११ एकादशोऽध्यायः

अश्वत्थाम्ना विसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा

अथ एकादशोऽध्यायः

शोनक उवाच—

अश्वत्थाम्ना विसृष्टेन ब्रह्मशीर्ष्णोरुतेजसा ।

उत्तराया हतो गर्भ ईशेनोज्जीवितः पुनः ॥ १ ॥

पदरत्नावली

वैराग्यप्रकारः हरेर्भक्तानुकम्पितत्वञ्चास्मिन्नध्याये प्रतिपाद्यते । तत्र ‘उपलेभेऽभि-धावन्तीमुत्तरामि’त्यादिश्रुतानुवादपूर्वकं परीक्षिज्जन्मादिप्रवृत्तिं पृच्छति शौनक इत्याह- अश्वत्थाम्ने-त्यादिना ॥ उरुतेजसा अश्वत्थाम्ना विसृष्टेना ब्रह्मास्त्रेण उत्तराया हतो गर्भः पुनरीशेनोज्जीवित इत्येकान्वयः ॥ १ ॥

प्रकाशिका

‘परीक्षितोऽथ राजर्षेर्जन्मकर्मविलापनम् । संस्थाञ्च पाण्डुपुत्राणां वक्ष्ये कृष्ण-कथोदयाम्’ इति प्रतिज्ञाय पाण्डवानां राज्यस्थितिरूपोद्घातरूपा निरूपिता । इदानीं प्रतिज्ञातं परीक्षिज्जन्मादिकमुक्ता अनुवादपूर्वकं पृच्छति- अश्वत्थाम्नेति ॥ ब्रह्मशीर्ष्णा ब्रह्मास्त्रेण । पुनरित्यनन्तर-मिति त्वयोक्तमिति शेषः ॥ १ ॥

तस्य जन्म महाबुद्धेः कर्माणि च गृणीहि नः ।

निधनञ्च यथैवासीत्स प्रेत्य गतवान्यथा ॥ २ ॥

पदरत्नावली

निधनं मरणम् । यथा कथम् । प्रेत्या मृत्वा । गतवान् । कं लोकमिति शेषः

॥ २ ॥

प्रकाशिका

निधनं मरणम् । यथा कथम् । प्रेत्य मृत्वा । गतवान् । लोकमिति शेषः ॥ २ ॥

तदिदं श्रेतुमिच्छामि वक्तुं वा यदि मन्यसे ।

ब्रूहि नः श्रद्दधानानां यस्य ज्ञानमदाच्छुकः ॥ ३ ॥

पदरत्नावली

‘वक्तुं वा यदि मन्यत’ इत्यनेन वक्तव्यस्यातिगोप्यत्वं सूचयति ॥ ३ ॥

प्रकाशिका

वाशब्दोऽवधारणे । नास्माकं त्वयि बलात्कारः, किन्तु त्वमेव यद्यनुग्रहेण वक्तुं मन्यसे तर्हि ब्रूह्येवेत्यर्थः । यस्य ज्ञानमदाच्छुक इति श्रोतुमिच्छायां हेतुः ॥ ३ ॥

सूत उवाच—

अपीपलद्धर्मराजः पितृवद्रञ्जयन्प्रजाः ।

निस्पृहः सर्वकामेभ्यः कृष्णपादानुसेवया ॥ ४ ॥

पदरत्नावली

अपीपलद् अरक्षत् । ‘निस्पृहः सर्वकामेम्य’इत्यनेन कृष्णपादसेवाया अति-स्वादुत्वं दर्शितम् । कामानां तिक्तत्वञ्च ॥ ४ ॥

प्रकाशिका

युधिष्ठिरस्य राज्यपरिपालनसमयेऽश्वमेधकरणात्पूर्वमेव परीक्षिजन्मजातमिति सूचयितुं पुनः युधिष्ठिरराज्यपरिपालनादिकं सङ्क्षेपत आह- अपीपलदिति ॥ अपीपलदरक्षत् । निस्पृहः सर्वकामेभ्य इति कामानां हेयत्वम् । कृष्णपादानुसेवयेति कृष्णपादसेवाया उपादेयत्वं चोक्तम् ॥ ४ ॥

सम्पदः क्रतवो विप्रा महिषी भ्रातरो मही ।

जम्बुद्वीपाधिपत्यञ्च यशश्च त्रिदिवं गतम् ॥ ५ ॥

पदरत्नावली

एतदेव स्पष्टमाह- सम्पद इति ॥ ५ ॥

प्रकाशिका

तदुभयं विशदमाह- सम्पद इति ॥ ते सम्पदादयः ॥ ५ ॥

किन्ते कामातुरस्यार्था मुकुन्दमनसो द्विजाः ।

नाधिजह्रुर्मुदं राज्ञः क्षुधितस्य यथेतरे ॥ ६ ॥

पदरत्नावली

कामातुरस्य अर्था विषया विषयविरक्तस्य मुकुन्दमनसः युधिष्ठिरस्य अर्थाः किं ? पुरुषार्थत्वेन नार्थ्याः । कुत इति तत्राह- नेति ॥ यथा क्षुधितस्य इतरे वीणादयः न तृप्तिं कुर्वन्ति । तथा अन्ते दुःखहेतुत्वात् ते मुदं नाकुर्वन्नित्यर्थः । अनेन विषयवैराग्यातिशये मोक्षसुखातिशयो दर्शितः ॥ ६ ॥

प्रकाशिका

मुकुन्दे एव मनो यस्य राज्ञः । अर्थाः पुरुषार्थाः किं, नैव । यतः कामातुर-स्यार्थाः पुरुषार्थाः । अयं तु विरक्तः । अतस्तस्य मुदं नाधिजह्रुर्नाधिक्येन कृतवन्तः । क्षुधितस्यान्नैकमनसो यथेतरे स्रक्चन्दनादयो मुदं न कुर्वन्ति तद्वत् ॥ ६ ॥

मातुर्गर्भगतो वीरः स तदा भृगुनन्दन ।

ददर्श पुरुषं कञ्चिद्दह्यमानोऽस्त्रतेजसा ॥ ७ ॥

पदरत्नावली

कंचिद् लोकविलक्षणम् ॥ ७ ॥

प्रकाशिका

इदानीं प्रकृतमाह- मातुरिति ॥ कञ्चिल्लोकविलक्षणम् ॥ ७ ॥

अङ्गुष्ठमात्रममलं स्फुरत्पुरटमौलिनम् ।

आपीच्यदर्शनं श्यामं तटिद्वाससमच्युतम् ॥ ८ ॥

पदरत्नावली

स्फुरत्पुरटमौलिनं देदीप्यमानस्वर्णमुकुटम् । आपिच्यदर्शनम् आषोडशवर्षवद् दृश्यमानम् । मेघश्यामम् ॥ ८ ॥

प्रकाशिका

स्फुरत्पुरटमौलिनं दीप्यमानस्वर्णमुकुटम् । व्रीह्यादित्वादितिः । आपीच्यः षोडशवर्षस्तद्वदृश्यमानम् ॥ ८ ॥

श्रीमद्दीर्घचतुर्बाहुं तप्तकाञ्चनकुण्डलम् ।

क्षतजाक्षं गदापाणिमात्मनः सर्वतोदिशम् ॥ ९ ॥

परिभ्रमन्तमुल्काभां भ्रामयन्तं गदां मुहुः ।

अस्त्रतेजः स्वगदया नीहारमिव गोपतिः ।

विधमन्तं सन्निकर्षे पर्यैक्षत क इत्यसौ ॥ १० ॥

पदरत्नावली

क्षतजवद् रुधिरवद् अरुणे अक्षिणी यस्य सस् तथा तम् । आत्मनः स्वस्य सर्वतोदिशं पूर्वादिदिक्षु परिभ्रमन्तं परितो वर्तमानम् । उल्काभां गगनात्पतत्तारकाविशेषसदृशीम् । गोपतिः सूर्यः । नीहारं हिमम् । विघमन्तं शमयन्तम् । पुनः सन्निकर्षे समीपे दृष्ट्वा कोऽयं पुरुष इति पर्यैक्षत आलोचनमकरोत् ॥ ९,१० ॥

प्रकाशिका

क्षतजं रक्तं तद्वदक्षिणी यस्य तम् आत्मनः स्वस्य । सर्वतो दिशं सर्वासु दिक्षु ॥ परिभ्रमन्तं परितश्चलन्तम् । उल्काभां गगनात्पतत्तारकसदृशीम् । नीहारं हिमम् । गोपतिः सूर्य इव । विघमन्तं नाशयन्तं सन्निकर्षे समीपे ददर्शेत्यन्वयः । दृष्ट्वा चासौ क इति पर्यैक्षत तर्कितवान् । अनेन परीक्षिदिति नामनिर्वचनं कृतं भवति ॥ ९,१० ॥

विधूय तदमेयात्मा भगवान् धर्मगुब्विभुः ।

मिषतो दशमास(स्य)स्य तत्रैवान्तर्दधे हरिः ॥ ११ ॥

पदरत्नावली

धर्मं गोपायति रक्षतीति धर्मगुप् । अमेयात्मा अनन्तरूपः दशमास्यस्य दशमासभवस्य कुमारस्य पश्यतः सत इति शेषः । विभुः समर्थः । हरिः सर्वपापहरणशीलः । भगवान् षड्गुणोपेतः ॥ ११ ॥

प्रकाशिका

धर्मं गोपायति रक्षतीति धर्मगुप् । दशमासस्य दशमासकालावच्छिन्नस्य । मिषतः पश्यतः सतः । उत्पन्नमपि लोकसमक्षं रक्षितवानित्यपि ग्राह्यम् ॥ ११ ॥

ततः सर्वगुणोदर्के सानुकूलग्रहोदये ।

जज्ञे वंशधरः पाण्डोर्भूयः पाण्डुरिवौजसा ॥ १२ ॥

पदरत्नावली

ततः हरेर् अदर्शनानन्तरम् । सर्वगुणोदर्के सकलगुणोत्तरफले । सानुकूला ये ग्रहास् तेषामुदयो ऽस्मिन् सस् तथोक्तस् तस्मिन् काले पाण्डोर् वंशधरः सन्तानानुच्छेदकर्ता ओजसा भूयः पुनरुत्पन्नः पाण्डुरिव स्थितः ॥ १२ ॥

प्रकाशिका

सर्वैर्गुणैरुदर्क उत्कृष्टस्तस्मिन् । सानुकूला ये ग्रहास्तेषामुदयो यस्मिन्स तथोक्तस्तस्मिन् लग्ने । ओजसा भूयः पुनरुत्पन्नः पाण्डुरिव स्थितः ॥ १२ ॥

तस्य प्रीतमना राजा विप्रैर्धौम्यकृपादिभिः ।

जातकं कारयामास वाचयित्वा च मङ्गलम् ॥ १३ ॥

पदरत्नावली

जातकं जातकर्म । मङ्गलं पुण्याहम् ॥ १३ ॥

प्रकाशिका

जातकं जातकर्म । मङ्गलं पुण्याहम् ॥ १३ ॥

हिरण्यं गां महीं ग्रामान्हस्त्यश्वान्नृपतिर्वरान् ।

प्रादात्स्वन्नञ्च विप्रेभ्यः प्रजातीर्थे स तीर्थवित् ॥ १४ ॥

पदरत्नावली

तीर्थं शास्त्रं पात्रं वा वेत्तीति तीर्थवित् । प्रजातीर्थे पुत्राख्यशुद्धजले पुत्रजन्मशुद्धकाले वा । सतीर्थविदित्येकं वा पदम् । सतीर्थज्ञ इत्यर्थः ॥ १४ ॥

प्रकाशिका

वरान् श्रेष्ठान् । स्वन्नं शोभनान्नम् । यावन्न छिद्यते नालं तावन्नाप्नोति सूतकम् । छिन्ने नाले ततः पश्चात्सूतकं तु विधीयत इति वचनान् नालच्छेदात्पूर्वमेवान्नं दत्तवानिति भावः । आमान्नं वा । प्रजातीर्थे पुत्रोत्पत्तिपुण्यकाले । ‘पुत्रे जाते व्यतीपाते दत्तं भवति चाक्षयमि’ति वचनात् । तीर्थं शास्त्रं पात्रं वा वेत्तीति तीर्थवित् ॥ १४ ॥

तमूचुर्ब्राह्मणास्तुष्टा राजानं प्रश्रयानतम् ।

एष ह्यस्मिन्प्रजातन्तौ कुरूणां पौरवर्षभ ॥ १५ ॥

दैवेनाप्रतिघातेन कुले संस्थामुपेयुषि ।

रातो वोऽनुग्रहार्थाय विष्णुना प्रभविष्णुना ॥ १६ ॥

तस्मान्नम्ना विष्णुरात इति लोके बृहच्छ्रवाः ।

भविष्यति न सन्देहो महाभागवतो महान् ॥ १७ ॥

पदरत्नावली

प्रश्रयानतं प्रावण्यगुणावनतम् । कुरूणां कुरुवंशजातानाम् । अस्मिन् कुले प्रजातन्तौ पुत्राख्यसन्ताने संस्थां विनाशम् उपेयुषि गच्छति सति वः युष्माकम् अनुग्रहाख्यप्रयोजनाय प्रभविष्णुना विष्णुना रातो दत्त इति यस्मात् तस्माद् लोके विष्णुरात इति बृहच्छ्रवा विख्यातयशा भविष्यति ॥ १५-१७ ॥

प्रकाशिका

हे पौरवर्षभ पुरुवंशेषु श्रेष्ठ । कुरूणां कुरुवंशजातानाम् । अस्मिन्कुले प्रजातन्तौ पुत्राख्यसन्ताने । अप्रतिघातेन दुर्वारेण दैवेन संस्थां विनाशमुपेयुषि गच्छति सति वोऽनुग्रहार्थाय यस्मात्प्रभवनशीलेन विष्णुना रातो दत्तस्तस्माल्लोके विष्णुरात इति नाम्ना भविष्यति । बृहच्छ्रवा विख्यातयशाः । महाभागवतश्च गुणैश्च महान् भविष्यति ॥ १५-१६ ॥

राजोवाच—

अप्येष वंश्यान्राजर्षीन्पुण्यश्लोकान्महात्मनः ।

अनुवर्तिता स्विद्यशसा साधुवादेन सत्तमाः ॥ १८ ॥

पदरत्नावली

ब्राह्माणवचनानन्तरं युधिष्ठिरस्तानप्राक्षीदित्याह- अपीति ॥ हे सत्तमाः । अपिशब्दस्य स्विदित्यनेनान्वयः । साधुषु वादो यस्य तत् साधुवादम् । तेन । साधुरिति वादेन वा

॥ १८ ॥

प्रकाशिका

ब्राह्मणैरेवमुक्ते हृष्टः पृच्छति- अप्येष इति ॥ अपि स्विदित्यन्वयः । साधुवादो वचनं तेन । साधुरिति वादेन वा । अनुवर्तिता भविष्यतीत्यस्यातः परमप्यन्वयः । हे सत्तमाः ॥१८॥

ब्राह्मणा ऊचुः—

पार्थ प्रजाविता साक्षादिक्ष्वाकुरिव मानवः ।

ब्रह्मण्यः सत्यसन्धश्च रामो दाशरर्थियथा ॥ १९ ॥

तात्पर्यम्

**रामो दाशरथिर्यथा अधिकदृष्टान्तः । **

ऊर्णनाभ्यादिको विष्णोर्विष्णुर्विष्णोस्तथैव च ।

विष्णुर्जीवस्य दृष्टान्त ऊनसाम्याधिकः क्रमात् ॥ इति ब्राह्मे ॥ १९ ॥

पदरत्नावली

हे पार्थ पृथायाः सुत युधिष्ठिर । मानवः मनुपुत्रः । प्रजानामविता । दाशरथिर् दशरथपुत्रः । सत्यसन्धः सत्यप्रतिज्ञः ॥ १९ ॥

प्रकाशिका

प्रजानामविता रक्षकः । मानवो मनुपुत्रः । ब्रह्मण्यो ब्राह्मणेषु हितः । सत्यसन्धः सत्यप्रतिज्ञः । दाशरथिर्दशरथपुत्रः । रामस्य दृष्टान्तत्वोक्त्या परीक्षित्साम्यप्रतीतिवारणाय तात्पर्यमाह- राम इति ॥ इतिशब्दोऽध्याहार्यः । अधिकदृष्टान्तः । उच्यत इति शेषः । यथाशब्दस्य सादृश्यमात्रार्थ-त्वादधिकेऽपि न्यूनसादृश्यसद्भावात्दृष्टान्तत्वोपपत्तिरिति भावः । अनेन यथा देवो समाश्रय इति वक्ष्यमाणमप्युक्ततात्पर्यम् । उपलक्षणं चैतत् । कार्तवीर्यार्जुनादयः पितामहपर्यन्ता ये परीक्षिदपेक्षयोत्तमा अत्रोक्तास्तेऽप्यधिकदृष्टान्ततयैवोक्ताः । इतरे क्षितिपाः समदृष्टान्ताः । मृगेन्द्रादय ऊनदृष्टान्ता इत्यपि ग्राह्यम् । एवं दृष्टान्तत्रैविध्ये प्रमाणं दर्शयति- ऊर्णनाभ्यादिक इति ॥ आदिक इत्यनेन यथा पृथिव्या-मोषधयः सम्भवन्तीत्यक्तपृथिव्यादिग्रहणम् । दृष्टान्त इत्यस्यात्र विष्णुरित्यत्र च सम्बन्धः । जीवस्य परिक्षिदादेः । क्रमादूनसाम्याधिका आद्य ऊनः । द्वितीयः समस्तृतीयोऽधिक इति विवेकः ॥ १९ ॥

एष धाता शरण्यञ्च यथा ह्यौशीनरः शिबिः ।

यशो वितनिता स्वानां दौष्यन्तिरिव यज्वनाम् ॥ २० ॥

पदरत्नावली

औशीनर उशीनरपुत्रः । दौष्यन्तिर् दुयष्यन्तपुत्र इव यज्वनां यशोविस्तारकर्ता यथा तथा अयमपि स्वानां स्ववंशजन्मनां यशो वितनिता ॥ २० ॥

प्रकाशिका

औशीनर उशीनरपुत्रः । उशीनरदेशाधिपतिरिति वा । शिबिना हि स्वमांसं श्येनाय दत्वा शरणागतः कपोतो रक्षितः । स्वानां ज्ञातीनां यज्वनां च । दौष्यन्तिर्दुष्यन्तपुत्रो भरत इव । यशो वितनिता विस्तारकर्ता ॥ २० ॥

धन्विनामग्रणीरेषस् तुल्यश्चार्जुनयोर्द्वयोः ।

हुताश इव दुर्धर्षः समुद्र इव दुस्तरः ॥ २१ ॥

पदरत्नावली

द्वयोरर्जुनयोः कार्तवीर्यपाण्डवयोस् तुल्यः । दुर्धर्षः दुःसहः ॥ २१ ॥

प्रकाशिका

अर्जुनयोः कार्तवीर्यापाण्डवयोः । दुर्धर्षो दुःसहः ॥ २१ ॥

मृगेन्द्र इव विक्रान्तो निषेव्यो हिमवानिव ।

तितिक्षुर्वसुधेवासौ सहिष्णुः पितराविव ॥ २२ ॥

पदरत्नावली

तितिक्षुः क्षमावान् । पितरौ मातापितरौ सहिष्णुः सहनशीलः ॥ २२ ॥

प्रकाशिका

हिमवानिव सतां निषेव्यः । अनन्यगतिकृतत्वेन वसुधेव तितिक्षुः क्षमावान् । प्रीत्या पितरौ मातापितराविव सहिष्णुः सहनशीलः ॥ २२ ॥

पितामहसमः साम्ये प्रसादे गिरिशोपमः ।

आश्रयः सर्वभूतानां यथा देवो रमाश्रयः ॥ २३ ॥

पदरत्नावली

साम्ये सामञ्चस्ये । पितामहस्य विरिञ्चस्य समः । प्रसन्नतायां शिवसमः । रमाया आश्रयः पतिः ॥ २३ ॥

प्रकाशिका

साम्ये सामञ्जस्ये । पितामहो ब्रह्मा । ब्रह्मा देवान्दैत्यांश्च प्रति समञ्जसः । प्रसादे आशु प्रसादे ॥ २३ ॥

सर्वसद्गुणमाहात्म्य एष कृष्णमनुव्रतः ।

रन्तिदेव इवोदारो ययातिरिव धार्मिकः ॥ २४ ॥

पदरत्नावली

सर्वैः सतां गुणैर् माहत्म्यं महात्मत्वं यस्य स तथोक्तः । अथवा सर्वसद्गुण-माहान्त्यविषये कृष्णं यादवेन्द्रम् अनुगतस् तथाभूतः । कृष्णमर्जुनं वा ॥ २४ ॥

प्रकाशिका

सर्वैः सद्गुणैर्यन्माहात्म्यं महत्त्वं तस्मिन्विषयेऽनुव्रतोऽनुगतः । तथाभूत इति यावत्

॥ २४ ॥

धृत्यां बलिसमः कृष्णे प्रह्लाद इव सद्ग्रहः ।

आहर्तैषोऽश्वमेधानां वृद्धानां पर्युपासकः ॥ २५ ॥

पदरत्नावली

धृत्यां धैर्ये । गृह्णातीति ग्रहो भक्तिः । सती भक्तिर् यस्य स तथोक्तः । ‘अम्बुवदग्रहणात्तु न तथात्वम्’ इति सूत्रात् ॥ २५ ॥

प्रकाशिका

धृत्यां धैर्ये । सति ब्रह्मणि ग्रह आग्रहो यस्य स तथा । सन् समीचीनो ग्रहो भक्तिर् यस्येति वा । आहर्ता कर्ता ॥ २५ ॥

राजर्षीणां जनयिता शास्ता चोत्पथगामिनाम् ।

निगृहीता कलेरेष भुवो धर्मस्य कारणात् ॥ २६ ॥

पदरत्नावली

राजर्षीणां कुमाराणां जनयिता उत्पादकः । उत्पथगामिनाम् अशास्त्रविहित-मार्गवर्तिनां शास्ता । धर्मस्य भगवतो दुःखापादनकारणात् कलेर् निग्रहिता निगृह्य शिक्षाकर्ता ॥ २६ ॥

प्रकाशिका

राजर्षीणां जनमेजयादीनां पुत्राणाम् । उत्पथगामिनां शास्त्रविरुद्धमार्गवर्तिनाम् । गोरूपाया भुवो वृषभरूपस्य धर्मस्य च कारणात्तद्रक्षणरूपान्निमित्तात् । कलेः शूद्रवेषस्य निग्रहीता निग्रहकर्ता ॥ २६ ॥

तक्षकादात्मनो मृत्युं द्विजपुत्रोपसर्जितात् ।

प्रपत्स्यत उपश्रुत्य मुक्तसङ्गः पदं हरेः ॥ २७ ॥

पदरत्नावली

द्विजपुत्रोपसर्जिताद् द्विजकुमारप्रेरितात् तक्षकनागान् मुक्तसङ्गः पुत्रादिसङ्गरहितः

॥ २७ ॥

प्रकाशिका

द्विजपुत्रेण शापेनोपसर्पितात्प्रापितात् हरेः पदं प्रपत्स्यते भजिष्यति ॥ २७ ॥

जिज्ञासितात्मयाथात्म्यो मुनेर्व्याससुतादसौ ।

हित्वेदं नृप गङ्गायां यास्यत्यद्धाऽकुतोभयम् ॥ २८ ॥

पदरत्नावली

व्याससुतात् श्रीशुकान् मुनेर् जिज्ञासितं विचारितम् आत्मनः परमात्मनः यथास्वरूपसम्बन्धिगुणादिकं येन स तथोक्तः । इदं शरीरम् अद्धा समीचीनम् । अकुतोभयं स्वरूपानन्दाविर्भावलक्षणं मोक्षं यास्यतीत्यन्वयः ॥ २८ ॥

प्रकाशिका

ततश्च जिज्ञासितं विचारितमात्मनः परमात्मनो याथात्म्यं सर्वोत्तमत्वादिरूपं माहात्म्यं येन स तथोक्तः । इदं शरीरम् । अद्धा निश्चयेन । न विद्यते कुतोऽपि भयं यस्मिंस्तद्वैकुण्ठम्

॥ २८ ॥

इति राज्ञ उपादिश्य विप्रा जातककोविदाः ।

लब्धापचितयः सर्वे प्रतिजग्मुः स्वकान्गृहान् ॥ २९ ॥

पदरत्नावली

लब्धा प्राप्ता अपचितिः पूजा यैस् ते तथोक्ताः ॥ २९ ॥

प्रकाशिका

लब्धाऽपचितिः पूजा यैस्ते तथा ॥ २९ ॥

स एष लोके विख्यातः परीक्षिदिति यः प्रभुः ।

सर्पदृ(द)ष्टिमनुध्यायन्परीक्षेत नरेष्विह ॥ ३० ॥

पदरत्नावली

यः प्रभुः सर्पदष्टिं तक्षकाख्यसर्पदंशनम् अनुध्यायन् निरन्तरं चिन्तयन् इह नरेषु समीप आगच्छत्सु परीक्षेतेति यस्मात् तस्मात् स एषः लोके परीक्षिदिति विख्यात इति परीक्षिन्नाम-निरुक्तिरित्यन्वयः ॥ ३० ॥

प्रकाशिका

प्रकारान्तरेण परिक्षिदिति नाम निर्वक्ति- स एष इति ॥ यः श्रुतस्वचरितः । प्रभुः समर्थः सन् । सर्पदृष्टिं तक्षकाख्यसर्पदर्शनम् अनुध्यायन्सन्ततं चिन्तयन्निव स्वसमीपमागतेषु नरेषु परीक्षेतायमेव तक्षको भवेदुत नेति विचारयेदिति यद्यस्मात्तस्माद् एष लोके परीक्षिदिति विख्यात इत्यन्वयः ॥ ३० ॥

स राजपुत्रो ववृधे आशु शुक्ल इवोडुपः ।

आपूर्यमाणः पितृभिः काष्ठाभिरिव सोऽन्वहम् ॥ ३१ ॥

तात्पर्यम्

‘पूरयन्ति दिशः सोमं देवा गावः सरस्वती’ इति गारुडे ॥ ३१ ॥

पदरत्नावली

उडुपश्चन्द्रः शुक्ले पक्षे काष्ठाभिर् दिग्देवतासरस्वतीगोभिर् अन्वहं यथा पूर्यते तथा स राजपुत्रोऽपि पितृभिर् युधिष्ठिरादिभिर् अन्वहम् अन्नपानादिभिः पूर्यमाण ऐधतेत्यर्थः ॥ ३१ ॥

प्रकाशिका

शुक्ले पक्षे । उडुपश्चन्द्रः । य प्रसिद्धः । उडुप इति तच्छब्देनान्वयः । अत्र काष्टाभिः पञ्चदशकलाभिरिति व्याख्यानमशाब्दमित्याशयेन तव्द्याख्यानं प्रमाणेनैव सूचयति- पूरयन्तीति ॥ कलाभिरिति शेषः । दिशो दिङ्नामका देवता देवा वन्ह्यादयः । सरस्वतीत्यनन्तरमित्येते इति शेषः । ततश्च स प्रसिद्ध उडुपश्चन्द्रोऽन्वहं शुक्लपक्षे प्रतिपदमारभ्य पौर्णिमीपर्यन्तं काष्टाभिर्यथा आपूर्यमाणः सम्यक् पूर्यमाणकलो वर्धते यथा स राजपुत्रः परीक्षिदपि पितृभिर् युधिष्ठिरादिभिर् अन्नपानादिभिश् चतुष्षष्ठिकलाभिश्चापूर्यमाणो ववृधे ॥ ३१ ॥

यक्ष्यमाणोऽश्वमेधेन ज्ञातिद्रोहजिहासया ।

राजलब्धधनो दध्यावन्यत्र करदण्डयोः ॥ ३२ ॥

पदरत्नावली

ज्ञातिद्रोहजिहासया भीष्मादिवधनिमित्तपापहानेच्छया । अश्वमेधयज्ञेन भगवन्तं यष्टुकामो राजा करदण्डयोरन्यत्र करं दण्डञ्च वर्जयित्वा, न लब्धं धनं येन सो ऽलब्धधनः दध्यावित्यन्वयः ॥ ३२ ॥

प्रकाशिका

परीक्षिज्जन्मानन्तरमश्वमेधकरणमिति दर्शयन् अश्वमेधकरणं सप्रकारमाह- यक्ष्यमाण इति ॥ ज्ञातीनां भीष्मादीनां वधनिमित्तो यो द्रोहः पापं तज्जिघांसया हननेच्छया । यद्वा । ज्ञातिद्रोहजिघांसया । द्रोहो दुर्याेधनादिवधे विष्णुद्विट्तदनुबन्धिनिग्रहात्मकत्वात्परमधर्मभूते या पापत्वशङ्का तज्जनितं यत्पापं तस्य परिहारेच्छयेत्यर्थः । निशम्य भीष्मोक्तमथाच्युतोदितं प्रवृत्तविज्ञान-विधूतविभ्रम’’ इति पूर्वाध्याये दुर्योधनादिवधस्य पापत्वभ्रान्तेर्भीष्मवाक्येन निवृत्त्युक्तेः । ‘अपापे पापशङ्कितत्वादश्वमेधैर्यजाच्युतम्’इति कृष्णवेदव्यासाभ्यामुपदिष्टत्वाच्च । अश्वमेधेन यज्ञेन यष्टुं भगवन्तं पूजयितुं कामो यस्य स तथा । करदण्डयोरन्यत्र करं च दण्डं च वर्जयित्वा न लब्धं धनं येन स तथोक्तः ॥ ३२ ॥

तदभिप्रेतमालक्ष्य भ्रातरोऽच्युतनोदिताः ।

धनं प्रहीणमाजह्रुरुदीच्या भूरिशो दिशः ॥ ३३ ॥

पदरत्नावली

उदीच्या उत्तरास्या दिशः भूरिशः बहुलं प्रहीणं यज्ञशिष्टम् । मरुत्तेन पूर्वजेन स्थापितं धनम् ॥ ३३ ॥

प्रकाशिका

तदभिप्रेतम् । उत्तमकल्पेन यज्ञः कर्तव्यस्तदर्थं बहु धनमपेक्षितम् । हतशेषात्क्षत्र-सङ्घाद्दण्डेन करो न ग्राह्य इति तन्मनोगतमित्यर्थः । अच्युुतो व्यासस्तेन प्रेरिताः । प्रहीणं विष्ण्वादिकृतयज्ञोच्छिष्ठम् ॥ ३३ ॥

तेन सम्भृतसम्भारो लब्धकामो युधिष्ठिरः ।

वाजिमेधैस्त्रिभी राजा यज्ञेशमयजद्धरिम् ॥ ३४ ॥

पदरत्नावली

तेन द्रव्येण सम्भृतः सम्पन्नः सम्भारो यज्ञसाधनं येन सस् तथोक्तः ॥ ३४ ॥

प्रकाशिका

तेन द्रव्येण सम्भृतः सम्पादितः सम्भारो यज्ञोपकरणानि येन स तथोक्तः । त्रिभिस्त्रिगुणफलकैः ॥ ३४ ॥

आहूतो भगवान् राज्ञा याजयित्वा द्विजैर्नृषम् ।

उवास कतिचिन्मासान्सुहृदः प्रियकाम्यया ॥ ३५ ॥

पदरत्नावली

सुहृदः युधिष्ठिरस्य । प्रियेच्छया ॥ ३५ ॥

प्रकाशिका

यज्ञसमाप्त्यनन्तरं कतिचिन्मासान् ॥ ३५-३६ ॥

॥ इति श्रिमद्भागवते प्रथमस्कन्धे प्रथमाध्यायटिप्पण्यां

वेदेशतीर्थपूज्यपादशिष्ययदुपतिविरचितायाम् एकादशोऽध्यायः ॥ १-११ ॥

ततो राज्ञाऽभ्यनुज्ञातः कृष्णया सह बन्धुभिः ।

ययौ द्वारवतीं ब्रह्मन्सार्जुनो यदुभिर्वृतः ॥ ३६ ॥

॥ इति श्रिमद्भागवते एकादशोऽध्यायः ॥

पदरत्नावली

बन्धुभिः सह कृष्णया द्रौणद्या च अभ्यनुज्ञातः सार्जुनो ऽर्जुनेन सहितः । यदुभिश्च परिवृतः श्रीकृष्णः द्वारवतीं ययावित्यन्वयः ॥ ३६ ॥

॥ इति श्रीमद्भगवतटीकायां विजयध्वजतीर्थभिक्षुकृतायां प्रथमस्कन्धे एकादशोऽध्यायः ॥