१५ पञ्चदशोऽध्यायः

वासुदेवाङ्घ्र्यभिध्यानपरिबृंहितरंहसा

अथ पञ्चदशोऽध्यायः

सूत उवाच—

वासुदेवाङ्घ्र्यभिध्यानपरिबृंहितरंहसा ।

भक्त्या निर्मथिताशेषकषायधिषणोऽर्जुनः ॥ १ ॥

तात्पर्यम्

ज्ञानिनां प्रारब्धस्यैव (वि)निर्मथनं योग्यस्यैव । महता कारणेनैव प्रारब्धान्यपि कानिचित् । कर्माणि क्षयमायान्ति ब्रह्मदृष्टिमतः क्वचित् ॥ इति भविष्यत्पर्वणि । तेषामपि काम्यकर्मफलदृष्टेश्च ॥ १ ॥

गीतं भगवता ज्ञानं यत्तत्संग्राममूर्धनि ।

कालकर्मतमोरुद्धं पुनरध्यगमद्विभुः ॥ २ ॥

तात्पर्यम्

तमआदिरोधश्च प्रारब्धकर्मणैव । ज्ञानादिव्यक्तिरव्यक्तिः सुखदुःखादिकं तथा । सदृष्टब्रह्मतत्त्वानां भवत्यारब्धकर्मणा ॥ इति ब्रह्मवैवर्ते ॥ २ ॥

विशोको ब्रह्मसम्पत्या सञ्च्छिन्नद्वैतसंशयः ।

लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसंभवः ॥ ३ ॥

तात्पर्यम्

ब्रह्मसम्पत्तिरवगतिः । भगवन्तं विनान्यत्र प्रवृत्त्यादिप्रकाशनम् । प्रारब्धकर्मणैव स्यात् कदाचिज्ज्ञानिनामपि ॥ तां द्वैतदृष्टिं मे देव च्छिन्धि ज्ञानवरासिना ॥ इति ब्राह्मे ।

तदेव सञ्छिन्नद्वैतसंशयत्वम् । लीनप्रकृतित्वं नैर्गुण्यं च लीनप्रकृतिनैर्गुण्यम् । तस्माद-सूक्ष्मशरीरत्वाद् अनारब्धकर्ममूलत्वाद् असम्भवः पुनरुत्पत्तिवर्जितः । ज्ञानोदयकाल एवैवंभूतः सन् पुनरध्यगच्छत् । प्रकृतिं स्वात्मसंश्लिष्टां गुणान् सत्वादिकानपि । कर्माणि सूक्ष्मदेहं च जायमाना हरेर्दृशिः ॥

दहेदथापि सन्दग्धेन्धनवत् पुनः पुनः । यावदारब्धकर्म स्यादाविर्वापि तिरो व्रजेत् ॥ इति ब्रह्मतर्के ॥ ३ ॥

पदरत्नावली

नन्वर्जुनस्य नानाविधक्षत्रहत्यातिपापोपरक्तायास् तामस्यः बुद्धेर् नैर्मल्यं कथं युज्यते इत्याशंक्य जीवन्मुक्तेष्वेकत्वाद् भगवदर्पणबुध्या कृतदुष्टक्षत्रहत्यस्य तस्य मतेर् नैर्मल्यं युक्तमिति दर्शयति- वासुदेवेति ॥ ब्रह्मसम्पत्या ब्रह्मणोऽवगतया ब्रह्मापरोक्षज्ञानेन विशोकः । तस्मादेव सञ्च्छिन्नौ निवृत्तै द्वैतसंशयौ यस्मात् सस् तथोक्तः । द्वे इतं द्वीतं द्विधा गतं ज्ञातम् । तस्य भावः द्वैतम् । अन्यथाज्ञानमिति यावत् । संशय इदं वा अदो वेति उभयकोटिविषयज्ञानम् । विच्छिन्नः जीवब्रह्मविषयः संशयौ येनेति वा । लीना अपसारिता प्रकृतिर् अहङ्कारात्मिका यस्मात् सस् तथोक्तः । भावप्रधानो निर्देशः । तस्माद् लीनप्रकृतित्वान् निर्गतानि सत्वादिगुणकार्याणि यस्मात् सस् तथोक्तस् तस्य भावो नैर्गुण्यं तस्माद् अलिङ्गत्वात् सूक्ष्यशरीररहितत्वात् । असम्भवो ऽनारब्धकर्ममूला या पुनरुत्पत्तिस् तया वर्जितः । अनारब्धकर्मणां ज्ञानोदयेन नाशाद् आरब्धकर्मणामेवोर्वरितत्वाज् ज्ञानोदयकाले । एवंभूतः सन्नर्जुनः रणमूर्धनि आरब्धकर्मणा स्वधर्मे अधर्मबुद्धये आत्मने भगवता यज् ज्ञानं गीतम् उपदिष्टं तद् आरब्धकर्ममूलैः कालकर्मतमोभिः रुद्धं कालेन कर्मणा तमसा चावृतं पुनो ऽध्यगमद् अवगतवान् आवर्तितवानित्यन्वयः । कीदृशः ? वासुदेवस्य अङ्घ्र्योर् अभितः सम्यक् ध्यानेन परितो बंृहितं वृद्धं रंहः वेगः यस्या सा तथोक्ता । तया भक्त्या निर्मथिता अशेषाः समूलाः कषायाः पापलक्षणा वा यस्याः सा तथोक्ता निर्मथिताशेषकषाया धिषणा बुद्धिर् यस्य सस् तथा । तत्र न सर्वारब्धकर्मणां निर्मथनमभिप्रेतम् । किन्तु महता भगवत्कारुण्यादिना कारणेन केषाञ्चिदेव । अन्यथा ‘भोगेन त्वितरे क्षपयित्वाऽथ सम्पत्स्यते’ ‘तस्य तावदेव चिरमि’त्यादि सूत्रश्रुतिविरोधः स्यात् । ‘महता कारणेनैव प्रारब्धान्यपि कानिचित् । कर्माणि क्षयमायान्ति ब्रह्मदृष्टिमतः क्वचिदि’त्युक्तत्वाच्च । अतोऽत्राशेषशब्दो निर्मथनयोग्याशेषप्रारब्धविषय इति भावः ॥ १-३ ॥

प्रकाशिका

मननोत्तरभाविनीमर्जुनस्यावस्थां दर्शयंस्तत्फलमाह- वासुदेवेति ॥ नन्वत्र निर्मथिताशेषकषायधिषण इतीदानीमर्जुनबुद्ध्याऽशेषकषायपदवाच्यकर्मक्षय उच्यते । न चेदं सम्भवति । अर्जुनस्यापरोक्षज्ञानित्वेन कर्मक्षयस्य पूर्वं ज्ञानोदयकाल एव जातत्वादतोऽस्याभिप्रायमाह- ज्ञानि-नामिति ॥ प्रारब्धस्यैव । नाप्रारब्धस्य । तस्य पूर्वमेव नष्टत्वादिति भावः । समुदायापेक्षयैकवचनम् । ननु प्रारब्धानामपि कथमिदानीमशेषाणां नाश इत्यत उक्तम् । योग्यस्येति ॥ नाशयोग्यस्य दुष्टफलोत्कर्षद्वारेत्यर्थः । अयं भावः । ‘नाभुक्तं क्षीयते कर्म’ इति वचनात्प्रारब्धं सर्वं ज्ञानिभिर्भुज्यत एव । तथाऽप्यज्ञानिभिर्यथा निषिद्धं कर्म भुज्यते न तथा । अपि तु फलह्रासः । यथोक्तं पुरस्तात् । ‘न वै जनो जातु कथञ्चनाव्रजेन्मुकुन्दसेव्यन्यवदङ्ग संसृतिमि’ति । एतादृशफलह्रास एवोपमर्दं चेत्यत्रोक्तोप-मर्दः । तदभिप्रायकमेवात्र कर्मनिर्मथनवचनमिति । तथा चाशेषकषायपदं सङ्कोचेन दुष्टकर्मफलोत्कर्ष-परमिति सूचितं भवति । नन्वशेषस्य कुतः सङ्कोचप्रारब्धान्यपि कर्माणि भुज्यमानानि वस्तुत उत्कुष्टफलानि क्षयं क्वचित्फलोत्कर्षे आयान्तीत्यन्वयः । युक्तिं चाह- तेषामपीति ॥ ज्ञानिनामपीत्यर्थः । काम्यपदं निषिद्धस्याप्युपलक्षकम् । तथा च यदि ज्ञानिनामिदानीमशेषप्रारब्धक्षयः स्यात्तर्हीदानीं तेषां काम्यकर्मनिषिद्धफलस्योपलम्भो न स्यात् । वर्तते चासौ । तेन ज्ञायते नाशेषनाश इति । तत्रापि ‘नाभुक्तं क्षीयत’ इति वचनात्प्रारब्धकर्मनाशवचनार्थतया फलोत्कर्षनाश एव न सर्वथा कर्मनाश इत्यपि कल्पनीयमिति भावः । यथोक्तं सुधायाम्- ‘ईषद्विनाशस्तु फलद्वारैव’ इति । यद्वा ‘नाभुक्तं क्षीयते कर्म’ इति वचनात् प्रारब्धकर्मणां सर्वात्मना नाशाभाव एव किं न स्यादित्यत आह- महता करणेनेति ॥ तत्रैव युक्तिमत्याह- तेषामपीति ॥ अत्र काम्यकर्मपदेन ब्रह्महत्यादिकर्मफलक्षयरोगादि-निवृत्यर्थाः प्रायश्चितविधयो विवक्षिताः । ततश्चायं भावः । ‘ब्रह्महा क्षयरोगी स्यादि’त्यादि स्मरणात् क्षयादिकं तावद् ब्रह्महत्यादेः फलम् । तत उत्पादितक्षयादिकं ब्रह्महत्यादिप्रारब्धमेव । तस्य प्रारब्धकर्मफलस्य क्षयादेः प्रायश्चित्तकरणेन निवृत्तिर्दृश्यते । तत्कथं प्रारब्धकर्मफलस्य सर्वथाप्यनुपमर्दः । अन्यथा प्रायश्चित्तवैय्यर्थ्यापत्तेरिति ।

कालकर्मतमोरुद्धमित्यत्र कालतमसोरपि कर्मवत्स्वातन्त्र्येण ज्ञानरोधकत्वमुच्यत इति प्रतीयते । न च तत्सम्भवति । प्रारब्धकर्माभावे तयोः सत्वेऽपि ज्ञानव्यक्तिदर्शनादित्यतोऽत्र विवक्षितं तात्पर्यं दर्शयति- तम आदिनिरोधश्चेति ॥ तमसा कालेन वा जायमानो निरोध इत्यर्थः । चशब्दः प्रकृतत्वानुसन्धानार्थः । तथा चात्रोक्त इत्यर्थः । प्रारब्धकर्मणैव भवतीति शेषः । प्रारब्धकर्मणैव जायमाने निरोधे तमःकालयोरतिशयाधायकत्वमेव । न कर्मसमकक्षतया स्वातन्त्र्येण कारणत्वमित्यर्थः । मूले कालस्यादितया ग्रहणेऽपि अत्र तमस आदितया ग्रहणं कालापेक्षया तस्य प्राबल्यसूचनाय । अत्र प्रमाणमप्याह- ज्ञानादीति ॥ आदिपदेन भक्त्यादिग्रहणम् । सु सम्यग्दृष्टम् । ब्रह्मलक्षणं तत्त्वं यैस्तेषाम् । दैत्यदर्शनव्यावृत्त्यर्थं स्वित्युक्तम् । आरब्धकर्मणेति ॥ आरब्धकर्मणैवेत्यर्थः । पुण्यरूपे-णारब्धकर्मणा ज्ञानादिव्यक्तिः सुखं च भवति । पापरूपेण तेनाव्यक्तिर्दुःखं च भवतीति विवेकः ।

ब्रह्मसम्पत्त्येत्यत्र ब्रह्मप्राप्त्येति प्रतीतिवारणाय सम्पत्तिशब्दार्थमाह- ब्रह्मसम्पत्तिरिति ॥ गत्यर्थानां ज्ञानार्थत्वाद्ब्रह्मप्राप्तेश्चेदानीमर्जुने बाधितत्वादिति भावः । अवगतिश्चापरोक्षैव विवक्षितेति द्रष्टव्यम् । संच्छिन्नद्वैतसंशय इत्यत्र द्वैतसंशयपदस्य भेदभ्रमपरत्वप्रतीतिनिरासाय विवक्षिततात्पर्यं प्रमाणोदाहरण-पूर्वकमाह- भगवन्तं विनेति ॥ अन्यत्र विषयेषु प्रवृत्त्यादिकम् । आदिपदेन तज्जन्यसुखादिकं तेन सहितं प्रकाशनमनुभवः । ननु भगवत्पूजार्थत्वेन भगवव्द्याप्तत्वेन वा विषयेष्वनुभवः प्रवृत्त्यादिकं च गुण एवातः कथं तच्छेदप्रार्थनमित्यत उक्तम्- भगवन्तं विनेति ॥ तथा च भगवत्पूजाद्यनुपयुक्तकेवलविषयेषु प्रवृत्त्यादिकं निन्दितमेवेति तच्छेदप्रार्थनं युक्तमेवेति भावः । प्रकाशनमित्यनन्तरं द्वैतदृष्टिरिति शेषः । ज्ञानवरासिनेत्यपरोक्षज्ञानरूपोत्तमखङ्गेनेत्यर्थः । जिज्ञासुवाक्यमिदम् । तदेवेति ॥ उदाहृतप्रमाणे यदुक्तं भगवदनुसन्धानशून्यविषयानुभवादिछेदनं तदेवेत्यर्थः । न तु भेदभ्रमच्छेदनरूपमित्यर्थः । प्रमाण-विरोधादिति भावः । लीनप्रकृतिनैर्गुण्यादित्येतल्लीनप्रकृतेर्यन्नैर्गुण्यं तस्मादित्यन्यथाप्रतीतिवारणाय व्याचष्टे- लीनप्रकृतित्वमिति ॥ तथा च लीनप्रकृतिरित्यत्र भावप्रधानो निर्देशः । लीनप्रकृतित्वेन सहितं नैर्गुण्यं तस्मादिति मध्यमपदलोपी समास इति सूचितं भवति । द्वन्द्वैकवद्भावो वा । अलिङ्गत्वादित्येतदप्रतीत्या व्याख्याति- असूक्ष्मशरीरत्वादिति ॥ तथा च लिङ्गपदं सूक्ष्मलिङ्गशरीरपरमिति भावः ।

असम्भव इत्यस्य पुनरुत्पत्तिराहित्यार्थत्वं बाधितं प्रारब्धनिमित्तोत्पत्तेरर्जुने ब्रह्मप्रलयपर्यन्तं सत्वादतोऽस्याभिप्रायमाह- अनारब्धेति ॥ अनारब्धकर्मणां ज्ञानोदयेनैव नष्टत्वात्तन्निमित्तोत्पत्त्यभाव एवात्र विशेषणाभावप्रयुक्तविशिष्टाभावाभिप्रायेण असम्भवशब्दार्थतयोच्यते । न तूत्पत्तिसामान्यभाव इति भावः । भगवता गीतं ज्ञानं पुनरध्यगमदित्युक्त्वानन्तरं ब्रह्मसम्पत्त्या संच्छिन्नद्वैतसंशयादित्वादेरुक्त-त्वेनार्जुनस्येदानीमेवेत्थंभावो जात इति प्रतीयते । अतोऽभिप्रायमाह- ज्ञानोदयकाल एवेति ॥ एवं भूतः संच्छिन्नद्वैतसंशयादित्वं प्राप्तः । एवंभूतः सन् पुनरप्यध्यगच्छदित्यन्वयप्रदर्शनेन मूले उक्तरीत्या यथास्थितोऽन्वयो न ग्राह्य इति सूचयति । कुत इत्यतोऽत्र प्रमाणं दर्शयति- प्रकृतिमिति ॥ जगदुपादानभूतमूलप्रकृतेर्नित्यत्वेन दाहासम्भवादाह- स्वात्मसंश्लिष्टमिति ॥ तथा चेयं स्वगुणाच्छादि-कादिरूपा दुष्टप्रकृतिरेव विवक्षितेति भावः ।

सत्त्वादिकान् गुणानपीत्युक्त्या सत्त्वादिगुणरूपा जडप्रकृतिरपि जीवस्वरूपाच्छादिकाऽस्तीति सूचयति । अनेनालिङ्गत्वादित्येतदुक्ततात्पर्यम् । तद्दग्धं प्रकृत्यादिकम् । दुष्टप्रारब्धबलेनाविर्भवेत् । पुनः स्वकार्यक्षमं न भवेदित्यर्थः । ज्ञानव्यक्त्येति शेषः । अनेन पुनरध्यागमत्ततश्च विशोको जात इत्येतदुक्तार्थम् । ततश्चायं श्लोकार्थः- अभिध्यानं सम्यग्ध्यानम् । तेन परिबृंहितमभिवृद्धं रंहो वेगो यस्याः सा तया । भक्त्या जातया ब्रह्मसम्पत्त्या । इमं ब्रह्मकल्पमारभ्य विंशतिकल्पेभ्यः पूर्वमुत्पन्नया ब्रह्मापरोक्षावगत्या सञ्छिन्नः सम्यक् छिन्नो दग्धो द्वैतस्य द्वितीयस्य भगवद्ज्ञानाननुकूलविषयजातस्य संशयोऽनुभवः । उपलक्षणमेतत् । प्रकृत्यादिकं च यस्य स तथोक्तः । उत्तरत्रानुवादादत्र लीनप्रकृति-निर्गुणाऽलिङ्गोऽकर्मा च जात इत्यपि वक्तव्यम् । पुनः कथं भूतः । असम्भवोऽज्ञानिवदप्रारब्ध-निमित्तोत्पत्तिशून्यः । अत्र हेतुकथनाय लीनप्रकृतीत्यादिकम् । भावप्रधानो निर्देशः । लीना दग्धा प्रकृतिः स्वगुणाच्छादिकादिरूपा यस्य स तथोक्तस्तस्य भावो लीनप्रकृतित्वं च निर्गता गुणाः सत्त्वाद्या यस्मात्स निर्गुणस्तस्य भावो नैर्गुण्यं च तस्मात् । द्वन्द्वैकवद्भावः । अलिङ्गत्वाद् दग्धसूक्ष्मलिङ्ग-शरीरत्वत् । उपलक्षणमेतत् । दग्धप्रारब्धकर्मत्वाच्चेत्यपि द्रष्टव्यम् । पुनः कथं भूतः । निर्मथिताशेष-कषायधिषणो नितरां मथिता नाशिता अशेषकषाया दुष्टप्रारब्धफलेत्कर्षा यस्याः सामर्थ्यत्सा धिषणा ब्रह्मापरोक्षबुद्धिर्यस्य स तथोक्तः । ज्ञानस्य सामर्थ्येन नाशितदुष्टप्रारब्धफलोत्कर्ष इति यावत् । ज्ञानोत्पत्तिकालमारभ्यैवं भूतोऽर्जुनो भगवता श्रीकृष्णेन सङ्ग्राममूर्धनि सङ्ग्रामस्यादौ गीतोपदेशेन यत्ज्ञानं गीतमुत्पादितं तत्कालकर्मतोरुद्धं दुष्टप्रारब्धोपोद्बलितेन द्वापरान्त्यादिरूपकालेन दग्धेन्धनसदृशेन तमोगुणेन च रुद्धमव्यक्तं पुनरध्यगमत्प्रारब्धपुण्येन व्यक्तीचकार । ततो विशोको बन्धुमरणादिजन्य-शोकशून्यो जात इति ॥ ३ ॥

निशम्य भगवन्मार्गं संस्थां यदुकुलस्य च ।

स्वःपथाय मतिं चक्रे निवृत्तात्मा युधिष्ठिरः ॥ ४ ॥

पदरत्नावली

एवं यादवसंस्थां श्रीकृष्णस्य स्वधामप्राप्तिच्च अभिधाय पाण्डवस्वर्याणमुपक्रमते- निशम्येति ॥ भगवतः श्रीकृष्णस्य स्वधामगमनप्रकारं यदुकुलस्य संस्थां विनाशञ्च श्रुत्वा निवृत्तात्मा राज्यादिभ्यो व्यावृत्तमनाः । नितरां वृत्ते सदाचारे आत्मा यस्येति वा । युधिष्ठिरः कामक्रोधादि-जयलक्षणयुद्धे स्थिरः स्वःपथाय स्वर्गमार्गाय वीराध्वने मतिं चक्रे इत्यन्वयः ॥ ४ ॥

प्रकाशिका

भगवन्मार्गं श्रीकृष्णस्य स्वधामगमनप्रकारम् । संस्थां नाशम् । निवृत्तात्मा राज्यादिभोगव्यावृत्तमनाः । स्वःपथाय स्वर्गमार्गाय ॥ ४ ॥

यदा मुकुन्दो भगवानिमां महीं

जहौ स्वतन्वा श्रवणीयसत्कथः

तदा हरावप्रतिबुद्धचेतसा-

मभद्रहेतुः कलिरन्ववर्तत ॥ ५ ॥

पदरत्नावली

स्वर्याननिर्णये कारणमाह- यदेति ॥ यदा श्रवणीयसत्कथः मुकुन्दः स्वतन्वा स्वाभिन्नया मूर्त्या इमां महीं जहौ त्यक्तवान् तदा हरौ अप्रतिबुद्धचेतसां हरिविषयप्रबोधरहितबुद्धीनां पुंसाम् अभद्रहेतुः पापकारणं कलिर् अन्ववर्ततेत्यन्वयः ॥ ५ ॥

प्रकाशिका

स्वर्याननिर्याणं राजा कस्मात्कृतवानित्यत आह- यदेति ॥ स्वतन्वा स्वरूपभूत-मूर्त्या । हरौ विषये । प्रतिबुद्धं जाग्रत् । न प्रतिबुद्धमप्रतिबुद्धं तादृशं चेतो येषां ते तथा तेषाम् । अभद्राणां पापानां हेतुर् अन्ववर्तत स्वेच्छानुसारेण प्रवर्तितवान् ॥ ५ ॥

युधिष्ठिरस्तत्परिसर्पणं बुधः

पुरे च राष्ट्रे च गृहे तथात्मनि ।

विभाव्य लोभानृतजिह्यहिंसना-

द्यधर्मचक्रं गमनाय पर्यधात् ॥ ६ ॥

पदरत्नावली

बुधः विवेकज्ञानी युधिष्ठिरः राज्ये पुरे च गृहे भर्यादौ च तथा आत्मनि स्वस्मिंश्च तस्य कलैः परितः सर्पणं व्याप्तिं विभाव्य ज्ञात्वा कलिव्याप्तिमूलं लोभाद्यधर्मसमुदायञ्च विज्ञाय गमनाय वीराध्वयात्रायै पर्यधान् निश्चितवानित्येकान्वयः । ‘प्रणिधानन्तु निक्षेपः परिधानं तु निश्चये’ इत्यभिधानात् । लोभश्च अनृतश्च जिह्मं कौटिल्यञ्च लोभानृतजिह्महिंसानि आदिर्यस्य पारुष्यादेस् तत्तथोक्तम् ॥ ६ ॥

प्रकाशिका

बुधो विवेकज्ञो युधिष्ठिरस्तस्य कलेः परिसर्पणं प्रसर्पणम् । व्याप्तिमिति यावत् । विभाव्य ज्ञात्वा । कथंभूतम् । लोभाद्यधर्मचक्रं समूहो यस्मात्तत् । चिम्हं कोटिल्यम् । गमनाय स्वर्गं प्रति गमनाय । पर्यधान्निश्चितवान् प्रणिधानं तु निक्षेपः परिधानं तु निश्चय इत्यभिधानात् ॥ ६ ॥

स्वराट् पौत्रं विनीतन्तमात्मनोऽनवमं गुणैः ।

तोयनीव्याः पतिं भूतेरभ्यषिञ्चद्गजाह्वये ॥ ७ ॥

तात्पर्यम्

पौत्रत्वे योग्यत्वमनवमत्वम् । इन्द्राद्युत्तमताऽन्येषां समता वा स्वके कुले । उत्तमत्वमुपास्त्यादियोग्यता या (योग्यता वा) निगद्यते ॥ इति च ब्रह्मतर्के ॥ ७ ॥

पदरत्नावली

स्वराट् चक्रवर्ती । स्वपौत्रत्वे गुणै अनवमं योग्यं पौत्रम् अभिमन्योः सुतं परीक्षितम् । तोयमेव नीवी वसनं यस्याः सा तथोक्ता तस्याः ॥ ७ ॥

प्रकाशिका

स्वरट् चक्रवर्ती । आत्मनः स्वस्य गुणैरनवमं विनीतं विनयवन्तम् । पौत्र-मभिमन्युसुतम् । तोयं सर्वतः स्थितं समुद्रोदकं नीवी परिधानविशेषो यस्यास्तस्या भूमे पतिं पतित्वेनाभ्यषिञ्चदभिषिक्तवान् । अत्र स्वस्य गुणैरनवममित्येतद्बाधितार्थकम् । परीक्षितः क्षितिपतित्वेन देवोत्तमापेक्षयाऽतिनीचत्वादतोऽत्र विवक्षितं तात्पर्यमाह- पौत्रत्व इति ॥ तथा चात्मानो देवावतारस्य स्वस्य गुणैः पौत्रत्वयोग्यतापादकैर्धर्मैर्हर्युपास्त्यादिरूपैरनवममनवरं पूर्णम् । तद्योग्यमिति यावत् । इति व्याख्येयमिति भावः । अत्र प्रमाणमाह- इन्द्राद्युत्तमेति ॥ मानुषादावुत्पन्नानामिन्द्राद्यपेक्षयोत्तमता समता वा । अन्येषां तत्कुलप्रसूतानां नीचानाम् । यद्युच्यत इति शेषः । तदा स्वके कुले । अत्र स्वशब्दः पूर्वोक्तनीचपरः । स्वसम्बन्धिकुलमध्ये य इन्द्रादिः स्वकुले जातोऽस्ति तं परित्यज्येतर-कुलापेक्षया हर्युपास्त्यादियोग्यताया उत्तमत्वं यत्तत्पौत्रत्वयोग्यतापादकगुणरूपं तदेव तत्र निगद्यते तात्पर्यतः प्रतिपाद्यते । ननु तत्रोत्पन्नदेवापेक्षयोत्तमत्वं समत्वञ्चेत्यर्थः । उत्तमत्वमुपास्त्यादियोग्यताया इत्येव पाठः स्वरस इति प्रतिभाति । उपास्त्यादियोग्यता वेति पाठे वाशब्दोऽवधारणार्थः । तथा च स्वके कुले देवेतरस्वकुलीनापेक्षया हर्युपास्त्यादियोग्यता सप्तम्यर्थे प्रथमा । तद्विषये उत्तमत्वमेव निगद्यत इति व्याख्येयम् ॥ ७ ॥

मधुरायां ततो वज्रं शूरसेनपतिं ततः ।

प्राजापत्यां निरूप्येष्टिमग्नीनपिबदीश्वरः ॥ ८ ॥

पदरत्नावली

मधुपुर्याम् अनिरुद्धपुत्रं नाम्ना वज्रं शूरसेनविषयपतिं, अभ्यषिञ्चदिति शेषः । प्राजापत्यां प्रजापतिदैवत्या इष्टिं निरूप्य सर्वस्वदक्षिणाम् इष्टिं कृत्व त्रेताग्नीनपिबद् आत्मनि समारोपयामास । स कीदृशः ? ईश्वरः राज्यादिषु निर्विद्य न्यसने समर्थः ॥ ८ ॥

प्रकाशिका

मूले वज्रम् अनिरुद्धस्य सुतम् । अभ्यषिञ्चदित्यस्यानुकर्षणार्थस्तथाशब्दः । प्राजापत्यां प्रजापतिदैवेत्याम् । निरूप्य कृत्वा । अग्नीन् गार्हपत्यादीन् । अपिबदात्मन्यारोपयामास । ईश्वरः । क्षितेरिति शेषः । राज्यं परित्यज्य गमने समर्थ इति वा ॥ ८ ॥

विसृज्य तत्र तत्सर्वं दुकूलवलयादिकम् ।

निर्ममो निरहङ्कारः सञ्च्छिन्नाशेषबन्धनः ॥ ९ ॥

पदरत्नावली

तदेवाह- विसृज्येति ॥ सञ्च्छिन्नाशेषाशापाशादिबन्धनः ॥ ९ ॥

प्रकाशिका

सञ्च्छिन्नान्यशेषाणि बन्धनानि विषयस्नेहरूपाणि येन सः ॥ ९ ॥

वाचं जुहाव मनसि तत्प्राण इतरे परम् ।

धृत्या ह्यपानं सोत्सर्गं तत्परत्वे ह्यजोहवीत् ॥ १० ॥

त्रित्वे हुत्वाऽथ पञ्चत्वं तच्चैकत्वेऽजुहोन्मुनिः ।

सर्वमात्मन्यजुहवीद्ब्रह्मण्यात्मानमव्यये ॥ ११ ॥

तात्पर्यम्

प्राणमपाने तं व्याने । समानोदानौ तेषु । तांश्च मूलप्राणे । आत्मा हृदिस्थो विष्णुः । ब्रह्म सर्वगतम् ।

उमा वागात्मिका रुद्राज्जाता सा मनआत्मनः । प्राणाह्वयात् स वायोश्च सोऽपानादात्मरूपतः ॥

स्वरूपादेव स व्यानादुदानो व्यानतस्तथा । तस्मात् समानो व्यानाच्चाप्यपानः प्राण एव च ॥

अपानात् तिसृभिश्चापि समानोदानयोर्जनिः । त्रयाणामथ पञ्चानामनाद्वा प्राणतो भवः ॥

एकस्यैव स्वरूपाणि प्राणस्यैतानि पञ्च च । स च प्राणो हरेर्जातो हृदिस्थादात्मनो मतः ॥

स आत्मा ब्रह्मणो जातो विश्वरूपाज्जनार्दनात् । एतेषां ब्रह्मपर्यन्तं विलयोत्पत्तिचिन्तनम् ॥

ब्रह्मयज्ञ इति प्रोक्तः सर्वसंसारमोचकः ॥ इति नारायणाध्यात्मे ।

अस्यास्मिन् विलयो भावीत्येवं विज्ञानमाहुतिः । न तु तत्कालविलयस्त्वन्यो वा तस्य दर्शनात् ॥ इति ब्रह्मतर्के ॥ १०-११ ॥

पदरत्नावली

स्वमरणकाले एतच्चिन्तनीयमित्यभिप्रेत्य तत्कृतमित्याह- वाचमिति ॥ वाचं वागभिमानिनीम् उमां मनसि मनोभिमानिनि रुद्रे जुहाव । अस्या अस्मिन् लयः भावीत्यचिन्तयत् । न तु तदानीं कृतवानित्यर्थः । तन् मनः प्राणे मनःकारणे जुहाव । मनसः परम् उत्तमं प्राण इतरे इतरस्मिन् अपाने उत्सर्गकर्माभिमानिनि जुहाव । धृत्या मनस एकाग्रतया सोत्सर्गं सवृत्तिकम् अपानं तत्परत्वे तस्मादपानात् पूर्वभाविनि व्याने अजोहवीत् । हि तथाहि ग्रन्थान्तरप्रसिद्धिः ॥

अथ व्यानापानलयचिन्तनानन्तरम् अवशिष्टावुदानसमानौ त्रित्वे त्रित्वसङ्ख्याविशिष्टेषु स्वकारणेषु प्राणापानव्यानेषु हुत्वा लयं विचिन्त्य तच्च पञ्चत्वं पञ्चत्वसङ्ख्याविशिष्टान् प्राणापानव्यनोदानसमानांश्च एकत्वे एकत्वसङ्ख्याविशिष्टे पञ्चानां कारणे मूलप्राणे अजुहोत् । मुनिर् मौनी । तत् पूर्वोक्तं सर्वं तस्य मूलप्राणस्यापि कारणे आत्मनि स्वहृदि स्थिते विष्णौ अजुहोत् । तञ्चात्मानम् अव्यये विनाशरहिते ब्रह्मणि सर्वगते तदभिव्यक्तिकारणे विष्णौ अजुहोदित्येकान्वयः । अत्र वागादीन्द्रियाणां तदभिमानि देवशरीराणाञ्च अग्रावाज्यलयवत् स्वकारणेषु विलय एवेति ज्ञातव्यम् ॥ १०,११ ॥

प्रकाशिका

श्रुत्यादौ मरणकाले चिन्तनीयतयोक्तं यद्वागादिलयादिकं तत्तेन चिन्तितमित्याह- वाचमिति ॥ इदं श्लोकद्वयं दुर्गमार्थत्वाद्व्याख्याति- प्राणमिति ॥ इतरे परमित्यस्यार्थः । प्राणमपाने इति ॥ तमपानं व्यान इत्यनेनापानं तत्परत्वे इत्येतद्विवृतम् । तस्मादपानात्परत्वे धर्मिप्रधानो निर्देषः- परे व्यान इति ॥ त्रित्वे हुत्वा । अथेत्यस्य व्याख्यानं तेषु प्राणापानव्यानेषु समानोदानाविति । अनेन त्रित्वेति भवितृप्रधानो निर्देशः । उक्तेषु त्रिष्वित्यर्थः । अथानन्तरं विद्यमानौ समानोदानाविति । अथशब्दार्थतया समानोदानौ ग्राह्याविति सूचयति । तच्च पञ्चत्वमेकत्वे इत्यस्य विवरणम् । तांश्च मूलप्राण इति । अत्रापि पञ्चत्वैकत्वशब्दौ भवितृप्रधानौ । एवं च तांश्च मुख्यप्राणावतारभूतान् पञ्चप्राणादीन् एकस्मिन्मूलप्राणे मूलरूपे मुख्यप्राण इत्यर्थ इति भावः । सर्वमात्मनीत्युक्तमात्मशब्दार्थं दर्शयति- आत्मेति ॥ तथा च सर्वेषामात्मनि हृदि स्थिते विष्णौ मूलप्राणमित्यध्याहृत्य व्याख्येयमिति भावः । ब्रह्मण्यात्मानमित्यत्र ब्रह्मशब्दविवक्षितमर्थं दर्शयति- ब्रह्मेति ॥ सर्वगतं व्यप्तम् । यथा चात्मानं हृदि स्थितं विष्णुं ब्रह्मणि व्याप्ते हराविति व्याख्येयमिति भावः ।

ननु यस्माद्यो जातः स तत्र लीयत इति हि सिद्धान्तः । अत्र च वागादेर्मनआदिजातत्वे भवेत्तेषां तत्र लयस्तदेव कुत इत्याशङ्कां परिहर्तुं वागादेर्मनआदिजातत्वे प्रमाणं दर्शयति- उमेति ॥ जडचिन्तनस्याप्रयोजनत्वात्तदभिमानिदेवताजन्मादिचिन्तनमेव मुमुक्षुणा कार्यमित्यभिप्रेत्योमादीनां ग्रहणम् । जातेत्यादावतस्तत्र लीयत इति लयोऽपि ग्राह्यः । वागात्मिका वागाभिमानिनी वाक्शब्दवाच्या च । एवं मन आत्मनो रुद्रादित्येतदपि व्याख्येयम् । प्राणाह्वयाद्वायोर्मुख्यवायोः सकाशाद्रुद्रो जातस्तत्र लीयते च । एवमग्रेऽपि । आत्मरूपतः स्वस्वरूपतोऽपानात् । प्राणः सोऽपानः । अत्र सोऽपानादात्मरूपत इत्यादिना प्राणादीनामपानजातत्वोक्त्या मूले चशब्देन सूचिता ग्रन्थान्तरोक्ताः प्राणादीनामपानादौ लयचिन्तनप्रकारा उपपादिता इति ज्ञातव्यम् । अत्र प्रकारद्वयम् । व्याना-दपानस्यापानाच्च प्राणस्य जातत्वोक्त्या प्राणस्यापानेऽपानस्य व्याने लय इत्येकः प्रकारः । व्यानादुदान-स्योदानात्समानस्य जन्मोक्त्या समानस्योदाने उदानस्य व्याने लय इत्यपर इति । प्रकारान्तरमप्याह- व्यानाद्वेति ॥

तथा चात्र व्यानात्समानस्याप्युत्पत्तिकथनेन व्याने समानोदानयोर्लय उक्त इति ज्ञातव्यम् । अन्यमपि प्रकारमाह- अपानः प्राण एव चापानादिति ॥ अपानादेवापानः प्राणश्चेतीमौ जातौ तस्मादपाने एव तौ लीयते इति । त्रित्वे हुत्वाऽथेत्यस्योपपादनम् । तिसृभिरिति ॥ प्राणापानव्यानाख्याभिस्तिसृभिः । मूर्तिभिरिति शेषः । अथेत्यनुवादेन समानोदानयोरिति व्याख्यानम् । अतः समानोदानौ तासु लीयते इति भावः । ग्रन्थान्तरोक्तं प्रकारान्तरमाह- त्रयाणामिति ॥ प्राणापानव्यानानामनाह्वयान्मुख्यवायुनामकान्मूलरूपात्प्राणभवोऽतस्तत्रैव लय इति । तत्पञ्चकत्वमेकत्व इत्येतदुपपादयति- पञ्चानामिति ॥ प्राणादीनां पञ्चानां मूलरूपात्प्राणतो भवोऽतस्तत्रैव लयश्चिन्तनीय इति । एवं जन्यजनकभावेन भेदशङ्कायामाह- एकस्यैवेति ॥ तथाऽपि रूपभेदेन । जन्यजनक-भावोपपत्तिरिति शेषः । चशब्देन त्रयाणां ग्रहणम् । सर्वमात्मनीत्यस्योपपादनम् । स चेति ॥ ब्रह्मण्यमात्मानमित्येतदुपपादनायाह- स आत्मेति ॥ जातो व्यक्तः । विश्वरूपात्सर्वत्र व्याप्तरूपा-दित्यर्थः । एवं चिन्तनस्य फलमाह- एतेषामिति ॥ वागादिब्रह्मपर्यन्तानामित्यर्थः । ननूक्तविलयस्य युधिष्ठिरचिन्तनकालेऽजातत्वात्कथमविद्यमानचिन्तनेन फलमुक्तमित्याशङ्कां प्रमाणेनैव परिहरति- अस्यास्मिन्निति ॥ विलयः सर्पदेहे प्रविष्टस्य भेकादेरिव । आहुतिर्होमस्तच्छब्दार्थ इत्यर्थः । अन्यो देवतामुद्दिश्य वन्हौ प्रक्षेपरूपः । कुत इत्यत आह- तस्येति ॥ तस्य वागादिब्रह्मपर्यन्तस्य युधिष्ठिर-चिन्तनानन्तरमपि दर्शनादित्यर्थः । अतो वागादेर्मन आदावध्यात्मं मरणकालेऽधिदैवं प्रलयकाले भाविविलयविज्ञानमेवात्रोच्यमानहोमशब्दार्थ इति भावः ।

ततश्चायं वाचं जुहावेत्यादि श्लोकद्वयार्थः । वाचं वागभिमानिनीमुमां मनसि तज्जनकमनोऽभि-मानिरुद्रे जुहाव । तत्र भाविलयं चिन्तितवान् । तन्मनस्तदभिमानिनं रुद्रं तज्जनके प्राणे प्राणवृत्तिप्रेरके मुख्यप्राणावतारे । जुहावेत्यत्रोत्तरत्र सम्बध्यते । परम्परापेक्षया पश्चाद्भाविनं प्राणं तज्जनके इतरे इतरस्मिन्नपाने । धृत्या मनोधैर्येण । एकाग्रतयेति यावत् । सोत्सर्गमुत्सर्गरूपवृत्तिसहितमपानम् । एवं वागादिष्वपि तत्तद्वृत्तिसाहित्यं ज्ञेयम् । तत्परत्वे । धर्मिप्रधानो निर्देषः । तत्पूर्वभाविति तज्जनके व्यानेऽजोहवीत् । तस्य तत्र भाविलयं चिन्तितवान् । हिशब्दद्वयं प्रमाणप्रसिद्धिद्योतकम् । अथानन्तरं विद्यमानावुदानसमानौ । त्रित्वे । अत्रापि धर्मिप्रधानो निर्देशः । त्रिषु तदुभयजनकेषु प्राणापानव्यानेषु हुत्वा भाविलयं विचिन्त्य तत्पञ्चत्वं प्राणादिपञ्चकमेकत्वे एतज्जनकप्राणनामकमुख्यवायौ मूलरूपेऽजुहोद् भाविलयं चिन्तितवान् । मुनिर्मौनी । सर्वमुक्तरीत्या सर्वेषां कारणं मूलप्राणमात्मनि तज्जनके हृदि स्थिते विष्णावजुहोत् । आत्मानं हृदि स्थितं विष्णुरूपम् । अव्ययेऽन्यत्राचिन्तनीयलये तदभिव्यक्तिकारणे ब्रह्मणि परिपूर्णेऽजुहोत् । ऐक्यं चिन्तितवानिति ॥ १०,११ ॥

चीरवासा निराहारो बद्धवाङ्मुखमूर्धजः ।

दर्शयन्नात्मनो रूपं जडोन्मत्तपिशाचवत् ।

अनपेक्षमाणो निरगादशृृणवन्बधिरो यथा ॥ १२ ॥

पदरत्नावली

चीरवासा वल्कलवस्त्रः । निराहारः मनुष्यान्नवर्जितः । बद्धवाक् वचनवृत्ति-विधुरः । मूर्धजाः केशाः । जडादिवद् आत्मनो रूपं दर्शयन् । बधिरो यथा तथा अश्रण्वन् । अत एवानपेक्षमाणः स्वयं गेहान्निरगादित्येकान्वयः ॥ १२ ॥

प्रकाशिका

एवमान्तरस्थितिमुक्त्वा बाह्यस्थितिमाह- चीरवासा इति ॥ चीरवासा वल्कलवस्त्रो बद्धवाङ्मौनी । अत एवानपेक्षमाणः । कस्यचिदाज्ञामिति शेषः । निरगात् । गेहादिति शेषः । बधिरो यथा तथा । अशृण्वन् ॥ १२ ॥

उदीचीं प्रविवेशाशां गतपूर्वां महात्मभिः ।

हृदि ब्रह्म ध्यायन्नावर्तेत गतो यतः ॥ १३ ॥

तात्पर्यम्

नावर्तेत वीरगतिं गतः ॥ १३ ॥

पदरत्नावली

यावच्छरीरपातं भुवं प्रदक्षिणीकृत्य निरन्तराटनमेव सङ्कल्प्य हृदि परं ब्रह्म ध्यायन् क्षत्रियैर् महात्मभिर् गतपूर्वाम् उदीचीम् आशाम् उत्तरां दिशं प्रविवेश । वीरगतिं गमिष्यन् यतो गतः नावर्तेत । यां वीरगतिं गतः पुनः नावर्तेत, तामित्यन्वयः ॥ १३ ॥

प्रकाशिका

उदीचीमाशामुत्तरदिक्स्थितं मार्गम् । यतो मार्गाद्गतो नावर्तेत । अत्रोदीचीदि-ग्गमनमात्रेण मुक्तिरुच्यत इति प्रतीतिनिरासाय तात्पर्यमाह- नावर्तेतेति ॥ नावर्तेत यतो गत इत्यनेन वीरगतिं वीराणां शरीरपातपर्यन्तं गमनमेव कार्यं न पुनरागमनमिति निश्चियवतां धीराणां गतिर्गमनं यस्मिन्नध्वन्यसौ वीरगतिस्तं वीराध्वानं गत इत्येवोच्यते न त्वपुनरावृत्तिरूपा मुक्तिरित्यर्थः । तथा च यतो मार्गाद्गतो नावर्तेत पुनर्गुहं प्रति प्रत्यावर्तनं न कुर्यात्तामुदीचीं दिशं तमुत्तरदिक्स्थितं मार्गं वीराध्वसंज्ञं प्रविवेशेति मूलं योज्यमिति भावः ॥ १३ ॥

सर्वे तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः ।

कलिनाऽधर्ममिश्रेण दृष्ट्वा स्पृष्टाः प्रजा भुवि ॥ १४ ॥

पदरत्नावली

भ्रातरः भीमसेनादयः । अधर्ममिश्रेण अधर्मप्रधानेन ॥ १४ ॥

प्रकाशिका

अधर्ममिश्रेणाधर्मप्रधानेन ॥ १४ ॥

ते साधुकृतसर्वार्था ज्ञात्वाऽऽत्यन्तिकमात्मनः ।

मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् ॥ १५ ॥

तात्पर्यम्

आत्मनः स्वरूपमात्यन्तिकं ज्ञात्वा ॥ १५ ॥

पदरत्नावली

आत्मनः परमात्मनः स्वरूपम् आत्यन्तिकं सर्वातिशयम् । अथवा आत्मनः स्वेषाम् आत्यन्तिकम् अन्तकाले कर्तव्यं ज्ञात्वा साधु सम्यक् कृता अनुष्ठिता धर्मादिसर्वार्था यैस्ते तथा । साधुना कर्मणा पुण्यलक्षणेन कृताश् छिन्ना निरस्ताः सर्वे अर्थाः शब्दादिविषया यैस्ते तथोक्ता इति वा । ‘कृ छेदन’ इति धातुः । अत्र हरौ मनोधारणा नाम अखण्डस्मरणमिति ज्ञातव्यम् ॥ १५ ॥

प्रकाशिका

साधु सम्यक् कृताः सम्पादिताः सर्वेऽर्थाः पुरुषार्था धर्मादयो यैस्ते साधुकृतसर्वार्थाः । आत्मन आत्यन्तिकमित्यस्य विशेषमध्याहृत्य योजयति- आत्मनः स्वरूपमिति ॥ तथा चात्मनः परमात्मनः । परमात्मस्वरूपमात्यन्तिकमत्यन्तश्रेयःसाधनं ज्ञात्वा वैकुण्ठचरणाम्बुज-माराधयामासुरित्यन्वय इति भावः ॥ १५ ॥

तद्ध्यानोद्रिक्तया भक्त्या विशुद्धधिषणाः परे ।

तस्मिन्नारायणपद एकान्तमतयोऽपतन् ॥ १६ ॥

पदरत्नावली

इत्थं नारायणचरणाम्बुजं हृदि सन्निधाय तद्ध्यानेन उद्रिक्तया भक्त्या विशुद्धमतयो ऽहोभिः सप्तभिर् भुवं प्रदक्षिणीकृत्य गन्धमादनगिरिवरे बदर्याख्यं नारायणाश्रमपदं प्राप्य तस्मिन् परे मनोहरे नारायणपदे नारायणाश्रमे एकान्तमतय एकान्तं नारायणं ध्यायन्तस् ते पाण्डवा अपतन् शरीराणि तत्यजुरित्यन्वयः । एकमनस्का वा ॥ १६ ॥

प्रकाशिका

परे सर्वोत्तमेऽपतन् । शरीराणि तत्यजुः ॥ १६ ॥

अवापुर्दुरवापन्ते असद्भिर्विषयात्मभिः ।

विधूतकल्मषस्थानं विरजेनात्मनैव हि ॥ १७ ॥

पदरत्नावली

शब्दादिविषयमनस्कैर् असद्भिर् अमङ्गलैः पुरुषैर्दुरवापं गन्तुमशक्यं निरस्त-जरामरणादिकल्मषं स्थानं स्वस्वमूलरूपं विरजेन रजआदिगुणात्मकलिङ्गशरीराभिमानरहितेन आत्मना मनसा उपलक्षितास् ते प्राप्ता इत्येकान्वयः । एवकारस्तु देवदूतदर्शितमायया युधिष्ठिरदृष्टभीमादिरोदना-पादकलोकं नापुरित्यस्मिन्नर्थे । न तु रजोमिश्रितात्मनेत्यत्र वा । हिशब्दस्तु न देषाद् देहपातः किन्तु प्रारब्धकर्मनाशादित्यस्मिन्नर्थे श्रुतिप्रसिद्धिं द्योतयति । श्रुतिरपि सकलसुरोत्तमशशिशकलमौलिपुरःसर-सुरगणैर् आराधितचरणैः श्रीभगवत्पादैः सकलपुराणसारसंग्रहगृहे श्रीमन्महाभारततात्पर्यनिर्णये उदाहृता नास्माभिरत्रोदाह्रियते । ग्रन्थबाहुल्यभयादिति । ‘विदुरोऽपि परित्यज्ये’ति प्रक्षेपश्लोकः ॥ १७ ॥

प्रकाशिका

विषयात्मभिर्विषयासक्तमनस्कैः । दुरवापमाप्तुमशक्यं स्थानं स्वमूलरूपं स्थानं विरजेन विगतदोषेणात्मना मनसैव । अवधारणं मनसः प्रधानसाधनत्वद्योतनाय । हिशब्दः प्रमाण-प्रसिद्धिद्योतकः ॥ १७ ॥

द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् ।

वासुदेवे भगवति एकान्तमतिरापतत् ॥ १८ ॥

पदरत्नावली

अनपेक्षतां देहाद्यनभिमानताम् । एकान्तमतिर् एकाग्रचित्ता ॥ १८ ॥

प्रकाशिका

अनपेक्षतां देहाद्यनभिमानिनाम् । एकान्तमतिस्तारतम्यान्तगतत्वेन ज्ञानवती । अत्र क्रमो न विवक्षितः । भारते द्रौपदीदेहस्यादावेव पातोक्तेः ॥ १८ ॥

यः श्रद्धयैतद्भगवत्प्रयाणं पाण्डोः सुतानामपि संप्रयाणम् ।

शृणोत्यलं स्वस्त्ययनं पवित्रं लब्ध्वा हरौ भक्तिमुपैति शान्तिम् ॥ १९ ॥

॥ इति श्रीमद्भागवते प्रथमस्कन्धे पञ्चदशोऽध्यायः ॥

पदरत्नावली

श्रीकृष्णपाण्डवानां स्वधामप्रवेशश्रवणादिना किं प्रयोजनं येनात्रावश्यं वक्तव्यं स्यादिति तत्राह- य इति ॥ य एतद् भगवत्स्वधामप्रयाणं तद्भक्तानां पाण्डवानाञ्च प्रयाणादिकं शृृणोति स हरौ भक्तिं लब्ध्वा शान्तिं मुक्तिम् उपैति इत्यन्वयः । अलं त्रिकरणशुद्ध्या ॥ १९ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे पञ्चदशोऽध्यायः ॥

प्रकाशिका

उक्तकथाश्रवणफलमाह- य इति ॥ अलं मनःशुद्ध्याद्यतिशयेन स्वस्त्ययनं मङ्गलास्पदम् । शान्तिं मुक्तिम् ॥ १९ ॥

**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां पञ्चदशोऽध्यायः ॥ १-१५ ॥