१४ चतुर्दशोऽध्यायः

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः

अथ चतुर्दशोऽध्यायः

सूत उवाच—

एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः ।

नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्शितः ॥ १ ॥

शोकाग्निशुष्यद्वदनहृत्सरोजं हतप्रभम् ।

विभुं तमेवानुध्यायन्नाशक्नोत्प्रतिभाषितुम् ॥ २ ॥

पदरत्नावली

भगवति भक्तिविधानार्थं दुःखकथनव्याजेन तन्महिमा प्रतिपाद्यतेऽस्मिन्नध्याये । कृष्णस्य विश्लेषेण वियोगेन कर्शितः । उक्तनानाशङ्काया आस्पदं शोकाग्निना शुष्यती वदनहृत्सरोजे यस्य तत्तथोक्तम् । अत एव हतप्रभं नष्टकान्तिरूपम् आकारं दृष्ट्वा भ्रात्रा राज्ञा विकल्पित एवं वा नैवं वेति बहुकोटिविषयीकृतस् तमेव विभुम् अनुध्यायन् निरन्तरं चिन्तयन् कृष्णस्य सखा अर्जुनः प्रतिभाषितुं नाशक्नोदित्येकान्वयः ॥ १,२ ॥

प्रकाशिका

कृष्णोऽर्जुनो रूपं शरीरं नानाशङ्कास्पदम् । आलक्ष्येति शेषः । विकल्पितो विकल्पप्रश्नकोटीकृतः । लोकानां नानाशङ्कास्पदं यथास्यात्तथा विकल्पित इति वा । प्रतिभाषितुं नाशक्नोदित्युत्तरेणान्वयः । तत्र हेतवः कृष्णविश्लेषकर्षित इत्यादयः । कृष्णस्य विश्लेषो वियोगस्तेन वशीकृतः ॥

शोकेन हेतुना । वदनं च हृच्च । ते एव सरोजे । शुष्यती वदनहृत्सरोजे यस्य स तथोक्तः

॥ १,२ ॥

कृच्छ्रेण संस्तभ्य शुचः पाणिनाऽऽमृज्य नेत्रजम् ।

पारोक्ष्येण समुन्नद्धप्रणयौत्कण्ठ्यकातरः ॥ ३ ॥

पदरत्नावली

शोकहेतूनामनेकत्वाद् बहुवचनं- शुचः शोकान् । कृच्छ्रेण संस्तभ्य, पाणिना नेत्रजमश्रु आमृज्य कृष्णस्य परोक्ष्येणाप्रत्यक्षत्वेन समुन्नद्धेन समृद्धेन प्रणयेन कदानुपश्येयमित्यौ-त्कण्ठ्येन कातरो विवशः ॥ ३ ॥

प्रकाशिका

शुचः शोकान् । शोकहेतूनामनेकत्वाद्वहुवचनम् । नेत्रजमश्रु पाणिनाऽऽमुज्य । पारोक्ष्येण कृष्णस्य दर्शनागोचरत्वेन हेतुना । समुन्नद्धं सम्यगभिवृद्धम् । यत्प्रणयेन स्नेहेनौत्कण्ठ्येन कातरो विवशः ॥ ३ ॥

सख्यं मैत्रीं सौहृदं च सारथ्यादिषु संस्मरन् ।

नृपमग्रजमित्याह बाष्पगद्गदया गिरा ॥ ४ ॥

पदरत्नावली

सारथ्यादिषु कर्मसु सख्यादिकं सम्यक् स्मरन्नर्जुनः बाष्पेण निमित्तेन गद्गदया स्खलन्त्या गिरा अग्रजं नृपं, इति वक्ष्यमाणप्रकारेण,आहेत्येकान्वयः ॥ ४ ॥

प्रकाशिका

सारथ्यादिषु कर्मसु सख्यं हितैषिताम् । मैत्रीमुपकारितां क्लेशस्थानं निरूप्य रक्षकताम् । सौहृदं प्रत्युपकारमनपेक्ष्य उपकारकत्वम् । बन्धुत्वं स्नेहं वा । बाष्पेण कण्ठावरोधा-द्गलन्त्यास्खलन्त्या ॥ ४ ॥

अर्जुन उवाच—

वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा ।

येन मेऽपहृतं तेजो देवविस्मापनं महत् ॥ ५ ॥

पदरत्नावली

देवानपि विस्मापयतीति देवविस्मापनम् । महान् तेजः सामर्थ्यलक्षणं येन कृष्णेन अपहृतं सहैव नीतं तेन बन्धुरूपिणा प्रधानबन्धुना हरिणा अर्जुनोऽहं वञ्चित इत्येकान्वयः । वञ्चित इति हरौ न दोष आरोप्यते । किन्तु तेन वियुक्त इति तद्वियोगमात्रम् । वियोगोऽपि गृहीतमानुषाकारेण । न साक्षात्, सर्वदा हृदि सन्निहितत्वात्तस्येत्यभिप्रायेण बन्धुरूपिणेत्युक्तम् । तस्माच्छोकाच्छून्योऽस्मीति भावः

॥ ५ ॥

प्रकाशिका

वञ्चित इति वचनं प्रलापरूपम् । तेजः सामर्थ्यम् । देवानपि विस्मापयतीति देवविस्मापनम् । अपहृतं सहैव नीतम् ॥ ५ ॥

यस्य क्षणवियोगेन लोको ह्यप्रियदर्शनः ।

उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा ॥ ६ ॥

पदरत्नावली

एतमर्थं सदृष्टान्तमाह- यस्येति ॥ यथा उक्थेन प्राणेन रहित एषः देहः मृतकः कुणप इति प्रोच्यते । तया यस्य कृष्णस्य क्षणवियोगेन लोकोऽपि अप्रियम् अमङ्गलं पश्यतीति अप्रियदर्शनः हि यस्मात् तस्मात् शून्यत्वमित्यर्थः । प्राणत्यागे पित्रादिशरीरमपि पुत्रादेर् अप्रियत्वा-द्बहिर्भूमौ निक्षिप्यते यथा, तथा अहमपि बन्धुभिर् अप्रियत्वाद् अवज्ञातवद् दृष्ट इति भावः । ममायं लोके देहो ऽप्रियदर्शनो जात इति वा । प्रथमहिशब्देन प्राणवियुक्तदेहस्य कुणपत्वं श्रुतिसिद्धमिति दर्शयति न केवलमहमेवाप्रियदर्शनः । किन्तु अयं लोको बन्धुजनः द्वारवत्यादिप्रदेशो वा इति वा । उक्थेन पित्रादिना वियुक्त एष बन्धुजनोऽपीति वा दृष्टान्तयोजना ॥ ६ ॥

प्रकाशिका

यस्येत्यादि यच्छशब्दानां तेनाहमद्य मुषित इति वक्ष्यमाणेन तच्छब्देनान्वयः । लोको भूलोकः । अप्रियतया हेयतया दृश्यत इत्यप्रियदर्शनः । अत्र दृष्टान्तमाह- उक्थेनेति ॥ प्राणेनेत्यर्थः । एष पित्रादिदेहो मृतकः शव इति प्रोच्यतेऽत एवाप्रियत्वेन दृश्यते ॥ ६ ॥

यत्संश्रयात्द्द्रुपदगेह उपागतानां

राज्ञां स्वयंवरमुखे स्मरदुर्मदानाम् ।

तेजो हृतं खलु मया विहतश्च मत्स्यः

सज्जीकृतेन धनुषाऽधिगता च कृष्णा ॥ ७ ॥

पदरत्नावली

‘यत्संश्रयात्’ ‘यत्सन्निधौ’ इत्यादि ‘यदनुभावनिरस्तचित्ता’ इत्यन्तानां श्लोकानां ‘तेनाहमद्यमुषित’ इति मध्यगतलोकेन मध्यकुलकन्यायेनान्वयः । यत्संश्रयाद् यस्य कृष्णस्य सेवाबलाद् द्रुपदगेहे पाञ्चालपुरे स्वयंवरमुखे स्वयंवरश्रेष्ठे उपागतानां मिलितानां स्मरेण कारणेन जातो दुष्टो मदो येषां ते तथोक्तास् तेषां राज्ञां जरासन्धादीनां तेजो ऽभिमानलक्षणं मया ईदृशेन हृतं खलु । किञ्च सज्जीकृतेन धनुषा यन्त्रविहितो मत्स्यः विहतः पातितश्च । किञ्च मया कृष्णा द्रौपदी च अधिगता । वेदाध्ययनवदादरेण प्राप्ता इत्येकान्वयः ॥ ७ ॥

प्रकाशिका

मैत्रीं संस्मरन्नित्युक्तमेव विशदयति- यत्संश्रयादिति दशभिः ॥ यस्य कृष्णस्य संश्रयाद्बलात् । द्रुपदगेहे उपागतानां मिलितानां स्मरेण निमित्तेन जातो दुष्टो मदो येषां ते तथोक्तास्तेषाम् । तेजः प्रभावो हृतमपहृतम् । केन सज्जीकृतेन धनुषा धनुषः सज्जीकरणेनेत्यर्थः । पश्चात्तेनैव मत्स्यो यन्त्रोपरि लक्ष्यतया स्थापितोऽभिहतो विद्धश्च । अधिगता प्राप्ता च ॥ ७ ॥

यत्सन्निधावहमु खाण्डवमग्नयेऽदा-

मिन्द्रञ्च सामरगणं तरसा विजित्य ।

लब्धा सभा मयकृताऽद्भुतशिल्पमाया

दिग्भ्योऽहरन्नृपतयो बलिमध्वरे ते ॥ ८ ॥

पदरत्नावली

यस्य सन्निधौ अहमेव अमरगणैः सह वर्तमानम् इन्द्रञ्च तरसा वेगेन बलेन वा विजित्य खाण्हवाख्यं वनमपि यचमानायाग्नये अदां दत्तवानस्मि । अद्भुतानि शिल्पानि स्थले जलप्रत्ययादीनि मायाश्च यस्यां सन्ति सा तथोक्ता मयनाम्ना तक्ष्णा कृता सभा मया लब्धा । यत्सन्निधानविशेषादिति योज्यम् । ते तव अध्वरे यज्ञे राजसूयलक्षणे दिग्भ्य आगता नृपतयः बलिं ते तुभ्यम् अहरन् ददुरित्यन्वयः ॥ ८ ॥

प्रकाशिका

अहम् उ खाण्डवमिति पदच्छेदः । उशब्दो विस्मये । खाण्डवसंज्ञकमिन्द्रस्य वनम् । अदां दत्तवानसि । खाण्डवदाहे रक्षितेन मयेन कृता सभा च यत्सन्निधावेव लब्धा । कथं भूता सभा । अद्भुतशिल्पमाया अद्भुतानि शिल्पानि जले स्थलबुद्धिजनिकादिमायाश्च यस्यां सा । यत्सन्निधावेव तेऽध्वरे राजसूये यागे दिग्भ्य आगता नृपतयः बलिं करमहरन्ददुः ॥ ८ ॥

यत्तेजसा(यत्सन्निधौ) नृपशिरोङ्घ्रिमहन्मखार्थ

आर्योऽनुजस्तव गदायुधसत्ववीर्यः ।

तेनाहृताः प्रमथनाथमखाय भूपा

यन्मोचिता(अभ्युदनयन्)व्युदनयन्बलिमध्वरे ते ॥ ९ ॥

पदरत्नावली

गदाख्यम् आयुधञ्च सत्वं हृदयसारञ्च वीर्यं वीरभावश्च, सत्वं मानसबलं वीर्यं कायबलं वा यस्य सः गदायुधसत्ववीर्यस् तवानुजः मम ज्ष्टोष्ठो भीमसेनः नृपशिरस्सु अङ्घ्रिर् यस्य सस् तथोक्तस् तं जरासन्धं यत्सन्निधौ अहन् हतवानित्यन्वयः । किमर्थं ? मखार्थे राजसूययज्ञमुद्दिश्य । जरासन्धेन तेन प्रमथनाथमखाय रुद्रमुद्दिश्य पुरुषमेधाख्ययज्ञाय आहृता गृहीता येन कृष्णेन मोचिताः, जरासन्धवधेनेति शेषः । भूपास् ते तव अध्वरे बलिम् अभ्युदनयन् अभिगम्यानीतवन्त इत्यन्वयः । ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः’ इत्यत्र अभेरप्युपसङ्ख्यानं कर्तव्यम् ॥ ९ ॥

प्रकाशिका

गदाख्यमायुधं सत्त्वं मनोबलं ज्ञानं वा वीर्यं शरीरबलं च यस्य स तथा । तवानुजो भीमः । यस्य कृष्णस्य तेजसा सामर्थ्येन नृपशिरःस्वङ्घ्रिर्यस्य तं जरासन्धं मखार्थमहन्हतवान् । तदभावे राजसूययागासम्भवान् । तेन जरासन्धेन प्रमथानां नाथो रुद्रस्तद्देवताकयज्ञाय हृताः पशुत्वेन कल्पिता यद्येन कृष्णेन मोचिताः सन्तस्ते तवाध्वरे बलिं व्युदनयन् अनीय दत्तवन्तः ॥ ९ ॥

पत्न्नयास्तवापि मखक्लृप्तमहाभिषेक-

श्लाघिष्ठचारुकबरं कितवैः सभायाम् ।

स्पृष्टं विकीर्य पदयोः पतिताश्रुमुख्यो

यैस्तत्स्त्रियो न्यकृत तत्त्सवि(स वि)मुक्तकेश्यः ॥ १० ॥

तात्पर्यम्

यत्पादयोः पतिताश्रुप्रधानो यैः कबरं स्पृष्टं तत्स्त्रियस् तत्पदयोः पतितत्वादेव । सह विमुक्तकेश्यो न्यकृत ॥ १० ॥

पदरत्नावली

कुरुसभायां तव पत्न््नया द्रौपद्या अपि राजसूयनामि्न मखे क्लृप्तेन कृतेन महाभिषेकेण श्लाघिष्टम् अतिशयेन श्लाघ्यम् अत एव रुचिरं कबरं केशबन्धनं यैर् अक्षकितवैर् दुःशासनादिभिः स्पृष्टं यत् तत्कबरं विकीर्य यत्पदयोः पतितायास् तस्या अश्रुमुख्यो ऽश्रुप्रधानः यः सस् तत् पदयोः पतितत्वादेव, तत्स्त्रियस् तेषां कितवानां स्त्रियः भार्या विमुक्तकेश्यः भीमाविद्धगदा-भग्नोरुदण्डान् स्वपतीनालिङ्ग्य रुदतीर् विकीर्णकेशपाशा न्यकृत नितरामकार्षीदित्येकान्वयः । अश्रुशब्द उभयलिङ्गोऽप्यस्ति धनुश्शब्दवत् ॥ १० ॥

प्रकाशिका

न केवलं मम भीमस्य च तेनोपकारः कृतः किन्तु तव पत्न््नया अपीत्याह- पत्न््नयास्तवापीति ॥ अत्र यत्सन्निधावित्यादाविव यच्छब्दाभावात्तेनाहमद्य मुषित इति वक्ष्यमाणेनान्वया-नुपपत्तिमालोच्य यच्छब्दमध्याहृत्य योजयति- यत्पादयोरिति ॥ यस्य कृष्णस्य पादयोरित्यर्थः । पतिताया इत्ययमध्याहारः न तु पतिताश्रुमुख्य इति समासान्तर्गतपतितशब्दव्याख्यानमिदं तस्य समस्तत्वेन पत्न््नया इत्यनेनान्वयानुपपत्तेः । तथा च यस्य कृष्णस्य पादयोः पतितायाः प्रणतायास्तव पत्न््नयास्तत्रैव पतितः प्रणत इव स्थितः । अश्रुलक्षणो मुखः प्रधानो मन्त्रीति मूलं व्याख्येयमिति सूचयति । तस्त्रिय इत्यत्र तच्छब्दपरामृश्यान्दर्शयति- यैः कबरमिति ॥ न्यकृतेत्यत्र हेतुकथनाय मूले तदित्युक्तम् । तद्व्याख्याति- तत्पदयोरिति ॥ तथा च तदित्यव्ययं तस्मादित्यर्थे । तस्य च तत्पदयोः पतितत्वादेवेत्यर्थ इत्युक्तं भवति । तथा चाश्रुलक्षणो मन्त्री स्वयमपि कृष्णपादौ प्रणम्य तत्सामर्थ्येनैव न्यकृतेति भावः । सविमुक्तकेश्य इत्यस्य व्याख्यानम् । सह विमुक्तकेश्य इति ॥ सहेत्यस्य युगपदेवेत्यर्थः । ततश्चायं श्लोकार्थः- यत्पादयोर्यस्य कृष्णस्य पादयोः पतिताया दुःखेन प्रणतायास्तत्र पतितः प्रणत इव स्थितः । अश्रुमुख्योऽश्रुलक्षणप्रधानः । मन्त्रीति यावत् । तव पत्न््नया मखे राजसूयनामके यज्ञे क्लृप्तेन कृतेन महाभिषेकेण श्लाघिष्ठमतिशयेन श्लाघ्यम् । अनेन पापिभिः स्प्रष्टुमयोग्यमिति सूचयति । चारु रुचिरं कबरं सभायां यैर्दुःशासनादिभिः कितवैर्विकीर्योन्मुच्य स्पृष्टमाकृष्टं तत्स्त्रियस्तेषां भार्यास्तस्मात्कृष्णपादयोः पतितत्वादेव । तत्प्रणामसामर्थ्येनेति यावत् । सविमुक्तकेश्यः सह विमुक्तकेशा वैधव्याद्युगपदेव मुण्डितकेशा न्यकृत नितरां चकारेति ॥ १० ॥

यत्तेजसाऽथ भगवान्युधि शूलपाणि-

र्विस्मापितः स गिरिशो(सगिरिजो)ऽस्त्रमदान्निजं मे ।

अन्येऽपि चाहममुनैव कलेवरेण

प्राप्तो महेन्द्रभवने महदासनार्थ(र्ध)म् ॥ ११ ॥

पदरत्नावली

यत्तेजसा यस्य तेजसा युधि वराहनिमित्तयुद्धे विस्मापितः विस्मयं गामितः शूलं पाणौ यस्य सः शूलपाणिः सः गिरिशः निजम् अस्त्रं पाशुपताख्यं मे मह्यम् अदादित्यन्वयः । अन्ये लोकपाला अपि, स्वं स्वम् अस्त्रम् अदुरिति शेषः । अपि च अर्जुनोऽहम् अमुनैव कलेवरेण नान्येन महेन्द्रभवने अमरावत्यां महतो देवेन्द्रस्यासनार्धं प्राप्त इत्येकान्वयः । अथान्यच्च श्रीकृष्णस्य माहात्म्यं वक्ष्यामि विशेषत इति अथशब्दार्थः ॥ ११ ॥

प्रकाशिका

पुनः सस्य कृष्णकृतमुपकारं स्मरति- यत्तेजसेति ॥ यस्य कृष्णस्य तेजसा सामर्थ्येन । अथशब्दः समुच्चयार्थः । युधि वराहनिमित्ते युद्धे विस्मापितो विस्मयं गमितः । शूलं पाणौ यस्य सः शूलपाणिः प्रसिद्धो गिरिशः । सगिरज इति पाठे गिरिजा पार्वती तया सहित इत्यर्थः । निजमस्त्रं पाशुपताख्यं मे मह्यमदात् । अन्ये लोकपाला अपि स्वास्त्राण्यदुरिति शेषः । महेन्द्रभवने स्वर्गे । महतो देवेन्द्रस्यासनार्थं सिंहासनार्थं प्राप्तोऽधिरूढोऽस्मि ॥ ११ ॥

तत्रैव मे विहरतो भुजदण्डयुग्मं

गाण्डीवलक्षणमरातिवधाय देवाः ।

सेन्द्राः श्रिता यदनुभावितमाजमीढ

तेनाहमद्य मुषितः पुरुषेण भूम्ना ॥ १२ ॥

पदरत्नावली

येन कृष्णेन अनुभावितं प्रवृद्धबलवत्कृतं गाण्डीवज्याघातलाच्छनं भुजदण्डयुग्मं श्रिताः । के ? इन्द्रेण सह वर्तमाना देवा अरातिवधाय निवातकवचनाम्नां शत्रूणां हननाय । कस्य भुजदण्डयुग्मं ? तत्र महेन्द्रभवन एव विहरतः क्रीडमानस्य मे मम ॥ १२ ॥

प्रकाशिका

तत्रैव स्वर्ग एव । विहरतः क्रीडमानस्य मे । गाण्डीवं लक्षणं चिह्नं यस्य तत् । यदनुभावितं येन कृष्णेनानुभावितं प्रभावयुतं कृतम् । भुजलक्षणं दण्डयुगलम् अरातयो निवातक-वचनामानोऽसुरास्तेषां वधाय सेन्द्रा देवाः श्रिता आश्रितवन्तः । हे अजमीढवंशज युधिष्ठिर । तेन भूम्ना परिपूर्णेन सर्वदेहान्तर्यामिणा मुषितोऽस्म्यपहृतस्वापरोक्ष्योऽस्मि ॥ १२ ॥

यद्बान्धवः कुरुबलाब्धिमनन्तपार-

मेको रथेन तरसाऽतरमार्यसत्वः ।

प्रत्याहृतं पुरधनञ्च मया परेषां

तेजः परं मणिमयञ्च हृतं शिरोभ्यः ॥ १३ ॥

पदरत्नावली

यस्य बान्धवोऽहं कुरुभिर् विराटगोग्रहणे अनन्तपारम् अदृश्यतीरान्तरम् अनन्तो ऽपरिच्छिन्नः पारः पूर्तिर् यस्य स तथा तं कुरुसेनासमुद्रं रथेन तरसा वेगेन अतरं तीर्णवानस्मीत्य-न्वयः । कथंभूतः ? एकोऽसहाय आर्यसत्वः पूज्यबलः । किञ्च यद्बान्धवेन मया विराटपुरगोधनञ्च प्रत्याहृतं पुनरानीतम् । तथा परेषां शत्रुभूतानां भीष्मादीनां शिरोभ्यः मणिमयं धनम् उष्णीषलक्षणं न केवलं हृतं किन्तु परं केवलं तेजो ऽभिमानलक्षणं सामर्थ्यमेवापहृतमित्यन्वयः ॥ १३ ॥

प्रकाशिका

यद्बान्धव इत्यादिश्लोकेष्वपि यच्छब्दानां तेनाहं मुषित इत्यनेनाऽन्वयः । यद्बान्धवो यस्य कृष्णस्य बान्धव बन्धुसम्बन्धिस्नेहो यस्य स तथा । यत्स्नेहवानित्यर्थः । एक एवाहमनन्तपारं न विद्यतेऽन्तः परिच्छेदो निर्णयो यस्य तदनन्तम् । अनन्तं पारं परतीरं यस्य स तथोक्तस्तम् । अदृश्यपरतीरमिति यावत् । कौरवसैन्यसमुद्रमतरं तीर्णवानस्मि । कथं भूत आर्यसत्त्वः श्रेष्ठबलः । किञ्च यद्बान्धवेन मया विराटनगरे पुरुधनं बहुगोधनं प्रत्याहृतं पुनरानीतम् । तथा परेषां शत्रूणां कौरवाणां शिरोभ्यो मणिमयरत्नखचितकिरीटादिरूपं धनं परमुत्तमं तेजः सामर्थ्यं च सम्मोहनास्त्रेण तान्मोहयित्वा हृतमपहृतम् ॥ १३ ॥

यो भीष्मकर्णगुरुशल्यचमूष्वदभ्र-

राजन्यवर्यरथमण्डलमण्डितासु ।

अग्रेचरो मम रथे रथयूथपाना

मायुर्मनांसि च दृशा सहसा य आर्च्छत् ॥ १४ ॥

पदरत्नावली

राजन्यानां वर्याणां श्रेष्ठानां रथानां मण्डलैः समूहैः पण्डितासु अलङ्कृतासु भीष्मश्च कर्णश्च गुरुश्च शल्यश्च ते तथोक्तास् तेषां सेनापतीनां चमूषु सेनासु मध्ये मम यः रथस् तस्मिन् रथे यो ऽग्रेचरः सारथित्वात्पुरोभागवर्ती तेषामेव रथयूथपानां भीष्मादीनाम् आयुर् मनांसि च सहसा शीघ्रं दृशा दर्शनेन आर्च्छद् अपाहरदित्येकान्वयः । चशब्द एवार्थे । यद् आर्च्छत् तद्दृशैव, नायुधादिना । समुच्चये वा ॥ १४ ॥

प्रकाशिका

अदभ्रा अनल्पा राजन्यवर्याः क्षत्रियश्रेष्ठास्तेषां रथमण्डलैः रथसमूहैर्मण्डिता-स्वलङ्कृतासु भीष्मादीनां चमूषु स्थितो यो मम रथस्तस्मिन्सारथितया ममाग्रेचरः सन् रथयूथपानां भीष्मादीनामायुर्मनांसि च धैर्याणि च सहसा शीघ्रमार्च्छदपाहरत् । यदार्च्छत्तदृशैव नायुधादिनेत्यर्थः । सह ओज आर्च्छदिति पाठे सहो बलमोजोऽवष्टम्भशक्तिमिति व्याख्येयम् ॥ १४ ॥

यद्दोष्षु मां प्रणिहितं गुरुभीष्मकर्ण-

द्रौणित्रिगर्तशलसैन्धवबाह्लिकाद्यैः ।

अस्त्राण्यमेयमहिमानि निरूपितानि

नोपस्पृशुर्नुहरिदासमिवासुराणि ॥ १५ ॥

पदरत्नावली

गुरुभीष्मादिभिर् निरूपितानि प्रयुक्तानि अमेयमहिमानि अचिन्त्यसामर्थ्यानि अस्त्राणि यस्य कृष्णस्य दोष्षु भुजेषु प्रणिहितं निहितं मां नोपस्पृशुर् न तापं चक्रुरित्यन्वयः । ‘स्पृश उपताप’ इति धातुः । कानि कमिव ? आसुराणि हिरण्यकशिपुप्रेरितासुरप्रयुक्तानि नृहरिदासं प्रह्लादं यथा न व्यथयन्ति तथेति ॥ १५ ॥

प्रकाशिका

यस्य दोःषु मां प्रणिहितं स्थापितम् । येन रक्षितमिति यावत् । गुरुर्द्रोणः । त्रिगर्तस्त्रिगर्तदेशाधिपतिः सुशर्मा । शलः सोमदत्तपुत्रः । गुर्वादिभिर्निरूपितानि प्रयुक्तान्यमेय-महिमान्यचिन्त्यसामर्थ्यान्यस्त्राणि नोपस्पृशुर्नोपतापं चक्रुः । स्पृश उपताप इति धातुः । अत्र दृष्टान्त आसुराणि हिरण्यकशिपुप्रेरितासुरप्रयुक्तान्यस्त्राणि नृहरिदासं प्रह्लादं यथा तथैवेति ॥ १५ ॥

यन्मे नृन्पेद्र तदतर्क्यविहार ईशो

यो(ऽ)लब्धरूपमवदद्रणमूर्ध्निदर्शी ।

यन्माययाऽऽवृतदृशो न विदुः परं तं

सूत्रादयोऽहमहमस्मि ममेति भव्याः ॥ १६ ॥

पदरत्नावली

हे नृपेन्द्र दर्शी सर्वज्ञः य ईशः रणमूधर्ि्न अलब्धरूपं केनाप्यज्ञातपूर्वरूपं मे अवदत् । सूत्रादयः मुख्यप्राणमुखा देवास् तं न विदुरिति यद् यस्मात् तत् तस्मादीशो ऽतर्क्यविहारो ऽचिन्त्यक्रीड इत्यन्वयः । लब्धरूपम् आनन्दरूपमिति वा । कथंभूताः सूत्रादयः ? यस्य मायया मोहकशक्त्या आवृतदृशः पिहितनेत्राः । नष्टज्ञाना इति यावत् । कथमावृतदृश इति तत्राह- अहमहमिति ॥ भव्या ज्ञातुं योग्यतावन्तः, सकलमङ्गलरूपा इति वा ॥ १६ ॥

प्रकाशिका

हे नृपेन्द्र । अतर्क्यविहारोऽचिन्त्यक्रीड ईशः सकलजगत्प्रेरको यः कृष्णो ऽलब्धरूपं स्वप्रसादमृते केनापि न दृष्टं प्राप्तं वा यद्रूपं तद्रणमूधर्ि्न रणश्रेष्ठे तन्मध्ये मेऽवदत् । किं कुर्वन् । दर्शी तद्रूपं मम दर्शयन् सन् । पुनः कथंभूतं तद्रूपमित्यत उक्तम् । परं सर्वोत्तममिति । कुत इत्यत उक्तं सूत्रादयो वाय्वादयस्तं यद्यस्मान्नविदुस्तत्तस्मादिति । सूत्रादयोऽपि कुतो न विदुरित्यत उक्तम् ॥ माययेति ॥ मायया हरीच्छयाऽऽवृतदृश आवृतस्वरूपज्ञानाः । अहं कर्ताऽस्मीहं ममेति भाव्या भावितुमनुभवितुं योग्याः । एवं भ्रान्ता इत्यर्थः । इदं वायुदेवव्यतिरिक्तविषयं छत्रिन्यायेनोक्तमिति ज्ञातव्यम् । तथा च हरीच्छयाऽवृतस्वरूपज्ञानत्वेनाहंममेति भ्रन्त्या च यस्मात्तद्रूपं सूत्रादयोऽपि न तत्प्रसादमृते सम्यग्विदुस्तस्मात्परं सूत्राद्युत्तमं तद्रूपमवददित्यन्वयः ॥ १६ ॥

सौत्ये वृतः कुमतिनाऽऽत्मद ईश्वरो मे

यत्पादपद्ममभवाय भजन्ति भव्याः ।

संश्रान्तवाहमरयो रथिनो भुविष्ठं

न प्राहरन्यदनुभावनिरस्तचित्ताः ॥ १७ ॥

पदरत्नावली

भाव्या मुमुक्षवः यत्पादपद्मम् अभवाय मोक्षाय भजन्ति । यस्य श्रीकृष्णस्य अनुभावेन महिम्ना निरस्तं मुग्धं चित्तं येषां ते तथोक्ता अरयः कर्णादयः मां न प्राहरन् नायुध्यन् । कथंभूताः ? रथिनः रथादियुद्धसाधनोपेताः । किं विशिष्टं मां ? भुविष्ठं भूमौ स्थितम् । सम्यक् श्रान्ता वाहा अश्वा यस्य सस् तथोक्तस् तं श्रान्तानां वाहानां जलपानाय रथादवरुह्य युद्धसाधन-मन्तरेण भूमितले स्थितमित्यर्थः । सोऽयमीश्वरः कुमतिना मया मे मत्सम्बन्धिनि सौत्ये सारथिकर्मणि वृतः । किं विशिष्टः ? आत्मानं ददातीति आत्मदः । ‘य आत्मदा बलदा’ इति श्रुतेः । अद्य तेन भूम्ना पुरुषेण मुषितोऽस्मीति परमोऽन्वयः ॥ १७ ॥

प्रकाशिका

इदानीं स्वापराधमनुस्मरंस्तप्यमान आह- सौत्य इति ॥ भव्या मुक्तियोग्या महान्तो यस्य कृष्णस्य पादपद्ममभवाय मोक्षाय भजन्ति । यस्य कृष्णस्यानुभावेन निरस्तानि मोहितानि चित्तानि येषां ते अरयः कर्णादयो रथिनोऽपि जयद्रथवधसमये मदीयरथाश्वेषु जलपानाभावेन श्रान्तेषु वारुणास्त्रेण मया सम्पादितं जलं पातुं गतेषु सत्स्वहं भूमितले स्थितस्तस्मिन्समये श्रान्तावाहा अश्वा यस्य तं भुविष्ठं मां न प्राहरन् । स एकान्तानामात्मानमपि ददातीत्यात्मद ईश्वरो मे मया कुमतिनाऽयं मम मातुलेय इति दुर्बुद्धिना सौत्ये सारथ्यार्थं वृतः स्वीकृतोऽतोऽहमतीव पापीति भावः ॥ १७ ॥

नर्माण्युदाररुचिरस्मितशोभनानि

हे पार्थ हेऽर्जुन सखे कुरुनन्दनेति ।

सञ्जल्पितानि नरदेव हृदिस्पृशानि

स्मर्तुर्लुठन्ति हृदयं मम माधवस्य ॥ १८ ॥

पदरत्नावली

हे नरदेव माधवस्य हृदिस्पृशानि मनोहराणि हे पार्थ हे अर्जुनेत्यादीनि गोष्ठ्यां सञ्जल्पितानि नर्माणि परिहासलक्षणानि स्मर्तुर् मम हृदयं लुठन्ति परिवर्तन्ते । हृदयान्न निर्गच्छन्ति । कथंभूतानि ? उदारं गम्भीरं रुचिरं यत् स्मितं तेन शोभनानि मङ्गलानि ॥ १८ ॥

प्रकाशिका

तदीयवचनानि मम हृदयान्नापगच्छन्तीत्याह- नर्माणीति ॥ हे नरदेव । माधवस्य श्रीकृष्णस्योदारं गम्भीरं रुचिरं मनोहरं यत्स्मितं तेन शोभितानि मङ्गलीकृतानि नर्माणि परिहासवचनानि तथा । तत्र तत्र कार्येषु हे पार्थेत्यादीनि सञ्जल्पितानि मधुरसम्भाषणानि च यानि तानि हृदिस्पृशानि मनोज्ञानि । इदानीं स्मुर्तुर्मम हृदयं प्राप्य लुठन्ति तत्रैव परिवर्तते । हृदयान्न निर्गच्छन्तीति भावः ॥ १८ ॥

शय्यासनाटनविकत्थनभोजनादि-

ष्वैक्याद्वयस्य ऋभुमानिति विप्रलब्धः ।

सख्युः सखेव पितृवत्तनयस्य सर्वं

सेहे महामहितया कुमतेरघं मे ॥ १९ ॥

पदरत्नावली

‘ममायं कृष्णः वयस्यः । अहमेतादृशेन कृष्णेन समानवयस्कत्वाद् ऋभुमान् सदैवः’ इति भावेन परमेष्टदैवेन श्रीकृष्णेन शय्यादिष्वैक्यात् तेन वञ्चितः । तादृशबुद्धेस्तदधीनत्वात् । परदेवतया शय्याद्यैक्यम् अपराधो हि यस्माद् वञ्चितोऽस्मि । शय्या शयनम् । विकत्थनं गालीवचनम् । स्तवनं वा । तथापि स कृष्णः महतो महित्वेन सख्युर् अघम् अपराधं सखेव पुत्रस्याघं पितेव कुत्सितबुद्धेर्मे अघं सेहे । मया विप्रलब्धोऽपि वञ्चितोऽपि महामहितया कुमतेर् मे अघं सेहे इति वा । शय्यादिषु ऋभुमान् सहात्माऽपि विप्रलब्धस् तिरस्कृतः । किमिति ? वयस्यः सखेति ऐक्यव्यवहारात् । तथापि महामाहात्म्येन ममापराधं सेहे इति वा ॥ १९ ॥

प्रकाशिका

मया स्वापराधे कृतेऽपि न तस्य मनसि प्रत्युपकारबुद्धिर्मयि जातेत्याह- शय्येति ॥ विकत्थनं स्वगुणश्लाघनम् । शय्यादिष्वैक्यादव्यतिरेकान् नियमेन सहभावाद्धेतोरसौ वयस्य इति मत्वा विप्रलब्धस्तिरस्कृतः । महात्मभिः शय्यादौ सहभाव एव तेषां तिरस्कार सह शय्यासनं न चेति वचनादिति भावः । कीदृशोऽसौ । ऋभवो देवा अस्य सेवकाः सन्तीति ऋभुमान् । अनेन देवैरपि शय्यासनादौ सहभावो निषिद्धः किमु देवस्वामिना सहेति सूचयति । एवं मया तिरस्कृतोऽपि कुमतेरयं मम वयस्य इति कुत्सितबुद्धेर्मे मम सर्वमघं तिरस्काररूपमपराधं सेहेऽसहत । केन कारणेन महामहितया महान्महिमा यस्य स महामहिमस्तस्य भावो महामहिता तयेत्यर्थः (महामहितया= महान्महिर् महिमा यस्य स महामहिस्तस्य भावो महामहिता तयेत्यर्थ इति भाति) । महामहिमत्वेनेति यावत् । अल्पक एव शापादिना प्रत्युपकारं करोति । अयं तु न तादृश इति भावः । तर्हि किमुपेक्षयैव सेहे न किन्तु स्नेहेनैवेत्याशयेन दृष्टान्तावाह । सख्युरघं सखेव तनयस्य पुत्रस्याघं पितेवेति ॥ १९ ॥

सोऽहं नृपेन्द्ररहितः पुरुषोत्तमेन

सख्या प्रियेण सुहृदा हृदयेन शून्यः ।

अध्वन्युरुक्रमपरिग्रहमङ्ग रथ-

न्गोपैरसद्भिरबलेव विनिर्जितोऽस्मि ॥ २० ॥

पदरत्नावली

‘शून्योऽसी’ति विकल्पं स्पष्टं परिहरतीत्याह- सोऽहमिति ॥ हे नृपेन्द्र सख्या जन्मप्रभृति सह वर्तमानेन प्रियेण विषयादिसुखप्रापकेण सुहृदा अनिमित्तबन्धुना हृदयेन अतिस्निग्धेन अतिकान्तेन वा पुरुषोत्तमेन क्षराक्षरमतीत्य वर्तमानेन श्रीकृष्णेन रहितः शून्यो ऽमङ्गलोऽ-स्मीत्येकान्वयः । ‘येन मे हृतं तेजः’ इत्येतद्विवृणोति- अध्वनीति ॥ अङ्ग राजन् मार्गे उरुक्रमस्य हरेः परिग्रहं कलत्रं रक्षन् आगच्छन् असद्भिर् असाधुभिर् गोपैर् अबला एव विनिर्जितोऽस्मि । तस्मात्तेन मत्तेजोपहृतमिति भावः ॥ २० ॥

प्रकाशिका

त्वया शङ्कितं नीचैः पराभवं च तद्वियोगेनैव प्राप्तोऽस्मीत्याह- सोऽहमिति ॥ प्रियेण देहादिभ्योऽप्यतिप्रियेण सुहृदाऽनिमित्तबन्धुना पुरुषोत्तमेन क्षराक्षरपुरुषावतीत्य वर्तमानेन सख्याऽनाद्यनन्तकाले सह वर्तमानेन श्रीकृष्णेन यस्माद्रहितोऽन्तर्हितरूप(तद्रूप)स्तस्माद्धृदयेन कर्तव्यकार्यविषयकेनान्तःकरणेन शून्योऽस्मि । अत एव अङ्ग राजन् । उरुक्रमस्य श्रीकृष्णस्य परिग्रहं शताधिकषोडशसहस्रस्त्रीलक्षणमागमनसमये रक्षन् असद्भिर्नीचैरबलेव योषेव ॥ २० ॥

तद्वै धनुस्त इषवः स रथो हयास्ते

सोऽहं रथी नृपतयो यत आमनान्ति ।

सर्वं क्षणेन तदभूदसदीशरिक्तं

भस्मान्हुतं कुहकराद्धमिवोप्तमूषे ॥ २१ ॥

तात्पर्यम्

स रथो हयास्ते । तादृशा इत्यर्थः । त इषव इतिवत् । सदृशे वा प्रधाने वा कारणे वा तदित्ययम् । शब्दः सङ्घटते भेदे विद्यमानेऽपि तत्त्वतः ॥ इति ब्रह्मतर्के । तद्रथहयानां दाहोक्तेः ॥ २१ ॥

पदरत्नावली

तदेव स्पष्टयति इत्याह- तदिति ॥ धनुस् तद्वै तदेव । त इषवस् तादृशाः शराः। स रथ तादृशो रथः । ते हयास् तादृशा अश्वाः । रथी सोऽहं नान्यः । यतः यस्मै नृपतय आनमन्ति । तत्सर्वम् ईशरिक्तं श्रीकृष्णतेजसा विहीनं क्षणेन असद् अशक्तम् अप्रयोजकमभूत् । कथमिव ? भस्मन् भस्मानि हुतमिव । कुहकेन राद्धं चोरेण सिद्धमिव । ऊषे ऊषरे उप्तमिव । भस्मनि हुतस्य मन्त्रोच्चारणादिना किञ्चित् फलं स्यादित्यतः- कुहकेति ॥ ऐन्द्रजालिकेन कुटुम्बभरणमुद्दिश्य द्रव्याहरणात् तज्जीवनेन ऐहिकफलदर्शनादित्यत उक्तं- उप्तमूष इति ॥ न तत्र किञ्चिद् बीजं प्ररोहति इत्यभिप्रायेण निदर्शनत्रयमुक्तमिति वेदितव्यम् ॥ २१ ॥

प्रकाशिका

श्रीकृष्णवियोगेनैवायं मम पराभवो नान्येनेत्येतदेव विशदयति- तद्वै धनुरिति ॥ अत्र सरथो हयास्त इति तच्छब्दाभ्यां युद्धकालीना एव हयाः परामृश्यन्त इति प्रतीतिवारणाय तयोस्तच्छब्दयोरर्थं दर्शयति- सरथ इति ॥ तथा च स तादृशो रथस्ते तादृशा हया इत्येव व्याख्येयमिति भावः । ननु कुत एवं तच्छब्दयोः सादृश्यार्थत्वमित्यतोऽत्रैव सादृश्ये प्रयोगादित्याह- त इषव इतीवेति ॥ त इषव इत्यत्र युद्धकाले मुक्तानामिषूणां पुनरर्जुनं प्रत्यनागतत्वात्सादृश्यार्थत्वमेव वर्णनीयमिति भावः । तच्छब्दस्य सादृश्यार्थत्वे प्रमाणमपि दर्शयति- सदृश इति ॥ वाशब्दाः समुच्चयार्थाः । एषामुदाहरणं तत्त्वमसीत्यादिकम् । त्वं तत्सदृशस्तत्प्रधानकस्तत्कारणकश्चेत्यन्यत्र व्याख्यातत्वात् । यद्वा । सादृश्ये प्रयोगः प्रकृते । प्राधान्ये प्रयोगस् तं दुर्जयं शत्रुमसह्यवेगमरुन्तुदं तान्नविजित्य केचिदित्येकादशस्कंधे भिक्षुगीतायाम् । यथोक्तं तात्पर्ये । एकस्थानाधिपत्ये तु भिन्नानामपि युज्यते । अभेदेन परामर्शः सादृश्येनापि वस्तुनोः’इति । कारणत्वे प्रयोगः । स एष भगवान्द्रोणः प्रजारूपेण वर्तत इति अस्मिन्नेव स्कन्धे सप्तमेऽध्याये । भेदे समभिव्याहृतपदार्थयोः । ननु कुत एवं व्याख्येयम् । प्रतीत एवार्थः किं न स्यादित्यतोऽत्र बाधकमाह- तद्रथहयानामिति ॥ युद्धसमाप्त्यनन्तरं युद्धकालीनस्य रथस्य हयानां च कर्णादिभिर्विमुक्तास्त्रतेजसा भारते दाहस्योक्तत्वादित्यर्थः । युद्धसमये कर्णादिभिरर्जुनरथदाहायास्त्राणि प्रयुक्तान्यपि कृष्णसंन्निधानेन तत्समीपं प्राप्तानि युद्धानन्तरं श्रीकृष्णवियोगेन तद्रथादिकं तैरस्त्रैर्दग्धमिति हि भारती कथा । ततश्चायं श्लोकार्थः- धनुस्तद्वै तदेव । गाण्डीवस्याद्याप्यर्जुने सत्वात् । ते तत्सदृशा इषवो बाणाः । रथस्तस्तादृशः । हयास्ते तत्सदृशा रथी सोऽहं नान्यः । यतो यस्मै मह्यं तत्सर्वं धनुरादिकमीशेन श्रीकृष्णेन रिक्तमरक्षितं क्षणेनासत् कार्याक्षम-मभूत् । कथमिव । भस्माद् भस्मनि मन्त्रोच्चारणादिना हुतमिव । कुहकादैन्द्रजालिकान्मायाविनः पुरुषाद्राद्धं लब्धं तत्फलादि यथा कार्याक्षममविद्यमानत्वात् । तथैव । आद्यदृष्टान्ते मन्त्रोच्चारणजनितं किञ्चित्पुण्यमस्त्यतो न सर्वथा वैयर्थ्यमित्यतो द्वितीयदृष्टान्तः । तत्रापि न सर्वथा वैयर्थ्यमैन्द्रजालीकाय तुष्टैः राजादिभिर्द्रव्यस्य दीयमानत्वादतोऽन्यदृष्टान्तमाह ऊषे ऊषरे भूप्रदेशे उप्तं बीजमिवेति । ऊषरे बीजावापो न सर्वथा कस्यापि कार्यक्षम इति भावः ॥ २१ ॥

राजंस्त्वयाभिपृष्टानां सुहृदां नः सुहृत्पुरे

विप्रशापविभूढानां निघ्नतां मुष्टिभिर्मिथः ॥ २२ ॥

पदरत्नावली

‘कञ्चिदानर्तपुर्यामि’त्यादिबान्धवकुशलप्रश्नं परिहरतीत्याह- राजन्निति ॥ सुहृत्पुरे द्वारवत्याम् ॥ २२ ॥

प्रकाशिका

इदानीं कश्चिदानर्तपुर्यामित्यादिना पृष्टस्योत्तरमाह- राजंस्त्वयेति ॥ सृहृत्पुरे द्वारवत्यां त्वयाऽभिपृष्ठानां नः सुहृदां मध्ये चत्वारः पञ्च वाऽवशेषिताः । अत्र हेतुः । विप्रशापे-त्यादि । ब्राह्मणशापेन विमूढानां कार्याकार्यमजानताम् ॥ २२ ॥

वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् ।

अजानतामिवात्मानं चतुःपञ्चावशेषिताः ॥ २३ ॥

पदरत्नावली

नाम्ना वारुणीं वरुणनिर्मितां मदिरां मदकरीं सुरां पीत्वा । अन्यच्च निमित्त-मस्तीत्याह- विप्रशापेति ॥ ब्राह्मणशापेन विमूढानां कृत्याकृत्यज्ञानरहितानाम् अत एवात्मानमजानताम्

॥ २३ ॥

प्रकाशिका

वारुणीं वरुणनिर्मितां मदिरां मदजननीं सुरामात्मानं स्वात्मानमजानतामिव निघ्नन्तामित्यन्वयः । अवशेषिता अवशिष्टाः कृता इति ॥ २३ ॥

प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितम्

मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः ॥ २४ ॥

पदरत्नावली

इदं यादवनिधनस्यापि श्रीकृष्णकृतमित्यभिप्रेत्य ब्रूते इत्याह- प्रायेणेति ॥ भूतानि मिथो निघ्नन्ति भावयन्ति उत्पादयन्ति चेति यत् तद् ईश्वरस्य भगवतः विशिष्टचेष्टितमिति मन्ये । प्रायःशब्दस्य प्राचुर्यवाचित्वेऽप्यत्र अवधारणार्थ एव । चशब्दः समुच्चयार्थः ॥ २४ ॥

प्रकाशिका

श्रीकृष्णस्य यादवनाशने प्राधान्यमुक्तं तदेवोपपादयति- प्रायेणेति ॥ प्राधान्ये-नेत्यर्थः । भूतानि मिथोऽन्योन्यं घ्नन्ति भावयन्त्युत्पादयन्ति । पालयन्ति चेति यत्तद्भगवत ईश्वरस्य प्राधान्येन विचेष्टितं विचेष्टा । व्यापार इति यावत् । स एव तेषु स्थित्वा तत्कारयतीति भावः ॥ २४ ॥

जलौकसां जले यद्वन्महान्तोऽदन्त्यणीयसः ।

दुर्बलान्बलिनो राजन्महान्तो बलिनो मिथः ॥ २५ ॥

पदरत्नावली

इममर्थं सोदाहरणं स्पष्टयतीत्याह- जलौकसामिति ॥ जलौकसां यादसां मध्ये महान्तो ऽणीयसो ऽणुतरानदन्ति । बलिनः दुर्बलान् भक्षयन्ति । ये महान्तः ये च बलिनस् ते मिथो ऽन्योन्यं भक्षयन्ति यद्वद् यथा ॥ २५ ॥

प्रकाशिका

यदुभिर्भूभारसंहर्तुत्वं च यादवसंहर्तुत्वं श्रीकृष्णस्यैवेत्येतत्दृष्टान्तमुखेनोपपादयति- जलौकसामिति ॥ जलचराणां मत्स्यादीनां मध्ये इत्यर्थः । यद्वद्यथा महान्तः स्थूला अदन्ति भक्षयन्त्यणीयसः सूक्ष्मान्ते महान्तो ये च बलिनस्तेऽपि मिथोऽदन्तीत्यर्थः ॥ २५ ॥

एवं बलिष्ठैर्यदुभिर्महद्भिरितरान्विभुः ।

यदून्यदुभिरन्योन्यं भूभारं सञ्जहार ह ।

कण्टकं कण्टकेनैव द्वयञ्चापीशितुः समम् ॥ २६ ॥

पदरत्नावली

एवं विभुर् बलिष्ठैर् महद्भिर् यदुभिर् इतरान् हत्वा यदुभिरेव यदून् अन्योन्यं हत्वा भूभारं दैत्यकुलं सञ्जहारेत्येकान्वयः । भूभारहरणमेवावतारप्रयोजनमित्येतत् हशब्देनाह । ‘यद्बाहुदण्डाभ्युदयानुजीविनः’ ‘यदून्यदुभिरन्योन्यमि’त्याद्युक्तं पालनं संहरणञ्च हरेर्विषमं ननु इति तत्राह- द्वयमिति ॥ तत्तत्कर्मानुसारिफलदातुरीश्वरस्य आप्तकामस्य तेषां सञ्जीवनं मरणञ्चोभयं सममेव । जीवनेनोपादेयाभावान् मरणेन हान्यभावाच्च । अतः द्वयं न विषममिति भावः ॥ २६ ॥

प्रकाशिका

दार्ष्टान्तिकमाह- एवमिति ॥ इतरान्दुर्बलान् । सूक्ष्मांश्च । भूभारभूतान् । राज्ञ इति शेषः । सञ्जहारेत्यन्वयः । महान्तो बलिनो मिथ इत्यस्य दार्ष्टान्तिकमाह- यदून्यदुभिरिति ॥ हेत्यास्वादने । दृष्टान्तमाह- कण्टकं कण्टकेनैवेति ॥ यथा कण्टकं पादतललग्नं प्रबलेन कण्टकेन निष्कासयति तथा भूभारं भूमिभारभूतं राजमण्डलं प्रबलैः पाण्डवयादवभूतै राजन्यैरेव सञ्जहारेत्यर्थः । ननु स्वरक्षितं यदुकुलं कथं कृष्णो नाशितवानित्यत उक्तम्- द्वयं चेति ॥ यदुरक्षणं विनाशं चेति द्वयमित्यर्थः । ईशितुस्तत्कर्मानुसारेण फलप्रदस्येत्यर्थः । समम् । रक्षणेन न सुखं नाशनेन न दुःखमित्यर्थः । तत्तत्कर्मानुसारेणैव रक्षणं विनाशं वा करोति । न तेन तस्य प्राप्तव्यं किञ्चिदस्तीति भावः ॥ २६ ॥

देशकालार्थयुक्तानि हृत्तापोपशमानि च ।

हरन्ति स्मरतश्चित्तं गोविन्दाभिहितानि मे ॥ २७ ॥

पदरत्नावली

स्वदुःखकारणं ब्रूत इत्याह- देशेति ॥ देशकालार्थयुक्तानि तत्तद्देशतत्तत्काल-तत्तद्वस्तूचितानि हृत्तापोपशमानि अहङ्काराश्रितसंसारसमुद्रशोषणकारणानि गोविन्दस्य अभिहितानि वचनानि स्मरतो मम चित्तं हरन्तीति यस्मात् तस्मात् तद्रहितत्वेन शोचामीत्येकान्वयः ॥ २७ ॥

प्रकाशिका

अतः परं वक्तुं न शक्तोऽस्मीति सूचयन्नाह- देशकालेति ॥ गोविन्दस्य श्रीकृष्णस्याभिहितानि वचनानि स्मरतो मे चित्तं हरन्त्यपहरन्ति । चित्तभ्रंशे न किञ्चिद्वक्तुं शक्यमिति भावः ॥ २७ ॥

सूत उवाच—

एवं चिन्तयतो जिष्णोः कृष्णपादसरोरुहम् ।

सौहार्देनातिगाढेन शान्ताऽऽसीद्विमला मतिः ॥ २८ ॥

॥ इति श्रीमद्भागवते प्रथमस्कन्धे चतुर्दशोऽध्यायः ॥

पदरत्नावली

बान्धवनिमित्तस्नेहलक्षणभक्त्यतिशयेन तच्चरणस्मरणफलमाह- एवमिति ॥ अतिगाढेन अतिशयेन दृढेन । तत्रैवातिशयेन मग्नेन वा । सौहार्देन प्रेमलक्षणभक्तिसाधनेन कृष्णपादपद्मम् एवम् उक्तप्रकारेण स्मरतः जिष्णोर् निर्मला मतिर् मननसमर्था बुद्धिः शान्ता सुखपूर्णा पूर्वस्मादतिशयेन भगवन्निष्ठावती आसीदित्येकान्वयः ॥ २८ ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे चतुर्दशोऽध्यायः ॥

प्रकाशिका

एवं चिन्तयत इति सूतवाक्यम् । सौहार्देन स्नेहेन । भक्त्येति यावत् । मतिर्मननरूपा बुद्धिः । शान्ता सुखपूर्णाऽऽसीत् । विमला विषयरागादिरहिता । श्रीकृष्णगुणान् बुद्ध्याऽऽलोच्य परमानन्दमग्नो जात इति भावः ॥ २८ ॥

**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां चतुर्दशोऽध्यायः ॥ १-१४ ॥