सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया
अथ त्रयोदशोऽध्यायः
सूत उवाच—
सम्प्रस्थिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।
ज्ञातुं मायामनुष्यस्य वासुदेवस्य चेहितम् ॥ १ ॥
पदरत्नावली
दुर्निमित्तादिसंसारस्यात्राप्रतिपादनात् तस्यानित्यत्वज्ञापनेन हरौ परा भक्तिर्जायते इत्यतस्तन्निरूप्यतेऽस्मिन्नध्याये । तत्र ‘अवशेषं प्रतीक्षत’ इत्युक्तयदुकुलसंहारकथनपूर्वकं श्रीकृष्णस्य स्वधाम प्राप्तिं वक्तुमुपक्रमते- संप्रस्थित इति ॥ नारदोक्तपरापमर्शेन वीतशोकतया राज्यं पालयन्नृपः स्वानुमतेन जिष्णौ अर्जुने द्वारकायां स्थितानां बन्धूनां दर्शनेच्छया मायया इच्छया गृहीतमनुष्यवेषस्य वासुदेवस्य ईहितं चेष्टितञ्च ज्ञातुं द्वारकां प्रति सम्प्रस्थिते गते सति ॥ १ ॥
प्रकाशिका
द्वारकायां स्थितानां बन्धूनां दर्शनेच्छया । जीष्णौ अर्जुने । माययेच्छया गृहीतो मनुष्याणां देह इव देहो यस्य स तथा । तस्येहितं चेष्टितं ज्ञातुं च सम्प्रस्थिते गते सति ॥ १ ॥
व्यतीताः कतिचिन्मासास्तदा तु शतशो नृपः ।
ददर्श घोररूपाणि निमित्तानि भृगूद्वह ॥ २ ॥
तात्पर्यम्
मासशब्देनाहान्युच्यन्ते । तथाहि महाभारते-
अहस्तु मासशब्दोक्त यत्र चिन्तायुतं व्रजेत् । एवं संवत्सराद्यं च विपरीते विपर्ययः ॥ इति नाममहोदधौ ॥ २ ॥
पदरत्नावली
यदा कतिचिन्मासा दिवसा व्यतीता अतिक्रान्तास् तदा शतशः सहस्त्राणि घोररूपाणि भयङ्करापद्दर्शकानि निमित्तानि आध्यात्मिकाधिभौतिकाधिदैविकानुत्पातान् ददर्शेत्यन्वयः । ‘अहस्तु मासशब्दोक्तं यत्र चिन्तायुतं व्रजेत्’ इत्याभिधानं तुशब्देन गृहीतम् ॥ २ ॥
प्रकाशिका
कतिचिन्मासा व्यतीता अतिक्रान्तास्तदा तस्यामवस्थायां नृपो युधिष्ठिरो शतशः शतसङ्ख्याकानि । तु विशेषेण । घोररूपाण्यनिष्टकराणि निमित्तान्याध्यात्मिकाधिदैविकाधि- भौतिकोत्पातान्ददृशे ददर्श । अत्र मासशब्देन प्रसिद्धमासग्रहणमित्यन्यथाप्रतीतिवारणाय व्याख्याति- मासशब्देनेति ॥ अत्रोत्तरत्र चेति शेषः । कुतः प्रसिद्धार्थत्याग इत्यत आह- तथाहीति ॥ हि यस्माद्भारते तथा कतिचिद्दिवसा गता इति स्पष्टमुक्तमत इत्यर्थः । मासशब्दस्याहर्वाचकत्वे प्रमाणं दर्शयति- अहस्त्विति ॥ तुशब्दोक्तविशेषमेव दर्शयति- यत्रेति ॥ यदेत्यर्थः । चिन्तायुतम् । अहरिति वर्तते । वत्सरेति ॥ वत्सरादिशब्दैरपि चिन्तायुतमहरेवोच्यत इत्यर्थः । भशब्देन नक्षत्रपरिवृत्ति-गणनयाऽऽद्यशब्दाद्ग्रहपरिवृत्तिगणनया च कृतः कालविशेष उच्यते । विपरीते सुखयुक्ते । विपर्ययो वैपरीत्यम् । यदा सुखयुक्तो मासो वत्सरो वाऽतिक्रान्तः । तदाऽहःशब्देन मासादय उक्ता इत्यर्थः । प्रकृते चिन्तायुतानामह्नां गतत्वात्तेषु मासा इति प्रयोग इति भावः ॥ २ ॥
कालस्य च गतिं रोद्रां विपर्यस्तर्तुधर्मिणः ।
पापीयसीं नृणां वार्तां क्रोधलोभानृतात्मनाम् ॥ ३ ॥
पदरत्नावली
उत्पातं दृष्ट्वा किं चकार नृप इति तत्राह- कालस्येति ॥ कालगत्यादिकं दृष्ट्वा नृपो ऽनुजं भीमसेनम् इत्यभाषतेत्यन्वयः । विपर्यस्ता व्यत्यस्ता वसन्तादीनाम् ऋतूनां धर्माः पुष्पोद्गमा अस्य सन्तीति विपर्यस्तर्तुधर्मी । तस्य कालस्य । रौद्रीमित्यपाठाद् गतेरपरिहार्यत्वं वक्ति । क्रोधादिष्वात्मा मनो येषां ते तथोक्तास् तेषां नृणां वार्तां श्रुत्वा जीवनोपायप्रवृत्तिं पापीयसीं पापभूयिष्ठां दृष्ट्वा ॥ ३ ॥
प्रकाशिका
रौद्रां घोरां गतिमित्यादिनां वक्ष्यमाणेन दृष्ट्वेत्यनेन सम्बन्धः । तदेवाह- विपर्यस्तेति ॥ विपर्यस्ता व्यत्यस्ता ऋतूनां वसन्तादीनां धर्माः पुष्पोद्गमादयोऽस्य सन्तीति विपर्यस्तर्तुधर्मी तस्य वार्तां जीविकाम् । कथं भूतानां नृणाम् । क्रोधलोभानृतैर्युक्त आत्मा मनो येषां ते तथा तेषाम् ॥ ३ ॥
जिह्मप्रायं व्यवहृतं साध्यमिश्रञ्च सौहृदम् ।
पितृमातृसुहृद्भ्रातृदम्पतीनाऽञ्च कल्किताम् ॥ ४ ॥
पदरत्नावली
व्यवहृतं हानोपादानादिव्यवहारं जिह्मप्रायं कपटप्रचुरं सौहृदं स्नेहं साध्यमिश्रं स्वप्रयोजनोपेतम् । पित्रादीनां कल्कितां कलङ्कितां कलहं वा ॥ ४ ॥
प्रकाशिका
चिह्मप्रायं कपटबहुलम् । व्यवहृतं क्रयविक्रियादिरूपं व्यवहारम् । सौहृदं सख्यम् । साध्यमिश्रं प्रयोजनोपेतम् । पित्रादीनां परस्परं कल्कितां कलहम् ॥ ४ ॥
निमित्तान्यप्यरिष्टानि काले त्वनुगते नृणाम् ।
लोभाद्यधर्मप्रकुतिं दृष्ट्वोवाचानुजं नृपः ॥ ५ ॥
युधिष्ठिर उवाच—
सम्प्रेषिते द्वारकायां जिष्णौ बन्धुदिदृक्षया ।
ज्ञातुञ्च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥ ६ ॥
पदरत्नावली
अरिष्टानि अशुभानि । ‘अरिष्टं पापशुभयोः’ ‘अरिष्टमशुभेऽपि निर्दिष्ट’ इत्यभि-धानात् । इष्टमपिशब्देनाग्राहि । पूर्वकालवैलक्षण्यद्योतकस्तुशब्दः । लोभादिना अधर्मस्वभावम् ॥५,६॥
प्रकाशिका
काले कलिस्वामिकत्वरूपविशेषसूचकस्तुशब्दः । अनुगते प्राप्ते सत्यरिष्टान्यनिष्ट-सूचकानि निमित्तानि ‘ऊर्वक्षिबाहव’ इत्यादिना वक्ष्यमाणानि । अपिशब्दः पूर्वोक्तसमुच्चयार्थः । लोभाद्यधर्मप्रकृतिं लोभकामक्रोधमोहादिभिरधर्मे प्रकृष्ठयत्नं च दृष्ट्वा । अनुजं भीमसेनम् ॥ ५,६ ॥
गताः सप्ताधुना मासा भीमसेन तवानुजः ।
नायाति कस्य वा हेतोर्नाहं वेदेदमञ्जसा ॥ ७ ॥
पदरत्नावली
अत्रापि मासा दिवसाः । अहम् अञ्जसा इदं कारणं न वेद । त्वमिदं वेत्थ किमिति वाक्यशेषः ॥ ७ ॥
प्रकाशिका
मासा दिवसाः ॥ ७ ॥
अपि देवर्षिणाऽऽदिष्टः स कालः प्रत्युपस्थितः ।
यदात्मनोऽङ्गमाक्रीडं भगवानुत्सिसृक्षति ॥ ८ ॥
तात्पर्यम्
अङ्गं पृथिवीम् । यदा त्यागादिरुच्येत पृथिव्याद्याङ्गकल्पना । तदा ज्ञेया न हि स्वाङ्गं कदाचिद् विष्णुरुत्सृजेत् ॥ इति ब्रह्मतर्के ॥ ८ ॥
पदरत्नावली
आत्मनः स्वस्य आक्रीडं क्रीडास्थानम् । अङ्गं भूमिम् । ‘यस्य पृथिवी शरीर’मित्यादेः । यद् यदा । देवर्षिणा नारदेन ‘यूयं तावदवेक्षध्वमि’ति निर्दिष्टः स कालः प्रत्युपस्थित आसन्नो ऽपि किम् ॥ ८ ॥
प्रकाशिका
अपि किम् । यदा यस्मिन्काले । आत्मनः स्वस्य । आक्रीडं क्रीडास्थान-मङ्गमुत्सिसृक्षत्युत्स्रष्टुमिच्छति । स कालो देवर्षिणा नारदेन यूयं तावदवेक्षध्वमित्यादिष्टः । प्रतिसम्प्रत्युपस्थितः प्राप्तः किमित्यर्थः । अत्राङ्गं देहमित्यन्यथाप्रतीतिवारणाय तात्पर्यं सप्रमाणकमाह- अङ्गमिति ॥ पृथिवीं भूलोकम् । त्यागादिरित्यत्रादिपदेन वियोगादिग्रहणम् । उच्येत । पुराणादाविति शेषः । तदा तत्र पृथिव्यद्यङ्गकल्पना पृथिव्यादावङ्गशब्दवाच्यताकल्पना ज्ञेयेत्यन्वयः । कुत इत्यतो देहार्थत्वे बाधकमाह- नहीति ॥ स्वाङ्गं स्वरूपभूतमङ्गम् । हेतुगर्भविशेषणमिदम् । अत्र प्रमाणप्रसिद्धं दर्शयितुं हिशब्दो हेत्वर्थश्च । यस्मादेवं तस्माज् ज्ञेयेति ॥ ८ ॥
येषां नः सम्पदो राज्यं दाराः प्राणाः कुलं प्रजाः ।
आसन्सपत्नविजयो लोकाश्च यदनुग्रहात् ॥ ९ ॥
पदरत्नावली
यस्य कृष्णस्य अनुग्रहाद् येषाम् अस्माकं सम्पदादय आसन् । तेषां नः सः काल आसन्न इत्यन्वयः । दारा भार्याः । सपत्नानां शत्रूणां विजयः । लोकाः स्वर्गादयः । प्रजाः पुत्राः ॥ ९ ॥
प्रकाशिका
अस्माकं सर्वपुरुषार्थहेतुः श्रिकृष्णः परमेष्टतमोऽतस्तस्यैव वियोगसूचकान्येतानि निमित्तानीत्यशयेनाह- येषां न इति ॥ सपत्नानां वैरिणां विजयोऽभिभवः । लोकाश्च यज्ञकरणात्तेषां नः स काल इति पूर्वेणान्वयः ॥ ९ ॥
पश्योत्पातान्नरव्याघ्र भौमान्दिव्यान्सदैहिकान् ।
घोरमाशंसतोऽदूराद्भयं नो बुद्धिमोहनम् ॥ १० ॥
पदरत्नावली
कुत आशङ्कस इति तत्राह- पश्येति ॥ दिव्यान् सूर्यपरिवेषादीन् । भौमान् भूकम्पादीन् । देहे भवा दैहिका नेत्रोरुस्फुरणादयस् तैः सह वर्तमानाः सदैहिकास् तान् । इति त्रिविधान् अदृष्टव्यतिरिक्तकारणशून्यान् अशुभसूचकान् उशुभसूचकान् उत्पातान् पश्येत्यन्वयः । कीदृशान् ? बुद्धिमोहनं भयम् अदूराद् इदानीमेव आशंसतः कथयतः । तस्मादाशङ्क इति भावः ॥१०॥
प्रकाशिका
कुत इयं तव शङ्केत्यत आह- पश्येति ॥ उत्पाताद् दुर्निमित्तानि । देहे भवा दैहिकास्तैः सह वर्तमानाः सदैहिकास्तान् । अदूरात्समीपकाले एव । नोऽस्माकम् । बुद्धिमोहनं बुद्धिमोहप्रदम् । घोरमसह्यम् भयमाशंसतः कथयत इत्यन्वयः ॥ १० ॥
ऊर्वक्षिबाहवो मह्यं स्फुरन्त्यङ्ग पुनः पुनः ।
वेपथुश्चापि हृदये आराद्दास्यन्ति विप्रियम् ॥ ११ ॥
पदरत्नावली
दैहिकान् वक्तीत्याह- ऊर्वक्षीति ॥ ममोत्सङ्गादयः पुनः स्फुरन्ति कम्पन्ते । एते आरात् क्षिप्रं विप्रियं मह्यं दास्यन्तीत्यन्वयः ॥ ११ ॥
प्रकाशिका
दैहिकान् दर्शयति- ऊर्वक्षीति ॥ वाम इति शेषः । स्फुरन्ति कम्यन्ते । वेपथुः कम्पः । एते मह्यं विप्रियं दास्यन्ति ॥ ११ ॥
शिवैषोद्यन्तमरुण(आदित्य)मभिरौत्यनलानना ।
मामङ्ग सारमेयोऽयमभिधावत्यभीतवत् ॥ १२ ॥
पदरत्नावली
अनलो अग्निर् आनने यस्याः सा तथोक्ता । मुखादग्निज्वालामुद्गिरन्तीत्यर्थः । एषा शिवा शृृगाली उदयं गच्छन्तम् अरुणम् आदित्यम् अभिमुखं रौति रटति । रटे सृगालाक्रोशे काकाह्वाने च । सारमेयः श्वा ॥ १२ ॥
प्रकाशिका
भौमानाह सार्धैस्त्रिभिः । शिवा क्रोष्ट्री आदित्यमभिमुखं रौति क्रोशति । अनलोऽग्निरानने यस्याः सा तथोक्ता । मुखादग्निमुद्गिरतीत्यर्थः । हे अङ्ग प्रिय भीम । अभीतवन्निः-शङ्कम् ॥ १२ ॥
शस्ताः कुर्वन्ति मां सव्यं दक्षिणं पशवोऽपरे ।
वाहांश्च पुरुषव्याघ्र लक्षते रुदतो मम ॥ १३ ॥
पदरत्नावली
शस्ता भारद्वाजादयः मां सव्यम् अप्रदक्षिणम् अपरे पशवो वस्तगर्दभादयः मां प्रदक्षिणं कुर्वन्ति । वाहान् अश्वादींश्च रोदनं कुर्वतः मनसा निरूपयामि ॥ १३ ॥
प्रकाशिका
शस्ता गवादयः । सव्यं वामम् । अप्रदक्षिणमिति यावत् । अपरे गर्दभाद्या दक्षिणं प्रदक्षिणम् । वाहान् अश्वादीन् ॥ १३ ॥
मुत्युदूतः कपोतोऽग्रावुलूकः कम्पयन्मनः ।
प्रत्युलूकश्च हुङ्कारैरनिद्रौ शून्यमिच्छतः ॥ १४ ॥
तात्पर्यम्
अग्नौ पदं करोति । ‘यदुलूको वदति मोघमेतद्यत्कपोतः पदमग्नौ करोति’ इति हि श्रुतिः ॥ १४ ॥
पदरत्नावली
मृत्युदूतः मरणसूचकः कपोतः शिकाकणाशनपक्षी अग्नौ पदं करोति । ‘यत्कपोतः पदमग्नौ कृणोति’ इति मन्त्रात् । इदं स्वाप्नदर्शनमिति ज्ञातव्यम् । मे मनः कम्पयन् उलूकः प्रत्युलूकश्च मिथः हुङ्कारैर् जगच्छून्यमिच्छतः । सर्वनाशे यथा तथा ह्वानं कुरुत इत्यर्थः । कुह्वनैरिति केचित्पठन्ति । कुह्वानं नाम तज्जातिध्वनिविशेषः ॥ १४ ॥
प्रकाशिका
मृत्युदूतो मृत्युसूचकः । कपोतः शिलाकणाशनपक्षी । अत्र कपोतोग्नाविति साकांक्षं वाक्यमपेक्षितं सप्रमाणकमध्याहृत्य व्याख्याति- अग्नाविति ॥ तथा च पदं करोतीत्यध्याहार्य-मिति भावः । यद्यद्युलूको वदति शब्दं करोति । कार्यचिन्तनसमय इति शेषः । एतच्चिन्तितं मोघं, व्यर्थं भविष्यतीति यावत् । यद्यद्यभीष्टचिन्तनसमये कपोतोऽग्नौ पदं कृणोति करोत्येतन्मोघमिति श्रुत्यर्थः । उलूकः पेचिकः । प्रत्युलूकस्तत्प्रतिपक्षः परो मिथो हुङ्कारैर्जगच्छून्यं कर्तुमिच्छतः । तत्सूचकं हुङ्कारं कुरुत इत्यर्थः ॥ १४ ॥
धूम्रा दिशः परिधयः कम्पते कुः सहाद्रिभिः ।
निर्घातश्च महांस्तात साकञ्च स्तनयित्नुभिः ॥ १५ ॥
पदरत्नावली
परिधयः दिशः धूम्रा धूम्रवर्णा ज्वलिताः । परिवेषा वा । स्तनयित्नुभिर् अशनिभिर् अकालमेघैर्वा साकं महान् निर्घातः निर्मेघगर्जितम् । चशब्दस्त्वपकर्षकालमाह ॥ १५ ॥
प्रकाशिका
धूम्रा धूम्रवर्णाः । परिधयः सूर्यचन्द्रपरिवेषाश्च । धूम्रा भवन्तीति शेषः । दिव्यानाह सार्धश्लोकद्वयेन । स्तानयित्नुभिर्निर्मेघाशनिभिरकालमेघैर्वा । साकं सह । महान्निर्घातोऽशनिपातो गर्जनं वा । भवतीति शेषः । चशब्दौ समुच्चयार्थौ ॥ १५ ॥
वायुर्वाति खरस्पर्शो रजसा विसृजंस्तमः ।
असृग्वर्षन्ति जलदः बीभत्समिव सर्वतः ॥ १६ ॥
पदरत्नावली
वायुः शंसत्यपकर्षकालमित्याह- वायुरिति ॥ रजसा धूल्या तमोऽन्धकारं विसृजन् निष्ठुरस्पर्शः वायुर् वाति । अथ दिव्यानाह- असृगिति ॥ जलदाः सर्वतो दिशं बीभत्समिव भीषकमिव असृक् रुधिरं वर्षन्ति ॥ १६ ॥
प्रकाशिका
खरस्पर्शोऽसह्यस्पर्शः । रजसा धूल्या तमोऽन्धकारम् । विशेषेण सृजन् असृग्रक्तम् । कथंभूतम् । बीभत्समिव भीषकमिव विद्यमानम् ॥ १६ ॥
सूर्यं हतप्रभं पश्य ग्रहमर्दं मिथो दिवि ।
ससङ्कुले तु भगणे ज्वलिते इव रोदसी ॥ १७ ॥
पदरत्नावली
दिवि व्योमि्न परस्परं ग्रहमर्दं ग्रहयुद्धम् । भगणे नक्षत्रसमूहे ससङ्कुले साङ्कर्यसहिते । भावप्रधानत्वद्योतनाय ससङ्कुल इत्युक्तम् । तेनातिभयप्रापकत्वमाह । तुशब्देन एवञ्चेदेवं स्यादिति ज्योतिःशास्त्रं प्रमाणीकरोति । रोदसी द्यावापृथिव्यौ ज्वालाकुले इव भातः ॥ १७ ॥
प्रकाशिका
दिवि व्योमि्न । ग्रहाणामादित्यादीनाम् । मिथो मर्दं परस्परयुद्धम् । भगणे नक्षत्रसमूहे । ससङ्कुले । भावप्रधानो निर्देशः । सङ्कुलत्वेन साङ्कर्येण सहिते सति । रोदसी द्यावापृथिव्यौ ज्वलिते ज्वालाकुले इव भातः ॥ १७ ॥
नद्यो नदाश्च क्षुभिताः सरांसि च मनांसि च ।
न ज्वलत्यग्निराज्येन कालोऽयं किं विधास्यति ॥ १८ ॥
पदरत्नावली
पुनश्च भौमानाह- नाद्य इति ॥ स्वर्नद्यादीनां दिव्यत्वसंग्रहार्थम् अत्र नापाठि । नदाः पुन्नद्यः शोणादयः । क्षुभिता निमित्तमन्तरेण कलुषाः । नित्यम् आज्येन ज्वलनस्वभावो वह्निर् आज्येन न ज्वलतीति यस्माद् अतोऽयं कालः किं शमलं विधास्यति ? ॥ १८ ॥
प्रकाशिका
पुनर्भौमानाह । नद्य इति सार्धैस्त्रिभिः । नदाः पुंनद्यः । शोणभद्रादयः क्षुभिताः कलुषाः । प्राणिनां मनांसि च क्षुभितानि । किमनिष्टं विधास्यति करिष्यति । एतैर्निमित्तैरिति शेषः
॥ १८ ॥
न पिबन्ति स्तनं वत्सा न दुह्यन्ति च मातरः ।
रुदन्त्यश्रुमुखा गावो न हृष्यन्त्यृषभा व्रजे ।
दैवतानि रुदन्तीव स्विद्यन्ति ह्युच्चलन्ति च ॥ १९ ॥
पदरत्नावली
व्रजे गोष्ठे अश्रु मुखे यासां तास् तथोक्ताः । न हृष्यन्ति नाऽविष्किरन्ति आविष्कुर्वन्ति तटाघातं न कुर्वन्तीत्यर्थः । दैवतानि प्रतिमाः । रोदनादौ यो भावस् तं कुर्वन्ति ॥ १९ ॥
प्रकाशिका
न दुह्यन्ति । कर्मकर्तरि छान्दसमिदम् । न प्रस्नुवन्तीत्यर्थः । अश्रुमुखे यासां तास्तथा । व्रजे गोष्ठे । वृषभा न हृष्यन्ति न नर्दन्ति । न वा प्रक्रीडादिकं कुर्वन्तीत्यर्थः दैवतानि प्रतिमाः खिद्यन्तीव प्रचलन्तीव ॥ १९ ॥
इमे जनपदा ग्रामाः पुरोद्यानकराश्रमाः ।
भ्रष्टश्रियो निरानन्दाः किमघं दर्शयन्ति नः ॥ २० ॥
पदरत्नावली
भ्रष्टश्रियः । अत एव निरानन्दाः । समृद्धिरहिताः सुखमुक्ता वा । अघं व्यसनम्
॥ २० ॥
प्रकाशिका
रोदनादौ यो भावस्तं दर्शयन्तीत्यर्थः । अघमनिष्टम् ॥ २० ॥
मन्य एतैर्महोत्पातैर्नूनं भगवतः पदैः ।
अनन्यपुरुषस्त्री(श्री)भिर्हीना भूर्हतसौभगा ॥ २१ ॥
पदरत्नावली
एषाम् उत्पातानां फलं स्वयमेवानुमिनोतीत्याह- मन्य इति ॥ एतैर् महोत्पातैः प्रायेण यादवेन्द्रस्य भगवतः पादैर् हीना त्यक्ता अत एव हतसौभगा भूर् महीति मन्ये । कथंभूतैः पदैः ? अनन्यपुरुषस्त्रीभिर् नान्ये पुरुषाः स्त्रियश्च सौन्दर्ये साम्ये आधिक्ये च वर्तन्ते येषां तानि अनन्यपुरुषस्त्रीणि तैः । दीर्घश् छान्दसः । अनन्यैर् भगवदेकशरणैः पुरषैः स्त्रीभिश्च हीनेति च ॥२१॥
प्रकाशिका
स्वयमेवैषां फलमनुमायाह- मन्य इति ॥ एतैर्लिङ्गैः । कथंभूतैः पदैरनन्य-पुरुषस्त्रीभिर्न विद्यन्तेऽन्ये पुरुषाः स्त्रियश्च सौन्दर्यादिविषये येषां तान्यनन्यपुरुषस्त्रीणि तैः । दीर्घश्छान्दसः । अनन्या भगवदेकशरणाः पुरुषाः स्त्रियश्च ताभिश्च हीनेति वा । अनन्यपुरुषश्रीभिरिति पाठे न विद्यतेऽन्येषु पुरुषेषु श्रीः शोभा येेषां तानि तैरिति व्याख्येयम् ॥ २१ ॥
इति चिन्तयतस्तस्य दृष्टारिष्टेन चेतसा ।
राज्ञः प्रत्यागमद्बह्मन्यदुपुर्याः कपिध्वजः ॥ २२ ॥
पदरत्नावली
दृष्टारिष्टेन दृष्टाशुभेन व्यसनमनुमिमानेन चेतसा तस्य युधिष्ठिरस्य राज्ञ इति चिन्तयतः, अनुजं प्रति कथयतश्च सत इति शेषः । कपिध्वजो ऽर्जुनः यदुपुर्या द्वारकाया हस्तिनपुरं प्रत्यागमदित्यन्वयः ॥ २२ ॥
प्रकाशिका
दृष्टान्यरिष्टानि येन तेन चेतसा । चिन्तयतः सतः । कपिध्वजोऽर्जुनः ॥ २२ ॥
तं पादयोर्निपतितमयथापूर्वमातुरम् ।
अधोवदनमब्बिन्दून्मुञ्चन्तं नयनाब्जयोः ॥ २३ ॥
पदरत्नावली
अयथापूर्वं पूर्वं यथा तथा न भवतीति तम् । आतुरं सम्भ्रान्तं रोगिकल्पं वा । अधोवदनम् अवाङ्मुखम् । अब्बिन्दन् जलबिन्दून् ॥ २३ ॥
प्रकाशिका
अयथापूर्वं यथापूर्वं न भवति तथा निपतितम् । आतुरं रोगिणमिव स्थितम् । नयनाब्जयोः सकाशात् ॥ २३ ॥
विलोक्योद्विग्नहृदयो विच्छवि(विच्छाय)मनुजं नृप ।
पृच्छति स्म सुहृन्मध्ये संस्मारन्नारदेरितम् ॥ २४ ॥
पदरत्नावली
विच्छायं विगतश्रीकम् । अनुजं निरीक्ष्य उद्विग्नहृदयस् त्वरितमना पृच्छति स्म । अपृच्छदित्यन्वयः ॥ २४ ॥
प्रकाशिका
विच्छविं विगतकान्तिम् । विच्छायमिति पाठेऽप्ययमेवार्थः ॥ २४ ॥
युधिष्ठिर उवाच—
कच्चिदानर्तपुर्यां नः स्वजनाः सुखमासते ।
मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः ॥ २५ ॥
पदरत्नावली
आनर्तपुर्यां द्वारवत्याम् । मधुवश्च भोजाश्च दशार्हाश्च अर्हाश्च सात्वताश्च अन्धकाश्च वृष्णयश्च मधुभोजदशार्हार्हसात्वतान्धकवृष्णयः ॥ २५ ॥
प्रकाशिका
आनर्तपुर्यां द्वारवत्याम् । स्वजना बान्धवाः ॥ २५ ॥
शूरो मातामहः कच्चित्स्वस्त्यास्ते चाथ मारिषः ।
मातुलः सानुजः कच्चित्कुशल्यानकदुन्दुभिः ॥ २६ ॥
पदरत्नावली
मारिष आर्यः । मातामहः मातुःपिता । मातुलः मातुः सहोदरः । आनकदुन्दुभिर् वसुदेवः । कच्चिच्छब्दः प्रश्नार्थे । कुशली सुखी ॥ २६ ॥
प्रकाशिका
मारिषः । ‘रुष निष हिंसायाम्’ । मा रिष्यते वचसाऽपि अवमानहिंसार्हो न भवतीति मारिषो मान्य इत्यर्थः । मातामहो मातुः पिता । मातुलो मातुः सहोदरः । सानुजोऽनुजादिभिः सहितः । आनकदुन्दुभिर्वसुदेवः । कच्चिच्छब्दः प्रश्नार्थे ॥ २६ ॥
सप्तस्वसारस् तत्पत्न्नयो मातुलान्याः सहात्मजाः ।
आसते सस्नुषा क्षेमं देवकीप्रमुखा स्त्रियः ॥ २७ ॥
पदरत्नावली
वसुदेवश्च सप्तस्वसारः सहोदर्यः कुशलवत्यः किम् ? तस्य वसुदेवस्य पत्न््नयो ऽस्माकं मातुलान्यः मातुलभार्या आत्मजैः सह वर्तमानाः । अनेन तत्पुत्राणाञ्च कुशलप्रश्नः कृत इति ज्ञातव्यम् । स्नुषाभिः पुत्रभार्याभिः सहिताः ॥ २७ ॥
प्रकाशिका
तत्पत्न््नयस्तस्य वसुदेवस्य पत्न्नयः सप्त सङ्ख्याकाः परस्परं स्वसारोऽस्माकं मातुलान्यो मातुलभार्याः । ता निर्दिशति- देवकीप्रमुखा इति ॥ २७ ॥
कच्चिद्राजाहुको जीवत्यसत्पुत्रोऽस्य चानुजः ।
हृदीकः ससुतोऽक्रूरो जयन्तगदसारणाः ॥ २८ ॥
पदरत्नावली
असन् दुष्टः पुत्रः कंसनामा यस्य सो ऽसत्पुत्रः । आहुक उग्रसेनः । अस्य उग्रसेनस्य अनुजः देवकः । ससुतः कृतवर्माख्यपुत्रसहितः हृदीकः । पुत्रैः सहितोऽकूरो वा ॥ २८ ॥
प्रकाशिका
आहुक आहुकस्यापत्यमुग्रसेनः । स कथं भूतः । असन्दुष्टः कंसः पुत्रो यस्य स तथा । अस्योग्रसेनस्यानुजो देवकः । ससुतः कृतवर्मनाम्ना सुतेन सहितो हृदिको जयन्तादयः ॥ २८ ॥
आसते कुशलं कच्चिद्ये च शत्रजिदादयः ।
कच्चिदास्ते सुखं रामो भगवान्सात्वतां पतिः ॥ २९ ॥
पदरत्नावली
ये शत्रुजिदादयस् ते च सुखमासते किम् ? । रामो बलभद्रः ॥ २९ ॥
प्रकाशिका
शत्रुजिदादयश्च कृष्णभ्रातरः ॥ २९ ॥
प्रद्युम्नः सर्ववृष्णीनां सुखमास्ते महारथः ।
गम्भीररयोऽनिरुद्धो वर्तते भगवानुत ॥ ३० ॥
पदरत्नावली
सर्ववृष्णीनां मध्ये महारथः । गम्भीररय उग्रवेगः । अगाघज्ञानो वा । रथ गतौ, गतिर्ज्ञानम् ॥ ३० ॥
प्रकाशिका
सर्ववृष्णीनां मध्ये महारथः । गम्भीररयो युद्धे महावेगः । वर्तते मोदत इत्यर्थः
॥ ३० ॥
सुषेणश्चारुदेष्णश्च साम्बो जाब्बवतीसुतः ।
अन्ये च कार्ष्णिप्रवराः सपुत्रा ऋषभादयः ॥ ३१ ॥
पदरत्नावली
कार्ष्णीनां कृष्णसुतानां प्रवराः कार्ष्णिप्रवराः ॥ ३१ ॥
प्रकाशिका
कृष्णस्यापत्यानि कार्ष्णेयास्तेषु प्रवराः ॥ ३१ ॥
तथैवानुचराः शौरेः श्रुतसेनोद्धवादयः ।
सुनन्दनन्दशीर्षण्या ये चान्ये सात्वतर्षभाः ॥ ३२ ॥
पदरत्नावली
श्रुतसेनोद्धवादयः शौरेर् अनुचरा भृत्याः । सुनन्दनन्दौ शीर्षण्यौ प्रधानौ येषां ते सुनन्दनन्दशीर्षण्याः । सुनन्दनन्दप्रधाना इत्यर्थः । सुनन्दनन्दशीर्षाद्या इति पाठे सुनन्दो नन्दशीर्षश्च आद्यौ येषां ते तथोक्ता इति योजनीयम् । शीर्षशब्दः प्रधानवाची । पार्षदेषु प्रधानौ सुनन्दनन्दौ आद्यौ येषां ते यथोक्ता इति वा ॥ ३२ ॥
प्रकाशिका
शौरेः कृष्णस्यानुचरा भृत्याः सुनन्दनन्दौ शीर्षण्यौ प्रधानौ येषां ते सुनन्दनन्दशीर्षण्याः ॥ ३२ ॥
अपि स्वस्त्यासते सर्वे रामकृष्णभुजाश्रयाः ।
अपि स्मरन्ति कुशलमस्माकं बद्धसौहृदाः ॥ ३३ ॥
प्रकाशिका
बद्धसौहृदा बद्धस्नेहाः ॥ ३३ ॥
भगवानपि गोविन्दो ब्रह्मण्यो भक्तवत्सलः ।
कच्चित्पुरे सधर्मायां सुखमास्ते सुहृद्वृतः ॥ ३४ ॥
तात्पर्यम्
यथान्येषां सुखं भविष्यति तथा । नित्यसुखत्वाद्धरेः । अत्युत्तमानां कुशलप्रश्नो लोकसुखेच्छया । नित्यदाप्तसुखत्वात्तु न तेषां युज्यते क्वचित् ॥ इति नारदीये ॥ ३४ ॥
पदरत्नावली
सुधर्मायां सभायाम् । ब्रह्मणा वेदेन गम्यत इति ब्रह्मण्यः । विप्रप्रियो वा । नित्यसुखस्य हरेः कुशलोद्देशो न मे प्रश्नः किन्तु लोकसुखकरत्वोद्देश इत्ययमर्थोऽपिशब्देन दर्शितः
॥ ३४ ॥
प्रकाशिका
भगवानपि गोविन्द इत्यत्रेतरप्रश्नवदेवायमपि प्रश्न इति प्रतीतिवारणायाभिप्रायमाह- यथेति ॥ यथा चान्येषामित्यध्याहृत्य सुखमित्येतदास्त इति क्रियाविशेषणतया योज्यमिति भावः । एवं व्याख्याने बीजमाह- नित्यसुखत्वादिति ॥ तथा च कदाचित्सुखवत्स्वेवैतादृशः प्रश्नो युक्तो न नित्यसुखे । असुखप्रसक्तेरेवाभावात् । अत एवं व्याख्यातमिति भावः । अत्र प्रमाणमप्याह- अत्युत्तमानामिति ॥ अत्युत्तमानां सर्वोत्तमानां हर्यवताराणाम् । लोकसुखेच्छया लोकसुखकरणापेक्षया । व्याख्येय इति शेषः । कुत एवं व्याख्येयमित्यतोऽत्र बीजं दर्शयति- नेति ॥ तेषां भगवदवताराणां क्वचित्कदाचिज्जायमानम् । सुखमिति शेषः । येन प्रश्नो यथास्थितः स्यादिति भावः । इति हेतोर्लोकसुखेच्छया व्याख्येय इत्यन्वयः ॥ ३४ ॥
मङ्गलाय च लोकानां क्षेमाय च भवाय च ।
आस्ते यदुकुलाम्भोधावाद्योऽनन्तसखः पुमान् ॥ ३५ ॥
यद्बाहुदण्डैर्गुप्तायां स्वपुर्यां यदवोऽर्चिताः ।
क्रीडन्ति परमानन्दं महापौरुषिका इव ॥ ३६ ॥
यत्पादशुश्रूषणमुख्यकर्मणा
सत्यादयो व्द्यष्टसहस्त्रयोषितः ।
निर्जित्य सङ्ख्ये त्रिदशांस्तदाशिषो
हरन्ति वज्रायुधवल्लभोचिताः ॥ ३७ ॥
यद्बाहुदण्डाभ्युदयानुजीविनो
यदुप्रवीरा ह्यकुतोभया मुहुः ।
अधिक्रमन्त्यङ्घ्रिभिराहतां बलात् ।
सभां सुधर्मां सुरसत्तमोचिताम् ॥ ३८ ॥
पदरत्नावली
एतमेवार्थं दर्शयति- मङ्गलायेति ॥ यदवो यस्य कृष्णस्य बाहुदण्डैः रक्षितायां स्वपुर्यां क्रीडन्तीत्यन्वयः । क इव ? परमानन्दं प्राप्य महापौरुषिका इव मुक्ता इव । परमानन्दा-परपर्यायं वैश्रवणबाहुदण्डगुप्तं चैत्ररथं प्राप्य महापौरुषिका यक्षा इवेति वा ॥
यस्य हरेः पादयोः शुश्रूषणं सेवालक्षणं तदेव मुख्यं कर्म तेन साधनेन सत्यादयः सत्यभामा-पुरःसरा द्व्यष्टसहस्त्रयोषितः षोडषसहस्त्रसङ्ख्याः स्त्रियः सङ्ख्ये युद्धे त्रिदशान् इन्द्रादीन् निर्जित्य वज्रायुधस्य इन्द्रस्य वल्लभायाः शच्या उचितास् तदाशिषस् तेषाम् इन्द्रादीनाम् आशिषः पारिजातादिका हरन्ति आच्छिद्य स्वीकुर्वन्तीत्यन्वयः ॥
यस्य हरेर् बाहुदण्डानाम् अभ्युदयो दिग्विजयश्रीस् ताम् अनुजीवितुं शीला अत एवाकुतोभया यदुप्रवीराः सुरसत्तमस्य इन्द्रस्य उचितां बाहुबलाद् आहृताम् आनीतां सुधर्माख्यां सभाम् अङ्घ्रिभिर् अनुदिनम् अधिक्रमन्ति आक्रम्य तिष्ठन्तीत्यन्वयः ॥
सो ऽनन्तः शेषः सखा यस्य सो ऽनन्तसखः । आद्यः पुमान् । लोकानां मङ्गलाय शुभाय क्षेमाय प्राप्तपरिपालनाय भवाय वृद्धये यदुकुलसमुद्रे आस्ते कच्चिदित्यन्वयः । चशब्दा मिथः-समुच्चयार्था मङ्गलाद्यनेकप्रयोजनार्था वा ॥ ३५-३८ ॥
प्रकाशिका
एतमेवार्थं दर्शयति । मङ्गलायेति चतुर्भिः । मङ्गलाय शुभाय । क्षेमाय प्राप्तपरिपालनाय । भवाया प्राप्तलाभाय अभिवृद्धये वा । ‘भवो वृद्धिः समुद्दिष्ट’ इति वचनात् । चशब्दः परस्परसमुच्चये । यदुकुलसमुद्रमध्ये । अनन्तः शेषावतारो बलभ्रदः सखा यस्य स तथा ॥
अर्चिताः सर्वैः पूजिताः सन्तः । परमानन्दं यथा भवति तथा । महापौरुषिका महापुरुषा हरिस्तद्भक्ता मुक्ता इवेत्यर्थः ॥
यस्य कृष्णस्य पादशुश्रूषणमेव मुख्यं तपआद्यपेक्षया श्रेष्ठं कर्म तेन । सत्यादयः सत्यभामादयः । सङ्ख्ये युद्धे । त्रिदशानिन्द्रादींस्तदाशिषस्तदभीष्टाः पारिजाताद्या हरन्ति । कथं भूताः । वज्रायुधस्येन्द्रस्य वल्लभा शची तस्या उचिता योग्याः ॥
अभ्युदयः प्रभावः । बलादाहृतां सुधर्मां सुधर्मनामिकां सभाम् । कथंभूतां सुरसत्तम इन्द्रस्तस्योचितां योग्याम् । अनेन सर्वैर्वन्द्यामिति सूचयति । स्वाङ्घ्रिभिः स्वपादैः । मुहुर्मुहुरनुदिनम् । अधिक्रामन्ति आक्रम्य तिष्ठन्ति । स गोविन्दः सुखमास्त इति पूर्वेणान्वयः । अनेन लोकानां यादवानां सत्यभामादिस्वस्त्रीणां च यथा सुखं स्यात्तथाऽऽस्ते किमिति प्रश्नाशयो दर्शित इति ज्ञातव्यः॥३५-३८॥
कच्चित्तेऽनामयं तात भ्रष्टतेजा विभासि मे ।
अलब्धमानोऽवज्ञातः किं वा तात चिरोषितः ॥ ३९ ॥
तात्पर्यम्
पूर्वं चिरोषितः ॥ ३९ ॥
पदरत्नावली
तव किमेतादृशदुःखनिमित्तमिति पृच्छतीत्याह- कच्चिदिति ॥ हे तात ते तव अनामयं कच्चित् सुखं किम् । कुतः कुशलप्रश्न इति तत्राह- भ्रष्टतेजा इति ॥ भ्रष्टतेजस्त्वे कारणं पृच्छति- अलब्धेति ॥ अलब्धो मानो येन सस् तथोक्तः । न केवलं मानलाभाभावः । किन्तु अवज्ञातश्च किमित्याह- अवज्ञात इति ॥ पूर्वं चिरोषितोऽद्य किं वा क्षिप्रमागतः । तद् ब्रूहीत्यर्थः
॥ ३९ ॥
प्रकाशिका
इदानीमर्जुनस्यैवानामयं पृष्ट्वा भ्रष्टतेजस्त्वे कारणं पृच्छति- कच्चिदिति षड्भिः ॥ अनामयमारोग्यम् । न लब्धमानो बन्धुकृतो येन स तथोक्तः । प्रत्युत किं वाऽवज्ञातस्तिरस्कृतः । अत्र चिरोषित इत्येतदनुपपन्नमिवाभाति । सप्तदिवसानन्तरमेवागतत्वस्य पूर्वमुक्तत्वादतोऽत्र विवक्षितं तात्पर्यं दर्शयति- पूर्वं चिरोषित इति ॥ पूर्वं यदा तव द्वारकागमनं तदा तत्र चिरकालमेव तव वासोऽभूदिदानीं तु शीघ्रमेवागतोऽसि । अतोऽवज्ञादिसम्भावनेत्यर्थ इति भावः ॥ ३९ ॥
कच्चिन्नाभिहतो भावैः शब्दादिभिरमङ्गलैः ।
न दत्तं युक्तमर्थिभ्य आशया यत्प्रतिश्रुतम् ॥ ४० ॥
पदरत्नावली
अवज्ञा च इङ्गितः क्रियया वाचा वा स्यात् । तत्र तवैकेन, सर्वैः किं वा ? इत्यभिपे्रत्य पृच्छति- कच्चिदिति ॥ आदिशब्देनेङ्गितक्रिये गृहीते । शब्दादिभिरवज्ञाने कारणं स्वदोषः परदोषो वा । तत्र स्वदोषो नास्ति हीति पृच्छति- न दत्तमिति ॥ वित्ताशया प्राप्तेभ्योऽर्थिभ्यो युक्तं योग्यं यद्दास्यामिति प्रतिज्ञातं तन्न दत्तमितीयं स्वदोषात् । दत्वापि तदाशपूर्तिपर्यन्तं न दत्तमितीयं परदोषात् । उभयञ्च न प्राप्तं हीति वाक्यार्थः ॥ ४० ॥
प्रकाशिका
अमङ्गलैरशुभैः शब्दादिभिः शब्दस्पर्शरूपरसगन्धलक्षणैर्भावैः पदार्थैरभिहितः स्पृष्टो न कच्चित् । न किमपीत्यर्थः । आशायुक्तं तदाशाविषयीभूतं यद्द्रव्यं त्वया प्रतिश्रुतं दास्यामीति प्रतिज्ञादं तद्द्रव्यं न दत्तं कच्चित् ॥ ४० ॥
कच्चित्त्वं ब्राह्यणं बालं गां वृद्धं रोगिरं स्त्रियम् ।
शरण्योपसृतं सत्वं नात्याक्षीः शरणप्रदः ॥ ४१ ॥
पदरत्नावली
ब्राह्मणादिसत्वं जीवजातं शरण्योपसृतं शरणार्थितया प्राप्तं शरणप्रदस्त्वं न अत्याक्षीः रक्षामकृत्वा त्यक्तवानसि ? किम् अरक्षितैस्तैरवज्ञातः ? इति वाक्यार्थः ॥ ४१ ॥
प्रकाशिका
ब्राह्मणादिसत्त्वं प्राणिजातम् । कथं भूतम् । शरण्योपसृतं शरणं गन्तुं योग्यं त्वां प्रति प्राप्तम् । नात्याक्षीः किं न त्यक्तवानसि किम् । यतस्त्वं पूर्वं शरणप्रदः । तादृशप्राणिनामाश्रयप्रदः
॥ ४१ ॥
कच्चित्त्वं नागमोऽगम्यां गम्यां वाऽसत्कृतां स्त्रियम् ।
पराजितो वाऽथ भवान्नोत्तमैर्नाधमैः पथि ॥ ४२ ॥
पदरत्नावली
अगम्यां विधवां परस्त्रियं वा गम्याम् असत्कृतां स्नानादिसंस्काररहितां प्रदान-कर्मरहितां वा स्त्रियं नागमः न गतवानसि किं ? इयञ्च पार्थ एवंविधं कर्म करोतीति काचित्स्वदोष-निमित्तावज्ञा ॥ ४२ ॥
प्रकाशिका
अगम्यां विधवां निषिद्धां वा । स्त्रियं नागमो न गतवानसि किम् । नोत्तमै-रनुत्तमैः । समैरिति यावत् । असमैरधर्मैर्वा पराजितो न कच्चित् ॥ ४२ ॥
अपिस्वित्पर्यभुङ्थास्त्वं सम्भोज्यावृद्धबालकान् ।
जुगुप्सितं कर्म किञ्चित्कृतवानसदक्षमम् ॥ ४३ ॥
पदरत्नावली
आवृद्धबालकान् वृद्धबालावधिसर्वान् सम्भोज्य भोजयित्वा पर्यभुङ्था भुक्तवानसि किम् ? सम्भोज्यानिति पाठे सह भोक्तुं योग्यान् परिवर्जयित्वा भुक्तवानसीत्यर्थः । असन् अक्षमम् अकर्तुमशक्यं तादृशं किञ्चित् शास्त्रनिषिद्धं कर्म कृतवान् किम् ? एकादशीभोजनं स्वर्णस्तेयं निधानोद्धरणमित्यादिजुगुप्सितं कर्म ॥ ४३ ॥
प्रकाशिका
सम्भोज्यान्सम्भोजनार्हान्वृद्धान् बालकांश्चापि स्वित् किं स्वित् त्वं पर्यभुङ्थाः परित्यज्य भुक्तवानसि किम् । अक्षमं कर्तुमयोग्यं यज्जुगुप्सितं शास्त्रनिषिद्धं कर्म ब्रह्महत्यादिकं तत्कृतवानसि किम् ॥ ४३ ॥
कच्चित्प्रेष्ठतमेनाथ हृदयेनात्मबन्धुना ।
शून्योऽसि रहितो नित्यं मन्यसे तेऽन्यथा हि रुक् ॥ ४४ ॥
॥ इति श्रीमद्भागवते प्रथमस्कन्धे त्रयोदशोऽध्यायः ॥
पदरत्नावली
उक्तं सर्वं विच्छायत्वे न पूर्णमिति मत्वा कारणान्तरं पृच्छति- कच्चिदिति ॥ अथ यं नित्यं प्रेष्ठादिगुणवत्वेन मन्यसे तेन सर्वतः प्रेष्ठेन प्रियतमेन हृदयेन मनोहारिणा आत्मबन्धुना स्वाभाविकबन्धुना कृष्णेन रहितः वियुक्तः सन् शून्यो ऽमङ्गलोऽसि कच्चित् । ते तव रुक् शरीरप्रभा अन्यथा न पूर्ववत् हि यस्मात् तस्मात् तेन वियुक्तोऽमङ्गलो भवितुमर्हसीति मन्यसे । नित्यं प्रेष्ठतमेन रहितः शून्योऽस्मीति आत्मानं हृदयेन मन्यसे । सर्वथा तव शरीरकान्तिस्तु अन्यथा न पूर्ववद् इति वा । प्रेष्ठेन तेन रहितः शून्योऽस्मीति मन्यसे अन्यथा तथामननाभावे तव रुक् रोगः मनोव्यथा कथमिति वा । त्वं मन्निष्ठत्वाच्च कृष्णप्रेष्ठत्वाच्च लोकशास्त्रनिषिद्धं न करोषि हि । तस्मात्तेन कृष्णेन वियुुुक्तत्वात्तव विच्छायत्वमिति मन्ये इति हिशब्दार्थः ॥ ४४ ॥
॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे त्रयोदशोऽध्यायः ॥
प्रकाशिका
नित्यं सर्वदा प्रेष्टतमेन हृदयेन मनोगतेनात्मबन्धुना स्वबन्धुना कृष्णेन रहितोऽसि । यत आत्मानं शून्योऽस्मीति मन्यसे कच्चित् । हि यस्मात्ते रुक्वान्तिरन्यथा न पूर्ववत् । अत एते प्रश्ना मया कृता इति शेषः ॥ ४४ ॥
**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **
वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां त्रयोदशेऽध्यायः ॥ १-१३ ॥