२० विंशोऽध्यायः

तत्राभव(गम)द्भगवान्व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः

अथ विंशोऽध्यायः

सूत उवाच—

तत्राभव(गम)द्भगवान्व्यासपुत्रो यदृच्छया गामटमानोऽनपेक्षः ।

अलक्ष्यलिङ्गो निजलाभतुष्टो वृतश्च बालैरवधूतवेषः ॥ १ ॥

पदरत्नावली

ज्ञानादिनैव सत्सङ्गत्या सकलपापक्षयो भवतीति प्रतिपाद्यतेऽस्मिन्नध्याये । तत्रादौ शुकागमनं वक्ति- तत्रेति ॥ यत्र परीक्षिता मुनिभिश्च स्थितं तत्र । तस्याम् अवस्थायां वा । व्यासपुत्रः शुको भगवान् यदृच्छया दैवेच्छया अभवदित्यन्वयः । पूर्वस्मात्कान्तिविशेषद्योतनाय अभवदित्युक्तम् । आगमनस्य तावता चरितार्थत्वात् । अटनस्य स्वाधीनत्वप्रकाशनाय अटमान इति शानच् प्रत्ययः । तर्ह्यर्थाभिलाषी किमटति इत्यत उक्तं- अनपेक्ष इति ॥ बाह्मविषयापेक्षारहितः । तत्कुत इत्यस्यापि तदेवोत्तरम् । अनपः प्राणनाथः श्रीविष्णुस् तद्विषया ईक्षा ईक्षणं दर्शनं यस्य सस् तथोक्तः । न हि करतलामलकवत् सन्ततमपरोक्षीकुर्वाणस्य तस्य बाह्यपदार्थापेक्षा भवतीति वा । बाह्यपदार्थापेक्षाभावे शरीरयात्रा कथम् इत्यस्याप्येतदेवोत्तरम् । अनं प्राणं पिबतीत्यनपा ईक्षा दर्शनम् । काकोदरवच् चञ्चुपुटेन वायुपानज्ञानं यस्यास्ति स तथा कथित इति वा । श्रीप्रसादाभावादशनदारिद्य्रं किमित्यस्येदमेवोत्तरम् । स्वस्मादपगता न भवतीत्यनपा लक्ष्मीः । तस्या ईक्षणं यस्यास्ति स तथेति वा । तत्कटाक्षपात्रीभूत इत्यर्थः । सन्ततगमनस्वभावेन वायुना तृप्तिः कथं स्यादिति तत्राह- निजेति ॥ स्वरूपानन्देना-लम्बुद्धिमान् यदृच्छालाभेन तृप्तः । किमाश्रम इति तत्राह- अलक्ष्येति ॥ न लक्ष्याण्याश्रमादिलिङ्गानि यस्य सस् तथोक्तः । तत्कुत इति तत्राह- अवधूतेति ॥ अवधूतानां दिगम्बराणां वेषो यस्य सस् तथोक्तः । अवधूतः परित्यक्तः वेषो ऽलङ्कारो येन स तथेति वा । अत एव बालैश्च वृतः ॥ १ ॥

प्रकाशिका

यत्र परीक्षितामुनिभिश्च स्थितं तत्रागमत्प्राप्तः । अभवदिति पाठेऽप्ययमेवार्थः । यदृच्छया भगवदिच्छया गां भूमिमटमानः पर्यटन् । नार्थाशयेनेत्याह- अनपेक्ष इति ॥ अलक्ष्यमाश्रमादिलिङ्गं यस्य सः । निजलाभेन हरिस्मरणाविर्भूतस्वरूपानन्दानुभवेनान्यत्रालम्बुद्धिमान् । अवधूतवेेषोऽवज्ञाय जनैस्त्यक्तोऽयमुन्मत्तादिः सोऽवधूतस्तस्य वेषो यस्य सः । अत एव बालैर्वृतः॥१॥

तं व्द्यष्टवर्षं सुकुमारपादकरोरुबाह्वंसकपोलगात्रम् ।

चार्वारुणाक्षोश्नसतुल्यकर्णं सुभ्व्राननं कंबुसुजातकण्ठम् ॥ २ ॥

पदरत्नावली

मुनयस् तं दृष्ट्वा आसनेभ्यः प्रत्युत्थिता इत्यन्वयः । चशब्दाद् अन्ये च तत्र स्थिता उत्तस्थुरिति ग्राह्यम् । गूढर्वचसम् आच्छादितनिजतेजोलक्षणमहिमानमपि तल्लक्षणज्ञाः । किंविशिष्टं ? द्व्यष्टवर्षं द्विः कृत्वा अष्टवर्षाणि यस्य सस् तथोक्तस् तं षोडशवर्षम् । सुकुमाराणि कोमलानि पादादीनि यस्य स तथोक्तस् तम् । पादौ च करौ च ऊरू च बाहू च अंसौ च कपोलौ च गात्रञ्च तानि तथोक्तानि । चारूणि च ईषद् अरुणे रक्ते च अक्षिणि यस्य स तथा । उन्नता नासिका यस्य स तथा । तुल्यौ परस्परसमौ कर्णौ यस्य स तथा तम् । सुभ्रु शोभनभ्रु आननं यस्य स तथा तम् । कम्बुवत् त्रिरेखाङ्कितशङ्खवत् सुजातः लक्षणवत्तमः कण्ठो यस्य स तथा तम् ॥ २ ॥

प्रकाशिका

तमित्यादीनां प्रत्युत्थिता इति वक्ष्यमाणेनान्वयः । द्विगुणान्यष्टौ वर्षाणि यस्य तम् । पादौ च करौ चोरू च बाहू चांसौ च गात्रं च तानि तथोक्तानि सुकुमाराणि कोमलानि पदादीनि यस्य स तथोक्तस्तम् । चारूणी आयतेऽक्षिणी यस्मिन् उन्नता नासा यस्मिन् । लम्बह्रस्व-त्वादिवैषम्यं विना तुल्यौ कर्णौ यस्मिन् । शोभने च भ्रुवौ यस्मिन् । एवं भूतमाननं यस्य तं कम्बुवच्छंखवद्रेखात्रयाङ्कितः सुजातः सुन्दरः कण्ठो यस्य तम् ॥ २ ॥

निगूढजत्रंु पृथुतुङ्गवक्षसमावर्तनाभिं वलिवल्गूदरञ्च ।

दिगम्बरं वक्रविकीर्णकेशं प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ ३ ॥

पदरत्नावली

अंसवक्षःस्थलयोर्मध्यं जत्रु । निगूढं पूरितविवरं पीवरं जत्रु यस्य स तथा तम् । पृथुविस्तीर्णं तुङ्गम् उन्नतं वक्षो यस्य स तथा तम् । आवर्तः पयसां भ्रमः । तद्वन्निम्ना वृत्ता नाभिर् यस्य स तथा तम् । वलिभिः रेखाभिर् वल्गु सुन्दरम् उदरं यस्य स तथा तम् । दिगेव अम्बरं यस्य स तथा तम् ॥ ३ ॥

प्रकाशिका

कण्ठस्याधोभागस्थितमंसवक्षःस्थलयोर्मध्यं जत्रु । निगूढं मांसेन पीवरं जत्रु यस्य तम् । पृथु विस्तीर्णं तुङ्गमुन्नतं वक्षो यस्य तम् । आवर्तः पयसां भ्रमणं तद्वन्निम्नो नाभिर्यस्य तम् । वलिभिस्तिर्यग्रेखाभिर्वल्गु सुन्दरम् उदरं यस्य तम् । दिश एवाम्बरं यस्य तम् । वक्राः कुटिला विकीर्णाः केशा यस्य तम् । प्रलम्बौ दीर्घौ बाहू यस्य तम् । स्वमरेषु देवश्रेष्ठेषूत्तमो व्यासस्तद्वदाभा यस्य तम्

॥ ३ ॥

श्यामं सदाऽऽपीच्यवयोङ्गलक्ष्म्या स्त्रीणां मनोज्ञं रुचिरस्मितेन ।

प्रत्युत्थिता मुनयश्चासनेभ्यस् तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ ४ ॥

तात्पर्यम्

‘कैशोरयौवनाभ्यन्तः काल आवीच्यमुच्यते’ इत्यभिधानात् ॥ ४ ॥

पदरत्नावली

आपीच्यं षोडशवर्षीयं वयो यस्य तदापीच्यवयः । तच्चाङ्गम् । तस्य लक्ष्म्या स्त्रीणां मनोज्ञं मनोहरम् । रुचिरस्मितेन च, मनोहरमिति शेषः ॥ ४ ॥

प्रकाशिका

सदा विद्यमानयाऽऽपीच्यवयोऽङ्गलक्ष्म्येत्यत्रात्यन्तमुत्तममापीच्यं वयो यौवनमिति व्याख्या न प्रामाणिकीत्याशयेनापीच्यशब्दार्थं प्रमाणेनैव दर्शयति- कैशोरेति ॥ कैशोरयौवनयोरभ्यन्तो मध्यस्थः कालो वयोविशेष आपिच्यशब्देनोच्यत इत्यर्थः । तथा चापीच्यं कैशोरयौवनमध्यस्थितं वयोऽवस्थाविशेषो यस्य तदापीच्यवयस्तच्च तदङ्गं च तस्य लक्ष्म्या कान्त्या । रुचिरस्मितेन च । स्त्रीणां मनोज्ञं मनोहरं गूढवर्चसमपि । शुकत्वेन ज्ञात्वेति शेषः ॥ ४ ॥

स विष्णुरातोऽतिथय आगताय तस्मै सपर्यां शिरसाऽऽजहार ।

ततो निवृत्ता ह्यबुधाः स्त्रियोऽर्भका महासने चोपविवेश पूजितः ॥ ५ ॥

पदरत्नावली

विष्णुरातः विष्णुना दत्तः परीक्षित् । न तिथिर् दिनविशेषो यस्य स तस्मै । आजहार चकार । हिशब्दोऽबुधत्वे हेतुः । अनेन ‘कथमालक्षितः पौरैः’ ‘कथं वा पाण्डवेयस्य’इति प्रश्नः परिहृत इति ज्ञातव्यम् ॥ ५ ॥

प्रकाशिका

विष्णुना रातो दत्तो रक्षितः परीक्षित् । न तिथिर्दिनविशेषः पूजार्थं यस्य सोऽतिथिस्तस्मै सपर्यां पूजाम् । शिरसा नमस्कृत्येति शेषः । आजहार चकार । स्त्रियोऽर्भकाः । तेन सहागता इति शेषः । ततः प्रत्युत्थानादिदर्शनानन्तरं निवृत्ताः परावृत्य गताः । पूर्वं कस्मात्सहागता इत्यत उक्तम् । हि यस्मादबुधा इति । शुकोऽयमिति ज्ञानरहिताः । कश्चिदुन्मत्त एवायमिति ज्ञानिन इत्यर्थः । महासने उपविवेश पूजितश्च ॥ ५ ॥

स संवृतस्तत्र महान्महीयसां ब्रह्मर्षिराजर्षिदेवर्षिसङ्गैः ।

व्यरोचतालं भगवान्यथेन्दुर्ग्रहर्क्षतारानिकरैः परीतः ॥ ६ ॥

पदरत्नावली

सः परीक्षिन् महायसां महत्तराणां मध्ये महान् । संवृतः गूढः । महत्व-प्रकाशनाय राजा ब्रह्मर्ष्यादिभिः परीतो व्यरोचतेत्युक्तम् । तक्षकान्मरिष्य इति मरणभिया मुखाद्यङ्गकान्तिग्लानिर्नास्तीति यस्मात्तस्मादित्यर्थः ॥ ६ ॥

प्रकाशिका

स भगवान् शुको ब्रह्मर्ष्यादिसङ्घैः संवृतः सम्यक् परीतः परितो वृतः सन् अलं व्यरोचत । ग्रहा बृहस्पतिशुक्रादयः । ऋक्षाण्यश्विन्यादीनि । तारा अन्यनक्षत्राणि ॥ ६ ॥

प्रशान्तमासीनमकुण्ठमेधसं मुनिं नृपो भागवतोऽभ्युपेत्य ।

प्रणम्य मूर्ध्नाऽवहितः कृताञ्जलिर्नत्वागिरा सूनृतयाऽन्वपृच्छत् ॥ ७ ॥

पदरत्नावली

सूनृतया गिरा प्रियवचनेन ॥ ७ ॥

प्रकाशिका

न कुण्ठिता अकुण्ठिता सर्वार्थेषु मेधा यस्य तम् । प्रश्नार्थं पुनः प्रणम्य । सूनृतया गिरा प्रियवचनेन सह । प्रियवचनोक्तिपूर्वकमित्यर्थः ॥ ७ ॥

राजोवाच—

अहो अद्य वयं ब्रह्मन्सत्सेव्याः क्षत्रबन्धवः ।

कृपयाऽतिथिरूपेण भवद्भिस्तीर्थकाः कृताः ॥ ८ ॥

पदरत्नावली

हे ब्रह्मन् ब्रह्मज्ञानिन् क्षत्रबन्धवः वयम् अद्य सद्भिः सेव्या अभूम । अहो भाग्यम् । कुतः ? अतिथिरूपेणागतैर् भवद्भिस् तीर्थकास् तीर्थेषु प्रशस्ततीर्थाः कृताः । तथा भवन्तो निष्कलुषत्वात्तीर्थानि भवन्ति तथा वयमपि युष्मत्सङ्गत्येत्यर्थः । अत्र कृपैव कारणम् इत्यतः कृपयेत्युक्तम्

॥ ८ ॥

प्रकाशिका

सूनृतां गिरं तावद्दर्शयति- अहो इति श्लोकपञ्चकेन ॥ सतां सेव्या अभूम । अहो भाग्यम् । अतिथिरूपेणागतैर्भवद्भिस्तीर्थकाः कृताः । इवार्थे कप्रत्ययः । तीर्थसदृशा इत्यर्थः । यथा तीर्थानि भवदागमनेन शुद्ध्यन्ति तथा वयमपि शुद्धाः कृता इत्याशयः ॥ ८ ॥

येषां संस्मरणात्पुंसः सद्यः शुद्ध्यन्ति वै गृहाः ।

किम्पुनर्दर्शनस्पर्शपादशौचासनादिभिः ॥ ९ ॥

पदरत्नावली

तीर्थीकरणमेव विशिनष्टि- येषामिति ॥ येषां भवतां संस्मरणात् पुंसः गृहाः सद्यः शुध्यन्ति वै यतो ऽतो दर्शनादिना शुध्यन्तीति किम्पुनर्वक्तव्यमित्यन्वयः ॥ ९ ॥

प्रकाशिका

आगतानां भवतां शुद्धीकरणसामर्थ्यं कैमुत्यसिद्धमित्याह- एषामिति ॥ दूरस्थानामित्यर्थः ॥ ९ ॥

सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि ।

सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतराः ॥ १० ॥

पदरत्नावली

भवत्सङ्गत्या विशेषोऽप्यस्तीत्याह- सान्निध्यादिति ॥ अनेन ब्रह्महत्यादि-पापपरिहारोऽपि भवतीत्युक्तं भवति । ज्ञानात् पूर्वतनानि भस्मीभवन्ति पश्चात्तनानि न श्लिष्यन्त इति शास्त्रनिश्चितं वैशब्देनाह । न केवलम् अस्मत्पापहानिरेव किन्तु अस्मत्सङ्गतानामपीति वा ॥ १० ॥

प्रकाशिका

न केवलं गृहाः शुद्ध्यन्ति किन्तु तत्रत्याः पुरुषा अपीति सोदाहरणमाह- सान्निध्यादिति ॥ सुरेतरा असुरा इव ॥ १० ॥

अपि मे भगवान्प्रीतः कृष्णः पाण्डुसुतप्रियः ।

पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्याप्तबान्धवः ॥ ११ ॥

पदरत्नावली

पाण्डुसुतानां प्रियः । पाण्डुसुताः प्रिया यस्येति वा । कृष्णो भगवान् मे मह्यं प्रीतोऽपि प्रीत एव । कुतः ? पिता वसुदेवस् तस्य स्वसा कुन्ती तस्याः पुत्राः पैतृष्वसेया युधिष्ठिरादयस् तेषां प्रीतये । तेषां गोत्रं यस्य सोऽहं तद्गोत्रस् तस्य मे आप्तबान्धवो जात इति यस्मादत इति ॥ ११ ॥

प्रकाशिका

अस्मिन्काले भवदागमनं मद्वन्धुना प्रीतेन श्रीकृष्णेनैव नूनं कारितमित्याशयेनाह- अपीति ॥ भगवान्कृष्णः प्रीतोऽपि प्रीतः किं प्रीत एवेत्यर्थः । कथंभूतः । पाण्डुसुतानां प्रियः । अतस्तेषां पैतृष्वसेयानां पितृष्वसा कुन्ती तदपत्यभूतानां पाण्डवानां प्रीत्यर्थम् । तेषां गोत्रं यस्य तस्य मे आप्तं स्वीकृतं बान्धवं बन्धुकृत्यं येन सः स्वयं पाण्डवानां पियोऽतस्तेषां प्रीत्यर्थम् । तद्गोत्रोत्पन्ने मयि बन्धुकृत्यं दर्शितवानिति भावः ॥ ११ ॥

अन्यथा तेऽव्यक्तगतेर्दर्शनं नः कथं नृणाम् ।

नितरां म्रियमाणानां संसिद्धस्य वरीयसः ॥ १२ ॥

पदरत्नावली

अन्यथा तत्प्रीत्यभावे अव्यक्तगतेर् अज्ञातगमनस्य संसिद्धस्य ब्रह्मज्ञानितया कृतकृत्यस्य वरीयसः वरणीयेषु पूज्यस्य ते तव दर्शनं नृणां नः कथं घटते ? म्रियमाणानां नितरां न घटत इति शेषः ॥ १२ ॥

प्रकाशिका

अन्यथा कृष्णप्रीत्यभावेऽव्यक्ता गतिर्यस्य तस्य ते दर्शनम् । संसिद्धस्य कृतकृत्यस्य । वरीयसो वरणीयेषूत्तमस्य ॥ १२ ॥

अतः पृच्छामि संसिद्धं योगिनां परमं गुरुम् ।

पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वदा ॥ १३ ॥

यच्छ्रोतव्यमथो जाप्यं यत्कर्तव्यं नृभिः सदा ।

स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ १४ ॥

पदरत्नावली

भवद्दर्शनं दुर्लभमिति यतोऽतः दैवात्प्राप्तं योगिनां परमं गुरुं संसिद्धं कैवल्यभूतं भवन्तम् । इह म्रियमाणस्य पुंसः सदा यत्कार्यं यच्च श्रेतव्यम् अथो यच्च जाप्यम् अथवा अन्यैर् नृभिर् यत्कर्तव्यं भजनीयं वा यद्धा विपर्ययो ऽकर्तव्यास्मर्तव्यादि । तच्च पृच्छामि । तदस्माकं ब्रूहीत्येकान्वयः

॥ १३,१४ ॥

प्रकाशिका

अतः कृष्णप्रसादेनैवात्र भवद्भिरागतत्वात् । म्रियमाणस्य पुरुषस्य । कर्तरि षष्ठी । इह भारते वर्षे । यत्कार्यमित्यादौ यच्छब्दाः प्रश्नार्थककिंशब्दार्थाः । अन्यथाऽस्य प्रश्नत्वासम्भवात् । तथा च किं कार्यं कर्तुं योग्यम् ॥ यच्छ्रोतव्यमित्यादौ श्रोतव्यादिषु किमुत्तममिति प्रश्राशयः । अन्यैश्च नृभिर्यत्कर्तव्यम् । अवश्यकर्तव्यं च किमित्यर्थः । यद्वा । किंवा विपर्ययं श्रोतव्यादिषूत्तमं न भवति । अस्य सर्वस्योत्तरं ब्रूहीत्यर्थः ॥ १४ ॥

नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।

न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्वचित् ॥ १५ ॥

पदरत्नावली

गृहमेधिनां गृहस्थानां गृहेषु क्वचिद् एकत्रापि गोदोहनक्षणमपि भवतोऽवस्थानं न लक्ष्यते । नूनं निश्चयः । हि यस्मात् तस्माज् ज्ञानिनि स्वतः प्राप्ते सति कर्तव्याद्यज्ञाने अस्माकं महाऽसुरत्वं स्यादिति भवन्तं पृच्छामीति भावः ॥ १५ ॥

प्रकाशिका

तव चिरकालं नैकत्रावस्थानमथाऽपि मत्कृपयाऽत्रोपदेशार्थमत्रोपविष्टो असीत्या-शयेनाह- नूनमिति ॥ गृहमेधिनां गृहस्थाश्रमोचितयज्ञवतां गृहेषु न लक्ष्यते न ज्ञायते । नृभिरिति शेषः। गोदोहनमपि गोदोहनमात्रकालमपि ॥ १५ ॥

सूत उवाच—

एवमाभाषितः पृष्टः स राज्ञा श्लक्ष्णया गिरा ।

प्रत्यभाषत धर्मज्ञो भगवान् बादरायणिः ॥ १६ ॥

इति श्रीमद्भागवते प्रथमस्कन्धे विंशोऽध्यायः

पदरत्नावली

एवम् आभाषितः पृष्टः सम्बोध्य कृतप्रष्टव्यः । गुरुशिष्यसंवादलक्षणधर्मज्ञः बादरायणिः शुकः श्लक्ष्णया मधुरया गिरा राजानं प्रत्यभाषतेत्यन्वयः ॥ १६ ॥

भागवतविवरणमिदं तुलसीदलमिव समर्पयामि हरेः ।

चरणनलिनयुगलेऽहं प्रथमस्कन्धोपगं सतां प्रीत्यै ॥

इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे विंशोऽध्यायः ॥

प्रकाशिका

एवमहोऽद्य वयमित्यादिकया श्लक्ष्णया मधुरया गिरा । आभाषितः स्तुतः पृष्टश्च

॥ १६ ॥

वासवी नन्दनं व्यासं वासुदेवपराभिधम् ।

श्रीशं नौमि सदा मध्वहृदयाम्बुजवासिनम् ॥

प्रथमस्कन्धतात्पर्यं फक्किकार्थप्रकाशिनी ।

कृतिर्यदुपतेर्भूयात् प्रीत्यैमाधवमध्वयोः ॥

प्रथमस्कन्धतात्पर्यटिप्पणी या मया कृता ।

तया प्रीतोऽस्तु देवेशो गुरुसंस्थो रमापतिः ॥

**इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमद्भागवतप्रथमस्कन्धतात्पर्यटिप्पण्यां **

**श्रीमद्वेदेशतीर्थपूज्यपादशिष्ययदुपतिना कृतायां विंशोऽध्यायः समाप्तः **

प्रथमस्कन्धः समाप्त इति प्रथमस्कन्धः