०१ प्रथमोऽध्यायः

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप

महर्षि श्रीवेदव्यासप्रणीतम्

श्रीमद् भागवतम्

द्वितीयस्कन्धः

अथ प्रथमोऽध्यायः

ॐ नमो भगवते वासुदेवाय

शुक उवाच—

वरीयानेष ते प्रश्नः कृतो लोकहितं नृप ।

आत्मवित्सम्मतः पुंसां श्रोतव्यादिषु यः परः ॥ १ ॥

श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितः

श्रीमद्भागवततात्पर्यनिर्णयः

ॐ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः

यः पर इति ॥ १ ॥

**श्रीमद्विजयध्वजतीर्थविरचिता **

पदरत्नावली

ॐ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः

वरीयान्प्रष्टव्यो निगमविषयो योऽस्य जनको

वराहाद्यात्मा योऽवतरति सुरारातिहृतये ।

अदाद्धात्रे ज्ञानं सकलविषयं यश्च विनुतस्

तमङ्गोपास्व त्वं हृदय सततं स्वेष्टकृतये ॥

सम्प्रति परीक्षित्प्रश्नं परिहरिष्यन् तं स्तौति- वरीयानिति ॥ श्रीभागवतसंहिताप्रारम्भकारणं सविस्तरमभिधायेदानीं श्रीभागवतसंहितां प्रारभत इत्यतो वाऽऽह- वरीयानिति ॥ यच्छ्रोतव्यमथो जाप्यमित्यादिना यस्त्वया कृतः स एष प्रश्नः वरीयान् अङ्गीकार्यतमः । सर्वोत्कृष्टत्वात् । लोकहितमिति क्रियाविशेषणम् । यथा लोकस्य हितं भवति तथा कृत इत्यनेन न केवलं तवैव हितकरोऽयं, किन्तु सर्वस्येत्युक्तं भवति । उत्कृष्टत्वे हेतुगर्भविशेषणमाह- आत्मविदिति ॥ मुख्यत आत्मविदो ब्रह्मादयः । तेषामपि सम्मतत्वात् । तत्कथमत्राह- पुंसामिति ॥ आत्मविदित्यनुवर्तते । इह जगति नृणां सहस्रशः श्रोतव्यानि सन्ति । म्रियमाणानाम् अम्रियमाणानाञ्च पुंसां श्रोतव्यादिषु यः परः परमात्मा स एवात्मवित्सम्मत इति यस्मात् तस्मादित्यर्थः । ‘आत्मा वा ओ द्रष्टव्यः’ इत्यादिश्रुतेः । अनेन परमात्मविषयत्वेनास्य वरीयस्त्वमित्युक्तं भवति ॥ १ ॥

श्रीयादवार्यविरचिता भागवतप्रकाशिका

भागवतप्रकाशिका

ॐ श्रीमद्धनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकलक्ष्मीहयग्रीवाय नमः ॥

सत्यवत्यालवालोत्थं सद्विद्यालतया युतम् ।

नानाशाखाभिरुत्कृष्टं व्यासकल्पद्रुमं भजे ॥ १ ॥

प्रथमस्कन्धान्ते कृतं परीत्क्षित्प्रश्नमनूद्य स्तौति- वरीयानिति ॥ अत्र पुंसां श्रोतव्यादिषु यः पर इत्यनुवादः । स एवेतिशब्दाभावात्साकांक्षोऽतः सोऽध्याहार्य इत्याह- यः पर इतीति ॥ यद्यपि यच्छ्रोतव्यमथो जाप्यं यत्कर्तव्यं नृभिः प्रभो इति पूर्वं पृष्टत्वात्तथैवानुवादो युक्तः । तथाऽप्यर्थानुवादोऽयमित्यदोषः । श्रोतव्यादिषु परं किमित्येव तत्राभिप्रेतत्वात् ॥ ततश्चायं श्लोकार्थः ॥ हे नृप । पुंसां श्रोतव्यादिषु यः कः पर इति यस्ते त्वया कृतः प्रश्नः स एष वरीयान् अङ्गीकार्यतमः । कुतः । यतो लोकहितं यथा स्यात्तथा कृतः । यतश्चात्मविदां ब्रह्मादीनां सम्मत इति ॥ १ ॥

श्रोतव्यानीह राजेन्द्र नृणां सन्ति सहस्रशः ।

अपश्यतामात्मतत्वं गृहेषु गृहमेधिनाम् ॥ २ ॥

तात्पर्यम्

अपश्यतां निद्रया ॥ २ ॥

पदरत्नावली

इतोऽपि परमात्मश्रवणादिकमन्तरेण संसारस्य तदज्ञाननिबन्धनस्य दुरुच्छेदत्वात् स एव तेषु मुख्यत्वेन सम्मत इत्युपसंहरन्नज्ञानिलोकप्रवृत्तिप्रकारमाह- अपश्यतामित्यादिना ॥ दृशिरत्र ज्ञानार्थः । आत्मनः परमात्मनस् तत्वम् अनारोपितं रूपं ज्ञानादिलक्षणं, आत्मनां लक्ष्मीब्रह्मादिचेतनानां कदाप्यनभिभूततरतमभावेनावस्थितिञ्च अपश्यताम् अजानताम् । निद्रयेत्यत्रापि अनुसन्धेयम् । गृहमेधिनाम् । गृहे मेधा गृहस्थाश्रम एव कर्तुं योग्याः पञ्चमहायज्ञाः स्मृतिविहिताः, प्रत्यवाय-परिजिहीर्षया तान् कर्तुं शीलमेषामस्तीति गृहमेधिनस् तेषाम् । गृहेषु गृहाश्रमेष्वेव वर्तमानानां बहिर्मुखानाञ्च पुंसाम् ॥ २ ॥

प्रकाशिका

त्वयोच्यमानश्रोतव्यादौ कथं मम विश्वासः । तत्तद्वादिभिस्तदनुवर्तिभिश्चानेकेषां श्रोतव्यतयोक्तत्वेन विप्रतिपत्त्या संशयस्यैव प्राप्तेरिति राज्ञः शङ्कामुपोद्धातेनापाकरोति- श्रोतव्यानी-हेति ॥ आत्मतत्त्वमित्यत्रात्मशब्दस्तदितरस्याप्युपलक्षकः । ततश्चेह लोकेऽधिकार्यनधिकारिवर्गे । आत्मतत्त्वम् परमपरं च तत्त्वमपश्यतां सम्यगजानतां गृहेषु गृहस्थाश्रमेषु । वर्तमानानामिति शेषः । अत एव गृहमेधिनां गृहस्थाश्रमविहितयज्ञानुष्ठानवताम् । काम्यकर्मणामिति यावत् । नृणां बहिर्मुखा-नामेव सहस्रशः श्रोतव्यानि श्रोतव्यादीनि सन्ति भवन्ति । तथा चानेकश्रोतव्यादिवादिनामज्ञानादि-मत्वान्न तद्वचनैस्तव संशयो युक्त इति भावः । तेषां तत्त्वज्ञानाभावे किं कारणमित्याशङ्कापरिहाराय निद्रयेति वक्ष्यमाणमत्राप्यनुसन्धेयमित्याह- अपश्यतां निद्रयेति ॥ तथा चात्र निद्राशब्दोऽविद्या-परपर्यायबन्धकप्रकृतिपर इति भावः ॥ २ ॥

निद्रया ह्रियते नक्तं व्यवायेन नवं वयः ।

दिवा चार्थेहया राजन्कुटुम्बभरणेन वा ॥ ३ ॥

पदरत्नावली

निद्रया, व्यवायेन च स्त्रीसम्भोगेन च नक्तं रात्रिर् नवं वयः ह्रियते । दिवा च अहश्च । अर्थेहया श्रीनारायणाराधनानुपयोगिहिरण्याद्यापादनायासेन । ‘अप्यकार्यशतं कृत्वा भर्तव्या मनुरब्रवीत्’ इति वचनात् कुटुम्बभरणेन वा ह्रियत इत्यन्वयः ॥ ३ ॥

प्रकाशिका

अनेकश्रोतव्यवादिनो न सम्यक् तत्त्वज्ञानिन इत्यत्र युक्तिमाह- निद्रयेति ॥ अनेकश्रोतव्यवादिभिः । तदनुवर्तिभिश्चेति शेषः । नक्तं रात्रिरूपं वय आयुष्यं व्यवायेन स्त्रीसम्भोगेन । नवं यौवनावस्थाऽऽपादकम् । दिवा अहोरूपम् । अर्थेहया ईश्वराराधनानुपयोगिद्रव्यसम्पादकव्यापारेण । धनिकश्चेत् कुटुम्बभरणेन वा । विवादास्पदा अनेकश्रोतव्यवादिनस्तदनुवर्तिनश्च न सम्यग्ज्ञानिनो व्यर्थायुष्यहरणकर्तृत्वादिति युक्तिरत्राभिप्रेतेति ज्ञातव्यम् ॥ ३ ॥

देहापत्यकलत्रादिष्वात्मदैन्येष्वसत्स्वपि ।

तेषु प्रसक्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥

तात्पर्यम्

असत्सु अभद्रेषु । ‘सद्भावे साधुभावे चे’ति वचनात् ॥ ४ ॥

पदरत्नावली- आत्मतत्वज्ञाने कारणमाह- देहेत्यादिना ॥ अपिर्गर्हार्थः । आत्मनः स्वस्य दीनत्वं क्षीणत्वम् आपादयन्तीत्यात्मदैन्यानि तेषु । दीङ् क्षय इति धातोः । यद्वा स्वत एव दीनभावो येषां ते तथा तेषु । अत एव असत्सु अभद्रेषु । तदुक्तं- ‘सद्भावे साधुभावे च’ इति । निधनं नाशम् । प्रकर्षेण सक्तः प्रसक्तः । न पश्यति स्वस्येति शेषः । अपिना असच्छब्दस्य मिथ्यार्थाभिधायित्वं गर्हितमिति दर्शयति । तेषु प्रमत्तो निधनमिति पाठोऽनन्वितः ॥ ४ ॥

प्रकाशिका

ननु नश्वरात्मदैन्यापादकासाधुकुटुम्बपोषणाय कथमायुर्व्ययं कुर्यात्प्रेक्षावानित्यत आह- देहापत्येति ॥ असत्स्वित्येतदनूद्य मिथ्याभूतेष्विति प्रतीतिवारणाय सप्रमाणकं व्याचष्टे- असत्स्विति ॥ अभद्रेष्वसाधुषु । सद्भावे सत्वे साधुभावे समीचीनत्वे च प्रवृत्तिनिमित्ते सति सदित्ये-तत्पदं प्रयुज्यत इत्यर्थः ॥ ततश्चायं श्लोकार्थः ॥ आत्मदैन्येष्वात्मनः स्वस्य दैन्यं क्षीणत्वमा-पादयन्तीत्यात्मदैन्यानि तेषु । दीङ् क्षय इति धातोः । असत्स्वसाधुषु । एतादृशेष्वासक्तिर्गर्हितेत्यपिना दर्शयति । प्रसक्तः प्रकेर्षेणासक्तः । निधनं नाशम् । स्वपित्रादिदृष्टान्तेन पश्यन्नपि जानन्नपि न पश्यति नानुसन्धत्ते । उपलक्षणमेतत् । आत्मदैन्यापादकत्वमसाधुत्वं च नानुसन्धत्त इत्यपि ग्राह्यम् । एवं चातिशयेन कुटुम्बासक्तिः प्रेक्षाप्रतिबन्धिकेति भावः ॥ ४ ॥

तस्माद्भारत सर्वात्मा भगवान् हरिरीश्वरः ।

श्रोतव्यः कीर्तितव्यश्च स्मर्तव्यश्चेच्छताऽभयम् ॥ ५ ॥

पदरत्नावली

यतः श्रीनारायणश्रवणादिना विना न संसारनिवृत्तिस् तस्मात् सर्वात्मा सर्वव्यापी सर्वमभीष्टमाददानो वा भगवान्निरतिशयैश्वर्यादिगुणवान् ब्रह्मादिचेतनराशिपूज्यो वा हरिः स्मरणमात्रेणा-शेषसंसारक्लेशसंहर्ता सर्वजगदीश्वरः नित्यभयरूपात्, अस्मात् संसारात्, अभयं मोक्षम् इच्छता पुरुषेण श्रवणादिविषयः कर्तव्य इत्यन्वयः । श्रवणादित्रयेणाज्ञानसंशयादिनिरासादि करोति । ‘श्रुत्वा मत्वा तथा ध्यात्वा तदज्ञानविपर्ययौ । संशयञ्च पराणुद्य लभते ब्रह्मदर्शनम्’इति वचनात् श्रवणेनाज्ञानं कीर्तनापरपर्यायमननेन संशयविपर्ययौ निरस्य स्मरणलक्षणध्यानेन ब्रह्मापरोक्षज्ञानं लभत इति । श्रोतव्योऽन्यो जप्तव्योऽन्य इत्यादिशङ्कानिरासार्थं श्रवणादीनां चतुर्णामेकविषयत्वं द्योतयितुं सर्वात्मे-त्यादिविशेषणचतुष्टयम् उपात्तम् । अहङ्काररूपेण सर्वव्यापित्वेन सर्वात्मा रुद्रः किन्न स्यादित्यत उक्तं- हरिर्भगवानिति ॥ तथापि सूर्याद्यन्यतमः किन्न स्यादित्यत उक्तं- ईश्वर इति ॥ ईशाद् रुद्राद् वर इति योगेन तस्य रुद्रप्रसिद्धिरपि निरस्तेति ज्ञातव्यम् ॥ ५ ॥

प्रकाशिका

एवमुपोद्घातेन राज्ञः शङ्कामपाकृत्येदानीं यच्छ्रोतव्यमित्यादिना पृष्टस्योत्तरमाह- तस्मादिति ॥ ततश्चायं श्लोकार्थः— इतरोक्तश्रोतव्यादीनामज्ञानादिमूलकत्वेन व्यर्थायुष्यहरणहेतुत्वा-दित्यर्थः । भारत भरतवंश्य । सर्वात्मा सर्वस्वामी सर्वाभीष्टदो वा । भगवान्निरतिशयैश्वर्यादिगुणः । हरिः संसारभयहर्ता । ईश्वरो ऽघटितघटकशक्तिमान् । कीर्तनं मननं, स्मरणं ध्यानम् । यत्कर्तव्यमिति सामान्यतो मननादेः पृष्टत्वादुत्तरे तदुक्तिः । अभयं, न विद्यते भयं संसाररूपं यस्मात्तदभयम-परोक्षज्ञानम् । तदपरोक्षज्ञानं कुतः संसारनिवर्तकमित्यत उक्तम्- हरिरिति ॥ दृष्ट इति शेषः । अनादेः संसारस्य कथमयं निवर्तकः । कथं चाव्यक्तस्वभावस्य दर्शनमित्यत उक्तम्- ईश्वर इति ॥ न केवलं दृष्टोऽयमनिष्टनिवर्तकः । किन्तु स्वरूपानन्दादिसर्वेष्टप्रदश्चेति वक्तुं सर्वात्मेत्युक्तम् । कुत एतत्सर्वमस्यैवेति जिज्ञासायां भगवानित्युक्तम् । अनेन हरेरितरश्रोतव्यादिभ्यः परत्वमप्युक्तमिति ज्ञेयम् ॥ ५ ॥

एतावान्साङ्ख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।

जन्मलाभः परः पुंसामन्ते नारायणस्मृतिः ॥ ६ ॥

पदरत्नावली

एतदेव सर्ववेदपुराणेषु तात्पर्येण प्रतिपादितमिति दर्शयति- एतावानिति ॥ अन्ते मरणकाले यथा श्रीनारायणस्मरणं स्यात् तथा बहुशास्त्राभ्यासः कर्तव्य इति भावेन वाऽऽह- एतावानिति ॥ सांख्यशास्त्रोक्तसांख्येन तत्वज्ञानेन योगशास्त्रोक्तभगवत्पूजादियोगानुष्ठानेन तथा स्वधर्मपरिनिष्ठया स्वस्वविहितवर्णाश्रमोक्तस्वधर्मानुष्ठानेन च अन्ते मरणकाले नारायणस्मृतिरिति यावान् एतावान् इयानेव पुंसां पर उत्कृष्टः जन्मलाभः जन्मनः साफल्यमित्यन्वयः । अतो वेदादिसर्वशास्त्रेषु म्रियमाणेन सर्वथा नारायणस्मरणमेव कर्तव्यं नान्यदिति प्रतिपाद्यत इत्यतः प्रष्टुः परिहारः सुप्रसिद्ध इति सिद्धम् ॥ ६ ॥

प्रकाशिका

नन्वपरोक्षज्ञानसाधनतया साङ्ख्यादेरपि विहितत्वात्किं भगवच्छ्रवणादिनियमे-नेत्यत आह- एतावानिति ॥ साङ्ख्यं जैवं ज्ञानम् । योगोऽष्टाङ्गः । स्वधर्मपरिनिष्ठा स्वधर्मानु-ष्ठाननियमः । एतैर्नारायणस्मृतिस्तच्छ्रवणादिकं सम्पाद्यत इति यद्येतावान्पुंसां जन्मलाभो जन्मनः फलम् । अन्ते तु स्मृतिः परो लाभ इत्यर्थः । तथा च साङ्ख्यादिकं न स्वातन्त्र्येणापरोक्षज्ञानसाधनं किन्तु श्रवणादिद्वारैवातः श्रवणादिकमावश्यकमेव । तेनैव जन्मनः साफल्यादित्याशयः । अन्ते स्मृतिः परो लाभ इत्येतत् प्रसङ्गादेवोक्तमिति ज्ञेयम् ॥ ६ ॥

प्रायेण मुनयो राजन्निवृत्ता विधिनिषेधतः ।

नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरेः ॥ ७ ॥

तात्पर्यम्

**ध्यानापेक्षया प्रायेण । नैर्गुण्यस्था मुक्ताः । ‘एतत्सामगायन्नास्त’ इति श्रुतेः **

॥ ७ ॥

पदरत्नावली

सर्वथा नारायणश्रवणादि कार्यमित्यत्र कैमुत्यन्यायमाह- प्रायेणेति ॥ मुनयः स्वस्वयोग्यज्ञानवन्तः । विधिनिषेधाभ्यां निवृत्ताः । निर्गुणः भगवान् तेन दीयमानत्वात् तत्सम्बन्धि निर्वाणं तत्स्था मुक्ताः । हरेर् गुणानुकथने रमन्ते इत्यन्वयः । गुणान् स्मारं स्मारं कथयन्त इत्यस्मिन्नर्थे स्मेति पदम् । कदाचिद्ध्यानाभिप्रायेणोक्तम्- प्रायेणेति ॥ अतो ज्ञानार्थिभिर् हरिगुणश्रवणादि कार्यमिति किं वाच्यमित्यर्थः ॥ ७ ॥

प्रकाशिका

सर्वथा जिज्ञासुभिर्हरिश्रवणादिकं कार्यमित्यत्र कैमुत्यन्यायमाह- प्रायेणेति ॥ मुनयः स्वस्वयोग्यज्ञानवन्तः । विधिनिषेधतो विधिनिषेधाभ्यां निवृत्ताः, नैर्गुण्यस्था हरेर्गुणानुकथने प्रायेण रमन्त इत्यन्वयः । तथा च विधिनिषेधबद्धैर्गुणमयदेहस्थितैर्जिज्ञासुभिर्हरिश्रवणादिकं सर्वदा कार्यमिति किं वाच्यमिति भावः । अत्र प्रायेणेत्युक्त्या कदाचिन्न गुणानुकथने रमन्त इति प्रतीयतेऽतस्तदुक्ते-रभिप्रायमाह- ध्यानेति ॥ सत्यं कदाचित्तत्र न रमन्ते इति । तथाऽपि तदाऽपि ध्यानमेव कुर्वन्ति न लौकिकवार्तामतः प्रायेणेत्युक्तेऽपि न विरोध इति भावः । नैर्गुण्यस्था इत्येतत्पदमनूद्याप्रतीतेर्व्याचष्टे- नैर्गुण्यस्था इति ॥ अनेन निर्गुणो भगवान् तत्सम्बन्धि स्थानत्रयं नैर्गुण्यं तत्र स्थिता नैर्गुण्यस्था इति व्याख्यानं सूचयति । मुक्ताः श्रवणादिकं कुर्वन्तीत्यत्र स्मेत्यनेन सूचितां प्रमाणप्रसिद्धिं दर्शयति- एतदिति ॥ एतद्वक्ष्यमाणमित्यर्थः ॥ ७ ॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

अधीतवान्द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥

तात्पर्यम्

द्वापरे आदौ च (द्वापरे चादौ च) । कृष्णावतारापेक्षया । ‘व्यासः षट्शत-वर्षीयो धृतराष्ट्रमजीजनदि’ति स्कान्दे ॥ ८ ॥

**पदरत्नावली **

इदानीं भागवतप्रतिपाद्यमर्थं ‘तस्माद्भारते’त्यादिश्लोकत्रयेणाभिधाय पुनस्तद्विस्तरेण वक्तुमुपक्रमते- इदमिति ॥ बुद्धिसन्निहितत्वादिदमित्युच्यते । ब्रह्मसम्मितं वेदसमम् । तदर्थ-व्याख्यानरूपत्वात् । द्वापरादौ कृष्णावतारापेक्षया द्वापरे आदौ च । न तु द्वापरस्यादाविति । ‘व्यासः षट्शतवर्षीयः धृतराष्ट्रमजीजनत्’ इति वचनाद् द्वापरान्ते भारतकथाप्रवृत्तिकथनाच्च ॥ ८ ॥

प्रकाशिका

तर्हि भगवद्विषयकं किञ्चिद्ग्रन्थमाश्रावयेति शङ्कायामोमित्याशयेन भागवतं तावत्स्तौति- इदं भावगतमित्याद्यार्धेन ॥ इदं वक्ष्यमाणतया बुद्धिसन्निहितम् । भागवतं नाम भगवद्विषयतया प्रसिद्धम् । अत एव भागवतशब्दाभिधेयम् । ब्रह्मसम्मितं वेदसमम् । नेदं स्वकपो-लकल्पितं किन्तु सम्प्रदायागतमिति दर्शयति- अधीतवानिति ॥ अध्यापकस्य प्रतारकत्वशङ्कां वारयति- पितुरिति ॥ नन्वधीतमपि बहुकालव्यवधानेन विस्मृतं किं न स्यादित्यतो न बहुकाल-व्यवधानमित्याह- द्वापरादाविति ॥ एतद् द्वापरपदं द्वापरस्यादावित्यन्यथाप्रतीतिवारणाय व्याचष्टे- द्वापर इति ॥ अनेन द्वापरेत्यत्र सप्तम्या लोपेन पदद्वयमेवेदमित्युक्तं भवति । द्वापरे चादौ चेति पाठे द्वन्द्वैकवद्भाव इत्याशयः । तर्हि किमपेक्षयाऽऽदित्वमध्ययनस्येत्यतस्तदवधिप्रदर्शनाय कृष्णावतारापेक्षये-त्यध्याहार्यमित्याह- कृष्णावतारेति ॥ तथा च कृष्णावतारस्य द्वापरान्ते भारतादौ कथितत्वा-त्तदपेक्षयाऽऽदौ द्वापरान्ते एवाधीतवानित्याशय उक्तो भवतीति ज्ञातव्यम् । ननु कुत एतत् । द्वापरस्यादावित्येव व्याख्यानं किं न स्यादित्यतस्तत्र बाधकमाह- व्यास इति ॥ तथा च धृतराष्ट्रस्य द्वापरान्त एवोत्पत्तेर्भारतादौ प्रसिद्धत्वेन तदा व्यासस्य षट्शतवर्षीयत्वकथनेन च व्यासावतारस्य द्वापरान्तकालीनत्वावगमाद् द्वापरादिभागे व्यासावतार एव नासीत् । कुतस्ततोऽध्ययनमतस्तथा न व्याख्येयमिति भावः । प्राधान्यतः कृष्णप्रतिपादकं भागवतं तदवतारापेक्षया प्रागेवानागतज्ञानिना द्वैपायनेन निर्मितमतः स सर्वज्ञ इति तस्य विवक्षितार्थतत्त्वज्ञानोपपादनाय शुकेन द्वापरान्त इति स्पष्टमनुक्त्वैवमुक्तमिति ज्ञातव्यम् ॥ ८ ॥

परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।

गृहीतचेता राजर्ष आख्यानं यदधीतवान् ॥ ९ ॥

तदहं तेऽभिधास्यामि महापूरुषिको भवान् ।

यत्र श्रद्दधतामाशु स्यान्मुकुन्दे मतिः सती ॥ १० ॥

तात्पर्यम्

परिनिष्ठितोऽपि मुक्तिरस्य भविष्यतीति निश्चितोऽपि । ‘उदरं संशयः प्रोक्तः परिनिष्ठा विनिश्चय’ इत्यभिधाने ॥ ‘ऋष्युत्तमा देवताश्च विमुक्तौ परिनिश्चिताः । तथाप्यधि-कसौख्यार्थं यतन्ते शुभकर्मसु ॥ विमुक्तास्तु स्वभावेन नित्यं ध्यानादितत्परा’ इति गारुडे ॥९॥

पदरत्नावली- नन्वस्तु । स्थितप्रज्ञया कृतकृत्यस्य भवतो भागवताध्ययनं किमर्थमिति तत्राह- परिनिष्ठित इति ॥ नैर्गुण्ये मुक्तौ परिनिष्ठितोऽपि मुक्तिरस्य भवतीति निश्चयवानपि । ‘उदरं संशयः प्रोक्तः परिनिष्ठा विनिश्चयः’ इत्यभिधानात् । कथमनेनास्य परिहार आयात इति तत्राह- उत्तम-श्लोकेति ॥ अनेनैवंविधमाहात्म्यातिशयो भगवानित्युक्तं भवति ॥ ९ ॥

नन्वस्तु भवतो भागवताध्ययनम् । तत्किं ममेति तत्राह- तदहं त इति ॥ यत्र यच्छ्रद्दधताम् । यत्र यस्मिन् भागवते प्रतिपादितमर्थं श्रद्दधतामिति वा । अहं भागवतं नाम यदाख्यानमधीतवान् तत् ते तुभ्यम् अभिधास्यामीत्यन्वयः । अभिधाने निमित्तमाह- महापूरुषिक इति ॥ पूर्णषड्गुणत्वात् पुरुषो भगवान् तद्भक्ताः पूरुषिकाः । तेषां मध्ये महानिति यस्मात्तस्मादित्यर्थः ॥ १० ॥

प्रकाशिका

निश्चितमुक्तिकस्य तव भागवताध्ययनं किमर्थमित्याशङ्कां परिहरंस्तदभिधानं प्रतिजानीते- परिनिष्ठित इति श्लोकद्धयेन ॥ गृहीतचेता आकृष्टचित्तः । आख्यायते भगवानने-नेत्याख्यानं भागवतम् ॥ ९ ॥

राज्ञोऽभिधाने निमित्तमाह- महापूरुषिको भवानिति ॥ पुरुषो विष्णुस्तद्भक्तः पूरुषिकः । महांश्चासौ पूरुषिकश्चेति कर्मधारयः ॥ ततश्च भवान्विष्णुभक्तोत्तमो यतस्तस्मादित्यर्थः । भागवत-स्यैवाभिधाने निमित्तमाह- यत्रेति ॥ यत्र यस्मिन्भागवते प्रतिपादितेऽर्थ इति शेषः । अत्र परिनिष्ठित इत्येतन्नैर्गुण्ये मोक्षे परिनिष्ठितः स्थित इत्यन्यथाप्रतीतिनिवारणायानूद्य व्याचष्टे- परिनिष्ठितोऽपीति ॥ अनेन मोक्षविषयकनिश्चयाकारप्रदर्शनेन नैर्गुण्य इति विषयसप्तमीति सूचितम् । परिनिष्ठाशब्दस्य निश्चयवाचित्वे प्रमाणमाह- उदरमिति ॥ नन्वस्तु परिनिष्ठाशब्दो निश्चयवाची तथाऽपि शुकस्यैतादृश-निश्चयवत्त्वे किं प्रमाणम् । तथात्वे तस्य शुभकर्मानुष्ठानानुपपत्तिश्च वैय्यर्थ्यादित्यत आह- ऋष्युत्तमा इति ॥ तथा च शुकस्यापि देवावतारत्वान्मुक्तिनिश्चयवत्त्वसिद्धिरिति भावः ॥ तथापीति ॥ संसार-निवृत्तिरूपमोक्षस्य निश्चितत्वेऽपीत्यर्थः । अधिकसौख्यार्थं यावत्स्वस्वरूपानन्दाविर्भावार्थम् । नन्वेवं प्राप्तमुक्तीनामपि नैर्गुण्यस्था रमन्त इति पूर्वश्लोकोक्तध्यानादिरूपं शुभं कर्म किमधिकसौख्यार्थं नेत्याह- विमुक्तास्त्विति ॥ १० ॥

एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।

योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥

पदरत्नावली

न केवलं तवैवैतन्निर्णीतम् । अपि तु सर्वयोगिनामपीत्याह- एतदिति ॥ निर्विद्यमानानां विरज्यमानानाम् । क्लैशैरिति शेषः । अकुतोभयं मोक्षम् । एवं वैराग्यादिसाधनसामग्रीमतां योगिनां हरेर्नामानुकीर्तनं यद् एतद् अन्ते हरिस्मरणकारणमित्यर्थः ॥ ११ ॥

प्रकाशिका

कीदृशानामधिकारिणामेतद्ग्रन्थश्रवणादिकं कर्तव्यतया शास्त्रे निर्णीतमित्यपेक्षायां मूलेऽत्राधिकारिणो दर्शयति- एतदिति ॥ एतत्पूर्वोक्तं हरेर्नामानुकीर्तनम् । अत्र नामशब्दो ग्रन्थपरः। ‘सोऽहं नामविदेवास्मि’ इत्यादौ तस्य ग्रन्थे प्रयोगदर्शनात् । हरिविषयकग्रन्थश्रवणादिकमिति यावत् । निर्विद्यमानानां सांसारिकक्लेशैर्विरज्यमानानाम् । न विद्यते कुतोऽपि भयं यस्मिन्सोऽकुतोभयो मोक्षस्त-मिच्छतां योगिनां शमदमादिरूपयोगवतां निर्णीतं कर्तव्यतया शास्त्रे निर्धारितमित्यर्थः । अत्र वैराग्यं, मुमुक्षा, शमदमादिसम्पत्तिश्चेति यान्यधिकारविशेषणानि शास्त्रे प्रसिद्धानि तान्येवोक्तानीति ज्ञातव्यम्

॥ ११ ॥

किं प्रमत्तस्य बहुभिः परोक्षैर्हायनैरिह ।

परं मुहूर्तं विदितं घटते श्रेयसे यतः ॥ १२ ॥

पदरत्नावली

अनेन भागवताकर्णनमभिप्रेतम् । तदत्यन्ताल्पायुष्ट्वेन न घटत इति शङ्का मा भूदित्याह- किमिति ॥ हायनैर् वत्सरैः । परोक्षैर् आगामिभिः । यतो येन मुहुर्तेन हरिस्मरणाख्यश्रेयसे घटते तत् परं मुहूर्तं घटिकाद्वयमपि परम् उत्तमं विदितं प्रख्यातम् ॥ १२ ॥

प्रकाशिका

ननु भगवद्विषयग्रन्थश्रवणादिकमत्यन्ताल्पायुषो मम कथं घटेतेति शङ्का मा भूदित्याह- किमिति ॥ परोक्षैरियत्तावत्वेनाविदितैः । अत एव श्रेयोघटनशून्यैरागामिभिर्हायनैर्वत्सरैः किम् । यतो येनेयत्तावत्वेन विदितेन मुहूर्तेन श्रवणादिरूपश्रेयसे घटते यतते तदेकं विदितं मुहूर्तं घटिकाद्वयमपि परमुत्तमं सार्थकमित्यर्थः ॥ १२ ॥

खट्वाङ्गो नाम राजर्षिर् ज्ञात्वेयत्तामिहायुषः ।

मुहूर्तात्सङ्गमुत्सृज्य गतवानभयं हरिम् ॥ १३ ॥

पदरत्नावली

एतमर्थमाख्यानेन द्रढयति- खट्वाङ्ग इति ॥ नामशब्दः प्रख्यात्यर्थे । इह मनुष्यलोके । मुहूर्तात् पूर्वं, आयुष इयत्तां मर्यादां ज्ञात्वा । राज्यादिसङ्गमुत्सृज्य हरिमुद्दिश्य इन्द्रियाणि च दत्वा अभयलक्षणं मोक्षं गतवानित्यन्वयः । ‘त्यागो विहापितं दानम् उत्सर्जनविसर्जने’ इत्यभिधानम् । अभयं पुरुषार्थरूपं हरिं गतवानिति वा ॥ १३ ॥

प्रकाशिका

एतमर्थमाख्यानेन द्रढयति- खट्वाङ्ग इति ॥ नामशब्दः प्रख्यातार्थः । इयत्तां मर्यादाम् । मुहूर्तान्मुहूर्तकालमेवाश्रित्य । सङ्गं राज्यादिस्नेहम् । अभयं न विद्यते भयं यस्मादि-त्यभयरूपमोक्षपदम् । खट्वाङ्गो हि राजा देवपक्षे स्थित्वा दैत्यानजयत् । ततः प्रसन्नैर्देवैर्वरं वृणीष्वेत्युक्ते तेनोक्तम् । प्रथमं तावन्ममायुः कथ्यतामिति । ततो देववरैरुक्तम् । तत्तु मुहूर्तमात्र-मवशिष्टमस्तीति । ततो भीतः सन्नतिशीघ्रं भुवमागत्य मुहूर्तकाल एव पारलौकिकं संपादितवानिती-मामाख्यायिकामनेन सूचयति ॥ १३ ॥

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधिः ।

उपकल्पय तत्सर्वं यत्तावत्साम्परायिकम् ॥ १४ ॥

पदरत्नावली- तव तदपेक्षया अनेकायुष्ट्वान्न हृत्तापः कार्य इत्यतस् तत्सर्वं हरिचरणार-विन्दस्मरणविषयकत्वेन कल्पयेत्याह- तवापीति ॥ एतर्हि इदानीम् । सप्तानाम् अह्नां समाहारः सप्ताहम् । जीवितावधिर् आयुष इयत्ता । यत्तावदायुस् तत्सर्वमपि । साम्पराय उत्तरकालः मुक्तिकालः । तत्संबन्धि यथा भवति तथा । तावन्तं कालं हरिचरणस्मरणगोचरमुपकल्पय । भागवताकर्णने तात्पर्यं कुरु इत्यर्थः । ‘सांपरायस्तु संग्रामे आपदागामिकालयोः’ इति यादवः । मरणलक्षणापत्काले हरिचरणस्मरणं यथा भवति तथा तावन्तं कालं भागवताकर्णनं कुर्विति वा ॥१४॥

प्रकाशिका

तव तु तदपेक्षयाऽधिकमायुरवशिष्टमस्ति । अतस्तद्भागवतश्रवणादिना सार्थकं कुर्वित्याह- तवाप्येतर्हीति ॥ एतर्हीदानीम् । सप्तानामह्नां समाहारः सप्ताहम् । जीवितावधिरायुष्य-मर्यादा । तावत्तावता कालेन । साम्परायिकं साम्परायो मोक्षस्तत्सम्बन्धिसाधनमुपकल्पय सम्पादय

॥ १४ ॥

अन्तकाले तु पुरुष आगते गतसाध्वसः ।

छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥

पदरत्नावली

मरणकालं ज्ञात्वा हरिस्मरणमिच्छतो वैराग्यं प्रथमं साधनमित्याह- अन्तकाल इति ॥ आगते स्वतः परतो वा ज्ञाते सति । गतसाध्वसः देहनाशप्रयुक्तभयरहितः । पुत्रादिस्नेहलक्षणः सङ्गः । तद्विरोधिविवेकज्ञानलक्षणोऽसङ्गः । तेन शस्त्रेण तं देहम् अनु ये स्त्रीपुत्रादयस् तेषु च स्पृहां छिन्द्यादित्यन्वयः ॥ १५ ॥

प्रकाशिका

किं तन्मोक्षसाधनं यन्मयाऽवशिष्टेनायुषा सम्पादनीयमित्यतः प्रथमसाधनं वैराग्यं तावदाह- अन्तकाल इति ॥ अनेन ‘यत्कर्तव्यं नृभिः प्रभो’ इति प्रश्नस्योत्तरमुक्तं भवतीति ज्ञातव्यम् । आगते स्वतः परतो वाऽवगते सति । गतसाध्वसो गतमपगतं साध्वसं मरणभयं यस्य स तथोक्तः । देहगेहादिस्नेहः संगस्तद्विरोधी नित्यानित्यवस्तुविवेकनिश्चयोऽसङ्गस्तेन शस्त्रेण । स्पृहामासक्तिम् । तं देहमनु ये स्त्रीपुत्रादयस्तेषु च स्पृहां छिन्द्यादित्यन्वयः ॥ १५ ॥

गृहात्प्रव्रजितो धीरः पुण्यतीर्थजलाप्लुतः ।

शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ १६ ॥

पदरत्नावली

अथ किङ्करोतु इत्याह- गृहादिति ॥ गृहात् प्रव्रजितः सन्यासलक्षणं वैराग्यं प्राप्तः । धीरः प्रतिबन्धकनिवर्तनसमर्थः । पुण्यतीर्थजलाप्लुतः भागवतादिपुण्यशास्त्रजलस्नातः, तथा गङ्गादिपुण्यतीर्थजलस्नातः निर्धूतबाह्याभ्यन्तरमलः सन्, शुचौ शुद्धे, विविक्ते दुर्जनसंसर्गरहिते देशे ‘नात्युच्छ्रितं नातिनीचमि’ति विधिवत् कल्पितासने आसीनो भवेदिति शेषः ॥ १६ ॥

प्रकाशिका

वैराग्यानन्तरं कर्तव्यमाह- गृहादिति ॥ प्रव्रजितो निर्गतः । गृहे स्थितस्य पुनरासक्तिसम्भवात् । धीर इन्द्रियजयदक्षः । पुण्यतीर्थजलाप्लुतो गङ्गादिपुण्यतीर्थजले स्नातः । शुचौ शुद्धे, विविक्ते दुर्जनसङ्गरहिते । देश इति शेषः । विधिवद्विधौ यथा तथा । ‘नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्’ इत्यादिविध्युक्तप्रकारेणेति यावत् । कल्पिते निर्मिते आसने आसीन इत्यन्वयः

॥ १६ ॥

अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।

मनो यच्छेज्जितश्वासो ब्रह्मबीजमनुस्मरन् ॥ १७ ॥

पदरत्नावली

स्थिरासनस्य कृत्यमाह- अभ्यसेदिति ॥ रेचकादिक्रमपरम्परया प्राणायामेन जितश्वासः प्राप्तप्राणप्रसादः मनो यच्छेत् स्ववशं कुर्यात् । एवं जितमनस्कः सन् बीजं सर्वजगद्व्यञ्जकं शुद्धं परं ब्रह्म अनुस्मरन् । अकारादीन् त्रीन् वर्णान् वृणोतीति त्रिवृत् । अक्षरं ब्रह्मवाचकत्वात् सर्वगतम् । परम् उत्कृष्टम् ओङ्कारं मनसा अभ्यसेद् आवर्तयेदित्यन्वयः ॥ १७ ॥

प्रकाशिका

स्थिरासनस्य कृत्यमाह- अभ्यसेदिति ॥ त्रिवृत् त्रीन् अकारादीन्वर्णान्वृणोतीति त्रिवृत् । अकारोकारमकारात्मकमिति यावत् । परं सर्वमन्त्रोत्तमं ब्रह्माक्षरं ब्रह्मप्रतिपादकं प्रणवं मनसा शुद्धं यथा स्यात्तथाऽभ्यसेदावर्तयेदित्यर्थः । आवर्तने द्रुतत्वादिदोषपरिहाराय शुद्धमिति विशेषणम् । मनसेत्युच्चैरुच्चारणवारणाय । एवं जपं विधाय जपकाले जपात्पूर्वकाले च कर्तव्यं दर्शयति- मन इति ॥ ब्रह्मबीजं ब्रह्मणो वेदरूपमन्त्रस्य बीजाक्षररूपं प्रणवमनुस्मरन् मनसाऽऽवर्तयन् । बीजं जगत्कारणं ब्रह्म प्रणवार्थरूपं परं ब्रह्मानुस्मरन्निति वा । जितश्वासः प्राणायामेन प्राप्तप्राणप्रसादः । भवेदिति शेषः । अनेन जपात्पूर्वं प्राणायामकालेऽपि मनसा प्रणवावर्तनं तदर्थरूपपरब्रह्मस्मरणं च कर्तव्यमिति सूचयति । अनन्तरं जपकाले मनो यच्छेत् स्ववशं कुर्यान्मनोऽभिमानिरुद्रप्रसादं सम्पादयेदित्यर्थः ॥ १७ ॥

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथिः ।

मनः कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥

तात्पर्यम्

शुभार्थे भगवति ॥ १८ ॥

पदरत्नावली

जप्यमुक्त्वा ध्यानप्रकारमाह- नियच्छेदिति ॥ बुद्धिः सारथिर् यस्य स तथा स पुरुषः जितेन मनसा अक्षान् इन्द्रियाणि विषयेभ्यः नियच्छेत् प्रत्याहरेत् । प्रत्याहृत्य च संस्कारवशाद् बहिर्मुखतया कर्मभिर् आक्षिप्तं मनः स्वधिया सारथिना शुभार्थे परममङ्गलार्थे हरौ धारयेदित्यन्वयः ॥ १८ ॥

प्रकाशिका

बाह्येन्द्रियाणां विषयान् प्रति गमने मनः पुनरवशं स्यादित्यत आह- नियच्छेदिति ॥ बुद्धिसारथिर्बुद्धिर्मोक्षेतरपुरुषार्थस्यानित्यत्वनिश्चयः सारथिर्यस्य स तथोक्तः । वशीकृतेन मनसा निमित्तेनाक्षान् बाह्येन्द्रियाणि नियच्छेत्प्रत्याहरेत् । इतरेन्द्रियदेवताप्रसादमपि सम्पादयेदित्यर्थः । ध्येयमाह- मन इति ॥ अत्र शुभार्थ इति शब्दाद्यन्यतमः कश्चिद्विषय इत्यन्यथाप्रतीतिवारणाय तदनूद्य व्याचष्टे- शुभार्थ इति ॥ तस्यैव श्रोतव्यादित्वेन प्रकृतत्वात् । पदं तत्परमं विष्णोरिति वक्ष्यमाणत्वाच्चेति भावः ॥ तथा चायमर्थः ॥ पूर्वकर्मभिरशुभविषयव्यापारैराक्षिप्तं निरस्तम् । क्लेशितमिति यावत् । बुद्ध्या सारथिरूपया शुभार्थे भगवति धारयेत् । तत्र च मनः परमानन्दं लभत इति शेषः । एतदुपपादनायैव भगवतः शुभार्थतया निर्देशः । कर्मभिराक्षिप्तमिति पूर्वावस्थानुवादोऽप्येतदर्थमेव । लोके दारिद्य्रेण दुःखितस्य महानिधिलाभे परमानन्ददर्शनादिति ॥ १८ ॥

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ॥

मनो निर्विषयं युंक्त्वा ततः किञ्चिन्न संस्मरेत् ।

पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥

तात्पर्यं

विषयेभ्यो निर्गत्य तत्रैव मनो युंक्त्वाऽन्यन्न स्मरेत् ॥ १९ ॥

पदरत्नावली

एवं हरौ नियतचेतसो योगिनो ध्यानाभ्यासप्रकारमाह- तत्रेति ॥ तत्र युगपत् सर्वावयवध्यानाशक्तौ । विषयैर् अव्युच्छिन्नेन अखण्डितेन चेतसा एकावयवम् एकैकावयवं श्रीपादादि-लक्षणं ध्यायेत् । एवम् अनायासेन स्मरणविषयं कुर्यात् । तत्परिपाकमाह- मन इति ॥ एवम् अभ्यास-पाटवेन युगपत्सर्वावयवस्मरणसमर्थः सन् ततो ऽनन्तरं निर्विषयं विषयेभ्यो निर्गत्य स्थितं मनस् तस्मिन् हरौ सर्वावयवव्यापितया युंक्त्वा नियुज्य यत्र मनः प्रसीदति निरतिशयं सुखं लभते तद्विष्णोः परमं पदं समग्रं रूपमेव स्मरेत् । ततोऽन्यत्किञ्चिन्न संस्मरेदित्यन्वयः ॥ १९ ॥

प्रकाशिका

युगपत्सर्वावयवयुक्तध्यानाशक्तौ धारणा कर्तव्येत्याह- तत्रेति ॥ तत्र भगवद्रूपे । एकावयवमेकैकावयवम्, अव्युच्छिन्नेन विषयवासनाभिरखण्डितेन । ध्यायेदनायासेन स्मरणविषयं कुर्यात् । एकैकावयवस्मृतिरेव धारणा । ‘खण्डस्मृतिर्धारणा स्यादखण्डा ध्यानमुच्यत’ इत्यन्यत्रोक्तत्वात् । ‘खण्डस्मृतिरेकैकावयवयुक्ता स्मृतिः । अखण्डा समग्रावयवयुक्ता स्मृतिरि’ति तट्टीकायां व्याख्यात-त्वाच्चेति ज्ञातव्यम् । तदनन्तरभावि कर्तव्यमाह- मनो निर्विषयमिति ॥ अत्र निर्विषयं मनो युङ्क्त्वेति व्याहतं विषयाभावे मनोयोजनासम्भवात् । किञ्चिन्न संस्मरेदिति स्मरणीयाभाव एवोच्यत इति च भाति । अतस्तदर्थं यथावद्व्याचष्टे- विषयेभ्य इति ॥ निर्गत्य स्थितमिति शेषः । अनेन निर्विषयमित्यत्र निर्गतमाकृष्टं विषयेभ्यः शब्दादिभ्य इति व्याख्यानं सूचयति । तत्रैवेति मूलेऽध्याहृतम् । किञ्चिदित्यस्य व्याख्यानमन्यदिति ॥ ततश्चायं मूलार्थः ॥ निर्गतं विषयेभ्य इति निर्विषयं, पूर्वोक्तप्रत्याहारयुतं मनस्तत्रैव सर्वावयवयुक्तभगवद्रूप एव युङ्क्त्वा समाधाय ततः शुभार्थात्किञ्चिदन्यन्न स्मरेत् । तत्रैव मनोयोगस्य मनसः परमानन्दलाभहेतुत्वादिति । अनेन धारणानन्तरमुक्तलक्षणं स्वयोग्यध्यानं कार्यमित्युक्तं भवति ।

ननु कोऽसौ शुभार्थो यत्र समाहितं मनः परमानन्दं लभत इत्यतस्तद्दर्शयति- पदमिति ॥ यत्र शुभार्थे मनः प्रसीदति परमसुखं लभते तद्विष्णोः परमं पदं स्वरूपमित्यर्थः । ततश्च मूलोक्तशुभार्थपदेन विष्णुस्वरूपमेव विवक्षितमिति मूलकारेण स्वपदमत्र विवृतम् । तात्पर्यकृता तु शिष्यहितैषिणा वक्ष्यमाणशुभार्थपदव्याख्यानमादावेव कृतमिति ज्ञातव्यम् ॥ १९ ॥

रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मनः ।

यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २० ॥

पदरत्नावली

अखण्डध्यानोपायमाह- रजस्तमोभ्यामिति ॥ रजसा आक्षिप्तम् इतस्ततो विषयैराकृष्टं, तमसा विमूढं कृत्याकृत्यज्ञानशून्यम् आत्मनः स्वस्य मनः धारणया तैलधारावदव्युच्छिन्नया स्मृत्या यच्छेद् विषयेभ्य आहृत्य ध्येयमग्नं कुर्यात् । या धारणा तत्कृतं रजस्तमोभ्याम् आक्षिप्तं रागा-विद्यादिमलं हन्ति तयेत्यन्वयः ॥ २० ॥

प्रकाशिका

एवं क्रमेण ध्यानपर्यन्तकर्तव्यान्युक्तानि । इदानीं मनो यच्छेदित्युक्तमनोजयोऽ- शक्यस्तस्य रजस्तमोभ्यां दूषितत्वादित्याशङ्कायां तज्जयोपायं दर्शयति- रजस्तमोभ्यामिति ॥ रजसा तत्कार्येण रागादिनाऽक्षिप्तं बहिर्मुखम् । तमसा तत्कार्येणाज्ञानादिना विमूढं कर्तव्याकर्तव्यविषये भ्रान्त्यादिमत् । आत्मनः स्वस्य मनः । धारणया एकैकावयवयुक्तस्मृत्या या धारणा, तत्कृतं रजस्त-मोभ्यां कृतं मलं रागाज्ञानादिकं हन्ति तयेत्यन्वयः । धारणया मनोदोषस्य रागादेः क्षये मनोजयः सुशक एवेति भावः ॥ २० ॥

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षणः ।

आशु सम्पद्यते योग आश्रयं भद्रमीक्षतः ॥ २१ ॥

तात्पर्यम्

भद्रं हरिम् ॥ २१ ॥

पदरत्नावली

न केवलं रागादिमलनाशो धारणायाः फलं किन्तु निरन्तरभक्तिलक्षण-योगश्चेत्याह- यस्यामिति ॥ यस्यां धारणायां, सर्वजगदेकाश्रयं भद्रं भगवन्तम् ईक्षतश् चिन्तयतो योगिनो, भक्तिलक्षणो योग आशु सम्पद्यत इत्यन्वयः । ‘भदि कल्याण’ इति धातोः कल्याणं मङ्गलम् । ‘मङ्गलं भगवान्विष्णुः’ इति वचनम् ॥ २१ ॥

प्रकाशिका

न केवलं रागादिमलनाशो धारणायाः फलं किन्तु मनोजयोपयुक्तभक्तिरप्याह- यस्यामिति ॥ यस्यां धारणायां सन्धार्यमाणायां सम्यक् क्रियमाणायां सत्यामाश्रयं वक्ष्यमाणरीत्या सर्वजगदाश्रयं भद्रमीक्षतश्चिन्तयतो योगिनो मनोजयोपायमनुतिष्ठतो भक्तिलक्षणयोगो मनोजयोपाय आशु सम्पद्यत इत्यन्वयः । धारणया मनोमलनाशे मनो हरिमाहात्म्यश्रवणादिना तत्रैव स्निग्धं भवति । ततस्तत्रैव मनोनिवेशनरूपो मनोजयः सुलभ इति भावः । अत्र भद्रम् इति शब्दमनूद्य तस्य प्रकृतोपयुक्तमर्थं दर्शयति- भद्रमिति ॥ २१ ॥

राजोवाच—

यथा सन्धार्यते ब्रह्मन्धारणा यत्र संमता ।

यादृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥

श्रीशुक उवाच—

जितासनो जितश्वासो जितसङ्गो जितेन्द्रियः ।

स्थूले भगवतो रूपे मनः सन्धारयेद्धिया ॥ २३ ॥

तात्पर्यम्

यच्छब्दः प्रश्ने । ‘यतश्चोदेति सूर्य’ इत्यादिवत् । ‘यच्छब्दस्तु परामर्शे प्रश्नार्थे चापि भण्यत’ इत्यभिधाने ॥ यथेत्यस्य जितासन इत्यादि । यत्र स्थूले ॥ २२ ॥

पदरत्नावली

परीक्षिद् विशेषबुभुत्सया शुकं पृच्छति- यथेति ॥ अत्र यथा, यत्र, यादृशीति यच्छब्दाः प्रश्नार्थाः । ‘यतश्चोदेति सूर्यः’ ‘यच्छब्दस्तु परामर्शे प्रश्नार्थे चापि भण्यत’ इति श्रुत्यभिधानाभ्यां निश्चितत्वात् । तथा च यथा कथं, यत्र कुत्र, यादृशी कीदृशी इति सम्पद्यतेऽर्थः ॥

तत्र प्रथमतो यथेति प्रश्नं परिहरति- जितासन इति ॥ यत्रेत्यनन्तरप्रश्नं प्रत्याह- स्थूल इति

॥ २२,२३ ॥

प्रकाशिका

उक्तधारणायां विषयादिबुभुत्सया राजा पृच्छति- यथेति ॥ अत्र यथा यत्र यादृशीतिपदेषु प्रकृतिभूतस्य यच्छब्दस्य परामर्शार्थत्वं प्रकृतासङ्गतं तच्छब्दाभावेनानन्वितं चातस्तस्य प्रकृतोपयुक्तमर्थं दर्शयति- यच्छब्द इति ॥ यथेत्यादिशब्दत्रये प्रकृतिरूपो यच्छब्द इत्यर्थः । तथा च तत्प्रकृतिकोऽपि यथेत्यादिशब्दः प्रश्नार्थ एवेति भावः । यच्छब्दप्रकृतिकस्य प्रश्नार्थत्वे प्रयोगं दर्शयति- यतश्चेति ॥ आदिशब्देन ‘अस्तं यत्र च गच्छति’ इत्यादेर्ग्रहणम् । ननु भवेदिदं यदि यच्छब्दः प्रश्नार्थ इत्यत्र प्रमाणं स्यादित्यतस्तत्राभिधानमाह- यच्छब्दस्त्विति ॥ ततश्चायमर्थः ॥ धारणा या पूर्वं मनोजयसाधनत्वेनोक्ता सा धारणा । यथा कथं केनाङ्गकलापेन युक्तेतीतिकर्तव्यताप्रश्नः । यत्र कुत्रेति विषयप्रश्नः । किं मनोजयानन्तरभाविस्वयोग्यधारणाविषये भगवद्रूपे उतान्यत्र । नाद्यः । तद्धारणाया मनोजयसाध्यतया पूर्वमुक्तत्वेन तत्साधनत्वासम्भवात् । द्वितीयश्चेत्तद्धारणाविषयीभूतं भगवद्रूपं किमित्याशयः । यादृशी कीदृशीति तद्विशेषणानां प्रश्न इति । जितासन इत्यादौ किं कस्योत्तरमिति न प्रतीयतेऽतस्तद्विविच्य दर्शयति- यथेत्यस्येत्यादिना ॥ इत्यादीत्यनन्तरमुत्तरमिति शेषः । एवमग्रेऽपि । यत्रेत्यनन्तरमित्यस्येति शेषः । स्थूल इत्यनन्तरमितिशब्दोऽध्याहार्यः । तथा च यत्रेत्यस्य प्रश्नस्य स्थूल इति उत्तरमित्यर्थः ।

मूले जितासन इत्यस्य जितं वशीकृतमासनं येनेत्यर्थः । जितः पराजितः सङ्गो विषयस्नेहो येन स जितसङ्गो विरक्त इत्यर्थः। स्थूले विराण्णामकब्रह्मदेहान्तर्गते ॥ २२, २३ ॥

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।

यत्रेदं दृश्यते विश्वं भूतं भव्यं भवच्च यत् ॥ २४ ॥

तात्पर्यम्

यादृशीत्यस्य विशेष इत्यादि । विशेष आण्डकोशः । ‘शिलावत्तस्य देहोऽय-माण्डकोशस्तु सावृतिः । तत्तन्त्रत्वान्न तत्संस्थदुःखभोगोऽस्य न (दुःखभोगो न तु)क्वचिदि’ति ब्रह्मवैवर्ते ॥ २४ ॥

पदरत्नावली

क्रमप्राप्तत्वाद् यादृशीति प्रश्नं प्रतिवक्ति- विशेष इति ॥ यदिदं भूतं भव्यं भवच्च जडाजडं तद्विश्वं यत्राण्डकोशे दृश्यते, सोऽयं स्थवीयसां स्थूलतराणां सकाशात् स्थविष्ठः स्थूलतमः । विशेष आण्डकोशः, शिलालक्षणप्रतिमावत् तस्य तदन्तस्थस्य हरेर् देहः । न तु साक्षाद्देह इत्यर्थः । तदुक्तं ‘शिलावत्तस्य देहोऽयम् आण्डकोशस्तु सावृतिः’ इति ॥ २४ ॥

प्रकाशिका

विशेषस्तस्य देह इत्यत्र विशेषशब्दो भूतविशेषपृथ्वीपर इत्याभाति तन्न सम्भवति । तस्य वक्ष्यमाणसप्तावरणसंयुक्तत्वासम्भवात् । पातालाद्यात्मकपादमूलत्वाद्यसम्भवाच्चातोऽत्र विवक्षितं तदर्थमनूद्य दर्शयति- विशेष आण्डकोश इति ॥ अत्र सर्वत्राण्डकोशशब्देनाण्डकोशान्तर्वर्ती चतुर्दशभुवनात्मको ब्रह्मदेहो ग्राह्यः । ननु कुत एवं विशेषशब्दव्याख्यानम् । भगवतो जडदेहाङ्गीकारे तद्गतसुखदुःखादिभोगप्रसङ्गश्चेत्याशङ्कां प्रमाणान्तरसंवादेन परिहरति- शिलावत्तस्येति ॥ शिलाव-च्छिलामयप्रतिमावत् । तथा च तत्र देहशरीरादिशब्दा गौणा इत्यर्थः । सावृतिः पृथिव्याद्यावरणैः सहितः । गौण्यां वृत्तौ निमित्तमाह- तत्तन्त्रत्वादिति ॥ अनेन देहादि- शब्दमुख्यार्थेऽधिष्ठातृनियन्तृत्वं दृष्टं तदत्राप्यस्तीति तत्सादृश्यं निमित्तमुक्तमिति ज्ञातव्यम् । तत्संस्थदुःखभोगस्तत्संस्थत्वप्रयुक्त-दुःखभोगः ॥ ततश्चायं श्लोकार्थः ॥ यदिदं भूतं भव्यं भवच्च विश्वं यत्राण्डकोशे दृश्यते प्रमाणैर्ज्ञायते । सोऽयं स्थवीयसां स्थूलतराणां सकाशात् स्थविष्ठः स्थूलतमो विशेष आण्डकोशस्तस्य तदन्तस्थस्य हरेर्देहो देहसदृश इति ॥ २४ ॥

आण्डकोशे शरीरेऽस्मिन्सप्तावरणसंयुते ।

वैराजः पुरुषो योऽसौ भगवान्धारणाश्रयः ॥ २५ ॥

तात्पर्यम्

आण्डकोशो(अण्डकोशो) विराट्प्रोक्तो विशेषेण प्रकाशनात् । वैराजस्तद्गतो विष्णुरथवा सर्वतो वर’ इति भागवततन्त्रे ॥ २५ ॥

पदरत्नावली

पृथिव्यादिपञ्चभूताहङ्कारमहत्तत्वसञ्ज्ञैः सप्तभिर् आवरणैः कवचस्थानीयैः संयुते बहिरावृते । शरीरे शीर्यमाणत्वात् तन्नामि्न अण्डकोशे । योऽसौ विशेषेण प्रकाशनाद् विराडा-ख्याण्डान्तर्वर्तित्वात्, सर्वतो वरत्वाद्वा वैराजाख्यः, पुरु बहु कर्मफलं सनोति ददातीति पुरुषो ऽसौ भगवान् धारणाश्रयः । तद्विषयतया कृता धारणा मनोमलं हरतीत्यन्वयः । ‘आण्डकोशो विराट् प्रोक्तो विशेषेण प्रकाशनात् । वैराजस्तद्गत’ इत्यादेः ॥ २५ ॥

प्रकाशिका

ननु कथमिदं यादृशीत्यस्योत्तरं भगवद्विशेषणस्यानुक्तत्वादित्यतस्तदन्तस्थत्वरूप-विशेषणविशिष्टतया भगवतो धारणाऽत्राभिप्रेतेत्याह- मूले आण्डकोश इति ॥ अत्र वैराजः पुरुषो विरिञ्च इति भाति । न तद्युक्तम् । पूर्वोत्तरविरोधादित्यतोऽत्राभिप्रेतं तदर्थं प्रमाणेनैव दर्शयति- आण्डकोश इति ॥ सर्वतो वर इति ॥ राट्शब्दो राजशब्दपर्यायो वरवाची । अतो विशेषेण वरो विराडित्युच्यते । विराडेव वैराजस्तस्येदं तात्पर्यं- सर्वतो वर इति ॥ ततश्चायं मूलार्थः ॥ आण्डकोशे पूर्वोक्ते सप्तावरणसंयुते पञ्चभूताहङ्कारमहत्तत्त्वसंज्ञैः सप्तभिरावरणैः कवचस्थानीयैः संयुते बहिरावृतेऽ-स्मिन्पूर्वोक्ते शरीरे तत्तन्त्रत्वेन शरीरसदृशे ब्रह्मदेहे यः पुरवः षाः षड्गुणा यस्येति पुरुषो वर्तते । अत एव वैराजोऽसौ भगवान्विष्णुर्धारणाश्रयो धारणाविषयः । अत एतद्विशेषणविशिष्टतया कृता धारणा पुरुषस्य मनोमलं हरतीत्येतदुत्तराशय इति ॥ २५ ॥

पातालमेतस्य हि पादमूलं पठन्ति पार्ष्णिप्रपदे रसातलम् ।

महातलं विश्वसृजस्सुगुल्फौ तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥

तात्पर्यम्

प्रतिमापेक्षयाऽङ्गानि स्वरूपापेक्षया तज्जानि तदाश्रितानि च । बहुरूपत्वा-द्दंष्ट्रार्यमेन्दू इत्यादि । ‘प्रतिमापेक्षयाङ्गानि भूरादीनि स्वरूपतः । तदाश्रितानि तज्जानि बह्वङ्गत्वं बहुत्वत’ इति ब्रह्मतर्के ॥ २६-३१ ॥ इति द्वितीयतात्पर्ये प्रथमोऽध्यायः ॥ १ ॥

पदरत्नावली

उपदिष्टरूपध्यानप्रकारमाह- पातालमित्यादिना ॥ अण्डाख्यप्रतिमायाः पातालादिसप्तलोकपर्यन्ता लोकाः पादमूलादिशिरोन्तान्यङ्गानि अण्डस्थितस्य हरेर् नाङ्गानि । किन्तर्हि तत्पादमूलाद्यवयवेभ्यो जातानि तदाश्रितानि च । अतो न तेषां केवलचिदानन्दाद्यात्मकभगवदवयवैरभेदः शङ्कनीयः । ‘एतस्य पादमूलम्’ इत्याद्यभेदोक्तिस्तु ‘ब्राह्मणोऽस्य मुखमासीत् ’ इत्यादिवद्युज्यते । एवमेव इन्द्रादिदेवादीनाम् अत्र तदवयवेन्द्रियगोलकाद्यभेदकथनं तत्तदङ्गादिभ्य उत्पन्नत्वात्तदाश्रितत्वात् तदधीन-त्वाभिप्रायम् । न तु स्वरूपैक्याभिप्रायम् । तेषां स्वतस्तेभ्यो भिन्नत्वात् । ‘प्रतिमापेक्षयाङ्गानि भूरादीनि स्वरूपतः’ इत्यादेः । तथा चाक्षरयोजना- एतस्य अण्डान्तर्वर्तिनो हरेः पादमूलं पातालं पठन्तीत्या-द्यन्वयः । चिदानन्दाद्यात्मकात् पादतलाज्जातं तदाश्रितं चेति ज्ञानिनः शिष्येभ्य उपदिशन्ति । उपदिष्टास् तथोपासते च । उत्तरत्राप्येवमेवानुसन्धेयम् । हिशब्द उक्तार्थे प्रमाणप्रसिद्धिप्रकाशकः । पार्ष्णिश्च प्रपदश्च पार्ष्णिप्रपदे । पार्ष्णिः पादस्य पृष्ठभागः । प्रपदं पादाग्रम् । विश्वं सृजतीति विश्वसृक् । तस्य । सुगुल्फौ प्रशस्तलक्षणपिण्डिकाख्यपर्वणी, महातलं पठन्तीति पूर्वेणान्वयः ॥ २६ ॥

प्रकाशिका

वैराजः पुरुषो धारणाश्रय इत्युक्तम् । तद्रूपे एकैकावयवयुक्तस्मृतिरूपां धारणां दर्शयति- पातालमित्यादिना ॥ अत्र पातालं पादमूलमित्यादिसामानाधिकरण्यप्रयोगेन पातालादीनां भगवदवयवाभेदः प्रतीयते । न चासौ युज्यते । तेषां जडत्वेन चिदान्दाद्यात्मकावयवाभेदासम्भवात् । अतोऽत्राभिप्रेतं विवक्षिताभेदं दर्शयति- प्रतिमापेक्षयेति ॥ अण्डान्तर्वर्ती चतुर्दशभुवनात्मको विराट् देहः शिलावद्भगवत्प्रतिमेति प्रागुक्तम् । तद्गतस्यैव चेयं धारणोच्यते । तथा च प्रतिमापेक्षया प्रतिमाविवक्षया । पातालादीनीति शेषः । अङ्गानि पादमूलाद्यङ्गाभिन्नानि । अतस्तत्र न सामानाधिकरण्यप्रयोगानुपपत्ति-रिति शेषः । तदन्तर्गतभगवत्स्वरूपापेक्षया तज्जानि भगवत्स्वरूपाङ्गनिमित्तकानि तदाश्रितानि चेति सामानाधिकरण्यमुपपन्नमिति शेषः । ‘ब्राह्मणोऽस्य मुखमासीत्’ इत्यादौ तज्जत्वादिविवक्षयाऽपि सामानाधिकरण्यप्रयोगदर्शनादिति भावः ।

नन्वेवं सूर्यचन्द्रमसोः‘चक्षुरभूत्पतङ्गो’ ‘मनश्चन्द्रमा’ इति चक्षुर्मनोभ्यां सामानाधिकरण्यमभिधाय पुनः ‘दंष्ट्रार्यमेन्दू’ इति दंष्ट्रयाऽपि सामानाधिकरण्याभिधानमनुपपन्नं स्यात् । एकत्र जातयोरन्यत्र जन्मासम्भवादित्यत आह- बहुरूपत्वादिति ॥ सामानाधिकरण्यमुपपन्नमिति शेषः । आदिपदेन सत्यं तु शीर्षाणि । तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यमित्यादेर्ग्रहणम् । तथा च सूर्यादेरेकैकत्वेऽपि तद्रूपाणा-मनेकत्वादनेकाङ्गजातत्वाभिप्रायकसामानाधिकरण्याभिधानान्युपपद्यन्त इति भावः । सर्वस्मिन् उक्तार्थे प्रमाणमाह- प्रतिमापेक्षयेति ॥ अङ्गान्यङ्गाभिन्नानि । स्वरूपतः स्वरूपापेक्षयेत्यर्थः । बह्वङ्गत्वं बह्वङ्गाश्रितत्वादिकम् । बहुत्वतो बहुरूपत्वतः । उपपद्यत इति शेषः ॥ ततश्च पातालमित्यादेर्मूल-स्यायमर्थः ॥ एतस्य वैराजस्य हरेः पादमूलं पादतलम् । पादाधोभागमिति यावत् । पातालं पठन्त्युपदिशन्ति । उपदिष्टाश्च ते तथोपासते । एवमुत्तरत्रापि पठन्तीत्यस्यान्वयो द्रष्टव्यः । हिशब्दोऽत्र प्रमाणप्रसिद्धिद्योतकः । पार्ष्णिश्च प्रपदं च पार्ष्णिप्रपदे । पार्ष्णिः पादस्य पृष्ठभागः । प्रपदं पादाग्रं विश्वं सृजतीति विश्वसृक् । तस्येति हेतुगर्भविशेषणम् । सुगुल्फौ शोभनौ पर्वविशेषौ ॥ २६ ॥

द्वे जानुनी सुतलं विश्वमूर्तेरूरुद्वयं वितलञ्चातलञ्च ।

महीतलं तज्जघनं महीपते नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥

पदरत्नावली

विश्वमूर्तेर् द्वे जानुनी सुतलं, ऊरुद्वयं वितलम् अतलञ्च । अधोभागे वितलम् उपरिभागे अतलमिति विभागः । जघनं कटितटम् । एतत्स्मरणं विशेषात्त्वया कार्यमित्यतो महीपत इति सम्बोधितम् । अगाधत्वब्रह्मजनकपद्मनिदानत्वाभिप्रायेण नाभिसर इत्युक्तम् । नभस्तलं भुवर्लोकः ॥२७॥

प्रकाशिका

विश्वं मूर्तौ देहे यस्य स इति वा । विश्वं तदात्मकं ब्रह्मशरीरं मूर्तिः प्रतिमा यस्येति वा विश्वमूर्तिस्तस्येत्यर्थः । इदमपि हेतुगर्भविशेषणम् । ऊरुद्वयमतलं वितलं च तस्याधोभागे वितलमुपरितने उपरि भागे त्वतलमिति ज्ञेयम् ॥ जघनं कटितटम् । एतत्स्मरणं विशेषतस्त्वया कार्यमिति दर्शयितुं महीपत इति सम्बोधनम् । एवमग्रेऽपि । नभस्थलमन्तरिक्षम् । भुवर्लोकमिति यावत् । नाभिसरो नाभिः सर इव । अगाधत्वपद्माश्रयत्वादिसाम्यात् ॥ २७ ॥

उरस्थलं ज्योतिरनीकमस्य ग्रीवा महर्वदनं वै जनोऽस्य ।

तपो रराटिं विदुरादिपुंसः सत्यन्तु शीर्षाणि सहस्रशीर्ष्णः ॥ २८ ॥

पदरत्नावली

ज्योतिरनीकं ज्योतिश्चक्रस्थानं स्वर्लोकः । महर्लोकोऽस्य हरेर् ग्रीवेति गृणन्ति । जनः जनोलोकः । तपोलोकः । रराटिं ललाटम् ॥ २८ ॥

प्रकाशिका

ज्योतिरनीकं ज्योतिश्चक्रस्थानीयं स्वर्गलोकम् । महर्लोकं हरेर्ग्रीवेति गृणन्ति । जनो जनोलोकम् । तपोलोकम् । रराटिं ललाटम् । सत्यं सत्यलोकम् ॥ २८ ॥

इन्द्रादयो बाहव आहुरस्य कर्णौ दिशः श्रोत्रममुष्य शब्दः ।

नासत्यदस्रौ परमस्य नासे घ्राणञ्च गन्धो मुखमग्निरिद्धः ॥ २९ ॥

पदरत्नावली

इन्द्रादयो लोकपाला अस्य बाहव इत्याहुः । दिशः कर्णौ गोलकस्थानीयौ । अमुष्य हरेः श्रोत्रम् इन्द्रियं शब्द इति । नासत्यदस्त्रौ अश्विनौ नासे नासिके । गन्धो भूमेर् गुणः घ्राणं गन्धग्राहीन्द्रियं गन्धजनकमाहुरित्यर्थः । इद्धः दीप्तः ॥ २९ ॥

प्रकाशिका

इन्द्रादयो लोकपालाश्चास्य हरेर्बाहव इत्याहुः । अत्रोत्तरत्र च सामानाधि-करण्यप्रयोगे तज्जत्वादिकमेव निमित्तमिति ध्येयम् । दिशः श्रोत्राभिमानिन्यो दिग्देवताः । कर्णौ श्रोत्रेन्द्रियगोलकौ । अमुष्य हरेः श्रोत्रमिन्द्रियम् । शब्दः शब्दजनकस्तदाश्रयश्चेत्यर्थः ॥ एवमग्रेऽपि । नासत्यदस्रावश्विनौ । नासे तन्नासापुटे । अस्य घ्राणं घ्राणेन्द्रियम् । इद्धो दीप्तः ॥२९॥

द्यौरक्षिणी चक्षुरभूत्पतङ्गः पक्ष्माणि विष्णोरहनी उभे च ।

तद्भ्रूविजृम्भः परमेष्ठिधिष्ण्यमापोऽस्य तालू रस एव जिह्वा ॥ ३० ॥

पदरत्नावली

द्यौर् द्युलोकः । अक्षिणी गोलके । पतङ्गः सूर्यः । मनुष्याणामहनी देवादीना-महनी इत्युभे च विष्णोः पक्ष्माणि ततो जाते तदाश्रिते च । परमेष्ठिधिष्ण्यं ब्रह्मलोकः । मधुरादिरसः

॥ ३० ॥

प्रकाशिका

द्यौर्द्युलोकः । अक्षिणी गोलके । चक्षुरिन्द्रियम् । पतङ्गः सूर्यः । अहनी रात्र्यहनी देवानां मनुष्याणां चेत्युभेऽपि विष्णोः पक्ष्माणि ॥ परमेष्ठिधिष्ण्यम् ब्रह्मपदम् । तालुरधिष्ठानं जिह्वेन्द्रियम् । रसो मधुरादिः ॥ ३० ॥

छन्दांस्यनन्तस्य गिरो गृणन्ति दंष्ट्रार्यमेन्दूडुगणा द्विजानि ।

हासो जनोन्मादकरी च माया दुरन्तसर्गो यदपाङ्गमोक्षः ॥ ३१ ॥

पदरत्नावली

गायत्र्यादिच्छन्दांसि गिरः वचनानि गृणन्ति । अर्यमेन्दू सूर्यचन्द्रौ अस्य दंष्ट्रा दंष्ट्राद्वयाज्जातावित्यर्थः । बहुरूपत्वात् पुनर्वचनम् । ‘बह्वङ्गत्वं बहुत्वतः’ इति वचनात् । उडुगणा नक्षत्राणि द्विजानि दन्ताः । अत्र प्रगृह्यसंज्ञाभावो लिङ्गव्यत्यासश्च वैलक्षण्यद्योतनायेति ज्ञातव्यम् । माया मोहनशक्तिः । हासो हासादभिव्यक्ता । सप्तसु प्रथमेति सूत्रात् । दुरन्तसर्गो ऽनवसानविश्वसृष्टिः

॥ ३१ ॥

प्रकाशिका

छन्दांसि गायत्र्यादीनि । गिरो वचनानि । अर्यमेन्दू सूर्यचन्द्रौ । अस्य दंष्ट्रा । उडुगणा नक्षत्राणि द्विजानि दन्ताः । अत्र प्रगृह्यसंज्ञाभावो लिङ्गव्यत्ययश्च लोकवैलक्षण्यज्ञापनाय । माया मोहनशक्तिः । हासो मन्दस्मितम् । दुरन्तोऽपारः सर्गो यस्य सः । यस्यापाङ्गमोक्षः कटाक्षः ॥ ३१ ॥

व्रीडोत्तरोष्ठोऽधर एव लोभो धर्मः स्तनोऽधर्मपथश्च पृष्ठः ।

कस्तस्य मेढ्रं वृषणौ च मित्रः कुक्षिः समुद्रा गिरयोऽस्थिसङ्घाः ॥३२॥

पदरत्नावली

व्रीडा लज्जा । अधरो ऽधरोष्ठः । एवशब्दो ऽन्ययोगव्यवच्छेदकः । कः प्रजापतिः । मेढ्रं गुह्येन्द्रियम् । वृषणौ बीजद्वयम् । मित्र इत्युपलक्षणं वरुणश्च ॥ ३२ ॥

प्रकाशिका

व्रीडा लज्जा । अधरोऽधरोष्ठः । एवशब्दोऽन्ययोगव्यवच्छेदकः । अधर्मपथोऽ-धर्ममार्गः । पृष्ठः पृष्ठभागः । कः प्रजापतिः । मेढ्रं गुह्येन्द्रियम् । वृषणौ बीजद्वयं, मित्रः ॥ ३२ ॥

नद्योऽस्य नाड्योऽथ तनूरुहाणि महीरुहा विश्वतनोर्नृपेन्द्र(नरेन्द्र) ।

अन्नञ्च वीर्यं श्वसितं मातरिश्वा गतिर्वयः कर्म गुणप्रवाहः ॥ ३३ ॥

पदरत्नावली

विश्वा तत्तत्पदार्थेषु प्रविष्टा तनुर् यस्य स तथा तस्य । विश्वं तनुः प्रतिमा यस्य स तथा तस्येति वा । वीर्यं रेतः । अन्नं प्राणिभोग्यम् । गतिर् गमनम् । तस्माद्वय आयुः प्राणिनां जीवनावधिलक्षणम् उत्पन्नम् । कर्म व्यापारः । तस्मात् सत्वादिगुणानां प्रवृत्तिक्रमः ॥ ३३ ॥

प्रकाशिका

अन्नं प्राणिभोग्यम् । तस्य वीर्यं रेतः । वयः प्राणिनामायुष्यम् । तस्य गतिर्गमनम् । गुणप्रवाहः सत्त्वादिगुणप्रवाहकार्यरूपः प्राणिनां संसारस्तस्य कर्म व्यापारविशेषः ॥ ३३ ॥

ईशस्य केशान्विदुरम्बुवाहान्वासस्तु सन्ध्ये कुरुवर्य भूम्नः ।

अव्यक्तमाहुर्हृदयं मनस्तु स चन्द्रमाः सर्वविकारकोशः ॥ ३४ ॥

पदरत्नावली

सन्ध्ये द्वे । अव्यक्तं मूलप्रकृतिम् । मनोभिमानित्वाच्चन्द्रस्य कामादिनाना-विकारगृहत्वमुपचारः । मनः मनसो जातः ॥ ३४ ॥

प्रकाशिका

सन्ध्ये द्वे । अव्यक्तं मूलप्रकृतिम् । सर्वेषां कामादिविकाराणां कोश इवाश्रयभूतः । स प्रसिद्धः । चन्द्रमास्तदीयं मनः । चन्द्रस्य कामादिविकाराश्रयमनोऽभिमानित्वात् सर्वविकार-कोशत्वोक्तिर्युक्तेति ध्येयम् ॥ ३४ ॥

विज्ञानशक्तिं मतिमामनन्ति सर्वात्मनोऽन्तःकरणं गिरित्रः ।

अश्वाश्वतर्युष्ट्रगजा नखानि सर्वे मृगाः पशवः श्रोणिदेशे ॥ ३५ ॥

पदरत्नावली

विज्ञानशक्तिं विरिञ्चम् । गिरिं कैलासं त्रायत इति, गिरेर् वायोस् त्राणं यस्य स तथेति वा गिरित्रो रुद्रः । सर्वात्मनः सर्वस्वामिनः । अन्तःकरणम् अहङ्कारः । तस्माज्जातः । नखानि नखेभ्यः । गर्दभाद्वडवायामुत्पन्ना अश्वतरी । श्रोणिदेशे स्थिताः । तस्माज् जाताश्च ॥ ३५ ॥

प्रकाशिका

विज्ञानशक्तिं विरिञ्चम् । मतिं बुद्धिम् । गिरित्रः कैलासरक्षको रुद्रः । सर्वात्मनः सर्वस्वामिनोऽन्तःकरणमहङ्कारः । गर्दभाद्वडवायामुत्पन्नाऽश्वतरी । श्रोणिदेशे श्रितास्तस्माज्जाताश्च ॥३५॥

वचांसि तद्व्याहरणं विचित्रं मनुर्मनीषा मनुजो निवासः ।

गन्धर्वविद्याधरचारणाप्सरःस्वरस्मृतिर्ह्यसुरानीकवीर्यः ॥ ३६ ॥

पदरत्नावली

वचांसि लौकिकवैदिकानि । विचित्रं, तस्य व्याहरणं शब्दोच्चारणाश्रितानि तज्जातानि च । मनुर् वायुः । तस्य मनीषा बुद्धिः ‘ते वायवे मनवे बाधिताये’ ति श्रुतिः । मनुः स्वायम्भुवो वा । मनीषा विचारः । भगवद्विचारशक्तिजातत्वात् स्मृतिकर्तृत्वं मनोः । निवासः निवसनकर्मजनितत्वात् । गन्धर्वादीनामुत्पादिके स्वरस्मृती यस्य स तथा । स्वरः षड्जादिलक्षणः । स्मृतिर् अतीतविषया । असुरानीकस्य जनकं वीर्यं यस्य स तथा ॥ ३६ ॥

प्रकाशिका

वचांसि लौकिकवैदिकरूपाणि । विचित्रमनेकरूपम् । तद्व्याहरणं तस्य हरेः शब्दोच्चारणरूपक्रिया । मनुः स्वायम्भुवः । मनीषा विचाररूपा बुद्धिः । मनुजः प्रियव्रतादिः । निवासस्तदीयनिवासनक्रिया । गन्धर्वादीनामुत्पादिके स्वरस्मृती यस्य स तथोक्तः । स्वरः षड्जादि-लक्षणः । स्मृतिरतीतविषयज्ञानम् । यद्वा । भिन्न एवैते पदे गन्धर्वादीनां द्वन्द्वैकवद्भावः । तथा च गन्धर्वादयः स्वरस्मृतिस्तदीयषड्जादिस्वरस्मरणमित्यर्थः । असुरानीकमसुरसमूहः वीर्यं पराक्रमो यस्य स तथोक्तः । असुरसमूहस्तत्पराक्रमजन्यस्तदाश्रितश्चेत्यर्थः ॥ ३६ ॥

ब्रह्माननः क्षत्रभुजो महात्मा विडूरुरङ्घ्रिश्रितकृष्णवर्णः ।

स्वाहास्वधावीर्यगुणोपपन्नो हव्यात्मकः कर्मवितानयोगः ॥ ३७ ॥

पदरत्नावली

ब्रह्मणः ब्राह्मणजातेर् जनकम् आननं यस्य स तथा । क्षत्रजातेरुत्पादकौ भुजौ यस्य स तथा । विशां जनकौ ऊरू यस्य स तथा । अङ्घ्रिश्रितः कृष्णवर्णः शूद्रजातिर्यस्य स तथा । देवपितृभ्यो विनियुज्यमानमन्नं स्वाहास्वधा । तयोर् उत्पादको वीर्यगुणो रेतोगुणस् तेनोपपन्नः । हव्यस्य जनक आत्मा मध्यदेहो यस्य स तथा । अग्निष्टोमादिकर्मवितानस्योत्पादको योग उपायो यस्य स तथा । वितानं विस्तारः ॥ ३७ ॥

प्रकाशिका

ब्रह्मा ब्राह्मणजात्यभिमानी आननं यस्य स तथा तदीयमाननं ब्राह्मणजात्यभि-मानिनो जनकम् । एवमग्रेऽपि । क्षत्रं क्षत्रियजात्यभिमानी भुजो यस्य स तथा । विट् वैश्यजात्य-भिमानी ऊरू यस्य स तथा । अङ्घ्रिश्रितः कृष्णवर्णः शूद्रजात्यभिमानी यस्य स तथा । देवेभ्यो विनियुज्यमानमन्नं स्वाहा । पितृभ्यो विनियुज्यमानमन्नं तत्स्वधा । तयोरुत्पादको वीर्यगुणो रेतोगुणः । तद्वैचित्र्यमिति यावत् । तेनोपपन्नो युक्तः । हव्यस्य जनक आत्मा मध्यदेहो यस्य सः हव्यात्मकः । अग्निष्टोमादिकर्मवितानस्य विस्तारस्य जनकः योग उपायो यस्य स तथा ॥ ३७ ॥

इयानसावीश्वरविग्रहस्य यः सन्निवेशः कथितो मया ते ।

सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे मनः स्वबुध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥

॥ इति श्रीमद्भागवते द्वितीयस्कन्धे प्रथमोऽध्यायः ॥

पदरत्नावली

उक्तार्थमुपसंहरति- इयानिति ॥ ईश्वरविग्रहस्य वैराजाख्यहरिदेहस्य यः सन्निवेशो ऽवस्थितिविशेषः स इयान् इत्थंभूतः मया ते तव कथितः । यतः यस्माद् ईश्वरविग्रहात् स्थविष्ठम् उत्तमञ्च नास्ति । योगिभिर् मनो ऽस्मिन् स्थविष्ठे सर्वोत्तमे वपुषि स्वबुद्ध्या सन्धार्यते । मनोनैर्मल्यायेति शेषः । इत्यन्वयः ॥ ३८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां द्वितीयस्कन्धे प्रथमोऽध्यायः ॥

प्रकाशिका

उक्तार्थमुपसंहरति- इयानिति ॥ ईश्वरविग्रहस्येश्वरप्रतिमारूपस्य विराट्देहस्य यः सन्निवेशोऽवयवसंस्थानम् । इयानित्थंभूतो यतो यस्मादीश्वरविग्रहात्स्थविष्ठं किञ्चिदन्यन्नास्ति । अस्मिन् स्थविष्ठे वपुषि योगिभिर्मनः स्वबुद्ध्या सन्धार्यते । मनोनैर्मल्यायेति शेषः ॥ ३८ ॥

॥ इति श्रीभागवतटिप्पण्यां प्रथमोऽध्यायः ॥ २-१ ॥