यौ वै द्रौण्यस्त्रविल्पुष्टो न मातुरुदरे मृतः
अथ अष्टादशोऽध्यायः
सूत उवाच—
यौ वै द्रौण्यस्त्रविल्पुष्टो न मातुरुदरे मृतः ।
अनुग्रहाद्भगवतः कृष्णस्याद्भुतकर्मणः ॥ १ ॥
पदरत्नावली
पुनरपि भगवति भक्तिविधानार्थं तन्माहात्म्यमुच्यतेऽस्मिन्नध्याये । तदर्थं पारीक्षितं स्वर्याणमुपक्रमते- य इति ॥ यो ऽद्भुतकर्मणः श्रीकृष्णस्य अनुग्रहाद् द्रौण्यस्त्रदग्धोऽपि मातुर् उत्तराया उदरे न मृतः ॥ १ ॥
प्रकाशिका
अत्र परीक्षितो मरणनिमित्तं ब्राह्मणशापं वक्तुमादौ तावच्छापश्रवणेऽपि श्रीकृष्णनुग्रहेणैव तस्य चित्तखेदो न जातः किन्तु मोक्षसाधनज्ञानादिकमेव सम्पादितवानित्याह- यो वा इत्यादिना ॥ विप्लुष्टो दग्धः ॥ १ ॥
ब्रह्मशापोत्थिताद्यस्तु तक्षकात्प्राणविप्लवे ।
न सम्मुमोहोरुभयाद्भगवत्यर्पिताशयः ॥ २ ॥
पदरत्नावली
यश्च ब्रह्मशापोत्थिताद् ब्राह्मणशापप्रेरितात् तक्षकनागात् प्राणविप्लवे जीवनाशे प्राप्ते सति भगवत्यर्पितचित्तत्वान् मरणाख्योरुभयान् न सम्मुमोह ॥ २ ॥
प्रकाशिका
स उत्थितात्प्रेरितात् । तक्षकान्नागात्प्राणविप्लवे जीवनाशे प्राप्ते सति । उरुभयं यस्मिंस्तस्मात् परणान्न संमुमोह । तत्र हेतुः । भगवति कृष्णेऽर्पिताशय इति ॥ २ ॥
उत्सृज्य सर्वतः सङ्गं विज्ञानार्जितसंस्थितिः ।
वैयासकेर्जहौ शिष्यो गङ्गायां स्वकलेवरम् ॥ ३ ॥
तात्पर्यम्
‘विज्ञानमात्मयोग्यं स्याज्ज्ञानं साधारणं स्मृतम्’ इति भागवततन्त्रे ॥ ३ ॥
पदरत्नावली
सः परीक्षित् सर्वतः सर्वेषु राज्यादिषु स्नेहलक्षणं सङ्गम् उत्सृज्य वैयासकेः श्रीशुकस्य शिष्यो भूत्वा तदुपदेशेनात्मयोग्यविज्ञानं स्वबिम्बरूपपरत्वापरोक्षज्ञानम् । तेन आर्जिता सम्पादिता संस्थितिर् मुक्तिर् येन सस् तथोक्तः । गङ्गायां प्रासादे स्वकलेवरं जहावित्यन्वयः ॥ ३ ॥
प्रकाशिका
न केवलं मोहं न प्रापेत्येव किन्तु सर्वतः सङ्गं स्नेहमुत्सृज्य । वैयासकेः शुकस्य शिष्यो भूत्वा तदुपदेशेन प्राप्तं यद्विज्ञानं तेनार्जिता सम्पादिता संस्थितिर् वैकुण्ठाख्यसमीचीनं स्थानं येन सः । गङ्गायां विद्यमाने प्रासादे स्वकलेवरं जहौ । अत्र विज्ञानपद(शब्द)स्य विवक्षितमर्थं प्रमाणेनैवाह- विज्ञानमिति ॥ आत्मयोग्यं स्वयोग्यमुक्तिसाधने समर्थम् । ज्ञानमिति शेषः । साधारणं सर्वाधिकारिसाधारणं यद्धरिसर्वोत्तमत्वादिज्ञानं तज्ज्ञानं स्मृतमित्यर्थः ॥ ३ ॥
नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥
पदरत्नावली
नैतदाश्चर्यमित्याह- नेति ॥ उत्तमश्लोकस्य वार्ता प्रसङ्गो येषां ते तथा । उत्तमश्लोक एव वार्ता जीविका येषां ते तथेति वा । तेषां श्रवणपुटेन तस्य हरेः कथामृतं जुषतां श्रवणव्याजेन सेवमानानां तस्य पादपद्मञ्च स्मरताम् अन्तकाले मरणकाले सम्भ्रमो न स्यादित्यन्वयः । निरन्तरं हरिचरणनिषेवणेन आत्यन्तिकप्रलयरूपसर्वदेहविरहमिच्छतां दैनंदिनमरणभयं नास्तीति किमु वर्णनीयमित्यपिशब्दार्थः । अत्तमश्लोकवार्तादिष्वेकमेवालम् । मिलितं किं वर्णनीयमिति वा ॥ ४ ॥
प्रकाशिका
नैतदाश्चर्यमित्याह- नोत्तमेति ॥ उत्तमश्लोकस्य हरेरेव वार्ता येष्वत एव तत्कथारूपममृतं जुषतां सेवतामनन्तरं तत्पदाम्बुजं स्मरतां ध्यायताम् । अन्तकाले निश्चितेऽपि सम्भ्रमश्चित्तखेदो न स्यात् ॥ ४ ॥
तावत्कलिर्नप्रभवेत्प्रविष्टोऽपीह सर्वतः ।
यावदीशो महानुर्व्यामाभिमन्यव एकराट् ॥ ५ ॥
पदरत्नावली
मदीये राष्ट्रे न वर्तितव्यमित्यस्याभिप्रायः कलेः सामर्थ्यप्रकटनाभाव एव । न तु प्रवेशाभाव इत्यभिपेत्याह- तावदिति ॥ आभिमन्यवो ऽभिमन्योः पुत्र परीक्षितम् एकराट् चक्रवर्ती यावद् यावन्तं कालम् उर्व्याम् आस्ते इत्यन्वयः । कीदृशः ? महानीशः सप्तद्वीपवत्या भूमेर् अधिपतिर् न मण्डलेश इत्यर्थः । तावत् तावन्तं कालम् इह सर्वत्र प्रविष्टोऽपि कलिर् न प्रभवेत् स्वशक्ति-प्रकटनसमर्थो नाभूदित्यन्वयः ॥ ५ ॥
प्रकाशिका
ननु परीक्षिद्राज्यपरिपालनकालस्य कलिस्वामिकत्वात्कथं तव्द्याप्तचित्तेषु ज्ञानिषु मरणे ज्ञाते सम्भ्रमो न स्यादित्यत आह- तावदिति ॥ न प्रभवेत्स्वकार्यकरणे समर्थो न भवेदित्यर्थः । आभिमन्यवोऽभिमन्योः पुत्रः । एकराट् चक्रवर्ती । ईशः शिक्षकः । न चैवं न वर्तितव्यं भवतेति पूर्वोक्ताज्ञाविरोधस्तत्रापि त्वदीयसामर्थ्यं द्यूतादावेव प्रदर्शनीयं न सर्वत्रेत्येवाभिप्रायस्य विवक्षितत्वात्
॥ ५ ॥
यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् ।
तदैवेहानुवृत्तोसावधर्मप्रभवः कलिः ॥ ६ ॥
नानुद्वेष्ठि कलिं सम्राट् सारङ्ग इव सारभुक् ।
कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥
पदरत्नावली
कदानु उर्व्यां कलिः प्रविष्ट इति तत्राह- यस्मिन्निति ॥ सारङ्गो मधुकर इव सारभुक् सारग्राही साम्राट् कलिं नानुद्वेष्ठीत्यन्वयः । कुत इति तत्राह- कुशलानीति ॥ कुशलानि सुकृतानि इतराणि पापानि । यद् यस्मात् ॥ ६,७ ॥
प्रकाशिका
ननु तदा कलेः प्रवेश एव किं न स्यादित्यत आह- यस्मिन्नहनीति ॥ यर्हि यस्मिन्नेव क्षणे गां पृथ्वीम् । अनुवृत्तः प्रविष्टोऽधर्मस्य प्रभवो यस्मात्सः । नन्वधर्महेतुं कलिं सर्वथा किं न हतवानित्यत आह- नानुद्वेष्ठीति ॥ सारङ्गो भ्रमर इव सारभुक् सारग्राही । कलिगतं सारं दर्शयति- कुशलानीति ॥ कुशलानि पुण्यान्याश्वल्पानुष्ठानमात्रेण सिद्धयन्ति महाफलकारणानि भवन्ति । इतराणि पापान्याशु न सिद्ध्यन्ति किन्तु महान्यपि स्वल्पफलप्रदान्येव भवन्ति ॥ ६,७ ॥
किन्तु बालेषु शूरेण कलिना शूरभीरुणा ।
अप्रमत्तः प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥
पदरत्नावली
इतोऽप्युदास्ते इत्याह- किन्त्विति ॥ धर्मज्ञानादिकं वृणोति आवृणोति नाशयतीति वृकः । शूरेषु भीरुणा बालेषु शूरेण कलिना किन्नु किम्प्रयोजनम् ॥ ८ ॥
प्रकाशिका
द्वेषाभावे किं तत्र स्निग्धो न किं तूदास्त इत्याह- किन्तु बालेष्विति ॥ तेन कलिना किं नु भवेन्न किमपि । कथं भूतेन । बालेष्वधीरेषु शूरेण धीरेषु भीरुणा । यः प्रमत्तेषु नृष्वप्रमत्तः स्वयं सावधानो वृक इव वर्तते ॥ ८ ॥
उपवर्णितमेतद्वः पुण्यं पारीक्षितं मया ।
वासुदेवकथोपेतमाख्यानं यदपृच्छथ ॥ ९ ॥
पदरत्नावली
उपसंहरति- उपवर्णितमिति ॥ ९ ॥
प्रकाशिका
यदपृच्छथ पृष्टवन्तो यूयम् ॥ ९ ॥
या याः कथा भगवतः कथनीयोरुकर्मणः ।
गुणकर्माश्रया पुम्भिः सेव्यास्तास्ता बुभूषुभिः ॥ १० ॥
पदरत्नावली
यथेयं पारीक्षिती कथा भगवतो गुणकर्माश्रयत्वात् सेव्याऽऽसीत् तथा अन्या अपि तादृश्यः कथा मुमुक्षुभिः सेव्या इत्याह- या या इति ॥ कथनीयानि उरूणि कर्माणि यस्य सस् तथोक्तः । तस्य । बुभूषुभिर् मोक्षकामैः ॥ १० ॥
प्रकाशिका
यथेयं परीक्षितः कथा भगवतो गुणकर्माश्रयत्वात्सेव्याऽऽसीत् । तथाऽन्या अपि तादृश्यः कथा मुमुक्षुभिः सेव्या इत्याह- या या इति ॥ बुुभूषूभिर्मोक्षकामैः ॥ १० ॥
ऋषय ऊचुः—
सूत जीव समाः सौम्य शाश्वतीर्विशदं यशः ।
यस्त्वं शंसति कृष्णस्य मर्त्यानाममृतं हि नः ॥ ११ ॥
पदरत्नावली
सूत यस्त्वं श्रीकृष्णस्य विशदं यशोऽमृतं मरणधर्मिणाम् अस्माकं शंसति हि यस्मात् तस्मात् । आशीर्लक्षणसोमार्ह, भद्रेति वा । सुमाया अपत्येति वा । सुमा रोमहर्षणभार्या । शाश्वतीः समा बहुवर्षान् जीव । शतवर्षादुपर्यपि प्राणान् धारयेत्येकान्वयः ॥ ११ ॥
प्रकाशिका
पुनर्विस्तरेण कथनार्थं सूतमाशीर्वादेनाभिनन्दयन्ति । सूतेति ॥ शाश्वतीः समा बहून्वत्सरान् । जीव प्राणान्धारय । अत्यन्तसंयोगे द्वितीया । हि यस्मान्मर्त्यानां मरणधर्मिणां नोऽस्माकममृतं मरणनिवर्तकं यशः शंससि कीर्तयसि ॥ ११ ॥
कर्मण्यस्मिन्ननाश्वास्ये धूमधूम्रात्मनां भवान् ।
आपाययति गोविन्दपादपद्मासवं मधु ॥ १२ ॥
पदरत्नावली
‘कर्मणा ज्ञानमातनोती’ त्यादिश्रुतिप्रत्ययाद् अन्तःकरणशुद्धिद्वारा हरिज्ञानलब्धये यागपरम्पराभिर् अनाश्वास्ये श्वासमोक्षानवसरे अन्यप्रसङ्गावसरविधुरे वा अत एव हरिकथावर्णने सावसरे अस्मिन्नुपक्रान्ते सत्राख्ये कर्मणि हर्युद्देशेन सुहुस्नेहविरज्याद्युद्भूतधूमेन धूम्र आत्मा मनआदीन्द्रियजातं येषां ते तथोक्ताः । ‘कर्मणि षष्ठी’दर्शनात् । तेन धूमेन धूम्रतया पवित्रीकृतशरीरानस्मान् मधु मधुरं गोविन्दपादपद्मासवम् आपाययतीत्यन्वयः । पादपद्माद् आसूयत इत्यासवं मधु वा । अनेन सत्रयागः सफलो जात इत्युक्तं भवति ॥ १२ ॥
प्रकाशिका
आशीर्वादे निमित्तान्तरमप्याह- कर्मणीति ॥ अस्मिन्कर्मणि सत्रे । अनाश्वास्येऽविश्वसनीये । वैगुण्यबाहुल्येन फलनिश्चयाभावात् । धूमेन धूम्रो विवर्ण आत्मा देहो येषां ते । कर्मणि षष्ठी । तान् । आसवं मकरन्दम् । मधु मधुरम् ॥ १२ ॥
तुलयाम लवेनाऽपि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिषः ॥ १३ ॥
तात्पर्यम्
सम्यक्स्वरूपस्याव्यक्तिरभावो जननस्य च । अल्पयत्नात् ततो वृद्धिहेतोः सत्सङ्गतिर्वरा ॥ इति वायुप्रोक्ते ॥ १३ ॥
पदरत्नावली
दीर्घकालीनसत्रकरणमन्तरेणाल्पकालीनयज्ञकरणेन शुद्धान्तःकरणजन्यज्ञानान्मोक्षः सुकर इत्याशङ्क्याह- तुलयामेति ॥ भगवत्सङ्गिनां वैष्णवानां सेवालक्षणस्य सकाशाद् यत् सुखं तस्य लवेनापि लवलक्षणकालावच्छिन्नभागेनापि सह स्वर्गं दुःखासम्भिन्नप्रदेशं नाकलक्षणम् अपुनर्भवं कैवल्यं सम्यक्स्वरूपाभिव्यक्तिजननाभावलक्षणं न तुलयाम तुलयितुं न प्रभवामः । लडर्थे लोट् । प्रार्थनायां वा । मर्त्यानां मर्त्यशरीरभोग्यराज्यादिसम्पदः किमुत । न तुलयामेति किमु वक्तव्यम् । सायुज्यादि-विशिष्टफलहेतुत्वेनान्तरङ्गत्वान् न सम इत्यर्थः । क्षिप्रमुक्तौ तदनन्तरं पूर्वस्मादतिरिक्तफलविशेषाभावाच् चिरसमयसञ्चीर्णमहत्सेवादिलक्षणसङ्गस्य अतिसुखहेतुत्वेन तस्य चेह दीर्घसत्रकरणव्याजेन सम्भवादिद-मेव सर्वैर् अनुष्ठातव्यमित्युक्तमनेनेति भावः ॥ १३ ॥
प्रकाशिका
अनाश्वास्य इत्यादिकर्मनिन्दावचनस्य न स्वार्थे तात्पर्यं किन्तु गोविन्दपाद-पद्मासवपानस्तुतावेवेत्यवगन्तव्यम् । अत एव कोहि तद्वेदेत्यादिवाक्यस्य तात्पर्यमुक्तं शास्त्रे । गोविन्दपादपद्मासवपानेन किं सुखं लब्धं भवद्भिर्येनैवमुच्यत इत्याशङ्कायां भगवत्सङ्गलब्धगोविन्दपाद- पद्मासवपानजं यत्सुखमिदानीमस्माकं तस्य सदृशं सुखं न क्वापीत्याशयेनाहुः- तुलयामेति ॥ तुलयितुं समर्था न भवामः । न वाऽपवर्गम् । मर्त्यानां विद्यमाना आशिषो राज्याद्यास्तुच्छा न तुलयामीति किमु वक्तव्यम् । अत्र शोनकादीनामिदानीं श्रवणजनितसुखलवेनापवर्गं न तुलयाम इति वचनेन मोक्षसुखस्य सांसारिकशौनकादिसुखापेक्षयाऽल्पत्वमुच्यते तत्प्रमाणबाधितमतोऽत्र विवक्षितं तात्पर्यं प्रमाणेनैव दर्शयति- सम्यगिति ॥ अल्पानामधिकारिणां प्रयत्नाद् या तेषां सम्यक् स्वरूपाभिव्यक्तिर्जनन-स्याभावोऽनिष्ठनिवृत्तिश्च भवति । अतस्तादृशाधिकारिमुक्त्यपेक्षयोत्तमानां जीवन्मुक्तानां सत्सङ्गतिर्वरा । कुतः । वृद्धिहेतोरधिकसुखाभिव्यक्तिहेतुत्वात् । नीचाधिकारिमुक्त्यपेक्षयोत्तमाधिकारिणः सांसारिकस्यापि सत्सङ्गलब्धश्रवणादिना जायमानसुखाभिव्यक्तिरधिका । अतस्तद्विषयमेतद्वाक्यमिति भावः । स्वरूपस्याव्यक्तिरिति पाठे अल्पयत्नात् सम्यक् स्वरूपस्याव्यक्तिर्यस्मिन् तादृशो यो जननस्याभावः जननराहित्यमात्रात्मक इति यावत् । ततो मोक्षात्सान्तानिकलोकवासरूपात्सत्सङ्गतिर्वरा । कुतो वृद्धिहेतोरानन्दाभिवृद्धिहेतुत्वादित्यर्थः । तथा च वक्ष्यति चतुर्थस्कन्धतात्पर्ये ‘सङ्गो भागवतैर्भूयानपुन-र्भवमात्रतः । यतो विसृष्टमानन्दं मुक्तो जनयति स्पुटम्’ इति ॥ १३ ॥
को नाम तृप्येद्रसवित्कथायां महत्तमैकान्तपरायणस्य ।
नान्तं गुणानामगुणस्य जग्मुर्योगेश्वरा ये भवपाद्ममुख्याः ॥ १४ ॥
पदरत्नावली
श्रुतभगवत्कथानामप्यस्माकं न तत्कथायाम् अलम्बुद्धिरित्याशयवन्त आहुरित्याह- को नामेति ॥ ये भवपाद्ममुख्या भवः शिवः पाद्मो ब्रह्मा, तौ मुख्यौ येषां ते तथोक्ताः । योगेश्वरास् तत्तदधिकारियोग्यमोक्षोपायोपदेष्ट्रृप्रधानास् ते अगुणस्य सत्वादिगुणरहितस्य सर्वकार्येषु प्रधानस्य वा यस्य ज्ञानादिगुणानाम् अन्तम् अवसानं न जग्मुः । को नाम पुमान् तस्य मुक्तामुक्तब्रह्मादीनां महत्तमानाम् एकान्ततो नियमेन परायणस्य उत्तमाश्रयस्य, महत्तमेभ्य एकान्ततः पराया उत्कृष्टायाः श्रियोऽपि अयनस्य वा हरेः कथायां तृप्येद् अलंबुद्धिं प्राप्नुयादित्यन्वयः । कीदृशः ? रसवित् सारज्ञानी स्वादुविद्वान् ॥ १४ ॥
प्रकाशिका
नन्वेतावत्पर्यन्तं मदुक्तकथामृतपानेन भवतामीदृशी सुखाभिव्यक्तिर्जाताऽतः किं पुनस्तत्कथनेनेति त्वया नोपरन्तव्यम् । अस्माकमधुनाऽपि तत्रालम्बुद्ध्यभावादित्याशयेनाहुः- को नामेति ॥ तृप्येदलम्बुद्धिं प्राप्नुयात् । रसवित्सारज्ञः शृृङ्गारादिरसज्ञानी वा । भगवतः सारत्वमुप-पादयिमुक्तम्- महत्तमैकान्तपरायणस्येति ॥ महत्तमा ब्रह्माद्यास्तेषामेकान्तेन नियमेन परमयनमाश्रयो यस्तस्य कथायाम् । प्रकारान्तरेण सारत्वोपपादनाय नान्तमित्यादि । अगुणस्य सत्त्वादिगुणरहितस्य गुणानां ज्ञानानन्दादिशुभधर्माणामन्तं पारं न जग्मुः । एतावन्त एव गुणा इति न परिगणयाञ्चक्रुः । भवः शिवः पाद्मो ब्रह्मा ॥ १४ ॥
ततो भवान्वै भगवत्प्रधानो महत्तमैकान्तपरायणस्य ।
हरेरुदारं चरितं विशुद्धं शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥
पदरत्नावली
ततः किमिति तत्राह- तत इति ॥ अलम्बुद्धिर्नास्तीति यतस् ततः हे विद्वान् भगवतां सौभाग्यवतां पुंसां प्रधानो भवान् हरेर् उदारं चरितम् अस्माकं वितनोतु विस्तारयत्वित्यन्वयः । भगवानेव प्रधानो यस्य मते स तथेति वा । महत्तमश्च एकान्तश्च परायणश्चेति महत्तमैकान्तपरायणः । महतां ब्रह्मादीनाम् अतिशयेन श्रेष्ठो ऽन्ते प्रलये एक एव न द्वितीयोऽस्ति । परा मुक्तास् तेषाम् आश्रयः। शुश्रूषतामित्यनेन श्रवणशीलनं स्वाभाविकमिति दर्शयति ॥ १५ ॥
प्रकाशिका
यतो नोऽस्माकं नालम्बुद्धिस् ततः । हे विद्वान् । भगवानेव प्रधानः सर्वव्यापारेषू-द्देश्यो यस्य स भगवत्प्रधानो भवान्वितनोतु विस्तारयतु ॥ १५ ॥
तन्नः परं पुण्यमसंवृतार्थमाख्यानमत्यद्भुतयोगनिष्टम् ।
आख्याह्यनन्ता चरितोपपन्नं पारीक्षितं भागवताभिरामम् ॥ १६ ॥
पदरत्नावली
हरेरुदाराचरितानाम् अनन्तत्वात् तेषां मध्ये किं वक्ष्यामि इति प्रश्नो मा भूदित्यभिलषितचरितमिदमित्याहुरित्याह- तन्न इति ॥ तद् आख्यानम् अस्माकम् आख्याहीत्यन्वयः । परम् उत्कुष्टं पुण्यं पुनानम् । असंवृतः स्पष्टो ऽर्थः पुरुषार्थः यस्माद् भवति तत्तथोक्तं तत् । अत्यद्भुतानां योगानां भक्तिज्ञानादिलक्षणानां निष्ठा प्रतिपाद्यतया नितरां स्थितिर् यस्मिन् तत्तथोक्तं तत् । कालतो देशतश्चानन्तस्यापरिच्छिन्नस्य हरेश् चरितेनोपपन्नं सहितम् । तथा पारीक्षितं परीक्षित्सम्बन्धि । भागवतानाम् अभिरामं मनोहरम् । भागवता अभिरमन्ते अस्मिन्निति वा । भगवत्सम्बन्धित्वाद्वा अभिरामं तदिति ॥ १६ ॥
प्रकाशिका
तदाख्यानं भागवतं पुराणम् । असंवृतार्थं यथा भवति तथा । स्पष्टमिति यावत् । तन् न आख्याहीत्यन्वयः । पुण्यं चित्तशोधनम् । अत्यद्भुतेषु लोकविलक्षणफलसाधकेषु योगेषु हरिभक्तिनिवृत्तिकर्मादिरूपज्ञानोपायेषु निष्ठा तात्पर्यातिशयो यस्य तद् अनन्तस्य हरेराचरितैः कर्मभिरुपपन्नं युक्तम् । तत्प्रतिपादकमिति यावत् । अत एव भागवताभिरामं भागवतानां मनोहरं पारीक्षितं परीक्षिते कथितत्वात्परीक्षित्सम्बन्धि । अवशिष्टं परीक्षित्सम्बन्ध्याख्यानं चेति वा ॥ १६ ॥
स वै महाभागवतः परीक्षिद्येनापवर्गाख्यमदभ्रबुद्धिभिः ।
ज्ञानेन वैयासकिशब्दितेन भेजे खगेन्द्रध्वजपादमूलम् ॥ १७ ॥
पदरत्नावली
किं तदिति तत्राह- स वा इति ॥ अदभ्रबुद्धिः पूर्णज्ञानः महाभागवतः सः परीक्षिद् वैयासकिना श्रीशुकेन शब्दितेन उपदिष्टेन श्रुतेन ज्ञानेन येन अपवर्गाख्यं खगेन्द्रध्वजस्य गरुडध्वजस्य पादमूलं भेजे इत्यन्वयः । वा इत्यनेन आख्यानस्य इष्टसाधनावबोधकत्वेनोपादेयत्वं दर्शयतीति ॥ १७ ॥
प्रकाशिका
तच्च शुकपरीक्षित्संवादमुखेनैव कथयेत्याहुः- स वा इति द्वाभ्याम् ॥ अदभ्रबुद्धिरनल्पबुद्धिः । वैयासकिना व्यासपुत्रेण शुकेन शब्दितेन कथितेन । श्रुतेन श्रवणविषयीकृतेन पुराणेन । अपवर्ग इत्याख्या यस्य तत् । खगेन्द्रध्वजस्य हरेः पादमूलं वैकुण्ठं भेजे ॥ १७ ॥
सूत उवाच—
अहो वयं जन्मभृतो महात्मन्वृद्धानुवृत्यापि विलोमजाताः ।
दौष्कुल्यमाधिं विधुनोति शीघ्रं महत्तमानामभिधानयोगः ॥ १८ ॥
पदरत्नावली
हे महात्मन् शौनक विलोमजाता हीनजन्मानोऽपि वयं ज्ञानवृद्धानाम् अनुवृत्या सेवया जन्मभृतः सफलजन्मानोऽभूमेत्यन्वयः । अहो आश्चर्यम् अस्मद्भाग्यम् । कुतः ? महत्तमानाम् अभिधानं गोष्ठी तस्य योगः सम्बन्धः । अभिधानेन नाम्ना योग इति वा । दुष्कुलोत्पत्तिनिमित्तं दौष्कुल्यम् आधिं मनोदुःखं शीघ्रं विधुनोतीत्येकान्वयः ॥ १८ ॥
प्रकाशिका
महद्भिः श्रीमद्भागवताख्याने नियुक्तमात्मानं श्लाघते । अहो वयमिति द्वाभ्याम् । हे महात्मन् शौनक । विलोमजाता नीचकूलप्रसूना अपि वयं वृद्धस्य ज्ञानवृद्धस्य शुकस्यानुवृत्त्या सेवया । तच्छिष्यतयेति यावत् । जन्मभृतः सफलजन्मनोऽभूम । अहो आश्चर्यमस्मद्गुरुमाहात्म्यम् । शुकशिष्यतया कथं जन्मनः साफल्यमित्यत आह- दौष्कुल्यमिति ॥ दुष्कुलत्वनिमित्तं दौष्कुल्पम् । आधिं मनःपीडाम् । महत्तमानां परीक्षिदादीनां वैष्णवानामभिधानयोगः । शुकशिक्षितप्रकारेण कथाकथनलक्षण उपायः । विधुनोत्यपनयति ॥ १८ ॥
कुतः पुनर्गुणतो नाम तस्य महत्तमैकान्तपरायणस्य ।
योऽनन्तशक्तिर्भगवाननन्तो महद्गुणत्वाद्यमनन्तमाहुः ॥ १९ ॥
तात्पर्यम्
अनन्तः कालतो देशतश्च ॥ १९ ॥
पदरत्नावली
कैमुत्यमाह- कुत इति ॥ महत्तमैकान्तपरायणस्य तस्य हरेर् नाम गृणतः पुंस आधिं विधुनोतीति कुतः पुनः किं वक्तव्यमित्यन्वयः । अनन्ता अपरिमिताः शक्तयो यस्य स तथा । देशादितः परिच्छेदो न विद्यते यस्य सोऽनन्तः वः भगवान् अनतशक्तिर् अनन्तश्च । न केवलं ताभ्यामानन्त्यं किन्तु गुणानन्त्यमप्यस्तीत्याह- महदिति ॥ महान्तो गुणा महद्गुणास् तेषां भावः महद्गुणत्वं तस्मात् । छान्दसत्वान् महच्छब्दस्य महादेशाभावः । यं भगवन्तम् अनन्तगुणतः परिच्छेदरहितं ‘सत्यं ज्ञानमनन्तमित्या’दिवेदान्ता आहुरित्यन्वयः ॥ १९ ॥
प्रकाशिका
तस्य विष्णोर्नामगुणकर्मप्रतिपादकशब्दं गृणतः शुकोक्तप्रकारेण स्वयं कथयतो मम दौष्कुल्यमाधिं विधुनोतीति कुतः पुनः किं पुनर्वक्तव्यम् । शुकशिक्षितवैष्णवकथाकथनेनैव यदा दौष्कुल्याधि परिहारोऽस्माकं तदा किं वाच्यं तदुक्तप्रकारेण हरिकथाकथनेनातो वृद्धानुवृत्या वयं जन्मभृत इति भावः । कैमुत्यं हि विष्णोर्महत्तमत्वे भवेत् । तदेव कथमित्यत उक्तम्- महत्तमैकान्त-परायणस्येति ॥ इदमपि कुत इत्यत आह- योऽनन्त इति ॥ अत्र गुणानन्त्यस्य महद्गुणत्वाद्य-मनन्तमाहुरिति पृथगुक्तत्वात्पुनरनन्त इत्यस्य विवक्षितमर्थं दर्शयति- अनन्त इति ॥ तथा चात्र कालतो देशतश्चानन्त्यमित्यानन्त्यद्वयमेव विवक्षितमिति भावः । मूले सर्वकार्यकरणशक्तेः प्राधान्यात्पृथगुक्तिः । महान्तोऽगणिता अपरिच्छिन्ना वा गुणा यस्य स तथोक्तस्तस्य भावस्तत्वम् । तस्मादाहुर्वेदाः । स्थान्यादेशव्यत्ययेनान्महत इति विधेरनित्यत्वस्य ज्ञापितत्वान्महद्गुणेति साधु । भगवान् भगवच्छब्दमुख्यवाच्यः ॥ १९ ॥
एतावताऽलं ननु सूचितेन गुणैरसाम्येऽनतिशायनेऽस्य ।
हित्वेतरान्प्रार्थयतो विभूतिर्यस्याङ्घ्रिरेणुं जुषतेऽनभीप्सोः ॥ २० ॥
पदरत्नावली
प्रार्थयतः, कटाक्षमोक्षमिति शेषः । इतरान् ब्रह्मादीन् हित्वा कटाक्षवीक्षामकृत्वा विभूतिर् महालक्ष्मीः स्वरतत्वाद् अनभीप्सोर् अनिच्छोर् यस्य हरेर् अङ्घ्रिरेणुम् अनवरतं जुषते तस्यास्य हरेर् असाम्ये अद्वितीयस्ते तथा गुणैर् अनतिशयने आधिक्यराहित्ये सर्वोत्तमत्वे च सूचितेन लक्ष्मीपतिरित्येतावता अलं ननु इत्येकान्यः । ‘अहमेव स्वयमिदं वदामि जुष्टं देवेभिरुतमानुषेभिः’ ‘श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां’ इत्यादिश्रुतिस्मृतिशतैरितरेषाम् अशेषाणां लक्ष्म्या अवरत्वाद् लक्ष्मीपतित्वं विष्णोः सर्वोत्तमत्वे युक्तिरिति भावः ॥ २० ॥
प्रकाशिका
अत्र विष्णोर्महत्तमैकान्तपरायणत्वं साधयितुमन्तशक्तित्वादिहेतुचतुष्टयमुक्तम् । तत्र तावद्गुणानन्त्यस्योक्तसाध्येन व्यतिरेकव्याप्तिप्रदर्शनायान्यस्य गुणैस्तत्साम्यं तदाधिक्यं च नास्तीत्यत्र युक्तिमाह- एतावतेति ॥ अस्य विष्णोर्गुणैर्यदसाम्यमन्यसाम्याभावः । अनतिशायनमाधिक्याभावश्च तस्मिन्विषये । एतावता सूचितेन संक्षेपत उक्तेन हेतुनाऽलं तमेवाह- हित्वेति ॥ विभूतिर्महालक्ष्मी-र्विवाहसमये स्वानुग्रहं प्रार्थयत इतरान् ब्रह्मादीन्हित्वा एते मदनुग्रहोपजीव्याः, अतो मत्पतित्वे न योग्या इत्यभिप्रायेण तान्विहायेत्यर्थः । अनभीप्सोः स्वानुग्रहमनपेक्षस्य यस्य विष्णोरङ्घ्रिरेणुं जुषत इति । अनेन विष्णोर्गुणैर् ब्रह्माद्युत्तमोत्तमत्वकथनेनान्यत्र गुणपूर्त्यभावो महत्तमैकान्तपरायणत्वाभावश्चोपपादित इति ज्ञातव्यम् ॥ २० ॥
अथापि यत्पादनखावसृष्टं जगद्विरिञ्चोपहृतार्हणाम्भः ।
सेशं पुनात्यन्यतमो मुकुन्दात्को नाम लोके भगवत्पदार्थः ॥ २१ ॥
पदरत्नावली
अथ हरिसर्वोत्तमत्वाद्वितीयत्वसमर्थनस्य बहुयुक्तिसन्दृब्धत्वप्रकटनायेदमपि भवतीत्याह- अथापीति ॥ यस्य पादनखाद् अवसृष्टं विगलितं विरिञ्चेन ब्रह्मणा उपहृतं समर्पितम् अर्हणाम्भो ऽर्ध्यजलं, श्रीपादावनेजनोदकमिति यावत् । रुद्रेण सह वर्तमानं जगच् चतुर्दशभुवनं पुनाति यस्माद् अथ तस्माद् लोके भुवने मुकुन्दान् मोक्षप्रदान् नारायणाद् अन्यतमो ऽन्यः । स्वार्थे तमप् प्रत्ययः । को नाम भगवत्पदार्थः । निरतिशयज्ञानादिगुणवत्तया भगवानिति नामवाच्योऽस्ति । सर्वेषां तदर्वाक्तनत्वान् न कोऽप्यस्तीत्यर्थः । अनेन विरिञ्चपूज्यत्वशिवशुद्धिकरतीर्थपदत्वभगवन्नामवाच्यत्वानि च अद्वितीयत्वसर्वोत्तमत्वसूचकानीति ज्ञातव्यम् ॥ २१ ॥
प्रकाशिका
भगवत्पदमुख्यवाच्यत्वहेतोरप्यन्यत्र व्यतिरेकव्याप्तिमुपपादयति- अथाऽपीति ॥ अथेत्यर्थान्तरे । यस्य पादनखावसृष्टं पादनखसंसृष्टमपि विरिञ्जेनोपहृतं समर्पितमर्हणाम्भः पूजा-साधनमुदकं विरिञ्चकर्तुकपादावनेजनोदकमपीति यावत् । सेशं रुद्रेण सह वर्तमानं जगदधिकारिजनं पुनाति । पुनःशुद्ध्यादिद्वारा मुक्तं करोति । अतो मुकुन्दादन्यतमः को नाम भगवत्पदस्यार्थो मुख्यवाच्यो न कोऽपीत्यर्थः । मुख्याभिधेयस्त्वर्थः स्याद् वाच्यमन्यच्च भण्यते । जगदुत्तमयोर्विरिञ्च-रुद्रयोरपि पूजकत्वपूतत्वाभ्यां नीचत्वावगमादिति भावः । एवमेव शक्त्याऽनन्तस्य स्वातन्त्र्येण देशतः कालतश्चानन्त्यस्य चान्यत्र व्यतिरेकव्याप्तिरुपपादनीया ॥ २१ ॥
यत्रानुरक्ताः सहसैव धीरा व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत्पारमहंस्यसत्यं यस्मिन्नहिंसोपरमश्च धर्मः ॥ २२ ॥
तात्पर्यम्
परमहंसाश्रमप्राप्यं सत्यं ब्रह्म ॥ २२ ॥
पदरत्नावली
मुकुन्दत्वं विवृणोति- यत्रेति ॥ यत्र मुकुन्दे अनुरक्ताः स्निग्धा धीरा विषयवार्तानिवृत्तायां बुद्धौ रताः सन्तः देहादिषु ऊढं प्ररूढं सङ्गं स्नेहलक्षणं सहसा विमर्शज्ञानेन व्यपोह्य निरस्य तत् परमहंसाश्रमप्राप्यं सत्यं साधुगुणयुक्तं ब्रह्म मुकुन्दाख्यं व्रजन्ति । यस्मिन् परमहंसाश्रमे अहिंसा विहितातिरिक्तहिंसावर्जनं, उपरम उं रुद्रं पाति पिबति संहरतीति वा उपो विष्णुः सर्वाधिकस् तस्मिन् हरौ रमः रमणं रतिर् विषयनिवृत्तिर्वा धर्मो, विहित इति शेषः । अनेन मुक्तिदानमपि सर्वोत्तमत्वद्योतकमिति सूचितो भवति ॥ २२ ॥
प्रकाशिका
एवमुक्तहेतुषु व्याप्तिमुपपाद्येदानीं पक्षे साध्यं निगमयन् महत्तमैकान्तपरायणत्वं विवृणोति- यत्रेति ॥ यत्र विष्णावनुरक्ता माहात्म्यज्ञानानुसारेण स्निग्धा धीरा हरिविषयकबुद्धौ रममाणाः । सङ्गं स्नेहम् । ऊढं निरूढम् । निरस्य यस्मिन्परमहंसाश्रमे । अहिंसा विहितहिंसाया अप्यकरणम् । उपरमो विषयनिवृत्तिश्च धर्मः । विहित इति शेषः । तत्पारमहंस्यसत्यं व्रजन्ति । अत्र परमहंससम्बन्धिसत्यवचनमित्यन्यथाप्रतीतिनिवारणाय पारमहंस्यसत्यमित्यस्यार्थमाह- परमहंसेति ॥ तथा च परमहंसप्राप्यं पारमहंस्यं तच्च तत्सत्यं ब्रह्म चेति विग्रह इति भावः । अनेन महत्तमाः परमहंसा ब्रह्मद्या मोनवदितरेषामप्युपदेशादिति वचनात्तेषां विषयवैराग्यभक्तिज्ञानादिनैकान्तेन नियमेन परायणश्चरमप्राप्य इति महत्तमैकान्तपरायणत्वं विवृतमिति ज्ञातव्यम् । योऽनन्तशक्तिरित्यारभ्य यत्रानुरक्ता इत्यन्तानां यच्छब्दानां कुतः पुनरिति पूर्वश्लोकस्थेन तस्येत्यनेनान्वयः ॥ २२ ॥
अहं हि पुष्टोऽस्य गुणान्भवद्भिराचक्ष आत्मावगमोऽत्र यावान् ।
नभः पतन्त्यात्मसमं पतत्रिणस्तथा समं विष्णुगतिं विपश्चितः ॥ २३ ॥
पदरत्नावली
आख्याही’ति शौनकप्रश्नोत्तरं वक्ति- अहं हीति ॥ अस्य हरेर् गुणान् वक्तुं भवद्भिः पृष्टो ऽहम् अत्र हरिगुणेषु यावान् आत्मावगम आत्मनो मम अवगमः ज्ञानं तावद् आचक्षे व्याकरिष्ये । गुणानामनन्तत्वात् कस्यापि सर्वात्मना ज्ञातुं शक्तिर्नास्तीत्येतमर्थं हिशब्देनाह । न केवलमहमेवाशक्तः किन्तु अतीतानागतवर्तमाना ब्रह्मादयः सर्वेऽप्येवमेव हरिगुणविषय इति सोदाहरणमाह- नभ इति ॥ यथा पतत्रिणः पक्षिणः नभ आत्मसमं स्वशक्त्यनुसारेण पतन्ति । शक्त्यभावदेवोपरमन्ति न नभोवसानाद् अनन्तत्वादस्य । तथा ब्रह्मादयो विपश्चितः ज्ञानिनः विष्णुगतिं विष्णुज्ञानं प्रति समम् आत्मशक्त्यनुसारेण यतन्ते । शक्त्यभावाद् उपरमन्ति । न गोविन्दगुणानां मितत्वादिति भावः ॥ २३ ॥
प्रकाशिका
नन्वेवं विष्णोरनन्तगुणवत्त्वेऽसौ त्वया साकल्येन वक्तुमशक्य इति प्राप्तमिति चेत् । बाढमित्याह- अहं हीति ॥ भवद्भिः पृष्टोऽहमस्य विष्णोर्गुणान् । अत्र विष्णुस्वरूपविषये यावानात्मावगम आत्मनो मम यावद्गुणविषयकं ज्ञानं तावदेव व्याचक्षे नाधिकम् । हिशब्देन वचनस्य ज्ञानानुसारित्वमनुभवसिद्धमिति दर्शयति । ननु तवात्राशक्तत्वेऽप्यन्ये ज्ञानिनः किं साकल्येन तान्गुणान्ज्ञातुं वक्तुं च समर्था इत्याशङ्कायां नेति सोदाहरणमाह- नभ इति ॥ यथा पतत्त्रिणः पक्षिणो नभ आकाशमात्मसमं स्वशक्त्यनुरूपमेव पतन्ति उत्पतन्ति । न कृत्स्नम् । तथा विपश्चितो ज्ञानिनो विष्णोर्गतिं स्थितिं समं स्वमत्यनुरूपमेव । वदन्तीति शेषः ॥ २३ ॥
एकदा धनुरुद्यम्य विचरन्मृगयां वने ।
मृगाननुगतः श्रान्तः क्षुधितस्तृषितो भृशम् ॥ २४ ॥
पदरत्नावली
पारिक्षितमाख्यानं वक्ष्यन् तस्य निर्वेदनिमित्तब्रह्मशापं वक्तुमुपक्रमते- एकदेति ॥ धनुरुद्यम्य सज्जं कृत्वा प्रगृह्य मृगयामुद्दिश्य वने विचरन् ॥ २४ ॥
प्रकाशिका
इदानीमवशिष्टं पारीक्षितमाख्यानं वक्ष्यन् तस्य निर्वेदनिमित्तं ब्रह्मशापं वक्तुमुपक्रमते- एकदेति ॥ उद्यम्य सज्जं कृत्वा । मृगयामुद्दिश्य वने विचरन् ॥ २४ ॥
जलाशयमचक्षाणः प्रविवेश स आश्रमम् ।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥
पदरत्नावली
जलाशयं जलाधारं तटाकविशेषम् अचक्षाणो ऽपश्यन् सः परीक्षिद् आश्रमम् आलस्यपरिहारकारणं स्थानविशेषं प्रविवेशेत्यन्वयः । शान्तम् असम्प्रज्ञातसमाधिस्थं किञ्चिन्मीलितनेत्रम्
॥ २५ ॥
प्रकाशिका
जलाशयं जलस्थानं तटाकादिकमचक्षाणोऽपश्यन्ददृशे । तस्मिन्नाश्रम इति शेषः । शान्तमसम्प्रज्ञातसमाधिस्थम् ॥ २५ ॥
प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।
स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥
तात्पर्यम्
‘स्वतो मनःस्थितिर्विष्णौ ब्रह्मभाव उदाहृतः’ इति ब्रह्माण्डे ॥ २६ ॥
पदरत्नावली
प्रतिरुद्धाः परमात्मन्येव सन्निधापिताः श्रेत्रादिनीन्द्रियाणि च प्राणश्च मनश्च बुद्धिश्च येन स तथोक्तस् तम् । प्राणरोधः कुम्भके श्वासरोधः । चेष्टानिवृत्तिर्वा । अत एव शब्दादिज्ञानेभ्य उपारतम् । तदेव स्पष्टयति- स्थानेति ॥ जाग्रदादिस्थानत्रयात् परम् अतीतं तुरीयं हरिं प्राप्तम् अत एव ब्रह्मणि भूतं ब्रह्मभूतम् । प्रयत्नमन्तरेण स्वत एव मनसा स्वबिम्बरूपं परमात्मानम् अनुभवन्तम् अत एवाविक्रियं निश्चेष्टं निवातस्थदीपोपमम् । विरुद्धक्रियारहितं वा ॥ २६ ॥
प्रकाशिका
प्रतिरुद्धाः परमात्मन्येव सम्यक् स्थापिता इन्द्रियादयो येन तम् । अत एव विषयेभ्य उपारतम् । व्यावृत्तज्ञानम् । उपे आराद्रुद्रपालके हरौ सम्यग्रतमिति वा । शान्तमित्युक्तमेव विशदयति- स्थानेति ॥ स्थानत्रयाज्जाग्रदाद्यवस्थात्रयात्परमवस्थान्तरम् । असम्प्रज्ञातसमाध्यवस्थामिति यावत् । प्राप्तम् । ब्रह्मभूतमित्येतद्ब्रह्मणैकीभूतमिति प्रतीतिवारणाय प्रमाणेनैव व्याख्याति- स्वत इति ॥ यत्रोपासकस्य ब्रह्मभाव उदाहृतस्तत्र विष्णावुपास्ये स्वतोऽनायासेन प्रयत्नं विना मनःस्थितिर् मनसोऽवस्थानं ब्रह्मभावशब्देन । व्याख्येयेति शेषः । एवं च ब्रह्मणि भूतं स्वत एव स्थितं मनो यस्य तमिति मूलं व्याख्येयमिति भावः । अत एवाविक्रियं विहितक्रियानुष्ठानशून्यम् । ‘नैव तस्य कृतेनार्थ’ इति वचनात् ॥ २६ ॥
विप्रकीर्णजटाछन्नं रौरवेणाजिनेन च ।
विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥
पदरत्नावली
विप्रकीर्णाभिर् जटाभिश् छन्नं संवृतम् । रुरोः कृष्णमृगस्य विद्यमानेन अजिनेन च संवृतम् आसीनं वा । विशुष्यन् नीरसं तालु जिह्वामूलरूढा अनुजिह्व यस्य सस् तथा सः परीक्षित् तथाभूतम् एवंविशिष्टं मुनिम् उदकमयाचत प्रार्थितवानित्यन्वयः ॥ २७ ॥
प्रकाशिका
विप्रकीर्णाभिर्जटाभिश्छन्नं संवृतम् । रुरुर्मृगविशेषस्तस्य विद्यमानेनाजिनेन चर्मणा च छन्नम् । विशुष्यन्नीरसं तालुर्जिव्हामूलं यस्य सः । तथाभूतम् एवं विशिष्टं मुनिम् ॥ २७ ॥
अलब्धतृणभूम्यादिरसंप्राप्तार्ध्यसूनृतः ।
अवज्ञातमिवाऽत्मानं मन्यमानश्चुकोप ह ॥ २८ ॥
पदरत्नावली
सः राजा चुकोपेत्यन्वयः । तस्मा इति शेषः । अलब्धं तृणभूम्यादि येन सस् तथोक्तः । आदिशब्देन मधुपर्कादि गृह्यते । स्वागतमित्यादिप्रियवचनं सूनृतम् । तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृते’ति स्मृतेः । आत्मानं मुनिना अवज्ञातमिव मन्यमानः । क्षुधादिनिमित्तोऽयं कोप इत्यस्मिन्नर्थे हशब्दः । इतिहासद्योतको वा ॥ २८ ॥
प्रकाशिका
न लब्धं तृणं तृणासनं भूमिरूपवेशस्थानम् । आदिपदेन मधुपर्कादिकं च येन सः । न सम्प्राप्तमर्घ्यं सूनृतं स्वागतमित्यादिप्रियवचनं येन सः । आत्मानं स्वात्मानम् । मुनिनाऽ-वज्ञातमिव मन्यमानः । हेत्याश्चर्ये ॥ २८ ॥
अभूतपूर्वः सहसा क्षुत्तृड्भ्यामर्दितात्मनः ।
ब्राह्मणं प्रत्यभूद्ब्रह्मन्मत्सरो मन्युरेव च ॥ २९ ॥
तात्पर्यम्
‘अप्रीतिर्मद्वशो नायमिति मत्सर ईरितः’ इति नाममहोदधौ ॥ २९ ॥
पदरत्नावली
तस्य परीक्षितः ब्राह्मणं प्रति मन्युरभूत् । न केवलं मन्युः । किन्तु मत्सरश्चा-भूदित्यन्वयः । मन्युरेव, न प्रसाद इति एवशब्दार्थः । मत्सरः नायं मद्वश इति अप्रीतिश्च । कीदृशः? अभूतपूर्व इतः पूर्वमनुत्पन्नः । कीदृशस्य ? क्षुत्तृड्भ्याम् अर्दितात्मनः पीडितमानस्य ॥ २९ ॥
प्रकाशिका
तदेवाह- अभूतपूर्व इति ॥ मत्सरो मन्युरेव चेत्यत्र मन्युशब्दागतार्थतया मत्सरशब्दं प्रमाणनैव दर्शयति- अप्रीतिरिति ॥ अप्रीतिः प्रीत्यभावः । चित्ततोद इति यावत् । न मद्वशोऽसाविति चित्ततोद एव मत्सरशब्दार्थः । मन्युशब्दार्थस्तु क्रोध एव प्रसिद्ध इति भावः । मूले मन्युरेव न भक्तिरित्येवशब्दार्थः ॥ २९ ॥
स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।
विनिर्गच्छन्धनुष्कोट्या निधाय पुरमागमत् ॥ ३० ॥
पदरत्नावली
शापनिमित्तमाह- स इति ॥ सः राजा तस्य ब्रह्मर्षेः स्कन्धे गतासुं मृतं सर्पं धनुष्कोट्यां निधाय पुरमायादित्यन्वयः ॥ ३० ॥
प्रकाशिका
स राजा गतासुमुरगं मृतं सर्पं ब्रह्मर्षेरंसे धनुष्कोट्या चापाग्रेण निधाय पुरमागत इत्यन्वयः ॥ ३० ॥
एष किं निभृताशेषकरणो मीलितेक्षणः ।
मुधा(मृषा)समाधिराहोस्वित् किन्नः स्यात्क्षत्रबन्धुभिः ॥ ३१ ॥
पदरत्नावली
पुरमागच्छतस्तस्यालोचनप्रकारमाह- एष इति ॥ एषः मुनिर् विषयेभ्यः प्रत्यङ्मुखतया निभृताशेषकरणः परतत्वविषयीकृतसकलेन्द्रियः मीलितेक्षणः किं नो ऽस्माकं क्षत्रबन्धुभिः किं स्याद् इति मुधासमाधिर् मीलितेक्षण आहोस्विदिति मनसा वितर्कयन् पुरमागमदिति पूर्वेणान्वयः ॥ ३१ ॥
प्रकाशिका
पुरमागच्छतस्तस्यालोचनप्रकारमाह- एष इति ॥ एष ब्रह्मर्षिः किं निभृताशेष-करणो नितरां भृतानि परतत्त्वविषय एव स्थापितानि करणानि सकलेन्द्रियाणि येन स तथाविधः सन् स्थितः । आहोस्विन्नोऽस्माकं क्षत्रबन्धुभिः किं प्रयोजनं स्यादित्यस्मदवज्ञया मुधा मृषा समाधिः सन् मीलितेक्षणः । स्थित इत्यालोचयन्पुरमागत इत्यन्वयः ॥ ३१ ॥
तस्य पुत्रोऽतितेजस्वी विहरन्बालकोऽर्भकैः ।
राज्ञाऽघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥
पदरत्नावली
तस्य ब्रह्मर्षेः पुत्रः शृृङ्गीतिनामकः । तत्रेदमब्रवीदित्यन्वयः । इदमिति वक्ष्यमाणम् । किं कृत्वा ? राजा परीक्षिता अघम् अपराधं प्रापितं तातं पितरं श्रुत्वा । अशुचितां प्रापितमिति वा । अतितेजस्वीत्यनेन शापदानसामर्थ्यमस्यास्तीति दर्शितम् । अर्भकैर् बालैः सह विहरन् । वयसा बालः न तु सामर्थ्येनेत्येतद्दर्शितं कप्रत्ययेन ॥ ३२ ॥
प्रकाशिका
तस्य ऋषेः पुत्रः शृृङ्गी । तेजस्वीत्यनेन तस्य शापदाने सामर्थ्यं दर्शितम् । अघमवमानम् । अपराधं वा । राजकर्तुकापराधप्राप्तिविषयमित्यर्थः । तातं स्वपितरम् । तत्र बालकमध्ये
॥ ३२ ॥
अहो अधर्मः पालानां पृथ्व्या बलिभुजामिव ।
स्वामिन्यघं यद्दासानां द्वारपानां शुनामिव ॥ ३३ ॥
पदरत्नावली
किमाहेति तत्राह- अहो इति ॥ बलिभुजां काकानामिव पृथ्व्याः पालानां राज्ञाम् अधर्मो ऽन्यायो ऽद्य अस्माभिर् दृष्टः । अहो कष्टम् । तत्कुत इति तत्राह- स्वामिनीति ॥ शुनां स्वामिनि अघमिव ब्राह्मणदासानां तद्गृहद्वारपानां राज्ञां संप्रति स्वामिनि ब्राह्मणे अघं दृष्टमिति यत् तस्मादिति ॥ ३३ ॥
प्रकाशिका
पृथ्व्याः पालानां राज्ञामधर्मो धर्मातिक्रमोऽद्य दृष्टः। अधर्ममेवाह- स्वामिनीति ॥ दासानां स्वामिनि यदघमपराधाचरणम् । केषामिव बलिभुजां काकानामिव । द्वारपालानां शुनामिव चेति यत्स एषोऽधर्म इत्यन्वयः ॥ ३३ ॥
ब्राह्मणैः क्षत्रबन्धुर्हि द्वारपालो निरूपितः ।
स कथं तद्गृहे द्वास्थः सभाण्डं भोक्तुमर्हसि ॥ ३४ ॥
पदरत्नावली
राज्ञां विप्रदासत्वं कथमिति तत्राह- ब्राह्मणैरिति ॥ ब्राह्मणैर् दासतया द्वारपालो निरूपितः सः रजा, तस्य विप्रस्य गृहे द्वास्थः द्वारपालः, कथं सभाण्डं भाण्डेन सह वर्तमानं गृहं भोक्तुं नाशयितुम् अर्हति ? नार्हत्येव । हि यस्मात् तस्माद् असौ स्वामिना दण्ड्य इत्यर्थः ॥ ३४ ॥
प्रकाशिका
राज्ञां ब्राह्मणदासत्वे भवेदेतत् । तदेव कुत इत्यत आह- ब्राह्मणैरिति ॥ ब्रह्माणन्तीति ब्राह्मणास्तैर्वेदज्ञानिभिर्मरीच्यादिभिर्मन्वादिभिः क्षत्रबन्धुः । ब्राह्मणानां गृहपालो दासो निरूपितो धर्मशास्त्रेषु प्रतिपादितो हि यस्मात्तस्मात्स द्वास्थो द्वारपालकेन शुना तुल्यः । कथम् । सभाण्डं भाण्डसहितं गृहं भोक्तुं स्पृष्टुमर्हति । द्वारपालकेन श्वतुल्येन हि द्वार एव स्थित्वोदकादिकं याच्यम् । अनेन तु कथमन्तःप्रविश्यास्मत्स्पर्शादिकं कृतम् । अतोऽसौ दण्ड्य इत्यभिप्रायः ॥ ३४ ॥
कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।
तान्भिन्नसेतूनद्याहं शास्ति पश्यत मे बलम् ॥ ३५ ॥
पदरत्नावली
तर्हि संप्रति को दण्डकस्तेषाम् इति तत्राह- कृष्ण इति ॥ उत्पथगामिनां विहितमार्गं परित्यज्य गच्छतां शास्तरि कृष्णे भगवति गते भिन्नसेतून् लङ्घितमर्यादान् तानद्याहं शास्ति दण्डयामीत्यन्वयः । मे बलं सामर्थ्यं पश्यत, हे बाला इति शेषः ॥ ३५ ॥
प्रकाशिका
भिन्नसेतून् लङ्घितमर्यादान् शास्ति दण्डयामि । मे बलं सामर्थ्यं पश्यत । हे बाला इति शेषः ॥ ३५ ॥
इत्युक्त्वा रोषताम्राक्षः वयस्यानृषिबालकान् ।
कौशिक्यप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥
तात्पर्यम्
कौशिकी कुशपाणिः ॥ ३६ ॥
पदरत्नावली
स च दण्ड कीदृश इति तत्राह- इतीति ॥ रोषताम्राक्षः रोषेण रक्तनेत्रः । कौशिकी कुशपाणिर् अप उपस्पृश्य आचम्य वाग्वज्रं शापलक्षणं विससर्ज दत्तवान् । राज्ञ इति शेषः । इतिहासद्योतकेन हशब्देन कौशिकी नदी तस्या अप उपस्पृश्येत्यपव्याख्यानम् अपहसितमिति ज्ञातव्यम्
॥ ३६ ॥
प्रकाशिका
कौशिकी अप इति पदच्छेदः । तत्र कौशिकीत्यस्य विवक्षितमर्थं दर्शयति- कौशिकीति ॥ कुशनिर्मितपवित्रपाणिरित्यर्थः । तथा च कुशनिर्मितं कौशिकं पवित्रं तदस्यास्तीति कौशिकीति मूलार्थ इति भावः । कुशसम्बन्धी पाणिः कौशिकः । सोऽस्यास्तीति वा । अप उपस्पृश्याचम्य । वाग्वज्रं शापलक्षणं वज्रं विससर्ज प्रयुक्तवान् । राज्ञ इति शेषः । कौशिक्या नद्या अप इति व्याख्यानं तु जलाशयमचक्षाण इत्यनेन विरुद्धत्वाच्चिन्त्यम् । ह कष्टम् । एवं विधं शापं नोचितमित्याशयः ॥ ३६ ॥
इतो लङ्गितमर्यादं तक्षकः सप्तमेऽहनि ।
धक्ष्यति स्म कुलाङ्गारं चोदितो मे पितृद्रुहम् ॥ ३७ ॥
पदरत्नावली
इतोऽद्यतनादह्नः सप्तमेऽहनि मे मया चोदितः प्रेरितस् तक्षकः सर्पविशेषः लङ्गितमर्यादं कुलाङ्गारं कुलनाशकं मम पितृद्रुहं परीक्षितं नाम राजानं धक्ष्यति स्म दग्धं कुर्यादित्येकान्वयः । धक्ष्यतीति लृट् स्मशब्दसामर्थ्याद् लोडर्थो बोद्धव्यः । भागवतप्रधानराजदहनेऽपि सामर्थ्यद्योतनाय वाऽयं व्यत्ययः ॥ ३७ ॥
प्रकाशिका
इतोऽद्यतनादह्नः सप्तमेऽहनि मे मया चोदितः प्रेरितस्तक्षकस्तन्नामानं सर्पः कुलाङ्गारं कुलस्य विनाशने वन्हिस्थानीयं पितृद्रुहं परीक्षितं धक्ष्यति भस्मीकरिष्यति । स्मेत्यनेनात्र स्वसाक्ष्येव प्रमाणमिति दर्शयति ॥ ३७ ॥
ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।
पितरं वीक्ष्य दुःखार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥
पदरत्नावली
आश्रमं गतस् ततः गले सर्पकलेवरं कण्ठस्थितसर्पशरीरं पितरं दृष्ट्वा मुक्तकण्ठ उच्चैः रुरोदेत्यन्वयः । समाधिस्थो वाचा नोद्बोधनीय इत्यतो रोदनमुच्चैः कृतमिति अर्थद्योतको हशब्दः
॥ ३८ ॥
प्रकाशिका
गले सर्पकलेवरं यस्येत्यलुक् समासः । मुक्तकण्ठरुच्चैरित्यर्थः । हेत्यनेन बालकत्वादिति हेतुं सूचयति ॥ ३८ ॥
स वा आङ्गिरसो ब्रह्मन्श्रुत्वा सुतविलापितम् ।
उन्मील्य शनकैर्नेत्रे दृष्ट्वा चांसे मृतोरगम् ॥ ३९ ॥
विसृज्य पुत्रं पप्रच्छ वत्स कस्माद्विरोदिषि ।
केन वा ते विप्रकृतमित्युक्तः स न्यवेदयत् ॥ ४० ॥
पदरत्नावली
वै अपि । आङ्गिरसकुलोत्पन्नः सः शमीकोऽपि सुतस्य विलापितं रोदनम् । उरगं विसृज्य परिहृत्य । कस्माद्धेतोर् विरोदिषीति पुत्रं पप्रच्छेत्यन्वयः । विप्रकृतं विपरीतं कृतम्
॥ ३९,४० ॥
प्रकाशिका
वैशब्दः सुतस्नेहविशेषद्योतकः । विलापनं रोदनम् ॥ विसृज्य निष्कास्य । विप्रकृतं विपरीतं कृतम् । केन तवापकारः कृत इत्यर्थः ॥ ३९,४० ॥
निशम्य शप्तमतदर्हं नरेन्द्रं स ब्राह्मणो नात्मजमभ्यनन्दत् ।
अहो बतांहो महदज्ञ ते कृतमल्पीयसि द्रोह उरुश्रमो धृतः ॥ ४१ ॥
पदरत्नावली
अतदर्हं तस्य शापस्य अर्हः योग्यो न भवतीति अतदर्हस् तम् । न केवलं नाभ्यनन्दद् अनिन्दच्चेत्याह- अहो इति ॥ अंहः पापम् । बत खेदे । अल्पीयसि अणुतरे द्रोहे अपराधलक्षणे । उरुश्रमो महादण्डः ॥ ४१ ॥
प्रकाशिका
अतदर्हं शापस्यार्हो योग्यो न भवतीत्यतदर्हस्तम् । न केवलं नाभ्यनन्दत्किन्तु अनिन्दच्चेत्याह- अहो इति ॥ अंहः पापम् । बत कष्टम् । अल्पीयस्यणुतमे द्रोहेऽपराधे । उरुश्रमो महान्दुःखः ॥ ४१ ॥
न वै नृभिर्नरदेवोऽपारध्यस् तं शप्तुमर्हस्यविपक्वबुद्धे ।
यत्तेजसा दुर्विषहेण गुप्ता विन्दन्ति भद्राण्यकुतोभयाः प्रजाः ॥ ४२ ॥
पदरत्नावली
कुतोऽनिन्ददिति तत्राह- न वा इति ॥ नराणां देवो राजा तदधीनैर्नृभिर् नापराध्य इति । दुर्विषहेण यस्य राज्ञस् तेजसा गुप्ता रक्षिता न कुतोऽपि भयं यासां ता अकुतोभयाः प्रजा भद्राणि विन्दन्ति लभन्ते वै यतः । बहुश्रेयोविवक्षया भद्राणीति बहुवचनम् ॥ ४२ ॥
प्रकाशिका
त्वया पापं कृतमित्यत्र हेत्वन्तरमप्याह- न वा इति ॥ वैशब्दो धर्मशास्त्र-प्रसिद्धद्योतकः । नराणां देवः स्वामी राजा तदधीनैर् नृभिर्नापराध्योऽतः कथं त्वं शप्तुमर्हसि । स्वामिद्रोहस्य पापसाधनत्वादिति भावः । तद्द्रोेहे कृतघ्नता च भवतीत्याह- यत्तेजसेति ॥ यस्य राज्ञस् तेजसा सामर्थ्येन विन्दन्ति प्राप्नुवन्ति ॥ ४२ ॥
अरक्ष्यमाणे नरदेवनामि्न रथाङ्गपाणावयमङ्ग लोकः ।
तदा हि चोरप्रचुरो विनङ्क्षत्यरक्ष्यमाणो विवरूथवत्क्षणात् ॥ ४३ ॥
तात्पर्यम्
‘सेना वरूथिनी प्रोक्ता वरूथो गुप्तिरुच्यते’ इत्यभिधानम् ॥ ४३ ॥
पदरत्नावली
बाधकञ्चाह- अरक्ष्यमाण इति ॥ नरदेवान्तर्यामित्वान्नरदेवनामि्न रथाङ्गपाणौ विष्णौ अरक्षमाणे पालनमकुर्वाणे सति तदा तदानीमेवायम् अरक्ष्यमाणो ऽपाल्यमानश् चोरप्रचुरः लोकः जनः विवरूथवद् रक्षारहितसेनावत् क्षणाद् विनङ्क्ष्यति हि इत्येकान्वयः । ‘सेना रक्षा वरूथः स्यादवरोधो निवेशनमि’त्यभिधानात् ॥ ४३ ॥
प्रकाशिका
व्यतिरेकमप्याह- अरक्ष्यमाण इति ॥ नरदेवान्तर्यामित्वान्नरदेवनामि्न रथाङ्गपाणौ चक्रहस्ते विष्णावरक्ष्यमाणे सति । हे अङ्ग । अयं लोकश्चोरप्रचुरः स्यात् । कुतः । हि यस्माद-रक्ष्यमाणस्तदा हि चोरप्राचुर्ये सति क्षणादविलम्बेन विनंक्ष्यति नाशमेष्यति । जगत्पालकविष्ण्व-धिष्ठानत्वाच्च नायमपराध्य इति सूचयितुं नरदेवनामि्न रथङ्गपाणावित्युक्तम् । क्षणाद्विनंक्ष्यतीत्यत्र दृष्टान्तमाह- विवरूथवदिति ॥ अत्राविवरूथवदिति विच्छिद्य मेघसङ्घवदिति व्याख्यानं वरूथ-शब्दार्थाज्ञाननिबन्धनमित्यभिप्रेत्य वरूथशब्दार्थं प्रमाणेनैव दर्शयति- सेनेति ॥ गुप्तिः रक्षणम् । तेन विगतो वरूथो रक्षणं यस्य तद्विवरूथं रक्षकरहितं वस्तु तद्वदित्यर्थः ॥ ४३ ॥
तदद्य नः पापमुपैत्यनन्वयं यन्नष्टनाथस्य पशोर्विलुम्पकाः ।
परस्परं घ्नन्ति शपन्ति वृञ्जते पशून् स्त्रियोऽर्थान्पुरुदस्यवो जनाः ॥ ४४ ॥
तात्पर्यम्
‘विड्राष्ट्रं पशुरुत्सेको भ्रमरश्चेति कथ्यते’ इति च ॥ ४४ ॥
पदरत्नावली
नष्टनाथस्य पालकरहितस्य पशोः राष्ट्रस्य चोरादयो विलुम्पका नाशका इति यद् यस्मात् तत् तस्माद् अद्य नोऽस्माकम् अनन्वयम् अनुपमम् अन्वयविरोधि सन्ततिनाशकरं वा पापम् उपैतीत्यन्वयः । उक्तमेव विवृणोति- परस्परमिति ॥ वृञ्जते अपहरन्ति छिन्दन्तीति वा । ‘दसु हिंसायां’ इति धातोर् नगरनाशकाः । ‘पुर गतावि’ति धातोर् इतस्ततो यात्राविघ्नकरा वा । पशून् घ्नन्ति, स्त्रियः शपन्ति उपालभन्ते घर्षयन्ति, अर्थान् वृञ्जत इति विवेकः ॥ ४४ ॥
प्रकाशिका
लोके चोरैर्विनाशिते सति तत्पापमस्माकमेव स्यादित्याह- तदद्येति ॥ अत्र पशुशब्दो न प्रसिद्धपशुपरः प्रकृतसङ्गतस्ततोऽत्र विवक्षितं तदर्थम्प्रमाणेनैव दर्शयति- विड्राष्ट्रमिति ॥ तथा च नष्टनाथस्य पालकरहितस्य पशोः राष्ट्रस्य यद्यस्माद्विलुम्पका नाशकाश्च चोरादयो भविष्यन्ति । तत्तस्मादद्य नोऽस्माकम् अनन्वयमस्मात्सम्बन्धायोग्यं सन्ततविरोधि वा पापमुपैति । विलुम्पका इत्युक्तं विलुम्पनमेव विवृणोति- परस्परमिति ॥ शपन्त्युपालभन्ते । परुषं वदन्तीति यावत् । पश्वादीन्वृञ्जतेऽपहरन्ति पुरवो बहवो दस्यवश्चोरा येषां ते तथा ॥ ४४ ॥
तदार्यधर्मश्च विलीयते नृणां वर्णाश्रमाचारयुतस्त्रयीमयः ।
ततोऽर्थकामाभिनिवेशितात्मनां शुनां कपीनामिव वर्णसङ्करः ॥ ४५ ॥
पदरत्नावली
तत्परिपाकमाह- तदेति ॥ यदा पश्वादिहन्तृशिक्षा न क्रियते तदा आर्याणां शिष्टानां सम्मतो धर्मः धर्मे अधिकृतानाम् अनुष्ठातृणां नृणां विलीयते क्रमेण ह्रसितस्तिरोभवति च । कीदृशः ? त्रय्या त्रिभिर्वेदैर् मीयते ज्ञायते प्रतिपाद्यत इति त्रयीमयः । अत एव वर्णाचारैराश्रमाचारैश्च युतः । धर्मलयपरिपाकमाह- तत इति ॥ ततः वर्णाश्रमाचारयुतवैदिकार्यधर्मनाशानन्तरं कनकाद्यर्थेषु स्नक्चन्दनवनितादिभोगलक्षणकामेषु अभिनिवेशित आत्मा मनः येषां ते तथोक्तास् तेषां पुंसां यथा शुनां कपीनाञ्च भक्षणभोगादावव्यवस्था तथा हीनजातीनाम् उत्तमजातिभिर् उत्तमजातीनां हीनजातिभिर् भोगसंभोगादिना वर्णानां सङ्करः कलुषीभावो भविष्यतीत्येकान्वयः ॥ ४५ ॥
प्रकाशिका
न केवलं राष्ट्रविलोपननिमित्तमस्माकं पापं किन्तु सर्वधर्मविलोपननिमित्तं वर्णसङ्करनिमित्तं च प्राप्तमित्याशयेनाह- तदार्येति ॥ तदाऽर्थाद्यपहारे सति । आर्यधर्मः श्रेष्ठधर्मो यज्ञादिः । त्रयीमयो वेदप्रतिपाद्यः । ततः शुनां कपीनामिव चार्थकामयोरेवाभिनिवेशित आत्मा मनो येषां ते तथा तेषां वर्णसङ्करो भविष्यति ॥ ४५ ॥
धर्मपालो नरपतिः स तु सम्राट् बृहच्छ्रवाः ।
साक्षान्महाभागवतो राजर्षिर्हयमेधरा(या)ट् ।
क्षुत्तृट्च्छ्रमान्वितो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥
पदरत्नावली
परीक्षितो ऽदुष्टत्वे नन्विदम् । तदेव कथमिति तत्राह- धर्मपाल इति ॥ अत्र धर्मपालादिविशेषणानि हेतुगर्भाणि । धर्मपालत्वान् महाभागवतत्वाद् राजर्षित्वात् हयमेधयाजित्वाच्च सः सम्राट् न दुष्टः । अतः क्षुत्तृट्च्छ्रमान्वितत्वेन बुभुक्षापिपासया दीनोऽस्मदाश्रममागतो ऽर्घ्यादिपूजायोग्य नैव अस्मद् अस्मत्तः शापम् अर्हति । तस्माद् अनिवार्यमघमापन्नमिति भावः । हयमेधैर् अश्वमेधैर् इष्टवानिति हयमेधयाट् ॥ ४६ ॥
प्रकाशिका
एवं राजमात्रस्य स्वशापानर्हत्वमुक्त्वा परीक्षित्सुतरां तदनर्ह इत्याशयेनाह- धर्मपाल इति ॥ धर्मपाल इत्यादीनि हेतुगर्भविशेषणानि । सम्राट् चक्रवर्ती । बृहच्छ्रवा विततयशाः । साक्षादनुपचारेण । हयमेधराट् अश्वमेधयाजी क्षुत्तृट्च्छ्रमान्वित इत्यनेन क्षुत्पिपासादिनाऽस्मदाश्रम-मागतोऽर्घ्यादिना पूज्य एव न शापार्ह इति सूचयति ॥ ४६ ॥
अपापेषु स्वभृत्येषु बालेनापक्वबुद्धिना ।
पापं कृतं तद्भगवान्सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥
पदरत्नावली
इत्थमघस्य सिद्धत्वमापाद्य अनुतापपूर्वकं तदघनिष्कृतिं करोति- अपापेष्विति ॥ सर्वात्मा सर्वान्तर्यामी श्रीनारायणः बालेन स्वभुत्येषु कृतं तत्पापं क्षन्तुमर्हतीत्यन्वयः ॥ ४७ ॥
प्रकाशिका
अस्य महापापस्यान्यत्प्रायश्चित्तमदृष्ट्वा स्वपुत्रकृतपापमावेदयन् भगवन्तं प्रार्थयते- अपापेष्विति ॥ सर्वात्मा सर्वान्तर्यामी ॥ ४७ ॥
तिरस्कृता विप्रलब्धाः शप्ताः क्षिप्ता हता अपि ।
नास्य तत्प्रतिकुर्वन्ति तद्भक्ताः प्रभवोऽपि हि ॥ ४८ ॥
पदरत्नावली
अस्मदाश्रममागतोऽवज्ञातः परीक्षित् प्रभुरपि न तत्प्रतिचक्रे इत्याशयवानाह- तिरस्कृता इति ॥ तिरस्कृता निन्दिताः । विप्रलब्धा वञ्जिताः । शप्ता उपालब्धाः । क्षिप्ता अधिक्षिप्ताः । हतास् ताडिताः । अपिशब्दः प्रत्येकमभिसम्बध्यते । प्रभवोऽपि प्रतिकर्तुं समर्था अपि, प्रतिशापं कर्तुं वा । तद्भक्तास् तस्य हरेर् भक्ता अस्य तिरस्कारादिकर्तुः सम्बन्धि तत्तिरस्काराद्युद्दिश्य न प्रतिकुर्वन्ति प्रतिक्रियां नैव कुर्वन्तीत्यर्थः । हिशब्देन ‘क्षमा बलमशक्तानां शक्तानां भूषणं क्षमे’ति प्रसिद्धिं दर्शयति ॥ ४८ ॥
प्रकाशिका
अस्मदाश्रममागतोऽवज्ञातः परीक्षित्प्रभुरपि न तत्प्रतिचक्रे । येनास्मात्पापनिष्कृतिः स्यादित्याशयेनाह- तिरस्कृता इति ॥ तिरस्कृता निन्दिता, विप्रलब्धा वञ्चिताः, क्षिप्ता अवज्ञाता, हतास्ताडिताः । अपिशब्दः प्रत्येकमभिसम्बध्यते । अस्य तिरस्कारादिकर्तुः । तत् तिरस्कारादिकमुद्दिश्य न प्रतिकुर्वन्ति प्रतिक्रियां न कुर्वन्तीत्यर्थः । तस्य हरेर्भक्ताः प्रभावः प्रतिकर्तुं समर्था अपि । हिशब्देन यतस्तपोवृद्धिकामा इति हेतुं दर्शयति ॥ ४८ ॥
इति पुत्रकृताघेन सोऽनुतप्तो महामुनिः ।
स्वयं विप्रकृतो राज्ञा नैवाऽघं तदचिन्तयत् ॥ ४९ ॥
पदरत्नावली
तदधं तेन राज्ञा कृतमपराधम् । महामुनिरिति हेतुगर्भं विशेषणम् । सर्वज्ञत-मत्वात् ‘शरीराभिमानिन एव दुःखादिप्राप्त्या कोपोत्पत्तिः । नत्वसम्प्रज्ञातसमाधिस्थस्य । पद्मपत्रपानीयवद् अश्लिष्टदुरितत्वादित्यादिविशेषज्ञत्वादि’त्यर्थः ॥ ४९ ॥
प्रकाशिका
अत एवाह- इतीति ॥ राज्ञा स्वयं विप्रकृतः विप्रकृतोऽपि तत्तस्याघमपराधम्
॥ ४९ ॥
साधवः प्रायशो लोके परैर्द्वन्द्वेषु योजिताः ।
न व्यथन्ति न हृष्यन्ति यत आत्मा(ऽ)गुणाश्रयः ॥ ५० ॥
॥ इति श्रीमद्भागवते प्रथमस्कन्धे अष्टादशोऽध्यायः ॥
तात्पर्यम्
स्वकृतो गुणः स्वस्यैव यतः ॥ ५० ॥
पदरत्नावली
साधूनाम् अयं स्वभाव इत्याह- साधव इति ॥ द्वन्द्वेषु सुखदुःखादिषु योजिताः सङ्गमिताः साधवः यथास्थितवस्तुदर्शिनः । कुतो व्यथाद्यभाव इति तत्राह- यत इति ॥ आत्मा गुणाश्रय इत्यस्य अकारप्रश्लेषाप्रश्लेषाभ्यां पदच्छेदः कर्तव्यः । गुणस्य अगुणस्य दोषस्य च आत्मा कर्ता जीवः स्वयमेवाश्रयः यतस् तस्मादिति ॥ ५० ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे अष्टादशोऽध्यायः ॥
प्रकाशिका
साधूनामयमेव स्वभाव इत्याह- साधव इति ॥ द्वन्द्वेषु सुखदुःखादिषु । योजिताः सङ्गमिताः । यत आत्मागुणाश्रय इति हेतुवाक्यस्यागुणाश्रय इति व्याख्यानं प्रमाणविरोधादिनाऽसदिति भावेन तत्तात्पर्यमाह- स्वकृत इति ॥ स्वकृतः स्वकर्मसम्पादितः । गुणः सुखदुःखलक्षणः । स्वस्यैव न परस्येत्यर्थः । तथा च यत आत्मा जीवो गुणाश्रय ईश्वरप्रेरितस्वकर्मार्जितशुभाशुभरूपफलाश्रयो भवति । अतो नायं परोऽस्माकं सुखदुःखप्रद इत्यनुसन्धाय न व्यथन्ति न हृष्यन्तीति मूलं व्याख्येयमिति भावः ॥ ५० ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायामष्टादशोऽध्यायः ॥ १-१८ ॥