१२ द्वादशोऽध्यायः

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम्

अथ द्वादशोऽध्यायः

सूत उवाच—

विदुरस्तीर्थयात्रायां मैत्रेयादात्मनो गतिम् ।

ज्ञात्वाऽऽगाद्धस्तिनपुरं तयावाप्तविवित्सितः ॥ १ ॥

पदरत्नावली

विषयरागः संसाराय तदभावो विमुक्तये इत्यतो मुमुक्षुणा वैराग्यं स्वतो वा परतो वा सम्पादनीयमिति अयमर्थः प्रतिपाद्यतेऽस्मिन्नाध्याये । तत्र शुद्धान्तःकरणस्यैव विषयविरागः सुदृढ इति स च कर्मणा तीर्थसेवया वा स्याद् इत्यभिप्रेत्य विदुरस्य तीर्थसेवां कृत्वा युधिष्ठिरादिबन्धुदिदृक्षया हस्तिनपुरागतिमाह- विदुर इति ॥ विदुरो हस्तिनपुरमागादित्यन्वयः । किं कृत्वा ? तीर्थयात्रायां कृष्णादिष्टान् मैत्रेयादात्मनः परमात्मनः गतिं गम्यते अवगम्यते अनयेति गतिर् विद्या तां ज्ञात्वा । आत्मनो जीवस्य गतिं स्वर्गनरकादिविषयामिति वा । तया परमात्मविद्यया अवाप्तं विवित्सितं ज्ञातुमिष्टं येन स तथोक्तः ॥ १ ॥

प्रकाशिका

इदानीं परीक्षितो राज्याभिषेकादिकं वक्तुं धृतराष्ट्रधर्मराजादिषु सत्सु न कनिष्ठस्य राज्याभिषेक उचित इत्याशङ्कापरिहाराय धृतराष्ट्रादीनां सर्वेषां प्रस्थानं सविस्तारं तावदादौ निरूपयति त्रिभिरध्यायैः । तत्रादौ धृतराष्ट्रप्रस्थानस्य विदुरोपदेशसाध्यत्वाद्विदुरागमनप्रकारं तावदाह- विदुर इति ॥ तीर्थयात्रायां तीर्थयात्रासमये । आत्मनः परमात्मनो जीवस्य वा गतिं स्थितिम् । तया ज्ञातया जीवे परमात्मस्थित्यावप्तं विवित्सितं ज्ञातुमिष्टं येन स तथा ॥ १ ॥

यावतः कृतवान्प्रश्नान्क्षत्ता कौषारवाग्रतः ।

जातैकभक्तिर्गोविन्दे तेभ्यश्चोपरराम ह ॥ २ ॥

पदरत्नावली

‘नापृष्टः कस्यचिद् ब्रूयादि’ति वचनात् प्रश्नप्रतिवचनाभ्यां तत्वमवगम्यालम्बुद्धि-रभूदित्याह- यावत इति ॥ क्षत्ता विदुरः । कुषारवस्यापत्यस्य मैत्रेयस्याग्रतः यावतः प्रश्नान् कृतवान् तेभ्यः प्रश्नेभ्यः मैत्रेयेण परिहृतेभ्य उपरराम ज्ञातत्वादलंबुद्धिमानभूत् । हशब्दस् तृप्तिसूचकः । चशब्द एवार्थे । तत्वज्ञानफलमाह- जातेति ॥ तत्वज्ञानाद् अतिशयेन जाता एका प्रधाना भक्तिर्यस्य सस् तथोक्तः । कुत्र ? गोविन्दे श्रीकृष्णे । अनेन भक्तिज्ञानयोरन्योन्यहेतुत्वमसूचि ॥ २ ॥

प्रकाशिका

आवाप्तविवित्सित इत्येतदेव विशदयति- यावत इति ॥ कुषारवस्यापत्यं कौषारवो मैत्रेयस्तस्याग्रतः पुरतः । पश्चात्तेभ्यः प्रश्नेभ्यः परिहृतेभ्यो गोविन्दे जातैकभक्तिः कृतार्थः सन् उपररामालम्बुद्धिमानभूत् । ज्ञातव्यस्य ज्ञातव्यात्पुनः प्रश्नान्न चकारेत्याशयः । हशब्दस्तृप्तिसूचकः । चशब्दः परिहृतेभ्य इत्यस्य समुच्चायकः ॥ २ ॥

तं बन्धुमागतं दृष्ट्वा धर्मपुत्रः सहानुजः ।

धृतराष्ट्रो युयुत्सुश्च सूतः शारद्धतः पृथा ॥ ३ ॥

पदरत्नावली

सूतः सञ्जयः । शारद्वतः कृपः ॥ ३ ॥

प्रकाशिका

युयुत्सुर्धुतराष्ट्राद्वेश्यायां जातः । सूतः सञ्जयः । शारद्वतः कृपः ॥ ३ ॥

गान्धारी द्रौपदी ब्रह्मन्सुभद्रा चोत्तरा कृपी ।

अन्याश्च जामयः पाण्डोर्ज्ञातयः ससुताः स्त्रियः ॥ ४ ॥

पदरत्नावली

अन्याः पाण्डोर्जामयः पुत्रभार्याः । अन्याश्च अप्रसिद्धनामानः । जामयः स्वसारो वा ॥ ४ ॥

प्रकाशिका

कृपी द्रेणभार्या । पाण्डोर्जामयः स्नुषाः स्वसारो वा ॥ ४ ॥

प्रत्युज्जग्मुः प्रहर्षेण प्राणांस्तन्व इवागतान् ।

अभिसङ्गम्य विधिवत्परिष्वङ्गाभिवन्दनैः ॥ ५ ॥

तात्पर्यम्

‘तत्प्राणे प्रपन्न उदतिष्ठत्’ इति श्रुतिः ॥ ५ ॥

पदरत्नावली

आगतान् प्राणान् दृष्ट्वा तन्वः भोगायतनानि शरीराणीव । ‘तत्प्राणे प्रपन्न उदतिष्ठत्’ इति श्रुतेः ॥ ५ ॥

प्रकाशिका

कथं प्रत्याजग्मुः प्राणकलहसमये विराट्शरीरे आगतं प्रविष्टं प्राणं तन्व इव पूर्वप्रविष्टचक्षुरादिकरणाभिमानिन इवेत्यर्थः । अत्र प्रमाणं दर्शयति- तत्प्राण इति ॥ तच्चक्षुरादि-करणसमूहोपेतं विरिञ्चशरीरं प्राणे मुख्यप्राणे प्रपन्ने प्राप्ते । प्रविष्टे सतीति यावत् । उदतिष्ठदुत्तस्थौ । अस्यां श्रुतावयं दृष्टान्तः प्रसिद्ध इति शेषः । अभिसङ्गम्य सत्कृत्य ॥ ५ ॥

मुमुचुः प्रेमबाष्पौघं मिथ औत्कण्ठ्यकातराः ।

राजा तमर्हयाञ्चक्रे कृतासनपरिग्रहम् ॥ ६ ॥

पदरत्नावली

मिथः प्रेमबाष्पौघं प्रेमनिमित्तनेत्रजलप्रवाहम् । अर्हयाञ्चक्रे पूजयामास । औत्कण्ठ्यकातरा औत्कण्ठ्येन परवशाः । कृत आसनस्य पीठस्य परिग्रहः स्वीकारः येन सस् तथोक्तस् तम् ॥ ६ ॥

तं भुक्तवन्तमासीनं विश्रान्तं सुखमासने ।

प्रश्रयावनतो राजा प्राह स्वानाञ्च शृृण्वताम् ॥ ७ ॥

पदरत्नावली

स्वकीयानाञ्च शृृण्वतां सताम् ॥ ७ ॥

प्रकाशिका

शृण्वतां सताम् ॥ ७ ॥

युधिष्ठिर उवाच—

अपि स्मरथ नो युष्मत्पक्षच्छायासमेधितान् ।

विपद्गणाद्विषाग्न्यादेर्मोचिता यत्समातृकाः ॥ ८ ॥

पदरत्नावली

नो ऽस्मान् स्मरथ, यूयमिति शेषः । मात्रा सह वर्तमानाः समातृका विषाग्न्यादेर् विषद्गणान् मोचिता यद् येन, तस्मादिति शेषः ॥ ८ ॥

प्रकाशिका

पक्षिणो ह्यपत्यानि यथाऽतिस्नेहेन पक्षच्छायया वर्धयन्ति । तद्वद्युष्मत्पक्षपातछायया समेधितान्नोऽस्मान्किं स्मरथ । कथं समेधिता इत्यत आह- विपद्गणादिति ॥ विषाग्न्यादेर्विपद्गणाद्यतो यस्मान्मोचितास्तस्मात् ॥ ८ ॥

कया वृत्या वर्तितं वै चरद्भिः क्षितिमण्डलम् ।

तीर्थानि क्षेत्रमुख्यानि सेवितानीह भूतले ॥ ९ ॥

पदरत्नावली

एकभुक्तादिव्रतेन किमिति शेषः । इह भूतले क्षेत्रमुख्यानि क्षेत्रप्रधानानि तीर्थानि यानि तानि सर्वाणि च सेवितानीत्यन्वयः ॥ ९ ॥

प्रकाशिका

युष्माभिः कया वृत्त्या वर्तितं केन जीवनोपायेन देहधारणं कृतमित्यर्थः । वैशब्दो जीवनोपायानुसरणं देहधारणार्थमावश्यकमिति सूचयति । तीर्थानि भागीरथ्यादीनि । क्षेत्रेषु मुख्यानि प्रधानानि च कुरुक्षेत्रादीनि कानि कानि सेवितानीत्यर्थः ॥ ९ ॥

भवद्विधा भागवतास्तीर्थभूतास्स्वयं प्रभो ।

तीर्थीकुर्वन्ति तीर्थानि स्वात्मस्थेन गदाभृता ॥ १० ॥

पदरत्नावली

हे प्रभो स्वात्मस्थेन स्वहृदयस्थेन गदाभृता हरिणा तीर्थभूता भवादृशा भागवता गङ्गादितीर्थानि तीर्थीकुर्वन्ति । न स्वयम् आत्मशुध्यपेक्षया तीर्थानि गच्छन्तीति शेषः ॥ १० ॥

प्रकाशिका

भवादृशानां तीर्थाटनं न स्वार्थं किन्तु तीर्थाभिमानित्यनुग्रहार्थमेवेत्याह- भवद्विधेति ॥ स्वेषामन्तःस्थितेन गदाभृता हरिणा स्वयं तीर्थभूताः पवित्रभूताः सन्तस्तीर्थानि गङ्गादीनि तीर्थीकुर्वन्ति पवित्रीकृर्वन्ति ॥ १० ॥

अपि नः सुहृदस्तात बान्धवाः कृष्णदैवताः ।

दृष्टाः श्रुता वा यदवः स्वपुर्यां सुखमासते ॥ ११ ॥

पदरत्नावली

कृष्णः दैवतं येषां ते तथोक्ताः ॥ ११ ॥

प्रकाशिका

अपि शब्दः किमित्यर्थकः । तथा च सुखमासते किमित्यर्थः ॥ ११ ॥

इत्युक्तो धर्मराजेन सर्वं तत्समवर्णयत् ।

यथानुभूतं भ्रमता विना यदुकुलक्षयम् ॥ १२ ॥

तात्पर्यम्

यदुकुलक्षयम् एष्यत् ।

शापं श्रुत्वा ब्राह्ममानामुद्धवः खिन्नमानसः । उदासीनं तथा कृष्णमिव सुप्रीतमेव च ॥

नशिष्यमाणं स्वकुलं स्वर्यियासुं च केशवम् । ज्ञात्वा पप्रच्छ भगवत्स्वरूपं तमुपह्वरे ॥

मैत्रेयोऽपि तदैवागाज्जिज्ञासुस्तत्त्वमुत्तमम् । तयोरदात् स भगवान् ज्ञानं निर्मलमञ्जसा ॥

षडि्वंशद्वत्सरात् पूर्वं स्वर्गतेः पुरुषोत्तमाः । प्रेषयामास च हरिरुद्धवं बदरीमनु ॥

कलापग्रामिणां वक्तुमेतत् तत्त्वमशेषतः । विदुरं तीर्थयात्रास्थमन्तराले स उद्धवः ॥

दृष्ट्वा नशिष्यमाणं च कुलं जिगमिषुं हरिम् । कथयित्वा बदर्यां च कलापग्रामवासिनाम् ॥

प्रोच्य तत्त्वमशेषेण वासुदेवमुखोद्गतम् । षडि्वंशद्वर्षगमने पुनरागतिमात्मनः ॥

तेषामुक्त्वा पुनः कृष्णसन्निधौ विचचार ह । मैत्रेयो विदुरायैतदूचिवान् कृष्णचोदितः ॥

विदुरः पाण्डवानां च विना यदुविनाशनम् । षडि्वंशद्वर्षतः पूर्वं ज्ञात्वाप्यप्रियमेव तत् ॥

नावोचद्विदुरो धीमांस्तस्मान्नाप्रियमावदेत् ॥ इति पाद्मे ॥

**‘तावच्छशास क्षितिमेकचक्रामेकातपत्रामजितेन पार्थः’ इति चोपरि । **

‘विदुरं चागतं पुनः’ इति च ।

भारते चैकविंशद्वर्षात् पूर्वं विदुरस्य युधिष्ठिरभाव उक्तः ॥ १२ ॥

पदरत्नावली

भ्रमता परिवर्तमानेन । क्षितितलमिति शेषः । स्वेन यथानुभूतं तथा तत्सर्व-मवर्णयत् । किन्तु यदुकुलक्षयं विना । तीर्थयात्रायां यमुनायां भगवदाज्ञाया बदरीं गच्छन्तम् उद्धवं दृष्ट्वा तस्माद् विप्रशापद्धेतोः षड्विंशद्वर्षादुपरि नाशमेष्यद्यदुकुलं श्रुत्वा तन्नावर्णयदिति भावः ॥ १२ ॥

प्रकाशिका

भ्रमता तीर्थानि चरता । अत्र यदुकुलक्षयं विना सर्वं समवर्णयदित्युक्त्या इदानीं जातमपि कुलक्षयमप्रियत्वान्नावर्णयदिति भाति । न च तद्युक्तं प्रमाणविरोधप्रसङ्गात् । अतोऽत्र विवक्षितं तात्पर्यं दर्शयति- यदुकुलक्षयमिति ॥ एष्यदित्यध्याहारेणैव योजनां सूचयति । यदुकुलक्षयमिति पदद्वयम् । तत्र पूर्वपदे सुपां सुलुगिति विभक्तिलोपः । तथा च क्षयम् एष्यद् यदुकुलं विनेति । यद्वा । क्षयं मरणमिति व्याख्यानापेक्षयैष्यादिति नपुंसकलिङ्गप्रयोगः । यथा चोक्तं प्रमेयदीपिकायाम् ‘मम भूतमहेश्वरमि’त्येतद्व्याख्यानावसरे । भावं याथार्थ्यमिति व्याख्यानापेक्षया नपुंसकमिति । एवं च ब्राह्मणशापेनेतः षड्विंशाद्वर्षादुपरि यदुकुलं नाशमेष्यतीत्युद्धवमुखात् श्रुतं भाविनं यदुकुलनाश-मप्रियत्वान्नावर्णयदिति भावः । प्रतीतार्थे प्रमाणविरोधप्रसंग इत्युक्तम् । कानि तानि प्रमाणानीत्यपेक्षायां तानि दर्शयति- शापं श्रुत्वेत्यादिना ॥ उदासीनमिव स्थितमिति शेषः । प्रत्युत प्रीतमेव । चशब्दो विशेषणसमुच्चयार्थः । उपह्वरे एकान्तस्थले । तयोरुद्धवमैत्रेययोः । प्रेषयामास । ज्ञानं दत्वेति शेषः । बदरीमनु प्रति । अन्तराले मध्यमार्गे । एतत्कृष्णोक्तम् । यस्मात् तद् यदुविनाशमप्रियं तस्मादेवेत्यर्थः । अनेन तदप्रियमित्युत्तरश्लोकतात्पर्यमुक्तमिति ध्येयम् । नावदेत् । कोऽपीति शेषः । उपरि तृतीये । अत्र विदुरस् तीर्थयात्रापरिसमाप्तिसमयेऽजितेन कृष्णेन सहितः पार्थो युधिष्ठिरः क्षितिं शशासेत्युक्त्या न तदा यदुकुलक्षयो जात इति गम्यते । अत एष्यदिति व्याख्यानं युक्तमिति भावः । उपरितनं वाक्यान्तरमपि उक्तार्थे दर्शयति- विदुरमिति ॥ दशमे धर्मराजं राज्येऽभिषिच्य कृष्णो यदा द्वारकागमनोन्मुखः ‘तदा गान्धारीं धृतराष्ट्रं च विदुरं चागतं पुनः । प्रसाद्ये’त्युक्तम् । तेन विदुरागमनकाले न यदुकुलनाश इति भावः । अत्र ‘विदुरं च महामतिमि’ति पाठो नाचार्याणां सम्मत इति ध्येयम् । प्रतीतार्थे बाधकं भारतोक्तं लिङ्गमपि दर्शयति- भारते चेति ॥ यदुकुलक्षयादिति शेषः । यदुकुलक्षयापेक्षयैक-विंशद्वत्सरात्पूर्वं विदुरस्य युधिष्ठिरभावः युधिष्ठिरेणैकीभावः । विदुरदेहत्याग इति यावत् । उक्तो यतोऽतो विदुरवचनसमये न यदुकुलक्षयो जातः । किन्तु भाव्येवेति निश्चीयत इति भावः ॥ १२ ॥

तद(तत् त्व)प्रियं दुर्विषयं नृणां स्वयमुपस्थितम् ।

नावेदयत्सुकरणो दुःखितान्द्रष्टुमक्षमः ॥ १३ ॥

पदरत्नावली

तत्किमिति नावर्णयदिति तत्राह- तत्वेति ॥ १३ ॥

प्रकाशिका

यदुकुलक्षयावर्णने हेतुमाह- तदप्रियमिति ॥ सकरुणः स्वयं नावेदयेत् । यस्मात्तस्माद्विना यदुकुलक्षयमित्यन्वयः ॥ १३ ॥

कञ्चित्कालमथावात्सीत्सत्कुतो देववत्स्वकैः ।

भ्रातुर्ज्येष्ठस्य श्रेयस्कृत्सर्वेषां प्रीतिमावहन् ॥ १४ ॥

पदरत्नावली

अथ विदुरः किमकार्षिदिति तत्राह- कञ्चिदिति ॥ सुखलक्षणं श्रेयः । ज्येष्ठस्य भ्रातुर् धृतराष्ट्रस्य ॥ १४ ॥

प्रकाशिका

श्रेयस्कृत्तत्त्वमुपदिशन् ॥ १४ ॥

अबिभ्रदर्यमा दण्डं यथाघमघकारिषु ।

यावद्बभार शूद्रत्वं शापाद्वर्षशतं यमः ॥ १५ ॥

तात्पर्यम्

**योऽर्यमा दण्डमबिभ्रत् स वर्षशतं यावच्छूद्रत्वं बभार । **

न देवानां न दैवीनां सामस्त्येन जनिर्भुवि । अंशांशेनैव जायन्ते सर्वे त्वाजानजादयः ॥ १५ ॥ संहर्ता भगवान् विष्णुः काल इत्यभिधीयते । अथवा गुणसर्वस्वं कालशब्दो व्यनक्ति हि ॥ इति हि स्कान्दे ॥ २० ॥

पदरत्नावली

एवं भगवद्भक्तिज्ञानादिमानयं विदुरो देवेषु कस्यावतार इति तत्राह - अबिभ्रदिति ॥ यो ऽर्यमा वैवस्वतो ऽघकारिषु पापकृत्सु यथाघं पापमनतिक्रम्य दण्डम् अबिभ्रत् शिक्षामकरोत् पापफलमभोजयदित्यर्थः । स यमो ऽणीमाण्डव्यशापाद् यावद्वर्षशतं तावत् शूद्रत्वं बभारेत्यन्वयः । माण्डव्यो नाम कश्चिदृषिः कस्मिंश्चिन्नदीतीरे तपश्चरन् तत्र कस्माच्चिन्नगराच् चौर्यं गृहीत्वा आगतैश् चोरैः सहानुधावद्धिर् नगरपालैर् अज्ञानाद् गृहीतो राजे निवेद्य तदनुज्ञाया शूले समारेपितोऽभूत् । तत्रापि शूले तपः कुर्वन्तमतिजाज्वल्यमानं दृष्ट्वा जनैर्निवेदितो राजा समम्भ्रममुपागम्य शूलादवरोप्य प्रसाद्य प्रस्थापयामास । कोपेन जाज्वल्यमानेन यमसमीपं गतेन तेन मुनिना कस्मादहं शूलमारोपित इति पृष्टो यमस् तस्मात् शापमादातुकामः बाल्यावस्थायां काचिन्मक्षिका शूले समारोपिता, तेन दोषेणायमवस्थाविशेषः प्राप्त इति प्राह । तस्मै क्रुद्धो मुनिः राजन् शूद्रो भवेति शशाप तमिति माण्डव्यशापः ॥ १५ ॥

प्रकाशिका

ननु शूद्रोऽसौ कथमुपदिष्टवानित्याशङ्कायां नायमितरशूद्रवदनधिकारी किन्तु सकलपापिशिक्षकोऽर्यमैव शापमिषेण शूद्रो बभूवेत्याह- अबिभ्रदिति ॥ अत्र विवक्षितान्वयाप्रतीते-र्यत्तच्छब्दावध्याहृत्यान्वयं दर्शयति- योऽर्यमेति ॥ यावदित्यनन्तरं तावदिति शेषः । नन्वेवं यमस्यैवात्र गमने संयमिन्यां दण्डधारकाभावः प्राप्त इत्याशङ्कां प्रमाणेनैव परिहरति- न देवानामिति ॥ सामस्त्येनांशिरूपेण । ब्रह्माण्डाद्बहिः स्थितस्यांशिनो योंऽशः स्वस्वलोकगतस् तस्यांशेनेत्यर्थः । तुशब्दसूचितमेव विशेषं दर्शयति- अजानजादय इति ॥ आदिपदेन तदुपरितनानां पुष्करादीनां ग्रहणम् । अत्राजानजग्रहणेन तदर्वाक्तनानां नांशेन जनिरिति सूचयति ।

‘कालः परमदुस्तर’ इति वक्ष्यमाणकालशब्दार्थमुदाहृतप्रमाणशेषेणैव दर्शयति- संहर्तेति ॥ ‘कल छेदन’ इति धातोरिति भावः । गुणसर्वस्वमिति ॥ गुणलक्षणं सर्वस्वं स्वीयमित्यर्थः । कल कामधेनाविति धातोरिति भावः । व्यनक्ति प्रतिपादयति । ततश्चाबिभ्रदर्यमेत्यादेरयमर्थः । योऽर्यमा वैवस्वतो यमः । अघकारिषु पापकृत्सु यथाऽघं पापमनतिक्रम्य दण्डमबिभ्रद्भृतवान् शिक्षामकरोत् । पापफलमभोजयदिति यावत् । स यमो माण्डव्यशापाद्यावद्वर्षशतं तावच्छुद्रत्वं शूद्रशरीरम् । क्वचिच्चोराननुधावन्तो राजभटास्तपश्चरतो माण्डव्यस्य ऋषेः समीपं गतांस्तान्सम्प्राप्यायमपि चोर इति बुद्ध्या तेन सह निबद्ध्यानीय राज्ञे निवेद्य तदाज्ञया सर्वान् शूलेषु स्थापयमासुः । ततो मुनिर्यमं दृष्ट्वा कुपित उवाच । कस्मात्पापान्मम शूलप्राप्तिरिति । तदा यमो वसिष्ठसाम्येच्छया तपःकरणरूपादयोग्य-सम्प्राप्तिकृतप्रयत्नजाताद्दोषाच्छूले समारोपितोऽयमिति जानन्नपि तदीयतपोह्रासेच्छयैव शापं गृहीतुम् बाल्ये त्वया काचिन्मक्षिका शूले समोरोपिताऽतस्तव शूलप्राप्तिरित्यवदत् । अनन्तरं मुनिः कुपितस्तं शशाप । यस्मादज्ञानावस्थायां मक्षिकावधेनैतादृशं दण्डम् उक्तवांस्तस्मात्त्वं शूद्रो भवेति पुराणान्तरे प्रसिद्धः शापप्रकारः ॥ १५ ॥

युधिष्ठिरो लब्धराज्यो दृष्ट्वा पौत्रं कुलन्धरम् ।

भ्रातृभिर्लोकपालाभैर्मुमुदे परया श्रिया ॥ १६ ॥

पदरत्नावली

अथ युधिष्ठिरः किञ्चकारेति तत्राह- युधिष्ठिर इति ॥ इन्द्रादिलोकपालसमानैर् भीमादिभ्रातृभिर् लब्धराज्यः युधिष्ठिरः कुलन्धरं पौत्रं दृष्ट्वा परया श्रिया सम्पदा मुमुद इत्येकान्वयः । कुलं धारयतीति कुलन्धरः ॥ १६ ॥

प्रकाशिका

विदुरागमनानन्तरं युधिष्ठिरः किं चकारेत्यपेक्षायामाह- युधिष्ठिर इति ॥ कुलंधरं वंशधरम् । पौत्रं परीक्षितम् ॥ १६ ॥

अथामन्त्र्याच्युतो बन्धून्निवर्त्यानुगतान्विभुः ।

अर्जुनोद्धवशैनेयैर्ययौ द्वारवतीं हयैः ॥ १७ ॥

पदरत्नावली

ययौ द्वारवतीमित्युक्तश्रीकृष्णप्रयाणशेषमाह- अथेति ॥ अथ विभुर् व्याप्तो ऽच्युत आगमिष्यामीत्यामन्त्र्य सम्भाष्य यान्तमनुगतान् बन्धून् निवर्त्य अर्जनादियुक्तः हयैर्युक्तेन रथेन द्वारवतीं ययावित्येकान्वयः ॥ १७ ॥

प्रकाशिका

श्रीकृष्णस्य पूर्वोक्तं द्वारकागमनं विदुरागमनानन्तरमेवेति दर्शयितुं पुनः सङ्क्षेपत आह- अथामन्त्र्येति ॥ १७ ॥

एवं गृहेषु सक्तानां प्रमत्तानां गृहेहया ।

अत्यक्रामविज्ञातः कालः परमदुस्तरः ॥ १८ ॥

पदरत्नावली

अधुना धृतराष्ट्रस्य स्वर्गप्राप्तिप्रकारं वक्तुमारभते- एवमिति ॥ एवम् उक्तप्रकारेण हरिपरायणानां पाण्डवादिवद् यः काल एकमपि क्षणम् अवन्ध्यतां नेतुं शक्यः स कालः हरिविमुखानां गृहेषु पुत्रमित्रादिलक्षणेषु केवलं शिश्नोदरम्भरतया सक्तानां गृहपोषणधनान्वेषणप्रयत्नैः प्रमत्तानां विस्मृतपरमात्मतत्वानाम् अत एव अविज्ञातोऽत्यक्रामत् । अतिक्रान्तोऽभूदित्येकान्वयः ॥ १८ ॥

प्रकाशिका

गृहेहया गृहकृत्यचेष्टया । प्रमत्तानां धृतराष्ठ्रादीनाम् । अत्यक्रामत्तानभ्यभवत् । कालः सर्वसंहारको गुणपूर्णत्वात्कालनामा भगवान् दुस्तरस्तर्तुमशक्यः ॥ १८ ॥

विदुरस्तदभिप्रेत्य धृतराष्ट्रमभाषत ।

राजन्निर्गम्यतां शीघ्रं पश्येदं भयमागतम् ॥ १९ ॥

पदरत्नावली

तत् कालस्यातिक्रमणम् । विदुर इति नाम सार्थं साधयन् । निर्गम्यातां, गृहादिति शेषः । प्राप्तमिदं मरणभयं पश्येत्यन्वयः ॥ १९ ॥

प्रकाशिका

तत्कालकृतमभिभवनमभिप्रेत्य ज्ञात्वा निर्गम्यताम् । गृहादिति शेषः । इदं मरणभयम् ॥ १९ ॥

प्रतिक्रिया न यस्येह कुतश्चित्कर्हिचित् प्रभो ।

स एष भगवान्कालः सर्वेषां नः समागतः ॥ २० ॥

पदरत्नावली

यस्य कालस्य कुतश्चित् कारणात् कर्हिचिदपि प्रतिक्रिया निवर्तनक्रिया नास्ति स एष भगवान् कालरूपी नः सर्वेषां समागतः । शरीरवियोगकारणाय प्राप्त इत्यन्वयः ॥ २० ॥

प्रकाशिका

तत्प्रतीकारः क्रियताम् । किं निर्गमनेनेत्यत आह- प्रतिक्रियेति ॥ मरणभयप्रदस्य कालस्य । सर्वेषामिति ॥ यैः प्रतिकर्तव्यं तेषामपीत्यर्थः ॥ २० ॥

येन चेहाभिपन्नोऽयं प्राणैः प्रियतमैरपि ।

जनः सद्यो वियुज्येत किमुतान्यैर्धनादिभिः ॥ २१ ॥

पदरत्नावली

इतोऽपि निर्गमनमुचितमित्याह- येनेति ॥ इह जीवलोके येन कालरूपिणा हरिणा अभिपन्नो ग्रस्तो ऽयं जनो ऽतिशयेन हृदयङ्गमैः प्राणैरपि वियुज्येत । अन्यैर् धनादिभिर् वियुज्येत इति किमुतेत्यन्वयः ॥ २१ ॥

प्रकाशिका

ननु धनादिना तत्प्रतिक्रिया भविष्यतीत्यत आह- येन चेति ॥ २१ ॥

पितृभ्रातृसुहृत्पुत्रा हतास्ते विगतं वयः ।

आत्मा च जरया ग्रस्तः परगेहमुपाससे ॥ २२ ॥

पदरत्नावली

अस्तु ममापि मरणं ततः किमिति तत्राह- पित्रिति ॥ तव पित्रादयो हताः । वयश्च विगतम् । आत्मा देहश्च जरया ग्रस्त इति यत् तथापि त्वं परगेहमुपाससे । न श्रेयः-साधनायेहसे । मृतस्य तव अतः परलोके न सुखावाप्तिरित्यर्थः ॥ २२ ॥

प्रकाशिका

इदानीं तस्य निर्गमनसाधनीभूतं वैराग्यमुत्पादयितुमाह- पितृभ्रात्रित्यादिना ॥ आत्मा देहः ॥ २२ ॥

अहो महीयसी जन्तोर्जीविताशा यया भवान् ।

भीमापवर्जितं पिण्डमादत्से गृहपालवत् ॥ २३ ॥

पदरत्नावली

परलोके सुखं नेति चेदिहैव दीर्घं जीवनमास्त्वित्यभिप्रायश्चेत्त्वं निरपत्रप इत्यभिप्रेत्याह- अहो इति ॥ जन्तोर् जीविताशा बहुकालं जीवामीत्याशा इच्छा महीयसी महत्तरा । अहो अज्ञानातिरेकः । कुतः ? यया जीविताशया भवान् भीमापवर्जितं भीमेन तिरश्चीनहस्तेन दत्तं पिण्डम् आदत्ते । क इव ? गृहपालवत् सारमेय इव ॥ २३ ॥

प्रकाशिका

जीविताशा एवमेव बहुकालं जीवामीत्याशा । भीमापवर्जितं येन त्वत्पुत्रा हतास्तेन भीमेनापवर्जितमनिवारितम् । औदासीन्येन दापितमिति यावत् । पिण्डमन्नम् । गृहपालः सारमेयः

॥ २३ ॥

अग्निर्निसृष्टो दत्तश्च गरो दाराश्च दूषिताः ।

हृतं क्षेत्रं धनं येषां तदन्नैरसुभिः कियत् ॥ २४ ॥

पदरत्नावली

ननु विषम उपन्यासः । कनिष्ठपुत्रत्वेन मत्पुत्रत्वात् तद्दत्तान्नेन शरीरपोषण-मुचितमिति चेत्, सत्यम् । विषदानादिना त्वया अपराद्धत्वात् तदन्नं विषोपममित्यभिप्रेत्याह- अग्निरिति ॥ अग्निदाहाद्यपराधास्त्वया येषां कृतास् तेषाम् अन्नैः पुष्टैर् असुभिः कियत् प्रयोजनम् । लज्जाकरत्वान् मृतिरेव गरीयसी । अतो निर्गम्यतामित्यन्वयः ॥ २४ ॥

प्रकाशिका

स्वेनापकृतैरुपकृतं चेत्तद्विदुषामतीवासह्यमित्याह- अग्निरिति ॥ निसृष्टः प्रक्षिप्तः । गरो विषम् । दूषिता अवमानितास्तेषामन्नैः पुष्टैरसुभिः प्राणैः कियत्प्रयोजनं न किमपीत्यर्थः । एतदपेक्षया मरणमेव श्रेय इति भावः ॥ २४ ॥

तस्यापि तव देहोऽयं कृष्णस्य जिजीविषोः ।

परेत्यनिच्छतो जीर्णो जरया वाससी इव ॥ २५ ॥

पदरत्नावली

युधिष्ठिरादीनां मयि तात्पर्यान् न निर्गमिष्यामीति चेत्तत्राह- तस्येति ॥ जरया ग्रस्ते वाससी इव वस्त्रे इव यथा तथा अनिच्छतो जिजीविषोर् जीवितुमिच्छोः कृष्णस्य परान्नादन-निरतस्यापि तवायं जीर्णो देहः परैति निरस्तासुः स्यात् । अतो देहस्यानित्यत्वान् निर्गच्छत्विति वदामीति भावः ॥ २५ ॥

प्रकाशिका

ननु येन केनापि प्रकारेण देहधारणं सम्पाद्यमतः कथमेवमुच्यत इत्यत आह- तस्यापीति ॥ तस्येत्युक्तमेवाह- कृपणस्येति ॥ दैन्यमनुभवत इत्यर्थः । अयं पाञ्चभौतिकः । परेति क्षीयते । यतो जीर्ण इतः परं देहो न बहुकालं स्थास्यति । यदर्थं त्वया दैन्यमनुभोक्तव्यमिति भावः

॥ २५ ॥

गतस्वार्थमिमं देहं वियुक्तो मुक्तबन्धनः ।

अविज्ञातगतिर्जह्यात्स वै धीर उदाहृतः ॥ २६ ॥

पदरत्नावली

ननु प्रथममेव पतिष्यतीति देहमुपेक्ष्यमाणस्य आत्महननाख्यदोषानुषङ्ग इति तत्राह- गतेति ॥ गतः स्वार्थ ऐहिकामुष्मिकसुखसाधनं यस्मात् सस् तथोक्तः, तम् इमं देहं देहाभि-मानमुक्तस् तदनु भार्यादिस्नेहबन्धनान्मुक्तो ऽविज्ञातगतिर् अन्यैर्जनैरनवबुद्धारण्यादिगतिर् जह्यात् । स वै स एव धीरः विवेकज्ञानी उदाहृतः । तस्मात् पुरषार्थसाधनायोग्यदेहहानौ दोषाभावान् निर्जनवनं गत्वा तपश्चर्यया शरीरमिदं साधितस्वार्थं कुर्विति भावः ॥ २६ ॥

प्रकाशिका

ननु विषयासक्तेन प्राणिनाऽन्तकालेऽनुष्ठेयं परलोकसाधनं किमित्यपेक्षायां तस्य प्रकारद्वयं श्लोकद्वयेनाह- गतस्वार्थमिति ॥ गतः स्वार्थो धर्मादिसाधनलक्षणो यस्मात्स तथा तम् । विमुक्तो देहाभिमानात् । अत एव मुक्तबन्धनः कलत्रादिबन्धनान्मुक्तः । अविज्ञाते विविक्तदेशे गतिर्यस्य स तथा । वानप्रस्थ इति यावत् । स धीरो यथा मरणसमये देहगेहाद्यासक्तिमान् अधोलोकं याति । न तथाऽयमधमः, किन्तु मध्यम इति भावः ॥ २६ ॥

यः स्वतः परतो वेह जातनिर्वेद आत्मवान् ।

हृदि कृत्वा हरिं गेहात्प्रव्रजेत्स नरोत्तमः ॥ २७ ॥

पदरत्नावली

इतोऽपि प्राप्तवनस्य तव तपःसाधनमेव श्रेयस्करमिति वक्तीत्याह- य इति ॥ यः स्वतः स्वबुद्ध्या परतः परबोधनेन वा जातनिर्वेद उत्पन्नवैराग्य आत्मवान् वशीकृतमना हरिं हृदि कृत्वा गेहात् प्रव्रजेत् सः नरोत्तम इत्येकान्वयः ॥ २७ ॥

प्रकाशिका

अत एवोत्तमप्रमाणमाह- य इति ॥ स्वतः स्वबुद्ध्या परतः परोपदेशेन वा । जातनिर्वेद उत्पन्नवैराग्यः । आत्मवान् वशीकृतमनाः । प्रव्रजेत्परमहंसो भवेत् ॥ २७ ॥

अथोदीचीं दिशं यातु स्वैरज्ञातगतिर्भवान् ।

इतोऽर्वाक्प्रायशः कालः पुंसां गुणविकर्षणः ॥ २८ ॥

तात्पर्यम्

स्वैरज्ञातगतिर् विविक्तगतिः ॥ २८ ॥

पदरत्नावली

अथ तस्माद् भवान् उदीचीं दिशं यातु । कथम्भूतः ? स्वैरज्ञातगतिर् विविक्त-गतिर् न तु स्वैः पाण्डवैर् अविज्ञातगतिः । पाण्डवानुज्ञयैव तस्य वनवासाय गत्युक्तेः । कथं तर्हि शब्दयोजना ? स्वैरिणीशब्दार्थवत् स्वेच्छानुसारेण ज्ञाता गतिर्यस्य, न परेच्छातः स तथोक्त इति विवरणोपपत्तेः । अन्यथा अविज्ञातगतिरित्येतद् अपहस्तितं स्यात् । इतोऽर्वाक् पूर्वतनः कालः पुन्साम् अधिकारिणां ज्ञानभक्त्यादिगुणसामग््रयापादकः । इत उपरितनः कालः प्रायेण गुणेषु विषयेषु विकृष्य नाशयतीति गुणविकर्षणः । विविच्य दर्शयतीति वा । ‘वेदस्य च विकर्षणमि’त्युक्तेः ॥ २८ ॥

प्रकाशिका

त्वं तु प्रथमप्रकारो भवेत्याह- अथेति ॥ तस्मादित्यर्थः । अत्र स्वैरज्ञात-गतिरित्येतस्य स्वैः स्वकीयैरज्ञातगमन इति व्याख्याने भारतादिविरोधप्रसङ्गाद्विवक्षितं तात्पर्यं दर्शयति- स्वैरज्ञातेति ॥ स्वैरविज्ञात इत्यनेन विविक्तदेशो गौण्या वृत्त्या व्याख्येय इति भावः । नन्वयं वैराग्योपदेशः किमिदानीं चरमे वयसि क्रियते पूर्वमेव कस्मान्न कृत इत्यत आह- मूले इतोऽर्वागिति ॥ कालः परमात्मा । पुंसाम् अधिकारिणां गुणानां ज्ञानभक्तिवैराग्यादीनां विशेषेण कर्षतीति विकर्षणः । विनाशक इति यावत् । पूर्वे वयसि विषयाभिनिवेशेन वैराग्योपदेशोऽकिंचित्कर इति भावः ॥ २८ ॥

एवं राजा विदुरेणानुजेन प्रज्ञाचक्षुर्बोधित आजमीढः ।

छित्वा स्वेषु स्नेहपाशान्द्रढिम्नो निश्चक्राम भ्रातृसन्दशिंताध्वा ॥ २९ ॥

पदरत्नावली

एवम् उक्तप्रकारेण अनुजेन विदुरेण बोधतो ऽतः प्रज्ञा ज्ञानमेव चक्षुर् यस्य स तथा । स्वतो जात्यन्धः । प्रज्ञया चष्टे पश्यति न तु मांसदृष्ट्येति वा । आजमीढो ऽजमीढवंशोद्भवः । आजेन ज्ञानेन मीढः सिक्त इति वा । द्रढिम्नः दृढतरान् स्वेषु स्नेहाख्यपाशाच् छित्वा भ्रात्रा विदुरेण सम्यक् दर्शित उभयविधः लौकिकवैदिकाख्यो ऽध्वा मार्गो यस्य स तथोक्तः । राजा धृतराष्ठ्रः निश्चक्राम निर्गतो बभूवेत्येकान्वयः । गृहादिति शेषः ॥ २९ ॥

प्रकाशिका

प्रज्ञाचक्षुरन्धः । आजमीढोऽजमीढवंशजातः । स्नेहलक्षणान् पाशान् । दृढीम्नो दृढतरान् भ्रात्रा विदुरेण सम्यग्दर्शितो ऽध्वा वनमोक्षयोर्मार्गो यस्य स तथा । निश्चक्राम गृहान्निर्गतो बभूव ॥ २९ ॥

पतिं प्रयान्तं सुबलस्य पुत्री पतिव्रता चानुजगाम साध्वी ।

हिमालयं न्यस्तदण्डप्रहर्षं मनस्विनामवसत्संविहारम् ॥ ३० ॥

पदरत्नावली

सुबलस्य पुत्री गान्धारी पतिशुश्रूषैव व्रतं यस्याः सा तथोक्ताः । प्रयान्तं पतिम् अनुजगामेत्यन्वयः । चकारात् कुन्ती च । गत्वा कुत्रावसदिति तत्राह- हिमालयमिति ॥ काय-वाङ्मनोभिर् न्यस्तः परित्यक्तः भूतद्रोहलक्षणो दण्डो यैस्तेषां प्रकर्षेण हर्षं जनयतीति न्यस्तदण्डप्रहर्षं, अत एव मनस्विनां वशीकृतेन्द्रियग्रामाणां सन्यासिनां सम्यग्विहारं क्रीडास्थानं हिमालयं हिमवन्तं पर्वतं गत्वा तत्र बदरीकाश्रमेऽवसदित्यन्वयः ॥ ३० ॥

प्रकाशिका

सुबलस्य पुत्री गान्धारी । चशब्दात्कुन्ती च । न्यस्तः परित्यक्तो दण्डो भूतद्रोहलक्षणो यैस्तेषाम् प्रकर्षेण हर्षो यस्मात्तम् । अत एव मनस्विनां वशीकृतमनसां योगिनां सम्यग्विहारं यथेष्ठसञ्चारो यस्मिंस्तम् । हिमालयं गत्वा बदरिकाश्रमेऽवसदित्यर्थः । न्यस्तदण्डप्रहर्षं मनस्विनां संविहारमिति विशेषणद्वयेन न तादृशानां हिमालयः हिमादिना दुःखद इति सूचयति ॥३०॥

अजातशत्रुः कृतमैत्रो हुताग्निर्विप्रान्नत्वा तिलगोवस्त्ररुग्मैः ।

गृहान्प्रविष्टो गुरुवन्दनाय न चापश्यत्पितरौ सौबलीञ्च ॥ ३१ ॥

तात्पर्यम्

**पितरौ कुन्तीधृतराष्ट्रौ । न चापश्यत् । **

**तस्य मनसि तेषां विपद्भावो बभूव । अन्यथा महाभारतविरोधात् । **

स्कान्दे च -

भीमसन्तर्जितो राज्ञस्त्वनुज्ञां प्राप्य यत्नतः । धृतराष्ट्रो वनेवासमकरोद् वत्सरत्रयम् ॥

विदुरस्तदिदृक्षार्थमागतेषु वनं पुरात् । पाण्डवेषु तु राजानं प्रविश्यैकत्वमागतः ॥

ततो दावाग्निना दग्धं धृतराष्ट्रं च सौबलीम् ।

श्रुत्वा कुन्तीं च चिन्तां ते प्रापुः पाण्डुसुतास्तदा ॥

**तांस्तदा नारदो विद्वान् शमयामास धर्मवित् । **

उक्त्वोत्तमां गतिं तेषां निष्ठां तात्कालिकीं तथा ॥ इत्यादि ॥ ३१ ॥

पदरत्नावली

इदानीं युधिष्ठिरस्य मनसि ‘तपस्तपतो धृतराष्ट्रस्य प्रायेण मृतिरभूत् । तथाविधशकुनप्रतिभासादि’ त्यभिप्रेत्याह- अजातशत्रुरिति ॥ मित्रः सूर्यः । तद्विषयं कर्म मैत्रं सन्ध्योपासनादि । तत्कृतं येन स कृतमैत्रः । गार्हपत्याद्याग्निषु हुतं येन सः हुताग्निः । तिलगोवस्त्ररुग्मैर् विप्रान् तर्पयित्वा रुग्मं सुवर्णं दत्वा च पित्राद्युपवेशस्थले पित्रादिगुरुवन्दनाय पितृगृहान् प्रविष्टोऽ-जातशत्रुस् तदायतनं नमस्कुर्वन् पितरौ कुन्तीधृतराष्ट्रौ सौबलीं गान्धारीञ्च मनसा जीवन्तौ नापश्यत् । सम्प्रति ते मृता इति तस्य मनसि तथा प्रत्यभादित्यन्वयः । पितरावित्यत्र पितृशब्देन विदुरोऽत्र नाभिप्रेतः । तस्य शूद्रजातित्वेन अवन्द्यत्वात् । धृतराष्ट्रादिमृतेः पूर्वं युधिष्ठिरेणैकीभूतत्वाच्च । ‘न चापश्यदि’त्यस्य अनुक्त्वा धृतराष्ट्रगमनार्थत्वाङ्गीकारे भारतादौ युधिष्ठिराद्यनुज्ञया गत्युक्तेस् तद्विरोधो दुर्वारः ॥ ३१ ॥

प्रकाशिका

नन्वत्राजातशत्रुरिति श्लोके पितरावित्यनेन तावद्गान्धारीधृतराष्ट्रौ मातापितरौ गृहीतुमशक्यौ । सौबलीं चेति गान्धार्याः पुथग्ग्रहणात् । नापि विदुरधृतराष्ट्रौ । धर्मराजदर्शनकाला-त्पूर्वमेव वक्ष्यमाणरीत्या विदुरस्य नष्टत्वेनावगमात् । अतस्तत्र विवक्षितमर्थं दर्शयति- पितराविति ॥ न चापश्यादित्येतस्य यदा गृहं प्रविष्टस्तदा तत्र गृहे तान्नापश्यत् । तेषां राजा- नमदृष्ट्वैव गतत्वा-दित्यन्यथाप्रतीतिवारणाय तात्पर्यमाह- न चापश्यदिति ॥ तस्य युधिष्ठिरस्य मनसि तेषां धृतराष्ट्रादीनां विपद्भावो मृतिर्बभूव । स्फुरित इति शेषः । तेषामदर्शनेन तस्य चेतसि मरणशङ्का जातेत्यर्थः । ननु प्रतीत एवार्थः किं न स्यादित्यत आह- अन्यथेति ॥ प्रतीतार्थङ्गीकार इत्यर्थः । भारते हि विदुरेण बोधितो धृतराष्ट्रस्तपः कर्तुं गतः गमिष्यामीति धर्मराजमुक्तवान् । ततस्तेन त्वया न नगन्तव्यं त्वदर्थं वयमेव वनं गत्वा तपः कुर्म इति तदीयस्नेहान्निवारणं कृतम् । तदनन्तरं धृतराष्ट्रः धर्मराजानुज्ञां प्राप्तुं दिनत्रयमुपवासं चकार । तदा भगवान्व्यासः स्वयमागत्यानुज्ञां दापितवान् । ततो धृतराष्ट्रः सर्वान्पृष्ट्वैव वनं प्रति विदुरसञ्चयकुन्तीगान्धारीसहितो जगाम । तत्र तेषु वसत्सु सभार्याः पाण्डवा धृतराष्ट्रादीन्द्रष्टुं तत्रागताः । तदा विदुरो धर्मराजेनैकीभूतः । ततः पाण्डवेष्वागतेषु धृतराष्ट्रादयस्त्रयस्तदाऽग्निदग्धदेहाः परलोकं गता इत्याद्युक्तम् । अतस्तदनुसारेणैवात्रापि धर्मराजः स्वानुज्ञया धृतराष्ट्रे वनं गतेऽपि धृताराष्ट्राधिष्ठितं स्थलमावश्यकं कर्मकरणान्ते प्रत्यहं वन्दमानो ज्ञानदृष्ट्या तानपश्यत् । तस्मिंश्च दिने ज्ञानदृष्ट्या तान्नापश्यदित्येव व्याख्येयमिति भावः ।

भागवतविरोधेन भारतमेव कस्मान्नान्यथाव्याख्येयमित्यपेक्षायां पुराणान्तरसंवादमप्यत्र दर्शयति- स्कान्दे चेति ॥ भीमसन्तर्जितः । ताविमौ मे भुजौ वृत्तौ पीतौ चन्दनरुषितौ । ययोरन्तरमासाद्य जरठस्य सुता हता इत्यादिदुरुक्त्याऽवमानिनो धृतराष्ट्रः । राज्ञो धर्मराजस्य पुरा वत्सरत्रयात्पूर्वम् । राजानं धर्मराजम् । तांस्तदा नारदो विद्वानित्यादिना तस्मिन्नन्तरे विप्रो नारदः प्रत्यदृश्यतेत्यादिकमपि प्रमापितमिति ज्ञातव्यम् । तेषां पाण्डवानामुत्तमां गतिमुत्तमज्ञानम् । मा कञ्चन शुचो राजन् यदीश्वरवशं जगदित्यादिनोक्त्वा तात्कालिकीं तस्मिन्काले कर्तव्यां निष्ठां मनोवृत्तिविशेषं तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वर इत्युक्त्वा शमयामासेत्यन्वयः । यद्वा तेषां धृतराष्ट्रादीनामुत्तमां गतिं ज्ञानं तात्कालिकीं मरणकालसम्बन्धिनीं निष्ठां स्थितिमुक्त्वेति व्याख्येयम् ।

नन्वेवं तत्र सञ्जयमासीनमित्युत्तरग्रन्थविरोधः । तत्र हि धर्मराजप्रश्ने सञ्जयेनाहं च व्यंसित इत्याद्युत्तरमुच्यते । तेन च स्वैरज्ञाता एव धृतराष्ट्रादयो वनं गता इति प्रतीयते । अतः सञ्जयोत्तराभिप्रायं प्रमाणेनैव दर्शयति- ब्रह्माण्डे चेति ॥ पाण्डुसूनवे धर्मराजाय । गतिं स्थितिम् । तथा च यदा राजा तु तान्ज्ञानदृष्ट्या नापश्यत् । तदैव सञ्जयेनाहं च व्यंसितो वञ्चित इत्यादिकमुत्तरमुक्तम् । अतो न कोऽपि विरोध इति भावः । नन्वेवं धृतराष्ट्रादीनां मरणानन्तरमागतं सञ्जयं प्रति यदि राज्ञः प्रश्नस्तदा पितृव्यः क्वगतः सुहृदिति विदुरगमनप्रश्नोऽनुपपन्नः विदुरमरणस्य पूर्वमेव जातस्य धर्मराजेन ज्ञातत्वादित्यत आह- पितृव्योऽपीति ॥ ननु धृतराष्ट्रस्य क्व नस्तात इति पूर्वमेव पृष्टत्वाव्द्यर्थं पितृव्यशब्देन तद्गृहण-मित्यत आह- द्विरुक्तिरिति ॥ तात्पर्यार्था तात्पर्यातिशयज्ञापनार्था । अत्र प्रमाणमाह- यत्रेति ॥ अधिकं यथा स्यात्तथा तत्परतातात्पर्यम् । नन्वेवमुत्तरवाक्ये पितृव्यौ क्व गताविति विदुरग्रहणमनुपपन्न-मित्यत आह- पितृव्याविति ॥ तथा च नात्र विदुरविवक्षया द्विवचनम् । किन्तु गान्धारीविवक्षयैव । पितृव्यश्च पितृव्या च पितृव्यावित्येकशेषस्य पुमान् स्त्रियेत्यनेन सम्भवात् । पितृव्यभार्यायां पितृव्यशब्दस्य पितृव्य इव योगसम्भवादिति भावः । नन्वेवं स्वैर्ज्ञातानां गमनमत्र विवक्षितं चेन्मुषितोऽस्मि व्यंसित इति सञ्जयोक्तिः कथमित्यतस्तत्तात्पर्यमाह- मुषितोऽस्मीति ॥ इदमुपलक्षणम् । व्यंसित इत्यपि ग्राह्यम् । प्रलापेषु च हि तादृशवचनानि प्रसिद्धानीति भावः ।

नन्वेव क्व गताविति गमनप्रश्नासम्भवः । गमनस्य युधिष्ठिरादिभिर्ज्ञातत्वादित्यत आह- क्व गताविति ॥ यत्र वने स्थितास्तत्रादृष्ट्वा मरणसम्भावनया लोकान्तरगमनविषय एवायं प्रश्न इत्याशयः । ततश्चाजातशत्रुरित्यादेर्मूलस्यायमर्थः । मित्रः सूर्यः । तद्दैवत्यं सन्ध्यावन्दनं मैत्रम् । कृतं मैत्रं येन स तथा । नत्वा सम्पूज्य । रुक्मं सुवर्णम् । गुरुवन्दनाय गुर्वधिष्ठितस्थलवन्दनाय । पितरौ कुन्तीधृतराष्ट्रौ । सौबलीं गान्धारीं च नापश्यत् । वने यस्मिन्नाश्रमे ते स्थितास्तत्रत्यान्प्रत्यहं वन्दनकाले ज्ञानदृष्ट्या पश्यन्नपि तस्मिन्दिवसे तत्र तान्नापश्यत् । किन्तु ते मृता इति शङ्कावान् जात इत्यर्थः ॥ ३१ ॥

तत्र सञ्जयमासीनं पप्रच्छोद्विग्नमानसः ।

गावद्गणे क्व नस्तातो वृद्धो हीनश्च नेत्रयोः ।

अंबा वा हतपुत्रार्ता पितृव्यः क्व गतः सुहृत् ॥ ३२ ॥

तात्पर्यम्

ब्रह्माण्डे च- धृतराष्ट्रे मृते सूतः सञ्जयः पाण्डुसूनवे । गतिं शशंस कुन्त्याश्च गान्धारीधृतराष्ट्रयोः ॥ इत्यादि ।

पितृव्योऽपि धृतराष्ट्र एव । द्विरुक्तिस्तात्पर्यार्था ।

यत्राधिकं तत्परता बहुवारमपि ध्रुवम् ।

तद्वदन्ति महाप्राज्ञा लोकवेदानुसारतः ॥ इति ब्रह्मवैवर्ते ॥ ३२ ॥

पदरत्नावली

मनसि प्रतीतपितृस्वर्याणस्य युधिष्ठिरस्य तन्मरणानन्तरं तदवसरे तत्रागत्य आसीनं सञ्जयं प्रति पितृपारलौकिकगतिप्रश्नप्रकारमाह- तत्रेति ॥ गवद्गणस्यापत्यं गावद्गणिः । तस्य सम्बुद्धिर् हे गावद्गणे । नस् तातः क्व कं लोकं प्रतिगतः । कथंभूतः ? नेत्रयोरिति तृतीयार्थे षष्ठी । नेत्राभ्यां हीनः । नेत्रयोर्योगेन वा । वृद्धः जरया च ग्रस्तः । अम्बा कुन्ती वा, हतपुत्रत्वाद् आर्ता गान्धारी च परत्र कं लोकं प्रति गते ? पितृव्यो धृतराष्ट्रः क्व गत इति पुनः प्रश्न तात्पर्यातिशयात् ॥ ३२ ॥

प्रकाशिका

तत्र तस्मिन्समये वनादागत्यासीनं सञ्जयं पप्रच्छ । हे गावद्गणे गवद्गणस्य पुत्र सञ्जय । नस्तातो धृतराष्ट्रः क्व गतो यत्र स्थितस्तत्र नोपलभ्यते । अतः किमाश्रमान्तरं गत लोकान्तरमिति प्रश्नाशयः । नेत्रयोर्नेत्राभ्याम् । अम्बा वा गान्धारी । चशब्दाच् च । पितृव्यो धृतराष्ट्रः । पुनस्तद्वचनं तात्पर्यातिशयद्योतनाय ॥ ३२ ॥

अपि मय्यकृतप्रज्ञे हतबन्धुः स्वभार्यया ।

आशंसमानः शमलं गङ्गायां दुःखितोऽपतत् ॥ ३३ ॥

पदरत्नावली

धृतराष्ट्रस्य मरणकाले स्वस्मिन् प्रियाप्रियविवेकं तस्य मरणप्रकारञ्च पृच्छति- अपीति ॥ अकृतप्रज्ञे अशिक्षितबुद्धौ मयि स्वभार्यया सह शमलं पापम् अपराधम् आशंसमानः हतबन्धुर् दुःखितः सन् गाङ्गायाम् अपतदपि ? बन्धून् सर्वान् मारयित्वा स्वयं राज्यमादाय मां निष्कासितवानिति शमलबुद्धिर् नाभवत्किम् ? तद्दुःखातिशयादेव गङ्गायां पतित्वा मृतो नन्विति भावः ॥ ३३ ॥

प्रकाशिका

अकृतप्रज्ञोऽशिक्षितबुद्धौ मयि । शमलमपराधमाशंसमान आशङ्कमानः । स्वभार्यया सह गङ्गायामपतदपि किमित्यर्थः ॥ ३३ ॥

पितर्युपरते पाण्डौ सर्वान्नः सुहृदः शिशून् ।

अरक्षतां व्यसनतः पितृव्यौ क्व गतावितः ॥ ३४ ॥

तात्पर्यम्

पितृव्यौ गान्धारीधृतराष्ट्रौ ॥ ३४ ॥

पदरत्नावली

स्वस्याकृतप्रज्ञत्वमुपपादयति- पितरीति ॥ नो ऽस्माकं पितरि पाण्डौ उपरते स्वर्गं गते सति यौ गान्धारीधृतराष्ट्रौ शिशून् सर्वान् व्यसनतो ऽरक्षताम् । सुहृत्वं शिशुत्वञ्च रक्षणीयत्वे हेतुः । तौ पितृव्यौ गान्धारीधृतराष्ट्रौ मृत्वा इतो ऽस्माद् लोकात् परत्र कं लोकं गतावित्यन्वयः । तयोरनवरतशुश्रूषणादेव कृतप्रज्ञता । तदभावाद् अकृतप्रज्ञत्वमिति भावः ॥ ३४ ॥

प्रकाशिका

तत्र तात्पर्यतिशये कारणं दर्शयन्पुनः पृच्छति- पितरीति ॥ यावरक्षतां तौ पितृव्यौ पितृव्यश्च पितृव्या च पितृव्यौ धृतराष्ट्रगान्धार्यौ । इतो बदरिकाश्रमतः । प्रश्नाशयः पूर्ववत्

॥ ३४ ॥

सूत उवाच—

कृपया स्नेहवैक्लव्यात्सूतो विरहकर्शितः ।

आत्मेश्वरमचक्षाणो न प्रत्याहातिपीडितः ॥ ३५ ॥

पदरत्नावली

अतिपीडितः, दुःखेनेति शेषः । आत्मनः स्वस्य ईश्वरं स्वामिनं धृतराष्ट्रम् अचक्षाणः मृतत्वादेवापश्यन् अत एव विरहेण वियोगेन कर्शितः कृशतरः । कुतः ? स्नेहपारवश्याद् दाक्षिण्याच्च । सञ्जयो युधिष्ठिरचोद्योत्तरं वक्तुं नाशकदित्यन्वयः ॥ ३५ ॥

प्रकाशिका

कृपया स्नेहेन जातद्वैक्लव्याच्चित्ततोदादतिपीडितः स्वात्मनः स्वस्येश्वरं स्वामिनं धृतराष्ट्रमचक्षाणो मृतत्वादेव भूम्यामपश्यन् अत एव विरहेण वियोगेन कर्षितः कृशतरः । सूतः संजयो न प्रत्याहोत्तरं वक्तुं नाशकदित्यर्थः ॥ ३५ ॥

विसृज्याश्रूणि पाणिभ्यां विष्टभ्यात्मानमात्मना ।

अजातशत्रुं प्रत्यूचे प्रभोः पादावनुस्मरन् ॥ ३६ ॥

पदरत्नावली

आत्मना मनसा आत्मानं विष्टभ्य संस्थाप्य । प्रभोर् धृतराष्ट्रस्य ॥ ३६ ॥

प्रकाशिका

आत्मना मनसा । आत्मानं स्वात्मानम् । विष्टभ्य संस्थाप्य । धैर्ययुक्तं कृत्वेति यावत् । प्रभोर्धृतराष्ट्रस्य ॥ ३६ ॥

सञ्जय उवाच—

अहञ्च व्यंसितो राजन् पित्रोर्वः कुलनन्दन ।

न वेद साध्व्या गान्धार्या मुषितोऽस्मि महात्मभिः ॥ ३७ ॥

तात्पर्यम्

मुषितोऽस्मीति प्रलापः ॥ ३७ ॥

पदरत्नावली

प्रजा रञ्जयित्वा कुलं नन्दयति, नत्वन्यथा इत्यतः पदद्वयं प्रायोजि । न केवलं त्वमेव व्यंसितो ऽहञ्च वियोजित इति चार्थः । पित्रोः कुन्तीधृतराष्ट्रयोः । परलोकगतिमिति शेषः । मुषितः वञ्चितोऽस्मि ॥ ३७ ॥

प्रकाशिका

न केवलं त्वमेवाहं च व्यंसितो वञ्चितः । पित्रोर्मातापित्रोः कुन्तीधृतराष्ट्रयोः । न वेद । प्राप्यस्थानमिति शेषः । मुषितोऽस्म्यपहृतोऽस्मि । हतोऽस्मीति यावत् । इदं च प्रलापं कुर्वतोक्तम् । अतो मोहाभावात्कथमेतदिति शङ्काऽनवकाशः । ‘परिहासप्रलापादिष्वनर्थावाग्भवेत्क्वचित्’ इति वचनात् । एवं व्यंसित इति वचनमपि प्रलापरूपम् ॥ ३७ ॥

सूत उवाच—

एतस्मिन्नन्तरे विप्रा नारदः प्रत्यदृश्यत ।

वीणां त्रितन्त्रीं ध्वनयन्भगवान्सहतुम्बुरुः ॥ ३८ ॥

पदरत्नावली

एतस्मिन्नन्तरे युधिष्ठिरसञ्जयसंवादमध्ये । त्रितन्त्रीं तन्त्रीत्रयमेलनोपेतां वीणां ध्वनयन् वादयन् तुम्बुरुणा सह वर्तमानः भगवान् हरेः षड्गुणवेत्ता पूज्यो वा ॥ ३८ ॥

प्रकाशिका

त्रितन्त्रीमारोपिततन्त्रीत्रयाम् ॥ ३८ ॥

राज्ञादरोपनीतार्ध्यं प्रत्युत्थानाभिवन्दितम् ।

परमासन आसीनं कौरवेन्द्रोऽभ्यभाषत ॥ ३९ ॥

पदरत्नावली

राज्ञा आदरेण उपनीतं दत्तम् अर्घ्यं यस्मै सस् तथा तम् । प्रत्युत्थानं कृत्वा अभिवन्दितम् । परमासने सिंहासनसमानपीठे आसीनम् उपविष्टं नारदं कौरवेेन्द्रो युधिष्ठिरो ऽभ्यभाषतेत्यन्वयः ॥ ३९ ॥

युधिष्ठिर उवाच—

नाहं वेद गतिं पित्रोर्भगवान्क्वगतावितः ।

कर्णधार इवापारे सीदतां पारदर्शनः ॥ ४० ॥

तात्पर्यम्

क्व गतावित्यदृष्टापेक्षया ॥ ४० ॥

पदरत्नावली

हे भगवन् मृतयोः पित्रोः पारलौकिकगतिं न वेद । तां भवन्तं पृच्छामि, तौ मृत्वा इतः कं लोकं प्रति गताविति । अपारे सागरे सीदतां बिभ्यतां कर्णधारो नाविक इव त्वम् अस्माकं दुःखार्णवे मग्नानां पारं तीरं दुःखशमनोपायं वा दर्शयतीति पारदर्शनः ॥ ४० ॥

प्रकाशिका

गतिं प्राप्यस्थानम् । इतो बदरिकाश्रमात् । अपारेऽदृश्यपारे समुद्रे सीदतां बिभ्यतां कर्णधारो नाविक इव त्वमपारे संसारे सीदतां पारं दुःखस्यान्तं दर्शयतीति पारदर्शनः । अतस्त्वां पृच्छामीति शेषः ॥ ४० ॥

नारद उवाच—

मा कञ्चन शुचो राजन्यदीश्वरवशं जगत् ।

स संयुनक्ति भूतानि स एव वियुनक्ति च ॥ ४१ ॥

पदरत्नावली

धृतराष्ट्रादिषु कञ्चन मा शुचः शोकं माकार्षीः । कुतः ? जगद् ईश्वरवशमिति यद् यस्मात् तस्मात् स एवेश्वरः भूतानि संयुनक्ति स्वकर्मानुसारेण संयोजयति । स एव स्वकर्मावसाने वियुनक्ति वियोजयति च । तस्मादस्ववशत्वान् मा शुच इति भावः ॥ ४१ ॥

प्रकाशिका

धृतराष्ट्रादिषु कञ्चन कमपि प्रति मा शुचः शोकं मा कार्षीः ॥ ४१ ॥

यथा गावो नसि प्रोता तन्त्यां बद्धाः स्वदामभिः ।

वाक्तन्त्यां नामभिर्बद्धा वहन्ति बलिमीशितुः ॥ ४२ ॥

पदरत्नावली

ईश्वरजीवस्वातन्त्र्यपारतन्त्र्ये सोदाहरणं दर्शयति- यथेति ॥ यथा गावो बलीवर्दा नसि नासिकायां त्रिवृत्कृततन्तुदामभिः प्रेताः स्यूता नासिकाच्छिद्रस्यूतह्नस्वदामभिर् आधारभूतायां दीर्घायां तन्त्यां बद्धा ईशितुः स्वामिनः व्रीह्यादिगोणीं वहन्ति तथा ब्राह्मणक्षत्रियवैश्यशूद्र-ब्रह्मचारिगृहस्थवानप्रस्थयतय इति नामात्मकदामभिर् वाक्तन्त्यां विधिनिषेधात्मकवेदलक्षणायां बद्धाः स्ववर्णाश्रमविहितकर्मभिर् ईश्वरस्य बलिं यज्ञादिलक्षणपूजां वहन्ति कुर्वन्ति । तस्मात् स एव स्वतन्त्रो, जीवास्तदधीना इति शोकपरिहाराय स ईशः स्वविहितकर्मणा पूज्य इति भावः ॥ ४२ ॥

प्रकाशिका

जगदीश्वरवशमित्युक्तमुपपादयति- यथेति ॥ गावो बलीवर्दा नसि नासिकायां प्रोतास्तन्तुमयसूक्ष्मरज्जुस्यूताः । अनेनानुद्धता इति सूचयति । स्वदामभिः स्वबन्धकावान्तरदामभिस्तंत्या-मवान्तरदामाधारभूतदीर्घरज्जुरूपायां बद्धाः सन्त ईशितुः स्वस्वामिने बलिं गोण्यादिकं वहन्ति । तथा वाक्तन्त्यां विधिनिषेधात्मकवेदलक्षणतन्त्यां ब्राह्मणादिनामभूतावान्तरदामभिर्बद्धाः सूत्रनामकेन वायुना हरिणा च प्रोता ईशितुरीश्वरस्य बलिं यज्ञादिरूपां पूजां वहन्ति कुर्वन्ति । तस्माद् ब्राह्मणादिरूपं जगदीश्वरवशमिति सम्बन्धः ॥ ४२ ॥

यथा क्रीडोपस्कराणां संयोगविगमाविह ।

इच्छया क्रीडितुः स्यातां तथैवेशेच्छया नृणाम् ॥ ४३ ॥

पदरत्नावली

वेदस्यानेकार्थत्वेन तात्पर्यस्य दुर्ज्ञेयत्वाद्धौरेयाणां च गोण्यादिपातनेन स्वामि-कार्यावज्ञानदर्शनाद् विषमोऽयमुपन्यास इत्यतो निदर्शनान्तरमाह- यथेति ॥ यथा क्रीडोपस्कराणां लीलासाधनानां संयोगविगमौ क्रीडितुः पुरुषस्य इच्छया तथैव ईशेच्छया हरेरिच्छया पितृपुत्रादिरूपाणां नृणां मिथः संयोगवियोगौ स्यातामित्यन्वयः । अनेन वेदस्य मुख्यार्थः श्रीनारायण एवेति निरणायि । तस्मात् पराधीनत्वान् न शोकेन प्रयोजनं तवेति भावः ॥ ४३ ॥

प्रकाशिका

एवमीश्वरस्याधीनमित्युपपाद्येदानीं स संयुनक्ति स एव वियुनक्ति चेत्येतत्दृष्टान्त-मुखेनोपपादयति- यथेति ॥ यथा क्रीडासाधनानां संयोगविगमौ क्रीडितुः पुरुषस्येच्छया भवतः । तथैवेशेच्छया नृणां पितृपुत्रादिरूपाणां नृणां संयोगविगमौ स्यातामित्यर्थः ॥ ४३ ॥

यन्मन्यसे ध्रुवं लोकमध्रुवञ्चाथवोभयम् ।

सर्वथा हि न शोच्यास्ते स्नेहादन्यत्र मोहजात् ॥ ४४ ॥

तात्पर्यम्

अपरिहार्यत्वादशोच्याः ॥ ४४ ॥

पदरत्नावली

‘यस्तर्केणानुसन्धत्ते स धर्मं वेद नेतरः’ इति स्मृतेर् उक्तार्थनिर्णये केयं युक्तिरिति तत्राह- यदीति ॥ यद् यदि लोकं शरीरं ध्रुवं नित्यं मन्यसे, अध्रुवम् अनित्यं वा, अथवोभयं नित्यानित्यं मनुषे इति विकल्प्य परिहरति- सर्वथेति ॥ सर्वप्रकारेण ते पितरो न शोच्याः । तथाहि नित्यत्वे नाशाभावात् तस्य चादर्शनाद् अनित्यत्वमिति वक्तव्यम् । तस्यापरिहार्यत्वात् । तृतीयोऽनुपपन्नः । व्याहतत्वात् । तर्हि शोके किङ्कारणमिति तत्राह- स्नेहादिति ॥ अहं ममेति मोहो बुद्धिभ्रमः । तस्माज् जातात् स्नेहाद् अन्यत्र ते शोककारणं नास्ति । तस्माद् भ्रमजन्यस्नेह एव तत्र हेतुरिति भावः ॥ ४४ ॥

प्रकाशिका

एवं तवास्वतन्त्रत्वान्न शोककर्तृतेत्युपपाद्येदानीं तेषां शोककर्मताऽपि युक्तिबाधिते-त्याह- यन्मन्यस इति ॥ ध्रुवं लोकं नित्यं प्रकाशरूपं जीवमुद्दिश्य शोक इति यद्यपि मन्यसे । अध्रुवमनित्यं लोकं देहं वाऽथवोभयं देहविशिष्टं जीवम् । पक्षत्रयमपि न युक्तमित्याह- सर्वथेति ॥ ते पित्राद्याः शोच्याः शोकार्हा न । कुत इत्यतो हिशब्देन ध्रुवाध्रुवपदसूचितो हेतुरुक्तः । तथा च जीवमुद्दिश्य शोको च युक्तः । तस्य नित्यत्वात् । नापि देहमुभयं वोद्दिश्य । तयोरनित्यत्वादित्यर्थः । अत्रानित्यत्वहेतोर्न शोच्यत्वासाधकतया विरुद्धत्वात् । अतोऽभिप्रायमाह- अपरिहार्यत्वादिति ॥ तथा च देहस्य विशिष्टस्य वाऽनित्यत्वान्नाशोऽपरिहार्यः । ततश्चापरिहार्येऽर्थे शोको वृथेत्याशय उक्त इति ध्येयम् । तर्हि मृतानुद्दिश्य लोकानां शोकः परिदृश्यमानः किंनिमित्त इत्यत उक्तम् । स्रेहादिति ॥ स्रेहोऽपि न स्वाभाविक इत्याह- मोहजादिति ॥ एते मदीया अहं चैतेषां पोषकः । अतो मां विना कथमेते भविष्यन्तीत्यादिरूपो भ्रमो मोहः । ते न जातात्स्रेहात् । अन्यत्र ऋते कारणान्तरेण न शोच्याः । शोके स्रेहद्वारा मोह एव हेतुरिति भावः ॥ ४४ ॥

तस्माज्जह्यङ्ग वैक्लव्यमज्ञानकृतमात्मनः ।

कथं त्वनाथाः कृपणा वर्तेरन्बतमामृते ॥ ४५ ॥

पदरत्नावली

ननु ‘यस्य देवेे परा भक्तिर्यथा देवे तथा गुरौ’ इति श्रुतेर् गुरुविषयस्नेहलक्षण-भक्तेः पुरुषार्थहेतुत्वेनोपयोगात् कथं तस्य मोहजन्यत्वमित्याशङ्क्य तस्य तद्वैलक्षण्यान् मम तत्पोषण-कर्तुत्वेन मन्नाथत्वान् मदृते जीवनमेव नास्ति तेषाम् । ईशरक्ष्यत्वाज्ञानादित्यात्मनि अन्यथाभिमान-निमित्तकातर्यं त्वया त्यक्तव्यमित्याह- तस्मादिति ॥ आत्मनः परमात्मनो ऽज्ञानेन जातं वैक्लव्यं जहि त्यजेत्यन्वयः । परमात्मन स्वातन्त्र्यपरामर्शेनेति शेषः ॥ ४५ ॥

प्रकाशिका

मोहेऽपि निमित्तं दर्शयन् त्वं मोहं स्रेहं च त्यजेत्याह- तस्मादिति ॥ आत्मनः मरमात्मनो जीवस्य स्वातन्त्र्येण पारतन्त्र्येण चाज्ञानं तेन कृतं वैक्लव्यं चित्तविकारं मोहं स्रेहं च जहि त्यज । त्यागहेतुः । तस्मादिति ॥ ईशजीवयोः स्वातन्त्र्यापरतन्त्र्यनिश्चयादित्यर्थः । तथा च तव तन्निमित्तः शोको न भविष्यतीति भावः । वैक्लव्यशब्दोऽक्तं मोहमेव दर्शयति- कथमिति ॥ अनाथा मद्व्यतिरिक्तरक्षकरहिताः । कृपणा अलब्धजीवनोपायाः । वर्तेरन् प्रवृत्ता इति वैक्लव्यमिति सम्बन्धः

॥ ४५ ॥

कालकर्मगुणाधीनो देहोऽयं पाञ्चभौतिकः ।

कथमन्यांस्तु गोपायेत् सर्पग्रस्तो यथा परम् ॥ ४६ ॥

पदरत्नावली

किञ्च तवायं देहः स्वाधीनः पराधीनो वा । स्वाधीनत्वे स्वभोगायोग्यनिवारणा-क्षमता कथम् । नहि कश्चिद् दुःखं मे स्यादित्याकाङ्क्षते विचक्षणः । तस्मात् पराधीन इति वक्तव्यम् । तथा च तस्य पररक्षणसामर्थ्यं न घटत इत्याह- कालेति ॥ कालः पक्षमासादिलक्षणः । कर्म फलपाचकं पुण्यपापलक्षणमदृष्टम् । गुणाः सत्वादयः । तन्निमित्तोपादानकारणजन्यत्वेन कालाद्यधीनः सजीवोऽयं देहः पञ्चभिर् भूतैर् आरब्धः स्वव्यतिरिक्तान् कथं गोपायेद् रक्षेत् । तत्र दृष्टान्तः सर्पग्रस्तो मण्डूकः सर्पग्रस्तं परं मण्डूकान्तरं रक्षितुं न समर्थस् तथेति । तुशब्देन अनुभवसिद्धमेवेदमिति द्योतयति । तस्माद् अहं पित्रादिरक्षाकर्तेत्याद्यज्ञानं त्यजेति भावः ॥ ४६ ॥

प्रकाशिका

नन्वहं तेषां पालक इति निश्चयस्य बाधाभावात् कुतो भ्रमत्वमित्यतोऽत्र युक्तिबाधं दर्शयति- कालकर्मेति ॥ कालः शतवर्षायुष्यरूपः । कर्म तावत्पर्यन्तं जीवनप्रदमदृष्टम् । गुणा ईश्वरेच्छादिरूपाः । तमोऽभिमानिनी दुर्गा वा । एतैर्ग्रस्त एतेषामधीनः । कवलीकृत इति यावत् । कुतः । यतः पाञ्चभौतिकः पञ्चमहाभूतनिर्मितोऽयं त्वदीयः । कथमित्याक्षेपे । अन्यान्पित्रादीन् गोपायेद्रक्षयेत् । अत्र दृष्टान्तः सर्पग्रस्तोऽजगरगलितो यथाऽन्यं न रक्षति तद्वत् । अयं भावः । न तावद्देहं विना त्वच्चेतन एव रक्षकः । असामर्थ्यात् । देहविशिष्टश्च कालकर्मादिप्रेरकमृत्युग्रस्तोऽतो न रक्षकः । विमतोऽयं देहविशिष्टो न पररक्षकः स्वापेक्षया प्रबलेन कवलीकृतत्वात् । सर्पग्रस्तपुरुषवदिति प्रयोगसम्भवादिति अत्र देहविशिष्टस्य ग्रहणे कर्तव्ये देहस्य ग्रहणं विशेषणीभूतदेहनाशेनैव विशिष्टनाशो न विशेष्यनाशेनेति सूचयितुम् ॥ ४६ ॥

अहस्तानि सहस्तानामपदो द्विचतुष्पदाम् ।

अणूनि तात महतां जीवो जीवस्य जीवनम् ॥ ४७ ॥

पदरत्नावली

ननु भगवान् सत्यमेतत् । तथापि वृद्धानाम् अन्धानाञ्च अन्नादिदोःस्थ्यात् तज्जीवने मम सन्देह इति चेत्तत्राह- अहस्तानीति ॥ हे तत वत्स, अहस्तानि शशवराहपक्षिप्रभृतीनि सत्वानि सहस्तानां मनुष्याणां जीवनं देहधारणसाधनम् । द्विपदां च चतुष्पदाञ्च अन्नतृणादयस् तत्र द्विपात्स्वपि अणूनि मनुष्यादीनि महतां राक्षसादीनां जीवनमित्यनुवर्तते । एवं जीव एव जीवस्य जीवनं विधात्रा विहितम् । अतो न तान्प्रति चिन्ता कर्तव्येत्यर्थः ॥ ४७ ॥

प्रकाशिका

यश्च कृपणा इत्यनेन जीवनोपायालाभ उक्तस् तन्निश्चयोऽपि तव भ्रम एवेत्युप-पादयति- अहस्तानीति ॥ यद्वा तव रक्षकत्वं किं मुक्तिदानेनोत जीवनोपायभूतान्नदिदानेन । नाद्य इत्याह- कालेति ॥ अत एव तु अतिशयेन गोपायेतित्युक्तम् । द्वितीये त्वाह- अहस्तानीति ॥ हे तात वत्स । अहस्तानि पश्वादीनि । अपदस्तृणान्नादयः । सहस्ता गजादयोऽपि सन्ति । अतो द्विपदां पुनर्ग्रहणेन न पौनरुक्त्यमिति ध्येयम् । अणूनि मनुष्यादीनि महतां राक्षसादीनाम् । एवं जीवो जीवदेहो जीवस्य चेतनजातस्य जीवनं देहधारणोपायः । हरिणैव कल्पितमिति शेषः । अतोऽहमेवैतेषां रक्षक इति त्वज्ज्ञानं मोहरूपमेवेति भावः ॥ ४७ ॥

तदिदं भगवान्राजन्नेक आत्माऽऽत्मनां स्वदृक् ।

अन्तरोऽनन्तरो भाति पश्य त्वं माययोरुताम् ॥ ४८ ॥

पदरत्नावली

इतोऽपि न शोकः कर्तव्यः, किन्तु अखिलस्य हर्यधीनत्वात् तद्भजनमेवाऽवश्यं कर्तव्यमित्याह- तदिदमिति ॥ एवम् इदं हरेरितरत्सर्वम् अनित्यम् अस्वतन्त्रं चेति यत् तत् तस्मात् हे राजन् भगवान् आत्मनां जीवानाम् आत्मा आदानादिकर्ता एको ऽद्वितीयः स्वदृक् स्वयंप्रकाशः विवेकज्ञानिनां मते अन्तरो ऽस्य जगतो ऽन्तः स्थित्वा रतिकृद् अनन्तरः गुणगुण्यादिभेदरहितः भाति । तस्मात् त्वमपि देवोत्तमावतारत्वेन विवेकित्वान् मायया स्वेच्छया कृताम् उरुताम् अनेकावतारान्तर्याम्यास्यात्मिकां निर्भेदां हरेर् विभूतिं पश्य । पश्यन् च तमेव भजेति वाक्यशेषः । ‘स्वदृक् भगवानात्मा स एक एव इदं जगद्भाति । कथं ? भोक्तृरूपेणान्तरः भोग्यरूपेणानन्तरः । नन्वेकस्य अनेकत्वं कथं तत्राह- पश्येति ॥ तं परमेश्वरं मायया बहुधा वर्तमानं पश्ये’ति केचिद्योजयन्ति । एकस्य भोक्तभोग्यरूप-त्वानुपपत्तेः, अनिर्वाच्यमायाया अप्रामाणिकत्वेनानङ्गीकार्यत्वाद् अनादरणीयमेव तदिति ॥ ४८ ॥

प्रकाशिका

नन्वेवं जीवानामेवान्योन्यरक्षकत्वमनुभवसिद्धं कथमपलापार्हमित्यतस्तत्तदन्तर्गत-भगवद्रूपाणामेव रक्षकत्वं ज्ञानिप्रत्यक्षसिद्धमित्याशयेनाह- तदिदमिति ॥ सप्तसु प्रथमेति सूत्रात् । तस्मिन्नहस्तादावस्मिन्सहस्तादौ जीवसङ्घेऽन्तरोऽन्तःस्थित्वा रक्षणकृत् । आत्मानं जीवनामेको मुख्य आत्माऽऽदानादिकर्ता । स्वदृक् स्वविषयकसाक्षात्कारवान् । अनेनात्रेश्वरप्रत्यक्षमपि मानं सूचितं भवति । ज्ञानिनामपीति शेषः । नन्वेवं स्थानभेदेनास्य भेदः प्राप्त इत्यत उक्तम् । अनन्तरो भेदरहित इति । ज्ञानिनामस्यार्थस्य सिद्धौ मम कथं तत्सिद्धिरित्यत उक्तम् । तं भगवन्तं माययेच्छया तस्योरुतां भेदाभावेऽप्यनेकत्वं च त्वं पश्य । त्वयाऽपि ज्ञानित्वादालोचने कृतेऽयमर्थो भास्यतीति भावः ॥ ४८ ॥

सोऽयमद्य महाराज भगवान्भूताभवनः ।

कालरूपोऽवतीर्णोऽस्यामभावाय सुरद्विषाम् ॥ ४९ ॥

पदरत्नावली

ननु भगवता ईश्वरवशं जगदित्युक्तम् । तमीश्वरं वयं कथं बुध्यामह इति तत्राह- सोऽयमिति ॥ यः सकलं स्ववशं विधायास्ते सोऽयम् अद्य दैवैः प्रार्थितो ऽस्याम् उर्व्यां यदुकुलेऽवतीर्ण इत्यन्वयः । कथंभूतः? भूतानां भावनः वर्धनः । कालरूपः संहाररूपः । किमर्थं ? सुरद्विषामभावाय विनाशाय ॥ ४९ ॥

प्रकाशिका

न केवलमेवमन्तःस्थित एव रक्षति किन्तु बहिर्गतरूपेणापीत्याशयेनाह- सोऽयमिति ॥ यो वशीकृताखिलचेतनसमुदायो यश्च स कालान्तर्गतो रक्षक उक्तः सोऽयं भूतभावनः प्राणिवर्धनो भगवान् ओदानीं कालरूपः सकलदुष्टसंहारकरूपः सन् अस्यां भूम्यामवतीर्णोऽसि । सुरद्विषां दैत्यानामभावाय नाशाय ॥ ४९ ॥

निष्पादितं देवकृत्यमवशेषं प्रतीक्षते ।

तावद्यूयमवेक्षध्वं भवेद्यावदिहेश्वरः ॥ ५० ॥

पदरत्नावली

अवतारप्रयोजनञ्च सम्पन्नप्रायमिति ब्रूम इत्याह- निष्पादितमिति ॥ भूभारदैत्य-संहाराख्यं देवकार्यं तेन निष्पादितम् । स पुनो ऽवशेषम् अवशिष्टयदुकुलक्षयं प्रतीक्षते । पश्चाद्वैकुण्ठ-मेष्यतीति शेषः । श्रीकृष्ण इह भूतले यावद् यावन्तं कालं तिष्ठति यूयमपि तावन्तं समयम् अनुवर्तध्वमित्यन्वयः ॥ ५० ॥

प्रकाशिका

भवतामपि नाशः समीपस्थोऽतोऽपि न शोकः कार्य इति वक्तुमाह- निष्पादित-मिति ॥ देवकृत्यं भूभारहरणरूपमवशेषमवशिष्टं यदुकुलनाशम् । पश्चात् स्वलोकं गमिष्यतीति शेषः । इह भूम्यामवेक्षध्वम् । स्थातुमिति शेषः । ततः परं भवद्भिरपि गन्तव्यम् । अतो न शोकेन कृत्यमित्याशयः ॥ ५० ॥

धृतराष्ट्रः सह भ्रात्रा गान्धार्या च स्वभार्यया ।

दक्षिणेन हिमवता ऋषीणामाश्रमं गतः ॥ ५१ ॥

तात्पर्यम्

गमनकाले सह भ्रात्रा ॥ ५१ ॥

पदरत्नावली

नाहं वेद गतिमिति प्रश्नं परिहरिष्यन् धृतराष्ट्रस्य तपश्चरणाश्रमतीर्थनाम वक्तीत्याह- धृतराष्ट्र इति ॥ भ्रत्रा विदुरेण चशब्दात् कुन्त्या सह गतः । हस्तिनपुरान्निर्गम्य हिमवतः पर्वतस्य दक्षिणेन दक्षिणदिग्गतम् ऋषीणाम् आश्रमं सप्तस्त्रोतो नाम गतोऽभूदित्यन्वयः ॥ ५१ ॥

प्रकाशिका

धृतराष्ट्रादीनां मरणं कथं जातमिति जिज्ञासायां तन्मरणप्रकारं वक्तुं गृहान्निर्गमनमारभ्य तदीयां स्थितिं वक्ति- धृतराष्ट्र इति ॥ ननु नारदागमनकाले विदुरस्याभावात्कथं सह भ्रात्रेत्युक्तमित्यत आह- गमनकाल इति ॥ गृहान्निगमनकाल इत्यर्थः । चशब्दात्कुन्त्या च । तथा च पूर्ववृत्तान्तकथनमेतदिति भावः । दक्षिणेन दक्षिणभागे स्थितम् ॥ ५१ ॥

स्रोतोभिः सप्तभिर्यत्र स्वर्धुनी सप्तधाऽभ्यगात् ।

सप्तानां प्रीतये नाम्ना सप्तस्रोतः प्रचक्षते ॥ ५२ ॥

पदरत्नावली

कस्मात् सप्तस्त्रोतो नाम तस्येति तत्राह- स्त्रोतोभिरिति ॥ यत्र यस्मिन्नाश्रमे स्वर्धुनी भागीरथी सप्तानाम् ऋषीणां प्रीयते सप्तभिः स्त्रोतोभिर् जलस्यन्दनधाराभिः सप्तधा सप्तभिर् द्रोणीभिर् अभ्यगात्, समुद्रमिति शेषः । इति यस्मात् तेन विचक्षणाः सप्तस्त्रोत इति संज्ञया प्रचक्षत इत्यन्वयः ॥ ५२ ॥

प्रकाशिका

निरुक्तिं दर्शयन् आश्रमनामाह- स्रोतोभिरिति ॥ यत्र यस्मिन्नाश्रमे स्वर्धुनी स्वर्गनदी मन्दाकिनी सप्तानामृषीणां प्रीतये सप्तभिः स्रोतोभिः प्रवाहैः सप्तमार्गगामिन्यभ्यगात् । समुद्रमिति शेषः । इति यत्तेन कारणेन तमाश्रमं सप्तस्रोतस्तच्छब्दवाच्यं प्रचक्षते ॥ ५२ ॥

स्नात्वा त्रिषवणं तस्मिन्हुत्वा चाग्नीन्यथाविधि ।

अब्भक्ष उपशान्तात्मा स आस्ते(ऽ)विगतेक्षणः ॥ ५३ ॥

तात्पर्यम्

**आस्त इत्याद्यतीतार्थे । ‘स एष तर्ह्यध्यास्त आसनं पार्थिवोचितम्’ इत्यादिवत् । **

सुप्तिङुपग्रहलिङ्गनराणां कालहलच्स्वरकर्तृयङां च । व्यत्ययमिच्छति शास्त्रकृदेषां सोऽपि च सिद्ध्यति बाहुलकेन ॥ इति महाव्याकरणे ।

व्यासादयो वर्तमानमतीतानागते तथा । व्यत्यस्यापि वदन्त्यद्धा मोहनार्थं दुरात्मनाम् ॥

पौर्वापर्यं यतो नैव सदैव परिवर्तनात् । अतश्च व्यत्ययादेतद्वदन्ति ज्ञानचक्षुषः ॥ इति ब्राह्मे

॥ ५३ ॥

पदरत्नावली

उपशान्त आत्मा अन्तःकरणं यस्य सस् तथोक्तः । विगतेक्षणः नष्टमांसदृष्टिः । वौ परमात्मनि गतं प्राप्तम् ईक्षणं निरन्तरचिन्तनं यस्येति वा । अब्भक्षः कृतजलभक्षः । सः धृतराष्ट्रस् तस्मिन् आश्रमे स्नात्वा यथाविधि अग्नींश्च हुत्वा आस्ते इत्यन्वयः । आस्ते इति लट् भूतार्थे । अन्यथा उक्तार्थविरोधः स्यात् ॥ ५३ ॥

प्रकाशिका

तदनुष्ठितयोगप्रकारमाह- स्नात्वेति ॥ उपशान्तो विषयविरक्त आत्मा मनो यस्य स तथा । अविगतेक्षणोऽनपगतव्यासाद्युपदिष्टज्ञानः । विगतेषण इति पाठे विगता पुत्रदीषणा यस्मादित्यर्थः । ननु नारदागमनकाले धृतराष्ट्रस्य मृतत्वात्कथमत्रोत्तरत्र चास्त इति वर्तमानार्थकलट्प्रयोग इत्यत आह- आस्त इत्यादीति ॥ आदिपदेन तच्च भस्मीभविष्यति तमग्निमनुवेक्ष्यतीत्यादेर्ग्रहणम् । इत्यादीशब्दरूपमतीतार्थविषये मुख्यवृत्त्यैव वर्तत इति शेषः । तथा चास्त इत्येतदासीदिति व्याख्येयमिति भावः । कुत इत्याशङ्कायामास्त इत्यस्यातीतार्थे प्रयोगं तावद्दर्शयति- स एष इति ॥ इदं हि शौनकादीन्प्रति सूतस्य वचनम् । सूतशौनकसंवादश्च परीक्षिन्मरणोत्तरभावी । अतोऽयमध्यास्त इति प्रयोगो न वर्तमानविषयः । किं त्वतीतविषय एवेति भावः ।

नन्वेवं प्रयोगबलादास्त इत्यस्यातीतार्थकत्वनिश्चयेऽप्युदाहृतभविष्यदर्थकप्रयोगाणां कथमतीतार्थत्व-निश्चय इत्यतः सर्वत्र नियामकं महाव्याकरणसूत्रं पठति- सुप्तिङिति ॥ सुप् विभक्तिः । तिङ्विभक्तिः । उपग्रहो विकरणं शब्दादि परस्मैपदात्मनेपदे वा लिङ्गं स्त्रीलिङ्गादि । नराः प्रथमपुरुषादयः । कालो वर्तमानादिकालवाचकः शब्दः । स्वर उदात्तादयः । कर्तृशब्देन तद्वाचकः शब्दो ग्राह्यः । यङ् प्रत्ययस्तेषाम् । नन्वनुक्तं कथमिच्छतीत्यत उक्तम् । सोऽपि व्यत्ययोऽपीति । बाहुलिकेन बहुल-शब्दोपेतविधिना । ननु कृपालूनां पुराणकृतामित्थं मोहकं वचनं किमर्थमित्यतोऽत्र प्रयोजनं प्रमाणेनैव दर्शयति- व्यासादय इति ॥ अद्धा निश्चयेन । भविष्यदर्थकेष्वतीतार्थकेषु च प्रयोगेषु प्रकारान्तरेण योजनामभिप्रेत्याह- पौर्वापर्यमिति ॥ कथाप्रवाहस्येति शेषः । सदैव प्रतिकल्पमेव । परिवर्तनाच्चक्र-वद्भ्रमणात् । एतद्धृतराष्ट्रदेहभस्मीभवनादिकम् । तथा च तच्च भस्मीभविष्यतीत्यादिकमुत्तरकल्पेऽप्येवं भविष्यतीति व्याख्येयम् । यत्र तु वर्तमाने भविष्यति वार्थेऽतीतार्थे चशब्दप्रयोगस्तत्रातीतकल्पे तदासीदिति व्याख्येयमिति भावः ॥ ५३ ॥

जितासनो जितश्वासः प्रत्याहृतषडिन्द्रियः ।

हरिभावनया ध्वस्तरजःसत्वतमोमलः ॥ ५४ ॥

पदरत्नावली

‘अपि मयी’ति मृतिकालीननिष्ठासौमनस्यविषयं प्रश्नं परिहरतीत्याह- जितासन इति ॥ धृतराष्ट्र उक्तविधिना तपः कुर्वन् अभ्यासपाटवेन जितासनः स्वस्तिकाद्यासनजयवान् जितश्वासः प्राणजयवान् विषयेभ्यः प्रत्याहृतश्रोत्रादिषडिन्द्रियः सन् हरिभावनया निरन्तरहरिध्यानेन ध्वस्तं रजःसत्वतमोनिमित्तं मनोमलं येन सस् तथा ॥ ५४ ॥

प्रकाशिका

ध्वस्तानि रजःसत्त्वतमःकृतानि रागादिरूपमलानि यस्य सस्तथा ॥ ५४ ॥

विज्ञानात्मनि संयोज्य क्षेत्रज्ञे प्रविलाप्य तम् ।

ब्रह्मण्यात्मानमाधारे घटाम्बरमिवाम्बरे ॥ ५५ ॥

तात्पर्यम्

विज्ञानात्मा विरिञ्चोऽयं यस्तस्मिंल्लीयते जगत् । यादांसि सागरे यद्वत् स क्षेत्रज्ञे जनार्दने ॥ हृदिस्थे च स च व्याप्ते स्वात्मन्येकीभवत्युत । प्रलयौ भेदवन्तौ तु पूर्वोक्तौ ब्रह्म-कृष्णयोः ॥अन्तस्थस्य बहिष्ठे तु तस्य तस्मिन्नभेदतः ॥ इति ब्रह्मवैवर्ते ।

काले तस्य तत्र लयो भविष्यतीति ध्यानमात्रं विलापनम् । अविद्यमानमपि यो ध्यायेतैवं विनिश्चितः । उच्यते तस्य कर्तेति तथैव मुनयोमलाः ॥ जगद्विलापयामासुरित्युच्यन्तेऽथ तत्स्मृतेः । न च तत्स्मृतिमात्रेण लयो भवति निश्चितम् ॥ इति हि नारदीये ।

स्वरूपं जायमानं च आकाशं च घटे द्विधा । स्वरूपं जायमाने तु घटे निर्भेदमेव हि ॥

भिन्नवद् व्यवहारस्य समर्थं तल्लये च तत् । तद्वदेवावतारेषु देहस्थश्च हरिः स्वयम् ॥

भिन्नवद् व्यवहाराय शक्तो लीने जगत्यपि । स एव पूर्ववज्ज्ञेयो निर्विशेषेण केशवः ॥

जायमानं घटे जाते जायते तल्लये(तिष्टति) तु न । तस्माद्भिन्नं महाकाशादेवं जीवोऽपि कीर्तितः ॥

उपाधेश्चैव नित्यत्वान्नैव जीवो विनश्यति । स्वरूपत्वादुपाधेश्च न भिन्नोपाधिकल्पनम् ॥

न चाभिन्नत्वमीशेन चिन्मात्रत्वं च युज्यते ॥ इति ब्रह्मतर्के ॥ ५५ ॥

पदरत्नावली

स्वरूपज्ञानेन स्वस्वरूपमारभ्य परतत्वपर्यन्तान्यशेषतत्वान्यपरोक्षीकृत्य सर्वं जगद् विज्ञानात्मनि विज्ञानतत्वाभिमानिनि विरिञ्चे संयोज्य तत्र प्रविलाप्य लयमेष्यतीति ध्यात्वा तं विरिञ्चं क्षेत्रज्ञे स्वहृदि स्थिते हरौ अन्तर्यामिणि प्रविलाप्य घटाम्बरम् अम्बर इव उत्पद्यमानघटवर्तिनोर् महाकाशस्वरूपतद्भिन्नजायमानाकाशयोर्मध्ये महाकाशस्वरूपघटाकाशो, महाकाशे घटे भिन्ने यथैकी-भवति तथा आत्मानं स्वान्तर्यामिणं हरिम् आधारे सर्वाधारे ब्रह्मणि सर्वगते प्रविलाप्य एकीभावेन चिन्तयन् ॥ ५५ ॥

प्रकाशिका

इदानीमन्तकालेऽवश्यचिन्तनीयं तेन चिन्तितं लयप्रकारं दर्शयति- विज्ञानात्म-नीति ॥ इदमप्रतीत्या प्रमाणेनैव व्याख्याति- विज्ञानात्मेति ॥ महत्तत्वाभिमानीत्यर्थः । संयोज्येत्यत्र प्रतिसम्बन्धिप्रदर्शनाय जगदित्युक्तम् । लीयत इत्यनेन संयोज्येत्येतदुक्ततात्पर्यम् । यादांसि जलचराणि । स विरिञ्चः क्षेत्रज्ञे गुणत्रयात्मकक्षेत्रनियामके जनार्दने । आनन्दमयनामके लीयते । स क्षेत्रज्ञनामा व्याप्ते स्वात्मनीत्यनेन ब्रह्मण्यत्मानमित्येतदुक्तार्थम् । प्रविलाप्येत्यस्य तात्पर्यमेकीभवतीति । हृदि स्थित इत्यनेन हृदि स्थिते देहान्तःस्थे तस्मिन्विज्ञानात्मनि विरिञ्चे जगद्वागादिरूपं लीयते । सोऽन्तस्थो विरिञ्चः क्षेत्रज्ञे देहान्तर्गतप्रकृत्यादिनियामके जनार्दने लीयते स क्षेत्रज्ञः व्याप्ते स्वात्मन्येकीभवतीत्यपि मरणकाले चिन्तनीयमिति सूचयति । स क्षेत्रज्ञः स्वात्मन्येकीभवतीत्युक्त्या विरिञ्चलयोऽपि क्षेत्रज्ञो एकीभावरूपा एवेति प्रतीतिवारणायोक्तं विशदयति- प्रलयाविति ॥ भेदवन्तौ नैकप्रकारावित्यर्थः । ब्रह्मकृष्णयोर्विरिञ्चक्षेत्रज्ञयोरित्यर्थः । तमेव भेदं दर्शयति- अन्तःस्थस्येति ॥ तुशब्दोऽवधारणार्थः । अन्तःस्थस्य देहान्तःस्थस्याव्यक्तान्तःस्थस्य वा तस्य क्षेत्रज्ञस्य तस्मिन्व्याप्तेऽभेदत एवाभेदमपेक्ष्यैव लयः । उच्यत इति शेषः । विरिञ्चस्य तु देहलयमपेक्ष्यैवेति भावः । ननु मूले विलाप्येति कथमुक्तं, धृतराष्ट्रमरणकाले प्रलयस्याजातत्वादित्यतोऽत्र विलापनशब्दो लक्षणया ध्यानकरणपरो विवक्षित इत्याह- काले तस्येति ॥ प्रलयकाले तस्य जगतो विरिञ्चस्य च तत्र विरिञ्चे क्षेत्रज्ञे च तथा तस्य क्षेत्रज्ञस्य तत्र व्याप्ते स्वात्मनि लय एकीभाव इति ध्यानमात्रं ध्यानकरणमात्रमित्यर्थः । नन्वेवममुख्यप्रयोगे किं प्रयोजनमित्यतो रूढलक्षणेऽयमिति भावेन लौकिकवैदिकप्रयोगप्राचुर्यं प्रमाणेनैव दर्शयति- अविद्यमानमपीति ॥ अजातमपीत्यर्थः । सुनिश्चितः सम्यङ्निश्चयोपेतः । ध्यायेनैव न तु क्रियेत । स तस्य ध्यातस्यार्थस्य कर्तेत्युच्यते । लोक इति शेषः । तथा श्वस्तत्कार्यमहं करिष्य इति निश्चित्य तदेव ध्येयम् । तं दृष्ट्वाऽन्यो वदति । अनेन स्वमनसि तथा कृतमस्तीति । तथाशब्दो वक्ष्यमाणवैदिक-शब्दप्रयोगसमुच्चये । एवशब्दस्य तत्स्मृतेरेवेत्यन्वयः । मुनयो ध्यानकर्तारो जगद्विलापयामासुः । जगद्विलयकर्तार इत्युच्यन्ते । वेदेषु वैदिकग्रन्थेषु च तत्स्मृतेस्तद्ध्यानकर्तृत्वान्निमित्तात् । अमुख्य एवायं प्रयोगो मुख्यार्थस्य बाधितत्वादित्याह- न चेति ॥ निश्चितं यथा स्यात्तथा । तत्स्मृतिमात्रेण लयस्मृतिमात्रेणेदानीं नैव भवतीत्यर्थः । अतोऽयं प्रयोगोऽमुख्य इति शेषः । घटांबरमिवाम्बर इत्युक्तं दृष्टान्तं विवृण्वन् दार्ष्टान्तिकमिति दर्शयति- स्वरूपमिति ॥ स्वरूपं बहिर्गताव्याकृताकाशस्वरूपम् । तुशब्द आकाशयोर्वक्ष्यमाणवैलक्षण्यद्योतकः । एवं घटाम्बरशब्दो द्विविधाकाशपर इति व्याख्याया-व्याकृताकाशपरत्वे दृष्टान्तदार्ष्टान्तिकभावं तावद्दर्शयति- स्वरूपमिति ॥ स्वरूपं घटान्तर्गतम-व्याकृताकाशम् । तुशब्दोऽप्यर्थः । घटे जायमानेऽपि बाह्याकाशान्निर्गतभेदमेव । तत्तु विशेषशक्त्या भिन्नवव्द्यवहारस्य समर्थम् आस्पदम् । भवतीति शेषः । तल्लये च घटलयेऽपि तत्तदन्तर्गतमव्याकृत-स्वरूपं निर्भेदमेव निर्विशेषमेव । घटस्य लयप्रयुक्तः कोऽपि विशेषो नैवेत्यर्थः । तल्लये न त्विति पाठे घटनाशे भिन्नवव्द्यवहारस्य समर्थं नेत्यर्थः । स्वयमभिन्न एव जगति देहादौ लीनेऽपि स एव हरिरेव पूर्ववद् ज्ञेयः पूर्ववद्विज्ञेयः ।

एतदेव विवृणोति- निर्विशेषेणेति ॥ जगल्लयप्रयुक्तविशेषाभाववत्तयेत्यर्थः । घटाम्बरशब्दस्य जायमानाकाशपरतायां दृष्टान्ततदार्ष्टान्तिकभावं दर्शयति- जायमानमिति ॥ आकाशमित्यनुवर्तते । तल्लये घटलये । न तु नैव । तिष्टतीति शेषः । नश्यतीति यावत् । तस्मादुत्पत्तिनाशवत्वात् । महाकाशाद-व्याकृताकाशात् । कीर्तितः श्रुत्यादौ हरेर्भिन्न इति प्रतिपादित इत्यर्थः । नन्वेवं घटावच्छिन्नभूताकाश-वज्जीवस्याप्युपाधिजन्मनाशाभ्यां जन्मनाशौ स्यातामित्यत आह- उपाधेश्चेति ॥ चशब्दोऽनादित्व-सङ्ग्रहार्थः । अपिशब्दान्नैव जायत इत्यपि ग्राह्यम् । नन्वेवं यदि जीवस्य नित्योपाधिकल्पनं तर्हि स्वाभाविकं जीवरूपमीशाभिन्नमिति प्राप्तम् । अन्यथोपाधिकल्पनस्य वैयर्थ्यप्रसङ्गात् । उपाधेर्जडरूपस्य नित्यत्वे मोक्षेऽपि तदनुवृत्तिप्रसङ्गेन चिन्मात्रेण देहेन तदवस्थानं जीवस्येति सिद्धान्तहानिश्चेत्यत आह- स्वरूपत्वादिति ॥ चशब्दो यस्मादित्यर्थे । तथा च यस्मान्न भिन्नोपाधिकल्पनं वा तस्मादीशे-नाभिन्नत्वात् । स्वाभाविकत्वमिति शेषः । न च नैव । यदीह जीवे कल्प्यमान उपाधिर्वा जीवाद्भिन्न-स्तदैव स्वरूपमीशेन स्वभावतोऽभिन्नं स्यात् । न चैवम् । उपाधेर्जीवस्वरूपत्वात् । जीवस्वरूप-भूतोपाधेरीशात्स्वाभाविकभेदे विशेषशक्त्या तदवच्छिन्नस्य जीवस्यापि स्वाभाविको भेद एव सिद्ध्यति नाभेद इति भावः । चिन्मात्रत्वं च । मुक्ताविति शेषः । उपाधेरपि जीवस्वरूपत्वेन चिन्मात्रत्वादिति भावः । ध्वस्तमायागुणेत्यत्र मायागुणान् विवक्षितान्दर्शयितुं तावन्मायाशब्दार्थान्प्रमाणेनैव दर्शयति- त्रिगुणात्मकेति ॥ जडप्रकृतिरित्यर्थः । अन्त्यश्चशब्दो विष्ण्विच्छादिरूपानुक्तार्थसङ्ग्राहकः । एव शब्दस्याध्याहृतेनैतदित्यनेन सम्बन्धः । नाममहोदधौ तन्नामकग्रन्थे । यतो मायाशब्दस्यानेकार्था उक्ता अतोऽत्र सत्त्वादयः प्रकृतिगुणा मायागुणा मायागुणशब्दवाच्या इत्यर्थः । ननु धृतराष्ट्रमरणानन्तरं नारदागमनमिति व्याख्याने स वा अद्यतनाद्राजन् परतः पञ्चमेऽहनीति वक्ष्यमाणविरोध इत्यतस्तत्रापि परत इत्यस्य पूर्वत इत्येवार्थ इत्यभिप्रेत्य परशब्दस्य पूर्वार्थकत्वेऽभिधानं दर्शयति- परावर इति ॥ परावरादयः शब्दाः पूर्वापरवरावरदूरसमीपरूपोभयार्थाभिधायिन एवेत्यर्थः । अतो न कोऽपि विरोध इति भावः ।

नन्वथाऽपि विदुरस्य पूर्वमेव मृतत्वाद्विदुरस्तु तदाश्चर्यं निशाम्येत्येतदयुक्तमित्यतस् तस्याप्यभि-प्रायमाह- एतत्सर्वमिति ॥ तदाश्चर्यमित्यस्यार्थ एतत्सर्वमिति । कौरवनाशादिकं निशाम्येत्यस्य तात्पर्यम् । पूर्वमेव ज्ञात्वेति ज्ञानदृष्ट्येति शेषः । अवधारणार्थस्य तुशब्दस्य तस्मादित्यनेनान्वय इत्यभिप्रेत्य तस्मादेवेत्युक्तम् । आसन्नविनाशेष्वनासक्तिरुच्यतेत्यस्मादेव कारणादित्यर्थः । तीर्थनिषेवको गन्तेत्यस्य तात्पर्यम् ॥ तीर्थानि ययाविति ॥ तथा च नारदेन युद्धात्पूर्वमेव विदुरः कुरुकुलनाशमारभ्य धृतराष्ट्रादिमरणपर्यन्तमनर्थं स्वकीयानां ज्ञानदृष्ट्या दृष्ट्वा नात्रासक्तिः कर्तव्येति बुद्ध्या तीर्थानि सेवितुं गत इति पूर्वतन एव वृत्तान्तः कथितो न स्वागमनकालीनः । अतो न विरोध इति भावः । ततश्च विज्ञानात्मनीत्यादिमूलस्यायमर्थः । रुद्रादिकं जगद्विज्ञानात्मनि महत्तत्वाभिमानिनि विरिञ्चे संयोज्य प्रलयकाले लयमेष्यतीति स्मृत्वा क्षेत्रज्ञे त्रिगुणात्मकप्रकृतिनियामके आनन्दमये तं विरिञ्चे प्रविलाप्य ध्यात्वाऽऽत्मानमव्यक्तान्तर्गतं क्षेत्रज्ञमाधारे सर्वजगदाश्रये ब्रह्मणि व्याप्तौ हरौ प्रविलाप्यैकीभवतीति विचिन्त्य तथा मरणकाले वागादिकं विज्ञानात्मनि देहस्थे विरिञ्चे संयोज्य तं विरिञ्चे क्षेत्रज्ञे हृदि स्थिते हरौ प्रविलाप्यात एवाभिन्नं विचिन्त्यात्मानं हृदिस्थितं क्षेत्रज्ञमाधारे सर्वजगदाधारे ब्रह्मणि प्रविलाप्यास्त इति वक्ष्यमाणेनान्यव्यः । अत्रोभयत्र दृष्टान्तमाह- घटांबरमिति ॥ घटाम्बरं घटावच्छिन्नमव्याकृताम्बरमम्बरे बहिःस्थिते व्याप्तेऽव्याकृताकाशे यथैकीभवति तथाऽऽत्मानं ब्रह्मणि प्रविलाप्य, यथा च घटाम्बरं घटावच्छिन्नभूताकाशं घटेन सह जायमानं घटे नष्टेऽम्बरे महाकाशे नश्यति । एवं तं विरिञ्चं क्षेत्रज्ञे प्रविलाप्येत्यर्थः ॥ ५५ ॥

ध्वस्तमायागुणोद्रेको निरुद्धकरणाशयः ।

निवर्तिताखिलाहार आस्ते स्थाणुरिवाधुना ।

तस्यन्तरायो नैवाभूत् सन्यस्ताखिलकर्मणः ॥ ५६ ॥

तात्पर्यम्

त्रिगुणात्मिका तथा ज्ञानं विष्णुशक्तिस्तथैव च । मायाशब्देन भण्यन्ते शब्दतत्त्वार्थवेदिभिः ॥ इति नाममहोदधौ ॥ अत्र सत्वादयो मायागुणाः ॥ ५६ ॥

पदरत्नावली

अत एव ध्वस्तमायागुणोद्रेक इति हेतुगर्भम् । निरस्तसत्वादिप्रकृतिगुणोद्रेकत्वात् हरावेव निरुद्धाशेषकरणमाना अत एव निवर्तिताखिलाशनो ऽधुना स्थाणुरिव अचल आस्ते । तदा मृतिकाले आसीदित्येकान्वयः । तस्मान् न त्वयि शमलमाशंसमानो नापि दुःखितो गङ्गायामभ्यपतदिति भावः । ब्रह्मार्पणबुध्या सन्यस्तसमस्तकर्मणस् तस्य धृतराष्ट्रस्य तपोविध्नो नैवाभूदित्यन्वयः ॥ ५६ ॥

प्रकाशिका

ध्वस्तो मायागुणानां प्रकृतिगुणानां सत्त्वादीनामुद्रेकः कामादिरूपेणोद्भवो यस्य स तथा । हरावेव निरुद्धानि करणान्याशयो मनश्च यस्य स तथा । अत एव निवर्तितोऽखिल आहारो भोग्यं यस्य स तथा । स्थाणुरिवाचलोऽधुना मरणात्पूर्वं चतुर्थे दिवसे आस्ते आसीत् । तस्य श्रीव्यासदेवकृपया ध्यानविघ्नो न जात इत्याह- तस्येति ॥ तस्यैवं ध्यायतेऽन्तरायो विघ्नः । संन्यस्तानि हरावेव समर्पितान्यखिलानि कर्माणि यस्य स तथा तस्य ॥ ५६ ॥

स वा अद्यतनाद्रजा परतः पञ्चमेऽहनि ।

कलेवरं हास्यति ह तच्च भस्मीभविष्यति ॥ ५७ ॥

तात्पर्यम्

‘परावरे तथैवारादुभयार्थाभिधायिनः’ इति च ॥ ५७ ॥

पदरत्नावली

इदानीं धृतराष्ट्रमृतिकालं वक्तीत्याह- स वा इति ॥ सः धृतराष्ट्रो ऽद्यतनाद् अह्नः परतः पूर्वस्मिन् पञ्चमेऽहनि कलेवरं हास्यति जहौ । तच्च भस्मीभविष्यति भस्मसादभूत् । हशब्देन सुप्तिङुपग्रहलिङ्गनरणामिति व्याकरणसूत्रमत्र प्रमाणीकरोति । इतिहासं वा सूचयति । वै इत्यनेन ‘तांस्तदा नारदो विद्वाञ्छमयामास धर्मवित् । उक्त्वोत्तमां गतिं तेषां निष्टां तात्कालिकीं तथा’ इति स्कन्दपुराणवाक्यं सूचयति । चशब्द एवार्थे । तत्कलेवरमेव भस्मीभविष्यति । न तु स्वयं शून्यतामेष्यति । चेतनस्य नित्यत्वात् ॥ ५७ ॥

प्रकाशिका

तस्य मृतिकालमप्याह- स वा इति ॥ अद्यतनादहः परतः पूर्वतो हास्यति जहौ । तर्हि दाहार्थं गमिष्यामीत्यत आह- तच्चेति ॥ भस्मीभविष्यति । भस्मसादभूत् । वा इत्यनेन तांस्तदा नारदो विद्वानित्यादिप्रमाणप्रसिद्धं दर्शयति ॥ ५७ ॥

दह्यमानेऽग्निभिर्देहे पत्युः पत्नी सहोटजे ।

बहिस्थित्वा पतिं साध्वी तमग्निमनुवेक्ष्यति ॥ ५८ ॥

पदरत्नावली

उटजेन पर्णशालया सह वर्तमानः सहोटजः । तस्मिन् प्रवेक्ष्यति प्राविशत् । साध्वीशब्देन कुन्ती च । साग्निमाविशत् । तस्माद् उत्तमगतिं प्राप्तान् तान् प्रति परलोकमुद्दिश्य न शोचितव्यमिति भावः ॥ ५८ ॥

प्रकाशिका

तर्हि गान्धार्याः कुन्त्याश्चानयनाय गमिष्यामीत्यत आह- दह्यमान इति ॥ अग्निभिर्गाहपत्यादिभिः । कथं भूते देहे । सहोदजे पर्णशालासहिते । साध्वीशब्देन कुंत्यापि ग्राह्या । पतिमन्वग्निं वेक्ष्यति प्राविशत् ॥ ५८ ॥

विदुरस्तु तदाश्चर्यं निशाम्य कुरुनन्दन ।

हर्षशोकयुतस्तस्माद्गन्ता तीर्थनिषेवकः ॥ ५९ ॥

इत्युक्त्वाऽथारुहत्स्वर्गं नारदः सहतुम्बुरुः ।

युधिष्ठिरो वचस्तस्य हृदि कृत्वाऽजहाच्छुचः ॥ ६० ॥

॥ इति श्रीमद्भागवते द्वादशोऽध्यायः ॥

तात्पर्यम्

एतत्सर्वं पूर्वमेव ज्ञात्वा तस्मादेव कारणाद् विदुरस्तीर्थानि ययौ ॥ ६० ॥

पदरत्नावली

एष्यज्ज्ञस्य विदुरस्य धृतराष्ट्रवनप्रवेशाद् उपरितनाचरणप्रकारमाह- विदुर इति ॥ सर्वज्ञो विदुरः दिव्यज्ञानेन भविष्यदाश्चर्यं धृतरष्ट्रपाण्डवयादवानां स्वर्निर्याणं निशाम्य हरिसामर्थ्यस्मरणेन बन्धुमरणस्मरणेन च हर्षशोकान्वितः ‘सर्वमनित्यम् ईश एव नित्यस् ततस् तीर्थयात्रादितत्सेवैव पुरुषार्थप्रदे’त्यतः कारणात् तीर्थनिषेवको गन्ता । गङ्गादितीर्थानां भागवतादिशास्त्राणाञ्च सेवनाय ययौ । तुशब्दो गन्तेति लुटो भूतार्थत्वभेदमाह । ‘तुः स्याद्भेदेऽवधारणे’ इत्यभिधानात् । स च पुनः धृतराष्ट्रपरिसरमागतो भवत्सु धृतराष्ट्रादिदिदृक्षया वनं गतेषु भवन्तं प्रविश्य एकत्वमागतो हि । तस्मान् न तस्य गतिर्मया वर्णनियेति भावः । पुरा दिदृक्षार्थं वनमागतेषु पाण्डवेषु राजानं प्रविश्यैकत्वमागत इति स्कान्दकथितार्थभेदे वा वर्तत इति तुशब्दः ॥

सतुम्बुरुरिति वक्तव्ये सहतुम्बुरुरिति नारदः सर्वदा तुम्बुरुणा सहैव वर्तते, न तं विहायेति द्योतनार्थः । कुन्त्यादिविषयाः शुुचः ॥ ५९,६० ॥

॥ इति श्रीमद्भागवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे द्वादशोऽध्यायः ॥

प्रकाशिका

धृतराष्ट्रस्य यथा गृहपरित्यागोऽन्यप्रेरणेनैव जातो, न तथा विदुरस्य किन्तु स्वबुद्ध्यैवेत्याह- विदुरस्त्विति ॥ तुशब्दो धृतराष्ट्रात्ज्ञानित्वरूपविशेषद्योतकः । अवधारणार्थो वा । तस्मादित्यनेन सम्बध्यते । तत्कौरवविनाशादिरूपमाश्चर्यं हरेः कर्तव्यं ज्ञानदृष्ट्या निशाम्य पूर्वमेवावलोक्य । हरिसामर्थ्यानुसन्धानेन हर्षो बन्धुमरणेन शोकस्ताभ्यां युतः । तस्मादासन्नविनाशेषु नासक्त्या प्रयोजनमित्यस्मात्कारणाद्युद्धात्पूर्वमेव । तीर्थनिषेवकस्तीर्थानि सेवितुं गन्ता गतः । युद्धानन्तरमग्रजदर्शनार्थमागतोऽपि न गृहं गतः । अत एव धृतराष्ट्रेण सह पुनर्वनं गतस्तत्रैव त्वया पूर्वमेकीभूत इति वाक्यशेषः । शुचः शोकान् ॥ ५९,६० ॥

**॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां **

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायां द्वादशोऽध्यायः ॥ १-१२ ॥