तत्र गोमिथुनं राजा हन्यमानमनाथवत्
अथ सप्तदशोऽध्यायः
सूत उवाच—
तत्र गोमिथुनं राजा हन्यमानमनाथवत् ।
दण्डहस्तञ्च वृषलं ददृशे नृपलाञ्चनम् ॥ १ ॥
पदरत्नावली
अत्रापि भगवद्भक्तप्रधानस्य परीक्षितः कलिबन्धनादिमाहात्म्यवर्णनेन हरेर्महिमैव वर्ण्यते इति तन्महिमैवोच्यते । तत्र ‘नातिदूर’ इति कथितमाश्चर्यमाह- तत्रेति ॥ तत्र कुरुक्षेत्रे प्राच्याः सरस्वत्यास् तीरे अनाथवन् नाथः स्वामी तेन रहितो यथा हन्यते तथा ताड्यमानं गोमिथुनम् ॥ १ ॥
प्रकाशिका
आश्चर्यं यदासीदित्युक्ताश्चर्यप्रकारमाह- तत्रेति ॥ तत्र कुरुक्षेत्रे नदीतीरे । अनाथेन तुल्यं वर्तत इति अनाथवत् । स्वामिरहितसदृशम् । हन्यमानं ताड्यमानं गोमिथुनम् । वृषं गां चेत्युभयम् । वृषलं कर्मणा शूद्रम् । दण्डहस्तं हन्तारम् ॥ १ ॥
वृषं मृणालधवलं मेहन्तमिव बिभ्यतम् ।
वेपमानं पदैकेन सीदन्तं शूद्रपीडितम् ॥ २ ॥
तात्पर्यम्
बिभ्यन्तमिव मेहन्तम् ॥ २ ॥
पदरत्नावली
मिथुनं विविच्याह- वृषमिति ॥ मृणालधवलं कमलनालसूत्रवद्धवलं शुक्लवर्णम् । बिभ्यतं भीतमेव मेहन्तं शकृन्मुञ्चन्तम् । वेपमानं कम्पमानम् । एकेन पदा स्थितत्वात् सीदन्तं भग्नाङ्गवत्तिष्ठन्तं शूद्रेण कलिना पीडितं वृषमद्राक्षीत् ॥ २ ॥
प्रकाशिका
गोमिथुनमेव विविच्योक्त्वा तत्प्रति राज्ञः प्रश्नं दर्शयति- वृषमिति ॥ मृणालवत्कमलनालसूत्रवत् । कमलकन्दवद्वा धवलं शुल्लवर्णम् । मेहन्तमिव बिभ्यतमित्यत्र यथास्थिता-न्वयस्य बाधितत्वाव्द्यत्यस्यान्वयमाह- विभ्यतमिवेति ॥ तथा च बिभ्यद्यथा भयात्पुनः पुनर्मेहनं करोति तथा मेहन्तं शकृन्मुञ्चन्तमिति व्याख्येयमिति भावः । वेपमानं भयादेव कम्पमानम् । एकेन पदा स्थित्या सीदन्तम् । शूद्रेण कलिना पीडितं ताडितं प्रपच्छेति वक्ष्यमाणेनान्वयः ॥ २ ॥
गाञ्च धर्मदुघां दीनां भृशं शूद्रपदाहताम् ।
विवत्सामश्रुवदनां कृशां यवसमिच्छतीम् ॥ ३ ॥
पदरत्नावली
यवसं तृणम् आकाङ्क्षमाणाम् । अत एव कृशाम् । अश्रुवदनाम् अश्रुमुखीम् । विवत्सां वत्सरहितामिव स्थिताम् । शूद्रस्य पदा ताडिताम् । भृशम् अत्यर्थं दीनां कृपणाम् । धर्मदुघां यज्ञयोग्यपयोदोग्ध्रीं गाञ्चैवंविधाम् अपश्यदित्यन्वयः ॥ ३ ॥
प्रकाशिका
धर्मदुघां यज्ञोपयोगिपयोदोग्ध्रीम् । भृशं दीनां कृपणाम् । विवत्सामिवाश्रुवदनाम् । यवसं तृणम् । पृथिव्यपि सत्यादिप्रसवक्षयाद्विवत्सेव । यज्ञभागाभावात्कृशा । अत एव यज्ञभाग-मिच्छतीति द्रष्टव्यम् ॥ ३ ॥
पप्रच्छ रथमारूढः कार्तस्वरपरिच्छदम् ।
मेघगम्भीरया वाचा समारोपितकार्मुकः ॥ ४ ॥
पदरत्नावली
दृष्ट्वा च तां राजा पप्रच्छेत्यन्वयः । कथंभूतः ? कार्तस्वरपरिच्छदं सुवर्णपरिकर परिष्कृतं रथम् आरूढः समारोपितकार्मुकः सज्जीकृतधन्वा ॥ ४ ॥
प्रकाशिका
कार्तस्वरं सुवर्णं तेन कृतः परिच्छदः परिकरो यस्य तम् । सुवर्णनिबद्धमित्यर्थः
॥ ४ ॥
कस्त्वं मच्छरणे लोके बलाद्धस्यबलौ बली ।
नरदेवोऽसि वेषेण नटवत्कर्मणाऽद्विजः ॥ ५ ॥
पदरत्नावली
तत्र प्रथमं शूद्रं प्रति प्रश्नप्रकारमाह- कस्त्वमिति ॥ यस्त्वं नटवद्वेषेण नरदेवोऽसि । न तु राजा । कर्मणा अद्विजः शूद्रोऽसि । अद्विज इत्युक्त्या शूद्रत्वं कथं ज्ञातमिति चेन्न कर्मणेत्यनेन क्षत्रियवैश्ययोः परिहृतत्वात् । मच्छरणे अहमेव रक्षको यस्य सस् तथोक्तस् तस्मिन् । ‘शरणं गृहरक्षित्रो’रित्यभिधानम् । बली त्वम् अबलौ दुर्बलौ गोवृषौ बलात् प्रसह्य हंसि पीडयसि । त्वं कः ? ॥ ५ ॥
प्रकाशिका
तत्रादौ तावत् शूद्रं प्रति प्रश्नप्रकारमाह- कस्त्वमिति ॥ अहमेव शरणं रक्षको यस्य स मच्छरणस्तस्मिन् लोके विद्यमानौ बलात्प्रसह्य हंसि पीडयसि । अबलौ दुर्बलौ । बली त्वं कः। राजाऽहमिति चेत्तत्राह- नरदेव इति ॥ नट इव वेषमात्रेण नरदेवो राजाऽसि । कर्मणा त्वद्विजो त्रिवर्णबाह्यः ॥ ५ ॥
स त्वं कृष्णे गते दूरं सह गाण्डीवधन्वना ।
शोच्योऽस्यशोच्यान्रहसि प्रहरन्वधमर्हसि ॥ ६ ॥
पदरत्नावली
गाण्डीवधन्वना सह कृष्णे दूरं गते सति यः शोच्यः रहसि अशोच्यान् प्रहरन्नसि स त्वं वधमर्हसीत्यन्वयः ॥ ६ ॥
प्रकाशिका
अशोच्यान्निरपराधान् । रहसि प्रहरन्यस्त्वं प्रहरसि स शोच्यः सापराधोऽसि । अतो वधमर्हसि ॥ ६ ॥
त्वं वा मृणालधवलः पादैर्न्यूनः पदा चरन् ।
वृषरूपेण किं कश्चिद्देवो नः परिखेदयन् ॥ ७ ॥
पदरत्नावली
इदानीं वृषभं पृच्छति- त्वं वेति ॥ हे वृषभ पादैर्न्यूनः यथा चरति तथा त्रिभिः पादैर् न्यून एकेन चरन् मृणालवद् धवलस् त्वं को वा ? वृषभरूपेणास्मान् परिखेदयन् अस्माद्बुद्धेः परिघातं कुर्वन् आगतः कश्चिद्देवः किम् ? ॥ ७ ॥
प्रकाशिका
इदानीं वृषं पृच्छति- त्वं वेति ॥ क इति वर्तते । पादैस्त्रिभिः । पदैकेन । स्वयमेव सम्भावयति । वृषेति ॥ किं कश्चिद्देव वृषरूपेण नोऽस्मान्परिखेदयन्वर्तसे ॥ ७ ॥
न जातु कौरवेन्द्राणां दोर्दण्डपरिरम्भिते ।
भूतले निपतन्त्यस्मिन्विना त्वां प्राणिनां शुचः ॥ ८ ॥
पदरत्नावली
कुतः परिखेदकत्वमिति तत्राह- न जात्विति ॥ कौरवेन्द्राणां दोर्दण्डैः परिरम्भिते रक्षिते अस्मिन् भूतले प्राणिनां शुचः शोकनिमित्ताश्रुबिन्दवः जातु क्वचिदपि न निपतन्ति त्वां विना । त्वन्तु बाष्पकलाक्षः शोचसि यस्मात् तस्मात् परिखेदयसीति भावः ॥ ८ ॥
प्रकाशिका
परिखेदत्वं कुत इत्यत आह- न जात्विति ॥ परिरम्भिते रक्षिते । शुचोऽश्रूणि त्वां विना । त्वं तु शोचसि यस्मात्तस्मात्परिखेदयसीति भावः ॥ ८ ॥
मा सौरभेयानुशुचो व्येतु ते वृषलाद्भयम् ।
मा रोदीरम्ब भद्रं ते खलानां मयि शास्तरि ॥ ९ ॥
पदरत्नावली
हे सौरभेय सुरभिवंशोद्भव, मा शुचः शोकं मा कार्षीः । ते तव वृषलाद् भयं व्येतु नश्यतु इत्यन्वयः । इदानीं सौरभेयीं पुच्छति- मा रोदीरिति ॥ हे सौरभेयि, त्वमपि काऽसि इत्यध्याहारः कर्तव्यः । कस्त्वमित्युक्तत्वात् । हे अम्ब, मा रेदीर् अश्रुविमोक्षणं मा कार्षीः । ते तुभ्यं भद्रम् अस्तु । कुतः ? मयि दुष्टानां शास्तरि सति ॥ ९ ॥
प्रकाशिका
एवमुक्तं श्रुत्वा पुनरपि शोचन्तं प्रत्याह- मा सौरभेयेति ॥ भो सुरभेः पुत्र । मा शुचः शोकं मा कुरु । व्येतु गच्छतु । इदानीं गां प्रत्याह- मा रोदीरिति ॥ शास्तरि मयि जीवति सति । ते भद्रमेवातो मा रोदीः ॥ ९ ॥
यस्य राष्ट्रे प्रजा मातर्हिंस्यन्ते साध्वसाधुभिः ।
तस्य मत्तस्य नश्यन्ति कीर्तिरायुर्भगो गतिः ॥ १० ॥
पदरत्नावली
यस्य राज्ञः राष्ट्रे आसाधुभिर् दुष्टैः प्रजाः साधु हिंस्यन्ते पीड्यन्ते मत्तस्य तस्य कीर्त्यादयो नश्यन्तीत्यन्वयः । गतिः परलोकः ॥ १० ॥
प्रकाशिका
न तवैवोपकारायैनं हनिष्यामि किन्तु मद्धितार्थमपीत्याशयेनाह- यस्येति द्वाभ्याम् ॥ यस्य राज्ञो राज्ये राष्ट्रे साधु सम्यक् हिंस्यन्ते पीड्यन्ते । तस्य राज्ञः कीर्त्यादयो नश्यन्ति । गतिः पारलौकिकः ॥ १० ॥
एष राज्ञः परो धर्मो ह्यार्तानामार्तिनिग्रहः ।
अत एनं वधिष्यामि भूतद्रुहमसत्तमम् ॥ ११ ॥
पदरत्नावली
य आर्तानाम् आर्तिनिग्रह एषः राज्ञः परो धर्मो हि यस्माद् आर्तिनिग्रहस्य स्वधर्मत्वाद् असत्तमं भूतद्रुहम् एनं वृषलं वधिष्यामीत्यन्वयः । अनेन कस्य हेतोर् निजग्राहेति चोद्यं परिहृतम् ॥ ११ ॥
प्रकाशिका
आर्तिनिग्रहो दुःखनाशनम् । अतो दुष्टनिग्रहस्य स्वधर्मत्वात् । अनेन कस्य हेतोर्निजग्राहेति प्रश्नस्योत्तरमुक्तं भवतीति ज्ञातव्यम् ॥ ११ ॥
कोऽवृश्चत्तव पादांस्त्रीन्सौरभेय चतुष्पदः ।
मा भूवंस्त्वादृशा राष्ट्रे राज्ञां कृष्णानुवर्तिनाम् ॥ १२ ॥
पदरत्नावली
हे सौरभेय, चतुष्पदस् तव त्रीन् पादान् को ऽवृश्चच् छेदितवान् ? स कः ? ज्ञातश्चेत्परिहरिष्यामीति शेषः । कुत इति तत्राह- मा भूवन्निति ॥ त्वादृशास् त्वद्विधाः ॥ १२ ॥
प्रकाशिका
पुनरपि वृषं प्रत्याह- क इति ॥ चतुष्पदस्तव त्रीन्पादान्कोऽवृश्चच्चिच्छेद । तमाख्याहीति वक्ष्यमाणेनान्वयः । मादृशः बहवः सन्ति । अतः किं मामेव पृच्छसीत्यत आह- मा भूवन्निति ॥ कृष्णानुवर्तिनामस्माकं राष्ट्रे ॥ १२ ॥
आख्याहि वृष भद्रं वः साधूनामकृतागसाम् ।
आत्मवैरूप्यकर्तारं पार्थानां कीर्तिदूषणम् ।
गलेऽनागस्यघं युञ्जन्सर्वतोऽस्य च त(म)(मह)द्भयम् ॥ १३ ॥
पदरत्नावली
अकृतागसाम् अकृतापराधानां साधूनां निर्दोषाणां वः युष्माकं भद्रम् अस्तु । पार्थानां कीर्तिदूषणं यशोदूषकम् आत्मवैरूप्यकर्तारं भवत्यां विरोधकर्तारं पुरुषम् आख्याहीत्यन्वयः । हे गले सौरभेयि, च आनागसि अघम् अपराधं युञ्जन् प्रयुञ्जानो वर्तते अस्य तत् तस्माद् अपराधात् सर्वत इह परलोके यः भयं, भवत्येवेति शेषः । ‘सौरभेयी गला धेनुर्भद्रानन्दामृतस्त्रवे’ त्यभिधानात् ॥ १३ ॥
प्रकाशिका
किं तदाख्यानेनेत्याशङ्कायामाह- हे वृष । अकृतागसामकृतापराधानां साधूनां वस्तदाखानेन भद्रमेव भविष्यति यद्यतोऽत आत्मनः स्वस्य वैरूप्यं पादत्रयराहित्यरूपम् । तस्य कर्तारमाख्याहि तदाख्याने कथमस्माकं भद्रं भविष्यतीत्याह- गल इति ॥ हे गले सौरभेयि । ‘सौरभेयी गला धेनुर्भद्रा नन्दाऽमृतस्रवे’त्यभिधानात् । अनागस्यपराधशून्ये जनेऽघमपराधं युञ्जन्कुर्वन् योऽस्य सर्वत इहामुत्र च मद्भयं मत्तो भयं भविष्यति तेन च वो भद्रमिति भावः । महद्भयमिति पाठे मत्तो भविष्यतीति शेषः ॥ १३ ॥
अनागस्स्विह भूतेषु य आगस्कृन्निरंकुशः ।
आहर्तांऽस्मि भुजं साक्षादमर्त्यस्यापि साङ्गदम् ॥ १४ ॥
पदरत्नावली
निरंकुशो ऽनिवारितः । अङ्गदेन बाहुभूषणेन सह वर्तमानम् । अमर्त्यस्य देवस्यापि आहर्ताऽस्मि छेत्ताऽस्मि ॥ १४ ॥
प्रकाशिका
तस्य दण्डेऽहमसमर्थ इति मा शङ्कीरित्याह- अनागस्विति ॥ अगस्कृदपराध-कर्ता । निरङ्कुशोऽनिवारितः । तस्यामर्त्यस्य देवस्यापि भुजमाहर्ताऽस्म्याहरिष्यामि । साङ्गदमित्यनेन मूलमारभ्यैवाहरिष्यामीति सूचितम् ॥ १४ ॥
राज्ञो हि परमो धर्मः स्वधर्मस्यानुपालनम् ।
शासतोऽन्यान्यथाशास्त्रम् अनापद्युत्पथानिह ॥ १५ ॥
पदरत्नावली
कुत इति तत्राह- राज्ञ इति ॥ स्वविहितधर्ममनुतिष्ठताम् अनुपालनं तत्तद्योग्यतया रक्षणं राज्ञपरमो धर्मो हि । किं विशिष्टस्य ? इह अनापदि आपदभावेऽपि उत्पथान् मार्गमुत्सृज्य वर्तमानान् अन्यान् दुष्टान् यथाशास्त्रं शासतः ॥ १५ ॥
प्रकाशिका
नन्वेवमेकस्य निग्रहेणान्यस्यानुग्रहे तव किं प्रयोजनमित्यत आह- राज्ञो हीति ॥ कथंभूतस्य राज्ञः। अन्यान् अधर्मिष्ठान्यथाशास्त्रं शास्त्रमनतिक्रम्य । शासतो दण्डयतः। कथं भूतानन्यान् । अनापद्यापदाभावेऽप्युत्पथान्मार्गमुत्सृज्य वर्तमानान् । इह भारते वर्षे । तथा च परधर्मप्राप्तिरेव दुष्टनिग्रहादिना मम प्राप्यं प्रयोजनमिति भावः । हिशब्दः प्रमाणप्रसिद्धिद्योतकः ॥ १५ ॥
धर्म उवाच—
एतद्वः पाण्डवेयानां युक्तमार्ताभयं वचः ।
येषां गुणगणैः कृष्णो दौत्यादौ भगवान्वृतः ॥ १६ ॥
पदरत्नावली
श्रीकृष्णो भगवान् येषां पाण्डवानां ज्ञानभक्तिविरक्त्यादिगुणगणैर् दौत्यादौ वृतः पाण्डवेयानां तेषां पाण्डववंशोद्भवानां व एतद् आर्तानाम् अभयङ्करं वचः युक्तम् उचितमित्यन्वयः ॥१६॥
प्रकाशिका
आर्तानामभयं यस्मात्तद्वचो वो युक्तम् । उचितमेव ॥ १६ ॥
न वयं क्लेशबीजानि यतः स्युः पुरुषर्षभ ।
पुरुषं तं विजानीमः वाक्यभेदविमोहिताः ॥ १७ ॥
पदरत्नावली
हे पुरुषर्षभ, यतो जीवानां क्लेशबीजानि स्युर् वयं तं पुरुषम् अयमेवेति न जानीमः । अनेकक्लेशबीजप्रतिपादकवेदवक्यविमोहिताः ॥ १७ ॥
प्रकाशिका
क्लेशबीजानि प्राणिनां क्लेशहेतवः । यतः पुरुषात्स्युर्भवेयुः । कुतो न विजानीम इत्यतोऽत्र हेतुमाह- वाक्येति ॥ यतो वाक्यभेदैस्तत्तद्वादिविशेषवाक्यैर्विमोहिता अतो न विजानीमः
॥ १७ ॥
केचिद्वैकल्पवचस आहुरात्मानमात्मनः ।
दैवमन्ये परे कर्म स्वभावमपरे प्रभुम् ॥ १८ ॥
पदरत्नावली
वाक्यभेदमेवाह- केचिदित्यादिना ॥ केचिद्वैकल्पं विकल्पसमूहोपेतं वचः येषां ते तथोक्ताः । सन्दिग्धवचस इत्यर्थः । आत्मनः स्वस्य क्लेशबीजम् आत्मानं स्वमेवाहुः । केचित् साङ्ख्या आत्मानम् अन्तःकरणं तत्कारणमाहुः । वैकल्पवचसः प्रकृतिपुरुषयोर् विवेकाग्रहवचनाः । एके सम्यक् ज्ञानिनः दैवं सर्वदेवप्रधानं हरिं क्लेशबीजम् आहुः । अपरे प्रभुं स्वभावं कालं क्लेशबीजमाहुः । ‘सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधी’ ति श्रुतेः । स्वशब्दवाच्याद्विष्णोर् भाव उत्पत्तिर् यस्य सः स्वभावः ॥ १८ ॥
प्रकाशिका
वाक्यभेदानेवाह- केचिदिति ॥ विकल्पो भेदस्तत्सम्बन्धि वैकल्प्यं भेदप्रतिपादकं वचो येषां ते तथोक्ताः । प्रकृतिपुरुषयोर्भेदवादिनः सांख्याः । भेदाग्रहनिमित्तमात्मनो जीवस्य क्लेशबीजम् । आत्मानमन्तःकरणं प्रधानमाहुः । दैवमीश्वरम् । एके वैदिकाः । अपरे मीमांसकाः । कर्म स्वार्जितपापपुण्यरूपं कर्मैव सुखदुःखकारणमित्याहुः । अपरे चार्वाकाः स्वभावं तत्तद्वस्तु स्वभावं प्रभुं सुखदुःखप्रदमाहुः ॥ १८ ॥
अप्रतर्क्यादनिर्वाच्यादिति केष्वपि निश्चयः ।
अत्रानुरूपं राजर्षे विमृश स्वमनीषया ॥ १९ ॥
पदरत्नावली
अनन्तत्वात् सर्वात्मना अप्रतर्क्यात् तर्काविषयाद् अनिर्वाच्यात् क्लेशपरम्परा, सर्वेषां जीवानां प्रकृत्या पिहितत्वादिति केष्वपि निश्चयः । अथवा अप्रतर्क्यात् प्रकर्षेण तर्कायोग्यात् सत्वेनासत्वेन सदसत्वेन वा निर्वक्तुमशक्याद् भावरूपाज्ञानादिति केषु मायावादिषु निश्चयः । राजश्रेष्ठ, एषु पक्षेषु अनुरूपं श्रुतिस्मृत्यनुकूलं विमृश स्वबुध्या आलोच्य निश्चिनु इति ॥ १९ ॥
प्रकाशिका
अप्रतर्क्यात्सत्वेनासत्वेन च विचारासहात् । अत एवानिर्वाच्यात्सदसद्विलक्षणात् । अज्ञानादित्यपि निश्चयः केषुचित् । इत्यपि निश्चय इत्युपहासेन प्रत्यक्षादिसिद्धजगत्सत्यत्वापलापिन एत इति सूचयति । कालाद्यनुक्तसमुच्चायको वाऽपिशब्दः । यद्वा ‘केचिद्वैकल्पवचस’ इत्यनेन प्रकृत्युपसर्जन पुरुषकर्तृकवादि साङ्ख्यमतोक्तिः । अप्रतर्क्यानिर्देश्यादिना केवलप्रकृतिकर्तृत्ववादिसंख्यमतकथनमिति ॥ अत्रैषु पक्षेषु अनुरूपं श्रुतिस्पृत्याद्यनुकूलमेकं सिद्धान्तं स्वमनीषया स्वबुद्ध्या विमृश विचारय ॥ १९ ॥
एवं धर्मे प्रवदति स सम्राट् द्विजसत्तम ।
समाहितेन मनसा विदित्वा प्रत्यचष्ट तम् ॥ २० ॥
पदरत्नावली
धर्मे एवं प्रवदति सति सः सम्राट् समाहितेन एकाग्रेण मनसा आलोच्य स्वाधीनैः कर्मकालप्रधानैर् दैवमेव अस्वतन्त्राणां जीवानां दुःखादिबिजम् । अधर्मादीनां दुःख-बीजत्वञ्चावान्तरम् । स्वतन्त्रकर्मादीनां दुःखबीजत्वपक्षो हेय एव । एते च अधर्मभुव इति विदित्वा तं प्रत्याचष्टेत्यन्वयः । आत्मादिशब्दवाच्यं परमात्मानं क्लेशबीजं विदित्वेति वा । आदानादिकर्तृत्वादात्मा । देवोत्तमत्वाद्दैवम् । क्रियाविषयत्वात् सकलकरणशक्तिमत्वाद्वा कर्म । स्वस्माद् भावः प्रकाशो यस्य सः स्वभावः । स्वां स्वरूपभूतां भां प्रकाशं वाति गच्छति न परप्रकाशमिति स्वभावः । स्वयंप्रकाश इत्यर्थः । अप्रतर्क्याद् दुस्तर्काविषयत्वाद् अप्रसिद्धत्वाद् अनिर्वाच्यात् ‘अप्रसिद्धेरवाच्यं तदि’ ति स्मृतेः । इति सर्वेषु पक्षेषु हरिरेवोच्यते क्लेशबीजत्वेन । ‘अहं सर्वस्य प्रभवः मत्तः सर्वं प्रवर्तते । इति मत्वा भजन्ते मां बुधा भावसमन्विताः’ । ‘बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः । सुखं दुःखं भवोऽभावो भयञ्चाभयमेव च । अहिंसा समता तुष्टिस् तपो दानं यशोऽयशः । भवन्ति भावा भूतानां मत्त एव पृथग्विधाः’ इत्यादेश्च । ‘अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च । न तु मामभिजानन्ति तत्वेनातश्च्यवन्ति ते’ इति स्मृतिः पृथक्कल्पनाया अज्ञानिविषयत्वादित्यादिकं ‘समाहितेन’ ‘सम्राडि’ति पदद्वयेनोक्तमिति ज्ञातव्यम् । सम्यक् राजते प्रकाशते सर्वमस्येति सम्राट् । अत आत्मवैरूप्यकर्तारं न विजानीम इति वदन्तं धर्ममब्रवीदित्यन्वयः । समाहितेन चेतसा ज्ञानेन तं धर्मं भगवन्तं प्रत्यचष्ट दृष्टवान् । अपरोक्षदर्शनेन तस्य निजरूपमद्राक्षीदित्यर्थः । दृष्ट्वा चाब्रवीदिति शेषः ॥ २० ॥
प्रकाशिका
धर्मे वृषरूपे समाहितेनैकाग््रयेण मनसाऽऽलोच्य तं घातकं कलिं विदित्वा निश्चित्य प्रत्यचष्ट प्रत्यभाषत ॥ २० ॥
धर्मं ब्रवीषि धर्मज्ञ धर्मोऽसि वृषरूपधृक् ।
यदधर्मकृतः स्थानं सूचकस्यापि तद्भवेत् ॥ २१ ॥
तात्पर्यम्
असतां सूचकस्य न दोषस्तथापि सतां न सूचनीयमिति दर्शयितुम् । ज्ञातुं शक्यत्वाच्च राज्ञः । यद्यधर्मः कृतः सद्भिर्न स वाच्यः कथञ्चन । असत्कृतमधर्मं तु वदन् धर्ममवाप्नुयात् ॥ इति व्यासस्मृतौ । तस्य गोचरत्वेऽपि भूतानामगोचरेति ज्ञापयितुं वा ॥ २१ ॥
पदरत्नावली
किमब्रवीदिति तत्राह- धर्ममिति ॥ हे धर्मज्ञ, धर्मं ब्रवीषि यतस् तस्मात् त्वं धर्मोऽसि । न वृषः । अपि तु अज्ञजनमोहनाय वृषरूपं धत्से । यदुक्तं ‘आत्मवैरूप्यकर्तारं न विजानीम इति’ तत्राह- यदिति ॥ ‘असत्कृतमधर्मं तु वदन् धर्ममवाप्नुयात्’ इति वचनाद् अस्य वृषलस्य आत्मवैरूप्यकर्तृत्वसूचने दोषाभावेऽपि ‘यद्यधर्मःकृतः सद्भिर् न स वाच्यः कथञ्चनेति’ वाक्यात् सज्जनेष्वधर्मकृतः यत् स्थानं नरकादिलक्षणं तत्सूचकस्यापि तत्स्थानं भवेदिति ज्ञापनाय त्वया आत्मवैरूप्यकर्ता न ज्ञापित इत्यतो धर्मं ब्रवीषीत्यर्थः ॥ २१ ॥
प्रकाशिका
‘न वयं तं विजानीम’ इति त्वदीयं वाक्यं किमीश्वरातिरिक्तं क्लेशप्रदं पुरुषमभि-प्रेत्योतेश्वरमेवाभिप्रेत्येति विकल्पं मनसि निधायाद्ये पक्षे तद्वाक्याभिप्रायमाह- धर्ममिति ॥ अत्र यदधर्मकृतो दोषकारिणः पुरुषस्य स्थानं नरकादि तत्सूचकस्यापि तद्भवेदिति सामान्यत उक्तत्वा-त्कस्यापि दोषो न सूचनीय इति च प्रतीयतेऽतोऽभिप्रायमाह- असतामिति ॥ असतामिति कर्तरि षष्ठी । सूचकेत्यतः पूर्वं दोषेत्यध्याहार्यम् । यद्यपीति च । अनेन धर्मज्ञेत्येतदुक्ततात्पर्यम् । तथा च यद्यप्यसत्कृतदोषसूचकस्य पुरुषस्य न दोषः । न दोषकर्तृकफलभूतनरकप्राप्तिरित्यर्थः । तर्हि ‘न वयं तं विजानीम’ इति कथं धमर्ेेणोक्तमित्यत आह- तथाऽपीति ॥ सतां पापं सज्जनकर्तृकपापं न सूचनीयमिति धर्मं दर्शयितुं धर्मेण न वयं तं विजानीम इत्युक्तमिति शेषः । तथा च यदधर्मकृत इति वाक्यं सज्जनपापसूचकविषयमिति भावः । न वयमिति वाक्यस्याद्यपक्ष एवाभिप्रायान्तरमाह- ज्ञातुमिति ॥ राज्ञो ‘अधर्मकृत्पुरुषोऽयं कलिरि’ति राज्ञा स्वयमेव ज्ञातुं शक्यमतः किमर्थं मया वक्तव्यमित्यभिप्रेत्य च ‘न वयं तं विजानीम’ इत्यक्तमित्यर्थः । इदमभिप्रायकथनं मूलगतोक्तानुक्त-समुच्चायकापिशब्दसूचितमित्यवगन्तव्यम् । यदधर्मकृतः स्थानमिति वाक्यस्योक्तार्थानङ्गीकारे बाधक-प्रमाणमाह- यद्यधर्म इति ॥ तु विशेषेण वदन्नित्यर्थः । द्वितीयपक्षेऽपि न वयमिति वाक्याभिप्रायमाह- अथवेति ॥ तत्र देवमायाया गतिर्भूतानां चेतसो वचसश्चागोचरेत्युक्त्या धर्मस्याप्यगोचरेति भात्यतस्तदभिप्रायमाह- तस्येति ॥ तदीयचेतोवचसोरित्यर्थः । तत्र देवमायाया इति शेषः । ज्ञापयितुं वा छत्रिन्यायेन न वयं तं विजानीमः । उक्तमिति शेषः । ततश्च धर्मं ब्रवीषीत्यादेरयमर्थः । हे धर्मज्ञ असतां पापसूचनेऽपि न दोषः । प्रत्युत पुण्यमेवेति धर्मज्ञानिन् वृष घातकं विजानन्नपि त्वं न वयं तं विजानीम इति यद्ब्रवीषि तत्सतां पापं सर्वथा न सूचनीयमिति धर्मं लोकानां दर्शयितुमेव ब्रवीषि । यतस्त्वं धर्मोऽसि पादत्रयराहित्यप्रदर्शनायैव वृषरूपधृक् वृषरूपं धत्से । सत्कर्तृकपापसूचने को दोष इत्यपेक्षायामाह- यदधर्मकृत इति ॥ अधर्मकृतः सज्जनस्य यदधर्मफलभूतं स्थानं नरकादि तत्तद्दोषसूचकस्यापि भवेदतः सतां पापं सर्वथा न सूचनीयमिति भावः ॥ २१ ॥
अथवा देवमायाया नूनं गतिरगोचरा ।
चेतसो वचसश्चापि भूतानामिति निश्चयः ॥ २२ ॥
पदरत्नावली
‘यतः क्लेशबीजानि, तं न विजानीम’ इति वदतस् तवाभिसन्धिरयं वेति वक्तीत्याह- अथवेति ॥ मादृशानां गोचराऽपि नूनं प्रायेण भूतानां चेतसो वचसो वचसश्च देवमायायाः सर्वजीवानां मुख्यक्लेशबीजस्य देवस्य हरेर् इच्छाया गतिः स्थितिर् अधर्मेण धर्मं शोचयामीत्यादिका अगोचरेति ज्ञापयितुं सर्वज्ञेन भवता ‘न जानीम’ इत्युक्तमिति भवदभिप्रायनिश्चय इति ॥ २२ ॥
प्रकाशिका
द्वितीयपक्षेऽपि न वयमिति वाक्याभिप्रायमाह- अथवेति ॥ देवमायाया ईश्वरेच्छाया गतिः स्थितिर्भूतानां प्राणिनां चेतसोऽपि वचसश्चागोचरा ज्ञातुं वक्तुं च न शक्येति ज्ञापयितुमेव स्वयोग्यतानुसारेणेश्वरमायां जानताऽपि त्वया छत्रिन्यायेन न वयं तं विजानीम इत्युक्तमिति निश्चयोऽस्माकमित्यर्थः । अत्रेश्वरस्य प्रकृतत्वेऽपि तन्मायाया अज्ञेयत्वकथनमीश्वरस्यापीच्छाद्वारेण सुखदुःखकारणत्वमिति सूचनाय ॥ २२ ॥
तपः शोचं दया सत्यम् इति पादाः कृते कृताः ।
अधर्माङ्गैस्त्रयो भग्नाः स्मयसङ्गमदैस्तव ॥ २३ ॥
पदरत्नावली
तव तपआदिचत्वारः ये पादाः कृतयुगे कृताः पूर्णा अवर्तन्त तेषां मध्ये त्रयः पादास् तपः शौचदयाख्या अधर्माङ्गैर् अधर्मपादैः स्मयसङ्गमदैर् भग्नाः । स्मयेन तपोभङ्गः, स्त्रीसङ्गेन शौचभङ्गः, मदेन दयाभङ्गः, ॥ २३ ॥
प्रकाशिका
वृषरूपस्य धर्मस्यैकपादत्वे निमित्तं स्वयमेव सम्यग्विचार्याह- तप इति ॥ कृते कृतयुगे । कृतास्तप आदि संज्ञाश्चत्वारोऽपि पादास्तव स्थिता इत्यर्थः । त्रेतादिषु युगेषु क्रमेण वर्धमानैरधर्माङ्गैरधर्मांशैस्तव त्रयः पादास् तपः शौचदयासंज्ञाः क्रमेण भग्नाः । किं संज्ञकैरधर्माङ्गैः । स्मयसङ्गमदैः स्मयादिशब्दवाच्यैः स्मयो गर्वस्तेन तपसो भङ्गः, सङ्गो दुर्विषयसम्बन्धस्तेन शौचनाशो, मद ऐश्वर्यादिजनितोत्सेकस्तेन दयाया इति ध्येयम् ॥ २३ ॥
इदानीं धर्मपादस्ते सत्यं निर्वर्तसे यतः ।
तं चिघृक्षत्यधर्मोऽयमनृतेनैधितः कलिः ॥ २४ ॥
पदरत्नावली
इदानीम् अस्मिन्युगे यतः येन पादेन निर्वर्तसे हे धर्म, ते सःपादः सत्यं सत्यात्मकस्त्ववशिष्टो ऽनृतेन अधर्मपादेन एधितः वर्धितो ऽधर्मात्मकः कलिस् तं सत्याख्यं पादं जिघृक्षति तं गृहीतुमिच्छति । ग्रसितुमाकाङ्क्षते इत्यन्वयः ॥ २४ ॥
प्रकाशिका
इदानीं कलियुगे यतो येन पादेन निर्वर्तसे नितरामात्मस्थितिं करोषि । हे धर्म । ते स पादः सत्यं सत्याभिधोऽवशिष्टोऽस्ति । अधर्मोऽधर्माभिमान्ययं क्षत्रवेषः कलिरनृतेनानृत-संज्ञकेनाधर्मपादेनैधितो वर्धितः सन् तं सत्याख्यं ते पादं जिघृक्षति गृहीतुमिच्छति । अस्मिन्युगे क्रमेण सोऽपि पादो भग्नो भविष्यतीत्यर्थः ॥ २४ ॥
इयञ्च भूर्भगवता न्यासितोरुभरा सती ।
श्रीमद्भिस्तत्पदन्यासैः सर्वतः कृतकौतुका ॥ २५ ॥
पदरत्नावली
येयं भूश्च भगवता न्यासितो ऽवरोपित उरुर् महान् भरः भारः यस्याः सा तथोक्ताः । श्रीमद्भिस् तस्य हरेः पदन्यासैः पदपरिक्रमणैः सर्वतः कृतकौतुका रचितरोमाञ्चेति वा सती निर्मलाऽभूत् ॥ २५ ॥
प्रकाशिका
एवं वृषभस्वरूपमुक्त्वेदानीं गोस्वरूपमाह- इयं चेति ॥ इयं गौर्भूर्भूमिर्भगवता कृष्णेन न्यासितोऽन्योन्यद्वारेणावरोपित उरुर्भारो यस्याः सा तथोक्ता । कृतं कौतुकं रोमाञ्चादिरूपं यस्याः सा सती ॥ २५ ॥
शोचत्य(न्त्य)श्रुकला साध्वी दुर्भगेवोज्झिताऽधुना ।
अब्रह्मण्या नृपव्याजाः शूद्रा भोक्ष्यन्ति मामिति ॥ २६ ॥
पदरत्नावली
सेयं साध्वी अधुना तत्पदन्यासैर् उज्ज्ञिता रहिता दुर्भगेण भाग्यहीना स्त्रीव शोचन्ती अश्रुकला सन्ततस्त्रुतनेत्रजलधारा आस्त इत्यन्वयः । किं कृत्वा ? अब्रह्मण्या ब्राह्मण-भक्तिरहिता नृपव्याजाः शूद्रा मां भोक्ष्यन्ति पालकव्याजेन भुञ्जत इति ॥ २६ ॥
प्रकाशिका
अधुना तत्पदन्यासैरुझ्झिता सती दुर्भगेव भाग्यहीनेवाश्रूणि कलयति मुञ्चतीत्य-श्रुकला । शोचति । शोके निमित्तान्तरमप्याह- अब्रह्मण्या इति ॥ ब्राह्मणभक्तिरहिताः शूद्रा वर्णबाह्या इति हेतोः शोचतीत्यन्वयः । शोचन्तीति पाठे आस्त इति शेषः ॥ २६ ॥
सूत उवाच—
इति धर्मं महीञ्चैव सान्त्वयित्वा महारथः ।
निशातमाददे खङ्गं कलयेऽधर्महेतवे ॥ २७ ॥
पदरत्नावली
अधर्महेतवे अधर्मकारणाय । निशातं तेजितम् । हन्तुमिति शेषः ॥ २७ ॥
प्रकाशिका
निशातं निशितम् । अधर्महेतवे अधर्मप्रवर्तकाय । तं हन्तुमिति यावत् ॥ २७ ॥
तज्जिघांसुमभिप्रेत्य(क्ष्य) विहाय नृपलाच्छनम् ।
तत्पादमूलं शिरसा समगाद्भयविह्वलः ॥ २८ ॥
पदरत्नावली
जिघांसु हन्तुकामम् । पादमूलं समगात् । अष्टाङ्गविशिष्टतया अनंसीदित्यन्वयः
॥ २८ ॥
प्रकाशिका
जिघांसुं हन्तुकामम् । अभिप्रेत्य ज्ञात्वा । पादमूलं पादाग्रमगात् । प्रपदयोः पतितोऽभूदित्यर्थः ॥ २८ ॥
पतितं पादयोर्वीरः कृपया दीनवत्सलः ।
शरण्यो नावधीच्छ्लोक्य आह चेदं हसन्निव ॥ २९ ॥
पदरत्नावली
श्लोक्यः कीर्तिकामः ॥ २९ ॥
प्रकाशिका
शरण्य आश्रयणयोग्यः । श्लोक्यः सत्कीर्त्यर्हः ॥ २९ ॥
राजोवाच—
न ते गुडाकेशयशोधराणां बद्धाञ्जलेर्भो भयमस्ति किञ्चित् ।
न वर्तितव्यं भवता कथञ्चित् क्षेत्रे मदीये त्वमधर्मबन्धुः ॥ ३० ॥
पदरत्नावली
गुडाकेशयशोधराणाम् अर्जुनकीर्तिं बिभ्रतां कौरवाणाम् अस्माकमर्र्थे बद्धोऽञ्जलिर् येन सस् तथोक्तस् तस्य । गुडाकेशयशोधराणां सकाशाद् भयं नास्तीति वा । किन्तु हे कले त्वया मदीये क्षेत्रे कथञ्चिदपि न वर्तितव्यमित्यन्वयः । देहमारभ्य राष्ट्रपर्यन्तस्थानविवक्षया क्षेत्र इत्युक्तम् । कुत इति तत्राह- त्वमिति ॥ अधर्म एव बन्धुर्यस्य स तथोक्तः । अधर्मबन्धुत्वादिति भावः ॥ ३० ॥
प्रकाशिका
गुडाकेशोऽर्जुनस्तस्य यशोधरा ये वयं तेषां तान्प्रति बद्धाञ्जलिर्येन तस्य ते । गुडाकेशयशोधराणामस्माकं सकाशादिति वा । किन्तु कथञ्चन केनाप्यंशेन । यस्मात्त्वमधर्मस्य बन्धुः । देहराष्ट्रोभयग्रहणाय क्षेत्र इत्युक्तम् ॥ ३० ॥
त्वां वर्तमानं नरदेवदेहेष्वनुप्रवृत्तोऽयमधर्मयूथः ।
लोभोऽनृतं चौर्यमनार्यमंहो ज्येष्ठा च माया कलहश्च दम्भः ॥ ३१ ॥
न वर्तितव्यं तदधर्मबन्धो धर्मेण सत्येन च वर्तितव्ये ।
ब्रह्मावर्ते यत्र यजन्ति यज्ञैर् यज्ञेश्वरं ब्रह्मवितानयज्ञाः ॥ ३२ ॥
तात्पर्यम्
ब्रह्मयज्ञा वितानयज्ञाश्च ॥ ३२ ॥
पदरत्नावली
ततश्च किमिति तन्नाह- त्वामिति ॥ नरदेवानां धर्मपालकानां राज्ञां देहेषु वर्तमानं सन्निदधानं त्वाम् अनु अनन्तरम् अयं लोभाद्यधर्मयूथः प्रवृत्तो भवतीति यस्मात् तस्माद् अधर्मबन्धो हे कले सत्येन धर्मेण च वर्तितव्ये ब्रह्मावर्ते विन्ध्यहिमवत्पर्वतयोर्मध्ये पुण्यदेशे न वर्तितव्यमित्यन्वयः । ‘लुभ गार्द्ध्य’ इति धातोर् लोभः परवित्ताभिलापः । सद्व्यये प्राप्ते स्ववित्ता-परित्यागो वा । ज्येष्टा अलक्ष्मीः । माया निकृतिः । यत्र यस्मिन् ब्रह्मावर्ते स्वाध्यायादिब्रह्मयज्ञश् चरुपुरोडाशादिद्रव्यलक्षणवितानयज्ञश्च येषां ते ब्रह्मवितानयज्ञा मुनयः यज्ञैर् यज्ञेश्वरं यजन्ति
॥ ३१,३२ ॥
प्रकाशिका
अधर्मबन्धुत्वमेवोपपादयति- त्वामिति ॥ नरदेवानां राज्ञां देहेषु वर्तमानं त्वाम् । अनु अनन्तरम् । यद्यस्माल्लोभादिरूपोऽधर्मयूथोऽधर्मसमूहः प्रवृत्तो भवति । तस्मादधर्मबन्धुरित्यन्वयः । लोभः सव्द्यये प्राप्तेऽपि स्ववित्तापरित्यागः । अनार्यं दौर्जन्यम् । अंहो विहिताकरणनिषिद्धजं पापम् । ज्येष्ठाऽलक्ष्मीः । माया कपटम् ॥
तत् तस्माद्वर्तितव्ये वर्तितुमर्हे ब्रह्मावर्ते विन्ध्यहिमवत्पर्वतयोर्मध्ये देशे । ब्रह्मवितानयज्ञा इत्येतद-प्रतीत्यां व्याख्याति- ब्रह्मेति ॥ द्वन्द्वान्ते श्रूयमाणस्य यज्ञशब्दस्य प्रत्येकं सम्बन्ध इति भावः । तथा च ब्रह्मपर्यन्तमुमादिदेवानां यज्ञो विलयोत्पत्तिचिन्तनं येषां ते ब्रह्मयज्ञा इत्यर्थः । एतेषां ब्रह्मपर्यन्तं विलयोत्पत्तिचिन्तनम् । ब्रह्मयज्ञ इति प्रोक्त इति पूर्वमुक्तत्वात् । ब्रह्मस्वाध्यायज्ञाननं यज्ञो येषामिति वा । स्वध्यायज्ञानयज्ञाश्चेत्यन्यत्रोक्तत्वात् । वितानं चरु पुरोडाशादिद्रव्यविस्तारस्तेन क्रियमाणो यज्ञो येषां ते वितानयज्ञाः । ब्रह्मयज्ञाश्च वितानयज्ञाश्च ब्रह्मवितानयज्ञा मुनय इति मूलं व्याख्येयमिति भावः
॥ ३१,३२ ॥
यस्मिन्हरिर्भगवानिज्यमान इष्टात्ममूर्तिर्यजतां शं तनोति ।
कामनमोघान्स्थिरजङ्गमानामन्तर्बहिर्वायुरिवेश आत्मा ॥ ३३ ॥
तात्पर्यम्
इष्टात्ममूर्तिरिच्छातनुः ॥ ३३ ॥
पदरत्नावली
यस्मिन् इष्टात्ममूर्तिर् इच्छातनुर् इज्यमानो हरिर् भगवान् यजतां पुसां शं सुखं तनोति प्रपञ्चयति अमोघान् कामानपि तनोतीति । किं विशिष्टो हरिः ? स्थिरजङ्गमानाम् अन्तर्बहिर् वर्तमानः । क इव ? वायुरिव । आत्मा व्याप्तः । ईशः प्रवर्तकः ॥ ३३ ॥
प्रकाशिका
इष्टात्ममूर्तिरित्येतदप्रतीत्या व्याख्याति- इष्टेति ॥ तथा चेष्टमिच्छा । भावे क्तः । तेन गृहीताऽऽत्मभूता मूर्तिर्यस्येति व्याख्येयमिति भावः । शं सुखं कामांश्च । नन्विन्द्रादिदेवा इज्यन्ते न तु हरिरतः कथं स फलप्रद इत्यत उक्तम्- स्थिरजङ्गमानामन्तर्बहिरात्मा व्याप्त इति ॥ नाकशवद् व्याप्त इत्याह- ईश इति ॥ प्रेरक इत्यर्थः । क इव । वायुरिव यथा वायुरन्तर्बहिश्च व्याप्तः प्रेरकश्च तथेत्यर्थः ॥ ३३ ॥
परीक्षितैवमादिष्टः स कलिर्जातवेपथुः ।
तमुद्यतासिमाहेदं दण्डपाणिमिवोद्यतम् ॥ ३४ ॥
पदरत्नावली
उद्यतं सन्नद्धं दण्डपाणिं यममिव स्थितम् उद्यतासिम् उद्धृतखङ्गम् ॥ ३४ ॥
प्रकाशिका
उद्यतासिमुद्यतखङ्गम् । दण्डपाणिमिव यममिवोद्यतमुद्युक्तम् । हन्तुमिति शेषः
॥ ३४ ॥
यत्र क्व वाऽथ वत्स्यामि सार्वभौम तवाज्ञया ।
लक्षये तत्र तत्रापि त्वामात्तेषुशरासनम् ॥ ३५ ॥
पदरत्नावली
यत्र क्व वा त्वदुक्तस्थले वत्स्यामीति अन्वयः । लक्षये पश्यामि ॥ ३५ ॥
प्रकाशिका
अत्र न वर्तितव्यमिति या तवाज्ञा तया क्व वा ब्रह्मावर्तदेशादितरस्मिन्देशेऽहं वत्स्यामि किन्तु तत्राप्यत्तो गृहीत इषुः शरासनं च येन त्वामेव लक्षते पश्यामि । तत्रापि मद्वधार्थं त्वमागमिष्यसीत्यर्थः ॥ ३५ ॥
तन्मे धर्मभृतां श्रेष्ठ स्थानं निर्देष्टुमर्हसि ।
यत्रैव नियतो वत्स्थ आतिष्ठंस्तेऽनुशासनम् ॥ ३६ ॥
पदरत्नावली
हे धर्मभृतां श्रेष्ठं तत्स्थानं निर्देष्टुमर्हसीत्यन्वयः । आतिष्ठन् अनुतिष्ठन् वत्स्ये वसानि ॥ ३६ ॥
प्रकाशिका
तत्तस्मान्नियतो निश्चलो आतिष्ठन् अनुतिष्ठन् ॥ ३६ ॥
सूत उवाच—
अभ्यर्थितस्तदा तस्मै स्थानानि कलये ददौ ।
द्यूतं पानं स्त्रियः सूना यत्राधर्मश्चतुर्विधः ॥ ३७ ॥
पदरत्नावली
कानि तानि स्थानानि इति तत्राह- द्यूतमिति ॥ द्यूतं देवनम् । पीयत इति पानं मद्यम् । सूना प्राणिहिंसनम् । यत्र येषु स्थानेषु चतुर्विधो ऽधर्मः पापं, स्यादिति शेषः ॥ ३७ ॥
प्रकाशिका
स्थानानि दर्शयति- द्यूतमिति ॥ द्यूतं देवनम् । पानं मद्यादेः । सूना प्राणिहिंसनम् । यत्र येषु स्थानेषु स्मयसङ्गमदातृतरूपश्चतुर्विधोऽधर्मः । स्यादिति शेषः । द्यूतेऽनृतं पाने मदः स्त्रीषु सङ्गापरपर्यायः कामो हिंसायां निर्घृणताऽपरपर्यायः स्मय इति विवेकः ॥ ३७ ॥
पुनश्च याचमानाय जातरूपमदात्प्रभुः ।
ततोऽनृतं मदः कामो रजो वैरञ्च पञ्चमम् ॥ ३८ ॥
पदरत्नावली
जातरूपं सुवर्णम् । तत्फलमाह- तत इति ॥ ततः द्यूतादिभ्यो ऽनृतादीनि पापसाधनानि, भवन्तीति शेषः ॥ ३८ ॥
प्रकाशिका
चतुर्विधस्यापि यत्रैकत्रावस्थानं तादृशं स्थानं देहीति । पुनर्याचमानाय जातरूपं सुवर्णमदात् । स्थानतयेति शेषः । जातरूपस्योक्तचतुर्विधाधर्मस्थानत्वं दर्शयति- तत इति ॥ जातरूपात्कामः सङ्गापरपर्यायः । रजो रागमूला हिंसा ॥ ३८ ॥
अमूनि पञ्चस्थानानि ह्यधर्मप्रभवः कलिः ।
औत्तरेयेण दत्तानि न्यवसत्तन्निदेशकृत् ॥ ३९ ॥
पदरत्नावली
तस्य राज्ञः निदेशकृद् आज्ञाकृद् अधर्मप्रभवो ऽधर्मोत्पादकः । अमूनि द्यूतादीनि पञ्चस्थानानि ॥ ३९ ॥
प्रकाशिका
अमून्यमूषु स्थानेषु न्यवसदित्यर्थः ॥ ३९ ॥
अथैतानि न सेवेत बुभूषु पुरुषः क्वचित् ।
विशेषतो धर्मशीलो राजा लोकपतिर्गुरुः ॥ ४० ॥
तात्पर्यम्
विहितातिरेकेण न सेवेत ॥ ४० ॥
पदरत्नावली
बुभूषुः पुरुषार्थकामः । लोकपतिर् लोकपालः गुरुर् उपदेष्टा । धर्मस्येति शेषः
॥ ४० ॥
प्रकाशिका
अथ तस्माद्बुभूषुर्मुक्तो भवितुमिच्छुः । गुरुर्धर्मोपदेष्टाऽपि नन्वत्र पानस्त्रीसूनानां वेदविहितानां धर्मसाधनत्वात्कथमेतानि न सेवेतेत्युक्तमित्यतोऽत्र विवक्षितं तात्पर्यमाह- विहितेति ॥ तथा च विहितविषयमेतदिति भावः ॥ ४० ॥
वृषस्य नष्टंस्त्रीन्पादांस्तपः शौचं दयामिति ।
प्रतिसन्दध आश्वास्य महीञ्च समवर्धयत् ॥ ४१ ॥
पदरत्नावली
वृषस्य धर्मस्य ॥ ४१ ॥
प्रकाशिका
वृषस्य धर्मस्य पादात् प्रतिसन्दधे तप आदीनि प्रवर्तितवानित्यर्थः ॥ ४१ ॥
स एष एतर्ह्यध्यास्त आसनं पार्थिवोचितम् ।
पितामहेनोपन्यस्तं राज्ञाऽरण्यं विविक्षता ॥ ४२ ॥
पदरत्नावली
एतर्हि तदानीम् । पार्थिवानां राज्ञाम् उचितम् आसनं सिंहासनम् अध्यास्ते इति लट् लुङर्थः । अरणं शरणं प्राप्तं रक्षतीति अरण्यं वनं विविक्षता प्रवेष्टुकामेन पितामहेन पितुः पित्रा युधिष्ठिरेण उपन्यस्तं दत्तम् । आसनम् अध्यास्ते इति । ‘अधिशीङ्स्थासां कर्मे’ ति सप्तम्यर्थे द्वितीया ॥ ४२ ॥
प्रकाशिका
तेनैव(वं) कलिं निगृह्य धर्मस्य प्रवर्तित्वादेव भवतामिदानीं सत्रे प्रवृत्तिरित्याह- स एष इत्यादिना ॥ एतर्हि समीपकाल एव पार्थिवानां राज्ञामुचितमानसं सिंहासनमध्यास्ते । लट् लुङर्थे । उपन्यस्तं दत्तम् । विविक्षता प्रवेष्टुमिच्छता ॥ ४२ ॥
आस्तेऽधुना स राजर्षिः कौरवेन्द्रः श्रियोल्लसन् ।
गजाह्वये महाभागश्चक्रवर्ती बृहच्छ्रवाः ॥ ४३ ॥
पदरत्नावली
बृहच्छ्रवा महाकीर्तिः ॥ ४३ ॥
प्रकाशिका
आस्ते आसीत् । अधुना च समीपकाल एव । बृहच्छ्रवा महायशाः ॥ ४३ ॥
इत्थं भूतानुभावोऽयमभिमन्युसुतो नृपः ।
यस्य पालयतः क्षोणीं यूयं सत्राय दीक्षिताः ॥ ४४ ॥
॥ इति श्रीमद्भागवते प्रथमस्कन्धे सप्तदशोऽध्यायः ॥
पदरत्नावली
यस्य क्षोणीं पालयतः सतः यूयं सत्राय यज्ञविशेषाय दीक्षिताः, सोऽयमभिमन्युसुतो नृप इत्थंभूतानुभावः कल्यादिबन्धनलक्षणसामर्थ्योपेत इत्यन्वयः ॥ ४४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे सप्तदशोऽध्यायः ॥
प्रकाशिका
पालयतः सतः । अनेन परीक्षिज्जीवनकाल एव सत्रारम्भ इति सूचयति । सत्रे सूतागमनं तु परीक्षिन्मरणानन्तरमेव । राज्ञः प्रायोपवेशनसमये शुकेनोपदिष्टं पुराणं मयाऽपि श्रुतम् । तत्तुभ्यं वक्ष्यामीति पूर्वं सूतेनोक्तत्वात् । अत आस्त इत्यादिसूतवचनमतीतार्थतयैव व्याख्येयम् ॥ ४४ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां सप्तदशोऽध्यायः ॥ १-१७ ॥