१६ षोडशोऽध्यायः

ततः परीक्षद् द्विजवर्यशिक्षया महीं महाभागवतः शशास ह

अथ षोडशोऽध्यायः

सूत उवाच—

ततः परीक्षद् द्विजवर्यशिक्षया महीं महाभागवतः शशास ह ।

यथा हि सूत्यामभिजातकोविदः समादिशन्विप्रमहद्गुणांस्तथा ॥ १ ॥

पदरत्नावली

अत्र भगवति भक्तिविधानार्थं भगवद्भक्तपरीक्षितः कलिबन्धनादिमाहात्म्यवर्णनेन हरिमहिमैव प्रतिपाद्यते इति तन्महिमा प्रतिपाद्यतेऽस्मिन्नध्याये । तत्र प्रथमं राज्यपालनादिमहिमोच्यत इत्याह- तत इति ॥ ततः पाण्डवस्वर्याणानन्तरं द्विजवर्यशिक्षया कृपादिब्राह्मणश्रेष्ठसदुपदेशेन । शिक्षा विद्योपादानम् । अभिजातकोविदा जातकज्ञानपटवः सूत्याम् उत्पात्तौ यथा महद्गुणान् उपादिशन् तथा तदनुसारेण महीं शशासेत्यन्वयः ॥ १ ॥

प्रकाशिका

अत्र भगवति भक्तिविधानार्थं भगवद्भक्तपरीक्षितः कलिबन्धनादिमाहात्म्यवर्णनेन हरिमहिमैव प्रतिपाद्यत इति तन्महिमा प्रतिपाद्यतेऽस्मिन्नध्याये । द्विजवर्याणां ब्राह्मणोत्तमानां कृपादीनां शिक्षया सद्विद्योपदेशेन । तदुक्तप्रकारेणेति यावत् । सूत्यामुतत्पत्तिकाले । अभिजातस्योत्पन्नस्य प्राणिनो भाविकर्तव्यज्ञाने कोविदाः कुशला ब्राह्मणा महतामिक्ष्वाकुप्रभृतीनां गुणान् प्रजावनादीन् । हे विप्र । समादिशन्निरूपितवन्तः ॥ १ ॥

स उत्तरस्य तनयामुपयेम इरावतीम् ।

जनमेजयादींश्चतुरस्तस्यामुत्पादयत्सुतान् ॥ २ ॥

पदरत्नावली

उत्तरस्य विराटपुत्रस्य पुत्रीं नाम्ना इवावतीम् उपयेमे । उपयमनं विवाहः । उत्पादयद् उदपादयद् अजनयत् । चतुर इति पाठः(अनेन चतुरान् इति क्वचित् पाठ इति भाति) ॥२॥

प्रकाशिका

तथा तदुक्तप्रकारेण उत्तरस्य विराट्पुत्रस्य । नाम्नेरावतीम् ॥ २ ॥

आजहाराश्वमेधांस्त्रीन्गङ्गायां भूरिदक्षिणान् ।

शारद्वतं गुरुं कृत्वा देवा यत्राक्षिगोचराः ॥ ३ ॥

पदरत्नावली

शारद्वतं कृपम् । यत्र येषु अश्वमेधेषु देवा इन्द्रादयो ऽक्षिगोचराः प्रत्यक्षाः । तादृशानिति शेषः ॥ ३ ॥

प्रकाशिका

आजहार कृतवान् । शारद्वतं कृपम् । यत्र येष्वश्वमेधेषु ॥ ३ ॥

निजग्राहौजसा धीरः कलिं दिग्विजये क्वचित् ।

नृपलिङ्गधरं शूद्रं घ्नन्तं गोमिथुनं पदा ॥ ४ ॥

पदरत्नावली

सः धीरः दिशां जये ओजसा स्वाभाविकशक्त्या कलिं निगृहीतवानित्यन्वयः । नृपाणां लिङ्गं लक्षणं धारयतीति नृपलिङ्गधरस् तम् । कर्मणा शूद्रम् । तदेवाह- पदेति ॥ पदा गोमिथुनं घ्नन्तं ताडयन्तम् । क्वचिद् एकान्तप्रदेशे ॥ ४ ॥

प्रकाशिका

ओजसा स्वाभाविकसामर्थ्येन । निजग्राह निगृहीतवान् । दिग्विजयसमये । क्वचिद् एकान्तदेशे । कथंभूतं कलिम् । नृपाणां यानि लिङ्गानि छत्रचामरादीनि तानि धारयतीति नृपलिङ्ग-धरस्तम् । कर्मणा शूद्रवत् । एतदेवाह । पदा पादेन गोमिथुनं गां वृषं चेति द्वयं घ्नन्तं ताडयन्तम् ॥४॥

शौनक उवाच—

कस्य हेतोर्निजग्राह कलिं दिग्विजये नृपः ।

नृदेवचिह्नधृक् शूद्रः कोऽसौ गां यः पदाऽहनत् ॥ ५ ॥

तात्पर्यम्

कोऽसावित्याक्षेपः । कलिमित्युक्तत्वात् ॥ ५ ॥

पदरत्नावली

नृपलिङ्गधृक् यः शूद्रः पदा गाम् अहनत् तं कलिं दिग्विजये निजग्राह असौ कः कष्टकर्मा इत्याक्षेपः । न प्रश्नः । कलिमित्युक्त्या ज्ञातत्वेेन सिद्धप्रश्नत्वापातात् ॥ ५ ॥

प्रकाशिका

कोऽसाविति किंशब्दः प्रश्नार्थ इति भात्यतोऽस्यार्थमाह- कोऽसाविति ॥ तथा च यः शूद्रो गां पदाऽहनदहन् । असौ कः सज्जनो न कोऽपि किन्तु कः कुत्सित एवेति मूलं योज्यमिति भावः । प्रश्नार्थ एव किं न स्यादित्यत आह- कलिमिति ॥ ज्ञातेऽर्थे प्रश्नायोगादिति भावः ॥ ५ ॥

तत्कथ्यतां महाभाग यदि विष्णुकथाश्रयम् ।

अथ वाऽस्य पदाम्भोजमकरन्दलिहां सताम् ॥ ६ ॥

किमन्यैरसदालापैरायुषो यदसव्द्ययः ।

क्षुद्रायुषां नृणामङ्ग मर्त्यानां मृति(ऋत)मि(मृ)च्छताम् ॥ ७ ॥

इहोपहूतो भगवान्मुत्युः शामित्रकर्मणि ।

न कश्चिन्म्रियते तावद्यावादास्त इहान्तकः ॥ ८ ॥

तात्पर्यम्

अथेति कथान्तरे । वा यदि ॥ ६ ॥

अन्यथा चेदायुषो सद्व्यय इत्यर्थः । ‘यद्यर्थे च विकल्पार्थे वाशब्दः समुदीर्यते’ इति नाममहोदधौ ॥ ७ ॥

पदरत्नावली

विष्णुकथा आश्रयो यस्य तत् तथोक्तम् । एतादृशं कलिबन्धनं चेत् तर्हि कथ्यताम् । अथ पक्षान्तरे, वा यदि, अस्य हरेर् मकरं मदकरं भावं ददातीति मकरन्दः सेवनं तं लिहन्ति आस्वादयन्ति तेषां कथाश्रयं तर्हि कथ्यतामित्यन्वयः ॥

किमिति विष्णुवैष्णवकथाकथनमिति तत्राह- किमन्यैरिति ॥ असदालापैर् अमङ्गलप्रसङ्गैः किं प्रयोजनम् । न किमपि । कुतः ? आयुषो ऽसद्व्ययः व्यर्थक्षय इति यद् यस्माद् अत इत्यर्थः । यद् यैर् असदालापैर् आयुषो ऽसमीचीनः व्यय इति वा । इतोऽपि इतरप्रसङ्गो नापेक्षित इति ब्रूत इत्याह- क्षुद्रायुषामिति ॥ क्षुद्रायुषाम् अल्पायुषां मर्त्यानां मरणधर्मीणाम् अत एव मृतिम् ऋच्छतां नृणां मारकः मृत्युर् भगवान् नरसिंहः शामित्रकर्मणि । पशुसञ्ज्ञपनकर्मकर्ता शमिता । तस्य कर्म शमित्रम् । तादर्थ्ये सप्तमी । शामित्रकर्मार्थम् ऋषिभिर् नैमिशारण्यवासिभिर् इहोपहूत आहूय प्रसाद्य स्थापितः । अन्तं करोतीत्यन्तकः सः भगवान् यावदिहास्ते न तावत् कश्चिन्म्रियत इत्यन्वयः ॥ ६,७,८ ॥

प्रकाशिका

अथवेति निपातसमुदायस्य पक्षान्तरद्योतकत्वेऽपेक्षितस्य यदीत्यस्याध्याहारप्रसङ्गः । अतो व्याख्याति- अथेतीति ॥ अथेति शब्दः पक्षान्तरेऽर्थान्तरविषये । वर्तत इति शेषः । वाशब्दो यदिशब्दसमानार्थक इत्यर्थः । तथा चाथपक्षान्तरमस्य विष्णोः पदाम्भोजयोर्यो मकरन्दो मकरन्द-स्थानीयः सौन्दर्यविशेषस्तं लिहन्त्यास्वादयन्ति तेषां सतां हरिभक्तानाम् । यदि कथाश्रयमित्यस्य बुद्ध्या विविक्तस्यानुषङ्गस्तर्हि कथ्यताम् । ‘चरितं वैष्णवानां तु विष्णूद्रेकाय कथ्यत’ इति वचनात् । तत्कथाकथनस्यापि विष्णुमाहात्म्यज्ञानसाधनत्वादिति मूलं योज्यमिति भावः । किमन्यैरित्यस्य पूर्वेण सङ्गत्यप्रतीतेरपेक्षितमध्याहृत्य योजयति- अन्यथा चेदिति ॥ तथा च विष्णुवैष्ण्वकथाश्रयं न चेदन्यैर्विष्णुवैष्णवव्यतिरिक्तविषयैरत एवासदालापैरमङ्गलालपैः किं न किमपि प्रयोजनम् । प्रत्युत यद्यस्मादायुषोऽसद्व्यः । असतोऽमङ्गलस्य नरकादेः साधनायैव व्ययो नाशनम् । अतः किं तैरिति मूलं योज्यमिति भावः । वाशब्दस्य यद्यर्थत्वे प्रमाणं दर्शयति- यद्यर्थे चेति ॥ ननु मरणशङ्काग्रस्तनां युष्माकं मया कथं तत्कथनीयमित्यत आह- क्षुद्रायुषामिति ॥ क्षुद्रमल्पमायुर्येषां ते तथा तेषाम् । मर्त्यानां मरणशीलानाम् । तथाऽपि ऋतं ज्ञानमिच्छताम् । मृतिमिच्छतामिति पाठे मृतिमुत्क्रान्तिरूपामिति व्याख्येयम् ॥

इह सत्रे । पशुसंज्ञपनकर्ता शमितेत्युच्यते तस्येदं शामित्रं कर्म पशुहिंसनरूपं तस्मिंस्तदर्थम् । मृत्युर्मारको नृसिंह उपहूतः । भो स्वामिन्नत्रागत्य याज्ञीयपशूनामेव हिंसा त्वया कार्या नान्येषामिति प्रार्थनापूर्वकं मन्त्रैराकारितो यतोऽतो न कश्चिदत्र म्रियते मरिष्यति ॥ ६,७,८ ॥

एतदर्थं हि भगवानाहूतः परमर्षिभिः ।

अहो नृलोके पीयेत हरिलीलामृतं वचः ॥ ९ ॥

तात्पर्यम्

एतदर्थं हि मृत्युरुपहूतः । अहो नृलोके पीयेतेति ॥ ९ ॥

पदरत्नावली

अनेन प्रकृते किमायातमिति तत्राह- एतदर्थमिति ॥ अत संप्रति नृलोके मुत्युभयविधुरतया स्थितैर्मर्त्यैर् हरिलीलामृतं वचः पीयेतेत्येतदर्थं हि परमऋषिभिरिहाहूतः । अहो आश्चर्यम् । मरणधर्मिणामपि हरिलीलामृतपानम् अमृतत्वप्रदं हि यस्माद् विष्णुवैष्णवकथाश्रयं चेत् कथ्यतामिति भावः ॥ ९ ॥

प्रकाशिका

एतदर्थं हीत्यत्र पूर्वोत्तरार्धयोरन्वयाप्रतीतेरितिशब्दमध्याहृत्यान्वयं दर्शयति- एतदर्थं हीति ॥ ततश्च हरिलीलाख्यममृतं यस्मिंस्तद्वचः पुराणरूपं पीयेतेत्येतदर्थम् । पशुहिंसनं तु न मुख्यप्रयोजनमिति भावः । हीति स्वानुभावमत्र प्रमाणयति ॥ ९ ॥

मन्दस्य मन्दप्रज्ञस्य प्रायो मन्दायुषश्च वै ।

निद्रया ह्रियते नक्तं दिवा चाप्यर्थकर्मभिः ॥ १० ॥

पदरत्नावली

यथा मर्त्यस्य असत्प्रसङ्गाद् आयुषो वैयर्थ्यं तथा निद्रार्थादिपरस्यापीत्याह- मन्दस्येति ॥ अल्पस्यापि प्रज्ञाबाहुल्याद् अनेकवेदशास्त्रतदर्थग्रहणं स्यादित्यतो मन्दप्रज्ञस्येति ॥ मन्दप्रज्ञस्य कल्पायुषस् तत्स्यादित्यतो मन्दायुष इति । अल्पायुषोऽपि भाग्यवशात् तत्स्यादित्यतो मन्दस्येति । मन्दस्य निर्भाग्यस्य । एवंविधस्य मर्त्यस्य नक्तं रात्रिर् निद्रया ह्रियते । हिरण्याद्यर्था-न्वेषणकर्मभिर् दिवा दिनमपि ह्रियते । चशब्दो हेत्वर्थे । तस्मान् निद्रादिजयेन हरितत्परायणकथा त्वत्र त्वया कथ्यतामिति भावः । वा इत्यनेन अनुभवसिद्धमेतदिति दर्शयति । सत्रदिदृक्षया अत्र आगतैर् मर्त्यैश्च आकर्ण्यताम् । मृत्या च त्रसद्भिर्वेत्यस्मिन्नर्थे आद्यश्चशब्दः ॥ १० ॥

प्रकाशिका

तदभावे आयुषो वैयर्थ्यमित्युक्तमेव प्रपञ्चयति- मन्दस्येति ॥ अलसस्येत्यर्थः । नक्तं रात्रिरूपं वयः । दिवा अहोरूपम् । अर्थसम्पादकव्यापारैः । वैशब्दो हेत्वर्थे । यत एवमतो लीलामृतं वचः पीयेतेत्येतदर्थमाहूत इत्यन्वयः ॥ १० ॥

सूत उवाच—

यदा परीक्षित्कुरुजाङ्गले वसन्कुलिं प्रविष्टं निजचक्रवर्तिते ।

निशम्य वार्तामनतिप्रियां ततः शरासनं संयुगरोचिराददे ॥ ११ ॥

पदरत्नावली

कुरुजाङ्गले कृरुविषये हस्तिनपुरे वसन् परीक्षिन् निजचक्रवर्तिते निजचक्रेण स्वानुज्ञया निजानां पाण्डवानाम् आज्ञया वा वर्तिते राष्ट्रे प्रविष्टं कलिं शुश्रावेति शेषः । ततस् तदा संयुगरोचिर् युद्धेच्छुः राष्ट्रविप्लवरूपाम् अनतिप्रियां वार्तां निशम्य शरासनमाददे इत्यन्वयः । संयुगं रोचयतीति धनुर्विशेषणं वा ॥ ११ ॥

प्रकाशिका

तत्र तावत्कलिनिग्रहे प्रसक्तिं दर्शयति- यदेति ॥ कुरुजाङ्गले कुरुदेशे निज-चक्रवर्तिते स्वसेनया स्वाज्ञया वा पालिते राष्ट्रे प्रविष्टं कलिम् । शुश्रावेति शेषः । तदाऽनतिप्रियाम् । समूलघातं हन्तुमशक्य इति प्रायशोऽप्रियाम् । तात्कालिकदुष्टनिग्रहरूपधर्मलाभात्किञ्चित्प्रियां तां वार्तां निशम्य संयुगरोचिर्युद्धेच्छुः ॥ ११ ॥

स्वलङ्कृतं श्यामतुरङ्गयोजितं रथं मृगेन्द्रध्वजमास्थितः पुरात् ।

वृतो रथाश्वाद्विपपत्तियुक्तया स्वसेनया दिग्विजयाय निर्गतः ॥ १२ ॥

पदरत्नावली

श्यामैर् नवसु वीथीषु विशिष्टगतिभिः, नीलवर्णैर्वा तुरङ्गैर् योजितम् मृगेन्द्रः ध्वजे यस्य स तथा तम् । सिंहलाच्छनध्वजम् । रथाश्च द्विपाश्च पत्तयश्च रथाश्वद्विपपत्तयः । तैर् युक्तया । पुरान् निर्गतोऽभूदित्यन्वयः ॥ १२ ॥

प्रकाशिका

दिग्विजयाय पुरान्निर्गत इत्यन्वयः ॥ १२ ॥

भद्राश्वं केतुमालञ्च भारतञ्चोत्तरान्कुरून् ।

किम्पुरुषादीनि सर्वाणि विजित्य जगृहे बलिम् ॥ १३ ॥

पदरत्नावली

सः परीक्षिद् भद्राश्वादिवर्षाणि उत्तरकुर्वादिजनपदानि च विजित्य बलिं करं जगृह इत्यन्वयः ॥ १३ ॥

प्रकाशिका

भद्राश्वादीनि पूर्वपश्चिमदक्षिणोत्तरतः समुद्रलग्नानि वर्षाणि मेरोः पूर्वत इलावृतम् । उत्तरतो रम्यकं हिरण्यकं च । दक्षिणतो हरिवर्षं किम्पुरुषं च । तान्विजित्य । बलिं करम् ॥ १३ ॥

तत्र तत्रोपशृण्वानः स्वपूर्वेषां महात्मनाम् ।

प्रगीयमानं पुरतः कृष्णमाहात्म्यसूचनम् ॥ १४ ॥

पदरत्नावली

सः महामनास् तत्र तत्र वर्षेषु विषयेषु च स्वपुरतो गायकैर् उपगीयमानं कृष्णमाहात्म्यं सूचयतीति कृष्णमाहात्म्यसूचनं महात्मनां स्वपूर्वेषां पाण्डवानां माहात्म्यमुपशृृण्वानः शृृण्वन् ॥ १४ ॥

प्रकाशिका

तत्र तत्र वर्षेषु पुरतो गायकैर्गीयमानम् । कृष्णमाहात्म्यं सूच्यतेऽनेनेति कृष्ण-माहात्म्यसूचनम् । स्वपूर्वेषां पाण्डवानाम् । यश इति शेषः ॥ १४ ॥

आत्मानञ्च परित्रातमश्वत्थाम्नोऽस्त्रतेजसः ।

स्नेहञ्च वृष्णिपार्थानां तेषां भक्तिञ्च केशवे ॥ १५ ॥

पदरत्नावली

कथं माहात्म्यं सूच्यत इति तत्किञ्चिदाह- आत्मानमिति ॥ अश्वत्थाम्नो ऽस्त्रतेजसः कृष्णेन परिरक्षितम् आत्मानञ्च वृष्णीनां पाण्डवानां मिथः स्नेहञ्च उभयेषां कृष्णे भक्तिञ्च शृृण्वन् ॥ १५ ॥

प्रकाशिका

आत्मानं चेत्यादौ गीयमानमिति शेषः ॥ १५ ॥

तेभ्यः परमसन्तुष्टः प्रीत्युज्जृम्भितलोचनः ।

महाधनानि वासांसि ददौ हारान्महामनाः ॥ १६ ॥

पदरत्नावली

तेभ्यः गायकेभ्यः परमसन्तुष्टो ऽत एव प्रीत्या उज्जृम्भिते विकसिते लोचने यस्य सस् तथोक्तः महाधनानि अनर्घ्याणि वस्त्राणि हारान् मौक्तिकमालास् तेभ्यः ददै इत्यन्वयः ॥१६॥

प्रकाशिका

तेभ्यो गायकेभ्यः । प्रीत्योज्जृम्भिते विकसिते लोचने यस्य स तथा । महाधनान्यनर्घाणि ॥ १६ ॥

सारथ्यपारषदसेवनसख्यदौत्य-

वीरासनानुगमनस्तवनप्रणामैः ।

स्निग्धेषु पाण्डुषु जगत्प्रणतस्य विष्णोः

भक्तिं करोति नृपतिश्चरणारविन्दे ॥ १७ ॥

तात्पर्यम्

स्निग्धेषु पाण्डुषु विष्णोः सारथ्यादिभिर्विशेषतो भक्तिं करोति ॥ १७ ॥

पदरत्नावली

नृपतिः परीक्षित् कृष्णे स्निग्धेषु पाण्डुषु पाण्डुपुत्रेषु मुक्तामुक्तप्रपञ्चप्रणतस्य विष्णोः सारथ्यादिना ‘अहो हरिश् चरणानतजनतासु करुणार्णवो ननु’ इति तस्य चरणारविन्दे विशेषतो भक्तिं करोतीत्येकान्वयः । सारथेः कर्म सारथ्यम् । पार्षदं सभापतिकर्म द्वाःस्थत्वं वा परिषदां कर्मेति वा । सेवनम् उक्तकर्मकरणम् । सख्युः कर्म सख्यम् । दूतस्य कर्म सन्देशहरत्वं दौत्यम् । वीरासनं रात्रौ खड्गपाणिः स्थित्वा स्वामिरक्षार्थं जागरणं वीरोचितासनम् । गच्छतः पृष्ठतो गमनमनुगमनम् । स्तवनं तुतिः । प्रणामो नमस्कारः प्रह्वत्वं वा । वीरासनानुगमनं सिंहासनोपसर्जनतया उपवेशनं वा ॥ १७ ॥

प्रकाशिका

पुनः किं चकारेत्यपेक्षायामाह- सारथ्येति ॥ सारथ्यादिभिर्निमित्तैः स्निग्धेषु न स्वत इति प्रतीयते । अतोऽन्वयं दर्शयन्व्याख्याति- स्निग्धेष्विति ॥ अनेन स्वत एव स्निग्धेषु भक्तेषु पाण्डुषु । विषयसप्तमीयम् । यानि विष्णोर्विष्णुकर्तृकाणि सारथ्यादीनि गायकैर्गीयमानानि तैः श्रुतेर्निमित्तैर्नुपतिः परीक्षित्पूर्वं भक्तिमानपि जगत्प्रणतस्य ब्रह्मादिसर्वजगद्वन्द्यस्य विष्णोश्चरणारविन्दे तस्य भक्तवात्सल्यं विचार्य तदा विशेषभक्तिं करोतीत्यर्थ उक्तो भवति । सारथेः कर्म सारथ्यम् । पारषदमिति रेफषकारयोर्विश्लेषश्छान्दसः । पार्षदं सभापतित्वम् । सेवनं चित्तानुसारेण कर्मकरणम् । सख्युः कर्म सख्यम् । दौत्यं सन्देशकारित्वम् । वीरासनं रात्रौ स्वामिसंरक्षणार्थं खङ्गपाणेस्तिष्ठतो जागरणम् । गच्छतः पृष्ठतो गमनमनुगमनम् । स्तवनं सिंहासने स्थितस्य पुरतः स्थित्वा स्तोत्रकरणम् । प्रणामस्तादृशस्यैव नमस्कारस्तैः ॥ १७ ॥

तस्यैवं वर्तमानस्य पूर्वेषां वृत्तमन्वहम् ।

नातिदूरे किलाश्चर्यं यदासीत्तन्निबोध मे ॥ १८ ॥

पदरत्नावली

पूर्वेषां पित्रादीनां वृत्तम् आचरितम् अनुदिनम् एवं वर्तमानस्य तस्य नातिदूरे अस्माद्दृष्टिगोचरे यदाश्चर्यम् आसीत् तन्निबोधेत्येकान्वयः ॥ १८ ॥

प्रकाशिका

पूर्वेषां पाण्डवानां वृत्तमाचारमनुदिनमेवं वर्तमानस्य सतः । नातिदूरे शीघ्रमेव

॥ १८ ॥

धर्मः पदैकेन चरन्विच्छायामुपलभ्य गाम् ।

पृच्छति स्माश्रुवदनां विवत्सामिव मातरम् ॥ १९ ॥

पदरत्नावली

किन्तदिति तत्राह- धर्म इति ॥ सत्याख्येनैकेन पदेन चरन् धर्मः वृषभो भूत्वा वत्सरहितां मातरमिव अश्रुवदनाम् अत एव विच्छायां विगतकान्तिं गोरूपिणीं गां भूमिम् उपलभ्या-पृच्छदित्येकान्वयः ॥ १९ ॥

प्रकाशिका

किं तदाश्चर्यमित्यतस्तद्दर्शयति- धर्म इति ॥ धर्मो धर्माभिमानी यमो वृषभो भूत्वा सत्याख्येनैकपदा चरन् गच्छन्विच्छायां विगतकान्तिं गां गोरूपां भूमिमुपलभ्य दृष्ट्वा पृच्छति स्म । कथंभूताम् । विवत्सां वत्सरहिताम् । मातरमिवाश्रुवदनाम् ॥ १९ ॥

धर्म उवाच—

कच्चिद्भद्रेऽनामयमात्मनस्ते विच्छायाऽसि म्लायता यन्मुखेन ।

आलक्षये भवतीमन्तराधिं दूरे बन्धुं कञ्चन शोचसीव ॥ २० ॥

पदरत्नावली

‘भद्रा गौर्गोर्मतल्लिके’त्यभिधानम् । हे भद्रे ते तव आत्मनः देहस्य अनामयम् आरोग्यं कच्चित् किम् । म्लायता म्लानिं गच्छता मुखेन विच्छाया विगतकान्तिर् असति यद् यस्मात् तस्माद् भवतीम् अन्तराधिं मनःपीडावतीम् आलक्षते पश्यामि । किञ्च कञ्चन दूरे बन्धुं परोक्षप्रदेशे स्थितं बन्धुं प्रति शोचसीव ॥ २० ॥

प्रकाशिका

आत्मनो देहस्य । भवतीमन्तराधिम् । यद्यपि बहिरामयो न लक्ष्यते । तथाऽप्यन्तर्मध्ये आधिः पीडा यस्यास्ताम् । त्वामालक्षये चिन्तयामि । केन लिङ्गेन । यद्यस्मान्म्लायता म्लानिं ग्लानीं गच्छता मुखेन विच्छायासि । तत्र कारणानि विकल्पयन्पृच्छति । पादैरित्यादिनोत्तर-श्लोकपञ्चकेन दूरे बन्धुमित्यादिना सपादश्लोकपञ्चकेन । दूरे गतं बन्धुं प्रति शोचसीव शोकं कुर्वाणा यथा तथाऽसि । इदमेवात्र प्रायेण कारणं भविष्यतीति भावः ॥ २० ॥

पादैर्न्यूनं शोचसि मैकपादमुतात्मानं वृषलैर्भोक्ष्यमाणम् ।

अथो सुरादीन्हृतयज्ञभागान्प्रजा उतस्विन्मघवत्यवर्षति ॥ २१ ॥

पदरत्नावली

अपि च त्रिभिः पादैर् न्यूनं हीनम् एकपादं मा मां प्रति शोचसि । उत पक्षान्तरे आहोस्विद् वृषं धर्मं लीनं नष्टं कुर्वन्तीति वृषला राजाभासाः शूद्रप्रायास् तैर् भोक्ष्यमाणम् आत्मानं शोचसि । अथो अथवा हृतो यज्ञभागः येषां ते तथा तान् सुरादीन् शोचसि किम् । मघवति इन्द्रे अवर्षति यज्ञाभावाद् वर्षम् अकुर्वति सति सस्यादिसमृध्यभावेन दरिद्राः प्रजा उद्दिश्य शोचसि उतस्विद् अपिस्वित् ॥ २१ ॥

प्रकाशिका

तप आदिभिस्त्रिभिः पादैर्न्यूनमत एवैकपादम् । सत्याख्येनैकपादेन युक्तम् । यद्वा तप आदिनां सर्वेषां धर्माणां त्रिभिस्त्रिभिः पादैर् न्यूनम् एकैकेन पादेन युक्तम् । मां प्रति शोचसि । उतशब्दः पक्षान्तरे । अहोस्विद्वृषलैः शूद्रप्रायैः राजभिरितःपरं भोक्ष्यमाणमात्मानं स्वात्मानं प्रति शोचसि । आत्मशब्दस्य नित्यपुल्लिङ्गत्वाद्भोक्ष्यमाणमिति पुल्लिङ्गनिर्देशः । अथोऽथवा हृता यज्ञाद्यकारणात्परिहृता यज्ञभागा येषां तान्सुरादीन्प्रति शोचसि । मघवतीन्द्रेऽवर्षति सत्यन्नाभावे विक्लिश्यमानाः प्रजा उद्दिश्य शोचसि ॥ २१ ॥

अरक्ष्यमाणा स्त्रिय उर्वि बालाञ्छोचस्यथो पुरुषादैरिवार्तान् ।

वाचं देवीं ब्रह्मकुले कुकर्मण्यब्रह्मण्ये राजकुले कुलाग्रयाम् ॥ २२ ॥

पदरत्नावली

अथवा हे उर्वि भूमे अरक्ष्यमाणाः स्त्रिय उद्दिश्य शोचसि । अथवा पुरुषादैर् मनुष्यभक्षकैरिव स्थितैर् उपद्रवकरैर् आर्तान् दुःखितान् बालांश्च शोचसि । किञ्च ब्रह्मकुले ब्राह्मणकुले कुत्सितकर्मणि दुष्प्रतिग्रहोल्लेखनादिकर्म कुर्वति सति राजकुले अब्रह्मण्ये ब्राह्मणबहुमानमकृत्वा तस्मात् करादीनाददाने सति च कुलाग््रयां सतां कुलेन अग््रयां श्रेष्टां कुलीने वर्तमानामिति वा । देवीं द्योतमानां वाचं वेदवाणीम् आचारकुलहीना अध्येष्यन्तीति शोचसि स्वित् । ‘बिभेत्यल्पश्रुताद्वेदो मामयं प्रचलिष्यती’ति वचनात् ॥ २२ ॥

प्रकाशिका

हे उर्वि पृथ्वि । भर्तृभिररक्ष्यमाणाः स्त्रिय उद्दिश्य । अथोऽथवा पितृभिर-रक्षमाणान्प्रत्युत पुरुषादै राक्षसैरिव स्थितैस्तैरार्तान्दुःखितान् बालानुद्दिश्य । दैवीं द्योतमानां वाचं वेदवाणीम् । अकुलाग्न्यां कुलाग््रये भवाः कुलाग््रयाः सदाचारास्त्रैवर्णिका न विद्यन्ते कुलाग्रया अध्येतारो यस्याः सा तथोक्ता ताम् । अथो शोचसीत्यन्वयः । कस्मिन्सति ब्रह्मकुले ब्राह्मणे । जात्येकवचनम् । एवमग्रेऽपि । कुकर्मणि सति कृष्यादिकरणरूपकुत्सितकर्मशीले सति । राजकुले क्षत्रियेऽब्रह्मण्ये ब्राह्यणापमानादिकुकर्मशीले सति । उपलक्षणमेतत् । वैश्ये दुराचारे सतीत्यपि ग्राह्यम् ॥ २२ ॥

किं क्षत्रबन्धून्कलिनोपसृष्टान्राष्ट्राणि वा तैरवरोपितानि ।

इतस्ततो वाऽशनपानवासस्नानव्यवायोत्सुकजीवलोकम् ॥ २३ ॥

पदरत्नावली

कलिना उपसृष्टान् उपद्रुतान् क्षत्रबन्धून् उत शोचसि । तैः क्षत्रबन्धुभिर् अवरोपितानि उद्वासितानि विनाशितानि राष्ट्राणि वा शोचसि । यद्वा एवं वा इतस्ततो ऽनियमेन अशनञ्च पानञ्च वासश्च स्नानञ्च व्यवायो ग्राम्यधर्मश्च ते तथोक्तास् तेषु उत्कण्ठवन्तं जीवलोकं प्रणिसमूहं किं शोचसि ॥ २३ ॥

प्रकाशिका

उपसृष्टान्व्याप्तान् । क्षत्रबन्धुभिरवरोपितान्युद्वासितानि । शोचसीति सर्वत्र सम्बध्यते । इतस्ततो निषेधानादरेण सर्वतोऽशनादि । व्यवायो मैथुनम् । जीवलोकं प्राणिसमूहम् ॥ २३ ॥

यद्वाऽ(थ)म्ब ते भूरिभारावतारकृतावतारस्य हरेर्धरित्रि ।

अन्तर्हितस्य स्मरती विसृष्टा कर्माणि निर्वाणवि(डम्बनानि)लम्बितानि ॥ २४ ॥

पदरत्नावली

अथेति पक्षान्तरारभ्यः । ते तव भूमेर् महतः भारस्य अवतारो ऽवरोपणं तस्मै भूरिभारावताराय कृतो ऽवतारः स्वरूपप्रकाशः येन सस् तथोक्तस् तस्य अद्य अन्तर्हितस्य तिरोहितस्य निर्वाणं स्वस्वयोग्यं मोक्षं विशेषेण लम्बयन्ति पुरतः स्थितं कारयन्तीति निर्वाणविलम्बितानि । निर्वाणं विडम्बयन्ति अपहसन्तीति वा । तानि हरेः कर्माणि चरितानि स्मरन्ती तेन हरिणा अहमद्य विसृष्टा नन्विति शोचसि अथ=किं वा? ॥ २४ ॥

प्रकाशिका

अम्ब हे मातः । यद्वा अथेति पाठे निपातसमुदायः पक्षान्तरद्योतकः । हे धरित्रि । ते तव यो भूरिभारस्तस्यावतारोऽवतरणम् । नाशनमिति यावत् । तस्मै कृतोऽवतारः प्रादुर्भावो येन स तथोक्तः । तस्येदानीमन्तर्हितस्य कर्माणि स्मरन्ती तेन विसृष्टा सती शोचामि । कथंभूतानि कर्माणि । निर्वाणं मोक्षसुखं विलम्बितं विशेषेण प्रापितं यैस्तानि तथोक्तानि । निर्वाणविडम्बनानीति पाठे मोक्षं विडम्बय-न्त्युपहसन्तीति व्याख्येयम् । स्वाध्यायिनामुत्तमानामधममोक्षसुखादप्यधिकसुखप्रदानीति भावः ॥ २४ ॥

इदं ममाचक्ष्व तवाधिमूलं वसुन्धरे येन विकर्शिताऽसि ।

कालेन वा ते बलिनाऽवलीढं सुरार्चितं किं प्रभुणाऽद्य सौभगम् ॥ २५ ॥

पदरत्नावली

येन मनोदुःखेन विकर्शिता कृशतरा असि । हे वसुन्धरे तदिदम् आधेर् मनःपीडाया मूलं ममाख्याहीत्यन्वयः । अथवा सम्प्रति प्रभुणा समर्थेन बलिना सर्वाङ्गपुष्टेन कालेन ते तव सुरार्चितं सौभाग्यम् अवलीढं ग्रस्तं वेत्यन्वयः ॥ २५ ॥

प्रकाशिका

अद्य साम्प्रतं प्रभुणा समर्थेनात एव बलिना कालेन सुरार्चितं सौभगमवलीढं ग्रस्तम् ॥ २५ ॥

धरोवाच—

भवान्हि वेद तत्सर्वं यन्मां धर्मानुपृच्छसि ।

चतुर्भिर् वर्तसे येन पादैर्लोकसुखावहैः ॥ २६ ॥

सत्यं शौचं दया दानं त्यागः सन्तोष आर्जवम् ।

शमो दमस् तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥ २७ ॥

ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो धृतिः स्मृतिः ।

स्वातन्त्र्यं कौशलं कान्तिः सौभगं मार्दवं क्षमा ॥ २८ ॥

प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।

गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहंकृतिः ॥ २९ ॥

इमे चान्ये च भगवन्नित्या यत्र महागुणाः ।

प्रार्थ्या महत्वमिच्छद्भिर् न च यान्ति स्म कर्हिचित् ॥ ३० ॥

तेनाहं गुणपात्रेण श्रीनिवासेन साम्प्रतम् ।

शोचसि रहितं लोकं पाप्मना कलिनेक्षितम् ॥ ३१ ॥

आत्मानञ्चानुशोचामि भवन्तञ्चामरोत्तम् ।

देवान्नृषीन् पितृन्साधून्सर्वान्वर्णांस्तथाश्रमान् ॥ ३२ ॥

तात्पर्यम्

त्यागो मिथ्याभिमानवर्जनम् । ‘मिथ्याभिमानविरतिस्त्याग इत्यभिधीयते’ इति नारायणाध्यात्मे ॥

एकान्ततः शुभभागित्वं सौभाग्यम् । ‘शुभैकभागी सुभगो दुर्भगस्तद्विपर्ययः’ इति गीताकल्पे ।

**शमः प्रियादिबुद्ध्युज्झा क्षमा क्रोधाद्यनुत्थितिः । महाविरोधकर्तुश्च सहनं तु तितिक्षणम् ॥ इति पाद्मे । ‘स्वयं सर्वस्य कर्तृत्वात् कुतस्तस्य प्रियाप्रिये’ इति च पाद्मे । प्रियमेव यतः सर्वमप्रियं नास्ति कुत्रचित् । स्वयमेव यतः कर्ता शान्तोतो हरिरीश्वरः ॥ इति ब्रह्मतर्के ॥ मानः परेषाम् ॥ **

गुणैः स्वरूपभूतैस्तु गुण्यसौ हरिरीश्वरः । न विष्णोर्न च मुक्तानां कोपि भिन्नो गुणो मतः ॥ इति ब्रह्मतर्के ॥ इति प्रथमतात्पर्ये षोडशोऽध्यायः २६-३० ॥

पदरत्नावली

धर्मेण पृष्टा भृमिस् तं प्रति ब्रूत इत्याह- भवानिति ॥ हे धर्म यद् आधिमूलं त्वं माम् अनुपृच्छसि तत्सर्वं भवान् वेद हि । तथापि वक्ष्ये इति शेषः । येन श्रीकृष्णेन त्वं लोकसुखावहैस् तपःशौचदयासत्याख्यैश् चतुर्भिः पादैः कलावपि वर्तसे अवर्तथाः ॥

यत्र यस्मिन् श्रीकृष्णे इमे उक्ताः सत्यादयो ऽनुक्ता अन्ये च महागुणाः प्रत्येकमनन्ताः सन्ति । कीदृशाः ? महत्वमिच्छद्भिः पुरुषैः प्रतिबिम्बे तादृशगुणलाभाय प्रार्थ्या उपास्याः । ते कर्हिचिद् यतो न यान्ति नापयान्ति च अभिन्नत्वादित्येतमर्थं स्मेत्यनेन श्रुतिसिद्धं दर्शयति । हे देवोत्तम तेन गुणपात्रेण श्रीनिवासेन साम्प्रतं रहितं पाप्मना पापात्मना कलिना ईक्षितं दृष्टम् आत्मानं माञ्च भवन्तञ्च शोचामीत्यन्वयः । सत्यं निर्दुःखानन्दानुभवः । भूतहितयथार्थभाषणं वा । शौचं नित्यशुद्धिः । प्रकृतिसम्बन्धाभावान् नित्यं बाह्याभ्यन्तरशुद्धिता हरेरेव । अन्यत्र मृज्जलाभ्यां रागराहित्येन । दया सज्जनेषु आर्तप्राणिषु चित्तद्रवत्वम् । उभयत्र समम् । दानं भक्ताभक्तमध्यमेषु सुखदुःखमिश्रफल-वितरणम् । अन्यत्र धर्मार्थं पात्रे वित्तविश्राणनम् । त्यागोऽस्वकीये स्वकीयताबुध्यपरपर्याय-मिथ्याभिमानोज्झता । अन्यत्र सन्यासः । सन्तोषः स्वरूपानन्दपानेन अन्यत्र यदृच्छया प्राप्तभोगेष्वलं-प्रत्ययः । आर्जवं व्यवहारेषु अवक्रता । मनसि वचसि चैकविधता । उभयत्र समानम् । शमः स्वतः प्रियरूपत्वाद् इदं प्रियमिदमप्रियमिति बुद्धिविधुरता । शंरूपतया मीयत इति वा । अन्यत्र बुद्धेर् भगवन्निष्ठता । दम इन्द्रियाणां स्ववशत्वम् । अन्यत्र समानम् । स्वतः परत इति विशेषः । शत्रुनिग्रहो वा । तप आलोचनं युक्तिज्ञानम् । अन्यत्र कृच्छ्रचान्द्रायणाद्युपवासनियमः । साम्यं सर्वावतारान्तर्यामिरूपेषु निर्दाेषगुणपूर्णत्वेन समता । यथावस्थितवस्तुदर्शनं वा । उभयत्र समानम् । न तु सर्वत्र शत्रुमित्रभावराहित्यम् । तितिक्षा महापराधसहनम् । यथा भृगोः पादाहत्यपराधः । अन्यत्र द्वन्द्वसहिष्णुता । उपरतिः स्वरूपरतिः । ओः पतिर् उपः मुख्यप्राणस् तस्मिन् रतिर्वा । उः रुद्रः । अन्यत्र काम्यकर्मनिवृत्तिः । कृतकृत्यतया व्यर्थसर्वव्यवहारोपरमो वा । श्रुतं सर्वत्र श्रवणशक्तिः । ‘श्रोते’त्यादेः । श्रुतिप्रसिद्धता वा । अन्यत्र शास्त्रार्थतात्पर्यावधारणम् । श्रुत्यर्थविचारो वा ।

ज्ञानं सर्वज्ञता । अन्यत्र परोक्षापरेक्षभेदेन परमार्थविषयम् । विरक्तिः स्वेतरविषये असारताबुद्धिः । अन्यत्र शब्दादिविषयरागराहित्यम् । ऐश्वर्यं समस्तजगदीशितृत्वसामर्थ्यम् । अन्यत्र अणिमादिकम् । शौर्यं संग्रामेष्वपलायित्वम् । उभयत्र समानम् । तेजः परैरप्रघृष्यत्वम् । अन्यत्र ब्रह्मवर्चसम् । धृतिः सर्वधारणम् । ‘एष सेतुर्विघृति’रिति श्रुतेः । विकारहेतावविकारित्वं वा । अन्यत्र जिह्वोपस्थजयः । स्मृतिर् अतीतानागतानन्तब्रह्माण्डादिस्मरणम् । अन्यत्र अवगतपदार्थानुसन्धानम् । स्वातन्त्र्यम् अपराधीनत्वम् । अन्यत्र शिल्पविद्यावैशारद्यम् । कान्तिर् देहगता दीप्तिः । अन्यत्र भगवद्भक्तिकामनम् । सौभगं शुभैकभागित्वम् । अन्यत्र लोकमनोहरत्वम् । मार्दवं भक्तेषु मृदुत्वम् । उभयत्र समानम् । क्षमा क्रोधासमुत्थितिः । उभयत्र समानम् । प्रागल्भ्यं धार्ष्ट्यम् । उभयत्र समानम् । प्रश्रयो विनयः । उभयत्र समम् । शीलं लोकमनोहरस्वभावत्वम् । समम् । सहः सहनशक्तिः । प्राणस्य स्वाभाविकसामर्थ्यं वा । समम् । ओजः पराभिभवशक्तिः । अन्यत्र मानसबलम् । बलं स्वेच्छाकरणशक्तिः । अन्यत्र शरीरादि-धारणं, सामर्थ्यं वा । भगः षड्गुणवत्वं, भाग्यं वा । अन्यत्र उत्पत्त्यादिज्ञानम् । गाम्भीर्यं परैर् अनवगाह्यत्वम् । अन्यत्र स्तिमितत्वम् । स्थैर्यं नित्याकम्पनम् । अन्यत्र धर्मादचलनम् । आस्तिक्यं वेदाद्युक्तमस्तीति बुद्धिः । अन्यत्र गुरुवाक्येषु श्रद्दधानता । कीर्तिर् दिक्षु ख्यातिः । अन्यत्र हरिनाम-संकीर्तनम् । मानः परेषां माननम् । अन्यत्र अभिमानः । अनहङ्कृतिर् अस्वरूपदेहादौ अहमिति बुद्धिराहित्यम् । अन्यत्र ‘नाहङ्कर्ता हरिरेव मयि स्थित्वा सर्वं करोती’ति बुद्धिः । न केवलं भवन्तं शोचामि किन्तु देवादीनपि ॥ २६-३२ ॥

प्रकाशिका

यदाधिमूलं भो धर्म मां पृच्छसि तद्भवान्वेद जानाति हीत्यनेन तत्सार्वज्ञस्य प्रमाणप्रसिद्धतामाह । तथाऽपि वक्ष्यत इति शेषः । ‘सत्यं शौचं दया दानं त्याग’ इत्यत्र त्यागशब्दस्य विषयपरित्यागार्थत्वे विरक्तिरित्यनेन पौनरुक्त्यमतोऽत्र तस्य विवक्षितमर्थमाह- त्याग इति ॥ मिथ्याऽभिमानोऽस्वाकीये स्वकीयत्वभ्रमरूपः । अत्र प्रमाणमाह- मिथ्येति ॥ विरतिर्वर्जनम् ।

भगादिशब्दागतार्थतया सौभगशब्दार्थं दर्शयति- एकान्तत इति ॥ नियमेनेत्यर्थः । अत्र प्रमाणमाह- शुभैकेति ॥ तस्येदं सौभगमिति प्रसिद्धमेवेति भावः । भगस्त्वैश्वर्यादिषड्गुणरूपोऽतो न पौनरुक्त्यमिति ध्येयम् । पश्चात्तनस्यापि सौभगशब्दस्य शमादिशब्दापेक्षया पूर्वं व्याख्यानं शमादिशब्दानां सौभगशब्दार्थान्तर्गतशुभधर्मप्रदर्शकतया तद्विवरणरूपमिति द्योतनाय । शमक्षमातितिक्षाशब्दानां पौनरुक्त्यशङ्कापरिहाराय प्रमाणेनैव भिन्नार्थत्वं दर्शयति- शम इति ॥ प्रियादीत्यत्रादिपदेनाप्रियस्य ग्रहणम् । उझ्झा राहित्यम् । क्रोधाद्यनुत्थितिः । द्वेषिदर्शनेऽपि क्रोधानुत्पत्तिः । आदिपदेन तत्कार्यवधादिग्रहणम् । इदं च दत्तव्यासादिरूपेषु द्रष्टव्यम् । महाविरोधकर्तुरपि विषये सहनं प्रत्यपकरणाभावः । तुशब्दो महाविरोधकर्तरि भक्तत्वलक्षणं विशेषं सूचयति । तेन भक्तविषयमेतदिति ज्ञातव्यम् । प्रियाप्रियबुद्धिराहित्यं शम इत्युक्तमुपपादयितुं प्रमाणान्तरं पठति- स्वयमिति ॥ प्रियाप्रियविषयाभावात्तद्बुद्धिराहित्यमुपपन्नमिति भावः । नन्विदमनुपपन्नं सुरादीनां हरिप्रियतया कल्यादीनां द्वेषिणां तदप्रियतया प्रसिद्धत्वादित्यतोऽत्राभिप्रायं प्रमाणेन दर्शयति- प्रियमेवेति ॥ सुखप्रदमेवेत्यर्थः । सर्वं कल्यादिद्वेषिजातमपि । कुत्रचिज्जीवे जडे च । कल्यादीनां स्वद्वेषाधिक्ये भगवतोऽतीव सुखाभिव्यक्तिरिति भावः । कुत एतदित्यत आह- स्वयमेवेति ॥ यतः कर्ता । सर्वेषामिति शेषः । यदि कल्यादयो द्वेषिणो न स्वसुखप्रदास्तर्हि सर्वज्ञो हरिस्तान्नोत्पादयेद् अतस्तेऽपि तस्य प्रिया एवेति भावः ।

यतः स्वयमेव कर्ताऽतस्तस्य सर्वं प्रियमेवातः शान्त इत्यन्वयः । शमशब्दपर्यायः शान्तशब्दः । तथा च अप्रियाभावेनैव प्रियाप्रियोभयाभाव उक्तो न तूभयोरप्यभावेनेति भावः । अनेन शस्यैव सुखस्य न त्वप्रियस्य मा बुद्धिः शम इति निर्वचनं सूचितमिति ध्येयम् । मानोऽभिमानरूपोऽहङ्कार-श्चेदनहङ्कृतिरित्यनेन विरोध इत्यतस्तस्याभिप्रेतमर्थं दर्शयति- मान इति ॥ परेषां नारदादीनां क्रियमाणो मानो मानमित्यर्थः । नित्या यत्र महागुणा इत्याधाराधेयभावोक्त्या भगवति गुणभेदः प्रतीयते । तथा च महत्वमिच्छद्भिरित्यत्र महत्वमुक्तभगवद्गुणप्रतिबिम्बगुणत्वमिच्छद्भिरित्यनेन मुक्तानां गुणभेदोऽतस्तदभि-प्रायं प्रमाणेनैव दर्शयति- गुणैरिति ॥ हरिरित्युपलक्षणम् । मुक्ता अपि स्वरूपभूतैर्गुणैर्गुणिन इत्यपि ग्राह्यम् । विशेषबलादिति हेतुसूचनाय तुशब्दः । कुत एवमित्यतः प्रतीतार्थे बाधकमाह- न विष्णोरिति ॥ मतः श्रुत्यादिसम्मत इत्यर्थः । ततश्चतुर्भिर्वर्तसे येनेत्यादेरयमर्थः । येन श्रीकृष्णेन सह त्वं लोकसुखावहैस्तपःशौचदयासत्याख्यैश्चतुर्भिः पादैर्द्वापरान्तेऽपि वर्तसे । यत्र च सत्यादयो गुणाः कर्हिचिदपि न यान्ति । तेन श्रीनिवासेन रहितं लोकं शोचामीत्यन्वयः । सत्यं निर्दुःखानन्दानुभवो यथार्थवचनं वा । शौचं शुद्धता । दया परदुःखप्रहाणेच्छा । दानं जीवानां स्वरूपानुसारेण फलदानम् । त्यागोऽस्वकीये स्वकीयताबुद्धिरूपमिथ्याऽभिमानवर्जनम् । सन्तोषः पूर्णसुखम् । आर्जवं मनो-वाक्कायवृत्तीनामवैपरीत्यम् । शमः शस्य प्रियस्यैव मा बुद्धिरिति व्युत्पत्त्याऽप्रियसहितप्रियबुद्ध्यभावः । दम इन्द्रियाणां स्ववशत्वम् । तपः स्वपरगताखिलविशेषविषयकालोचनम् । साम्यं सर्वरूपेषु निर्दाेषगुणपूर्णत्वेन तारतम्याभावः । तितिक्षा भक्तकृतमहापराधसहनम् । उपरतिर्विषयेष्वलम्बुद्धिः । उः रुद्रस्तं पातीत्युपो मुख्यप्राणस्तस्मिन्रतिरिति वा । श्रुतमुपक्रमादिना शास्त्रतात्पर्यज्ञानम् । ज्ञानं सर्वसाक्षात्काररूपम् । विरक्तिर्वैतृष्ण्यम् । स्वातन्त्र्यमपराधीनत्वम् । कौशलं सर्वक्रियासु निपुणता । कान्तिः शारीरशोभा सौन्दर्यं वा । सौभगं शुभैकभागित्वम् । मार्दवं भक्तेषु चित्ताकाठिन्यम् । क्षमा द्वेषिदर्शनेऽपि क्रोधानुत्पत्तिः ॥

प्रागल्भ्यं सर्वत्र धार्ष्ण्यम् । प्रश्रयो विनयः । शाीलं सुस्वभावः । सहो वैरिवेगसहनशक्तिः । ओजः पराभिभवशक्तिः । बलं स्वेच्छाकरणशक्तिः । भगः पूर्णषड्गुणत्वम् । गाम्भीर्यं परैरनवगाह्य-त्वम् । स्थैर्यमचञ्चलता । आस्तिक्यं वेदाद्युक्तमस्तीति बुद्धिः कीर्तिर्गुणैः सर्वदिग्व्याप्तिः । मानो नारदादीनां पूजनम् । अनहङ्कृतिर्गर्वाभावः ॥

कथंभूता गुणाः । महत्त्वमुक्तगुणप्रतिबिम्बभूतगुणवत्त्वम् । मोक्षे आविर्भूतमिच्छद्भिः सज्जनैः पार्थ्याः । साक्षात्कारायेति शेषः । एते उक्ता अन्ये ब्रह्मण्यत्वशरण्यत्वजगत्सृष्ट्यादिकर्तृत्वादयोऽनन्तगुणा यस्मिन्नित्याः स्वभावतः सिद्धा यतोऽतः कर्हिचित्कदाचिदपि न च यान्ति नैवोपयान्ति ॥

तेन कृष्णेनोक्तानुक्तगुणपात्रेण गुणाश्रयेण श्रीनिवासेन वक्षस्थलाश्रिता श्रीरिति संप्रदायविदः । तस्या नितरां वासभूतेन रहितं रूपविशेषेण परित्यक्तं लोकं मन्निष्ठं जनं मदभिमतं भूलोकं वा ॥

न केवलमेतावत्किं त्वात्मानं भवन्तं च पाप्मना सर्वपापाभिमानिना कलिनेक्षितं विचार्य शोचामि । अन्यदपि शोके निमित्तमाह- देवानिति ॥ कलिनेक्षितानिति शेषः ॥ २६-३२ ॥

ब्रह्मादयो बहुतिथं यदपाङ्गमोक्ष-

कामा यथोक्तविधिना भगवत्प्रपन्नाः ।

सा श्रीः स्ववासमरविन्दवनं विहाय

यत्पादसौभगमलं भजतेऽनुरक्ता ॥ ३३ ॥

पदरत्नावली

श्रीकृष्णविरह एव ममाऽधिमूलमित्याख्याति- ब्रह्मादय इति ॥ यस्याः श्रियो ऽपाङ्गः कटाक्षः । तस्य मोक्ष उन्मीलनविशेषस् तं कामयन्त इति यदपाङ्गमोक्षकामाः । स्वेषु श्रियः कटाक्षनिपाताकाङ्क्षमाणा इत्यर्थः । शास्त्रोक्तप्रकारेण भगवत्प्रपन्ना ब्रह्मादयः बहुतिथं बहुकालं, भगवतीम् अभजन्निति शेषेषणान्वयः । सा श्रीर् अनुरक्ता सद्भक्तिमती स्वनिवासम् अरविन्दवनं पद्मवनं विहाय यस्य श्रीकृष्णस्य पादयोः सौभगं सौभाग्यम् अलं भजत इत्यन्वयः ॥ ३३ ॥

प्रकाशिका

श्रीकृष्णविरहः सर्वथा सोढुमशक्य इति वक्तुं तावत्तन्माहात्म्यमाह- ब्रह्मादय इत्यादिश्लोकत्रयेण ॥ ब्रह्मादयो देवा यस्याः श्रियोऽपांगमोक्षे कामाः स्वेषु कटाक्षनिरीक्षणकामाः सन्तो बहुतिथं बहुकालं यथोक्तविधिनाऽस्मदादिसर्वजीवोत्तमा श्रीस्तस्या उत्तमो भगवानिति शास्त्रोक्तानु-सन्धानेन भगवत्प्रपन्ना भगवन्तमेव प्रपन्नाः प्राप्ताः श्रियः कटाक्षमाकांक्षमाणाः सन्तस्तत्पतित्वेन भगवन्तमेव । अभजन्निति यावत् । सा श्रीरनुरक्ता माहात्म्यज्ञानमनुसृत्य स्निग्धा । भक्तिमती सतीति यावत् । स्वनिवासभूतमरविन्दवनं विहाय यस्य श्रीकृष्णस्य पादसौभगं पादयोर्विद्यमानं लावण्यमलं भजते ॥ ३३ ॥

तस्याहमब्जकुलिशाङ्कुशकेतुकेतैः

श्रीमत्पदैर्भगवतः समलङ्कृताङ्गी ।

त्रीनत्यरोचमुपलब्धतपोविभूति

र्लोकान्समां व्यसृजदुत्स्मयतीं तदन्ते ॥ ३४ ॥

पदरत्नावली

उपलब्धा तपोविभूतिर् यया सा तथा । तपसा विविधफलं प्राप्ता सती तस्य भगवतो ऽब्जञ्च कुलिशञ्च अङ्कुरञ्च केतुर् ध्वजश्च अब्जकुलिशाङ्कुशकेतवः । रेखारूपा एते केताश् चिह्नानि येषां तानि तथोक्तानि तैः श्रीमद्भिः सम्यगलङ्कुतसर्वाङ्गाऽहं त्रीन् लोकानतिक्रम्य अरोचं शोभितवती । सः श्रीकान्तस् तदन्ते तपोविभूतेरवसाने उत्स्मयतीं ‘का नु मत्सदृशी स्त्री’इत्यहंकुर्वाणां मां व्यसृजद् इत्येकान्वयः । तदन्त इति त्वितरापेक्षया उक्तम् । न तु भूतेः पुण्यावसानमस्ति । भगवत्पत्नीत्वात् ॥ ३४ ॥

प्रकाशिका

तस्य भगवतः श्रीकृष्णस्याब्जं च कुलिशं चाङ्कुशश्च केतुर्ध्वजश्चाब्ज-कुलिशाङ्कुशकेतवः । एते रेखारूपाः केताश्चिन्हानि येषां तानि तथोक्तानि तैः । श्रीमद्भिः पदैः सम्यगलङ्कृतामङ्गं यस्याः साहमुपलब्धतपोविभूतिः । उपलब्धा प्राप्ता तपः फलरूपा विभूतिरैश्वर्यं यस्याः सा तथा सती त्रींल्लोकानत्यरोचमतिक्रम्य शोभावती जाताऽस्मि । स श्रीकृष्णस्तदन्ते तस्यास्तपो-विभूतेरवसाने प्राप्ते सत्युत्स्मयन्तीं का नु मत्सदृशी लोक इति गर्वं कुर्वाणां मां व्यसृजत् ॥ ३४ ॥

यो वै ममातिभरमासुरवंशराज्ञा-

मक्षौहिणीशतमपानुददात्मतन्त्रः ।

त्वां दुस्थमूनपदमात्मनि पौरुषेण

सम्पादयन्यदुषु रम्यमबिभ्रदङ्गम् ॥ ३५ ॥

पदरत्नावली

यो वै असुराणां सम्बन्धी वंश आसुरवेशः । तस्मिन् जातानां राज्ञाम् अक्षौहिणीशतं मम अतिभरम् अपानुदन् अपाहरत् । शतमिति शब्दः सहस्त्रादिवाची । त्वयि चतुष्यदत्वेन पूर्णपदं सम्पादयन् आत्मतन्त्रः यदुषु रम्यं रमणीयम् अङ्गम् अबिभ्रत् ॥ ३५ ॥

प्रकाशिका

किंच यो वै आत्मतन्त्रः स्वतन्त्र आसुरवंशराज्ञाम् । राज्ञां वंशा येषां ते वंशराजानोऽग्न्याहितादिवत्परनिपातः । राजवंशोत्पन्ना इति यावत् । असुराश्च ते वंशराजानश्च तेषाम् । ममातिभारमतिशयितभारभूतमक्षौहिणीशतमपानुददपाहरत् । शतशब्दः सहस्राद्युपलक्षकः । त्वां च कालबलेनोनपादमत एव दुःस्थं सन्तं पौरुषेण पराक्रमेणात्मनि स्वस्वरूपे स्थितं सम्पादयन् । लक्षण-हेत्वोः क्रियाया इति हेतौ शतृप्रत्ययः । सम्पादयितुमित्यर्थः । सम्पूर्णपादचतुष्टये रूपे स्वस्मिन्स्थितम् । कर्तुमिति यावत् । अङ्गं शरीरम् । अविभ्रव्द्यक्तमकरोत् ॥ ३५ ॥

का वा सहेत विरहं पुरुषोत्तमस्य

प्रेमावलोकरुचिरस्मितवल्गुजल्पैः ।

स्थैर्यं समानमहरन्मधुमानिनीनां

रोमोत्सवो मम यदङ्घ्रिविटङ्कितायाः ॥ ३६ ॥

पदरत्नावली

यश्च प्रेम्णा अवलोकश्च रुचिरं स्मितञ्च वल्गुर् मधुरो जल्पश्च ते तथोक्तास् तैर् मधुमानिनीनां समानम् अभिमानेन सह वर्तमानं स्थैर्यम् अहरत् । यस्याङ्गिभ्यां विटङ्कितायाश् चिह्निताया अलंकृताया वा मम रोमोत्सवः रोमाञ्चः, अभूदिति शेषः । तस्य पुरुषोत्तमस्य विरहं वियोगं का वा स्त्री सहेत न कापीत्यन्वयः ॥ ३६ ॥

प्रकाशिका

प्रेमावलोकश्च रुचिरस्मितं च वल्गुजल्पश्च तैर्यो मधुमानिनीनां मधुमानयन्तीति मधुमानिन्यस्तासाम् । मद्यास्वादननिरतानां स्त्रीणां मधुकुलस्थमानिनीनामिति वा समानं गर्वसहितस्थैर्यं स्तब्धत्वमहरत् । यस्याङ्घ्रिभ्यां विटङ्किताया अलङ्कृतायाः स्पृष्टाया इति यावत् । मम रोमोत्सवो रोमाञ्चः। अभूदिति शेषः । तस्य पुरुषोत्तमस्य विरहं वियोगं का वा सहेत । न काऽपीत्यर्थः॥ ३६ ॥

सूत उवाच—

तयोरेवं कथयतोः पृथिवीधर्मयोस्तदा ।

परीक्षिन्नाम राजर्षिः प्राप्तः प्राचीं सरस्वतीम् ॥ ३७ ॥

॥ इति श्रीमद्भागवते प्रथमस्कन्धे षोडशोऽध्यायः ॥

पदरत्नावली

तदवसरे तत्र परीक्षिदागमनमाह- तयोरिति ॥ परीक्षिन्नाम राजश्रेष्टः । कुरुक्षेत्रे प्राचीं दिशम् उद्दिश्य स्यन्दमानां नाम्ना सरस्वतीं नदीं प्राप्त इत्यन्वयः ॥ ३७ ॥

इति श्रीमद्भगवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे षोडशोऽध्यायः ॥

प्रकाशिका

प्रवदतोः सतोः प्राचीं प्राचीदिशमुद्दिश्य स्यन्दमानां सरस्वतीं कुरक्षेत्रगतां सरस्वतीसंज्ञां नदीं प्राप्तः ॥ ३७ ॥

**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां षोडशोऽध्यायः ॥ १-१६ ॥