देवादिभिरुपसेव्यमानं हरिं प्रयास्यति । यदि प्रतीकालम्बनस् तर्हि

यत्र पवनश्चासावन्तरात्मा चेति पवनान्तरात्मा वायुर् ब्रह्मा च तत्र सत्यलोके वायुं ब्रह्माणञ्च प्रयास्यति ॥

किमुक्तं भवतीति तत्राह- योगेश्वराणामिति ॥ त्रिलोक्या भूम्यन्तरिक्षस्वर्गसंज्ञाया बहिर् महर्लोकादौ योगेश्वराणां गतिम् आमनन्ति । न त्वर्वाक् । तल्लोकप्राप्तौ साधनविशेषमाह- विद्येति ॥ विद्याऽपरोक्षज्ञानम् । तदादिपुरुषार्थसाधनसामग्रीमतां पुंसां तां महर्लोकादिगतिं केवलकर्मभिर् नाप्नुवन्ति । किन्तु अपरोक्षज्ञानेनैव । अत्रायं कश्चन विशेषः । गुणानां सत्वादीनां सन्निवायः सन्निवासो यत्र सः गुणसन्निवायः । तस्मिन् महर्लोकादिवैकुण्ठामुक्तस्थानादधिके प्रदेशे प्रयास्यन् बाह्येन्द्रियमनोभिः सहैव गच्छेत् । आविष्कृतनिजरूपस्यापि तस्य आरब्धकर्ममोक्षपर्यन्तं दग्धपटवत् तेषां स्थित्युक्तेः । पश्चाज् ज्ञानादिगुणसन्निवाये मुक्तस्थाने चिन्मात्रेन्द्रियमनोभिः सहैव वसति । तदुक्तं ‘चिन्मात्राणीन्द्रियाण्याहुर् मुक्तानामन्यदेव तु’ इत्यादि । ‘ईयुस्त्रीन्कर्मणा लोकान् ज्ञानेनैव तदुत्तरान् । तत्र मुख्या हरिं यान्ति तदन्ये वायुमेव तु । अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा । स्थानमात्राश्रितास्ते तु पुनर्जनि-विवर्जिताः’ इति समाख्यावचनबलाद् अध्याहारेण व्याख्यातं न तु स्वमनीषोत्प्रेक्षाबलादिति । यदि पारमेष्ठ्यादिलोकं प्रयास्यति तर्हि मनसेन्द्रियैः सहैव गच्छेदिति वाऽन्वयः । यत्र योगेश्वराणां गतिं त्रिलोक्या बहिर् आमनन्ति यत्र पवनान्तरात्मा तत्र विद्यादिभाजां तां गतिं कर्मभिर् नाप्नुवन्तीति वा

॥ २३,२४ ॥

प्रकाशिका

एवमुत्क्रान्तस्य योगिनः प्रलयपर्यन्तं वासस्थानं दर्शयंस्तस्य तत्र भोगार्थं जडेन्द्रियाणि सह गच्छन्त्युत नेति जिज्ञासायामाह- यदीति ॥ अथोत्क्रमणानन्तरं पारमेष्ठ्यं परमेष्ठिनो ब्रह्मणो लोकं यदि प्रयास्यति । उतशब्दः पक्षान्तरे । अथवा वैहायसानां खेचराणां सिद्धानां यद्विहारं क्रीडास्थानं महरादिकमष्टाधिपत्यान्यणिमाद्यैश्वर्याणि यस्मिंस्तं वैकुण्ठं वा यदि प्रयास्यति तर्हि गुणानां सत्त्वादीनां सन्निवायः सन्निवासो यस्मिंल्लिङ्गशरीरे तस्मिन्सति । परममुक्त्यभावकाल इति यावत् । जडेन मनसा जडैरिन्द्रियैश्च सहैव गच्छेन्न तु परममुक्ताविव तानि परित्यज्येत्यर्थः । अत्र नाड्यन्तरो-त्क्रान्तानामेव महरादिकं प्राप्यं स्थानमुक्तं न ब्रह्मनाड्युत्क्रान्तानाम् ॥ ‘विष्वगन्या उत्क्रमणे भवन्ती’ति वचनादिति ज्ञातव्यम् । अत्रेन्द्रियैश्चिन्मात्रैरिन्द्रियैरित्येवार्थः किं न स्यादित्याशङ्कापरिहाराय प्रमाणमाह- चिन्मात्राणीति ॥ हि यस्मान्मुक्तानामिन्द्रियाणि स्वरूपतो मुक्तचित्स्वरूपादभिन्नानि तस्मात्तानि चिन्मात्राण्येवाहुः । अन्यथा तु तानि स्वरूपाभिन्नेन्द्रियाणि जडयुक्तान्येव जडेन्द्रियमिश्राण्येवेत्यर्थः ॥

उक्तस्थानानां कर्मसाध्यलोकोपरितनत्वान्न कर्मसाध्यत्वमिति वदंस्तेषामवान्तरतारतम्यं साधनानि च दर्शयति- योगेश्वराणामिति ॥ योगेनेश्वरास्तेषाम् । योगसाध्यैश्वर्यवतामिति यावत् । अत्र पवनान्त-रात्मेत्येतदनन्वितं भातीत्यतो यच्छब्दाध्याहारेण द्वेधा योजयति- पवनस्यापीति ॥ पवनशब्देन ब्रह्मा ग्राह्यः । वाय्वपेक्षया वैकुण्ठगतस्य हरेरुत्तमगम्यत्वमुपपादयितुं पवनस्याप्यन्तरात्मेत्युक्तम् । पवनश्चेत्य-स्यानन्तरम् असाविति शेषः । ततश्च पवनरूपो योऽन्तरात्मा सत्यलोकगतस्तमित्यर्थः । मूले त्रिलोक्या बहिरिति सामान्योक्त्या महरादिरपि ज्ञानिप्राप्य इति सूचयति । कर्मभिस्तां गतिं नाप्नुवन्तीत्यनेन त्रिलोक्येव कर्मप्राप्येति सूचितम् । तर्हि किं तत्र साधनमिति जिज्ञासायामुक्तं विद्यातपोयोगसमाधि-भाजामपि अधिकारिणां जायमानामिति । अत्र विद्यातपोयोगशब्दा अपरोक्षज्ञानविशेषवाचकाः । समाधिशब्दो नित्यध्यानपरः । विद्याशब्दोक्तज्ञानं द्विविधम् । ज्ञानं महाज्ञानं चेति । मुहूर्तमात्रं भगवद्रूपस्याखण्डितमपरोक्षेण दर्शनं ज्ञानम् । तेन ब्रह्मलोकः प्राप्यः । मुहूर्तादधिकमखण्डितं भगवदपरोक्षज्ञानं महाज्ञानम् । तेन वैकुण्ठादिहरिलोकः प्राप्यः । षण्मात्रकालयाऽपरोक्षदृशायुक्तम् अखण्डितं ध्यानं तपस्तेन तपोलोकः । योगः पादयोगश्चेत्युभयमिह योगशब्देन विवक्षितम् । तत्रैक-मात्रायुजा अपरोक्षदृशा युक्तमखण्डितं नित्यं ध्यानं योगः । तेन जनोलोकः । एकमात्राचतुर्थ-भागकालेनापरोक्षदृशा युतं नित्यं ध्यानं पादयोगस्तेन च महर्लोक इति विवेकः । वक्ष्यति चैतद्भगवानाचार्यो एकादशे ॥ ‘नित्यशो भगवद्रूपस्यापरोक्ष्येण दर्शनम् । मुहूर्तमात्रं ज्ञानं स्यान्महाज्ञानं ततोऽधिकम् । ज्ञानेन ब्रह्मलोकः स्यान्महाज्ञानाद्धरेर्गतिः । सदैवाखण्डितं ध्यानं तप इत्युच्यते बुधैः । अपरोक्षदृशा युक्तं नित्यं षण्मात्रकालया । अपरोक्षदृशा युक्तमेकमात्रायुजा युतम् । योगनाम्ना समुद्दिष्टं ध्यानं नित्यमखण्डितम् । तच्चतुर्भागया नित्यमपरोक्षदृशा युतम् । पादयोगाख्यमुद्दिष्टं ध्यानं नित्यमखण्डितम् । पादयोगान्महर्लोको जनोलोकस्तु योगतः । तपसस्तु तपोलोकः प्राप्यते नान्यतः क्वचित्’ इति ॥ यद्यपि नित्यध्यानमपि तपोयोगशब्दार्थान्तर्गतम् अस्मिन् प्रमाणे उक्तम् । तथाऽपि मूले समाधिशब्देन तस्य पृथग्गृहीतत्वाद् अत्र तपोयोगशब्दावुक्तापरोक्षज्ञानविशेषमात्रपरौ । पृथग्विशेषणपदसमवधाने विशिष्टपराणां शब्दानां विशेष्यमात्रपरत्वादिति मन्तव्यम् । अत्र हरेः पवनस्य महरादेश्च प्राप्यत्वोक्त्या तारतम्योपेतापरोक्षज्ञानानां साधनत्वोक्त्या च वैकुण्ठादिलोकेषु तारतम्यं सूचितमिति ज्ञातव्यम् ।

अत्र प्राप्यतयोक्तं महरादिलोकपञ्चकमेकस्यैवाधिकारिणो विरुद्धम् । अतोऽधिकारिभेदेनेदमुक्तमिति भावेनात्र प्रमाणमाह- ईयुस्त्रीनिति ॥ अनेन न कर्मभिरित्यनेन यत्त्रिलोक्याः कर्मसाध्यत्वं सूचितं तत्प्रमापितमिति ध्येयम् । ‘ज्ञानेनैव तदुत्तरान्’ इत्यनेन विद्यातपोयोगेत्येतदुक्तार्थम् । मुख्या अप्रतीका-लम्बनाः । तदन्ये प्रतीकालम्बनाः । अनेन पवनान्तरात्मेत्यस्य तात्पर्यमुक्तमिति ध्येयम् । अपक्वा भक्त्यादिपरिपाकशून्याः । अब्रह्मनाड्युत्क्रान्ता इति यावत् । स्थानमात्राश्रिता हरिवाय्वोः स्थानमात्रे महरादावेवाश्रिताः । न तद्व्यक्तिस्थाना इत्यर्थः । अनेन बहिस्त्रिलोक्या इत्येतदुक्तार्थमिति ज्ञातव्यम् ॥ ततश्चायं मूलार्थः ॥ विद्यातपोयोगसमाधिभाजां विद्यादिपदोदितापरोक्षज्ञानविशेषसामग्रीमताम् । योगेश्वराणां योगलब्धैश्वर्यवताम् पुंसां गतिं गम्यं त्रिलोक्या भूर्भुवःस्वःसंज्ञाया बहिरुपर्यामनन्ति वेदाः । तां कर्मभिर्नाप्नुवन्ति । तत्रापि ब्रह्मनाड्युत्क्रान्तानां विशेषमाह- पवनान्तरात्मा यस्तामिति ॥ ब्रह्मनाड्युत्क्रान्ता द्विविधाः । अप्रतीकालम्बनाः प्रतीकालम्बनाश्चेति । तत्राप्रतीकालम्बनानां पवनस्यान्तरात्मा यो वैकुण्ठलोकगतो हरिस्तम् । प्रतीकालम्बनानां तु पवनरूपो योऽन्तरात्मा सत्यलोकगतो ब्रह्मा तमिति योज्यम् । अन्यनाड्युत्क्रान्तानां तु महरादिलोकमेव गम्यं न तु हरिर्वायुर्वा । तत्र तयोरव्यक्ततयैवावस्थितत्वादिति । एवमेव यदि प्रयास्यतीति पूर्वश्लोकेऽप्यधिकारिभेदेन पारमेष्ठ्यादिस्थानानि व्याख्येयानि ॥ २३,२४ ॥

वैश्वानरं याति विहायसा गतः सुषुम्नया ब्रह्मपथेन शोचिषा ।

विधूतकल्कोऽथ हरेरुदस्तात्प्रयाति चक्रं नृप शैंशुमारम् ॥ २५ ॥

तात्पर्यं

हरेः शैंशुमारं चक्रम् । वैश्वानरोदस्तात्(वैश्वानरादुदस्तात्) । ‘वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा । विधूय सर्वपापानि यान्ति किंस्तुघ्नकेशवमि’ति ब्रह्माण्डे ॥ २५ ॥

पदरत्नावली

तस्य योगिनो मार्गमाह- वैश्वानरमिति ॥ सुषुम्नया नाड्या उत्क्रम्य विहायसा हृदयाकाशेन ब्रह्मपथेन सुषुम्नाख्येन शोचिषा । ‘रोचिः शोचिरभीशुः’ इत्यभिधानात् । गतः निर्गतो ऽर्चिरादिदेवान् गत्वा अथ वैश्वानरं याति । अथ वैश्वानरप्राप्त्या विधूतकल्कः दग्धपापतृणस् ततो वैश्वानरलोकाद् उदस्ताद् उपरि हरेः शैंशुमारचक्रं शिंशुमारस्वरूपं प्रयातीत्यन्वयः । ‘वैश्वानरे द्युनद्यां वा सूर्ये वा देह एव वा । विधूय सर्वपापानि यान्ति किंस्तुघ्नकेशवम् ॥’ इत्येतद् अथेति सूचितम् ॥२५॥

प्रकाशिका

उत्क्रान्तानामुक्तगम्यं प्रति गन्तंु मार्गं संक्षेपतो दर्शयति- वैश्वानरं यातीति ॥ शोचिषा हृदयाग्रप्रज्वलनेन प्रकाशितनाडीद्वारा इति शेषः । सुषुम्नया ब्रह्मनाड्या । गतो निर्गतः । विहायसाऽऽकाशगतेन ब्रह्मपथेनार्चिरादिना वैश्वानरं याति । अथ वैश्वानरप्राप्त्यनन्तरं विधूतकल्क-स्त्यक्तप्रारब्धपापः सन् वैश्वानरादुदस्ताद्विद्यमानं हरेः शैंशुमारं शिंशुमारसम्बन्धि चक्रं चक्रवत्परि-भ्रमणशीलं स्वरूपम् । तत्रत्यं ध्रुवं लोकमिति यावत् । प्रयातीत्यन्वयः । अत्र हरेरुदस्तात् शैंशुमारमिति यथास्थितान्वये शिंशुमारस्य हरित्वाभावः प्राप्नोत्यतोऽत्राभिमतमन्वयं दर्शयति ॥ हरेः शैशुमारं चक्रमिति ॥ तर्ह्युदस्तादित्यस्यावधिसापेक्षत्वादवधिर्वक्तव्य इत्यतः प्रकृतो वैश्वानर एव तदवधिरित्याह-

वैश्वानरेति ॥ विधूतकल्क इत्यनेनोक्तप्रारब्धपापक्षयस्य स्थानानि दर्शयन् शिंशुमारस्य हरित्वे प्रमाणमाह ॥ वैश्वानरेति ॥ सर्वपापानि प्रारब्धानि । अधिकारिभेदादियमुक्तिः । किंस्तुघ्नः शिंशुमारः ॥ २५ ॥

योऽन्तः पचति भूतानां यस्तपत्यण्डमध्यगः ।

सोऽग्निर्वैश्वानरो मार्गो देवानां पितृणां मुनेः ॥ २६ ॥

तात्पर्यम्

‘पितृयानं देवयानं ब्रह्मयानमिति त्रिधा । गच्छन्वैश्वानरं याति तस्मान्मार्गः स ईरितः ॥ २६ ॥

पदरत्नावली- वैश्वानरो नाम क इत्यत्राह- य इति ॥ यो भूतानाम् अन्तः कोष्ठगाग्नौ स्थित्वा तद्भुक्तं चतुर्विधमन्नं पचति । यश्च ब्रह्माण्डमध्यगः स्वपुरमध्यगस् तपति प्रकाशते । सः प्रधानवह्निर् वैश्वानराख्यः ब्रह्मदेवपितृलोकगन्तुर् मुनेर् योगिनः कर्मयोगिनश्च गम्यत्वान् मार्ग इतीरित इत्यन्वयः । ‘पितृयानं देवयानं ब्रह्मयानमिति त्रिधा । गच्छन्वैश्वानरं याति तस्मान्मार्गः स ईरितः’ इति च । देवयानेन गन्तॄणां वैश्वानरादर्वाक् अर्चिरादयो गम्याः सन्ति । तत्र ब्रह्मदेवपितृलोकगन्तृभिः सर्वैरपि वैश्वानरः प्राप्यत इति द्योतनाय ‘वैश्वानरं याती’ति प्रथमत एव वैश्वानरप्राप्तिकथनमिति ज्ञात्रव्यम्

॥ २६ ॥

प्रकाशिका

ननु विश्वनरसम्बन्धित्वरूपयोगेन जाठराग्नेरेव वैश्वानरशब्दवाच्यतावगमात्तस्य कथं ज्ञानिप्राप्यत्वमित्यत आह ॥ योऽन्त इति ॥ यो भूतानामन्तः स्थित्वा तद्भुक्तमन्नं पचति । अनेन विश्वनरसम्बन्धित्वरूपयोगो दर्शितः । य एवाण्डमध्यगो ब्रह्माण्डमध्यगतस्वलोकमध्यगतस्तपति सोऽपि वैश्वानरो वैश्वानरशब्दवाच्यः । कुतो यतोऽग्निर्जाठराग्न्यभिन्नः । जाठराग्न्यभिन्नत्वतो ज्ञानिप्राप्यलोक-गतस्यापि वैश्वानरशब्दवाच्यत्वं युज्यत इति भावः । ननु मार्गतया प्रसिद्धेषु अर्चिरादिषु सत्सु वैश्वानरस्यैव कुतो मार्गतयाऽत्र ग्रहणमित्यत आह ॥ मार्गो देवानामिति ॥ अत्र देवादि- पदैस्तद्यानेन गन्तारो लक्ष्यन्ते । तथा च देवानां देवयानेन गन्तॄणां, पितॄणां पितृयानेन गन्तॄणां, मुनेर्ब्रह्मयानेन गन्तुश्च वैश्वानरो मार्ग इत्यर्थः । सर्वैरूर्ध्वलोकगन्तृभिः प्राप्यत्वरूपं माहात्म्यं वैश्वानरस्य दर्शयितुं स एव मार्गतयाऽत्र निर्दिष्ट इति भावः । अत्र देवादीनामेव वैश्वानरो मार्ग इति प्रतीतिवारणाय विवक्षितमर्थं प्रमाणेनाह ॥ पितृयानमिति ॥ तस्मात्सर्वोर्ध्वलोकगन्तृप्राप्यत्वात् । सः वैश्वानरो मार्गोऽर्चिरादीन्विहाय मार्गतयेरितः । पुराणादाविति शेषः ॥ २६ ॥

देवयानं पिङ्गलाभिरहान्येति शतायुषा ।

रात्रीरिडाभिः पितॄणां विषुवत्तां सुषुम्नया ॥ २७ ॥

तात्पर्यम्

‘दक्षिणाः पिङ्गलाः सर्वा इडा वामाः प्रकीर्तिताः । नाड्योऽथ मध्यमा प्रोक्ता सुषुम्ना वेदपारगैरि’ति भागवततन्त्रे । ‘देवयानस्य(नाख्य)मार्गस्था अहःशब्दाभिसञ्ज्ञिताः । पितृयानस्य(नाख्य)मार्गस्था रात्रिशब्दाह्वया मता’ इति बृहत्तन्त्रे ॥ ‘शतायुर्मरणं चैव कालिकं पर(पार)मावृतिरि’ त्यभिधाने ॥ पिङ्गलाभिः शतायुषा अहःसञ्ज्ञं देवयानमेति । इडाभी रात्रिसञ्ज्ञं पितृयानम् । ‘विषुवत्ता ब्रह्मयानं विशेषेण सुखं यतः । पिङ्गला देवयानं स्यात्पिङ्गाख्यसुखदं यतः । इडाऽन्नदानात्पितॄणामेवं मार्गाः प्रकीर्तिता’ इति ब्रह्मतर्के ॥ २७ ॥

पदरत्नावली

के तर्हि त इति तत्राह- देवयानमिति ॥ पिङ्गलाभिः शरीरदक्षिणपार्श्वस्थ-पिङ्गलाख्यनाडीभिः शतायुषा मरणेनोत्क्रमणाद् अहानि अहःसञ्ज्ञं देवयानम् एति । इडाभिर् देहवामपार्श्वस्थेडाख्यनाडीभिः । शतायुषा मरणेनोत्क्रमणाद् रात्रीः रात्रिसञ्ज्ञं पितॄणां यानम् एति । देवयानपितृयानमार्गस्थानाम् अहरादिकालाभिमानिनीनां देवातानां प्राचुर्याद् अहानि रात्रीरिति बहुवचनम् । ‘दक्षिणाः पिङ्गलाः सर्वा इडा वामाः प्रकीर्तिताः । नाड्योऽथ मध्यमा प्रोक्ता सुषुम्ना वेदपारगैरिति । देवयानस्य मार्गस्या अदःशब्दाभिसंज्ञिताः । पितृयानस्य मार्गस्था रात्रिशब्दाह्वया मता ।’ इति च । पिङ्गलेडामध्यस्थया सुषुम्नया नाड्या शतायुषा विशिष्टसुखवत्वाद् विषुवत्ताख्यं ब्रह्मयानमेति । विशिष्टं सुखं विषु । तदस्यास्तीति विषुवत् । तस्य भावः विषुवत्ता ताम् । सषयोरभेदाद् वीत्युपसर्गयोगाद्वा सकारस्य षकारः । ‘विषुवत्ता ब्रह्मयानं विशेषेण सुखं यतः’ इति । रागोपरक्तसुखादिदातृत्वात् पिङ्गलादेर् देवयानादिशब्दवाच्यत्वम् । तदुक्तं- ‘पिङ्गला देवयानं स्यात्पिङ्गाख्यसुखदं यतः । इडान्न-दानात्पितृणामेवं मार्गाः प्रकीर्तिताः’ इति । अत्र देवयानब्रह्मयानभेदोऽवान्तरोऽवगन्तव्यः ॥ २७ ॥

प्रकाशिका

ननु देवयानादिमार्गत्रयेण गन्तारः सर्वेऽपि किं सुषुम्नानाड्यैवोत्क्रान्ता भवन्तीत्यत आह ॥ देवयानमिति ॥ अत्र पिङ्गलेडासुषुम्नाशब्दवाच्यान्नाडीविशेषान्प्रमाणेनैव दर्शयति ॥ दक्षिणाः पिङ्गला इति ॥ हृदयदेशे एकाधिकशतसङ्ख्याका नाड्यः सन्ति । तत्र मध्ये एका नाडी । तस्या नाड््या दक्षिणवामभागयोः पृथक् पञ्चाशन्नाड्यः सन्ति । तत्र दक्षिणा दक्षिणभागस्थाः सर्वनाड्यः पिङ्गलाः पिङ्गलाशब्देन प्रकीर्तिताः प्रकर्षेण व्यवहृताः । वेदपारगैरित्यस्यात्रापि सम्बन्धः । अतो रूढ्या तच्छब्दवाच्या इति भावः । एवमग्रेऽपि । वामा वामभागस्थाः सर्वनाड्य इडाशब्देन प्रकीर्तिताः । अथ मध्यमा मध्यभागस्था नाडी सुषुम्नाशब्देन वेदपारगैः प्रोक्ता । अतो रूढ्या तच्छब्दवाच्येत्यर्थः ।

ननु पिङ्गलाभिर्देवयानमिडाभिः पितृयानमिति मूलोक्तं कथं ? पिङ्गलाभिरहानीडाभिः रात्री-रेतीत्यन्यत्रोक्तत्वादित्याशङ्कायां तत्रत्याहोरात्रिशब्दाभ्यां देवयानपितृयाने एव विवक्षितेऽतो न कोऽपि विरोध इत्याशयेन मूलेऽहानीति देवयानस्य, रात्रीरिति पितृयानस्य च विशेषणमुक्तम् । तदयुक्त-मिवाभाति । अग्न्यादिरूपदेवयानस्य धूमादिरूपपितृयानस्य चाहोरात्रिरूपकालाभेदासम्भवादित्यत-स्तत्प्रमाणेनैव घटयति ॥ देवयानस्येति ॥ देवयानस्य पितृयानस्येति षष्ठ्योस्तादात्म्यरूपः सम्बन्धोऽर्थः। एवं च देवयानात्मकमार्गस्थाः पितृयानात्मकमार्गस्था इत्यर्थः। मार्गतयोच्यमानानामग्न्यादीनां धूमादीनां चाभिमानिन इति यावत् । जडानां प्राप्यत्वाभावदर्शनायेदमुक्तम् । एवं च नात्राहोरात्रिरूपकाला-भेदोऽभिमतः किन्तु तच्छब्दवाच्यत्वं तत्र चेयं स्मृतिरेव मानमतो न कोऽपि दोष इति भावः । अत्र देवयानाख्यमार्गस्थाः पितृयानाख्यमार्गस्था इति पाठो युक्त इति भाति ।

ननु शतायुषेत्यत्र यदि शतसंवत्सररूपमायुर्विवक्षितं तर्हि तत्पूर्तावेवोत्क्रान्त्यादिकमत्रोक्तं स्यान्न च तद्युज्यते । प्रारब्धकर्मावसाने ततः पूर्वमप्युत्क्रान्तिसम्भवादित्यतोऽत्राभिमतं शतायुश्शब्दार्थं प्रमाणेनैव दर्शयति ॥ शतायुरिति ॥ शतायुः कालिकं परमावृतिश्चेत्येतैः शब्दैर्मरणमेव क्वचिदुच्यत इत्यर्थः । मरणस्य शतायुःशब्दवाच्यत्वे प्रायः शतसंवत्सरस्यान्ते जायमानत्वं, कालिकशब्दाभिधेयत्वे यम-सम्बन्धित्वं, परशब्दवाच्यत्वे द्विपरार्धावसाने नियमेन जायमानत्वम् । आवृतिशब्दवाच्यत्वे स्वकाले ज्ञानप्रतिबन्धकत्वं निमित्तमिति द्रष्टव्यम् । पारमिति पाठे पारशब्दोऽवसानवाचीति प्रसिद्धमेव । पदानां व्यवहितत्वादनूद्यान्वयं दर्शयन्वचनभेदाद्देवयानमहानि पितृयानं रात्रीरिति कथं सामानाधिकरण्यमित्य-तस्तदुपपादयति ॥ पिङ्गलाभिरिति ॥ अहःसंज्ञं रात्रिसंज्ञमित्येकवचनप्रयोगाभ्यामुभयत्रैकवचनस्य बहुवचनादेश इति सूचयति ।

ननु पितृयानं देवयानं ब्रह्मयानमिति त्रिधेति मार्गत्रयवचनात्परिशेषेण सुषुम्नया ब्रह्मयानमेतीति वक्तव्ये विषुवत्तामिति किमुच्यत इत्यतो विषुवत्ताशब्देन ब्रह्मयानमेव विवक्षितमिति प्रमाणेनैवाह ॥ विषुवत्ता ब्रह्मयानमिति ॥ तस्य तत्र योगं दर्शयति ॥ विशेषेणेति ॥ अनेन विशिष्टं सुखं विषुस्तद-स्यास्ति दातृतयेति विषुवत् । विषुवदेव विषुवत्ता । स्वार्थे तल् । वीत्युपसर्गयोगात्सकारस्य षकार इत्युक्तं भवति । एवं देवयानमेतीति वक्तव्ये पिङ्गलामेतीति, पितृयानमेतीति वक्तव्ये इडामेतीति क्वचिदुच्यते इत्यतो विरोध इत्याशङ्क्य तत्रापि योगेन पिङ्गलेडाशब्दाभ्यां देवयानपितृयाने एव विवक्षितेऽतो न विरोध इति प्रमाणेनैवाह ॥ पिङ्गलेत्यादिना ॥ पिङ्गाख्येत्यस्यार्थः प्रमाणान्तरेण द्रष्टव्यः । तथा च पिङ्गाख्यं सुखं लाति ददातीति निर्वचनमेवानेन सूचितमिति ज्ञातव्यम् । अन्नदानादित्यनेनेडाऽन्नमस्य दातृ-तयाऽस्तीतीडा मतुपो लोप इत्युक्तं भवति । पितॄणामित्यत्र बुद्ध्या विविक्तं यानमित्येतदनुवर्तते ॥ ततश्चायं देवयानमिति श्लोकार्थः ॥ पिङ्गलाभिर्दक्षिणपार्श्वस्थनाडीभिः । शतायुषा मरणेनोत्क्रान्त्येति यावत् । अहान्यहःसंज्ञं देवयानमेति । इडाभिर्वामपार्श्वस्थनाडीभिः शतायुषा उत्क्रान्तिरूपमरणेन रात्रीः रात्रिसंज्ञां पितॄणां यानमेति । सुषुम्नया मध्यगतया ब्रह्मनाड्या शतायुषा विषुवत्तां विशिष्टसुखदत्वा-द्विषुवत्ताख्यं ब्रह्मयानमेतीति । अत्र देवयानब्रह्मयानेऽपुनरावृत्तिलोकमार्गावान्तरभेदरूप इति ध्येयम्

॥ २७ ॥

तद्विश्वनाभिं त्वभिपद्य विष्णोरणीयसा विरजेनात्मनैकम् ।

नमस्कृतं ब्रह्मविदामुपैति कल्पायुषो यद्विबुधा रमन्ते ॥ २८ ॥

तात्पर्यम्

अशेषजगदाधारः शिंशुमारो हरिः परः । सर्वे ब्रह्मविदो नत्वा तं यान्ति परमं पदमि’ति ब्रह्माण्डे ॥ तद्विष्णोर्विश्वाधारं रूपं प्रतिपद्य यत्र कल्पायुषस्तं महर्लोकमुपैति । ‘मन्वन्तरायुषः स्वर्ग्या महर्लोके तु काल्पिकाः । आब्रह्मणो जनाद्यास्तु महर्लोकेऽपि ये वरा’ इति ब्राह्मे ॥ २८ ॥

पदरत्नावली

अधुना शिंशुमारलोकादुपरितनमार्गप्रकारमाह- तदिति ॥ शैंशुमारमित्यनेन यद्रूपमुक्तं विष्णोस् तद्विश्वनाभिम् अभिपद्य प्रतिपद्य तुशब्दसूचितां तदनुज्ञामादाय विरजेन विगतरागादि-दोषेण अणीयसा सूक्ष्मतरेण आत्मना स्वरूपेण सर्वोऽपि ब्रह्मज्ञानिजनस् तं ब्रह्मलोकम् उपैति । तं विशिनष्टि- कल्पायुष इति ॥ कल्पायुषः विबुधा यद् यत्र रमन्ते क्रीडन्ति तमिति शेषः । किंविशिष्टं रूपंब्रह्मविदां समुदायेन नमस्कृतम् एकं मुख्यं केवलमिति वा । ‘मन्वन्तरायुषः स्वर्ग्या महर्लोके तु काल्पिका’ इति । पिङ्गलाभिरुत्क्रम्य देवयानेन गतः परान्ते ब्रह्म प्रयास्यन् तत्र महर्लोके अष्टाधिपत्य-मित्युक्ताणिमाद्यैश्वर्यशाली वसति । कश्चन जनलोके कश्चन तपोलोके ज्ञानादिपरिपाकायास्ते । कश्चित् सत्यलोके हर्याज्ञया वसति । ब्रह्मयानेन गता अप्रतीकालम्बनाः प्रतीकालम्बनाश्च शिंशुमारहरिणा अनुज्ञातास् तदैवानिरुद्धप्रद्युम्नसङ्कर्षणद्युदेवीः प्राप्य दिवस्पतिं वायुं प्राप्य तेन कार्यं ब्रह्म प्रापितास् तदुपदेशं प्राप्य प्रतीकोपासका निवसन्ति । अन्ये तु तेन वायुना परं ब्रह्म प्रापितास् तल्लोके निवसन्ति इत्यादिविशेषस् तुशब्देन सूचित इति ज्ञातव्यम् ॥ २८ ॥

प्रकाशिका

एवं शिंशुमारपर्यन्तमागतानां ज्ञानिनां गम्यं यद्बहिस्त्रिलोक्याः पवनान्तरात्मे-त्यत्रोक्तं तदेव स्मारयति ॥ तदिति ॥ अत्र विश्वनाभिशब्दार्थाद्यप्रतीतेः श्लोकतात्पर्यं प्रमाणेनैव दर्शयति ॥ अशेषेति ॥ अनेन विश्वशब्दोऽशेषजगदर्थो, नाभिस्त्वाधारार्थ इत्युक्तं भवति । एकशब्दार्थः परः सर्वोत्तम इति । विश्वनाभिरित्यस्यार्थः ॥ अशेषेति ॥ विष्णोस् तदित्यस्य परामृश्यं दर्शयति ॥ शिंशुमारो हरिरिति ॥ ब्रह्मविदां नमस्कृतम् इत्यस्य तात्पर्यम् । सर्वे ब्रह्मविदो नत्वेति ॥ चतुर्थपादतात्पर्यम् । यान्ति परमं पदमिति ॥ महरादिलोकमित्यर्थः । तदिति नपुंसकलिङ्गेन परामृश्यं किमिति न प्रतीयतेऽतस्तद्दर्शयन् श्लोकं स्वयं व्याचष्टे ॥ तद्विष्णोरिति ॥ विष्णोस्तद्रूपमित्युक्त्या शैंशुमारं चक्रमिति पूर्वोक्तचक्रशब्दस्य रूपार्थकत्वमतस्तत्परामर्शोऽयमिति सूचयति । यदित्यस्यार्थः । यत्रेति ॥ तस्यान्वयाय तमित्यध्याहृतम् । महर्लोकमित्युपलक्षणम् । जनादिकमपि ग्राह्यम् । कल्पायुष इत्युक्त्या कथं महरादिलोकलाभ इत्यतस्तत्र प्रमाणमाह ॥ मन्वन्तरायुष इति ॥ स्वर्ग्याः स्वर्गे भवाः । मन्वन्तरायुषो मन्वन्तरमेकमनुभुक्तिकालपरिमितमायुर्येषां ते तथा । अन्यस्य मनोः प्राप्तौ स्वर्गे विद्यमानानां पूर्वेषां देवादीनां प्रायो नाशात् । इदं तु वक्ष्यमाणतुशब्दव्यावृत्त्यर्थप्रदर्शनार्थमेवोक्तमिति ध्येयम् । महर्लोके विद्यमाना इति शेषः । काल्पिका— अत्र कल्पशब्देन ब्रह्मणो दिनं ग्राह्यम् । तथा च ब्रह्मदिनपरिमितायुष इत्यर्थः । जनाद्या जनादिलोकस्थाः । आब्रह्मणः— ब्रह्मशब्देन तत्प्रलयो लक्ष्यते । तथा च ब्रह्मप्रलयपर्यन्तायुष इत्यर्थः । अनेन कल्पायुष इत्येद् द्वेधा व्याख्यातमिति ज्ञातव्यम् । महर्लोके तु काल्पिका इत्यस्यापवादमाह ॥ महर्लोकेऽपीति ॥ महर्लोके विद्यमानेष्वपि ये वरा भृग्वाद्यास्तेऽपि आब्रह्मणो ब्रह्मप्रलयपर्यन्तायुष इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ ज्ञानिसङ्घो ब्रह्मविदां ब्रह्मविद्भिर्नमस्कृतं विश्वनाभिं जगदाधारं विष्णोरेकं मुख्यं केवलमिति यावत् तच्छिंशुमाररूपं तु भक्त्याद्यतिशयेनाभिपद्य प्राप्य विरजेन विगतरागादिदोषेणाणीयसा सूक्ष्मतरेणात्मना लिङ्गदेहेन यद्यत्र महरादिलोके कल्पायुषो विबुधा देवा रमन्ते तं लोकमुपैतीति । ज्ञानिनो द्विविधाः । अपक्वसाधनाः पक्वसाधनाश्चेति । तत्र अपक्वसाधनाः पिङ्गलानाड्युत्क्रान्ताः । तेऽपि त्रिविधाः । अपक्वसाधना अपक्वतरसाधना अपक्वतमसाधनाश्चेति । तत्राद्यास्तपोलोकमुपयान्ति । द्वितीया जनोलोकम् । तृतीया महर्लोकम् । अपक्वा ये न ते यान्ति वायुं वा हरिमेव वा । स्थानमात्राश्रितास्त इति पूर्वमुक्तत्वात् । पक्वसाधनास्तु ब्रह्मनाड्युत्क्रान्तास्तेऽपि द्विविधाः । प्रतीकालम्बना अप्रतीकालम्बनाश्चेति । तत्राद्याः सत्यलोकमुपयान्ति । द्वितीया वैकुण्ठलोकमिति विवेकः । तत्रापक्वतमसाधनानपेक्ष्य कल्पायुष इत्यस्याद्यं व्याख्यानं द्वितीयं तदितरेषामिति द्रष्टव्यम् ॥ २८ ॥

अथो अनन्तस्य मुखानलेन दन्दह्यमानं स निरीक्ष्य विश्वम् ।

निर्याति सिद्धेश्वरजुष्टधिष्ण्यं यद्वै परार्ध्यं तदु पारमेष्ठ्यम् ॥ २९ ॥

पदरत्नावली

महर्लोकादिषु विहरतां तथा ज्ञानादिसाधनपरिपाकाय च निवसतां चतुर्मुख-प्राप्तिप्रकारमाह- अथो इति ॥ महर्लोकादिषु वसन् सः ज्ञानिसङ्घो ऽथो द्विपरार्धावसाने ब्रह्मप्रलये ब्रह्मणा सह मुक्तिं यास्यन् सिद्धेश्वरैः सनकादिभिर् जुष्टस्य चतुर्मुखस्य धिष्ण्यं निवासस्थानं यद् द्वैपरार्ध्यं द्वयोः परार्धयोः सम्बन्धि । चतुर्मुखस्य आयुषः परेति नाम । चतुर्मुखायुर्लक्षणशत-संवत्सरभोग्यमित्यर्थः । तत्पारमेष्ठ्यं निर्याति । महर्लोकादेर् निर्गत्य सत्यलोकमाप्नोतीत्यर्थः । गन्तुं हेतुमाह- अनन्तस्येति ॥ अनन्तस्य भगवतः मुखानलेन मुखान्निर्गताग्निना पुनः पुनः दह्यमानं विश्वं निरीक्ष्य सङ्कर्षणमुखाग्निना प्रपञ्चस्य दाहो हेतुरित्यर्थः । उशब्दो ब्रह्मलोकं प्राप्य तेनैव सह मुक्तिं प्राप्नोतीत्यस्मिन्नर्थे वर्तते ॥ २९ ॥

प्रकाशिका

इदानीं सान्तानिकलोकेषु विहरतां ज्ञानिनां ब्रह्मणा सह मुक्तिं वक्तुं सान्तानिक-लोकेभ्यो निर्गमने हेतुं वदन् सत्यलोकप्राप्तिं तावदाह ॥ अथो अनन्तस्येति ॥ अथो स्थितिकाल-समाप्त्यनन्तरं स ज्ञानिसङ्घोऽनन्तस्य शेषान्तर्गतसङ्कर्षणस्य मुखानलेन मुखनिर्गताग्निना दन्दह्यमानं पुनः पुनरतिशयेन च दह्यमानं विश्वं निरीक्ष्य । महाप्रलयं प्राप्तमवलोक्येति यावत् । यत्सिद्धेश्वरैर्जुष्टानि धिष्ण्यानि विमानानि यस्मिंस्तथा । यच्च द्वैपरार्ध्यम् । द्वयोः परार्धयोः सम्बन्धि तत्पारमेष्ठ्यं परमेष्ठिना ब्रह्मणाऽधिष्ठितं सत्याख्यं स्थानं प्रति निर्याति महरादेर्निर्गत्य यातीत्यर्थः । उ इत्यनेन तस्योत्कृष्टत्व-मुक्तम् ॥ २९ ॥

न यत्र शोको न जरा न मृत्युर्नाधिर्न चोद्वेग ऋते कुतश्चित् ।

यश्चित्ततोदः क्रिययाऽनिदंविदां दुरन्तदुःखप्रभवानुदर्शनात् ॥ ३० ॥

तात्पर्यम्

ऋते सत्यलोके । अनिदंविदाम् अब्रह्मविदाम् । दुरन्तदुःखं च प्रभवश्च । ‘सर्वदुःखविहीना ये मुक्ताः प्रायस्तु तादृशाः । अमुक्तास्तु जनाद्येषु विशेषेण तु सत्यगा’ इति वाराहे ॥ विष्णोर्लोकं तदैवैके यान्ति कालान्तरे परे । आज्ञयैव हरेः केचिदपूर्तेः केचिदञ्जसा । विहृत्यैवान्यलोकेषु मुच्यन्ते ब्रह्मणा सहे’ति वामने ॥ ३० ॥

पदरत्नावली

सत्यलोकस्य इतरलोकेभ्यो वैशिष्ट्यमाह- न यत्रेति ॥ यत्र ऋते सत्यलोके शोकादयो न सन्ति । ‘आधिस्तु व्यसने चित्ते दुःखेऽधिष्ठानबन्धयोः’ इति व्यसनम् आधिरत्रोच्यते । यत्र अनिदंविदाम् अब्रह्मविदां क्रियया दुःखस्य प्रभवस्य जननादिलक्षणस्य च अनुदर्शनाज् जनस्य यश्चि-त्ततोदः सोऽपि नास्ति तं सत्यलोकमाप्नोतीति पूर्वेणान्वयः । जनादिलोकापेक्षया सत्यलोकस्य वैशिष्ट्यम् । न तु मुक्त्यविशेषात् । तदुक्तम्- ‘सर्वदुःखविहीना ये मुक्ताः प्रायस्तु तादृशाः । अमुक्तास्तु जनाद्येषु विशेषेण तु सत्यगाः ॥’ इति । ननु यदि ब्रह्मणा सहैव मुक्तिः सर्वेषां तर्हि ततः पूर्वमायासेन साधनसामग्रीसम्पादनं व्यर्थम् इति चेन्न योग्यताबाहुविध्यान् मुक्तिप्राप्तेरपि बाहुविध्यात् । तदुक्तं ‘विष्णोर्लोकं तदैवैके यान्ति कालान्तरे परे । आज्ञयैव हरेः केचिदपूर्तेः केचिदञ्जसा । विहृत्यैवान्यलोकेषु मुच्यन्ते ब्रह्मणा सह’ इति ॥ ३० ॥

प्रकाशिका

तदेवाह ॥ न यत्रेति ॥ अत्र ऋत इत्येतदनूद्य तस्य विनेत्यर्थेऽन्व-याद्यभावाद्विवक्षितार्थमाह ॥ ऋते सत्यलोक इति ॥ ऋतशब्दस्य सत्यशब्दपर्यायत्वादिति भावः । अनिदंविदामित्येतदनूद्येदंशब्दपरामर्शं दर्शयन्व्याचष्टे ॥ अब्रह्मविदामिति ॥ तथा चातिसामीप्या-द्ब्रह्मेदंशब्देनोच्यते परामृश्यते । तद्विदो न भवन्तीत्यनिदंविदस्तेषामित्यर्थः । दुरन्तदुःखप्रभवानु-दर्शनादित्यत्र दुरन्तदुःखस्य प्रभव इति षष्ठीतत्पुरुषाश्रयणे दुःखोत्पत्तिदर्शनस्यैव चित्ततोदहेतुत्वं प्राप्नोति न दुःखदर्शनस्यातोऽत्र द्वन्द्व एव विवक्षित इत्याह ॥ दुरन्तदुःखं चेति ॥ ननु सर्वात्मना शोकराहित्यं मुक्तानामसाधारणं प्रसिद्धम् । तत्कथं सत्यलोकस्थानाममुक्तानामुक्तमित्यत आह ॥ सर्वेति ॥ जनाद्येषु लोकेषु स्थिता अमुक्ताः प्रायस्तु तादृशाः । सर्वदुःखविहीना एव । सत्यगाः सत्यलोकस्था अमुक्तास्तु विशेषेण जनादिलोकस्थामुक्तापेक्षया विशेषेण तादृशा इति सम्बन्धः । तथा च मूले न यत्रेत्यादिना यच्छोकराहित्यं सत्यलोकस्थानामुक्तं तन्न सर्वात्मना किन्तु जनादिलोकस्थितान्मुक्तानपेक्ष्यैवेत्युक्तं भवति ॥ ततश्चेयं मूलयोजना । यत्र ऋते सत्यलोके । आधिर्मनोव्यथा यत्रानिदंविदामब्रह्मज्ञानिनां क्रियया काम्यनिषिद्धादिरूपया दुःखस्य प्रभवस्य नानायोनिषु जननस्य चानुदर्शनाद्वारं वारं दर्शनात् । यश्चित्ततोदो मनःखेदविशेषः सोऽपि नास्ति । तत्पारमेष्ठ्यमिति पूर्वेणान्वय इति । पवनान्तरात्मे-त्यादावप्रतीकालम्बनानां विष्णुलोकप्राप्तिरुक्ता । साऽपि किं तेषां सर्वेषामप्युत्क्रान्त्यनन्तरमेव भवतीति जिज्ञासायां तत्र विशेषं दर्शयितुं पुराणवाक्यं पठति ॥ विष्णोर्लोकमिति ॥ तदैवोत्क्रान्त्यनन्तरमेव । एके अत्यन्तं हरिप्रीतिविषया अप्रतीकालम्बनाः । परेऽतादृशाः ।

अप्रतीकालम्बनाः । एतेऽपि द्विविधाः । अञ्जसा साधनपूर्तिमन्तस्तदभाववन्तश्चेति । तत्राद्यानां कालान्तरे विष्णुलोकगमने निमित्तमाह ॥ आज्ञयैवेति ॥ एतेऽस्मिन्काले मल्लोकमायान्त्विति हरेराज्ञयै-वेत्यर्थः । न तु साधनपूर्त्यभावेनेत्येवकारार्थः । द्वितीयानामपि तदाह ॥ अञ्जसाऽपूर्तेरिति ॥ कालान्तरे यान्ति चेत्तावत्पर्यन्तं ते कुत्र वसन्तीत्यपेक्षायामुक्तम् ॥ विहृत्यैवेति ॥ परेऽन्यलोकेष्वेव विहृत्य कालान्तरे यान्तीति सम्बन्धः । न चाप्रतीकालम्बनेषु अयं विभागः कुतो व्याख्येय इति शङ्क्यम् । तदितरेषां प्रतीकालम्बनानां महरादिलोकगतानां वा प्रलयात्पूर्वं विष्णुलोकप्राप्तेः शास्त्रविरुद्धत्वात् । तत्र ह्येवमुक्तम् । कार्यब्रह्मप्राप्तानां प्रतीकालम्बनानां परब्रह्मप्राप्त्यभावे ब्रह्मविदाप्नोति परमिति श्रुतिविरोध इत्याशङ्कायां सामीप्यात्तु तद्व्यपदेश इति सूत्रेण समाहितायां कदेति प्रश्ने कार्यात्यये तदध्यक्षेण सहातः परमभिधानादिति सूत्रेण प्रलयकाल इत्युत्तरमुक्तम् । तेन ज्ञायते न प्रलयात्पूर्वं तेषां विष्णुलोक-प्राप्तिरस्तीति शास्त्राभिप्राय इति । एवं यदा सत्यलोकगतानां प्रलयात्पूर्वं विष्णुलोकाप्राप्तिस्तदा का प्रत्याशा महरादिलोकगतानां तदा तत्प्राप्तिरिति । अत उक्तं युक्तमित्यवधेयम् । कालान्तर इत्यस्य प्रलयकाल इत्यर्थत्वे तु मुच्यन्ते ब्रह्मणा सहेत्यनेन पुनरुक्तिरिति ध्येयम् । तर्हि तेषामन्येषां वा ज्ञानिनां कदा प्रकृतिबन्धापगमरूपा मुक्तिरित्यपेक्षायामुच्यते ॥ ब्रह्मणा सहेति ॥ महत्तत्त्वाभिमानिना ब्रह्मणा सहेत्यर्थः । अनेन वक्ष्यमाणा ब्रह्मणा सह मुक्तिरपि प्रमापितेति ज्ञातव्यम् । एतदर्थमेवास्य वाक्यस्यात्रोदाहरणं कृतम् । अन्यथा पवनान्तरात्मेत्येतद्वाख्यावसर एव तत्कार्यमिति ॥ ३० ॥

ततो विशेषं प्रतिपद्य निर्भयस्तेनात्मनाऽपोऽनलमूधर्न च त्वरन् ।

ज्योतिर्मयो वायुमुपेत्य काले वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ ३१ ॥

तात्पर्यम्

ब्रह्मणा सह । विशेषं पृथिवीम् । तेनात्मना पृथिव्यात्मना । ज्योतिर्मय अग्निप्रधानः । ‘आकाशवत्सर्वगतश्च नित्य’ इति परमात्मसदृशं किञ्चित् । ‘ज्ञानिनः प्रलये सर्वे ब्रह्मणा सह पार्थिवम् । परमात्मानमाविश्य वारिस्थं तत्समन्विताः । अग्निस्थं तद्युताश्चैव तेन नीताश्च वायुगम् । नभोगतं तेन नीता मनःस्थं तद्युतास्तथा । ततो बुद्धिस्थमीशेशं ततोऽहङ्कारगं हरिम् । ततो विज्ञाननामानं महत्तत्त्वगतं हरिम् । तत आनन्दनामानमव्यक्तस्थं जनार्दनम् । प्राप्य नावृत्तिमायान्ति शान्ति(ती)भूता निरामयाः ॥ येषां पदान्तरापेक्षा वाय्वादीनां महात्मनाम् । आवृत्य ते पुनर्यान्ति ज्ञानिनोऽपि निरामयाः । अनावृत्तिमसंमूढाः परानन्दैकभागिन’ इति ब्रह्मतर्के ॥ ‘भूम्यब्गमन्ननामानं प्राणमग्न्यादिसंस्थितम् । मानसं मन आदिस्थं विज्ञानं महति स्थितम् । आनन्दमव्यक्तगतं क्रमशो यान्ति देवताः । ब्रह्माद्याः केचिदेवात्र तदन्ये क्रमशोऽपरान्(क्रमशः परान्)’इति बृहत्तन्त्रे ॥ ३१ ॥

पदरत्नावली

एवं देवयानेन गत्वा सत्यलोके परब्रह्मलोके च स्थितानां ज्ञानिनां मोक्षं वक्तुं देवमुक्तिप्रकारमाह- तत इति ॥ प्रतीकालम्बनाप्रतीकालम्बनसंज्ञः सः ज्ञानिसङ्घः ब्रह्मप्रलये स्वबिम्बं प्रविष्टो गरुडशेषलक्षणमार्गद्वयेन वाणीं प्रविश्य तया भौतिकशरीरं ततस् तेन ब्रह्मणा सह विशेषं पृथिवीं प्रतिपद्य तेन पृथिव्यात्मना सह अपः प्रतिपद्य तेनाबात्मना अनलमूधर्ि्न प्रतिपद्य तेन ज्योतिर्मयो ऽग्निप्रधानो भूत्वा वायुम् उपेत्य मुक्तिकाले तेन वाय्वात्मना । आत्मनः हरेर्लिङ्गम् आकाशवद्व्याप्तं नित्यञ्चेति बृहन् महत् खं प्रविशतीत्यन्वयः । निर्भयः संसारभयान्मुक्तः । अत एव त्वरन् त्वरमाणः । प्रलयकालीनमार्गत्वात् । अत्रेदं तात्पर्यं चशब्दादवगन्तव्यम् । तथाहि- विशेषाख्याण्डे स्थिते विशेषनामि्न विरिञ्चे स्थितं वैराजाख्यं हरिं पुनस् तद्विगुणाण्डकटाहात्मकविशेषाख्यपृथिव्यां स्थिते विरिञ्चे स्थितम् अन्ननामानं हरिं तेन अन्ननाम्ना हरिणा अप्सु स्थिते चतुर्मुखे स्थितम् अन्नाख्यं हरिं तेनान्नेन विष्णुना तेजोगतविरिञ्चस्थं प्राणनामानं हरिं तेनाग्निगतेन हरिणा वायुस्थितचतुराननस्थितं प्राणाख्यं प्राप्य तेन वायुस्थितविरिञ्चान्तर्यामिणा आकाशस्थितविरिञ्चस्थं प्राणाख्यहरिं प्रविशतीति । पृथिव्यादिकार्याणां स्वस्वकार्येषु अबादिप्रधानान्तेषु लयः । तदभिमानिदेवताशरीराणाञ्च । तत्र विरिञ्चकेशवयोस् तत्तत्पदार्थस्थितस्वस्वरूपैरेकीभावो दीपानां दीपान्तरैरिव । अन्येषां द्वारमात्रमिति । ‘ज्ञानिनः प्रलये सर्वे ब्रह्मणा सह पार्थिवम् । भूम्यब्गमन्ननामानं प्राणमग्न्यादिसंस्थितमि’त्यादिवाक्यद्वयेन चशब्दगृहीतेन निष्प्रमाणमिति शङ्का निरस्तेति ज्ञातव्यम् ॥ ३१ ॥

प्रकाशिका

इदानीं सत्यलोके विष्णुलोके च स्थितानां ज्ञानिनां महत्तत्त्वाभिमानिना ब्रह्मणा सह मुक्तिं वक्तुं पृथिव्यादिगुणत्रयान्तानां तत्वानां सृष्टिक्रमवैपरीत्येन लयं तदभिमानिनां स्वोत्तमेषु देहलयं च सूचयन् ज्ञानिसङ्घस्य क्रमेण पृथिव्यादिप्राप्तिं तावदाह ॥ ततो विशेषमित्यादिना ॥ अत्र ज्ञानिसङ्घः स्वयमेव गच्छतीति प्रतीयते । तद्वक्ष्यमाणप्रमाणविरुद्धम् । अतोऽत्रापेक्षितं पूरयति ॥ ब्रह्मणा सहेति ॥ अत्र ब्रह्मपदं तदितरदेवोपलक्षकम् । ततश्च ब्रह्मादिदेवैः सहेत्यर्थः ॥ अयमत्र सम्प्रदायः ॥ सङ्कर्षणमुखाग्निना चतुर्दशभुवनानां नाशे तल्लोकपालानां ब्रह्मादिदेवानां देहान्नृसिंहो नाशयति । ‘ब्रह्म चर्मशिरःपट्टी दिक्पालोर्ध्वाङ्गभूषणः । द्वादशार्कशिरोदामा रुद्रशीर्षैकनूपुर’ इत्यादि वचनात् । ततो ब्रह्मादयः सर्वेऽपि देवा लिङ्गशरीरैरेव ब्रह्माण्डबहिःस्थितान् स्वांशिनः प्रतियान्तीति ॥ अत उपलक्षणतया व्याख्यानं युक्तमिति ध्येयम् । विशेषशब्दमनूद्य तस्यानेकार्थत्वात्प्रकृते विवक्षितमर्थं दर्शयति ॥ विशेषं पृथिवीमिति ॥ शब्दादीनां पञ्चानामप्यत्र सत्वात्पृथिवी विशेषशब्दवाच्येत्य-न्यत्रोक्तत्वादिति भावः । अत्र पृथिवीशब्देन शतकोटियोजनपरिमितो ब्रह्माण्डकटाह एवोच्यत इत्येके । अन्ये तु पञ्चाशत्कोटियोजनपरिमित एव ब्रह्माण्डकटाहः स च स्वान्तर्गतभुवनैः सह सङ्कर्षणमुखाग्निनैव दग्धस्तस्य दार्ढ्याय लेपितो यः पञ्चाशत्कोटियोजनपरिमितो भाग उर्वरितः स एव पृथिवीशब्दवाच्यः । सूक्ष्मत्वाद्ब्रह्मणोऽण्डं द्विगुणेति तृतीये वक्ष्यमाणत्वादित्याहुः । तेनात्मनेत्यत्र परामर्शविषयस्यात्मनः प्रागनुक्तत्वात्किं परामृश्यत इत्यतस्तदनूद्य व्याचष्टे ॥ तेनेति ॥ पृथिव्यात्मना पृथिव्यन्तर्यामिणेत्यर्थः । अत्र पृथिव्यादिभूतवाचकशब्दैस्तत्तद्भूतान्तर्नियामको हरिरेव मुख्यवाच्यतया विवक्षितः । तथा च विशेषशब्देनैव पृथिव्यन्तर्याम्यपि तच्छब्दवाच्यतया प्रकृत इति तस्य तेनेति परामर्शो युक्त इति भावः । ज्योतिर्मय इत्येतदनूद्य ज्योतिःस्वरूप इति प्रतीतिवारणाय व्याचष्टे ॥ ज्योतिर्मय इति ॥ तथा च ज्योतिरग्निभूतान्तर्यामी विष्णुः प्रधानो वायुप्रापको यस्य स ज्योतिर्मय इति मूलार्थ इति भावः । खं बृहदात्मलिङ्गमित्यत्र खशब्दवाच्यस्य भूताकाशस्यात्मलिङ्गत्वमुच्यते । तन्न, धूमादिवद्व्याप्तिबलेन जीवगमकत्वादिरूपं विवक्षितम् । असंभवात् तद्व्याचष्टे ॥ आकाशवदिति ॥ परमात्मसदृशं परमात्मनो दृष्टान्तरूपमित्यर्थः । तथा च मूले आत्मशब्दः परमात्मपरो लिङ्गशब्दश्च दृष्टान्ततया ज्ञापकमात्रपर इति भावः । कस्मिन्विषये आकाशस्य दृष्टान्तत्वमित्याशङ्कायां तद्दर्शयितुमुक्तार्थे आकाशवदिति श्रुतिरुदाहृतेति ज्ञातव्यम् । ननु भूताकाशस्यासर्वगतत्वादनित्यत्वाच्च कथं सर्वगतत्वेन नित्यत्वेन च परमात्मसादृश्यमित्यत उक्तम् ॥ किञ्चिदिति ॥ तथा च कतिपयसर्वगतत्वेन कतिपयकालसम्बद्धत्वेन च सादृश्यमभिप्रेत्य भूताकाशः परमात्मसर्वगतत्वे नित्यत्वे च बुद्ध्यारोहार्थं दृष्टान्ततयैवोपात्तः श्रुत्यादाविति भावः ।

अप्रतिपत्तिविप्रतिपत्तिनिरासाय ततो विशेषमित्यारभ्य नेह विषज्जतेऽङ्गेत्यन्तं सार्धश्लोकचतुष्टयं प्रमाणेनैव व्याख्याति ॥ ज्ञानिनः प्रलय इत्यादिना ॥ सर्व इति ॥ महरादिवैकुण्ठान्तलोकस्थाः सर्व इत्यर्थः । पार्थिवं पृथिव्यन्तर्गतम् । अनेन विशेषमित्येतद्विवृतम् । तत्समन्विता वारिस्थमित्यनेन तेनात्मनाप इत्येतद्व्याख्यातम् । तद्युतास्तेन वारिस्थेन युताः । अग्निस्थमित्यनेन तेनात्मनानलमूधर्ि्न चेत्ये-तद्विवृतम् । तेनाग्निस्थेन वायुगं नीताश्चेत्यनेन ज्योतिर्मयो वायुमित्येतदुक्तार्थम् । तेन वायुस्थेन नभोगतं नीता इत्यनेन वाय्वात्मना खमित्येतद्विवृतम् । तद्युतास्तेन नभोगतेन युताः, मनस्थमित्यनेन स भगवाननादिर्मनोमयमित्येतद्विवृतम् । तद्युता इत्येतद्वक्ष्यमाणेष्वपि सम्बध्यते । पूर्वपूर्वतत्वस्थेन युता इत्यर्थः । बुद्धिस्थमित्यनेन मत्या सहेत्यनुवादलब्धस्य मतिमित्यस्य तात्पर्यमुक्तम् । अत्र नभोगतेन बुद्धिस्थं नीतास्तत्तद्युता मनःस्थमिति व्याख्येयम् । स्ववचनेन व्याख्यावसरे मतिस्थेन तेनेति बुद्धिस्थस्य मनःस्थापेक्षया पूर्वमुक्तत्वात् । अहङ्कारगं हरिमित्यनेन विकार्यमिति व्याख्यातम् । ततो विज्ञाननामान-मित्यनेन विज्ञानतत्त्वमित्येतदुक्तार्थम् । तत आनन्दनामानमित्यनेनानन्दमित्येतद्विवृतम् । नावृत्ति-मायान्तीत्यनेन नेह विषज्जतेऽङ्ग इत्येतदुक्तार्थम् । प्रायेण नावृत्तिमुपैति योगीति यत्पूर्वश्लोके प्रायेणेत्युक्तं तद्व्याख्यानं येषां पदान्तरापेक्षेत्यादि । वाय्वादीनामित्यादिपदेन भारतीरुद्रोमाणां ग्रहणम् । पदान्तरापेक्षा ब्रह्मसरस्वतीशेषवारुणीनां पदापेक्षेत्यर्थः ।

ननु तैत्तरीयोपनिषद्यस्माल्लोकात्प्रेत्यैतमन्नमयमात्मानमुपसङ्क्रामतीत्यादिनाऽन्नमयादिपञ्चरूपभगव-त्प्राप्तिर्ज्ञानिनां फलत्वेनोक्ता । अत्र तु पृथिव्यादितत्त्वस्थभगवत्प्राप्तिस्तथोच्यते । ततो विरोध इत्यतोऽत्रापि तत्प्राप्तिरुक्तैवेति प्रमाणेन दर्शयति ॥ भूम्यब्गमिति ॥ अन्ननामानमन्नमयनामानम् । एवमग्रेऽपि मयटामध्याहारः । अग्न्यादीत्यत्रादिपदेन वाय्वादिबुध्यन्तस्थानां ग्रहणम् । मानसं मनोमयम् । मनआदीत्यत्रादिपदेनाहङ्कारतत्त्वस्य ग्रहणम् । ब्रह्माद्याः केचिदेवेत्यस्यायमर्थः । न साक्षादव्यक्त-गतानन्दमयप्राप्तिः सर्वदेवानां किन्तु ब्रह्मसरस्वतीवायुभारतीनामेव । इतरेषां तु स्वोत्तमप्रवेशद्वारा महत्तत्त्वगतं ब्रह्माणं प्राप्तानां तद्वारैवेति । केचिदेवेत्येवकारव्यावृत्यर्थं दर्शयति ॥ अन्ये क्रमशः परानिति ॥ परान्प्राणमयादीनित्यर्थः ॥ अयं भावः ॥ भूम्यबभिमानिनो देवाः प्राणमयमेव साक्षा-द्यान्ति । अग्निवाय्वाद्यभिमानिनस्तु मनोमयमेव । मनआद्यभिमानिनस्तु विज्ञानमयमेव न साक्षादानन्दमयं कोऽपीति । ततश्च ततो विशेषं प्रतिपद्येत्यादि सार्धश्लोकचतुष्टयस्येयमक्षरयोजना । महरादिवैकुण्ठान्त-लोकस्थः सर्वोऽपि ज्ञानिसङ्घो ब्रह्मादिदेवैः सह विशेषं विशेषनामानं पृथिव्यन्तर्गतमन्नमयमनिरुद्धं प्रतिपद्य निर्भयः प्रलयकालकृतभयरहितस्तेनात्मना पृथिव्यन्तर्यामिणा सहाब्नामकमन्नमयमेव प्रतिपद्यते । तेनात्मनाऽबन्तर्गतेनान्नमयेन सहानलमूधर्ि्न अनलानामग्नीनां श्रेष्ठेऽग्नौ तन्नामके प्राणमये प्रद्युम्ने प्रतिपद्य त्वरन् मार्गत्वात्त्वरमाणो ज्योतिर्मयो ज्योतिरग्न्यन्तर्गतो विष्णुर् मयः प्रधानः वायुं प्रति गमने यस्य स तथा । वायुं वायुशब्दवाच्यं वाय्वन्तर्गतं प्राणमयमेवोपेत्य काले तत्त्वनाशयोग्यकाले । इदमुक्तवक्ष्य-माणशेषतया योज्यम् । वाय्वात्मना वाय्वन्तर्गतेन प्राणमयेन सहात्मलिङ्गमात्मनो हरेर्व्याप्तत्वे नित्यत्वे चोनदृष्टान्ततया ज्ञापकम् । बृहदितरभूतापेक्षया महत् । खं खशब्दवाच्यं प्राणमयमेव । उपैतीति शेषः

॥ ३१ ॥

घ्राणेन गन्धं रसनेन वै रसं रूपन्तु दृष्ट्या स्पर्शं त्वचैव ।

श्रोत्रेण चोपेत्य नभोगुणं तत्प्रायेण नावृत्तिमुपैति योगी ॥ ३२ ॥

तात्पर्यम्

‘पञ्चेन्द्रियैर्ये विषया एष्टव्याः सर्वतो वराः । मानसांश्चाखिलान् प्राप्य मुक्तौ मोदन्ति देवताः । तथोद्रिक्तनिजानन्दा नित्यानन्दा असंवृता’ इति षाड्गुण्ये ॥ ३२ ॥

पदरत्नावली

इदानीं पञ्चतन्मात्राप्रलयप्रकारमाह- घ्राणेनेति ॥ घ्राणेन्द्रियाद्यधिष्ठातृविरिञ्चस्थेन हरिणा गन्धतन्मात्राद्यधिष्ठातृविरिञ्चस्थितं हरिम् उपेत्य योगी पुनरावृत्तिं नोपैतीत्यन्वयः । तत्र वाय्वादीनां पुनरावृत्तिसद्भावात् प्रायेणेत्युक्तम् । यद्वा एवमुक्तवक्ष्यमाणप्रकारेण मुक्तानां तेषां ज्ञानिनां भोगप्रकारमाह- घ्राणेनेति ॥ एवं मुक्तः केवलचिदानन्दैकदेहो योगी स ज्ञानिसङ्घस् तादृशैर् इन्द्रियैर् घ्राणादिभिर् अत्युत्तमान् गन्धादीन् पञ्चविषयान् उपेत्य श्वेतद्वीपादिस्थानेष्वाश्रितः प्रलयेऽपि न पुनरावृत्तिमुपैतीत्यन्वयः । वै इत्यनेन ‘पञ्चेन्द्रियैर्ये विषया एष्टव्याः सर्वतो वराः’ इत्यादिमानसिद्धिं द्योतयति । इयमेव मुक्तिर् नाद्वैतवादिकथितेत्येवशब्दः । तुना ‘मग्नस्य हि परेऽज्ञाने किंन्न दुःखतरं भवेत्’ इति मानं सूचयति ॥ ३२ ॥

प्रकाशिका

इदानीं तामसाहङ्कारकार्याणां भूतसूक्ष्माणां तैजसाहङ्कारकार्याणामिन्द्रियाणां च लयं दर्शयन्मुच्यमानस्य ज्ञानिसङ्घस्य तत्काले दिव्यविषयभोगोऽप्यस्तीत्याह ॥ घ्राणेन गन्धमिति ॥ लयकथनपक्षे वाक्यद्वयमेतत् । तथा हि योगी पृथिव्यनन्तरं गन्धं, अबनन्तरं रसं, अग्न्यनन्तरं रूपं, वाय्वनन्तरं स्पर्शं, आकाशानन्तरं तन्नभोगुणं शब्दं क्रमेणोपैति । काल इत्यस्य सर्वत्रानुवर्तमानत्वात् । एवं तामसाहङ्कारकार्यनाशानन्तरं तैजसाहङ्कारकार्येण घ्राणेन रसनेन दृष्ट्या चक्षुषा त्वचा श्रोत्रेण, चशब्दात्कर्मेन्द्रियपञ्चकेन सह घ्राणादिनामकैर् घ्राणाद्यन्तर्गतहरिमूर्तिभिः सहेति यावत् । तन्मत्या सहेति वक्ष्यमाणं तैजसाहङ्कारकार्ये बुद्धितत्त्वस्थप्राणमयमुपैति । उपेत्य च प्रायेणावृत्तिं नोपैति । वाय्वादि-व्यावृत्त्यर्थं प्रायेणेत्युक्तम् । भोगपक्षे तु घ्राणादीन्द्रियैर्गन्धादीन्विषयानुपेत्यानुभूय प्रायेणावृत्तिं नोपैतीति यथास्थितमेव व्याख्येयम् । अत्र प्रागुक्तनिर्भयत्वोपपादनाय मार्गमध्ये पुनरावृत्तिशून्यभोगोक्तिरिति ज्ञातव्यम् । ज्ञानिलयपरतया योजना भूतसूक्ष्मेन्द्रियसन्निकर्षादित्युभयत्रानुवादात् सूचितेति ज्ञातव्या ।

पञ्चमात्राणामिन्द्रियाणां च लयप्रतिपादनपरस्य घ्राणेन गन्धमिति श्लोकस्य मुक्तभोगपरत्वमप्यस्तीति भावेन तत्र प्रमाणमाह ॥ पञ्चेन्द्रियैरिति ॥ अखिलान्कर्मेन्द्रियविषयांश्चेत्यर्थः । तथा च मूले चशब्देनैते ग्राह्या इति भावः । मानसान्सङ्कल्पमात्रसिद्धान् ॥ ३२ ॥

स भूतसूक्ष्मेन्द्रियसन्निकर्षात् सनातनोऽसौ भगवाननादिः ।

मनोमयं देवमयं विकार्यं संसाद्य मत्या सह तेन याति ॥ ३३ ॥

तात्पर्यम्

भूतसूक्ष्मेन्द्रियैश्च सह अनादिर्भगवानाकाशगो मनोमयं याति । नादवत्त्वात्स-नातनः । ‘नादेन तेन महता सनातन इति स्मृत’ इति मोक्षधर्मे ॥ विविधकार्ययुक्तं विकार्यम् । देवमयं देवप्रधानम् । ‘मनःस्थितो हरिर्नित्यं सर्वदेवेषु संस्थितः । देवप्रधानकाल्लोकान्करो-त्यनुगतः सदे’ति वाराहे ॥ भूतसूक्ष्माणि पञ्चभूतानि जीवाश्च । ‘पञ्चभूतैश्च शब्दाद्यैरिन्द्रियै-र्जीवराशिभिः । युक्त आकाशगो विष्णुर्मनःस्थमुपगच्छती’ति वामने । योऽसावनादिर्मनोमय-स्तमिति वा । विपर्ययश्चेत्तस्यैव गन्तृत्वमिति ज्ञापयितुम् । मतिस्थेन तेन मनःस्थेन च सह विज्ञानतत्वं याति ॥ ३३ ॥

पदरत्नावली

उक्तमुक्तिशेषमाह- स इति ॥ भूतसूक्ष्मेन्द्रियसन्निकर्षाद् भूतसूक्ष्मैः पञ्चभूतैः शब्दादितन्मात्राभिस् तथा भूतसूक्ष्मैर् जीवराशिभिश्च इन्द्रियैश्च तदभिमानिभिश्च सहितो ऽनादिः सनातनः सोऽसौ भगवान् विकार्यं विविधकार्ययुक्तं देवमयं देवप्रधानं मनोमयं मनस्तत्वस्थेन्द्रस्थित-विरिञ्चगतमानसनामानं स्वात्मानं याति इत्यन्वयः । नातेन नादेन सहितत्वात् सनातनः । ‘नादेन तेन महता सनातन इति स्मृत’ इति । ‘मनःस्थितो हरिर्नित्यं सर्वदेवेषु संस्थितः । देवप्रधानकान् लोकान् करोत्यनुगतः सदा’ ॥ इति च । योऽसावनादिर्मनोमयः विष्णुस् तं यातीति वा । उभयथापि तस्यैव गन्तृत्वं गम्यत्वञ्च ज्ञातव्यम् । मनःस्थं मानसनामानं स्वात्मानं संसाद्य स हरिर् उमास्थितविरिञ्चस्थित-स्वात्मद्वारा मतिशब्दवाच्यम् अहङ्कारगतवाणीस्थविरिञ्चस्थं स्वात्मानं याति । मत्या मतिस्थेन तेन मनःस्थेन च सह । विज्ञानतत्वं विज्ञाननामानं विज्ञानतत्वाख्यवाणीगतविरिञ्चस्थं स्वात्मानं याति

॥ ३३ ॥

प्रकाशिका

तस्य पुनर्गन्तव्यमाह ॥ स भूतसूक्ष्मेति ॥ स बुद्धिस्थितो ज्ञानिसङ्घो, भूत-सूक्ष्मेन्द्रियसन्निकर्षाद् भूतानि पृथिव्यादीनि भूतसूक्ष्माणि गन्धादीनि तत्त्वाभिमानिजीवाश्चेन्द्रियाणि च तेषां सन्निकर्षं प्राप्य । तत्तदन्तर्गतभगवत्सामीप्यं प्राप्येति यावत् । योऽसौ सनातनो नादनं वेदात्मकः शब्दस्तेन सहितः पदसमन्वयेन । तत्स्तुत्य इति यावत् । अनादिर्भगवान् वैकारिकाहङ्कारकार्य-मनस्तत्त्वस्थस्तं देवमयं वैकारिकाहङ्कारकार्यदेवा मयाः प्रधाना यस्मात्तम् । देवप्राधान्यप्रदमिति यावत् । मनोमयं मनोमयनामानं सङ्कर्षणं याति । अथवा सोऽसावाकाशादिबुद्ध्यन्ततत्त्वस्थितोऽनादिर्भगवान् भूतादिसन्निकर्षं प्राप्य मनोमयं यातीति योज्यम् । अत्र पूर्वप्रकृतं ज्ञानिसङ्घं परित्यज्य भगवतः परामर्शस्तस्यैव स्वातन्त्र्येण गन्तृत्वमिति सूचनायेति ध्येयम् । अनन्तरं मत्या बुद्धिस्थेन तेन मनःस्थेन च सह विकार्यं विविधकार्ययुक्तं मूलाहङ्कारान्तस्थं हरिं संसाद्य ।

भूतसूक्ष्मेन्द्रियसन्निकर्षादित्येतद् भूतानां सूक्ष्मेन्द्रियाणां च परस्परसम्बन्धादित्यन्यथाप्रतीतिवारणाय व्याचष्टे ॥ भूतसूक्ष्मेन्द्रियैश्चेति ॥ सन्निकर्षादित्यस्य तात्पर्यम् ॥ सहेति ॥ तथा च सन्निकर्षं प्राप्येति ल्यब्लोपनिमित्ता पञ्चमीति भावः । स इति न प्रकृतज्ञानिसङ्घपरामर्शः किं त्वाकाशगततया प्रकृतस्य विष्णोरेवेत्याशयेनाह ॥ अनादिरिति ॥ असावित्यस्यार्थः ॥ आकाशग इति ॥ अनादिशब्दागतार्थतया सनातनशब्दार्थमाह ॥ नादवत्वादिति ॥ नद शब्द इत्यस्माद्भावे ल्युटि कृते उपधावृद्धावनादेशे तृतीयोऽतिशय इति सूत्रादतिशयार्थे दकारस्य तकारे च नातनमिति भवति । नातनेन शब्देन सहितः सनातन इति निर्वचनमभिप्रेत्य तात्पर्यमात्रमिदमुक्तमिति ध्येयम् । तथा च तस्मिन्समये वेदरूप-शब्दैरतिशयेन स्तुत्य इति भावः । अत्र प्रमाणमाह ॥ नादेनेति ॥ महता महासमन्वयवतेत्यतिशय-प्रदर्शनम् । तेन तत्कालीनेन नादेन पदसमन्वयेन स्तुतिरूपवेदेन । सहित इति शेषः ।

विकार्यशब्दमहङ्कारतत्त्वपरतया व्याचष्टे ॥ विविधेति ॥ तादृशं चाहकङ्कारतत्त्वमेवेति भावः । देवमयमित्येतद्देवात्मकमिति प्रतीतिवारणाय व्याचष्टे ॥ देवमयमिति ॥ देवाः प्रधाना यस्मात्स देवप्रधानस्तमित्यर्थः । मनःस्थितस्य देवप्राधान्यप्रदत्वे प्रमाणमाह ॥ मनःस्थित इति ॥ अनुगतः लोकान्तर्गतः सन् लोका यथा देवैः प्रेर्याः स्युस्तथा करोतीत्यर्थः । भूतसूक्ष्मेन्द्रियेत्यत्र भूतादिशब्द-विवक्षितार्थमाह ॥ भूतेति ॥ भूतसूक्ष्माणि शब्दादीनि । जीवाश्चेत्यनन्तरं भूतसूक्ष्मशब्दवाच्या इति शेषः। तथा च भूतानि पञ्चभूतानि भूतसूक्ष्माणि शब्दादीनि जीवाश्चेति भूतशब्दस्यावृत्त्या योजनोक्तेति ज्ञातव्यम् । अत्र प्रमाणमाह ॥ पञ्चेति ॥ विष्णुरित्यनन्तरं मतिस्थमुपगम्येति शेषः । स भूतसूक्ष्मेत्यत्र प्रकृतज्ञानिसङ्घपरामर्शेऽपि न दोषः । सनातनोऽसौ भगवाननादिरित्यस्य कर्मविशेषणत्वेन कर्तृविशेषणत्वाभावादित्यभिप्रेत्य यत्तच्छब्दाध्याहारेण योजयति ॥ योऽसाविति ॥

ननु पूर्वयोजनायां स इति तच्छब्देन ज्ञानिसङ्घं परित्यज्याकाशगतविष्णोरेव परामर्शः किमर्थ इत्यतस्तत्प्रयोजनमाह ॥ विपर्ययश्चेदिति ॥ विपर्ययः कर्तृव्यत्यासः ॥ तस्यैवेति ॥ अत्र ज्ञानि-सङ्घमादाय भगवानेव गच्छतीति भगवतः स्वातन्त्र्यप्रदर्शनार्थं कर्तृतया प्रकृतज्ञानिसङ्घं परित्यज्याकाशगो भगवान् परामृष्ट इत्यर्थः । मत्या सह तेन यातीत्यत्र तेन मत्येति सामानाधिकरण्यं भिन्नलिङ्गयोरनु-पपन्नमतश्चशब्दाध्याहारेण योजयति ॥ मतिस्थेनेति ॥ ज्ञानिसङ्घ इति शेषः ॥ ३३ ॥

विज्ञानतत्वं गुणसन्निरोधं तेनात्मनात्मानमुपैति शा(न्त)न्तिम् ।

आनन्दमानन्दमयोऽवसाने सर्वात्मके ब्रह्मणि वासुदेवे

एतां गतिं भागवतो गतो यः स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३४ ॥

तात्पर्यम्

गुणसन्निरोधं निर्गुणं वासुदेवम् । वासुदेवे एतां गतिं गतो न विषज्जते । ‘वासुदेवाश्रिता देवा ब्रह्माद्या मुक्तबन्धनाः । भेददृष्ट्याभिमानेन चावृत्तिं नैव यान्ति ते । भुञ्जते तु पृथग्भोगान्नानन्दं तत्स्वरूपकम् । स्वरूपं च पृथक्तेषामाविष्टग्रहवद्भवेदि’ति ब्रह्माण्डे ॥३४॥

पदरत्नावली

तेन विज्ञानतत्वगतेन हरिणा गुणसन्निरोधं सत्वादिगुणविधुरं सर्वमूलकारण-महत्तत्वाख्यविरिञ्चगतं विज्ञाननामानम् आत्मानं याति । एवं सर्वान्तर्यामिरूपैरेकीभूतः सः महत्तत्वान्त-र्यामी विज्ञाननामा हरिस् तेनात्मना विरिञ्चेन सह शान्तिं चित्प्रकृतिस्थितम् आनन्दनामानं स्वात्मानं याति । स आनन्दमयः पूर्णानन्द आनन्दनामा महत्तत्वगतो विष्णुः श्रियाऽनुज्ञातं ब्रह्माणमादाय अवसाने द्विपरार्धावसाने सर्वात्मके सर्वान्तर्यामिणि गुणबृंहिते परिपूर्णगुणे ब्रह्मणि वासुदेवे वासुदेवाख्ये विहरति । जीवसङ्घस्तु स्वस्वयोग्यतानुसारेण बृंहितत्वाद् ब्रह्माख्ये स्वमूलरूपे विहरतीति शेषः । इत्येषा देवानां मुक्तिरिति भावः । एवं स्वस्वबिम्बद्वारेण हरिं प्रविष्टानां मुक्तानां पुनरावृत्तिर्नास्तीत्याह- वासुदेव इति ॥ यो भागवत आत्यन्तिकभक्तः वासुदेवे एतां सायुज्याख्यां गतिं मुक्तिं गतः सः ब्रह्मादिसङ्घः पुन इह संसारे न विषज्जते । सामान्यविषयो वा इत्यन्वयः । वैशब्देन नानन्दसङ्करः नापि ब्रह्मणा परस्परञ्चैक्यं समुद्रे प्रविष्टनदीवदित्यादि दर्शयति । ननु इत आनन्दातिशये, नेह विषज्जत इति इदं युक्तम् । तदभावे प्रशंसामात्रमिदं किं न स्यादित्येतच्चोद्यं ‘वासुदेवाश्रिता देवा ब्रह्माद्या मुक्तबन्धना’ इत्यादिना परिहर्तव्यम् ॥ ३४ ॥

प्रकाशिका

तेनाहङ्कारस्थेन । विज्ञानतत्त्वं महत्तत्त्वगतं विज्ञानमयनामानं, गुणसन्निरोधं गुणानां सत्त्वादीनां सम्यक् निरोधोऽपगमो यस्मात्स तथा निर्गुणं वासुदेवमुपैति । तेनात्मना महत्तत्त्वान्तर्यामिणा शान्तमव्यक्तसंज्ञकं गुणत्रयगतमानन्दमानन्दमयनामानमात्मानं नारायणमुपैति । आनन्दमयः पूर्णानन्दोऽव्यक्तगतो नारायणो ब्रह्मादिज्ञानिसङ्घमादायावसाने द्विपरार्धावसाने सर्वात्मकं सर्वेषामात्मनां भक्तजीवानां कं स्वरूपसुखं यस्मात्तम् । मुक्तिप्रदमिति यावत् । गुणसन्निरोधं निर्गुणं चतुर्व्यूहगतं वासुदेवमुपैति । अयमेव हि मुक्तिप्रदः । यथाहुः ॥ वासुदेवनामा बभूव निजमुक्ति-पदप्रदातेति ॥ विज्ञानतत्त्वस्थतयोक्तो विज्ञानमयनामा वासुदेवस्तु पञ्चव्यूहगत इति ध्येयम् । पूर्वं भोगरूपमुक्तेरपुनरावृत्तिरुक्ता । इदानीं दुःखनिवृत्तिरूपमुक्तेरपि तामाह ॥ सर्वात्मके ब्रह्मणीति ॥ सर्वात्मके ब्रह्मणि परिपूर्णे वासुदेवे । गुणसन्निरोधमित्येतदप्रतीत्या व्याचष्टे ॥ गुणसन्निरोधमिति ॥ गुणानां सम्यक् निरोधोऽपगमो यस्य स तथोक्तस्तम् । तस्य तात्पर्यम् ॥ निर्गुणमिति ॥ गुणत्रय-स्वीकारशून्यमित्यर्थः । अनिरुद्धादयो हि सृष्ट्याद्यर्थं गुणत्रयस्वीकारवन्तोऽयं तु न तादृश इति भावः । वासुदेवे इति सप्तम्यन्तस्यान्वयाप्रतीतेरुत्तरार्धेनान्वयं दर्शयति ॥ वासुदेवे एतां गतिं गत इति ॥ गतिं सायुज्यरूपां मुक्तिम् । अत्र प्रमाणमाह ॥ वासुदेवाश्रिता इति ॥ भेददृष्ट्या पञ्चभेदज्ञानेनाभिमानेन स्वस्वयोग्यज्ञानेन च मुक्तबन्धनाः सन्तो वासुदेवाश्रिता एते आवृत्तिं नैव यान्तीति सम्बन्धः । पृथक् भोगान् बाह्यभोगान् ।

ननु कथं तर्हि सायुज्यं तेषामित्यतः सायुज्यशब्दार्थमुपपादयति ॥ स्वरूपं चेति ॥ चशब्दोऽप्यर्थः । यद्यपि तेषां स्वरूपं भगवतः पृथक् तथाऽपि आविष्टग्रहवत्तदन्तस्थानां तत्स्वरूपाद्बाह्यभोगो युक्तो भवेदित्यर्थः । अनेन सयुजां भावः सायुज्यमिति व्युत्पत्त्या योग एव सायुज्यं न तादात्म्यमिति सूचितमिति ज्ञातव्यम् । एतां गतिमिति ॥ एतां पूर्वोक्तां गतिं सायुज्यादिरूपां स्थितिं यो भागवतो गतः प्राप्तः स पुनरिह संसारे न विषज्जते वै न पुनरावर्तत इत्याशयः । अत्र पृथिव्याद्यव्यक्तान्तानां तत्त्वानां स्वस्वकारणेषु लयः । तदभिमानिनां देवानां तु स्वोत्तमप्रवेशद्वारा महत्तत्त्वगतब्रह्माणं प्रविष्टानां तज्जनके वासुदेवे प्रवेशः । इतरेषां ज्ञानिनां तूक्ततत्त्वाभिमानिनो द्वारमात्राणीति ज्ञातव्यम् ॥ ३४ ॥

एते सृती ते नृप वेदगीते त्वयाऽभिपृष्टेऽथ सनातने च ।

ये द्वे पुरा ब्रह्मण आह पृष्ठ आराधितो भगवान्वासुदेवः ॥ ३५ ॥

पदरत्नावली

उपसंहरति- एते इति ॥ पुरा चतुर्मुखेनाराधितः पृष्टः वासुदेवः भगवान् ये द्वे सृती ब्रह्मणे आह ते एते सृती मया ते कथिते इत्यन्वयः । वक्तव्यत्वे हेतुमाह- त्वयेति ॥ तत्रापि निमित्तमाह- वेदेति ॥ अथेत्यनेन ‘अथ येऽरण्ये श्रद्धातप इत्युपासते तेऽर्चिषमभिसम्भवन्ति’ इत्यादि वेदं सूचयति । वेदगीतत्वेऽप्यश्रद्धेयत्वेन हेयत्वं दृष्टमत्राह- सनातने इति ॥ नित्यस्थितिहेतुत्वादित्यर्थः

॥ ३५ ॥

प्रकाशिका

एवमुक्तं मार्गद्वयं वेदप्रतिपाद्यत्वाद्धरिसम्प्रदायागतत्वाच्च नाश्रद्धेयमिति सूचयन् अपृष्टं कस्मादुक्तमित्याशङ्कां च परिहरन्नुपसंहरति ॥ एते सृती इति ॥ पुनरावृत्त्यपुनरावृत्तिमार्गा-वित्यर्थः । वेदगीते ‘द्वे सृती अश्रुणुवमि’त्यादि वेदप्रतिपाद्ये त्वयाऽभिपृष्ट इति ‘यच्छ्रोतव्यं, ब्रूहि यद्वा विपर्ययमि’ति प्रश्नाभ्यामर्थादुक्तमार्गयोरपि पृष्टत्वादित्याशयः ॥ सनातने प्रतिकल्पभाविन्यौ । यो भगवान्वासुदेवो ब्रह्मणे आह । ये च सनातनेऽत एव वेदगीते त्वयाऽभिपृष्टे च ते सृती एते पूर्वोक्त इत्यन्वयः । रात्रीरिडाभिः पितॄणामित्यादिना पुनरावृत्तिमार्गस्याप्युक्तत्वादिति भावः ॥ ३५ ॥

न ह्यतोऽन्यः शिवः पन्था विश्रुतः संसृताविह ।

वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३६ ॥

तात्पर्यम्

यद्भगवानाह । अतो भागवताख्याद्ग्रन्थाच्छिवः पन्था न ॥ ३६ ॥

पदरत्नावली

अतोऽत्र निःश्रेयसार्थिभिः श्रीभागवतमेवाभ्यसनीयमिति भावेनाह- न हीति ॥ इह संसृतौ अतः भागवताख्याद् ग्रन्थाद् विश्रुतः शिवः पन्था नास्ति । सज्जनकरुणया भगवतोक्त-त्वादिति शेषः । हेत्वन्तरमाह- वासुदेव इति ॥ ३६ ॥

प्रकाशिका

तदहं तेऽभिधास्यामीत्यत्र यस्याभिधानं प्रतिज्ञातं यच्चाध्यायद्वयरूपेण किञ्चिदुक्तं तदेव भागवतमुत्तरत्रापि वक्तुं तत्र श्रद्धातिशयोत्पादनाय त्रिभिः श्लोकैः स्तौति ॥ न ह्यतोऽन्य इति ॥ अत्रात इति परामर्शविषयं दर्शयन् उत्तरश्लोकोक्तं भगवद्द्रष्टृत्वमत्र शिवत्वे हेतुतयाऽन्वेतीत्याशयेनाह ॥ यद्भगवानाहेति ॥ भागवताख्यादित्यनेनेदं भागवतं नाम पुराणमिति पूर्वं भागवतं प्रस्तुतं तदत इत्यनेन परामृश्यत इति सूचयति । अन्यः शिव इत्यादि पुल्लिङ्गोपपादनाय ग्रन्थादित्युक्तम् । यदित्यध्याहारमत इत्यस्यावृत्तिं चाभिप्रेत्य योजयति ॥ यद्भगवानाहेति ॥ यद्यस्माद्भगवान् व्यासोऽपश्यदाह । अतस्तस्मा-द्भगवताऽऽप्ततमेन व्यासेन कृपया प्रणीतत्वादिति यावत् । अतो भागवताख्यग्रन्थादन्यः शिवः पन्था न किं त्वयमेवेति योजनेत्यर्थः ॥ ३६ ॥

भगवान्ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।

तद्धि ह्यपश्यत्(तदध्यपश्यत्)कूटस्थे रतिरात्मन्यतो भवेत् ॥ ३७ ॥

तात्पर्यम्

तद्भागवतं पुराणमपश्यत् । ‘नित्यज्ञानेन सिद्धं च पुनः पुनरवेक्षते । लीलयैव हरिर्देवो दुष्टानां मोहनाय चे’ति ब्रह्मतर्के (पाद्मे) ॥ ३७ ॥

पदरत्नावली

‘एकस्य प्रतिभातन्तु कृतकान्न विशिष्यते’ इत्यत आप्तिमूलत्वेन तदुक्तं प्रमाण-मेवेत्याह- भगवानिति ॥ हि यस्माद् भगवान् त्रिस् त्रिवारं ब्रह्म वेदम् अन्वीक्ष्य आलोच्य यतो ग्रन्थान् अभ्यस्तान् आत्मन् आत्मनि कूटस्थे निर्विकारे हरौ भक्तिलक्षणा रतिर्भवेत् तद्भागवतं पुराण-मपश्यदित्यन्वयः । द्वितीयहिशब्देन ‘नित्यज्ञानेन सिद्धञ्च पुनः पुनरवेक्ष्यते’ इत्यादिकं सूचयति ॥३७॥

प्रकाशिका

तदध्यपश्यदित्यत्र तच्छब्दमनूद्य तत्परामर्शविषयं दर्शयति ॥ तद्भागवतमिति ॥ अत्र नपुंसकलिङ्गोपपादनाय पुराणमित्युक्तम् । अपश्यदित्यस्याहेति तात्पर्यं पूर्वमेवोक्तमतोऽत्र तन्न व्याख्यातम् । वेदमूलकत्वाच्च न भागवतादन्यः शिवः पन्था इत्याशयेनोक्तम् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्येति । तत्र भगवतो ज्ञानं विचारसाध्यमिति प्रतीयते । अतस्तां प्रमाणेन निराकरोति ॥ नित्यज्ञानेनेति ॥ ३७ ॥

भगवान्सर्वभूतेषु लक्षितश्चात्मना हरिः ।

दृश्यैर्बुध्यादिभिर्द्रष्टा लक्षणैरनुमापकैः ॥ ३८ ॥

तात्पर्यम्

लक्षितश्चास्मिन्पुराणे बुद्ध्यादीनां पारवश्यदर्शनादन्यो नियन्ताऽस्तीति । ‘समाधावसमाधौ च निःस्वतन्त्रस्य देहिनः । अन्यो नियन्ता भगवान्वासुदेवः परः प्रभुरि’ति ब्रह्मतर्के ॥ ३८ ॥

पदरत्नावली

उत्तमाधिकारिणां वेदादिना भगवत्सद्भावे सिद्धेऽपीतरेषां तदस्तित्वं कथमवगन्तुं शक्यम् इत्याशङ्क्याह- भगवानिति ॥ इतोऽपि इदमेव निःश्रेयसहेतुत्वात् श्रवणादिनाऽभ्यसनीयमित्यतो वाऽऽह- भगवानिति ॥ द्रष्टा साक्षी भगवान् । अनुमापकैर् निश्चयज्ञानजनकैः । दृश्यैर् हरेः सर्व-स्वातन्त्र्यादिना ब्रह्मादिजीवराशेर् अस्वातन्त्र्यादिना च प्रमाणेन गृहीतव्याप्तिकैर्बुध्यादिभिर्लक्षणैर् लिङ्गैः सर्वभूतेषु नियामकत्वेन स्थित इति आत्मना जीवेन अस्मिन् पुराणे लक्षितः ज्ञात इत्यतस् तदस्तित्वे सिद्धे तेन प्रोक्तत्वाद् वेदमूलत्वेन आप्तिमूलत्वाच्च इदमवश्यमभ्यसनीयमित्यायातमिति भावः । इदं बुध्येयं, नेदमित्यत्र बुध्यादीनां पारवश्यदर्शनाद् अन्यो नियन्ता अस्तीत्यस्य स्वानुभवसिद्धत्वात् स चान्यो हरिरेवेत्यस्यावधारणायां चशब्दः । तदुक्तम्- ‘समाधावसमाधौ च निःस्वतन्त्रस्य देहिनः’ इत्यादि ॥ ३८ ॥

प्रकाशिका

लक्षणप्रमाणाभ्यां हरिज्ञानजनकत्वाच्च न भागवतादन्यः शिवः पन्था इत्याशये-नोक्तम् मूले ॥ भगवान्सर्वभूतेष्विति ॥ अस्यार्थस्यात्र स्फुटमप्रतीतेरपेक्षितमध्याहृत्य योजयति ॥ लक्षितश्चास्मिन्पुराण इति ॥ बुध्यादिभिरनुमापकैर्लक्षितोऽन्यो नियन्ताऽस्तीति प्रतिपादित इति मूलोक्तमनुमानप्रकारं दर्शयति ॥ बुद्ध्यादीनामिति ॥ आदिपदेन सुखदुःखादिकं बुद्ध्याद्यभावादिकं च ग्राह्यम् । तथा च विमताश्चेतना अन्येन बुध्यादिनियन्त्रा युक्ताः स्वतः कस्यचिदर्थस्य ज्ञानेऽज्ञाने सुखे दुःखे तत्परिहारे चासामर्थ्यात् । यो यत्करणे स्वतोऽसमर्थः स तत्करणेऽन्यनियन्तृयुक्तः । यथा सम्प्रतिपन्न इत्यनुमानमत्राभिप्रेतमिति भावः । उक्तहेतोरसिद्धिपरिहाराय मूले दृश्यैरित्युक्तम् । तद्व्याख्यातुं पारवश्यदर्शनादित्युक्तम् । तथा च स्वावशतया साक्षिसिद्धैरिति तदर्थ उक्तो भवतीति ज्ञातव्यम् । आगममूलकत्वान्नात्रोपाध्यादिशङ्केत्याशयेनात्रागमसम्मतिमाह ॥ समाधाविति ॥ समाधौ हर्यादिविषये मनोयोजने । असमाधौ तदकरणे । उपलक्षणमेतत् । सुखदुःखादौ च ॥ निःस्वतन्त्र-स्येति ॥ अत्र स्वतन्त्रशब्दो भावप्रधानः । तथा च निर्गतस्वातन्त्र्यस्येत्यर्थः । स्वतोऽसमर्थस्येति यावत् । परः प्रभुरित्यनन्तरम् अस्तीत्यनुमीयत इति शेषः । सर्वभूतेष्वित्यस्यार्थः- देहिन इति ॥ जात्येकवचनमेतत् ॥

ततश्चायं श्लोकत्रयार्थः ॥ अत उच्यमानतया बुद्धिसन्निहिताद्भागवताख्याद्ग्रन्थात् । अन्यः शिवो मोक्षप्रदः पन्था मार्गो, न विश्रुतो हि विशेषेण मनुष्यमात्रासाधारण्येन श्रुत्यादावुदितो नेति प्रसिद्ध-मित्यर्थः । नन्वस्ति भारतादिग्रन्थसन्दर्भोऽतः कथमेवमुक्तमित्यत उक्तम् ॥ संसृताविहेति ॥ इह भारते वर्षे इह कलियुगे संसृतौ वर्तमानानां मनुष्याणामिति शेषः । तथा च भारतादिकं नाल्पायुषादिमतां मनुष्याणां मोक्षदानायास्मिन्युगे समर्थमिति भावः । अत एव विश्रुत इत्युक्तम् ॥ कुत इत्यतोऽत्र हेतुमाह ॥ वासुदेव इति ॥ भक्तियोगो भक्तिलक्षणो ज्ञानोपायः । परमाप्तेन भगवदवतारेण व्यासेन प्रणीतत्त्वाद्वेदमूलकत्वाच्च नातोऽन्यः शिवः पन्था इत्याशयेनाह ॥ भगवानिति ॥ भगवान्व्यासो ब्रह्म वेदं कार्त्स्न्येन सामस्त्येन त्रिस्त्रिवारं मनीषया नित्यया बुद्ध्याऽन्वीक्ष्योपक्रमाद्यनुसारेण लीलयैव विचार्य ॥ तद्भागवतं पुराणमितरपुराणापक्षेयाऽधि अधिकमपश्यदाह कृतवानित्यर्थः । कथंभूतं तत् । यतो भागवतात् श्रद्धया श्रुतात् । कूटस्थे निर्विकारे आत्मनि परमात्मनि रतिर्भवेत् । परमात्मविषयक-दर्शनादिजनितं सुखं यतो भवेदित्यर्थः । इदमपि भागवतस्यैव शिवत्वे हेत्वन्तरमिति ज्ञातव्यम् । लक्षणप्रमाणाभ्यां हरिप्रतिपादकत्वाच्च नातोऽन्यः शिवः पन्था इत्याशयेनाह ॥ भगवान्सर्वभूतेष्विति ॥ भगवान्हरिरात्मना स्वस्वरूपभूतेन व्यासेन । सर्वभूतेषु सर्वदेहेषु । दृश्यैः स्वावशतया साक्षि-सिद्धैर्बुद्ध्यादिभिरनुमापकैर्लिङ्गैर्द्रष्टाऽन्यो नियन्ताऽस्तीत्यस्मिन्पुराणे लक्षितः प्रतिपादितः । लक्षणै-र्जगज्जन्मादिकर्तृत्वादिरूपैर्लक्षितश्चातोऽप्ययमेव शिवः पन्था इति सम्बन्ध इति ॥ ३८ ॥

तस्मात्सर्वात्मना राजन्हरिः सर्वत्र सर्वदा ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३९ ॥

तात्पर्यम्

**यस्माद्भगवतैष एवोक्तस्तस्मात्स एव श्रोतव्यादिः ॥ ३९ ॥ **

इति द्वितीयतात्पर्ये द्वितीयोऽध्यायः ॥ २ ॥

पदरत्नावली

उक्तमुपसंहरति- तस्मादिति ॥ यस्मात् सर्वज्ञेन व्यासेनैष नारायण एव वेदवेद्येषु सर्वोत्तमत्वेन द्रष्टव्यत्वेनोक्तस् तस्मात् स एव श्रोतव्यादिः ॥ ३९ ॥

प्रकाशिका

भगवत एव श्रोतव्यादित्वं हेत्वन्तरेणोपपादयति ॥ तस्मादिति ॥ अत्र तस्मादिति पूर्वोक्तस्य कस्य हेतोः परामर्श इति न प्रतीयतेऽतस्तं दर्शयन् योजयति ॥ यस्मादिति ॥ भगवता व्यासेन एष एव हरिरेवोक्तः । भागवत इति शेषः । तथा च व्यवहितपूर्वश्लोकोक्तमेव तस्मादित्यनेन परामृश्यत इति दर्शितं भवति । यदि हरिर्न श्रोतव्यादिरूपस्तर्हि परमाप्ततमो व्यासस्तं भागवते न वदेदित्याशयः ॥ मूले सर्वात्मनेति ॥ सर्वप्रकारणेत्यर्थः ॥ ३९ ॥

पिबन्ति ये भगवत आत्मनः सतां

कथामृतं श्रवणपुटेषु सम्भृतम् ।

पुनन्ति ते विषयविदूषिताशयं

व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ४० ॥

॥ इति श्रीमद्भागवते द्वितीयस्कन्धे द्वितीयोऽध्यायः ॥

पदरत्नावली

श्रवणादिफलमाह- पिबन्तीति ॥ सतां सकाशात् । श्रवणपुटेषु सम्भृतं संपूरितम् । विषयैर् विशेषेण दूषितम् ॥ ४० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां

द्वितीयस्कन्धे द्वितीयोऽध्यायः ॥

प्रकाशिका

इति हरिश्रवणस्येत्थंभावं दर्शयन् फलमाह ॥ पिबन्तीति ॥ आत्मन आदानादि-कर्तुः । सतां सकाशाच्छ्रवणपुटेषु सम्भृतं सम्यक् पूरितं सद्भ्यः श्रद्धया श्रुतमिति यावत् । विषयविदूषिताशयं विषयैर्विशेषेण मलिनीकृतमन्तःकरणम् । पुनन्ति शोधयन्ति ॥ ४० ॥

॥ इति श्रीभागवतटिप्पण्यां द्वितीयोऽध्यायः ॥ २-२ ॥