महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मनाः
अथ एकोनविंशोऽध्यायः
सूत उवाच—
महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मनाः ।
अहो मया नीचमनार्यवत्कुतं निरागति ब्रह्मणि गूढतेजसि ॥ १ ॥
पदरत्नावली
विमुक्तिसाधनेषु प्रथामापाद्यसाधनत्वेन वैराग्यमवश्यमापाद्यं मुमुक्षुणेति परीक्षि-च्चिन्ताकथनापदेशेन तत्प्रतिपाद्यते अस्मिन्नध्याये । ननु परीक्षितो धर्मपालकत्वादिकं न युज्यते । नृशंसवन्नीचकर्मकरणात् । पश्चात्तापानुदायच्चेति आशङ्कापरिहारत्वेनाह- महीपतिरिति ॥ मुनेः स्कन्धे मृतसर्पशरीरार्पणलक्षणम् आत्माना अनुष्ठितं यत्कर्म तच्चिन्तयन् सुदुर्मनाः सुष्ठु दुःखितमनाः, अभूदिति शेषः । तुशब्द ईश्वरेच्छाधीनत्वं द्योतयति । ‘श्वपचादपि कष्टत्वं ब्रह्मेशानादयः सुराः’इति स्मृतेः । कस्मिन् विषये अनुष्ठितं ? येन महती चिन्ता सम्भाव्यते इति तत्राह- अहो इति ॥ मया निरागसि निरपराधे गूढतेजसि अप्रकाशिततेजोलक्षणमहिमि्न ब्रह्मणि ब्राह्मणे अनार्यवन् मूर्खवन् नीचं कर्म कृतम् अहो कष्टमिति । महीपतेः कर्मणो गर्ह्यत्वद्योतनाय ब्रह्मणीति । सोऽप्यपराधी चेत् कथञ्चिद् घटते इत्यतो निरागसीति । प्रतिक्रियासामर्थ्यप्रकटनाय गूढतेजसीति । ‘ब्रह्म वेदस्तपस्तत्वं ब्रह्मा विप्रः प्रजापतिः’ इत्यभिधानात् । ‘ब्राह्मणो नावमन्तव्यो निरागास्तु विशेषतः’ इति वचनात् ॥ १ ॥
प्रकाशिका
ननु धर्मपालो नरपतिरिति परीक्षितो धर्मपालकत्वमुक्तम् । तदयुक्तम् । मुनिद्रोहकरणात्पश्चात्तापाभावाच्चेत्याशङ्कायां प्रमादिके मुन्यपराधे सति भूयान्पश्चात्तापस्तस्य जात इत्याह- महीपतिरिति ॥ तुशब्दः पूर्वोक्तधर्मपालकत्वादिरूपविशेषार्थः । आत्मना स्वेनैव कृतं तन्मुनिस्कन्धे मृतसर्पशरीरस्थापनरूपं कर्म गर्ह्यं निन्द्यं विचिन्तयन्सुदुर्मनाः सुदुःखितमनाः । अभूदिति शेषः । पश्चात्तापप्रकारं दर्शयति- अहो इति सार्धश्लोकद्वयेन ॥ मया निरागसि निरपराधे गूडतेजसि अप्रकटितसामर्थ्ये ब्रह्मणि ब्राह्यणेऽनार्यवन्नीचवन्नीचं निन्दितं कर्म कृतम् । अहो कष्टम् । स्वपापस्य महत्वोपपादनाय निरागसि गूढतेजसीति विशेषणद्वयम् ॥ १ ॥
ध्रुवं ततो मे कृतदेवहेलनाद् दुरत्ययं व्यसनं नातिदीर्घात् ।
तदस्तु काममघनिष्कृताय मे यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥
पदरत्नावली
तच्च दुष्कुतमपरिहार्यविपत्तिकरमिति चिन्तयतीत्याह- ध्रुवमिति ॥ ब्राह्मणस्य अवज्ञा विष्णोर् अवज्ञैव यतस् ततस् तस्माद्देवस्य हरेर् हेलनाद् अवज्ञानाद् ध्रुवम् अवश्यं दुरत्ययम् अत्येतुमशक्यं व्यसनं दुःखं नातिदीर्घाद् अचिरान् मे मम भविष्यतीत्यन्वयः । तद्व्यसनं मनसाऽभ्युपगच्छतीत्याह- तदिति ॥ मे अघनिष्कृताय पापप्रायश्चित्ताय तद्व्यसनं काममस्तु । कुतः ? अद्धा निरङ्कुशतया अहं पुनरेवंविधमघं यथा न कुर्यां, तथास्त्विति शेषः ॥ २ ॥
प्रकाशिका
‘अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुत’ इति वचनादस्य पापस्येहैव फलं भविष्यतीत्याह- ध्रुवमिति ॥ ब्राह्मणस्य विष्ण्वादिसर्वदेवप्रतिमात्वात्तद्धेलनं सर्वदेवहेलनमेवेत्या-शयेनोक्तम् । मे मया कृतदेवहेलनादिति । देवावमानादित्यर्थः । व्यसनं दुःखम् । नातिदीर्घादचिरात् । भविष्यतीति शेषः । तद्व्यसनं मेऽघनिष्कृताय पापप्रायश्चित्ताय काममसङ्कोचेनास्तु भवतु । अद्धा निश्चयेन । प्रयोजनान्तरं चाह । यथा येन व्यसनेन प्राप्तेन भीतोऽहं पुनरेव मे तादृशं पापं न कुर्याम् । एतदर्थं च तदस्तु ॥ २ ॥
औव राज्यं बलमृद्धकोशं प्रकोपितब्रह्मकुलानलो मे ।
दहत्वभद्रस्य पुनर्न मेऽभूत्पापीयसी धीर्द्विजदेवतासु ॥ ३ ॥
पदरत्नावली
नौपचारिकमिदं, आन्तरमेवेत्यभिप्रेत्य तदेवाह- औवेति ॥ प्रकोपितब्रह्म-कुलमेवानलः । बहुदाह्येऽप्यलंबुद्धिर्नास्तीत्यनलः । मे मदीयत्वेनाभिमतं राज्यादिकम् औव कालक्षेप-मन्तरेण दहतु । भूयो ऽभद्रस्य मे द्विजदेवतासु पापीयसी बुद्धिर् नाभून् न भूयादित्यन्वयः । अभूदिति व्यत्ययो राज्ञो महानुतापसूचनायेति ज्ञातव्यम् । द्विजाश्च देवताश्च द्विजदेवताः । द्विजेषु सन्निहिता देवता वा । द्विजरूपदेवता वा । तासु । अभद्रस्य अमङ्गलस्य । न विद्यते भा दीप्तिर् येषां ते अभास् तान् द्राति कुत्सयतीति अभद्रः । ‘द्रा कुत्सायामि’ति धातुः । तद्वद् द्राणम् अज्ञानं यस्य स तथेति वा । ‘द्रा निद्रायामि’ति धातुः । तस्य ॥ ३ ॥
प्रकाशिका
एतदेवाह- औवेति ॥ प्रकोपितं ब्रह्मकुलमेवानलो वह्निः । अभद्रस्य मे राज्यादिकमद्यैव दहत्वित्यन्वयः । द्विजदेवतासु विषयेषु पापीयसी धीर्मे पुनर्नाभून्न भूयात् । व्यत्ययोऽनुतापस्य महत्वप्रदर्शनाय ॥ ३ ॥
स चिन्तयन्नित्थमथाशृणोद्यथा मुनेः सुतोक्तान्निकुतिं तक्षकाख्यात् ।
स साधु मेने न चिरेण तक्षकादलंप्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥
पदरत्नावली
अथ इत्थं चिन्तयन् सः परीक्षित् तक्षकारव्यान् मुनेः सुतोक्तान् सुतेन प्रेरितान् निकृतिं कृतापराधपरिहारं देहवियोगलक्षणं यथावदशृृणोदित्यन्वयः । आकर्ण्य किमकार्षीदिति तत्राह- स इति ॥ स चाकर्ण्य तक्षकादचिरेण मरणं राज्यादिषु अलंप्रसक्तस्य मम विरक्तिकारणमभूदिति साधु मेने इत्यन्वयः ॥ ४ ॥
प्रकाशिका
मुनेः सुतेनोक्ताद्दुरितात्तक्षकाख्यात्सर्पान्निष्कृतिं स्वपापप्रायश्चित्तरूपां मृतिं यथा यथावदशृृणोत् । ऋषिप्रेषितगौरमुखनामकशिष्यादिति शेषः । स परीक्षिदलमतिशयेन प्रसक्तस्य विषयेष्वासक्तस्य स्वस्य तक्षकात् । मरणमिति शेषः । विरक्तिकारणं यतोऽतस्तत्साधु मेन इत्यर्थः ॥४॥
अथो विहायेमममुञ्च लोकं विमृश्य तौ हेयतया पुरस्तात् ।
कृष्णाङ्घ्रिसेवामभिमन्यमान उपाविशत्प्रायममर्त्यनद्याम् ॥ ५ ॥
पदरत्नावली
‘स साम्राट् कस्य वा हेतोः ?’ इति शौनकप्रश्नं परिहरति- अथो इति ॥ अथो ब्रह्मशापाकर्णनसमनन्तरमेव ‘ममायं शापोऽपि विरक्तिहेतुत्वात् साधुरि’ति मन्वानः पुरस्तात् प्रथमं तौ इहलोकपरलोकौ अनित्यत्वदुःखमिश्रत्वादिना हेयतया विमृश्य अधिराट्श्रीयुतम् इमं भूलोकं तथा अमुं स्वर्गलोकञ्च निर्विद्य विहाय अस्मिन् संसारे कृष्णाङ्घ्रिसेवैवात्यन्तिकदुःखनिवृत्तिसुखसाधनत्वात् कर्तव्येति च विमुश्य तामेव म्रियमाणस्य आत्मनः कर्तव्यमभिमन्यमानः परीक्षिद् अमर्त्यनद्यां गङ्गायां प्रायमुपाविशद् यावज्जीवम् अनशनव्रतं चकारेत्यन्वयः ॥ ५ ॥
प्रकाशिका
इदानीं स साम्राट् कस्य वा हेतोरिति शौनकप्रश्नं परिहरति- अथेति ॥ अथो ब्रह्मशापाकर्णनानन्तरमेव पुरस्तात्प्रथमम् । ताविहलोकपरलोकौ हेयतया विमृश्येमममुं च लोकं विहाय । तत्र निर्वेदं प्राप्येति यावत् । कृष्णाङ्घ्रिसेवामेवाभिमन्यमानः श्रेयः साधनतया सम्यग्जानन् अमर्त्य-नद्याममरनद्यां गङ्गायां प्रायं यावज्जीवनमनशनव्रतम् । सङ्कल्प्येति शेषः । उपाविशत् । प्रायं यावज्जीवमनशनं यथा स्यात्तथोपाविशदति वा । अनशनव्रतं चकारेत्यर्थः ॥ ५ ॥
या वै लसच्छ्रीतुलसीविमिश्रकृष्णाङ्घ्रिरेण्वभ्यधिकाम्बुनेत्री ।
पुनात्यशेषानुभयत्र लोकान्कस्तां न सेवेत मरिष्यमाणः ॥ ६ ॥
पदरत्नावली
किमिति गङ्गायामेव प्रायोपवेशोऽन्यत्रापि किन्न स्यादिति तत्राह- या वा इति ॥ लसन्ती श्रीमती तुलसी लसच्छ्रीतुलसी । ब्रह्मज्ञानेन तुलां सिनोतीति तुलसी । ब्रह्मज्ञानसदृशी । ब्रह्मज्ञानस्य संसारनिवर्तकत्वं यन्माहात्म्यं तदस्या अपि अस्तीति तत्सदृशी । तनोति करोति मोक्षादिपुरुषार्थमिति तुर् विष्णुस् तत्र लसतीति वा तुलसी । यस्या मञ्जरीरजोभिर् विमिश्राः कृष्णस्य अङ्घ्रिरेणवस् तैर् महाधिकानि यान्यम्बूनि जलानि तेषां नेत्री । लसच्छ्रीतुलसीमञ्जरीरजोविमिश्रश्रीकृष्ण-चरणरेणुसमधिगतमाहात्म्याभ्यधिकसलिलप्रवाहाकुलेत्यर्थः । या च अत एवाशेषान् लोकान् उभयत्र अन्तर्बहिश्च पुनाति उभयत्र इहलोके शिष्टसंव्यवहारयोग्यतालक्षणां शुद्धिं परलोके नरकपातादि-निवर्तनलक्षणां करोतीति वा । अतो मरिष्यमाणः पुमान् कस्तां गङ्गां न सेवेत ॥ ६ ॥
प्रकाशिका
गङ्गायामेव प्रायोपवेशे किं निमित्तमित्यत आह- या वा इति ॥ लसन्ती श्रीर्यस्याः सा लसच्छ्रीः सा च तुलसी च तया विमिश्राः कृष्णाङ्घ्रिरेणवस्यैरभ्यधिकं सर्वोत्कृष्टमम्बूदकं तस्य नेत्री । तद्वाहिनी । उभयत्रोभयतीरस्थान् लोकान् जनान् ॥ ६ ॥
इति व्यवस्थाय च पाण्डवेयः प्रायोपवेशं प्रति विष्णुपद्याम् ।
दध्यौ मुकुन्दाङ्घ्रिमनन्यभावो मुनिव्रतो मुक्तसमस्तसङ्गः ॥ ७ ॥
पदरत्नावली
अतो मरिष्यमाणोऽहं तीर्थोतमत्वाद् विष्णुपद्यां गङ्गायाम् अनशनव्रतं करिष्ये इति प्रायोपवेशं प्रति व्यवस्थाय निश्चित्य अनन्यचेता राज्यभारादिचिन्तारहितान्तःकरणः विष्ण्वेकचेता मुनीनां निवृत्तानां ज्ञानिनां व्रतमिव व्रतं यस्य सः मुनिव्रतः । वाचालत्वरहितो वा । अत एव मुक्ताः समस्ताः सङ्गाः पुत्रादिविषयस्नेहा यस्य सस् तथेति वा । सः पाण्डवेयः परीक्षिद् विष्णुपद्यां प्रायोपवेशं प्रति स्थितः मुकुन्दाङ्घ्रिमेव दध्यावित्येकान्वयः । चः समुच्चयेऽवधारणे वा ॥ ७ ॥
प्रकाशिका
इत्येवं विष्णुपद्यां गङ्गायां प्रायोपवेशं प्रति व्यवस्थाय निश्चित्य । गङ्गामाहत्म्यनिश्चयपूर्वकं प्रायोपवेशं कृत्वेति यावत् । मुकुन्दाङ्घ्रि दध्यौ । पाण्डवेय इति तत्कुलौचित्यं दर्शयति । न विद्यतेऽन्यस्मिन्विषये भावो मनो यस्य स तथोक्तः । मुनिव्रतः शमदमादियुक्तोऽत एव मुक्तः परित्यक्तः समस्तेषु सङ्गः स्नेहो येन स तथा ॥ ७ ॥
तत्रोपजग्मुर्भुवनं पुनाना महानुभावा मुनयः सशिष्याः ।
प्रायेण तीर्थाधिगमापदेशैः स्वयं हि तीथानि पुनन्ति सन्तः ॥ ८ ॥
पदरत्नावली
यत्र परीक्षित्तिष्ठति तत्रोपजग्मुः ॥ ८ ॥
प्रकाशिका
तत्र तं देशं तद्देशस्थं तम् । पवित्रीकर्तुमिति शेषः । ननु तीर्थयात्रायास्तेषां कर्तव्यतया प्रसिद्धत्वादस्या गङ्गाया अपि तीर्थत्वात्तदर्थमेव तेऽत्रागता इति किं न स्यादित्यत आह- प्रायेणेति ॥ तीर्थयात्राव्याजैस्तेषां तीर्थाभिगमनमपि परार्थमेवेति भावः ॥ ८ ॥
अत्रिर्वसिष्ठश्च्यवनः शरद्वानरिष्टनेमिर्भुगुरङ्गिराश्च ।
पराशरो गाधिसुतोऽथ राम उचथ्य इन्द्रप्रमतीध्मवाहौ ॥ ९ ॥
मेधातिथिर्देवल आर्ष्टिषेणो भरद्वाजो गौतमः पिप्पलादः ।
मैत्रेय और्वः कवयः कुम्भयोनिर्द्वैपायनो भगवान्नारदश्च ॥ १० ॥
अन्ये च देवर्षिब्रह्मर्षिवर्या राजर्षिवर्या अरुणादयश्च ।
नानार्षेयप्रवरान्समेतानभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥
पदरत्नावली
मुनीन् नाम्ना निर्दिशतीत्याह- अत्रिरिति ॥ गाधिसुतः विश्वामित्रः । रामः परशुरामः । इन्द्रप्रमतिश्च इध्मवाहश्च इन्द्रप्रमतीध्मवाहौ ॥ कुम्भयोनिरगस्त्यः ॥ अन्ये च प्रसिद्धाः प्रसिद्धनामानः । नारदादयो देवर्षयः । रामादयो ब्रह्मर्षयः । विश्वामित्रादयो राजर्षयः । जातिभेद-कथनार्थं पुनर्वचनम् । अरुण आदिर्येषां ते तथोक्ताः । ऋषीणां समूह आर्षेयं तस्मिन् प्रवरः नानार्षेयप्रवरास् तान् अभ्यर्च्य, अर्घ्यपाद्यादिभिरिति शेषः । शिरसा वन्दनं नाम नमस्कार एवात्राभि-प्रेतः । कृतप्रणाम इत्युत्तरवचनात् ॥ ९-११ ॥
प्रकाशिका
गाधिसुतो विश्वामित्रः । रामः परशुरामः । कुम्भयोनिरगस्त्य इन्द्रप्रमति-श्चेध्यवाहश्चेन्द्रप्रमतीध्मवाहौ । नारदादयो देवर्षयो रामादयो ब्रह्मर्षयः । विश्वामित्रादयो राजर्षयः । जातिभेदकथनाय पुनर्वचनम् । अरुणादयश्च काण्डर्षित्वविशेषेण पृथङ्निर्दिष्टाः । नानान्यार्षेयाणि ऋषीणां गोत्राणि तेषु प्रवरान् श्रेष्ठान् । नानाऋषिसम्बन्धिप्रवरयुतानिति वा ॥ ९-११ ॥
सुखोपविष्टेष्वथ तेषु भूयः कृतप्रणामः स्वचिकीर्षितं यत् ।
विज्ञापयामास विविक्तचेता उपस्थितोऽग्रेऽर्ध्यगृहीतपाणिः ॥ १२ ॥
पदरत्नावली
ऋषीणाम् अग्रे उपस्थितो ऽर्घ्यं गृहीतं पाणौ येन सस् तथा । यत् स्वेन कर्तुम् इष्टं तद् एभ्यो विज्ञापयामसेत्यन्वयः ॥ १२ ॥
प्रकाशिका
विज्ञापनार्थं पुनः कृतप्रणाम उप ऋषीणां समीपे स्थितोऽर्घ्यगृहीतपाणिः । अत्रार्घ्यशब्दः पूजापरः । ततश्चार्घ्याय पूजार्थं गृहीतावञ्जलीकृतौ पाणी येनेत्यर्थः ॥ १२ ॥
राजोवाच—
अहो वयं धन्यतमा नृपाणां महत्तमानुग्रहणीयशीलाः ।
राज्ञां कुलं ब्राह्मणपादशौच•त्)माराद्विसृष्टं बत गर्ह्यकर्म ॥ १३ ॥
पदरत्नावली
महत्तमैर् महापुरुषैर् अनुग्रहणीयं शीलं येषां ते तथोक्ताः । वयं नृपाणां मध्ये धन्यतमाः । अहो अस्मद्भागधेयम् । कुतः राज्ञां कुलं गर्ह्यकर्म निन्द्यकर्म । बत कष्टम् । येन राजकुलेन ब्राह्मणपादशौचम् आराद् दूराद् विसृष्टं विहितं, तदिति शेषः ॥ १३ ॥
प्रकाशिका
नृपाणां मध्ये महत्तमैरतिशयेन महद्भिरनुग्रहणीयं शीलं वृत्तं येषां ते तथोक्ताः । कुत इत्यतो गर्ह्यकर्मणामितरेषां राज्ञामिदं दुर्लभमित्याह- राज्ञामिति ॥ गर्ह्यं निन्द्यं कर्म यस्य तद्राज्ञां कुलं ब्रह्मद्रोहि राजकुलम् । महत्तमैर्ब्राह्मणपादशौचाद्ब्राह्मणानां पादप्रक्षालनोदकं यस्मिन्स्थले तस्मात् । तदपेक्षयाऽप्याराद्वूराद्विसृष्टं क्षिप्तवन्तम् । अयं भावः । दूरादुच्छिष्ठविण्मूत्रपादाम्भसि समुत्सृजेदिति वचनात् । दूरे तावत्पापप्रक्षालनोदकं महत्तमैर्विसृज्यते । ततोऽपि दूरादेव गर्ह्यकर्म राजकुलं विसृष्टम् । स्थापितमित्यनुक्त्वा विसृष्टमिति वचनेन तत्रापि स्थातुमयोग्यमिति गम्यते । गर्ह्यकर्मणोऽपि वयं नैतादृशः किन्तु महत्तमानुग्रहणीयशीला जाता अतो धन्याः । अहोऽस्माद्भाग्यमिति । ब्राह्मण-पादशौचमिति पाठे यैर्ब्राह्मणपादप्रक्षालनं न कृतं तान्निन्दयतीत्यवतारिका । येन राजकुलेन ब्राह्मण-पादशौचं ब्राह्मणपादप्रक्षालनोदकम् । आराद्दूरात् । सर्वथेति यावत् । विसृष्टम् परित्यक्तम् । कदापि न सम्पादितं तद्राज्ञां कुलं गर्ह्यं कर्म बत । तज्जीवनादिकं निन्द्यमिति योजना द्रष्टव्या ॥ १३ ॥
तस्यैव मेऽस्त्वद्य परावरेशे(शः) व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।
निर्वेदमूलो द्विजशापरूपो यत्र प्रसक्तो(ऽ)भयमेव धत्ते ॥ १४ ॥
पदरत्नावली
स्वचिकीर्षितमाह- तस्येति ॥ परावरेशे मुक्तामुक्तप्रपञ्चनाथे हरौ व्यासक्त-चित्तस्य अनुरक्तबुद्धेर् मे तेषु गृहेषु अयं द्विजशापरूपो दण्डो ऽभीक्ष्णं निर्वेदमूलो वैराग्यहेतुर् अस्तु । यत्र येषु गृहेषु प्रसक्तः संसारभयमेव धत्ते । यत्र यस्मिन् भगवति प्रसक्तो ऽभयं मोक्षमेव धत्ते प्राप्नोति, तस्मिन् हराविति वा ॥ १४ ॥
प्रकाशिका
ब्रह्मशापमपि वैराग्यजनकत्वेनाभिनन्दति- तस्यैवेति ॥ गर्ह्यकर्मण एवेत्यर्थः । परावरेशे मुक्तामुक्तनियामके हरौ विषयेऽभीक्ष्णं निरन्तरं व्यासक्तचित्तस्य व्यासङ्गोपेतमनसो मे द्विजशापरूपो दण्डः । गृहेषु निर्वेदमूलो यतोऽतोऽद्यैवास्तु । यत्र गृहेषु प्रसक्तो वैराग्यशून्यः पुमान् भयमेव संसारभयमेव धत्ते प्राप्नोति । तेषु गृहेष्वित्यन्वयः । अथवा । यत्र हरौ प्रकर्षेण सक्तः भक्तोऽभयं मोक्षमेव धत्ते । तस्मिन्परावरेशे इत्यन्वयः । परावरेश इति पठे द्विजशाप एव रूपं प्रतिमा यस्य स तथा । द्विजशापान्तर्गतः परावरेशो गृहेषु व्यासक्तचित्तस्य मे निर्वेदमूलो निर्वेदजनकोऽस्त्विति योज्यम् । शापस्यास्वातन्त्र्यं दर्शयितुं द्विजशापरूप इति हरिविशेषेणमुक्तमिति ध्येयम् ॥ १४ ॥
तं मोपविष्टं प्रतियान्तु विप्रा गङ्गा च देवी धृतचित्तमीशे ।
द्विजोपसृष्टः कुहकस्तक्षको वा दशत्वलं गायत विष्णुगाथाः ॥ १५ ॥
पदरत्नावली
योऽहम् एवं महत्तमानुग्रहणीयशीलस् तं मा मां द्विजोपसृष्टः द्विजकुमारेण प्रेरितः कुहकः वेषान्तरधारितया कपटी । कुहकः सर्पजातिविशेषो वा । तक्षकः दशतु भक्षयतु । युष्माभि-रेतत्कर्तव्यमित्याह- अलमिति ॥ यूयं देवकीनन्दनमित्यादिका विष्णुविषया गाथाश् चरणत्रया-द्युपलक्षितान् श्लोकान् अलं देहवियोगपर्यन्तं गायत, षड्जादिस्वरैरिति शेष इत्यन्वयः ॥ १५ ॥
प्रकाशिका
इदानीं स्वाशास्यं दर्शयति- तं मोपविष्टमिति द्वाभ्याम् । प्रतियान्त्वायान्तु । गङ्गा च देवी निजरूपेण प्रतियातु । स्वदर्शनेन पवित्रीकर्तुमिति शेषः । द्विजेनोपसृष्टः प्रेरितस्तक्ष-कोऽस्मद्भूत्यभयेन निजरूपेणात्र तस्यागमनासम्भवात्कुहकः कपटवेषः सन् अत्रागत्य दशतु भक्षयतु । अनेन द्विजवाक्ययाथार्थ्यसंरक्षणमपि स्वाशास्यमिति दर्शयति । तावत्पर्यन्तं विष्णुगाथा विष्णुविषय-कश्लोकान् अलं स्वरपूर्वकं गायत ॥ १५ ॥
पुनश्च भूयाद्भगवत्यनन्ते रतिः प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यां याम् उपयामि सृष्टिं मैत्र्यस्तु सर्वत्र नमो द्विजेभ्यः ॥ १६ ॥
पदरत्नावली
न केवलमस्मिन् जन्मन्येव हर्यादौ मनोरतिप्रसङ्गः । अपि तु जन्मान्तरेऽपीति प्रार्थयत इत्याह- पुनश्चेति ॥ तदाश्रयेषु भगवद्भक्तेषु युष्मद्विधेषु मम मैत्री अस्मदीयोऽयमिति चित्तवृत्तिलक्षणा । सृष्टिं जन्म ॥ १६ ॥
प्रकाशिका
स्वस्य जन्मान्तरप्राप्तावपि विष्णौ तद्भक्तेषु च रतिं प्रार्थयते- पुनश्चेति ॥ यां यां सृष्टिं जनिमुपयामि तत्र सर्वत्र सृष्टौ । पुन एतस्मिन् जन्मनीव । स आश्रयो येषां तेषु महत्सूत्तमेषु प्रकृष्टः सङ्ग स्रेहस्तारतम्यानुसारेण भक्तिरस्तु । समेषु मैत्र्यस्तु । नीचेषु दयाऽस्त्वित्यपि ग्राह्यम् । नीचयोनिप्राप्तौ द्विजेभ्यो हरिभक्तत्रिवर्णेभ्यो नमः प्रव्हीभावोऽस्तु । इदं च प्रार्थनं स्वस्यायं चरमदेह इत्यज्ञानाद्वा ज्ञानेऽपि ‘कलौ जातोऽस्मि देवेशः’ इत्यादिब्रह्मवाक्यवद् लोकशिक्षार्थं वेति ज्ञातव्यम्
॥ १६ ॥
इति स्म राजा व्यवसाय युक्तः प्राचीनकाग्रेषु कुशेषु धीरः ।
उदङ्मुखो दक्षिणकूल आस्ते समुद्रपत्न््नयास्स्वसुते न्यस्तभारः ॥ १७ ॥
तात्पर्यम्
गङ्गायामुदक एव किञ्चिद्दक्षिणभागे प्रासादे । तथाहि महाभारते ॥ १७ ॥
पदरत्नावली
कुत्र गङ्गायां स्थित इति तत्राह- इति स्मेति ॥ स्वसुते जनमेजये न्यस्तः निहितः राज्यभारः येन सस् तथोक्तः । इति उक्तप्रकारेण व्यवसाय निश्चित्य, मनोयोगयुक्तः । निश्चययुक्तो वा । राजा परीक्षित् समुद्रपत्न््नया गङ्गाख्याया नद्या उदक एव किञ्चिद्दक्षिणकूले दक्षिणतीरभागे प्रासादे प्राचीनाग्रेषु कुशेषु उदङ्मुख आस्त इत्यन्वयः । मुत्युचिन्तारहितत्वाद् धीर इत्युक्तम् । कूलशब्दस्य लक्षणार्थमनाश्रित्य मुख्यार्थाङ्गीकारे भारतविरोधः स्यात् । यथा गङ्गयां कटकमास्त इति गङ्गापदेन तीरं लक्ष्यते, कूल आस्ते इति कूलपदेनापि जले लक्षणोपपत्तेः । आस्त इति लडप्येवंविधविशेषद्योतनार्थः ॥ १७ ॥
प्रकाशिका
विष्णुपद्यां प्रायोपवेशं चकारेत्युक्तम् । तत्रापि स्थलविशेषमाह सूतः- इतीति ॥ व्यवसाययुक्तो निश्चययुक्तः । प्रचीनकाग्रेषु प्रागग्रेषु कुशेष्वास्ते स्म आसीत् । समुद्रपत्न््नया गङ्गायाः । स्वसुते जनमेजये न्यास्तो भारो येन सः । अत्र दक्षिणकूल इति दक्षिणतीरे स्थितिरुच्यते । पूर्वं विष्णुपद्यामेव प्रायोपवेश उक्तोऽतो विरोध इत्यतोऽत्र विवक्षितं तात्पर्यं दर्शयति- गङ्गायामिति ॥ दक्षिणभागे दक्षिणतीरभागे स्थिते प्रासाद इत्यर्थः । तथा च कूलशब्देन लक्षितलक्षण-योदकभागविशेषस्थितप्रासादो ग्राह्य इति भावः । भारतसंवादच्चैवमेव व्याख्येयमित्याह- तथा हीति ॥ हि यस्माद्यथाऽस्माभिर्व्याख्यातं तथा भारतेऽप्युक्तं तस्मादुक्तं युक्तमित्यर्थः ॥ १७ ॥
विहाय सर्वं नरदेवचिह्नं केयूरहाराङ्गदमौलिरत्नान् ।
रत्नांगुलीयान्विमलान्निरस्य पवित्रपाणिर्मुनिवेष आस्ते ॥ १८ ॥
पदरत्नावली
श्वेतच्छत्रचामरादिनरदेवचिह्नम् । न केवलं तावदेव किन्तु केयूरादींश्च निरस्य त्यक्त्वा चर्मकृष्णाजिनादिमुनिवेषः ॥ १८ ॥
प्रकाशिका
चिन्हं छत्रचामरादिकम् ॥ १८ ॥
एवं च तस्मिन्नरदेवदेवे प्रायोपविष्टो दिवि देवसङ्घाः ।
प्रशस्य भूमौ व्यकिरन्प्रसूनैर्मुदा मुहुर्दुन्दुभयश्च नेदुः ॥ १९ ॥
पदरत्नावली
व्यकिरन् वर्षितवन्तः ॥ १९ ॥
प्रकाशिका
भूमौ प्रायोपविष्ट इत्यन्वयः । मुदा व्यकिरन्वर्षितवन्तः ॥ १९ ॥
महर्षयो वै समुपागता ये प्रशस्य साध्वित्यनुमोदमानाः ।
ऊचुः प्रजानुग्रहशीलसारा यदुत्तमश्लोकगुणानुरूपम् ॥ २० ॥
पदरत्नावली
यद् उत्तमश्लोकस्य हरेर् गुणानुरूपं गुणप्रकटनानुकूलं तद् वच ऊचुरित्यन्वयः । प्रजानुग्रहमन्तरेण अन्यः स्वभावो नास्ति येषां ते तथोक्ताः ॥ २० ॥
प्रकाशिका
यदुत्तमश्लोको हरिस्तद्विषयका गुणा ज्ञानभक्त्यादयो येषां तेषामनुरूपमनुकूलं वाक्यं तत् । पुष्पवृष्ट्यादिकं दृष्ट्वा साध्वित्यनुमोदमाना महर्षय ऊचुरित्यन्वः । कथंभूताः । प्रजानां साधुजनानामनुग्रहे शीलसारौ स्वभावसामर्थ्ये येषां ते तथा ॥ २० ॥
न वा इदं राजर्षिवर्यं चित्रं भवत्सु कृष्णं समनुव्रतेषु ।
येऽध्यासनं राजकिरीटजुष्टं सद्यो जहुर्भगवत्पार्श्वकामाः ॥ २१ ॥
पदरत्नावली
अध्यासनं सिंहासनम् । राज्ञां मण्डलपतीनां किरीटैर् जुष्टं सेवितम् । प्रजानुग्रहमन्तरेण अन्यः स्वभावो नास्ति येषां ते तथोक्ताः ॥ २१ ॥
प्रकाशिका
तदेव वाक्यं दर्शयति- न वा इति ॥ इदं राज्यं परित्यज्य प्रायोपवेशनं भवत्सु पाण्डववंशोत्पन्नेषु । ये पाण्डवाः सद्यः कालविलंबमकृत्वाऽध्यासनं सिंहासनं जहुः ॥ २१ ॥
सर्वे वयं तावदिहास्महेऽथ कलेवरं यावदसौ विहाय ।
अजं परं विरजस्कं विशोकं यास्यत्ययं भागवतप्रधानः ॥ २२ ॥
पदरत्नावली
असावयम् । विशोकं नित्यनिर्दुःखम् । कुतः ? विरजस्कम् अशोभने शोभनाध्यासबुद्धिरहितम् । कुतः ? परं त्रिगुणातीतं, पूर्णं वा । कुतः ? अजं जन्मजरामरणादिरहितं हरिं यास्यतीत्यन्वयः ॥ २२ ॥
प्रकाशिका
कुत इत्यत आहुः- यतोऽयं भागवतप्रधान इति ॥ २२ ॥
आश्रुत्य तदृषिगणवचः परीक्षित्समं मधुश्चुद् गुरुशापव्यलीकम् ।
आभाषतैनानभिवन्द्य युक्तः शुश्रूषमाणश्चरितानि विष्णोः ॥ २३ ॥
पदरत्नावली
मधु अमृतं श्रोततीति मधुश्चुत् श्रवणसुखम् अत एव गुरोर् ब्राह्मणकुमारस्य शापं व्यलीकयति अनृतं करोति फलत इति गुरुशापव्यलीकम् । अनेन दुर्मरणदोषपरिहारो लक्ष्यते । न तु तक्षकदंशनाभावः । तत्कृतिदर्शनात् । ऋषिगणवच आश्रुत्य एतान् ऋषीन् आभाषतेत्यन्वयः ॥ २३ ॥
प्रकाशिका
आश्रुत्याकर्ण्य । मध्वमृतं श्रोततीति मधुश्चुतम् अमृतस्रावि । गुरोर्ब्राह्मणस्य शापं तत्प्रयुक्तदुर्मरणजनितदोषं व्यलीकयति फलतोऽनृतं करोति । न तु सर्पदशानाभावमिति गुरुशापव्यलीकम्
॥ २३ ॥
राजोवाच—
समागताः सर्वत एव सर्वे वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।
नेहाथवाऽमुत्र च कश्चनार्थ ऋते परानुग्रहमात्रशीलाः ॥ २४ ॥
ततश्च वः प्रश्नमिमं विपृच्छे विश्रभ्य विप्रा इतिकृत्यतायाम् ।
सर्वात्मना म्रियमाणैस्तु कृत्यं शुद्धं(भं)च तत्रामृशताभियुक्तः ॥ २५ ॥
॥ इति श्रीमद्भागवते प्रथमस्कन्धे एकोनविंशोऽध्यायः ॥
पदरत्नावली
त्रिपृष्ठे सत्यलोके । ‘शील समाधावि’ति धातोः परमात्मसमाधिमन्तः । वः युष्माकम् इहलोकम् अथवा अमुत्र च परलोके कश्चनार्थः साध्यं प्रयोजनं नास्तीति यतस् ततः परानुग्रहकरणस्वभावान् वः युष्मान् इमं प्रश्नं विपृच्छे पृच्छामीत्यन्वयः । किं कुत्वा ? इतिकृत्यतायाम् इत्थंकर्तव्यतायां विप्रा विशिष्टज्ञानिनो ऽकुटिलबुद्धयः सात्विकप्रकृतय इति विश्वस्य । कोऽसाविति तत्राह- सर्वात्मनेति ॥ अत्र कृत्यशतेषु म्रियमाणैः पुरुषैः सर्वप्रकारेण शुद्धं निर्दोषं पुरुषार्थपर्यवसायि कृत्यं कर्तव्यं च अभियुक्ता आग्रहयुक्तास् तात्पर्योपेता आमृशत आलोचयत । आलोच्य चास्माकं ब्रूतेति तुशब्दार्थः ॥ २४,२५ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे एकोनविंशोऽध्यायः ॥
प्रकाशिका
त्रयाणां लोकानां पृष्ठे उपरि सत्यलोके वेदा यथा मूर्तिधरा भवन्ति । तथा विद्यमानाः । अनेन ज्ञानप्रदत्वमुक्त्वा कृपालुत्वमप्याह- नेहेति ॥ भवतामिह लोके । अमुत्र च परलोके वा । कश्चनार्थः किञ्चित्प्रयोजनं परानुग्रहमृत नास्ति । यतस्ततः । हे आत्मशीलाः । शील समाधाविति धातोः । परमात्मसमाधिमन्तः । हे विप्राः । वो युष्मानिमं प्रश्नं प्रष्टव्यार्थं विपृच्छे विशेषतः पृच्छामि । किं कृत्वा । विश्रभ्य विश्वासं कृत्वा । एवं कर्तव्यमित्यस्य भाव इति कृत्यता तस्यां विषये । सर्वात्मना सर्वप्रकारेण मध्ये विशेषतश्च म्रीयमार्णैर्यत्कृत्यं युद्धं शुभं मोक्षपर्यवसायि तदभियुक्ता आग्रहयुक्ताः सन्त आमृशतालोचयत । बू्रत चेति तुशब्दः ॥ २४,२५ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायामेकोनविंशोऽध्यायः ॥ १-१९ ॥